दिव्यावदान · अध्याय 9
063.018. इति स कालधर्मेण सम्युक्तः।
063.018. कालगते प्रियसेने सार्थवाहे ब्रह्मदत्तेन काशिराज्ञ्ना सुप्रियो महासार्थवाहत्वे ऽभिषिक्तः।
063.019. तेन सार्थवाहभूतेन इयमेवम्रूपा महाप्रतिज्ञ्ना कृता -- सर्वत्त्वा मया धनेन संतर्पयितव्याः।
063.020. अल्पं च देयं बहवश्च याचकाः।
063.020. ततो ऽल्पैरहोभिस्तद्धनं परिक्षयं पर्यादानं गतम्।
063.021. अथ सुप्रियो महासार्थवाहः संलक्षयति -- अल्पं च देयं बहवश्च याचकाः।
063.022. ततो ऽल्पैरहोभिस्तद्धनं परिक्षयं पर्यादानं गतम्।
063.022. यन्न्वहं सामुद्रम् यानपात्रं समुदानीय महासमुद्रमवतरेयं धनहारिकः।
063.023. ततः सुप्रियो महासार्थवाहः सामुद्रयानपात्रं समुदानीय पञ्चमात्रैर्वणिक्शतैः सार्धं महासमुद्रमवतीर्णः।
063.024. ततो ऽनुपूर्वेण रत्नद्वीपं गत्वा रत्नसंग्रहं कृत्वा स्वस्तिक्षेमाभ्यां महासमुद्रादुत्तीर्य स्थलजैर्वहित्रैर्भाण्डमारोप्य वाराणस्यभिमुखः संप्रस्थितः।
063.026. अटवीकान्तारमध्यगतश्चौरसहस्रेणासादितः।
063.026. ततस्ते चौरा मुषितुकामाः सर्वजवेन प्रसृताः।
063.027. सुप्रियेण च सर्वाहेनावलोक्याभिहिताह् -- किमेतद्भवन्तः समारब्धम्? चौराः कथयन्ति -- सार्थवाह, त्वमेकः स्वस्तिक्षेमाभ्यां गच्छ, अवशिष्टं सार्थं भुषिष्यामः।
063.028. सार्थवाहः कथयति ममैष भवन्तः सार्थः संनिश्रितः।
063.029. नार्हन्ति भवन्तो मुषितुम् । एवमुक्ताश्चौराः कथयन्ति -- वयं स्मः सार्थवाहचौरा अटवीचराः।
063.030. नास्माकं कृषिर् न वाणिज्या न गौरक्ष्यम्।
063.030. अनेन वयं जीविकां कल्पयामः।
063.031. तेषां सुप्रियः सार्थवाहः कथयति -- सार्थस्य मूल्यं भवन्तो गण्यताम्।
063.032. अहमेषामर्थे मूल्यं दास्यामीति।
063.032. ततस्ते वणिजः परस्परं मूल्यं गणयित्वा चौराणां निवेदयन्ति<64> -- इयन्ति शतानि सहस्राणि चेति।
064.001. ततः सुप्रियेण सार्थवाहेन भाण्डनिष्क्रयार्थे स्वं द्रव्यमनुप्रदत्तम्।
064.002. चौरसकाशात् सार्थः परित्रातः।
064.002. एवं द्विस्त्रिश्चतुःपन्ञ्चषड्वारांस् तस्यैव चौरसहस्रस्य सकाशात् सुप्रियेण सार्थवाहेन सार्थः परित्रातो मूल्यं चानुप्रदत्तम्।
064.003. यावत् सप्तं तु वारं सुप्रियः सार्थवाहो महासमुद्रमवतीर्णः।
064.004. ततः संसिद्धयानपात्रो ऽभ्यागतो ऽटवीकान्तारमध्यगतस्तेनैव चौरसहस्रेणासादितः।
064.005. ततस्ते चौरा मुषितुकामाः सर्वजवेन प्रसृताः।
064.006. सुप्रियेण च सार्थवाहेनावलोक्याभिहिताह् -- सुप्रियो ऽहं भवन्तः सार्थवाहः।
064.006. चौराः कथयन्ति -- जानास्येव महासार्थवाह वयं चौरा अटवीचराः।
064.007. नास्माकं कृषिर् न वाणिज्यं न गौरक्ष्यम्।
064.008. अनेन वयं जीविकां कल्पयामः।
064.008. ततः सुप्रियेण सार्थवाहेन पूर्विकां प्रतिज्ञ्नामनुस्मृत्य दृढप्रतिज्ञ्नेन तस्य चौरसहस्रस्य भाण्डमनुप्रदत्तम्।
064.009. सुप्रियो महासार्थवाहः संलक्षयति -- इमे चौरा लब्धं लब्धमर्थजातसंनिचयं कुर्वन्ति।
064.010. मया च महती प्रतिज्ञ्ना कृता सर्वसत्त्वा धनेन मया संतर्पयितव्या इति।
064.011. सो ऽहमिमं चौरसहस्रं न शक्नोमि धनेन संतर्पयितुम्।
064.011. कथं पुनः सर्वसत्त्वान् धनेन संतर्पयिष्यामीति चिन्तापरो मिद्धमवक्रान्तः॥
064.013. अथ तस्य महात्मन उदारपुण्यमहेशाख्यस्योदारचेतसोपपन्नस्य सर्वसत्त्वमनोरथपरिपूरकस्य लोकहितार्थमभ्युद्गतस्य अन्यतरा महेशाख्या देवता उपसंक्रम्य समाश्वासयति -- मा त्वं सार्थवाह खेदमापद्यस्व।
064.015. ऋद्धिष्यति ते प्रणिधिरिति।
064.015. अस्ति खलु महासार्थवाह अस्मिन्नेव जम्बुद्वीपे बदरद्वीपो नाम महापत्तनो ऽमनुष्यावचरितो महेशाख्यमनुष्याधिष्ठितः।
064.016. सन्ति तस्मिन् बदरद्वीपे प्रधानानि रत्नानि सर्वसत्त्वविचित्रमनोरथपरिपूरकाणि।
064.017. यदि महासार्थवाहो बदरद्वीपयात्रां साधयेत्, एवमिमां महतीं प्रतिज्ञ्नां प्रतिनिस्तरेत।
064.018. इयं हि महाप्रतिज्ञ्ना शक्रब्रह्मादीनामपि दुस्तरा, प्रगेव मनुष्यभूतस्य।
064.019. इत्युक्तवा सा देवता तत्रैवान्तर्हिता।
064.019. न च शकिता सुप्रियेण महासार्थवाहेन सा देवता प्रष्टुम् -- कतरस्यां दिशि बदरद्वीइपः कथं वा तत्र गम्यत इति।
064.021. अथ सुप्रियस्य सात्र्थवाहस्य सुप्तप्रतिबुद्धस्य एतदभवत् -- अहो बत मे सा देवता पुनरपि दर्शयेत्, दिशं चोपायं च व्यपदिशेद् बदरद्वीपमहापत्तनस्य गमनायेति चिन्तापरो मिद्धमवक्रान्तः।
064.023. अथ सा देवता तस्य महात्मन उदारपुण्यमहेशाख्यस्य दृढोदारप्रतिज्ञ्नस्योदारवीर्यपराक्रमनामनिक्षिप्तोत्साहतां विदित्वा उपसंक्रम्य एवमाह -- मा त्वं सार्थवाह खेदमापद्यस्व।
064.025. अस्ति खलु महासार्थवाह पश्चिमे दिग्भागे पन्ञ्चान्तरद्वीपशतानि समतिक्रम्य सप्त महापर्वताः, उच्चैश्च प्रगृहीताश्च सप्त च महानद्यः।
064.026. तान् वीर्यबलेन लङ्घयित्वा अन्तरोद्दानमनुलोमप्रतिलोमद्वयमावर्तः शङ्खनाभः शङ्खनाभी च नीलोदस्तारकाक्षश्च पर्वतौ नीलग्रीव एव च वैरम्भा ताम्राटवी वेम्णुगुल्मः सप्त पर्वताः सकण्टकाः क्षारनदी त्रिशङ्कुह् अयस्किलमष्टादशवक्रो नदीश्लक्ष्ण एव च धूमनेत्रमुदकं सप्तशीविषपर्वता नदी भवति पश्चिमा।
064.029. अनुलोमो प्रतिलोमो नाम महासमुद्रः।
064.030. अनुलोमप्रतिलोमे महासमुद्रे मनुष्यानवचरिते अनुलोमप्रतिलोमा वायवो वान्ति।
064.031. तत्र यो ऽसौ पुरुषो भवति महेशाख्यो महेशाख्यदेवतापरिगृहीतः, स महता पुण्यबलेन वीर्यबलेन चित्तबलेन महान्तं प्लवमास्थाय अनुलोमप्रतिलोममहासमुद्रमवतरति<65>।
065.001. स यन्मासेन गच्छति, तदेकेन दिवसेन प्रत्याह्रियते।
065.001. एवं द्विस् त्रिः।
065.001. ह्रियमाणश्च प्रत्याह्रियमाणश्च यदि मध्यमामुदकधारां प्रतिपद्यते, एवमसौ मैत्रीबलपरिगृहीतो लोकहितार्थमभ्युद्गम्योत्तरति, निस्तरति, अभिनिष्क्रमति।
065.003. अनुलोमप्रतिलोमं महासमुद्रं समतिक्रम्य अनुलोमप्रतिलोमो नाम पर्वतः।
065.004. अनुलोमप्रतिलोमे महापर्वते ऽमनुष्यावचरिते ऽनुलोमप्रतिलोमा नाम वायवो वान्ति, यैः पुरुषस्तिमिरीकृतनेत्रो नष्टसंज्ञ्नः संतिष्ठते।
065.005. स वीर्यबलेनात्मानं संधार्य तस्मादेव महापर्वतादमोघां नामौषधीं समन्विष्य गृहीत्वा नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य अनुलोमप्रतिलोमं नाम महापर्वतमभिनिष्क्रमितव्यम्।
065.007. सचेदेतं विधिमनुतिष्ठते, नास्य संमोहो भवति, स्वस्तिक्षेमेणातिक्रमत्यनुलोमप्रतिलोमं महापर्वतम्।
065.008. सचेदेवं विधिं वा नानुतिष्ठति औषधीं वा न लभते, लब्ध्वा वा न गृह्णाति, स षण्मासान् मुह्यति, उन्मादमपि प्राप्नोति, उच्छ्रित्य वा कालं करोति।
065.010. अनुलोमप्रतिलोमं महापर्वतं समतिक्रम्य आवर्तो नाम महासमुद्रः।
065.011. तत्र वैरम्भका वायवो वान्ति यैस्तदुदकं भ्राम्यते।
065.011. तत्र यो ऽसौ पुरुषो भवत्युदारपुण्यविपाकमहेशाख्यो देवतापरिगृहीतः, स महता पुण्यबलेन वीर्यबलेन चित्तबलेन कायबलेन महान्तं प्लवमास्थाय आवर्तं महासमुद्रमवरति।
065.013. स एकस्मिन्नावर्ते सप्तकृत्वो भ्रामयित्वा निरुध्यते।
065.014. योजनं गत्वा द्वितीये आवर्ते उन्मज्जते।
065.015. स तस्मिन्नप्यावर्ते सप्तकृत्वो भ्रामयित्वा निरुध्यते।
065.015. एवं द्वितीये तृतीये चतुर्थे पन्ञ्चमे षष्ठे आवर्ते सप्तकृत्वो भ्रामयित्वा निरुध्यते, योजनं गत्वा उन्मज्जते।
065.016. एवमसौ मैत्रीबलपरिगृहीतो लोकहितार्थमभ्युद्गत उत्तरति निस्तरत्यभिनिष्क्रामति।
065.017. आवर्तं महासमुद्रमभिनिष्क्रम्य आवर्तो नाम पर्वतो ऽमनुष्यावचरितः।
065.018. तत्र शङ्खो नाम राक्षसः प्रतिवसति रौद्रः परप्राणहरो महाबलो महाकायः।
065.019. तस्योपरिष्टाद्योजनमात्रे शङ्खनाभी नामौषधी दिवा धूमायते रात्रौ प्रज्वलति।
065.020. सा नागपरिगृहीता तिष्ठति।
065.020. स खलु नागो दिवा स्वपिति रात्रौ चरति।
065.020. तत्र तेन पुरुषेण दिवा सुखसुप्तस्य नागस्य आत्मानं समनुरक्षता नागशरीरमविहेठयता औषधिबलेन मन्त्रबलेन पुण्यबलेन शङ्खनाभी औषधी ग्रहीतव्या।
065.022. गृहीत्वा नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य आवर्तः पर्वतो ऽधिरोढव्यः।
065.023. सचेदेतां विधिमनुतिष्ठति, स्वस्तिक्षेमेणातिक्रामति आवर्तं पर्वतमविहेठितः शङ्खनाभेन राक्षसेन।
065.024. सचेदेतां विधिं नानुतिष्ठति, औषधीं वा न लभते, लब्धां वा न गृह्णाति, तमेनं शङ्खनाभो राक्षसः पन्ञ्चत्वमापादयति।
065.025. आवर्तं पर्वतमतिक्रम्य नीलोदो नाम महासमुद्रः।
065.026. गम्भीरो ऽयं गम्भीरावभासः।
065.026. नीलोदे महासमुद्रे ताराक्षो नाम राक्षसः प्रतिवसति रक्तनेत्रः प्रदीप्तशिरोरुहो विकृतचरणदशननयनः पर्वतायतकुक्षिः।
065.027. सचेत् स्वपिति, विवृतान्यस्य नेत्राणि भवन्ति, तद्यथा अचिरोदितो भास्करः।
065.028. औदारिकाश्चास्य आश्वासप्रश्वासा गुरुगुरुकाः प्रवर्तन्ते यथा मेघस्य गर्जतो ऽशन्यां च स्फूर्जत्यां शब्दः।
065.030. यदा जागर्ति, निमीलितान्यस्य भवन्ति नेत्राणि।
065.030. तत्र तेन पुरुषेण तस्मादेव समुद्रकूलान्महामकरिनामौषधीं समन्विष्य गृह्य नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य महानतं प्लवमास्थाय सुप्तं ताराक्षं दकराक्षसं विदित्वा पूर्वबुद्धभाषितामेरण्डां नाम महाविद्यामुच्चारयता <66>मन्त्रपदां दकराक्षससमीपेन गन्तव्यम्
066.001. सचेदेतां विधिं नानुतिष्ठति, औषधीं वा न लभते, लब्धां वा न गृह्णाति, तमेनं ताराक्षो दकराक्षस ओजं वा घट्टयति, चित्तं वा क्षिपति, सर्वेण वा सर्वं जीविताद्व्यपरोपयति।
066.003. नीलोदं महासमुद्रं समतिक्रम्य नीलोदो नाम महापर्वतः।
066.003. तत्र नीलग्रीवो नाम राक्षसः प्रतिवसति पन्ञ्चशतपरिवार उग्रतेजा रौद्रः परप्राणहरः।
066.004. नीलोदो महापर्वत एकनीलो ऽखण्डो ऽच्छिद्रो ऽसुषिरः संवृत एकघनः।
066.005. अपीदानीमनिमिषं पश्यतो नेत्राणि व्याबाधयते, मूर्च्छां च संजनयति।
066.006. तस्योपरिष्टाद्योजनमात्रे ऽमोघा नामौषधी विचित्ररूपा।
066.007. सा नागपरिगृहीता तिष्ठति।
066.007. स खलु नागो दृष्टिविषो ऽपि श्वासविषो ऽपि स्पर्शविषो ऽपि दंष्ट्राविषो ऽपि।
066.008. यदा स्वपिति, तदा धूमायते।
066.008. यः खलु तेन धूमेन मृगो वा पक्षी वा स्पृश्यते, स पन्ञ्चत्वमापद्यते।
066.009. तत्र तेन पुरुषेण शिरःस्नातेनोपोषितेन मैत्रायता करुणायता अव्यापन्नेन चित्तेनात्मानं समनुरक्षता नागशरीरमविहेठयता औषधी ग्रहीतव्या।
066.010. नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य अनेन विधिना जानतानुष्ठितेन नीलोदः पर्वतो ऽभिरोढव्यः।
066.011. तिमिरं न भविष्यति, मूर्च्छा च न भविष्यति।
066.012. न चास्य गुह्यकाः शरीरे प्रहरिष्यन्ति।
066.012. सचेदेतां विधिं नानुतिष्ठति, औषधीं वा न लभते, लब्धां वा न गृह्णाति, तमेनं नीलग्रीवो राक्षसः पन्ञ्चत्वमापादयिष्यति।
066.014. नीलोदं पर्वतं समतिक्रम्य वैरम्भो नाम महासमुद्रः।
066.014. वैरम्भे महासमुद्रे वैरम्भा नाम वायवो वान्ति यैस्तदुदकं क्षोभ्यते, यत्रागतिर्मकरकच्छपवल्लकशिशुमारादीनां प्रेतपिशाचकुम्भाण्डकटपूतनादीनां कः पुनर्वादो मनुष्याणाम्।
066.016. तमुत्सृज्य उत्तरेण वैरम्भस्य महासमुद्रस्य महती ताम्राटवी अनेकयोजनायामविस्तारा।
066.017. तस्यास्ताम्राटव्या मध्ये महत् सालवनं महच्चोदपानम्।
066.018. तत्र ताम्राक्षो नाम अजगरः प्रतिवसति रौद्रः परप्राणहरः परमदुर्गन्धः पन्ञ्चयोजनायामः।
066.019. स षण्मासान् स्वपिति।
066.019. यदा स्वपिति, तदा अस्य योजनं सामन्तकेन लालास्य स्फरित्वा।
066.020. तिष्ठति, यदा जागर्ति, अल्पास्य लाला भवति।
066.020. तस्योपरिष्टान्महान् वेणुगुल्मः।
066.021. तस्मिन् वेणुगुल्मे महत्यश्मशिला।
066.021. तां विर्यबलेन उत्पाट्य गुहा।
066.021. तस्यां गुहायां संमोहनी नामौषधी।
066.022. सा रात्रिंदिवसं प्रज्वलति।
066.022. तां गृहीत्वा नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य सुप्तं ताम्राक्षमजगरं विदित्वा औषधीबलेन मन्त्रबलेन वा अजगरभवनसमीपेन गन्तव्यम्।
066.024. सचेदेतां विधिमनुतिष्ठति, स्वस्तिक्षेमाभ्यामतिक्रम्य अविहेठितस्ताम्राक्षेणाजगरेण ततः पश्चान्मूलफलानि भक्षयता गन्तव्यम्।
066.025. महतीं ताम्राटवीमतिक्रम्य सप्त पर्वताः कण्टकवेणुप्रतिच्छन्नाः।
066.026. तत्र तेन पुरुषेण ताम्रपट्टैः पादौ बद्ध्वा तान् पर्वतान् वीर्यबलेन लङ्घयित्वा सप्त क्षारनद्यः।
066.027. तासां तीरे महाशाल्मलीवनम्।
066.027. ततः शाल्मलीफलकैः प्लवं बद्ध्वा अभिरुह्यातिक्रमितव्या अस्पृशता पानीयम्।
066.028. सचेत् स्पृशेत्, तदङ्गं शीर्यते।
066.028. सप्त क्षारनदीः समतिक्रम्य त्रिशङ्कुर् नाम पर्वतः।
066.029. त्रिशङ्कौ पर्वते त्रिशङ्कवो नाम कण्टकास्तीक्ष्णाः सुतीक्ष्णाः।
066.030. ततस्तेन पुरुषेण ताम्रपट्टैर्वेत्रपाशैः पादौ बद्ध्वा अतिकरमितव्यम्।
066.030. त्रिशङ्कुपर्वतमतिक्रम्य त्रिशङ्कुर् नाम नदी।
066.031. त्रिशङ्कवो नाम कण्टकास्तीक्ष्णा अष्टादशाङ्गुला उदके ऽन्तर्गतास्तिष्ठन्ति।
066.031. तत्र तेन पुरुषेण शाल्मलीफलकैः प्लवं बद्ध्वा अतिक्रमितव्यमस्पृशता पानीयम्।
066.032. सचेत् पतति, <67>तत्रैवानयेन व्यसनमापद्यते।
067.001. यथा त्रिशङ्कुः पर्वतः, एवं त्रिशङ्कुका नाम नदी।
067.001. एवमयस्किलः पर्वतो ऽयस्किला नाम नदी।
067.002. अयस्किलानदीमतिकर्म्य अष्टादशवक्रो नाम पर्वतः।
067.003. उच्छ्रितश्च सर्वतः संवृतो ऽद्वारकश्च।
067.003. अस्य न किंचित् निस्तरणमन्यत्र वृक्षाग्राद् वृक्षमधिरुह्य गन्तव्यम्।
067.004. अष्टादशवक्रं पर्वतमतिक्रम्य अष्टादशवक्रिका नाम नादी ग्राहमकराकुला संवृता च।
067.005. तत्र वेत्रपाशं बद्ध्वा अतिक्रमितव्यम्।
067.005. सचेत् पतति, अनयेन व्यसनमापद्यते।
067.006. अष्टादशवक्रिकां नदीमतिक्रम्य श्लक्ष्णो नाम पर्वतः।
067.006. श्लक्ष्णः पर्वतो मृदुरुच्छ्रितो ऽद्वारकश्च।
067.007. न चास्य किंचिन्निस्तरणम्।
067.007. तत्रायस्कीलानां कोट्यातिक्रमितव्यम्।
067.007. श्लक्ष्णं पर्वतमतिक्रम्य श्लक्ष्णा नाम नदी ग्राहमकराकुला।
067.008. संवृता च सा नदी।
067.008. तत्र वेत्रपाशान् बद्ध्वा अतिकरमितव्यम्।
067.009. सचेत् पतति, अनयेन व्यसनमापद्यते।
067.009. श्लक्ष्णां नदीमतिक्रम्य धूमनेत्रो नाम पर्वतो धूमायते संधूमायते।
067.010. येन खलु तेन धूमेन मृगा वा पक्षिणो वा स्पृश्यन्ते, पन्ञ्चत्वमापद्यन्ते।
067.011. धूमनेत्रः पर्वत उच्छ्रितो महाप्रपातो ऽद्वारकश्च।
067.011. तत्र तेन पुरुषेण गुहा पर्येषितव्या।
067.012. गुहां समन्विष्य तेनात्र गुहाद्वारमौषधिबलेन मन्त्रबलेन च मोक्तव्यम् ।
067.012. सा च खलु गुहा आशीविषपरिपूर्णा तिष्ठति।
067.013. ते खलु आशीविषा दृष्टिविषा अपि, स्पर्शविषा अपि।
067.014. धूमनेत्रस्य पर्वतस्योपरिष्टान्महदुदकपल्वलम्।
067.014. तस्मिन्नुदकपल्वले महत्यश्मशिला।
067.014. तां वीर्यबलेनओत्पाट्य गुहा।
067.015. तस्यां गुहायां संजीवनी नामौषधी ज्योतीरसश्च मणिर्दीपप्रभासः।
067.016. तामौषधीं गृहीत्वा सशीर्षपादं समालभ्य तां चौषधीं गृहीत्वा गुहा प्रवेष्टव्या।
067.016. औषधीबलेन मन्त्रबलेन औषधीप्रभावाच्चाशीविषाः काये न क्रमिष्यन्ति।
067.017. एवं हि तस्मात् पर्वतान्निस्तरणं भविष्यति।
067.018. धूमनेत्रपर्वतमतिक्रम्य सप्ताशीविषपर्वताः।
067.018. औषधीबलेन मन्त्रबलेन च सप्ताशीविषपर्वता अतिक्रमितव्याः।
067.019. सप्ताशीविषपर्वतानतिक्रम्य सप्तशीविषनद्यः।
067.019. तीक्ष्णगन्धा नाम तत्राशीविषाः।
067.020. तत्र तेन पुरुषेण मांसपेश्यन्वेषितव्या।
067.020. तासामाशीविषनदीनां तीरे शाल्मलीवनम्।
067.021. ततः शाल्मलीफलकैः प्लवं बद्ध्वा मांसपेश्या आत्मानमाच्छाद्य अधिरोढव्यम्।
067.022. ततस्ता आशीविषा मांसगन्धेन पारात् पारं गमिष्यन्ति।
067.022. सप्ताशीविषमतिक्रम्य महान् सुधावदातः पर्वतः, उच्चश्च प्रगृहीतश्च।
067.023. सो ऽधिरोढव्यस् तत्र द्रक्ष्यसि महान्तं सौवर्णभूमिं पृथिवीप्रदेशं पुष्पफलच्छायावृक्षोपशोभितम्।
067.024. रोहितकाञ् जनपदान् ऋद्धांश्च क्षेमांश्च सुभिक्षांश्च आकीर्णबहुजनमनुष्यांश्च।
067.025. रोहितकं च महानगरं द्वादशयोजनायामं सप्तयोजनविस्तृतं सप्तप्राकारपरिक्षिप्तं द्वाषष्टिद्वारोपशोभितं भवनशतसहस्रविराजितं सुविविक्तरथ्यावीथिचत्वरशृङ्गाटकान्तरापणम्।
067.027. वीणा वल्लिका महती सुघोषकैः श्रोत्राभिरामैश्च गीतध्वनिभिरनुपरतप्रयोगं नानापण्यसंवृद्धं नित्यप्रमुदितजनौघसंकुलं त्रिदशेन्द्रोपेन्द्रसदृशोद्यानसभापुष्करिणीसम्पन्नं कादम्बहंसकारण्डवचक्रवाकोपशोभिततडागं रोहितकं महाराजाध्युषितं महापुरुषवणिग्निसेवितम्।
067.030. यत्र मघः सार्थवाहः प्रतिवसति अभिरूपो दर्शनीयः प्रासादिकः पण्डितो व्यक्तो मेधावी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी द्वीपान्तरद्वीपगमनविधिज्ञ्नो महासमुद्रयानपात्रयायी<68>।
068.001. स ते बदरद्वीपमहापत्तनस्य प्रवृत्तिमाख्यास्यति, निमित्तानि, च दर्शयिष्यति।
068.002. यथोक्तं च विधिमनुष्ठास्यसि, न च खेदमापत्स्यसे।
068.002. एवं महासार्थवाह परमदुष्करकारक इमां सुमेरुमलयमन्दरसदृशीं दृढां प्रतिज्ञ्नां निस्तरिष्यसि।
068.003. इयं च महाप्रतिज्ञ्ना शक्रब्रह्मादीनामपि दुष्करा, प्रागेव मनुष्यभूतानाम्॥
068.005. इत्युक्त्वा सा देवता तत्रैवान्तर्हिता।
068.005. अथ सुप्रियः सार्थवाहः सुप्तप्रतिबुद्धो देवतावचनं श्रुत्वा परमविस्मयमापन्नश्चिन्तयति -- नूनमनया देवतया अनेकैरेवंविधैः परमदुष्करशतसहस्रैर्बदरद्वीपयात्रा साधितपूर्वा भविष्यति।
068.007. यदि तावत् साधिता, दुष्करकारिका इयं देवता।
068.008. अथ साध्यमाना, दृष्टाः परमदुष्करकारकास्ते मनुष्याः, यैरनेकैर्दुष्करशतसहस्रैर्बदरद्वीपयात्रा साधिता।
068.009. अतिदुष्करं चैतदस्माभिः करणीयम्।
068.009. अथवा यद्यप्यहं लोकहितार्थे प्रतिपद्येयम्, सफलो मे परिश्रमः स्यात्।
068.010. यथा अनेकैर्दुष्करशतसहस्रैर्बदरद्वीपमहापत्तनयात्रां सधयिष्यामि, परं लोकानुग्रहं करिष्यामि।
068.011. ते ऽपि मनुष्याः, यैरनेकैर्दुष्करशतसहस्रैर्बदरद्वीपयात्रा साधितपूर्वा।
068.012. अहमपि मनुष्यः।
068.012. तैः साधिता।
068.012. कस्मादहं न साधयिष्यामीत्यनुविचिन्त्य सुप्रियो महासार्थवाहो दृढप्रतिज्ञ्नो दृढवीर्यपराक्रमो ऽनिक्षिप्तोत्साह उदारपुण्यविपाकमहेशाख्यो।
068.014. लोकहितार्थमभ्युद्गतो यथोपदिष्टोद्देशस्मृतिपरिगृहीतो दृढप्रतिज्ञ्नां समनुस्मृत्य महता वीर्यबलेन एकाकी अद्वितीयव्यवसायो यथोपदिष्टानि पन्ञ्चान्तरद्वीपशतानि समतिक्रामति।
068.016. सप्त महापर्वतान्, सप्त महानद्यो विस्तरेण सर्वाणि संकटानि यथोक्तेन विधिना मूलकन्दफलाहारो गुणवति फलके बद्ध्वा परिपूर्णैर्द्वादशभिर्वर्षै रोहितकं महानगरमनुप्राप्तः।
068.018. उद्याने स्थित्वा अन्यतमं पुरुषमामन्त्रयते -- कश्चिद्भोः पुरुष अस्मिन् रोहितके महानगरे मघो नाम सार्थवाहः प्ररिवसति? स एवमाह -- अस्ति भोः पुरुष।
068.019. किं तर्हि महाव्याधिना ग्रस्तः।
068.020. स्थानमेतद्विद्यते यत्तेनैवाबाधेन कालं करिष्यतीति।
068.020. अथ सुप्रियस्य महासार्थवाहस्यैतदभवत् -- मा हैव मघो महासार्थवाहो ऽदृष्ट एव कालं कुर्यात्।
068.021. को मे व्यपदेशं करिष्यति तस्य बदरद्वीपमहापत्तनस्य गमनायेति विदित्वा त्वरितत्वरितम् येन मघस्य सार्थवाहस्य निवेशनं तेनोपसंक्रान्तः।
068.023. स द्वारे निवार्यते, न लभते प्रवेशं महासार्थवाहदर्शनाय।
068.024. धर्मता खलु कुशला बोधिसत्त्वास्तेषु तेषु शिल्पस्थानकर्मस्थानेषु।
068.024. ततो वैद्यसंज्ञ्नां घोषयित्वा प्रविष्टः।
068.025. अद्रक्षीत् सुप्रियो महासार्थवाहो ऽरिष्टाध्यायेषु विदितवृत्तान्तह् -- मघः सार्थवाहः षड्भिर्मासैः कालं करिष्यतीति विदित्वा सुप्रियो महासार्तह्वाहो ऽधीत्य वैद्यमतानि स्वयमेव मूलगण्डपत्रपुष्पफलभैषज्यान्यानुलोमिकानि व्यपदिशति स्म व्याधिव्युपशमार्थम्।
068.028. परं चैनं तोषयति चित्राक्षरव्यन्ञ्जनपदाभिधानैः, शास्त्रबद्धाभिः, कथाभिः, नानाश्रुतिमनोरथाख्यायिकाभिः संरन्ञ्जयति।
068.029. दाक्ष्यदाक्षिण्यचातुर्यमाधुर्योपेतमुपस्थानकर्मणि सत्पुत्र इव पितरं भक्त्या गौरवेण शुश्रूषते।
068.030. ततो मघस्य सार्थवाहस्य क्षेमणीयतरं चाभूद्यापनीयतरं च।
068.031. संज्ञ्ना अनेन प्रतिलब्धा।
068.031. अथ मघो महासार्थवाहः प्रतिलब्धसंज्ञ्नः सुप्रियं महासार्थवाहमिदमवोचत् -- कुतो भवाञ् ज्ञ्नानविज्ञ्नानसम्पन्नो ऽभिरूपो दर्शनीयः प्रासादिकः पण्डितो व्यक्तो <69>मेधावी पटुप्रचारः सर्वशास्त्रज्ञ्नः सर्वशास्त्रविशारदः सर्वकलाभिज्ञ्नः सर्वभूतरुतज्ञ्न इङ्गितज्ञ्न? किं जात्या भवान्? किंगोत्रह्? केन वा कारणेन अमनुष्यावचरितं देशमभ्यागतह्? एवमूक्तः सुप्रियः सार्थवाहः कथयति -- साधु साधु महासार्थवाह।
069.003. काले ऽस्मि महासर्थवाहेन जातिकुलगोत्रागमनप्रयोजनं पृष्टः।
069.004. अथ सुप्रियो महासार्थवाहो मघाय सार्थवाहाय जातिकुलगोत्रागमनप्रयोजनं विस्तरेणारोचयति स्म, परं चैनं विज्ञ्नापयति -- सार्वाहानुभावादहं बदरद्वीपमहापत्तनं पश्येयम्।
069.006. एवमहं स्यात् परिपूर्णमनोरथो निस्तीर्णदृढप्रतिज्ञ्नः सर्वसत्त्वमनोरथपरिपूरकः।
069.007. अथ मघो महासार्थवाहः सुप्रियस्य महासार्थवाहस्याश्रुतपूर्वां परहितार्थमभ्युद्यतां दृढप्रतिज्ञ्नां श्रुत्वा परमविस्मयजातो ऽनिमिषदृष्टिः सुचिरं निरीक्ष्य सुप्रियं महासार्थवाहमिदमवोचत् -- तरुणश्च भवान् धर्मकामश्च।
069.009. आश्चर्यममानुषपराक्रमं ते पश्यामि, यो नाम भवाञ् जम्बुद्वीपादमनुष्यावचरितं पर्वतसमुद्रनद्योत्तरणं कृत्वा इहागतः, यत्रामनुष्याः प्रलयं गच्छन्ति, प्रागेव मनुष्याः।
069.011. देवं तद्भवन्तं पश्यामि देवान्यतमं वा मनुष्यवेषधारिणम्।
069.012. न ते किंचिद्दुस्तरमसाध्यं वा।
069.012. अपि तु अहं महाव्याधिना ग्रस्तो मुमूर्षुः।
069.012. भवांश्चायातः।
069.013. अपि तु को भवतो ऽर्थे परहितार्थे ऽभ्युद्यतस्यात्मपरित्यागमपि न कुर्यात्? तेन हि वत्स क्षिप्रं मङ्गलपोतं समुदानय, संवरं चारोपय, यदावयोर्यात्रायनं भविष्यतीति।
069.014. एवं सार्थवाहेति सुप्रियो महासार्थवाहो मघाय महासार्थवाहाय प्रतिश्रुत्य मङ्गलपोतं समुदानीय संवरं चारोप्य येन मघो महासार्थवाहस्तेनओपसंक्रान्तः।
069.016. उपसंक्रम्य मघं सार्थवाहमिदमवोचत् -- देव समुदानीतो मङ्गलपोतः, संवरं चारोपितम्, यस्येदानीं महासार्थवाहः कालं मन्यते।
069.017. अथ मघो महासार्थवाहो वदरद्वीपमहापत्तनगमनकृतबुद्धिः स्वजनबन्धुवर्गपुत्रदारमित्रामात्यज्ञ्नातिसालोहितैः सभृत्यवर्गेण च रोहितकराज्ञ्ना च निवार्यमाणो ऽपि गुणवति फलके बद्ध्वा आशु सुप्रियसार्थवाहसहायो मङ्गलपोतमभिरुह्य महासमुद्रमवतीर्णः।
069.020. अथ मघो महासार्थवाहः सुप्रियस्य महासार्थवाहस्य कथयति -- अहं बाढग्लानो न शक्यामि स्थियो गन्तुम्।
069.021. तदर्हसि शय्यां कल्पयितुम् यत्राहमपाश्रितो गमिष्यामीति।
069.022. अपि तु अस्मिन् महासमुद्रे यावदेवंविधानि निमित्तानि भवन्ति उदकस्य वर्णसंस्थानानि च मम निवेदयितव्यानि।
069.023. यथा अनेकानि योजनशतानि गत्वा अद्राक्षीत् सुप्रियो महासार्थवाह एकपाण्डरं पानीयम्।
069.024. दृष्ट्वा पुनर्मघाय सार्थवहायारोचयति -- यत्खलु महासार्थवाह जानीयाः, एकपाण्डरं पानीयं पश्यामि।
069.025. एवमुक्ते मघः सार्थवाहः कथयति -- नैतन्महासार्थवाह एकपाण्डरं पानीयम्।
069.026. अपि तु पश्यसि त्वं दक्षिणकेन महत्सुधापर्वतम् यदिदं तस्यैतदनुभावेन पानीयं रन्ञ्जितम्।
069.027. यत्रैकविंशतिधातुगोत्राणि, यं पक्त्वा सुवर्णरूप्यवैडूर्यान्यभिनिर्वर्तन्ते, यदेके जाम्बुद्वीपका मनुष्या रत्नान्यादाय प्रतिनिवर्तन्ते।
069.029. इदं बदरद्वीपमहापत्तनस्य प्रथमनिमित्तम्।
069.029. पुनरपि गच्छन् पश्यति सुप्रियो महासार्थवाहः शस्त्रवर्णं पानीयम्।
069.030. दृष्ट्वा च पुनर्मघाय सार्थवाहायारोचयति -- यत् खलु महासार्थवाह जानीयाह् -- शस्त्रवर्णं पानीयं दृश्यते।
069.031. मघः सार्थवाहः कथयति -- नैतच्छस्त्रवण पानीयम्।
069.032. पश्यसि त्वं दक्षिणकेण महच्छस्त्रपर्वतम्।
069.032. तस्यैतदनुभावेन पानीयं रन्ञ्जितम्।
070.001. <70>अत्राप्यनेकानि धातुगोत्राणि, यं पक्त्वा सुवर्णरूप्यवैदूर्यस्फटिकान्यभिनिर्वर्तन्ते, यदेके जाम्बुद्वीपका मनुष्या रत्नान्यादाय प्रतिनिवर्तन्ते।
070.002. इदं बदरद्वीपमहापत्तनस्य द्वितीयं निमित्तम्।
070.003. एवं लोहपर्वतास्ताम्रपर्वता रूप्यपर्वताः सुवर्णपर्वताः स्फटिकपर्वता वैदूर्यपर्वताः।
070.004. अद्राक्षीत् सुप्रियो महासार्थवाहो नीलपीतलोहितावदातं पानीयम्, अन्तर्जले च दीपार्चिषः पश्यति दीप्यमानाः।
070.005. दृष्ट्वा च पुनर्मघाय सार्थवाहायारोचयति -- यत्खलु महासार्थवाह जानीयाह् -- नीलपीतलोहितावदातं पानीयं दृश्यते, अन्तर्जले च दीपार्चिषो दीप्यमानाः।
070.007. एवेमुक्ते मघो महासार्थवाहः कथयति -- नैतन्महासार्थवाह नीलपीतलोहितावदातं पानीयम्, नाप्येते दीपा इव दीप्यन्ते।
070.008. पश्यसि त्वं दक्षिणकेन चतूरत्नमयं पर्वतम्।
070.009. तस्यैतदनुभावेन पानीयं रन्ञ्जितम्।
070.009. ये ऽप्येते दीपा इव दीप्यन्ते, एते ऽन्तर्गता औषध्यो दीप्यन्ते।
070.010. अत्राप्यनेकानि धातुगोत्राणि, यं पक्त्वा सुवर्णरूप्यवैदूर्यस्फटिकान्यभिनिर्वर्तन्ते, यत्रैके जाम्बुद्वीपका मनुष्या रत्नान्यादाय प्रतिनिवर्तन्ते।
070.011. इदं बदरद्वीपमहापत्तनस्य दशमं निमित्तम्।
070.012. अपि तु महासार्थवाह इयन्त्येवाहं बदरद्वीपमहापत्तनस्य दश निमित्तानि जाने गमनं प्रति, अतः परेण न जाने।
070.013. एवमुक्ते सुप्रियो महासार्थवाहः कथयति -- कदा बदरद्वीपमहापत्तनस्य गमनायान्तो भविष्यति? एवमुक्ते मघः सार्थवाहः कथयति -- मयापि सुप्रिय बदरद्वीपमहापत्तनं कार्त्स्येन न दृष्टम्।
070.015. अपि तु मया श्रुतं पौराणानां महासार्थवाहानामन्तिकाज्जीर्णानां वृद्धानां महल्लकानाम् -- इतो जलमपहाय पश्चिमां दिशं स्थलेन गम्यते।
070.017. तेन चैवमभिहितम्, मरणान्तिकाश्चास्य वेदनाः प्रादुर्भूताः।
070.017. ततः सुप्रियाय महासार्थवाहाय कथयति -- मरणान्तिका मे वेदनाः प्रादुर्भूताः।
070.018. एतत्त्वं मङ्गलपोतं तीरमुपनीय वेत्रपाशं बद्ध्वा मच्छरीरे शरीरपूजां कुरुष्व।
070.019. ततः सुप्रियो महासार्थवाहस्तं मङ्गलपोतं तीरमुपनीय वेत्रपाशं बध्नाति।
070.020. अत्रान्तरे मघो महासार्थवाहः कालगतः।
070.021. अथ सुप्रियो महासार्थवाहो मघं सार्थवाहं कालगतं विदित्वा स्थले उत्थाप्य शरीरे शरीरपूजं कृत्वा चिन्तयति -- मङ्गलपोतमारुह्य यास्यामीति।
070.022. स च पोतो वायुना वेत्रपाशं छित्त्वा अपहृतः।
070.023. ततः सुप्रियो महासार्थवाहश्चतूरत्नमयस्य पर्वतस्य दक्षिणेन पार्श्वेनाटव्यां स्थलेन संप्रस्थितो मूलफलानि भक्षयमाणः।
070.024. अनेकानि योजनानि गत्वा अद्राक्षीत् श्लक्ष्णं पर्वतमनुपूर्वप्रवणमनुपूर्वप्राग्भारम्।
070.025. न शक्यते ऽभिरोढुम्।
070.025. ततः सुप्रियो महासार्थवाहो मधुना पादौ प्रलिप्याभिरूढश्च, अवतीर्णश्च, अनेकानि योजनानि गत्वा मूलफलाहारो गतः।
070.027. स तत्र पश्यति महान्तं पर्वतमुच्चं च प्रगृहीतं च।
070.027. निःसरणं पर्येषमाणो न लभते, न चास्य कश्चिन्निःसरणव्यपदेष्टा।
070.028. ततश्चिन्तापरः शयितः।
070.028. तत्र च पर्वते नीलादो नाम यक्षः प्रतिवसति।
070.029. स संलक्षयति -- अयं बोधिसत्त्वो लोकहितार्थमुद्यतः परिक्लिश्यते, यन्न्वहमस्य साहाय्यं कल्पयेयम्।
070.030. इदमनुचिन्त्य सुप्रियं महासार्थवाहमिदमवोचत् -- इतो महासार्थवाह पूर्वेण योजनं गत्वा त्रीणि पर्वतशृङ्गाण्यनुपूर्वनिंनान्यनुपूर्वप्रवणान्यनुपूर्वप्राग्भाराणि।
070.032. तत्र त्वया वेत्रशिटाम्(?) बद्ध्वा अतिक्रमितव्यम्।
070.032. अथ सुप्रियो महासार्थवाहः सुप्तप्रबुद्धो वेत्रशिटाम् <71>बद्ध्वा तानि पर्वतशृङ्गाण्यतिक्रान्तः।
071.001. भूयः संप्रस्थितो ऽद्राक्षीत् सुप्रियो महासाथवाहः स्फटिकपर्वतं श्लक्ष्णं निरालम्बमगम्यं मनुष्यमात्रस्य।
071.002. न चास्योपायं पश्यति तं पर्वतमभिरोहणायेति विदित्वा चिन्तापरो ऽहोरात्रमवस्थितः।
071.003. तस्मिंश्च पर्वते चन्द्रप्रभो नाम यक्षः प्रतिवसति।
071.004. स चिन्तापरं सार्थवाहं विदित्वा लोकहितार्थमभ्युद्यतं महायानसम्प्रस्थितं प्रसन्नचित्तं चोपेत्याश्वासयति -- न खलु महासार्थवहेन विषादः करणीय इति।
071.005. पूर्वेण क्रोशमात्रं गत्वा महच्चन्दनवनम्।
071.006. तस्मिंश्च चन्दनवने महत्यश्मशिला।
071.006. तां वीर्यबलेनोत्पाट्य गुहां द्रक्ष्यसि।
071.007. तस्यां गुहायां प्रभास्वरा नामौषधी पन्ञ्चगुणोपेता।
071.007. तया गृहीतया नास्य काये शस्त्रं क्रमिष्यति, अमनुष्याश्चावतारं न लप्स्यन्ते, बलं च वीर्यं च संजनयति, आलोकं च करोति।
071.009. तेनालोकेन द्रक्ष्यसि चतूरत्नमयं सोपानम्।
071.009. तेन सोपानेन स्फटिकपर्वतमतिक्रमितव्यम्।
071.010. स्फटिकपर्वतमतिक्रान्तस्य ते प्रभास्वरा औषध्यन्तर्धास्यति।
071.010. तत्र ते न शोचितव्यं न क्रन्दितव्यं न परिदेवितव्यम्।
071.011. अथ चन्द्रप्रभो यक्षः सुप्रियं महासार्थवाहं समनुशास्य तत्रैवान्तर्हितः।
071.012. अथ सुप्रियो महासार्थवाहश्चन्द्रप्रभेण महायक्षेण समाश्वास्य आदेशितमार्गो यथोक्तेन विधिना स्फटिकपर्वतमतिक्रान्तः।
071.013. अतिक्रान्तस्य चास्य प्रभास्वरा औषध्यन्तर्हिता।
071.014. भूयः संप्रस्थितो ऽद्राक्षीत् सुप्रियो महासार्थवाहः सौवर्णं महानगरमारामसम्पन्नं पुष्करिणीसम्पन्नम्।
071.015. ततः सुप्रियो महासार्थवाहो नगरद्वारं गतः।
071.015. यावद्बद्धं नगरं पश्यति।
071.016. दृष्ट्वा च पुनरुद्यानं गत्वा चिन्तयति -- यद्यप्यहं नगरमद्राक्षम्, तदपि शून्यम्।
071.017. कदा बदरद्वीपस्य महापत्तनस्यागमनायाध्वा भविष्यतीति विदित्वा शयितः।
071.017. अथ सा पूर्वदेवता सुप्रियं महासार्थवाहं दुर्मनसं विदित्वा रात्र्याः प्रत्यूषसमय उषसंक्रम्य समाश्वास्य उत्कर्षयति -- साधु साधु महासार्थवाह, निस्तीर्णानि ते महासमुद्रपर्वतनदीकान्ताराणि मनुष्यामनुष्यागम्यानि।
071.020. संप्राप्तो ऽसि बदरद्वीपमहापत्तनं मनुष्यामनुष्यानवचरितं महेशाख्य पुरुषाध्युषितम्।
071.021. किं तर्हि न साम्प्रतमप्रमादः करणीयः।
071.021. इन्द्रियाणि च गोपयितव्यानि चक्षुरादीनि, कायगता स्मृतिर्भावयितव्या।
071.022. श्वोभूते नगरद्वारं त्रिकोटयितव्यम्।
071.022. ततश्चतस्रः किन्नरकन्या निर्गमिष्यन्ति अभिरूपा दर्शनीयाः प्रसादिकाश्चातुर्यमाधुर्यसम्पन्नाः सार्वाङ्गप्रत्यङ्गोपेताः परमरूपाभिजाताः सर्वालंकारविभूषिता हसितरमितपरिचारितनृत्तगीतवादित्रकलास्वभिज्ञ्नाः।
071.025. तास्त्वामत्यर्थमुपलालयन्ति, एवं च वक्ष्यन्ति -- एतु महासार्थवाहः।
071.025. स्वागतं महासार्थवाह, अस्माकमस्वामिनीनां स्वामी भव, अपतिकानां पतिरलयनानां लयनो ऽद्वीपानां द्वीपो ऽत्राणानां त्राणो ऽशरणानां शरणमपरायणानां परायणः।
071.027. इमानि च ते ऽन्नगृहाणि पानगृहाणि वस्त्रगृहाणि शयनगृहाण्यारामरमणीयानि, प्रभूतानि च जाम्बुद्वीपकानि रत्नानि, तद्यथा -- मणयो मुक्ता वैदूर्यशङ्खशिलाप्रवालरजतजातरूपमश्मगर्भमुसारगल्वो लोहितिका दक्षिणावर्ताः।
071.028. एतानि च ते रत्नानि।
071.030. त्वं चास्माभिः सार्धं क्रीडस्व रमस्व परिचारयस्व।
071.031. तत्र ते तासु मातृसंज्ञ्ना उपस्थापयितव्या, भगिनीसंज्ञ्ना दुहितृसंज्ञ्ना उपस्थापयितव्या।
071.032. दशाकुशलाः कर्मपथा विगर्हितव्याः, दश कुशलाः कर्मपथाः संवर्णयितव्याः।
071.032. सुबह्वपि ते <72>प्रलोभ्यमानेन रागसंज्ञ्ना नोत्पादयितव्या।
072.001. सचेदुत्पादयिष्यसि तत्रैवानयेन व्यसनमापत्स्यसे।
072.002. सूपस्थितस्मृतेस्तव सफलः श्रमो भविष्यति।
072.002. यद्यपि ते सुभाषितस्यार्घमणिं प्रयच्छेयुः, ततस्त्वया निपुणं प्रष्टव्याह् -- अस्य रत्नस्य भगिन्यः को ऽनुभाव इति।
072.003. एवं द्वितीयं किन्नरनगरमनुप्राप्तस्याष्टौ किन्नरकन्या निर्गमिष्यन्ति, तासां पूर्विकानामन्तिकादभिरूपतराश्च।
072.005. तत्रापि ते एषानुपूर्वी करणीया।
072.005. यावच्चतुर्थकिन्नरनगरप्राप्तस्य ते द्वात्रिंशत् किन्नरकन्या निर्गमिष्यन्ति तासां पूर्विकानामन्तिकादभिरूपतराश्च दर्शनीयतराश्च प्रासादिकतराश्चाप्सरसह् -- प्रतिस्पर्धिन्यः।
072.007. शतसहस्रशोभिता भविष्यन्ति।
072.007. तत्रापि ते एषैवानुपूर्वी करणीया।
072.007. इत्युक्त्वा सा देवता तत्रैवान्तर्हिता॥
072.009. अथ सुप्रियो महासार्थवाहः प्रमुदितमनाः सुखप्रतिबुद्धः काल्यमेवो ऽत्थाय सौवर्णं किन्नरनगरमनुप्राप्तः।
072.010. द्वारमूलमुपसंक्रम्य त्रिकोटयति।
072.010. ततः सुप्रियेण महासार्थवाहेन त्रिकोटिते द्वारे चतस्रः किन्नरकन्या निर्गता अभिरूपा दर्शनीयाः प्रासादिकाश्चातुर्यमाधुर्यसम्पन्नाः सर्वाङ्गप्रत्यङ्गोपेताः परमरूपाभिजाता हसितरमितपरिचारितनृत्तगीतवादित्रकलास्वभिज्ञ्नाः।
072.013. ता एवमाहुह् -- एतु महासार्थवाहः।
072.013. स्वागतं महासार्थवाह।
072.013. अस्माकमस्वामिनीनां स्वामी भव, अपतीनां पतिरलयनानां लयनो ऽद्वीपानां द्वीपो ऽशरणानां शरणो ऽत्राणानां त्राणो ऽपरायणानां परायणः।
072.015. इमानि च ते ऽन्नगृहाणि पानगृहाणि वस्त्रगृहाणि शयनगृहाण्यारामरमणीयानि वनरमणीयानि पुष्करिणीरमणीयानि च।
072.016. जाम्बुद्वीपकानि रत्नानि, तद्यथामणयो मुक्ता वैदूर्यशङ्खशिलाप्रवालरजतजातरूपमश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्ताह् एतानि च।
072.018. त्वं चास्माभिः सार्धं क्रीडस्व रमस्व परिचारयस्व।
072.018. अथ सुप्रियं महासार्थवाहं सूपस्थितस्मृतिं ताः किन्नरकन्याः सर्वाङ्गैरनुपरिगृह्य सौवर्णं किन्नरनगरं प्रवेश्य प्रासादमभिरोप्य प्रज्ञ्नप्त एवासने निषादयन्ति।
072.020. निषण्णः सुप्रियो महासार्थवाहो दशाकुशलान् कर्मपथान् विगर्हति, दश कुशलान् कर्मपथान् संवर्णयति, सुबह्वपि प्रलोभ्यमानो न शक्यते स्खलयितुम्।
072.022. तुष्टाश्च ताः किन्नरकन्याः कथयन्ति -- आश्चर्यम् यत्रेदानीं दहरश्च भवान् धर्मकामश्च।
072.023. न च कामेषु सज्जसे वा बध्यसे वा।
072.023. प्रभूतैश्च रत्नैश्च प्रवारयन्ति।
072.023. धर्मदेशनावर्जिताश्च एकं सौभासिनिकं रत्नमनुप्रयच्छन्ति।
072.024. ततः सुप्रियो महासार्थवाहस्तस्य रत्नस्य प्रभावान्वेषी कथयति -- अस्य रत्नस्य भगिन्यः को ऽनुभाव इति।
072.025. ताः कथयन्ति -- यत्खलु सार्थवाह जानीयाह् -- तदेव पोषधे पन्ञ्चदश्यां शिरःस्नात उपोषधोषित इदं मणिरत्नं ध्वजाग्रे आरोप्य योजनसहस्रं सामन्तकेन यो येनार्थी भवति हिरण्येन वा सुवर्णेन वा अन्नेन वा वस्त्रेण वा पानेन वा अलंकारविशेषेण वा द्विपादेन वा चतुष्पादेन वा यानेन वा वाहनेन वा धनेन वा धान्येन वा, स चित्तमुत्पादयतु, वाचं च निश्चारयतु।
072.029. सहचित्तोत्पादाद् वाग्निश्चारणेन यथेप्सिताश्चोपकरणविशेषा आकाशादवतरिष्यन्ति।
072.030. अयमस्य रत्नस्यानुभावः।
072.030. अथ सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृभगिनीदुहितृवत् प्रतिसंमोद्य सौवर्णात् किन्नरनगरात् प्रतिनिष्क्रान्तः।
072.032. अद्राक्षीत् सुप्रियो <73>महासार्थवाहो रूप्यमयं किन्नरनगरमारामसम्पन्नं वनसम्पन्नं पुष्करिणीसम्पन्नम्।
073.001. तत्रापि सुप्रियेण सार्थवाहेन त्रिकोटिते द्वारेऽष्टौ किन्नरकन्या निर्गताः।
073.002. ता अप्येवमाहुह् -- एतु महासार्थवाहः।
073.003. स्वागतं महासार्थवाहाय।
073.003. अस्माकमस्वामिकानां स्वामी भव, पूर्वद्यावत्ताभिरपि धर्मदेशनावर्जिताभिस्तद्विशिष्टतरं द्विसाहस्रयोजनवर्षकं मणिरत्नमनुप्रदत्तम्।
073.004. तत्रापि सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया क्थया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृभगिनीदुहितृवत् प्रतिसंमोद्य रूप्यमयात् किन्नरनगरात् प्रतिनिष्क्रान्तो यावत् तृतीयं वैडूर्यमयं किन्नरनगरमनुप्राप्तः।
073.007. तत्रापि सुप्रियेण सार्थवाहेन त्रिकोटिते द्वारे षोडश किन्नरकन्या निर्गताः, तासां पूर्विकानामन्तिकादभिरूपतराश्च प्रासादिकतराश्च।
073.008. ता अपि धर्मदेशनावर्जितास्तत एव विशिष्टतरं सौभासिनिकं त्रिसाहस्रयोजनिकं रत्नमनुप्रयच्छन्ति।
073.009. ततः सुप्रियो महासार्थवाहस्तस्य रत्नस्य प्रभावान्वेषी कथयति -- अस्य रत्नस्य भगिन्यः कोऽनुभाव इति? किन्नरकन्याः कथयन्ति -- पूर्ववत्।
073.011. सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृभगिनीदुहितृवत् प्रतिसंमोद्य तृतीयात् किन्नरनगरात् प्रतिनिष्क्रान्तः।
073.013. अद्राक्षीत् सुप्रियो महासार्थवाहश्चतुर्थं चतूरत्नमयं किन्नरनगरमारामोद्यानप्रासाददेवकुलपुष्करिणीतडागसुविभक्तरथ्यावीथीचत्वरशृङ्गाटकान्तरापणसुरचितगन्धोज्ज्वलं नानागीतवादितयुवतिमधुरस्वरवज्रवैडूर्यशातकुम्भमयप्राकारतोरणोपशोभितम्।
073.015. द्वारं त्रिराकोटयति।
073.015. ततः सुप्रियेण सार्थवाहेन त्रिराकोटिते द्वारे द्वात्रिंशत् किन्नरकन्या निर्गताः, तासां पूर्विकाणामन्तिकादभिरूपतराश्च दर्शनीयतराश्चाप्सरसःप्रतिस्पर्धिन्यः शतसहस्रशोभिताः।
073.017. ता अप्येवमाहुह् -- एतु महासार्थवाहः।
073.018. स्वागतं महासार्थवाहाय।
073.018. असमाकमस्वामिकानां स्वामी भव, अपतीनां पतिरलयनानां लयनो ऽद्वीपानां द्वीपो ऽशरणानां शरणो ऽत्राणानां त्रणो ऽपरायणानां परायणः।
073.020. इमानि च ते ऽन्नगृहाणि पानगृहाणि वस्त्रगृहाणि शयनगृहाण्यारामरमणीयानि वनरमणीयानि पुष्करिणीरमणीयानि।
073.021. प्रभूतानि च जाम्बुद्वीपकानि रत्नानि, तद्यथा -- मणयो मुक्ता वैडूर्यशङ्खशिलाप्रवालरजतं जातरूपमश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्ताः।
073.023. एतानि च ते वयं च।
073.023. अस्माभिः सार्धं क्रीडस्व रमस्व परिचारयस्व।
073.023. तत्रापि सुप्रियो महासार्थवाहः सूपस्थितस्मृतिस्ताः किन्नरकन्या विविधैर्धर्मपदव्यन्ञ्जनैः परितोषयामास।
073.025. तुष्टाश्च ताः किन्नरकन्याः सुप्रियं महासार्थवाहं सर्वाङ्गैरनुपरिगृह्य चतूरत्नमयं किन्नरनगरमनुप्रवेश्य प्रासादमभिरोप्य प्रज्ञ्नप्त एवासने निषादयन्ति।
073.026. निषण्णः सुप्रियो महासार्थवाहो दशाकुशलान् कर्मपथान् विगर्हति, दश कुशलान् कर्मपथान् संवर्णयति, सुबह्वपि प्रलोभ्यमानो न शक्यते स्खलयितुम्।
073.028. तुष्टाश्च ताः किन्नरकन्याः कथयन्ति -- आश्चर्यम् यत्रेदानीं दहरश्च भवान् धर्मकामश्च।
073.029. न च कामेषु सज्जसे वा बध्यसे वा।
073.029. प्रभूतैश्च रत्नैः प्रवारयन्ति।
073.030. ता अपि धर्मदेशनावर्जिताः सौभासिनिकं जाम्बुद्वीपप्रधानमनर्घ्येयमूल्यमनन्तगुणप्रभावं बदरद्वीपमापत्तने सर्वस्वभूतं रत्नमनुप्रयच्छन्ति।
073.031. एवं च कथयन्ति -- इदमस्माकं महासार्थवाह मणिरत्नं बदरेण भ्रात्रा किन्नरराज्ञ्ना अनुप्रदत्तम्, अस्मिन् बदरद्वीपमहापत्तने <74>चिह्नभूतमालक्ष्यभूतं मण्डनभूतं च।
074.001. ततः सुप्रियो महासार्थवाहः कथयति -- अस्य रत्नस्य को ऽनुभाव इति? ताः कथयन्ति -- यत्खलु महासार्थवाह जानीयाह् -- इदं मणिरत्नं तदेव पोषधोषितो ध्वजाग्रे बद्ध्वा आरोप्य कृत्स्ने जम्बुद्वीपे घण्टावघोषणं करणीयम् -- शृण्वन्तु भवन्तो जम्बुद्वीपनिवासिनः स्तीमनुष्याः, युष्माकम् यो येनर्थी उपकरणविशेषेण हिरण्येन वा सुबर्णेन वा रत्नेन वा अन्नेन वा पानेन वा वस्त्रेण वा भोजनेन वा अलंकारविशेषेण वा द्विपदेन वा चतुष्पदेन वा वाहनेन वा यानेन वा धनेन वा धान्येन वा स चित्तमुत्पादयतु, वचनं च निश्चारयतु।
074.007. सहचित्तोत्पादाद्वाग्निश्चारणेन च यथेप्सिताश्चोपकरणविशेष अस्य रत्नस्यानुभावादाकाशादवतरिष्यन्ति।
074.008. अयं तु प्रतिविशेषह् -- यानि चास्य लोकस्य भवन्ति महाभयानि, तद्यथा -- राजतो वा चैरतो वा अग्नितो वा उदको वा मनुष्यतो वा अमिष्यतो वा सिंहतो वा व्याघ्रतो वा द्वीपतरक्षुतो वा यक्ष्यराक्षसप्रेतपिशाचकुम्भाण्डपूतनकटपूतनतो वा, ईतयोपद्रवो वा, उपसर्गो वा, अनावृष्टिर्वा दुर्भिक्षभयानि वा, अस्मिन्नुच्छ्रिते रत्नविशेषे इम ईरयोपद्रवा न भविष्यन्ति।
074.012. इर्युक्त्वा ताः किन्नरकन्याः सुप्रियं महासार्थवाहं संराधयामासुह् --- साधु साधु महासार्थवाह, निस्तीर्णानि महासमुद्रपर्वतनदीकान्ताराणि।
074.013. पूरिता ते दृढसुप्रतिज्ञा।
074.014. सफलीकृता ते श्रद्धा।
074.014. ते गोपितानीन्द्रियाणि।
074.014. साधिता बदरद्वीपमहापत्तनयात्रा।
074.015. अधिगतं ते सर्वजनमनोरथसम्पादकं जम्बुद्वीपप्रधानं रत्नविशेषम्।
074.015. अपि तु येन त्वं पथेनागतः, अमनुष्यास्तावत्, प्रलयं गच्छेयुः प्रागेव मनुष्याः।
074.016. अन्यदेव वयं सन्मार्गं व्यपदेक्ष्यामः क्षिप्रं वाराणसीगमनाय।
074.017. तच्छृणु, मनसि कुरु, भाषिष्यामह् -- इतः पश्चिमे दिग्भागे सप्त प्रतानतिक्रम्य महापर्वत उच्चः।
074.018. तस्मिन् पर्वते लोहिताक्षो नाम राक्षसः प्रतिवसति रौद्रः परप्राणहरः।
074.019. स च पर्वतो ऽमनुष्यवचरितः कृष्णमन्धकारं सविस्फुलिङ्गं वायुं मोक्षयति।
074.020. तत्र ते एतदेव रत्नं ध्वजाग्रे ऽवरोपयित्वा गन्तव्यम्।
074.020. रत्नप्रभावाच्च ते ईतयो विलयं गमिष्यन्ति।
074.021. महापर्वतमतिक्रम्य अपरपर्वतः।
074.021. तस्मिन् पर्वते ऽग्निमुखो नागः प्रतिवसति।
074.022. स तव गन्धमाघ्राय सप्त रात्रिंदिवसान्यशनिं पातयिष्यति।
074.022. तत्र रत्नगुहां समन्विष्य प्रवेष्टव्यम्।
074.023. सप्तरात्रस्य चात्ययाद्दुष्टनागः स्वपिष्यति।
074.023. शयिते दिष्टनागे पर्वतमधिरोढव्यम्।
074.023. तत्र द्रक्ष्यसि समं भूमिप्रदेशमकृष्टोप्तं च तण्डुलफलशालिमकणकमतुषं शुचिं निष्फुटिगन्धिकं चतुरङ्गुलपर्यवनद्धम्।
074.025. यस्तमष्टम्यां पन्ञ्चदश्यां वा बालाहोऽश्वराजः परिभुज्य सुखी अरोगो बलवान् प्रीणितेन्द्रियः पूर्वकायमभ्युन्नमय्योदानमुदानयति -- कः पारगामी, कः पारगामी, कं पारं नयामि, स्वस्तिक्षेमाभ्यां जम्बुद्वीपमनुप्रापयामि, स त्वयोपसंक्रम्य इदं स्याद्वचनीयम् -- अहं पारगामी, मां पारं नय, मां स्वस्तिक्षेमाभ्यां वाराणसीमनुप्रापय।
074.028. अथ स सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृदुहितृवत् प्रतिसमोद्य यथोद्दिष्टेन मार्गेण यथोक्तेन विधिना अनुपूर्वेण तं भूमिप्रदेशमनुप्राप्तः।
074.030. स च बालाहोऽश्वराजश्चरन्नेवमाह -- कः पारगामी, कः पारगामी, कं पारं नयामि, स्वस्तिक्षेमाभ्यां जम्बुद्वीपमनुप्रापयामि? ततः सुप्रियो महासार्थवानो येन बालाहो ऽश्वराजस्तेनोपसंक्रान्तः।
075.001. <74>उपसंक्रम्य एकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन बालाहो ऽश्वराजस्तेनान्ञ्जलिं प्रणम्य बालाहमश्वराजमिदवोचत् -- अहं पारगामी, अहं पारगामी, नय माम्।
075.003. स्वस्तिक्षेमाभ्यां वाराणसीमनुप्रापय।
075.003. एवमुक्ते बालाहो ऽश्वराजः सुप्रियं महासार्थवाहमिदमवोचत् -- न ते महासार्थवाह मम पृष्ठाधिरूढेन दिशो नावलोकयितव्याः, निमीलिताक्षेण ते स्थेयम्।
075.005. इत्युक्त्वा बालाहोऽश्वराजः पृष्ठमुपनामयति।
075.005. अथ सुप्रियो महासार्थवाहो बालाहस्याश्वराजस्य पृष्ठमधिरुह्य यथानुशिष्टो ऽल्पैश्च क्षणलवमुहूर्तैर्वाराणसीमनुप्राप्तः।
075.006. स्व उय्हाने ऽवतरितः।
075.007. अवतीर्य सुप्रियो महासार्थवाहो बालाहाश्वराजपृष्ठाद्बालाहाश्वराजं त्रिप्रदक्षिणीकृत्य पादाभिवन्दनं करोति।
075.008. ततो बालाहो ऽश्वराजः सुप्रियं महासार्थवाहं संराधयामास -- साधु साधु महासार्थवाह।
075.009. निस्तीर्णानि ते महासमुद्रपर्वतनदीकान्ताराणि।
075.009. पूरिता ते दृढप्रतिज्ञ्ना।
075.010. सफलीकृतस्ते ऽध्वा।
075.010. गोपितानीन्द्रयाणि।
075.010. साधिता ते बदरद्वीपमहापत्तनयात्रा।
075.010. अधिगतस्ते सर्वजनमनोरथसम्पादको जम्बुद्वीपस्य प्रधानो रत्नविशेषः।
075.011. एवं हि परहितार्थमभ्युद्यताः कुर्वन्ति सत्त्वविशेषाः।
075.012. इत्युक्त्वा बालाहो ऽश्वराजः प्रक्रान्तः।
075.012. अथाचिरप्रक्रान्ते बालाहे ऽश्वराजनि सुप्रियो महासार्थवाहः स्वगृहं प्रविष्टः।
075.013. अश्रौषुर्वाराणसीनिवासिनः पौरा ब्रह्मदत्तश्च काशिराजह् -- सुप्रियो महासार्थवाहः पूर्णेन वर्षशतेन संसिद्धयात्रः पूर्णमनोरथः स्वगृहमनुप्राप्त इति।
075.015. श्रुत्वा च पुनर्ब्रह्मदत्तः काशिराज आनन्दितः।
075.015. पौरवर्गः सुप्रियं सार्थवाहं संराधयामास।
075.016. अश्रौषीत् तत् पूर्वकं चौरसहस्रमन्यश्च जनो धनार्थी -- सुप्रियो महासार्थवाहः संसिद्धयात्रः परिपूर्णमनोरथ आगत इति।
075.017. स्रुत्वा च पुनरुपसंक्रम्य सुप्रियं महासार्थवाहमिदमवोचन् -- परिक्षीणधनाः स्म इति।
075.018. एवमुक्ते महासार्थवाहस्तान् सर्वान् मैत्रेण चक्षुषा व्यवलोक्य विज्ञ्नापयति -- गच्छतु भवन्तः स्वकस्वकेषु विजितेषु।
075.019. यो येनार्थी उपकरणविशेषेण भवति, स तस्यार्थे चित्तमुत्पादयतु, वाचं च निश्चारयतु।
075.020. श्रुत्वा च पुनः प्रक्रान्तः।
075.020. अथ सुप्रियो महासार्थवाहस्तदेव पोषधे पन्ञ्चदश्यां शिरःस्नात उपोषधोषितो यत्तत्प्रथमलब्धं मणिरत्नं ध्वजाग्रे आरोप्य वाचं च निश्चारयति, योजनसहस्रसामन्तकेन यथेप्सितानि सत्त्वानामुपकरणान्युत्पद्यन्ते, सहाभिधानच्च यो येनार्थी तस्य तद्वर्षं भवति।
075.023. ततः परिपूर्णमनोरथास्ते सत्त्वाः।
075.024. तच्चौरसहस्रं सुप्रियेण महासार्थवाहेन दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापितः॥
075.025. अत्रान्तरात् कालगते ब्रह्मदत्ते काशिराजनि पौरामात्यैः सुप्रियो महासार्थवाहो राजाभिषेकेणाभिषिक्तः।
075.026. महाभिषिक्तेन सुप्रियेण महाराज्ञ्ना द्वितीयं मणिरत्नं ध्वजाग्रे आरोप्य पूर्वविधिना द्वीयोजनसहस्रसामन्तकेन यथेप्सितानि सत्त्वानामुपकरणान्युत्पद्यन्तामिति सहाभिधानाच्च यो येनार्थी तस्य तद्वर्षति।
075.028. तृतीयेन मणिरत्नेन यथोक्तेन विधिना ध्वजाग्रोच्छ्रितेन यथेप्सितोपकरणविशेषवर्षणानि संपन्नानि।
075.029. एवं त्रियोजनसहस्रसामन्तकेनोपकरणैः स्त्रीमनुष्याः संतर्पिताः।
075.030. ततो ऽनुपूर्वेण जम्बुद्वीपैश्वर्यभूतेन सुप्रियेण महाराज्ञ्ना तदेव पोषधे पन्ञ्चदश्यां शिरःस्नातेनोपोषधोषितेन कृत्स्ने जम्बुद्वीपे घण्टावघोषणं कृत्वा उपकरणोत्पन्नाभिलाषिणां स्त्रीमनुष्याणां जम्बुद्वीपनिवासिनाम् यन्मणिरत्नं बदरद्वीपमहापत्तनसर्वस्वभूतम् यथेप्सितम् <76>सर्वोपकरणवर्षिणं ध्वजाग्रे आरोपयामास।
076.001. समनन्तरं ध्वजाग्रावरोपिते तस्मिञ् जम्बुद्वीपप्रधानमणिरत्ने कृत्स्नो जम्बुद्वीपनिवासी महाजनकायो यथेप्सितैरुपकरणविशेषैः संतर्पितः।
076.003. उपकरणसंतर्पितश्च जम्बुद्वीपनिवासी जनकायः सुप्रियेण राज्ञ्ना दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापितः।
076.004. ततो ज्येष्ठं कुमारं राज्यैश्वर्याधिपत्ये पर्तिष्ठाप्य राजर्षिब्रह्मचर्यं चरित्वा चतुरो ब्रह्मान् विहारान् भावयित्वा कामेषु कामच्छन्दं प्रहाय तद्बहुलविहारी ब्रह्मलोकसभागतायां चोपपन्नो महाब्रह्मा संवृत्तः॥
076.007. भगवनाह -- किं मन्यध्वे भिक्षवो यो ऽसौ सुप्रियो नाम महासार्थवाहः, अहमेव तेन कालेन तेन समयेन बोधिसत्त्वचर्यायां वर्तितवान्।
076.008. यत्तच्चौरसहस्रम्, एतदेव भिक्षसहस्रम्।
076.009. या सा पूर्वदेवता, काश्यपः सम्यक्सम्बुद्धो बोधिसत्त्वभूतः स तेन कालेन तेन समयेन।
076.010. यश्चासौ मघो महासार्थवाहः, एष एव शारिपुत्रो भुक्षुः स तेन का
लेन तेन समयेन।
076.011. यश्चासौ नीलादो नाम महायक्षः, एष एवानन्दो भिक्षुस्तेन कालेन तेन समयेन।
076.012. यश्चासौ चन्द्रप्रभो यक्षः, एष एवानिरुद्धो भिक्षुः स तेन कालेन तेन समयेन।
076.012. यश्चासौ लोहिताक्षो नाम महायक्षः, स एष एव देवदत्तस्तेन कलेन तेन समयेन।
076.013. यश्चासौ अग्निमुखो नाम नागः, एष एव मारः पापीयान् स तेन कलेन तेन समयेन।
076.014. यश्चासौ बालाहो ऽश्वराजः, मैत्रेयो बोद्धिसत्त्वस्तेन कालेन तेन समयेन।
076.015. तदा तावन्मया भिक्षवो दृढप्रतिज्ञ्नेन प्रतिज्ञ्नापूरणार्थं सप्तवारांश्चौरसहस्रात् सार्थः परित्रातः।
076.016. अपरितुष्टांश्च चौरान् विदित्वा दृढप्रतिज्ञ्ना कृता।
076.017. कृत्वा चानेकैर्दुष्करशतसहस्रैर्बदरद्वीपमहापत्तनस्य यात्रां साधयित्वा चौरसहस्रप्रमुखं कृत्स्नं जम्बुद्वीपं धनेन संतर्पयित्वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापितः।
076.019. इदानीमपि मया अनेकैर्दुष्करशतसहस्रैरनुत्तरं ज्ञ्नानमधिगम्य मैत्रायता करुणया सप्तकृत्वश्चौरसहस्रसकाशात् सार्थः परित्रातः।
076.020. अपरितुष्टं च चौरसहस्रं विदित्वा यावदाप्तं धनेन संतर्पयित्वा अत्यन्तनिष्ठे ऽनुत्तरे योगक्षेमे निर्वाणे प्रतिष्ठापिताः।
076.021. अनेकानि च देवमनुष्यशतसहस्राणि यक्षराक्षसप्रेतपिशाचकुम्भाण्डपूतनकटपूतनकोटिशतसहस्राणि शरणगमनशिक्षापदेषु प्रतिष्ठापितानि॥
076.024. इदमवोचद्भगवान्।
076.024. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
076.025. इति श्रीदिव्यावदाने सुप्रियावदानमष्टमम्॥
********** अवदान 9 **********
077.001. दिव्9 मेन्धकग्र्हप्तिविभूतिपरिच्छेदः।
077.002. श्रावस्त्यां निदानम्।
077.002. तेन खलु समयेन भद्रंकरे नगरे षड् जना महापुण्याः प्रतिवसन्ति--मेण्ढको गृहपतिर् मेण्ढकपत्नी मेण्ढकपुत्रो मेण्ढकस्नुषा मेण्ढकदासो मेण्ढकदासी।
077.004. कथं मेण्ढको गृहपतिर्ज्ञातो महापुण्यह्? स यदि रिक्तकानि कोशकोष्ठागाराणि पश्यति, सहदर्शनादेव पूर्यन्ते।
077.005. एवं मेण्ढको गृहपतिर्ज्ञातो महापुण्यः।
077.005. कथं मेण्ढकपत्नी? सा एकस्यार्थाय स्थालिकां साधयति, शतानि सहस्राणि च भुञ्जते।
077.006. एवं मेण्ढकपत्नी।
077.006. कथं मेण्ढकपुत्रह्? तस्य पञ्चशतिको नकुलको कट्यां बद्धस्तिष्ठति।
077.007. स यदि शतं सहस्रं वा परित्यजति, तदा पूर्ण एव तिष्ठति, न परिक्षीयते।
077.008. एवं मेण्ढकपुत्रः।
077.008. कथं मेण्ढकस्नुषा? सा एकस्यार्थाय गन्धं संपादयति, शतसहस्रस्य पर्याप्तिर्भवति।
077.009. एवं मेण्ढकस्नुषा।
077.010. कथं मेण्ढकदासह्? स यदैकं हलसीरं कृषति, तदा सप्त सीराः कृष्टा भवन्ति।
077.010. एवं मेण्ढकदासः।
077.010. कथं मेण्ढकदासी महापुण्या? सा यदैकं वस्तु रक्षति, तत्सप्तगुणं स्यात्।
077.011. यदा एकमात्रं प्रतिजागर्ति, तदा सप्त मात्राः संपद्यन्ते।
077.012. एवं मण्ढकदासी महापुण्या॥
077.013. धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रतिहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य षट्कृत्वो रात्रिंदिवसस्य बुद्धचक्षुषा लोकं
व्यवलोक्य ज्ञानदर्शनं प्रवर्तते--को हीयते, को वर्धते, कः कृच्छ्रप्राप्तः, कः संकटप्राप्तः, कः संबाधप्राप्तः, कः कृच्छ्रसंकटसम्बाधप्राप्तः, को ऽपायनिंनः, को ऽपायप्रवणः, को ऽपायप्राग्भारः, कमहमपायमार्गाद्व्युत्थाप्य स्वर्गफले मोक्षे च प्रतिष्ठापयेयम्, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रदद्याम्,
कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्ठापयामि, कस्यानवरोपितानि कुशलमूलान्यवरोपयेयम्, कस्यावरोपितानि परिपाचयेयम्, कस्य पक्वानि विमोचयेयम्, कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर्विशोधयेयम्।
077.025. अप्येवातिक्रमेद्वेलां सागरो मकरालयः।
077.026. न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्
077.027. सर्वज्ञसंताननिवासिनी हि
077.028. कारुण्यधेनुर्मृगयत्यखिन्ना।
077.029. वैनेयवत्सान् भवदुर्गनष्टान्
077.030. वत्सान् प्रणष्टानिव वत्सला गौः
077.031. भगवान् संलक्षयति--अयं मेण्ढको गृहपतिः सपरिवारो भद्रंकरे नगरे प्रतिवसति।
077.032. तस्य वैनेयकालं पक्वमिव गण्डं शस्त्राभिनिपातमवेक्षते।
077.032. यन्न्वहं भद्रंकरेषु जनपदेषु चारिकाम् <78>चरेयम्।
078.001. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--गच्छ त्वमानन्द, भिक्षूणामारोचय--तथागतो भिक्षवो भद्रंकरेषु जनपदेषु चारिकां चरिष्यति।
078.002. यो युष्माकमुत्सहते तथागतेन सार्धं भद्रंकरेषु जनपदेषु चारिकां चर्तुम्, स चीवरकाणि प्रतिगृह्णातु इति।
078.003. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति--तथागत आयुष्मन्तो भद्रंकरेषु जनपदेषु चारिकां चरिष्यति।
078.005. यो युष्माकमुत्सहते तथागतेन सार्धं भद्रंकरेषु जनपदेषु चारिकां चरितुम्, स चीवरकाणि प्रतिगृह्णातु इति।
078.006. एवमायुष्मन्निति ते भिषव आयुष्मत आनन्दस्य प्रतिश्रुत्य पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्ति॥
078.008. अथ भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारो विनीतो विनीतपरिवारो ऽर्हन्नर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारः, वृषभ इव गोगणपरिवृतः, सिंह इव दंष्ट्रगणपरिवारः, हंसराज इव हंसगणपरिवृतः, सुपर्ण इव पक्षिगणपरिवृतः, विप्र इव शिष्यगणपरिवृतः, सुवैद्य इवातुरगणपरिवृतः, शूर इव योधगणपरिवृतः, देशिक इवाध्वगणपरिवृतः, सार्थवाह इव वणिग्गणपरिवृतः, श्रेष्ठीव पौरजनपरिवृतः, कोट्टराज इव मन्त्रिय्गणपरिवृतः,
चक्रवर्तीव पुत्रसहस्रपरिवृतः, चन्द्र इव नक्षत्रगणपरिवृतः, सूर्य इव रश्मिसहस्रपरिवृतः, धृतराष्ट्र इव गन्धर्वगणपरिवृतः, विरूढक इव कुम्भाण्डगणपरिवृतो विरूपाक्ष इव नागगणपरिवृतः, धनद इव यक्षगणपरिवृतः, वेमचित्तिरिवासुरगणपरिवृतः, शक्र इव त्रिदशगणपरिवृतः, ब्रह्मेव ब्रह्मकायिकपरिवृतह्,
स्तिमित इव जलनिधिः, सजल इव जलनिधिः, विमद इव गजपतिः, सुदान्तैरिन्द्रियैरसंक्षोभितेर्यापथप्रचारो द्वात्रिंशता महापुरुषलक्षणैरशीत्यानुव्यञ्जनैर्विराजतगात्रो दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिः स्मृत्युपस्थानैर्महाकरुणया च।
078.019. एवमनेकगुणगणसमन्वागतो बुद्धो भगवाञ् जनपदचारिकया भद्रंकरं नगरं संप्रस्थितः।
078.020. यदा भगवता श्रावस्त्यां महाप्रातिहार्यं विदर्शितम्, निर्भर्त्सिता आनन्दिता देवमनुष्याः, तोषितानि सज्जनहृदयानि, तदा भग्नप्रभावास्तीर्थ्याः प्रत्यन्तान् संश्रिताः।
078.022. ततः केचिद्भद्रंकरं नगरं गत्वा अवस्थिताः।
078.023. तैः श्रुतं श्रमण गौतम आगच्छतीति।
078.023. श्रुत्वा च पुनर्व्यथितास्ते परस्परं कथयन्ति--पूर्वं तावद्वयं श्रमणेन गौतमेन मध्यदेशान्निर्वासिताः।
078.024. स यदीहागमिष्यति, नियतमितो ऽपि निर्वासयिष्यति।
078.025. तदुपायसंविधानं कर्तव्यमिति।
078.025. ते कुलोपकरणशाला उपसंक्रम्य कथयन्ति--धर्मलाभो धर्मलाभः।
078.026. ते कथयन्ति--किमिदम्? अवलोकिता गमिष्यामः।
078.026. कस्यार्थाय? दृष्टा अस्माभिर्युष्माकं संपत्तिः, यावद्विपत्तिं न पश्यामः।
078.027. आर्यकाः, अस्माकं विपत्तिर्भविष्यति।
078.028. भवन्तः, श्रमणो गौतमः क्षुराशनिं पातयन्ननेका अपुत्रिका अपतिकाश्च कुर्वन्नागच्छति।
078.029. आर्याः, यद्येवम्, यस्मिन्नेव काले स्थातव्यं तस्मिन्नेव काले ऽस्माकं परित्यागस् त्रियते।
078.030. तिष्ठत, न गन्तव्यम्।
078.030. ते कथयन्ति--किं वयं न तिष्ठामह्? न यूयमस्माकं श्रोष्यथ।
078.030. आर्याः कथयत, श्रोष्यामः।
078.031. ते कथयन्ति--भद्रंकरसामन्तकेन सर्वजनकायमुद्वास्य भद्रंकरं नगरं प्रवासयत।
078.032. शाद्वलानि कृंषत।
078.032. स्थण्डिलानि पातयत।
078.032. पुष्पफलवृक्षं छेदयत।
078.032. पनीयानि <79>विषेण दूषयत।
079.001. ते कथयन्ति--आर्याः, तिष्ठत, सर्वमनुतिष्ठाम इति।
079.001. ते ऽवस्थिताः।
079.001. ततस्तैर्भद्रंकरनगरसामन्तकेन सर्वो जनकाय उद्वास्य भद्रंकरं नगरं प्रवासितः, शाद्वलानि कृष्टानि, स्थण्डिलानि पातितानि, पुष्पफलवृक्षाश्छिन्नाः, पानीयानि विषदूषितानि।
079.003. ततः शक्रो देवेन्द्रः संलक्षयति--न मम प्रतिरूपम् यदहं भगवतो ऽसत्कारमध्युपेक्षेयम्।
079.004. येन नाम भगवता त्रिभिः कल्पासंख्येयैरनेकैर् दुष्करशतसहस्रैः षट् पारमिताः परिपूर्यानुत्तरज्ञानमधिगतम्, स नाम भगवान् सर्वलोकप्रतिविशिष्टः सर्ववादविजयी शून्ये जनपदे चारिकं चरिष्यति।
079.007. यन्न्वहं भगवतः सश्रावकसंघस्य सुखस्पर्शार्थाय औत्सुक्यमापद्येयमिति।
079.007. तेन वातबलाहकानां देवपुत्राणामाज्ञा दत्ता--गच्छत भद्रंकरनगरसामन्तकेन, विषपानीयानि शोषयत इति।
079.009. वर्षबलाहकानां देवपुत्राणामाज्ञा दत्ता--आष्टाङ्गोपेतस्य पानीयस्यापूर्यतेति।
079.009. चातुर्महाराजिका देवा उक्ताह्--यूयं भद्रंकराणां जनपदानां वासयतेति।
079.010. ततो वातबलाहकैर्देवपुत्रैर्विषदूषितानि पानीयानि {शोषितानि}, वर्षबलाहकैस्तान्येव कूपोदपानवापीसरस्तडागान्यष्टाङ्गोपेतस्य पानीयस्य पूरितानि।
079.012. चातुर्महाराजिकैर्देवैर्भद्रंकरनगरसामन्तकं सर्वमावासितम्।
079.012. जनपदा ऋद्धाः स्फीताः संवृत्ताः।
079.013. तीर्थ्यैर् नगरजनकायसमेतैरवचरकाः प्रेषिताह्--गत्वा पश्यत कीदृशा जनपदा इति।
079.014. ते गताः पश्यन्त्यतिशयेन जनपदान् ऋद्धान् स्फीतान्।
079.014. तत आगत्य कथयन्ति--भवन्तः, न कदाचिदस्माभिरेवम्रूपा जनपदा ऋद्धाः स्फीता दृष्टपूर्वा इति।
079.015. तीर्थ्याः कथयन्ति--भवन्तः, वो यस्तावदचेतनान् भावानन्वावर्तयति, स युष्मान्नान्वावर्तयिष्यतीति? कुत एतत्? सर्वथा अवलोकिता भवन्तः, अपश्चिमं वो दर्शनम्, गच्छाम इति।
079.017. ते कथयन्ति--आर्याः, तिष्ठत, किम् युष्माकं श्रमणो गौतमः करोति? सो ऽपि प्रव्रजितः, यूयमपि प्रव्रजिता भिक्षाचराः।
079.019. किमसौ युष्माकं भिक्षां चरिष्यतीति? तीर्थ्याः कथयन्ति--समयेन तिष्ठामो यदि यूयं क्रियाकारं कुरुत--न केनचिच्छ्रमणं गौतमं दर्शनायोपसंक्रमितव्यम्।
079.020. य उपसंक्रामति, स षष्टिकार्षापणो दण्ड्य इति।
079.021. तैः प्रतिज्ञातं क्रियाकारश्च कृतः॥
079.022. ततो {भगवान्} जनपदचारिकां चरन् भद्रंकरं नगरमनुप्राप्तः।
079.022. भद्रंकरे नगरे विहरति दक्षिणायतने।
079.023. तेन् खलु समयेन कपिलवस्तुनो ब्राह्मणदारिका भद्रंकरे नगरे परिणीता।
079.024. तया प्राकारस्थया भगवानन्धकारे दृष्टः।
079.024. सा संलक्षयति--अयं भगवाञ् शाक्यकुलनन्दनः शाक्यकुलाद्राज्यमपहाय प्रव्रजितः।
079.025. स इदानीमन्धकारे तिष्ठति।
079.025. यद्यत्र सोपानं स्यात्, अहं प्रदीपमादायावतरेयमिति।
079.026. ततो भगवता तस्याश्चेतसा चित्तमाज्ञाय सोपानं निर्मितम्।
079.027. ततो हृष्टतुष्टप्रमुदिता प्रदीपमादाय सोपानेनावतीर्य येन भगवांस्तेनोपसंक्रान्ता।
079.027. उपसंक्रम्य भगवतः पुरस्तात् प्रदीपं स्थापयित्वा पादौ शिरसा वन्दित्वा निषण्णा धर्मश्रवणाय।
079.028. ततो भगवता तस्या आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चत्रुआर्यसत्यसम्प्रतिवेधिकी पूर्ववद्यावच्छरणगतामभिप्रसन्नामिति।
079.030. अथ भगवांस्तां दारिकामिदमवोचत्--एहि त्वं दारिके येन मेण्ढको गृहपतिस्तेनोपसंक्रम, उपसंक्रम्यैवं मद्वचनादारोग्यापय, एवं च वद--गृहपते, त्वामुद्दिश्याहमिहागतः, त्वं च द्वारं बद्ध्वा स्थितः।
079.032. युक्तमेतदेवमतिथेः प्रतिपत्तुम् यथा त्वम् <80>प्रतिपन्न इति? यदि कथयति--गणेन क्रियाकारः कृत इति, वक्तव्यह्--तव पुत्रस्य पञ्चशतिको नकुलकः कट्यां बद्धस्तिष्ठति।
080.002. स यदि शतं वा सहस्रं वा व्ययीकरोति, पूर्यत एव, न परिक्षीयते।
080.003. न शक्नोषि षष्टिकार्षापणं दत्त्वा आगन्तुमिति? एवं भदन्तेति सा दारिका भगवतः प्रतिश्रुत्य संप्रस्थिता।
080.004. यथापरिज्ञातैव केनचिदेव मेण्डकस्य गृहपतेः सकाशं गता।
080.005. गत्वा च कथयति--गृहपते भगवांस्त आरोग्ययति।
080.005. स कथयति--वन्दे बुद्धं भगवन्तम्।
080.006. गृहपते, भगवानेवमाह--त्वामेवाहमुद्दिश्यागतः, त्वं च द्वारं बद्ध्वा अवस्थितः।
080.007. युक्तमेतदेवमतिथेः प्रतिपत्तुम् यथा त्वं प्रतिपन्न इति? स कथयति--दारिके, गणेन क्रियाकारः कृतह्--न केनचिच्छ्रमणं गौतमं दर्शनाय उपसंक्रमितव्यम्।
080.008. य उपसंक्रामति, स गणेन षष्टिकार्षापणो दण्ड्य इति।
080.009. गृहपते, भगवान् कथयति--तव पुत्रस्य पञ्चशतिको नकुलकः कट्यां बद्धस्तिष्ठति।
080.010. स यदि शतं वा सहस्रं वा व्ययीकरोति, पूर्यत एव, न परिक्षीयते।
080.011. न शक्नोषि त्वं षष्टिकार्षापणं दत्वा आगन्तुमिति? स संलक्षयति--न कश्चिदेतज्जानीते।
080.011. नूनं सर्वज्ञः स भगवान्।
080.012. गच्छामीति।
080.012. स षष्टिकार्षापणान् द्वारे स्थापयित्वा ब्राह्मणदारिकोपदिष्टेन सोपानेनावतीर्य येन भगवांस्तेनोपसंक्रान्तः।
080.013. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय।
080.014. ततो भगवता मेण्ढकस्य गृहपतेराशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा मेण्ढकेन गृहपतिना यावच्छ्रोतापत्तिफलं साक्षात्कृतम्।
080.016. स दृष्टसत्यः कथयति--भगवन्, किमेषो ऽपि भद्रंकरनगरनिवासी जनकाय एवंविधानां धर्माणां लाभीते? भगवानाह--गृहपते, त्वामागम्य भूयसा सर्व एव जनकायो लाभीते।
080.018. ततो मेण्ढको गृहपतिर्भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः।
080.019. स्वगृहं गत्वा नगरमध्ये कार्षापणानां राशिं व्यवस्थाप्य गाथां भाषते--
080.021. यो द्रष्टुमिच्छति जिनं जितरागदोषं निर्बन्धमप्रतिसमं करुणावदातम्।
080.023. सो ऽनिश्चरेण हृदयेन सुनिश्चितेन क्षिप्रं प्रयातु धनमस्य मया प्रदेयम्
मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0