भाषा

ENहिગુ
ग्रंथ पाठ

द्वाविंशत्यवदानकथा · अध्याय 10

10.1

पुनस् च विस्तरेण शृणु । तथागतेभ्यश् छत्त्रप्रदानतो राजा भवति चक्रवर्ती चतुरङ्गो विजितवान् धार्मिको धर्मराजः सप्तरत्नसमन्वागतःइ ॥ तद्यथा ॥
चक्ररत्नं हस्तिरत्नम् अश्वरत्नं स्तीरत्नं मणिरत्नं गृहपतिरत्नं परिणायकरत्नम् । एवं सप्तरत्नसमन्वागतो भवति राजा चक्रवर्ती चास्य पुत्रसहस्रं भवति शूराणां वीराणां वराङ्गरूपिनां परसैन्यप्रमर्दकानां । पुत्रसहस्रैः समन्वागतो भवति । स इमां महापृथिवीं ससागराम् अखिलम् अकण्ठ क म् अदण्डेनाशस्त्रेणाभिनिर्जित्याध्यासयति । एकपुरीम् इव पृथिवीं धर्मेण राज्यं करिष्यति । एवंरूपेण त्वं राजा भविष्यसि चक्रवर्ती चतुर्द्वीपेश्वर इति व्याकार्षीत् ॥ स भगवान् यथागत ं तथार्द्ध्या खगपथेन स्वं विहारं समाययौ ॥
अथ स राजा परिनिर्वृतस्य तथागतस्य च समन्तयोजन ं स्तूपं कारितवान् क्रोषम् उच्चत्वेन ॥ महाप्रमाणं छत्त्रं न्यस्तो पूजितो ऽभूत् ॥
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं सः । यन् मया क्षेमंकरसम्यक्संबुद्धस्य ( दक्: 94 ) स्तूपेषु श्रद्धया छत्त्रं न्यस्त ं एवंविधा पूजा मया चक्रवर्ती भूत्वा संसारे ऽनन्तसुखम् अनुभूतं । इदानीं तेनैव हेतिना शक्रेण देवानाम् इन्द्रेणास्य तथागतस्यैवंविधा मानिता पूजिता छत्त्रेण सहेति ॥ तस्माद् भिक्षवो बुद्धं भगवन्तं शास्तारम् इति ज्ञात्वा युष्माभिर् अपि सत्कारं कर्तव्यम् इति । तथा ममान्तरे मम निर्वृते संसारे सत्त्वेभ्य एवम् उदारतरं वाच्यम् अप्य् उन्नेयम् ॥
इति पुण्यप्रसादनद्वाविंशत्यवदानकथायां छत्त्रदानकथा नवमः परिच्छेदः ॥
x. धात्ववरोपणकथा
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् ॥
भगवं श् छत्त्रानुशंसां तव वाणीं श्रुत्वा प्रमोदं प्राप्तवान् ॥ पुनर् अपि
जिनस्य प्रकृतौ स्तूपे धातुम् आरोप्यते च यत् ।
फलं तेषां कथं नाथ वद त्वं ज्ञानसागर

10.2

तस्मिन् समये सो ऽपि भगवांल् लोकानुकम्पार्थम् इह गृध्रकूत एव विहरति ॥
भगवान् आह ॥
साधु शृणु महासत्त्व धात्वारोपणजं फलम् ।
पुण्यं तद् विशेषं च वक्ष्यामि सर्वबोधये

10.3

तद् यथैकस्मिं समये दक्षिणापथे धर्मकल्पो नाम राजा राज्यं कारयति ।
ऋद्धिस्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडम्बर ं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं प्रियम् इव पुत्रैकं राज्यं कारयति ॥ सो ऽपरेण समयेन देव्या ( दक्: 96 ) सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतो मासात्ययात् पुत्रो जात अभिरूपो दर्शनीयः प्रासादिक अतिक्रान्तमानुष्यवर्ण ः संप्राप्तदिव्यधातुश्लिष्टवर्णश् चानेन प्रभया सर्वं च नगरम् अवभासितो ऽभूत् ॥ तं दृष्ट्वा मातापितरव् अन्ये च लोकामात्यपर्षज्जनाः कौतूहलाभ्यागतः सत्त्वाः परं विस्मयम् आगता श् चिन्तय न् ति । कुतो ऽयं ईदृशः सत्त्वविशेष इति ॥
अथ तस्मिन् समये तस्य राज्ञो ग्रामग्रामण्याम् अधिकृतजना राजानम् आगत्य प्राहुः । भो महाराज तव विषयेषु स्थानेषु निधानप्लुता जाता ॥ के चिद् आहुः सुवर्णनिधानप्लुता जाता ॥ के चिद् आहू रूप्यस्य निदानप्लुता जाता ॥ के चिद् आहू रत्ननिदानप्लुता जाता ॥ एवम् अन्यम् अन्यान्य् अष्टौ निधानप्लुता जाता ॥ किं भवतु दारकस्य नामेति ॥ ज्ञातय ऊचुः ॥ अहो पुण्यस्य सामर्थः । यस्माद् अनेन जातेन, धातुश्लिष्टप्रभया ( दक्: 97 ) सर्वं नगरम् अवभासितम् । अपि त्व् अष्टौ धातूनां निधानप्लुता जाता । तस्माद् भवतु दारकस्य नाम धातुस्तेजराजकुमार इति नाम स्थापितम् ॥
तत उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम् । स च पण्डितो व्यक्तो मेधावी श्राद्धो भद्रः कल्याणाश्य आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धार्मिको धर्मकामः प्रजावत्सरस्वभावः ॥
यावद् अपरेण समयेन रूपमदमत्तो प्रभूतबलाक्रान्तः स स्वराज्यविषये विस्तरकौतुकः किं किम् अस्तीति तद्दर्शनार्थम् उपचक्राम, महत्या राजर्द्ध्या नानावाद्यं निनादयन् परिजनसहायपरिवृतो वडबासहस्रैर् नागसहस्रैः परिवृतो यथा शक्रोपचारैः शक्रपरिस्पर्ध्य् एवं स विभूत्या निष्क्रामति ॥
अथ ग्रामण्यां जनपदे विस्तरं दर्शितुं राजागच्छतीति शब्दम् अश्रौषीत् ॥ तदा सर्वे जना योग्यानुसारेण सर्ववस्तूनि संभाराणि सज्जीकृत्य राजानम् उपगम्य सर्ववस्तूपभोगपुरःसरेण तं सत्कारयाम् आस ॥
ततः स धातुस्तेज इतो नातिदूरे परमविस्तरसमतलस्थलभूमिम् अनुप्राप्तः । ततो राज्ञो मनसि उत्कण्ठित अश्ववेगेन क्रीडितुम् ॥ अथ राज्ञः सहायान् अत्र
विश्रामयति । अथ राजा द्विर् अपि त्रिर् अपि अश्ववेगं कृतवान् । ततो ऽश्वेनातिजवेनापहारितो गतः । परमदूरदेशे ऽश्वेन परित्यक्त्वा राज् मूर्छितः ।
मूर्छा परिगता, राजा क्षणेन चेतनां पुष्णाति । अश्वम् अदर्शनं प्राप्तः ॥ ततः सर्वे सहायजना राजानम् अदर्शनं प्राप्ता मनोभङ्गं कृत्वा प्रतिनिवृत्ताः ॥
अथ स राजा , प्रतिनिवृत्तं मार्गं न ज्ञायमानं दिशो ऽपि अविदितः , स्वेच्छया तद् भुवनं त्यक्त्वान्यत्र दूरभुवनं ययौ ॥ अथ राजा तत इतो नातिदूरे रमणकं नाम नगरं दृष्टं, स तद् उपजगाम । यावत् ततश् चतस्रो ऽप्सरसो निर्गता अभिरूपा दर्शनीया ः प्रासादिकास् ताः कथयन्ति । एहि धातुस्तेज स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम् ( दक्: 99 ) आगच्छ रंस्यामह इ ति ॥ स तथेति कृत्वा ताभिः सहानेकानि वर्षानि रतिम् अनुभूतवान् । अथापि तत्कृतपुण्य ः सत्त्व ः कृतकुशल ः । दक्षिणपद्धतिगमनाच् चैनं वारयन्ति ॥
स यतो दक्षिणायाः पद्धतेर् निवार्यते, ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम् ।
यावत् पुनर् अपि दक्षिणपथानुगच्छन् पश्यति सदामत्तं नाम नगरं । तत्र द्वारीभूतो यावत् तस्माद् अप्य् अष्टौ चाप्सरसो निर्गता अभिरूप् अतर् आ दर्शनीयतरा ः प्रासादिकतरास् ता ः कथयन्ति स्म । एहि धातुस्तेज स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यासनगृहं मणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम् आगच्छ रंस्यामहे ॥ स ताभिः सहानेकानि वर्षाणि रतिम् अनुभूतवान् । अथापि तत्कृतपुण्य ः सत्त्वः कृतकुशलः । ता अप्य् अस्य दक्षिणपद्धतिं वारयन्ति । स यतो दक्षिणायाः पद्धते र् निवार्यते, ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम् । यावत् पुनर् अपि दक्षिणेन पथा गच्छन् पश्यति नन्दनं नाम नगरम् । स तत्र द्वारीभूतो यावत् तस्माद् अपि षोडशाप्सरसो निर्गता अ भिरूप् अतर् आ दर्शनीयतराः प्रासादिकतरास् ताः कथयन्ति । ( दक्: 100 ) एहि धातुस्तेज स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यासनगृहं मणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम् आगच्छ रंस्यामहे ॥ स ताभिस् सहानेकानि वर्षाणि रतिम् अनुभूतवान् । अथापि तत्कृतपुण्यः सत्त्वः कृतकुशलः । ता अप्य् अस्य दक्षिणपद्धतिं वारयन्ति । स यतो दक्षिणायाः पद्धते र् निवार्यते ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम् ॥ यावत् पुनर् अपि दक्षिनेण पथा गच्छन् पश्यति ब्रह्मोत्तरं नाम प्रासादम् । स तत्र द्वारिभूतो यावत् तस्माद् अपि द्वात्रिंशद् अप्सरसो निर्गता अभिरूपतरा दर्शनीयतराः प्रासादिकतरास् ताः कथयन्ति । एहि धातुस्तेज स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवाडजातरूपारजतसंपूर्णम् आगच्छ रंस्यामहे ॥ स ताभिः सहानेकानि वर्षाणि रतिम् अनुभूतवान् । अथापि तत्कृतपुण्य ः सत्त्वः कृतकुशलः । ता अप्य् अस्य दक्षिना ं पद्धतिं वारयन्ति । स यतो दक्षिणायाः पद्धते र् निवार्यते । ततः सुष्ठुतरम् उत्कण्ठितो ( दक्: 101 ) गन्तुम् ॥ यथा दक्षिणां पद्धतिं गच्छति तथास्य इतः पद्धते यावत् पुनर् अपि दक्षिणेन पथा गच्छन् पश्यति महान्तं तप्तवालुकास्थलं, ततस् तीरेषूपगच्छति । अग्निदाह म् इव ज्वालागता ं वालुकां ददर्श ॥ तद् दृष्ट्वा मनोविह्वलतया इति चिन्तितः कथं गम्यते । कुत्र गच्छेयम् अहं नु भो ॥ तथा स्थिते उग्रजन्तुः समागतः । नाश्वो न खरो नोष्ट्रो न गावो मुखाकृतिर् न विद्यते । जन्तुर् एक उपागत्य तम् उवाच । मानव मे ऽङ्गपृष्ठे ऽवरोहय, इदं वालुकास्थले कथं हि गम्यते । यदि हिण्डते तव पादः कोमलगोधुमो मुशलप्रहारैर् विभेदयन्न् इव विशीर्यते । अत एव मे पृष्ठे ऽवरोहय परतीरं नीयते मया ॥ स अवरुरोह च तदा स जवेन नीयते । तत्क्षणम् एव तीरम् अनुप्राप्तः स जन्तुर् अन्तर्हितो ऽभूत् ॥
ततो दक्षिणेन पथा गच्छन् कस्मिंश् चित् स्थाने पश्यति प्रोज्ज्वलम् । ज्वलनेन स तप्यते ॥ स आह । केन कर्मणेति ॥ वनदाहवह्निदो ऽहं । तस्य कर्मणेति ॥
स पुनर् अपि दृष्टः । वायसगृद्धाद्यैर् आरटने ऽनिशं भुज्यते ॥ सो ऽवोचत् । को ऽ सौ केन कर्मणेति ॥ स आह ॥ अहं विश्वासघातकः । तेन कर्मणेति ॥

पुनर् अपि ज्वलदग्निगुडं मुखे विष्कम्भमाणम् अश्नाति । तं दृष्टवान् ॥ स आह । को ऽसौ ॥ सांघिकानां द्रव्यहरणे ने ति ॥
स पुनर् अपि दृष्टः । अयोज्वलिततीक्ष्णतरक्षुरमार्गे रटन् विशीर्णपादः प्रगच्छति ॥ तं दृष्ट्वाह ॥ का एवंविधाः ॥ स चाह ॥ धर्मसेतुं विषमे जले वा मर्गे कुटिले वा भिन्दन्ति । तस्य कर्मणेति ॥
पुनर् अपि प्रकीर्णकेशीस्त्रियौ स्वजानु दन्तैर् घृष्ट्वा स्थितौ । स आह । के स्त्रियौ केन वा कर्मणेति । ते ऊचतुः । अदान्नदाता कुशलैर् विहीनः । अन्नं न प्राप्तं द्वादशवर्षभूतम् ॥
पुनर् अपि इतो ऽभ्यन्तरं गच्छन् पश्यति । शाल्मली रटन्न् अष्टाङ्गुलायस्कण्टका संसक्तः ॥ स आह ॥ को ऽयं ॥ स चाह ॥ परदारागमनप्रसक्त इति ॥
स पुनर् अपि इतो दक्षिणेन पथा गच्छन् पश्यति । रज्जुना पादद्वयोर् बद्धा गले ऽवलम्ब्य केशेषु रज्जुना ग्रन्थयित्वा वृक्षे चालम्ब्य स्त्री नितम्बे ऽयोद ं ष्ट्रैः खाद्यते भ्र्शं ॥ तां दृष्ट्वा स आह । का एवंविधा ॥ साह ॥ आत्मस्वामिनम् अवहेलां कृत्य परपौर्षरतेनेति ॥
पुनर् अपि इतो दक्षिणेन पथा गच्छन् पश्यति । मस्तके ऽयोमयचक्रं भ्रामयन् पूयशोणितं प्रसरति शिरसो ऽस्य । तं दृष्ट्वा कथयति । अयं विधा कस्माद्
दुःप्रसह्यदुःखी कः ॥ स तम् आह ॥ मातुर् अपकाराद् इमं दुःप्रसह्यदुःखम् ।
अथ स पुनर् अपि इतो दक्षिणेन पथा गच्छन् पश्यति ।
महाकायो महोच्छ्रायपर्वतोदरसंनिभः ।
स्वकेशरोमप्रतिच्छन्नाङ्गः सूचीच्छिद्रोपमामुखः

10.4

तं दृष्ट्वा स प्राह । को ऽसाव् अयम् उग्ररूपो भयानकः ॥ स तम् आह । कस्मै चिद् दानं किंचिन्मात्रं न ददामि । दाननिवारकदानमात्सर्याद् इति ॥
पुनर् अपि इतो दक्षिणेन पथा गच्छन् पश्यति । अग्निकणा ः शिरसि वर्षन्ति महातृषार्तः ॥ तं दृष्ट्वा स प्राह । अहो विधेयं केन कर्मणेति ॥ स आह ॥
कस्मै चित् तृषार्तायागताय पानीयं पातुं न ददामि ॥ पुनस् तेन पातुं गच्छेद् ( दक्: 105 ) इति, तदा स चापि मृत्तिकाम् आदाय व्ययनं कृत्वा पानीयम् आविलं कृत्वा तद्धेतोर् इदं दुःखम् ॥
अथ स धातुस्तेजनृपः परलोकम् इतिनिश्चितम् इति संचिन्त्य तस्माद् दक्षिणपथाद् विमुखीभूय स्वराज्यविषयम् अनुप्राप्तः ॥
तदा तस्य पित्रा राज्ञा चिरकालेन न प्रत्यागतेन कालगत इति मत्वा पुत्रस्य नाम्ना प्रासादः कारितः । नानावाद्यभाण्डमृदङ्गताडझल्लवीणावेणुमुकुण्डतूर्यादि च्छत्त्रध्वजचामरादि प्रासादोपरि न्यस्त म् ॥ चाक्षराणि लिखितानि स्थापितानि । यदि तावद् धातुस्तेजकुमारो जीवति, तस्य माङ्गल्येन क्षिप्रम् आगमनाय, अथ च्युतः कालगतो वा गत्युपपत्तिस्थानविशेषतायै ॥ इत्य् अक्षराणि लिखित्वा तासु न्यस्ताः ॥
अथ स धातुस्तेजो नृपतिर् दृष्ट्वा पौरजनैर् अचिह्नत्वा केनापि अविचारितः ॥ ततस् तेन धातुस्ते जरा ज्ञा स्वनाम्न निर्मितप्रासादं ( दक्: 106 ) समन्ततः परिभ्रमन् पश्यति ॥ स्वनामलिखितं कौतूहलजातः स संलक्षयति । अहो मे मातापितृभ्यां मृत एव गृहीत इति निश्चयं मत्वा मे नाम्ना प्रतिमादिना प्रासादः कारितः । पित्रा राज्ञा तथाकृते भूय ः कथं संमुखी पश्येयं । अतः कारणाद् अत्र स्थातुं मनो न रमते । कैवल्यमोक्षमार्गं साधयेयम् इत्य् उक्त्वा तस्मात् स्थानाच् चरन्न् अन्यत्र मगधाभिमुखं जगाम ॥
अथ मागधाः सत्त्वास् तस्मिन्न् अवसरे गृद्धकूटम् आगमनायागच्छन्ति । ततस् तेन धातुस्तेजेन ता दृष्टाः पृष्टाश् च क्व भवन्तो गच्छन्ति ॥ तैर् उक्तं गृद्धकूटं गच्छामो बुद्धं भगवन्तं द्रष्टुम् इति ॥ धातुस्तेजसो बुद्ध इति अश्रुतपूर्वं नाम श्रुत्वा सर्वरोमकूपाण्य् आहृष्टानि परमकुतूहलम् उत्पन्नम् । तस्यैतद् अभवत् । यन् न्व् अहम् अपि बुद्धं भगवन्तं दर्शनायोपसंक्रमेयम् इति सो ऽपि जनैः सार्धं गृद्धकूतं गच्छति ॥
ततः स ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समन्वागतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्योमप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकं दृष्ट्वा प्रसादजातो भगवतः पादौ शिरसा वन्दित्वा पुरतो निषण्णो धर्मश्रवणाय ॥
अथ भगवान् आशयं ज्ञात्वा चतुरार्यसत्यप्रतिवेधिकी धर्मदेशना कृता ॥ यां श्रुत्वा प्रसादजातो भगवन्तम् एतद् अवोचत् ॥ भगवन् व्याकरोतु । अनुत्तरायां सम्यक्संबोधौ व्याकरोतु ॥
अथ भगवान् आह ॥ भविष्यसि त्वं कुलपुत्र धातुशिखरनामलोकधातो र् धातुस्तेजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् इति । व्याकरणं श्रुत्वा प्रव्रज्याग्रहणं चकार ॥ तत्क्षणे साक्षाद् अर्हत्त्वं प्राप्तम् ॥
ततो भिक्षवस् तं दृष्ट्वाश्चर्यजाता भगवन्तं पप्रच्छुः । को ऽसौ भगवन् त्वया सम्यक्संबोधौ व्याकृत इति ॥
भगवान् आह ॥ दक्षिणापथि धर्मकल्पो नाम राजा महाप्रतापवान् धर्मिष्ठः । तस्य राज्ञः सुतो ऽसौ ॥
भिक्षव ऊचुः ॥ कानि भदन्त तेन कर्माणि कृतानि येनाभिरूपो दर्शनीय ः प्रासादिकस् तेजः प्रव्रज्यार्हत्त्वं साक्षात्कृतम् इति ॥ भगवान् आह ॥
भूतपूर्वं भिक्षवो ऽतीते ऽ ध्वनि एकनवतिकल्पे विपश्वी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुश्याणां च बुद्धो भगवान् बन्धुमतीं महाराजधानीं नगरीम् उपनिश्रित्य विहरति स्म ॥ अथ स भगवान् सकलबुद्धकार्यं कृत्वा इन्धनक्षयाग्निर् इव निरुपधिशेषे निर्वाणधातौ परिनिवृतः । तस्मा द् राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनस्तूपं कारितं क्रोशम् उच्चत्वेन ॥
तेन समयेन अन्यतमश्रेष्ठिपुत्रेण तं दृष्ट्वा प्रसादजातेन पित्रा साधिता नि नानाधातुमहारजतरूप्यरत्नकूटानि गृहीत्वा तस्मिन् विपश्विनः स्तूपगर्भे धातुर् आरोपितः ॥ तेन प्रणिधानं कृतं । अनेनाहं कुशलेन पश्चिमे समये पश्चिमे काले पश्चिमके तथागते ऽनुत्तरायां सम्यक्संबोधौ व्याकरणं प्रतिलभेयम् इति ॥
तेन पुत्रेण कृतकुशलमूलेन तस्य पिता दक्षिणपथि धर्मकल्पो नाम राजा बभूव, तस्य पुत्रो धातुस्तेजः पूर्वजन्मन्य् अपि पितापुत्रौ ॥
भगवान् आह ॥ किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्रेष्ठिपुत्र आसीद् अयं स धातुस्तेजराजा । विपश्विनः स्तूपे धातुम् आरोपितं । तेन हेतुना अभिरूपः प्रासादिको दर्शनीयतरः । अर्हत्त्वं साक्षात्कृतम् इति ॥ मयापि सम्यक्संबोधौ व्याकृतः ॥
भगवान् पुनर् उवाच ॥ महानुशंसा मैत्रेय महानुशंसा भिक्षवस् तथागतस्य स्तूपबिम्बेषु धात्ववरोपणानां नैकफलानुशंसा ॥ तच् छृणुत ॥
पदे सुगतसंपदां सपदि सत्प्रतिष्ठो भुवि
प्रकाशितयशा भवत्य् अखिलसत्त्वधात्वाश्रयः ।
समुन्नततरस्थिरप्रकृतिसंपदा संश्रितो
जिनप्रतिकृतौ जनेन यदि धातुर् आरोप्यते

10.5

शक्रीं समन्ताद् अधिगम्य लक्ष्मीं द्वीपांश् च भुक्त्वा चतुरो नरेन्द्राः ।
अन्ते विशुद्धं पदम् आप्नुवन्ति धातोः समारोपणतो जिनस्य

10.6

दृश्यन्ते कान्तिमन्तः शशधरवदनाः सुभ्रुवो दीर्घनेत्रा
मर्त्या यन् मर्त्यलोके वरकनकनिभाः क्षान्तिसौरत्ययुक्ताः ।
पृथ्वीं यच् चापि राजा जलनिधिवसनां पालयंश् चक्रवर्ती
तत् सर्वं बुद्धबिम्बे भवति तनुभृतां धातुम् आरोप्य भक्त्या

मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc