द्वाविंशत्यवदानकथा · अध्याय 11
तस्माद् भिक्षवो ममान्तरे मम निर्वृते ऽनायके लोके इदं सूत्रं देशयितव्यम् ।
श्रुत्वा च प्रसादो भवति प्रसादजाते तथा करिष्यति तथा च कृत्वा तत्फलं प्राप्यते ध्रुवम् ॥
इति द्वाविंशत्यवदानकथायां धात्ववरोपणकथा दशमः परिच्छेदः ॥
xइ. मण्डलकथा
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो धात्ववरोपणफलानुशंसां श्रुत्वा भगवन्तं पुनर् एवम् आह ॥
भगवञ् श्रोतुम् इच्छामि, मण्डलं सुगतस्य च ।
क्रियते येन पूजार्थम्, फलं तेषां कथं विभो
भगवान् आह ॥
भवति कनकवर्णः सर्वरोगैर् विमुक्तः
सुरमनुजविशिष्टश् चन्द्रवद् दीप्तकान्तिः ।
धनकनकसमृद्धो जायते राजवंशे
सुगतवरगृहे ऽस्मिन् मण्डलं यः करोति
इति भाषित्वा भगवान् तूष्णीभूतः स्थितः । तथानुष्ठिते भगवान् संचिन्तयति ॥
चन्द्रप्रभो बोधिसत्त्व इहागच्छत्व् इति सहचित्तोत्पादाद् भगवतश् चन्द्रप्रभो बोधिसत्त्वश् चन्द्रावभासलोकधातोर् अन्तर्हितः । तत्क्षणम् एव ऋद्ध्या विहायसा आगत्य गृद्धकूटे भगवतः पुरतो निषण्णः ॥ स भगवतः पादौ शिरसाभिवन्दित्वा, एकान्ते निषीदति । स च साक्षाच् चन्द्र इव रूपसौन्दर्यश् चन्द्र इव प्रभाविराजितशीतरश्मिः । समन्तयोजनो ऽस्य तेजसावभासितः ॥
अथ स बोधिसत्त्व उत्थायासनाद् भगवन्तं त्रिधा प्रदक्षिनीकृत्य उत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्या येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत् ॥ भगवन् कस्मिन् सति भवप्रत्ययो जायते । कस्य निरोधो निरोधात् पुनर् भवेत् । किं भवो निरुध्यते ॥
भगवान् आह ॥ साधु साधु चन्द्रप्रभ । भिक्षवः पश्य त यूयम् अपि तथा शृणोथ । इदं सूत्रं संप्रकाशयिष्ये दशबलसमन्वागतो ऽ हं चतुर्वैशारद्यविशारद उदाराम् आर्षभं पर्षदि सिंहनादं नदामि । यद् उतास्मिन् सतीदं भवत्य् अस्योत्पाद् आद् इदम् उत्पद्यते । यद् उताविद्याप्रत्यया त् संस्कारः, संस्कारप्रत्ययाद् विज्ञानं विज्ञानप्रत्ययान् नामरूपं नामरूपप्रत्ययात् षडायतनं सडायतनप्रत्ययात् स्पर्शः स्पर्शप्रत्ययात् तृष्णा तृष्णाप्रत्ययाद् उपादानम् उपादानप्रत्ययाद् भवो भवप्रत्ययाज् जातिर् जातिप्रत्ययाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा ः संभवन्ति । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । यद् उतास्मिन् न सतीदं न ( दक्: 113 ) सतीदं न भवति । अस्य निरोधाद् इदं निरुध्यते । यद् उताविद्यानिरोधात् संस्कारनिरोधः संस्कारनिरोधाद् विज्ञाननिरोधो विज्ञाननिरोधान् नामरूपनिरोधो नामरूपनिरोधात् षडायतननिरोधः षडायतननिरोधात् स्पर्शनिरोधः स्पर्शनिरोधाद् वेदनानिरोधो वेदनानिरोधात् तृष्णानिरोधस् तृष्णानिरोधाद् उपादाननिरोध उपादाननिरोधाद् भवनिरोधो भवनिरोधाज् जातिनिरोधो जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति । स्वाख्यातो मे भिक्षवो धर्म उत्तानो विवृतश् छिन्नप्लोतिको यावद् देवमनुष्येभ्यः सम्यक् संप्रकाशितः ॥
अस्मिन् खलु धर्मपर्याये भाष्यमाणे चन्द्रप्रभेण बोधिसत्त्वेन अष्टादशावेणिकबुद्धधर्माः प्रतिलब्धा ः षट्पारमिता एव प्रतिलब्धा श् च ॥
अथ खलु भगवांस् तस्यैव व्याकरणम् अनुप्रयच्छति ॥
साधु साधु कुलपुत्र, अस्मिंस् तव लोकधातौ चन्द्रप्रभो नाम तथागतो ऽर्हन् भविष्यतीति ॥
विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः ।
देवानां च मनुष्याणां शास्ता लोके भविष्यति
अथ स बोधिसत्त्वो भगवतस् तथागतस्य व्याकरणम् अनुप्राप्य प्रसादजातेन भगवन्तं त्रिप्रदक्षिणीकृत्य भगवतः पादौ शिरसा वन्दित्वा स्वभवनं प्रक्रान्तः ॥
अथ खलु भिक्षवस् तस्य बोधिसत्त्वस्य अभिरूप ं दर्शनीयं प्रासादिकं च दृष्ट्वा भगवन्तम् एव ऊचुः ॥ कानि भदन्त चन्द्रप्रभेण बोधिसत्त्वेन कर्माणि कृतानि, अभिरूपो दर्शनीयः प्रासादिकः ॥ भगवान् आह ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवतिकल्पे विपश्वी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः सस्ता देवानां च मनुष्याणां च बुद्धो भगवान् बन्धुमतीं राजधानीम् उपश्रित्य विहरति स्म ॥ तेन खलु पुनः समयेन भगवान् विपश्वी सम्यक्संबुध्ह इहैव विहारान् निष्क्रम्य त्रायत्रिंशेषु भवनेषु विहरति ॥
अथ ते जनकाया भगवन्तं विना स्थातुमनो नोत्सहन्ते ॥ ततस् ते जनकाया भगवतो विपश्विनः श्रावकोत्तम ः सुनन्दभिक्षुस् तम् ऊचुः ॥ क्व गच्छति भगवान् विपश्वी चिरं दिवसम् अदृष्ट्वा सर्वे जनकाया भगवन्तं द्रष्टुम् आकाङ्क्षमाणाः स्थिताः ॥
सुनन्दभिक्षुर् आह ॥ इहैव विहारे ऽहम् एकस् तिष्ठामि, स मयापि दर्शनं न प्राप्तो भगवान् ॥
तेन खलु पुनः समयेनान्यतमः श्रेष्ठी महार्द्धो धर्मकामः शुद्धाशयो भगवन्तम् अर्चनार्थं पुष्पधूपादीनि गृहीत्वा विपश्यिनः
सम्यक्संबुद्धस्य विहारे प्रविशति ॥ ततस् तेन भगवन्तम् अदृष्ट्वा पृष्टः ।
भगवान् क्व गच्छति । कुत्र विहरति । अहो मन्दभाग्यस्य भगवान् न प्राप्त इति ॥
सुनन्दो ऽपि पिण्डाय प्राविक्षत् ॥ ततस् तेन श्रेष्ठिना गोमयेनोपलिप्य मण्डलाकारं कृत्वा भगवतो ऽर्थे पूजा कृता । पुनस् तस्य बुद्धिर् उत्पन्ना ॥ अनेनैवंविधिना गोमयेनोपलिप्य मण्डलम् अविधाय कः पूजयिष्यति । तत् कस्मान् मन उत्सहन्ते शून्यस्थाने । अत एवम् अहं सौवर्णमयं मण्डलं निर्मापयिष्ये । ( दक्: 116 ) तथा कृते सर्वे जनकायास् तथागतपूजनाय मनःप्रसन्नता ं भवेयुः ॥ इति चिन्तयित्वा स श्रेष्ठी चतुरस्रप्रमाणेन मण्डलं कर्मकरेण कारयित्वा विहारमध्ये निर्मापितः ॥ तदनन्तरं स श्रेष्ठी तं निर्मापयित्वा वीथिम् अवतरन् सर्वजनकायान् आहूयोक्तः ॥ ये ये तथागतार्चनाभिलाषजनास् तस्मिन् मण्डले ऽर्चयितव्याः । यावद् भगवान् विपश्वी सम्यक्संबुद्धो नागतस् तावद् इति ॥ तच् छ्रुत्वा ततः प्रभृति सर्वे बन्धुमतीजनकायास् तं दृष्ट्वा प्रसादजाता भगवतो ऽर्थं पूजां कृताः ॥
अथापरेण समयेन श्रेष्ठी मण्डलम् अभ्यर्च्य प्रणिधानं कृतम् ॥ अनेन कुशलमूलेन वानप्रस्थबोधिसत्त्वो भवेयम् इति । पश्चिमकथागते संबोधिव्याकरणं प्रतिलभेयम् इति प्रणिधानं कृतम् ॥ ततः स बुद्धे भगवति मनः प्रसाद्य कालं कृत्वा कौरव्यराज्ञः महिषी तस्याः कुक्षाव् उपपन्नः ॥ ततो नवानां मासानाम् अत्ययात् पुत्रो जात अभिरूपः प्रासादिको दर्शनीयः । यदा जातमात्रेण तस्य प्रभया सर्वं ( दक्: 117 ) नगरम् अवभासितम् । यथा चन्द्रमोदितः शीतरश्मिस् तथा प्रभया स्फुटो ऽभूत् ॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्य व स्थापितम् । किं भवतु दारकस्य नामेति ॥
अमात्या ऊचुः ॥ यस्माद् अस्य प्रभा निःसृता तस्माद् भवतु दारकस्य चन्द्रप्रभ इति व्यवस्थापितम् ॥
ततो धात्रीवर्गा भिर् उन्नीयते वर्ध् य् अते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् च तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम् । यदा चन्द्रप्रभो दारको महान् संवृत्तः ॥ स च भद्र ः कल्याणाशयः प्रकृतिमेधावित्वात् सर्वशास्त्रविद्याधिगमे कौशलः शिल्पज्ञाने मणिरागे वाद्यवादिते गीतसंज्ञाने संगीतशास्त्रे धनुविद्यादिसंपन्नो ऽभूत् ॥
स बन्धुमित्राश्रितदीनवर्गान् संमाननीयान् अतिथीन् गुरूंश् च ।
प्रह्लादयाम् आस तया समृद्ध्या देशान् महामेघ इवाभिवर्षन्
सो ऽपरेण समयेन सहायानुचरैः परिवृतो राज्यकौशलकौतूहलं दर्शितुं समन्ततो नगराद् भ्रमन् लोकान् पश्यति । के चिद् वृद्धा ः कुब्जबधिरा इन्द्रियहीना व्याधिभिः स्पृष्टास् तान् पश्यति । के चित् सुन्दररूपयौवनमददर्पा गर्जितास् तान् पश्यति ॥ स तान् दृष्ट्वा तस्यैतद् अभवत् ॥ इह संसारे सर्वम् अनर्थम् एवम्, इदं शरीरम् अशौचपापाकुल ं रोगशोकस्थान ं भयाकुल ं मायानिर्मितम् अवीचिसदृशसंसारसमुद्रदुःखम् अहर्निशं प्रतापितम् । जरामरणनिवारणोपायं नास्ति । तस्मात् संसारसमुद्रतरणोपायम् अन्वेषयेयम् इति विचिन्त्य राजगृहं प्रविश्य तूष्णी ं भूत्वा चिन्तयाम् आस ॥
रागेण जायते लोभं शोकं लोभेन जायते ।
शोकेन शोषयेद् गात्रं मरणं तत्र प्राप्यते
तस्मात् सुखं न पश्यामि मानुषाणां कदा चन ।
ईदृशं दुःखसंसारे ऽ सुखसंज्ञा विधीयते
तथाविधे ऽसारके कः सारम् आदद्यात् ॥
ततः स चन्द्रप्रभः पितरं राजानं विज्ञापितवान् ॥ तात शृणु मे वाञ्छा म् । तव शुद्धकुले जातो ऽहं कस्मै चिद् भिक्षार्थिकेभ्यः श्रमणब्राह्मणवणीपकेभ्यो दानं दातुम् इच्छामि, तात ममाभिप्रायं शृणु ॥
दानं नाम महानिधानम् अनुगं चौराद्यसाधारणं
दानं मत्सरलोभदोषरजसः प्रक्षालनं चेतसः ।
संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं
दानं नैकसुखोपधानसुमुखं सन्मित्रम् आत्यन्तिकम्
विभवसमुदयं वा दीप्तिम् आज्ञागुणं वा
त्रिदशपुरनिवासं रूपशोभागुणं वा ।
यद् अभिलषति सर्वं तत् समाप्नोति दानाद्
इति परिगणितार्थः को न दानानि दद्यात्
तस्माद् अहं प्रार्थयामि ॥
ततो जनकः प्रहसन् तम् उवाच ॥ अहो शुद्धचेतो दुरासद, बालो ऽपि दानम् एव रोचते ॥ पुनर् आह ॥ पुत्र चन्द्रप्रभ किइन् भाषसे । नूनं तव विशये ऽन्नगृहपानगृह ं सुवर्णरजतमणिमुक्तासंपरिपूर्णं तत् सर्वं तवाधीनम् । यथेच्छया दानं कुरुष्वाभिप्रायम् ॥
स आह ॥ तात साधु भद्रं भवतु ॥ इत्य् उक्त्वा पितुर् वाचः शिरसा निधाय, श्रमणब्राह्मणवणीपकेभ्यो दानानि ददाति पुण्यानि करोति ॥
अथ तस्य दारकस्य चन्द्रप्रभस्य संसारनैर्गुण्यं बहुदोषयुक्तं मत्वा अगारमध्या वसितुं मनो न रमते । वनप्रस्थं गन्तुमन इति चिन्तितवान् ॥
तस्यैतद् अभवत् ॥
अयुक्तम् एतन् मातापितराव् अनिवेद्य कथं गच्छेयम् । अत एव मातापितराव् अग्रे निवेद्य वनप्रस्थं गच्छेयम् इत्य् आरोच्य येन पिता तेनोपसंक्रान्त उपसंक्रम्य पितरौ चाह ॥ तातानुजानीहि मे गृहावासे बहुदोषजालं मत्वाहं वानप्रस्थो भवेयं तत् तवाज्ञां देहीति ॥
एवम् उक्तौ पितरौ साश्रुवदनौ गद्गदकण्ठम् उच्छ्वास्य तम् ऊचतुः ॥ नार्हत्य् अत्रात्मज नौ हृदये शोकशल्यव्रणम् असंरूढम् एव उद्घटयितुं परमेण दुःखेनेति ॥
तथा क्षमं वेत्सि गृहानुरागं श्रेयःपथं वा वनवाससौख्यम् ।
अस्मान् अनाथान् अपहाय गेहे कस्माद् वनं वाञ्छसि गन्तुम् एकः
तच् छ्रुत्वा स आह ॥ पश्यतु देव ॥
प्रमादमदकन्दर्पलोभद्वेषास्पदे गृहे ।
तद्विरुद्धस्य धर्मस्य को ऽवकाशपरिग्रहः
विकृष्यमाणो बहुभिः कुकर्मभिः परिग्रहोपार्जनरक्षणाकुलः ।
अशान्तचेता व्यसनोदयागमैः कदा गृहस्थः शममार्गम् एष्यति
इति स परिगणय्य निश्चितात्मा प्रणयमयानि सुहृद्विचेष्टितानि ।
अनुनयमधुराक्षरैर् वचोभिर् विषदम् अपास्य तपोवनं जगाम
स तत्राप्रमाणानि ध्यानानि समुत्पाद्य दिवं समभिरुरोहेति ॥
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्रेष्ठी आसीत् । अयम् असौ चन्द्रप्रभो बोधिसत्त्वो विपश्विनः सम्यक्संबुद्धस्य विहारे सुवर्णमयमण्डलं निर्मापितःइ । तेन कर्मणो विपाकेन कौरव्यकुले राजत्वम् अनुभूय बोधिसत्त्वो भूत्वाष्टादशावेणिकबुद्धधर्मा न् षट् पारमिता ः प्रतिलब्धो ऽभूत् । मयापि संबोधौ व्याकृतःइ तेन यथा प्रणिधानं कृतं तथाभूत् नान्येनेति ॥
( दक्: 122 ) महाफलानुशंसा तथागातस्य मण्डलस्य फलानुशंसा ॥
पुनः शृणोथ ॥
भवति कनकवर्णः सर्वरोगैर् विमुक्तः
सुरमनुजविशिष्टश् चन्द्रवद् दीप्तकान्तिः ।
धनकनकसमृद्धो जायते राजवंशे
सुगतवरगृहे ऽस्मिन् मण्डलं यः करोति
ते प्राप्नुवन्ति सहसैव जनाधिपत्यं
दीर्घायुषो विविधरोगभयैर् विमुक्ताः ।
बुद्धस्य ये हि भुवनत्रयपूजितस्य
कृत्वा भवन्ति कुसुमैः सह मण्डलानि
दिव्यैः सुखैः सकलभोगवरैश् च युक्ता
मर्त्या भवन्ति कनकाधिकचारुवर्णाः ।
पद्मानना ः स्वविकलाङ्गविशालनेत्राः
पुष्पैर् गणस्य विविधैर् वसुधां विचित् र् य
मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0