भाषा

ENहिગુ
ग्रंथ पाठ

दिव्यावदान · अध्याय 8

8.1

055.001. <55>अथायुष्मानानन्दो भगवन्तमिदमवोचत्--बहुशो बहुशो भदन्त भगवता राज्ञः प्रसेनजितः कौशलस्य निवेशने भुक्त्वा नांना दक्षिणामादिष्टा।
055.002. नाभिजानामि कदाचिदेवम्रूपां दक्षिणामादिष्टपूर्वाम्।
055.003. भगवानाह--इच्छसि त्वमानन्द राज्ञः प्रसेनजितः कौशलस्यालवणिकां कुल्माषपिण्डकामारभ्य कर्मप्लोतिं श्रोतुम्? एतस्य भगवन् कालः, एतस्य सुगत समयः।
055.005. अयं भगवान् राज्ञः प्रसेनजितः कौशलस्यालवणिकां कुल्माषपिण्डकामारभ्य कर्मप्लोतिं वर्णयेत्, भगवतः श्रुत्वा भिक्षवो धारयिष्यन्ति इति।
055.006. तत्र भगवान् भिक्षूनामन्त्रयते स्म--
055.007. भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्पटके गृहपतिः प्रतिवसति।
055.007. तेन सदृशात् कुलात् कलत्रमानीतम्।
055.008. स तया सार्धं क्रीडति रमते परिचारयति।
055.008. तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः।
055.009. स उन्नीतो वर्धितः पटुः संवृत्तः।
055.009. यावदसौ गृहपतिः पत्नीमामन्त्रयते--भद्र, जातो ऽस्माकमृणहारको धनहारकश्च।
055.010. गच्छामि पण्यमादाय देशान्तरमिति।
055.011. सा कथयति--आर्यपुत्र, एतत् कुरुष्व इति।
055.011. स पण्यमादाय देशान्तरं गतः।
055.011. तत्रैवानयेन व्यसनमापन्नः।
055.012. अल्पपरिच्छदो ऽसौ गृहपतिः।
055.012. तस्य गृहपतेर्धनजातं परिक्षीणम्।
055.012. सो ऽस्य पुत्रो दुःखितो जातः।
055.013. तस्य गृहपतेर्वयस्यकः।
055.013. तेन तस्य दारकस्य माता अभिहिता--अयं तव पुत्रः क्षेत्रं रक्षतु, अहमस्य सुखं भुक्तेन योगोद्वहनं करिष्यामि।
055.014. एवं भवतु।
055.015. स तस्य क्षेत्रं रक्षितुमारब्धः।
055.015. स तस्य सुखं भक्तकेन योगोद्वहनं कर्तुमारब्धः।
055.015. यावदपरेण समयेन पर्वणी प्रत्युपस्थिता।
055.016. तस्य दारकस्य माता संलक्षयति--अद्य गृहपतिपत्नी सुहृत्सम्बन्धिबान्धवाः सह श्रमणब्राह्मणभोजनेन व्यग्रा भविष्यति।
055.017. गच्छामि सानुकालं तस्य दारकस्य भक्तं नयामि इति।
055.018. सा सानुकालं गत्वा गृहपतिपत्न्या एतमर्थं निवेशयति।
055.018. सा रुषिता कथयति--न तावच्छ्रमणब्राह्मणेभ्यो ददामि ज्ञातीनां वा, तावत् प्रेष्यमनुष्याय ददामि? अद्य तावत् तिष्ठतु, श्वो द्विगुणं दास्यामीति।
055.020. ततस्तस्य दारकस्य माता संलक्षयति--मा मे पुत्रो बुभुक्षितकः स्थास्यतीति।
055.021. तया आत्मनो ऽर्थे ऽलवणिका कुल्माषपिण्डका संपादिता।
055.022. सा तामादाय गता।
055.022. तेन दारकेण दूरत एव दृष्टा।
055.022. स कथयति--अम्ब, अस्ति किंचिन्मृष्टं मृष्टम्? सा कथयति--पुत्र, यदेव प्रातिदैवसिकं तदप्यद्य नास्ति।
055.023. मया आत्मनो ऽर्थे ऽलवणिका कुल्माषपिण्डिका साधिता।
055.024. तामहं गृहीत्वा आगता।
055.024. एतां परिभुङ्क्ष्वेति।
055.025. स कथयति--स्थापयित्वा गच्छस्वेति।
055.025. सा स्थापयित्वा प्रक्रान्ता॥
055.026. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकम्पकाः प्रन्तशयनासनभक्ता एकदक्षिणीया लोकस्य।
055.027. यावदन्यतमः प्रत्येकबुद्धस्तत्प्रदेशमनुप्राप्तः।
055.027. स तेन दृष्टः कायप्रासादिकश्चित्रप्रासादिकश्च शान्तेर्यापथवर्ती।
055.028. स संलक्षयति--नूनं मया एवंविधे सद्भूते दक्षिणीये कारा न कृता, येन मे ईदृशी समवस्था।
055.029. यद्ययं ममान्तिकादलवणिकां कुल्माषपिण्डिकां प्रतिगृह्णीयात्, अहमस्मै दद्यामिति।
055.030. ततो ऽसौ प्रत्येकबुद्धस्तस्य दरिद्रपुरुषस्य चेतसा चित्तमाज्ञाय पात्रं प्रसारितवान्--भद्रमुख, सचेत्ते परित्यक्तम्, दीयतामस्मिन् पात्र इति।
055.032. ततस्तेन तीव्रेण प्रसादेन सा अलवणिका कुल्माषपिण्डका तस्मै प्रत्येकबुद्धाय प्रतिपादिता॥
056.001. <56>किं मन्यध्वे भिक्षवो यो ऽसौ दरिद्रपुरुषः, एष एवासौ राजा प्रसेनजित् कौशलस्तेन कालेन तेन समयेन।
056.002. यदनेन प्रत्येकबुद्धायालवणिका कुल्माषपिण्डका प्रतिपादिता, तेन कर्मणा षट्कृत्वो देवेषु त्रायस्त्रिंशेषु राज्यैश्वर्याधिपत्यं कारितवान्, षट्कृत्वो ऽस्यामेव श्रावस्त्यां राजा क्षत्रियो मूर्ध्नाभिषिक्तः, तेनैव च कर्मणा अवशेषेण एतर्हि राजा क्षत्रियो मूर्ध्नाभिषिक्तः संवृत्तः।
056.005. सो ऽस्य तमहं संधाय कथयामि--
056.006. हस्त्यश्वरथपत्तियायिनो भुञ्जानस्य पुरं सनैर्गमनम्।
056.007. पश्यसि फलं हि रूक्षिकाया अलवणिकाया कुल्माषपिण्डकायाः॥ इति।
056.008. सामन्तकेन शब्दो विसृतह्--भगवता राज्ञः प्रसेनजितो ऽलवणिकां कुल्माषपिण्डकामारभ्य कर्मप्लोतिर्व्याकृता इति।
056.009. राज्ञापि प्रसेनजिता श्रुतम्।
056.009. स येन भगवांसेतेनोपसंक्रान्तः।
056.010. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
056.010. एकान्तनिषण्णं राजानं प्रसेनजितं कौशलं भगवान् धर्म्यया कथया संदरश्यति समादापयति समुत्तेजयति संप्रहर्षयति।
056.012. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्।
056.012. अथ राजा प्रसेनजित् कौशल उत्थायासनादेकांसमुत्तेरासङ्गं कृत्वा भगवन्तमिदमवोचत्--अधिवासयतु मे भगवांस् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं संघेनेति।
056.015. अधिवासयति भगवान् राज्ञः प्रसेनजितः कौशलस्य तूष्णीभावेन।
056.015. ततो राज्ञा प्रसेनजिता कौशलेन बुद्धमुखाय भिक्षुसंघाय त्रैमास्यं शतरसं भोजनं दत्तम्।
056.016. एकैकश्च भिक्षुः शतसहस्रेण वस्त्रेणाच्छादितः।
056.017. तैलस्य च कुम्भकोटिं समुदानीय दीपमाला अभ्युद्यतो दातुम्।
056.018. तत्र भक्ते पूजायां च महान् कोलाहलो जातः।
056.018. यावदन्यतमा नगरावलम्बिका अतीव दुःखिता।
056.019. तया क्रोडमल्लकेन भिक्षामटन्त्या उच्चशब्धः श्रुतः।
056.019. श्रुत्वा च पुनः पृच्छति--भवन्तः, किमेष उच्चशब्दो महाशब्द इति।
056.020. अपरैः समाख्यातम्--राज्ञा प्रसेनजिता कौशलेन बुद्धप्रमुखो भिक्षुअस्ंघस्त्रैमास्यं भोजितः, एकैकश्च भिक्षुः शतसहस्रेण वस्त्रेण आच्छादितः, तैलस्य कुम्भकोटिं च समुदानीय दीपमाला अभ्युद्यतो दातुमिति।
056.022. ततस्तस्या नगरावलम्बिकाया एतदभवत्--अयं तावद्राजा प्रसेनजित् कौशलः पुण्यैरतृप्तो ऽद्यापि दानानि ददाति, पुण्यानि करोति।
056.024. यन्न्वहमपि कुतश्चित् समुदानीय भगवतः प्रदीपं दद्यामिति।
056.024. तया खण्डमल्लके तैलस्य स्तोकम् याचयित्वा प्रदीपं प्रज्वाल्य भगवतश्चङ्क्रमे दत्तः।
056.025. पादयोर् निपत्य प्रणिधानं कृतम्--अनेनाहं कुशलमूलेन यथायं भगवाञ् शाक्यमुनिर्वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम शास्ता लोक उत्पन्नः, एवमहमपि वर्षशतायुषि प्रजायां शाक्यमुनिरेव शास्ता भवेयम्।

056.028. यथा चास्य दारिपुत्रमौद्गल्यायनाग्रयुगं भद्रयुगमानन्दो भिक्षुरुपस्थायकः, शुद्धोदनः पिता, माता महामाया, राहुलभद्रः कुमारः पुत्रः।
056.029. यथायं भगवान् धातुविभागं कृत्वा परिनिर्वास्यति, एवमहमपि धातुविभागं कृत्वा परिनिर्वापयेयमिति।
056.030. यावत् सर्वे ते दीपा नैर्वाणाः।
056.031. स तया प्रज्वलितः प्रदीपः प्रज्वलत्येव।
056.031. धर्मता खलु बुद्धानां भगवताम्--न तावदुपस्थायकाः प्रतिसम्लीयन्ते न यावद्बुद्धा भगवन्तः प्रतिसम्लीना इति।
056.032. अथायुष्मानानन्दः संलक्षयति--अस्थानमनवकाशो यद्बुद्धा भगवन्त आलोके शय्यां कल्पयन्ति।
056.033. यन्न्वहं दीपम् <57>निर्वापयेयमिति।
057.001. स हस्तेन निर्वापयितुमारब्धो न शक्नोति।
057.001. ततश्चीवरकर्णिकेन, ततो व्यजनेन, तथापि न शक्नोति निर्वापयितुम्।
057.002. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--किमेतदानन्देति।
057.003. स कथयति--भगवन्, मम बुद्धिरुत्पना--अस्थानमनवकाशो यद्बुद्धा भगवन्त आलोके शय्यां कल्पयन्ति।
057.004. यन्न्वहं दीपं निर्वापयेयमिति।
057.004. सो ऽहं हस्तेन निर्वापयितुमारब्धो न शक्नोमि, ततश्चीवरकर्णिकेन, ततो व्यजनेन, तथापि न शक्नोमीति।
057.005. भगवानाह--खेदमानन्द आपत्स्यसे।
057.006. यदि वैरम्भका अपि वायवो वायेयुः, ते ऽपि न शक्नुयुर् निर्वापयितुं प्रागेव हस्तगतश्चीवरकर्णिको व्यजनं वा।
057.007. तथा हि--अयं प्रदीपस्तया दारिकया महता चित्ताभिसंस्कारेण प्रज्वलितः।
057.008. अपि तु आनन्द भविष्यत्यसौ दारिका वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धः।
057.009. शारिपुत्रमौद्गल्यायनौ तस्याग्रयुगं भद्रयुगम्, आनन्दो भिक्षुरुपासकः, शुद्धोदनः पिता, महामाया माता, कपिलवस्तु नगरम्, राहुलभद्रः कुमारः पुत्रः।
057.011. सापि धातुविभागं कृत्वा परिनिर्वास्यतीति॥
057.012. इदमवोचद्भगवान्।
057.012. आत्तमनसस्ते च भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
057.013. इति श्रीदिव्यावदाने नगरावलम्बिकावदानं सप्तमम्॥
********** अवदान 8 **********
058.001 दिव्8 सुपिर्यावदान
058.002. बुद्धो भवाञ् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैर्ब्राह्मणैर्गृहपतिभिः श्रेष्ठिभिः सार्थवाहैर्देवैर् नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवांल् लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः।
058.005. तत्र खलु वर्षावासं भगवानुपग्तो जेतवने अनाथपिण्डदस्यारामे।
058.006. अथ तदैव प्रवारणायां प्रत्युपस्थितायां संबहुलाः श्र्तावस्तीनिवासिनो वणिजो येन भगवांस्तेनोपसंक्रान्ताः।
058.007. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्तो निषण्णाह्
058.008. एकान्तनिषण्णान् संबहुलाञ् श्रावस्तीनिवासिनो वणिजो भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
058.010. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्।
058.011. अथ संबहुलाः।
058.011. श्रावस्तीनिवासिनो वणिजो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रकान्ताः, येनायुष्मानानन्दस्तेनोपसंक्रान्ताः।
058.012. उपसंक्रम्यायुष्मत आनन्दस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः।
058.013. संबहुलाञ् श्रावस्तीनिवासिनो वणिज आयुष्मानानन्दो धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
058.015. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्।
058.016. अथ ते वणिज उत्थायासनेभ्यह् एकांसमुत्तरासङ्गं कृत्वा येनायुष्मानानन्दस्तेनान्ञ्जलिं प्रणम्य आयुष्मन्तमानन्दमिदमवोचन् -- किंचित्ते आर्यानन्द श्रुतं वर्षोषितो भगवान् कतमेषु जनपदेषु चारिकां चरिष्यतीति, यद्वयं तद्यात्रिकं भाण्डं समुदानीमहे ? धर्मता चैषा षण्महानगरनिवासिनो वणिजो यस्यां दिशि बुद्धा भगवन्तो गन्तुकामा भवन्ति, तद्यात्रिकभाण्डं समुदानयन्ति।
058.020. स कथयति -- बुद्धं भगवन्तं किं न पृच्छथ ? दुरासदा हि बुद्धा भगवन्तो दुष्प्रसहाः।
058.021. न शक्नुमो वयं भगवन्तं प्रष्टुम्।
058.021. ममापि भवन्तो दुरासदा हि बुद्धा भगवन्तो दुष्प्रसहाः।
058.022. अहमपि न शक्नोमि भगवन्तं प्रष्टुम्।
058.022. यदि भदन्तानन्दस्यापि दुरासदा बुद्धा भगवन्तो दुष्प्रसहाः, कथं भदन्तानन्दो जानीते ऽमुकां दिशं भगवान् गमिष्यतीति ? निमित्तेन वा भवन्तः परिकथया वा।
058.024. कथं निमित्तेन ? यां दिशं भगवान् गन्तुकामस्ततो ऽभिमुखो निषीदति, एवं निमित्तेन।
058.025. कथं परिकथया ? तेषां जनपदानां वर्णं भाषते, एवं परिकथया।
058.026. कुतोमुखो भदन्तानन्द भगवान् निषीदति, कतमेषां च जनपदानां वर्णं भाषते ? मगधाभिमुखो भवन्तो भगवान् निषीदति, मागधकानां जनपदानां वर्णं भाषते।
058.027. अपि तु भवन्तो ऽष्टादशानुशंसा बुद्धचारिकायाम्।
058.028. कतमे ऽष्टादश ? नाग्निभ्यं नोदकभ्यं न सिंहभ्यं न व्याघ्रभ्यं न द्वीपितरक्षुपरचक्रभ्यं न चौरभयं न गुल्मतरपण्यातियात्राभ्यं न मनुष्यामनुष्यभयम्।
058.030. कालेन च कालं दिव्यानि रूपाणि दृश्यन्ते, दिव्याः शब्दाः श्रूयन्ते, उदाराश् चावभासाः प्रज्ञ्न्यायन्ते, आत्मव्याकरणानि च श्रूयन्ते, धर्मसम्भोग आमिषसम्भोगोऽ।
058.031. पाबाधा च बुद्धचन्द्रिका॥
059.001. <059>अथ संबहुलाः श्रावस्तीनिवासिनो वणिजह् आयुष्मतह् आनन्दस्य भाषितमभिनन्द्यानुमोद्य आयुष्मत आनन्दस्य पादौ शिरसा वन्दित्वा उत्थायासनात् प्रक्रान्ताः।
059.003. धर्ता खलु बुद्धा भगवन्तो जीवन्तो ध्रियन्तो यापयन्तो महाकरुणया संचोद्यमानाः परानुग्रहप्रवृत्ताः कालेन कालमरण्यचारिकां चरन्ति, नदीचारिकां पर्वतचारिकां श्मशानचारिकां जनपद चारिकां चरन्ति।
059.005. अस्मिंस्त्वर्थे बुद्धो भगवान् मगधेषु जनपदचारिकां चर्तुकामस्तदेव प्रवारणां प्रवारयित्वा आयुष्मन्तमानदामामन्त्रयते स्म -- गच्छ आनन्द, भिक्षूणामारोचय इतः सप्तमे दिवसे तथागतो मगधेषु जनपदेषु चारिकां चारिष्यति।
059.007. यो युष्माकम् उत्सहते तथागतेन सार्धं जनपदचारिकां चर्तुम्, स चीवरकर्म करोतु।
059.008. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति -- भगवानायुष्यन्त इतः सप्तमे दिवसे मगधेषु जनपदेषु चारिकां चरिष्यति।
059.009. यो युष्माकमुत्सहते भगवता सार्धं मगधेषु जनपदेषु चारिकां चर्तुम्, स चीवरकर्म करोतु।

059.011. अथ भगवान् भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतः संबहुलैश्च श्रावस्तीनिवासिभिर्वणिग्ब्राह्मणगृहपतिभिः सार्धं मगधेषु जनपदेषु चारिकां प्रक्रान्तः॥
059.013. अथ संबहुलाश्च श्रावस्तीनिवासिनो वणिजो येन भगवांस्तेनोपसंक्रान्ताः।
059.013. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तमिदमवोचन् -- अधिवासयत्वस्माकं भगवान् यावच्च श्रावस्ती यावच्च राजगृहम्, अत्रान्तरा चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन।
059.016. अधिवासयति भगवान् संबहुलानां श्रावस्तीनिवासिनां वणिजां तूष्णीभावेन।
059.017. अथ संबहुलाः श्रावस्तीनिवासिनो वणिजो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतो ऽन्तिकात् प्रक्रान्ताः॥
059.019. अथ संप्रस्थिते बुद्धे भगवति अन्तरा च श्रावस्तीमन्तरा च राजगृहम्, अत्रान्तरान्महाटव्यां चौरसहस्रं प्रतिवसति।
059.020. अद्राक्षीत्तच्चौरसहस्रं भगवन्तं सार्थपरिवृतं भिक्षुसंघपुरस्कृतम्।
059.021. दृष्ट्वा च पुनः परस्परं कथयन्ति -- गच्चतु भगवान् सश्रावकसंघः।
059.021. शेषं सार्थं मुषि ष्यामः।
059.022. इत्यनुविचिन्त्य सर्वे जवेन प्रसृता येन सार्थः।
059.022. भगवता अभिहितह् -- किमेतद्भवन्तः समारब्धम् ? चौराः कथयन्ति -- वयं स्मो भदन्त चौरा अटवीचराः।
059.023. नासमाकं कृषिर् न वाणिज्या न गौरक्ष्यम्।
059.024. अनेनोपक्रमेण जीविकां कल्पयामः।
059.024. गच्छतु भगवान् सश्रावकसंघः।
059.024. शेषं सार्थं मुषिष्यामः।
059.025. भगवानाह -- ममैष सार्थः संनिश्रितः।
059.025. अपि तु सकलस्य सार्थस्य परिगणय्य सुवर्णं गृह्णीध्वम्।
059.026. तथा भवत्विति चौरसहस्रेण प्रतिज्ञ्नातम्।
059.026. अस्मिन् सार्थे ये उपासका विणिजस्तैः कृत्स्नस्य सार्थस्य मूल्यं गणय्य चौराणां निवेदितम् इयन्ति शतानि सहस्राणि चेति।
059.028. ततस्तेषां चौराणां सार्थनिष्क्रयार्थं भगवता निधानं दर्शितम्।
059.029. ततस्तेन चौरसहस्रेण सार्थमूल्यप्रमाणं सुवर्णं गृहीतम्, अवशिष्टं तत्रैवान्तर्हितम्।
059.029. एवं भगवता सार्थश्चौरसहस्रात् प्रतिमोक्षितः॥
059.031. अनुपूर्वेण भगवान् राजगृहमनुप्राप्तः।
059.031. पुनरपि भगवान् सार्थपरिवृतो भिक्षुसंघ पुरस्कृतो राजगृहात् श्रावस्तीं संप्रस्थितः।
059.032. तथैव चौरसहस्रसकाशात् सार्थो निष्क्रीतः।
060.001. <60>एवं द्वित्रिचतुष्पन्ञ्चषड्वारांश्च चैरसहस्रसकाशादागमनगमनेन सार्थः परित्रातो मूल्यं चानुप्रदत्तम्।
060.002. सप्तं तु चारं भगवान् सार्थरहितो भिक्षुसंघपुरस्कृतः शावस्त्या राजगृहं संप्रस्थितः।
060.003. अद्राक्षीच्चौरसहस्रं बुद्धं भगवन्तं सार्थविरहितं भिक्षुसंघपरिवृतम्।
060.003. दृष्ट्वा च पुनः परस्परं संलपन्ति -- भगवान् गच्छतु, भिक्षुसंघं मुषिष्यांः।
060.004. तत्कस्य हेतोह् ? एषो हि भगवान् सुवर्णप्रदः।
060.005. इत्युक्त्वा सर्वजवेन प्रधाविता भिक्षून् मुषितुमारब्धाः।
060.005. भगवता चाभिहिताह् -- वत्साः, मम एते श्रावकाः।
060.006. चौराः कथयन्ति -- जानास्येव भगवान् -- वयं चौरा अटवीचराः।
060.007. नास्माकं कृषिर् न वणिज्या न गौरक्ष्यम्।
060.007. अनेन वयं जीविकां कल्पयामः।
060.008. ततो भगवता चौराणां महानिधानं दर्शितम्, एवं चोक्ताह् -- वत्साः, यावदाप्तं धनं गृह्णीथेति।
060.009. ततस्तेन चौरसहस्रेण तस्मान्महानिधानाद्यावदाप्तं सुवर्णमादत्तम्, अवशिष्टं तत्रैवान्तर्हितम्।
060.010. अथ भगवांस्तच्चौरसहस्रम् यावदाप्तं धनेन संतर्पयित्वा ततो ऽनुपूर्वेण राजगृहमनुप्राप्तः।
060.011. ततस्तेषां चौराणां बुद्धिरुत्पन्ना -- या काचिदस्माकं श्रीसौभाग्यसम्पत्, सर्वासौ बुद्धं भगवन्तमागम्य।
060.012. यन्नु वयं भगवन्तं सश्रावकसंघमस्मिन् प्रदेशे भोजयेम इति।
060.012. अत्रान्तरे नास्ति किंचिद्बुद्धानां भगवतां महाकारुणिकानामेकरक्षाणामेकवीराणामद्वयवादिनां शमथविपश्यनाविहारिणां त्रिविधदमथवस्तुकुशलानां चतुरृद्धिपादचरणतलसुप्रितिष्ठितानां चतुरोघोत्तीर्णानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां दशबलबलिनां चतुर्वैशारद्यविशारदानामुदारार्षभसम्यक्सिंहनादनादिनां पन्ञ्चाङ्गविप्रहीणानां पन्ञ्चस्कन्ध विमोचकानां पन्ञ्चगतिसमतिक्रान्तानां षडायतनभेदकानां संघातविहारिणां षट्पारमितापरिपूर्णयशसां
सप्तबोध्यङ्गकुसुमाढ्यानां सप्तसमाधिपरिष्कारदायकानामार्याष्टाङ्गमार्गदेशिकानामार्यमार्गपुद्गलनायकानां नवानुपूर्वसमापत्तिकुशलानां नवसम्योजनविसम्योजनकानां दशदिक्परिपूर्णयशसां दशशतवशवर्तिप्रतिविशिष्तानां त्रीरात्रेस्त्रिर्दिवसस्य षट्कृत्वो रात्रिंदिवसेन बुद्धचक्षुषा लोकम्
व्यवलोकयन्तिकस्यानवरोपितानि कुशलमूलान्यवरोपयामि, कस्यावरोपितानि विवर्धयामि, कः कृच्छ्रप्राप्तः, कः संकटप्राप्तः, कः संबाधप्राप्तः, कः कृच्छ्रसंकटसम्बाधप्राप्तः, कं कृच्छ्रसंकटसम्बाधात् परिमोचयामि, को ऽपायनिंनः, को ऽपायप्रवणः, को ऽपायप्राग्भारः, कमहमपायाद् व्युत्थाप्य स्वर्गे मोक्षफले च प्रतिष्ठापयामि, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छामि, कस्य बुद्धोत्पादविभूषितं लोकं सफलीकरोमि, कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्टापयेयम्, को हीयते को वर्धते।
060.027. अप्येवातिक्रमेद्वेलां सागरो मकरालयः।
060.028. न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्

8.2

060.029. यथा हि माता प्रियमेकपुत्रकं ह्यवेक्षते रक्षति चास्य जीवितम्।
060.031. तथैव वैनेयजनं तथगतो ह्यवेक्षते रक्षति चास्य संततिम्

8.3

061.001. <61>सर्वज्ञ्नसंताननिवासिनी हि कारुण्यधेनुर्मृगयत्यखिन्ना।
061.003. वैनेयवत्सान् भवदुःखनष्टान् वत्सान् प्रणष्टनिव वत्सला गौः

8.4

061.005. ततो भगवांस्तेषां चौराणां वैनेयकालमपेक्ष्य राजगृहादनुपूर्वेण भिक्षुगणपरिवृतो भिक्षुगणपुरस्कृतो दान्तो दान्तपरिवारः शान्तः शान्तपरिवारश्चन्दनश्चन्दनपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारः पूर्ववत् यावन्महाकरुणया समन्वागतस् तां सालाटवीमनुप्राप्तः।
061.008. अद्राक्षीत्तच्चौरसहस्रं बुद्धं भगवन्तं सश्रावकसंघं दूरादेवागच्छन्तम्।
061.008. दृष्ट्वा च पुनश्चित्तान्यभिप्रसाद्य येन भगवांस्तेनोपसंक्रान्तः।
061.009. उपसंक्रम्य भगवतः पादयोर् निपत्य भगवन्तमिदमवोद्चन् -- अधिवासयतु अस्माकं भगवाञ् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन।
061.011. अधिवासयति भगवांस्तस्य चौरसस्रस्य तूष्णीभावेन।
061.011. अथ चौरसहस्रं भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतोऽन्तिकान् प्रक्रान्तम्॥
061.013. अथ तच्चौरसहस्रं तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञ्नप्य उदकमणीन् प्रतिष्ठाप्य, भगवतो दूतेन कालमारोचयति -- समयो भदन्त, सज्जं भक्तम् यस्येदानीं भगवान् कालं मन्यसे।
061.015. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन तस्य चौरसहस्रस्य भक्ताभिसारस्तेनोपसंक्रान्तः।
061.017. अथ तच्चौरसहस्रं बुद्धप्रमुखस्य भिक्षुसंघस्य चन्दनोदकेन पादौ प्रक्षालयामास।
061.018. अथ भगवान् प्रक्षालितपाणिपादः पुरस्ताद्भिक्षुसंघस्य प्रज्ञ्नप्त एवासने निषण्णः।
061.019. निषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतराण्यासनानि गृहीत्वा भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय।
061.019. अथ भगवता तेषामाशयानुशयं विदित्वा धातुं प्रकृतिं च ज्ञ्नात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा तेन चौरसहस्रेण तस्मिन्नेवासने निषण्णेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञ्नानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्।
061.024. दृष्टसत्याश्च कथयन्ति -- इदमस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं न राज्ञ्ना न देवताभिर् न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् नेष्टैर् न स्वजनबन्धुवर्गेण यदस्माभिर्भगवन्तं कल्याणमित्रमागम्य।
061.025. उद्धृतो नरकतिर्यक्प्रेतेभ्यः पादः, प्रतिष्ठापिता देवमनुष्येषु, पर्यन्तीकृतः संसारः, उच्छोषिता रुधिराश्रुसमुद्राः, उत्तीर्णा अश्रुसागराः, लङ्घिता अस्थिपर्वताः।
061.027. लभेम वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
061.028. चरेम वयं भगवतो ऽन्तिके ब्रह्मचर्यम्।
061.028. ततो भगवता ब्रह्मेण स्वरेणाभिहिताह् -- एत वत्साः, चरत ब्रह्मचर्यम्।
061.029. वाचावसाने भगवतो मुण्डाः संवृत्तस्त्रैधातुकवीतरागाः समलोष्टकान्ञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञ्नाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपरान्मुखाः।
061.031. सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्याश्च संवृत्ताः॥
062.001. <62>भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह् -- पश्य भदन्त भगवता इदं चौरसहस्रं सप्तवारं धनेन संतर्पयित्वा अत्यन्तनिष्ठे ऽनुत्तरे योगक्षेमे निर्वाणे प्रतिष्ठापितम्।
062.003. भगवानाह -- न भिक्षव एतर्हि, यथा अतीते ऽप्यध्वनि मया अस्यैव चौरसहस्रस्य सकाशादनेकभाण्डसहस्रः सार्थो निष्क्रीतः, न च शकिताः संतर्पयितुम्।
062.004. ततो मया अनेकैर्दुष्करशतसहस्रैर्देवमनुष्यदुष्प्राप्यां शक्रब्रह्माद्यैरपि दुरधिगमां बदरद्वीपयात्रां वर्षशतेन साधयित्वा एतदेव चौरसहस्रमारभ्य कृत्स्नो जाम्बुद्वीपः सुवर्णरजतवैडूर्यस्फटिकाद्यै रत्नविशेषैर्मनोरथेप्सितैश्चोपकरणविशेषैः संतर्पयित्वा दशभिः कुशलैः कर्मपथैः प्रतिष्ठापितः।
062.007. तच्छ्रुणुत -- भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्नेव जम्बुद्वीपे वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति स्म ऋद्धं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरतस्करदुर्भिक्षरोगापगतम्।
062.010. प्रियमिवैकपुत्रकमिव राज्यं कारयति।
062.010. तेन खलु समयेन वाराणस्यां प्रियसेनो नाम सार्थवाहः प्रतिवसति आढ्यो महाधनो महाभोगो वैश्रवणधनप्रतिस्पर्धी।
062.012. तेन सदृशात् कुलात् कलत्रमानीतम्।
062.012. स तया सार्धं क्रीडते रमते परिचारयति।
062.013. अथ अन्यतम उदारपुण्यमहेशाख्यः सत्त्वो ऽन्यतमस्मात् प्रणीताद्देवनिकायाच्चयुत्वा तस्याः प्रजापत्याः कुक्षिमवक्रान्तः।
062.014. पन्ञ्चावेणीया धर्मा इहैकत्ये पण्डितजातीये मातृग्रामे।
062.015. कतमे पन्ञ्च? रक्तं पुरुषं जानाति, कालं जानाति ऋतुं जानाति, गर्भमवक्रान्तं जानाति, यस्याः सकाशाद्गर्भो ऽवक्रामति तं जानाति, दारकं जानाति दारिकां जानाति।
062.017. सचेद्दारको भवति, दक्षिणं कुक्षिं निश्रित्य तिष्ठति।
062.017. सचेद्दारिका भवति, वामं कुक्षिंनिश्रित्य तिष्ठति।
062.018. सा आत्तमनाः स्वामिन आरोचयति -- दिष्ट्या आर्यपुत्र वर्धस्व, आपन्नसत्त्वास्मि संवृत्ता।
062.019. यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यति।
062.020. सो ऽप्यात्तमनात्तमना उदानमुदानयति -- अप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्।
062.021. जातो मे स्यान्नावजातः।
062.021. कृत्यानि मे कुर्यात्।
062.021. भृतः प्रतिभरेत्।
062.021. दायाद्यं प्रतिपद्येत।
062.022. कुलवंशो मे चिरष्ठितिकः स्यात्।
062.022. अस्माकं चाप्यतीतकालगतानामुद्दिश्य दानानि दत्वा पुण्यानि कृत्वा नांना दक्षिणामादिशेत् -- इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छत्विति।
062.024. आपन्नसत्त्वां चैनां विदित्वा उपरिप्रासादतलगतामयन्त्रितां धारयति -- उष्ण उष्णोपकरणैः शीते शीतोपकरणैर्वैद्यप्रज्ञ्नप्तैराहारैर् नातिशीतैर् नात्युष्णैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस्तिक्ताम्ललवणमधुरकटुककषायविवर्जितैराहारैः।
062.026. हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनचारिणीं मन्ञ्चान्मन्ञ्चं पीठात्पीठमनवतरन्तीमधरिमां भूमिम्।
062.027. न चास्याकिंचिदमनोज्ञ्नशब्दश्रवणम् यावदेव गर्भस्य परिपाकाय।
062.028. सा अष्टानां वा नवानां वा मासानामत्ययात् प्रसूता।
062.029. दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासो दृढकठिनशरीरो महानग्नबलः।

062.031. तस्य ज्ञ्नातयः संगम्य समागम्य त्रीणि सप्तकान्येकविंशतिरात्रिंदिवसानि तस्य जातस्य जातो महं कृत्वा नामधेयं व्यवस्थापयन्ति -- किं भवतु दारकस्य नाम? अयं दारकः प्रियसेनस्य <63>सर्थवाहस्य पुत्रः।
063.001. तद्भवतु दारकस्य नाम सुप्रिय इति।
063.001. सुप्रियो दारको ऽष्टाभ्यो धात्रीभ्य उपन्यस्तो द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्।
063.003. सो ऽष्टाभिर्धात्रीभुरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन अन्यैष्चोत्तप्तोत्तपैरुपकरणविशेषैः।
063.004. आशु वर्धते ह्रदस्थमिव पङ्कजम्॥
063.005. यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः।
063.005. संख्यायां गणनायां मुद्रायामुद्धारे न्यासे
063.006. निक्षेपे हस्तिपरीक्षायामश्वपरीक्षायां रत्नपरीक्षायां दारुपरीक्षायां वस्त्रपरीक्षायां पुरुषपरीक्षायां स्त्रीपरीक्षायाम्।
063.007. नानापण्यपरीक्षासु पर्यवदातः सर्वशास्त्रज्ञ्नः सरवकलाभिज्ञ्नः सर्वशिल्पज्ञ्नः सर्वभूतरुतज्ञ्नः सर्वगतिगतिज्ञ्नह् उद्धट्टको वाचकः पण्डितः पटुप्रचारः परमतीक्ष्णनिशितबुद्धिः संवृत्तो ऽग्निकल्प इव ज्ञ्नानेन।
063.009. स यानि तानि राज्ञ्नां क्षत्रियाणां मूर्ध्नाभिषिक्तानां जनपदैश्वर्यस्थामवीर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्याध्यावसतां पृथग्भवन्ति शिल्पस्थानकर्मस्थानानि, तद्यथा हस्तिग्रीवायाम् अश्वपृष्ठे रथे त्सरुधनुःषु उपयाने निर्याणे ऽङ्कुशग्रहे तोमरग्रहे छेद्ये भेद्ये मुष्टिबन्धे पदबन्धे दूरवेधे शब्दवेधेऽक्षुण्णवेधे मर्मवेधे दृढप्रहारितायाम्।
063.013. पन्ञ्चसु स्थानेषु कृतावी संवृत्तः।
063.013. धर्मता चैषा -- न तावत् पुत्रस्य नाम निर्गच्छति यावत् पिता ध्रियते।
063.014. अथापरेण समयेन प्रियसेनः सार्थवाहो ग्लानीभूतः।
063.014. स मूलगण्डपुत्रपुष्पफलभैषज्यैरुपस्थीयमानो हीयत एव।
063.016. सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।
063.017. सम्योगा विप्रयोगान्ता मरणान्तं च जीवितम्

मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc