दिव्यावदान · अध्याय 7
इति॥
050.019. ततो भगवता तस्य महाजनकायस्य तथाविधा धर्मदेशना कृता, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर्महान् विशेषो ऽधिगतः।
050.021. कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित् प्रत्येकबोधौ, कैश्चिदनुत्तरायां सम्यक्सम्बोधौ, कैश्चिन्मूर्धागतानि, कैश्चिन्मूर्धानः, कैश्चिदुष्णगतान्यासादितानि, कैश्चित् सत्यानुलोमाः क्षान्तयः, कैश्चित्स्रोताअपत्तिफलं साक्षात्कृतम्, कैश्चित् सकृदागमिफलम्, कैश्चित् सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
050.023. यद्भूयसा बुद्धनिंना धर्मप्रवणाः संघप्राग्भारा व्यवस्थापिताः॥
050.025. अथ अनाथपिण्डदो गृहपतिर्भगवन्तमिदमवोचत्--यदि भगवाननुजानीयात्, अत्र महं प्रज्ञायेयम्।
050.026. अनुजानामि गृहपते, प्रज्ञापयितव्यम्।
050.026. ततो ऽनाथपिण्डदेन गृहपतिना महः प्रज्ञापितः।
050.027. तोयिकामह इति संज्ञा संवृत्ता॥
050.028. इदमवोचद्भगवान्।
050.028. आत्तमनसस् ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
050.029. इति श्रीदिव्यावदाने इन्द्रनामब्राह्मणावदानं षष्ठम्॥
********** अवदान 7 **********
051.001. दिव्7 नगरावलम्बिकावदानम्।
051.002. अथ भगवान् कोशलेषु जनपदेषु चारिकां चरञ् श्रावस्तीमनुप्राप्तः।
051.002. श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे।
051.003. अश्रौषीदनाथपिण्डदो गृहपतिह्--भगवान् कोशलेषु जनपदेषु चारिकां चरञ् श्रावस्तीमनुप्राप्तः।
051.004. श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्याराम् इति।
051.005. श्रुत्वा च पुनर्येन भगवांस्तेनोपसंक्रान्तः।
051.005. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
051.006. एकान्तनिषण्णमनाथपिण्डदं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
051.007. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्।
051.008. अनाथपिण्डदो गृहपतिह् उत्थायासनादेकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अधिवासयतु मे भगवाञ् श्वो ऽन्तर्गृहे भुक्तेन सार्धं भिक्षुसंघेन इति।
051.010. अधिवासयति भगवाननाथपिण्डदस्य गृहपतेस्तूष्णीभावेन।
051.011. अनाथपिण्डदो गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तो येन स्वनिवेशनं तेनोपसंक्रान्तः।
051.013. उपसंक्रम्य दौवारिकं पुरुषमामन्त्रयते--न तावद्भोः पुरुष तीर्थ्यानां प्रवेशो दातव्यो यावद् बुद्धप्रमुखेन भिक्षुसंघेन भुक्तं भवति।
051.014. ततः पश्चादहं तीर्थ्यानां दास्यामीति।
051.015. एवमार्येति दौवारिकः पुरुषो ऽनाथपिण्डदस्य गृहपतेः प्रत्यश्रौषीत्।
051.016. अनाथपिण्डदो गृहपतिस्तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीयं काल्यमेवोत्थाय आसनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तम् यस्येदानीं भगवान् कालं मन्यत इति।
051.018. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन अनाथपिण्डदस्य गृहपतेर्भक्ताभिसारस्तेनोपसंक्रान्तः।
051.020. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
051.020. अथ अनाथपिण्डदो गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति।
051.022. अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय॥
051.025. अथायुष्मान् महाकाश्यपो ऽन्यतमस्मादारण्यकाच्छयनासनात् दीर्घकेशश्मश्रुर्लूहचीवरो जेतवनं गतः।
051.026. स पश्यति जेतवनं शून्यम्।
051.026. तेनोपधिवारिकः पृष्टह्--कुत्र बुद्धप्रमुखो भिक्षुसंघ इति।
051.027. तेन समाख्यातम्--अनाथपिण्डदेन गृहापतिनोपनिमन्त्रित इति।
051.027. स संलक्षयति--गच्छामि, तत्रैव पिण्डपातं परिभोक्ष्यामि, बुद्धप्रमुखं च भिक्षुसंघं पर्युपासिष्यामीति।
051.028. सो ऽनाथपिण्डदस्य गृहपतेर् निवेशनं गतः।
051.029. अतो दौवारिकेन उक्तह्--आर्य तिष्ठ, मा प्रवेक्ष्यसि।
051.030. कस्यार्थाय? अनाथपिण्डदेन गृहपतिना आज्ञा दत्ता--मा तावत् तीर्थ्यानां प्रवेशं दास्यसि, यावद्बुद्धप्रमुखेन भिक्षुसंघेन भुक्तम्।
051.031. ततः पश्चात् तीर्थ्यानां दास्यामि इति।
051.031. अथायुष्मान् महाकाश्यपः संलक्षयति--तस्य मे लाभाः सुलब्धाः, यन्मां श्राद्धा ब्राह्मणगृहपतयः श्रमणशाक्यपुत्रीय<52> इति न जानन्ते।
052.001. गच्छामि, कृपणजनस्यानुग्रहं करोमीति विदित्वा उद्यानं गतः।
052.001. स संलक्षयति--अद्य मया कस्यानुग्रहः कर्तव्य इति।
052.002. यावदन्यतमा नगरावलम्बिका कुष्ठाभिद्रुता सरुजार्ता पक्वगात्रा भिक्षामटति।
052.003. स तस्याः सकाशमुपसंक्रान्तः।
052.003. तस्याश्च भिक्षायामायासः संपन्नः।
052.004. तया आयुष्मान् महाकाश्यपो दृष्टः कायप्रासादिकश्चित्तप्रासादिकः शान्तेन ईर्यापथेन।
052.005. सा संलक्षयति--नूनं मया एवंविधे दक्षिणीये कारा कृता, येन मे इयमेवम्रूपा समवस्था।
052.005. यदि आर्यो महाकाश्यपो ममान्तिकादनुकम्पामुपादाय आचामं प्रतिगृह्णीयात्, अहमस्मै दद्यामिति।
052.007. तत आयुष्मता महाकाश्यपेन तस्याश्चेतसा चित्तमाज्ञाय पात्रमुपनामितम्--यदि ते भगिनि परित्यक्तम्, दीयतामस्मिन् पात्र इति।
052.008. ततस्तया चित्तमभिप्रसाद्य तस्मिन् पात्रे दत्तम्।
052.009. मक्षिका च पतिता।
052.009. सा तामपनेतुमारब्धा।
052.009. तस्यास्तस्मिन्नाचामे ऽङ्गुलिः पतिता।
052.009. संलक्षयति--किं चाप्यार्येण मम चित्तानुरक्षया न च्छोरितः, अपि तु न परिभोक्ष्यतीति।
052.010. अथायुष्मता महाकाश्यपेन तस्याश्चेतसा चित्तमाज्ञाय तस्या एव प्रत्यक्षमन्यतमं कुड्यमूलं निश्रित्य परिभुक्तम्।
052.012. स संलक्षयति--किं चापि आर्येण मम चित्तानुरक्षया परिभुक्तम्, नानेनाहारेणाहारकृत्यं करिष्यति इति।
052.013. अथायुष्मान् महाकाश्यपस्तस्याश्चित्तमाज्ञाय तां नगरावलम्बिकामिदमवोचत्--भगिनि प्रामोद्यमुत्पादयसि, अहं त्वदीयेनाहारेण रात्रिंदिवसमतिनामयिष्यामि इति।
052.014. तस्या अतीव औद्बिल्यमुत्पन्नम्--ममार्येण महाकाश्यपेन पिण्डपातः प्रतिगृहीत इति।
052.015. तत आयुष्मती महाकाश्यपे चित्तमभिप्रसाद्य कालं गता तुषिते देवनिकाये उपपन्ना।
052.016. सा शक्रेण देवेन्द्रेण दृष्टा आचामं प्रतिपादयन्ती चित्तमभिप्रसादयन्ती कालं च कुर्वाणा।
052.017. नो तु दृष्टा कुत्रोपपन्ना इति।
052.018. स नरकान् व्यवलोकयितुमारब्धो न पश्यति, तिर्यक् च प्रेतं च मनुष्यांश्चातुर्महाराजिकान् देवांस्त्रायस्त्रिंशान् यावन्न पश्यति।
052.019. तथा ह्यधस्ताद्देवानां ज्ञानदर्शनं प्रवर्तते नो तूपरिष्टात्।
052.020. अथ शक्रो देवानामिन्द्रो येन भगवांस्तेनोपसंक्रान्तः।
052.020. उपसंक्रम्य गाथाभिगीतेन प्रश्नं पप्रच्छ--
052.022. चरतः पिण्डपातं हि काश्यपस्य महात्मनः।
052.023. कुत्रासौ मोदये नारी काश्यपाचामदायिका
052.024. भगवानाह--
052.025. तुषिता नाम ते देवाः सर्वकामसमृद्धयः।
052.026. यत्रासौ मोदते नारी काश्यपाचामदायिका
इति॥
052.027. अथ शक्रस्य देवानामिन्द्रस्यैतदभवत्--इमे च तावन्मनुष्याः पुण्यापुण्यानामप्रत्यक्षदर्शिनो दानानि ददति, पुण्यानि कुर्वन्ति।
052.028. अहं प्रत्यक्षदर्शनेन पुण्यानां स्वपुण्यफले व्यवस्थितः कस्मात् दानानि न ददामि, पुण्यानि वा न करोमि? अयमार्यो महाकाश्यपो दीनानाथकृपणवनीपकानुकम्पी।
052.030. यन्न्वहमेनं पिण्डकेन प्रतिपादयेयम्।
052.030. इति विदित्वा कृपणवीथ्यां गृहं निर्मितवान्।
052.031. अवचीरविचीरकं काकाभिलीनकं नातिपरमरूपं कुविन्दं चात्मानमभिनिमार्य उदूढशिरस्कः सणशाटिकानिवासितः स्फटितपाणिपादो वस्त्रं वायितुमारब्धह्<53>।
053.001. शची अपि देवकन्या कुविन्दनर्या वेशधारिणी तसरिकां कर्तुमारब्धा।
053.001. पार्श्वे चास्या दिव्या सुधा सज्जीकृता तिष्ठति।
053.002. अथायुष्मान् महाकाश्यपः कृपणानाथवनीपकजनानुकम्पको ऽनुपूर्वेण तद्गृहमनुप्राप्तः।
053.003. दुःखितको ऽयमिति कृत्वा द्वारे स्थितेन पात्रं प्रसादितम्।
053.004. शक्रेण देवानामिन्द्रेण दिव्यया सुधया पूरितम्।
053.004. अथायुष्मतो महाकाश्यपस्यैतदभवत्--
053.006. दिव्यं चास्य सुधाभक्तमयं च गृहविस्तरः।
053.007. सुविरुद्धमिति कृत्वा जातो मे हृदि संशयः
इति॥
053.008. धर्मता ह्येषा--असमन्वाहृत्य अर्हतां ज्ञानदर्शनं न प्रवर्तते।
053.008. स समन्वाहर्तुं प्रवृत्तः।
053.009. यावत् पश्यति शक्रं देवेन्द्रम्।
053.009. स कथयति--कौशिक, किं दुःखितजनस्यान्तरायं करोषि, यस्य ते भगवता दीर्घरात्रानुगतो विचिकित्साकथंकथाशल्यः समूल आरूढो यथापि तत्तथागतेनार्हता सम्यक्सम्बुद्धेन।
053.011. आर्य महाकाश्यप किं दुःखितजनस्यान्तरायं करोमि? इमे तावत् मनुष्याः पुण्यानामप्रत्यक्षदर्शिनो दानानि ददति पुण्यानि कुर्वन्ति।
053.012. अहं प्रत्यक्षदर्शी एव पुण्यानां कथं दानानि न ददामि? ननु चोक्तं भगवता--
053.014. करणीयानि पुण्यानि दुःखा ह्यकृतपुण्यता।
053.015. कृतपुण्यानि मोदन्ते अस्मिम्ल्लोके परत्र च
053.016. ततः प्रभृति आयुष्मान् महाकाश्यपः समन्वाहृत्य कुलानि पिण्डपातं प्रवेष्टुमारब्धः।
053.017. अथ शक्रो देवेन्द्र आकाशस्थश्चायुष्मतो महाकाश्यपस्य पिण्डपातं चरतो दिव्यया सुधया पात्रं पूरयति।
053.018. आयुष्मानपि महाकाश्यपः पात्रमधोमुखं करोति।
053.018. अन्नपानं छोर्यते।
053.018. एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति।
053.019. भगवानाह--तस्मादनुजानामि पिण्डोपधानं धारयितव्यमिति॥
053.021. सामन्तकेन शब्दो विसृतह्--अमुकया नगरावलम्बिकया आर्यो महाकाश्यप आचामेन प्रतिपादितः, सा च तुषिते देवनिकाये उपपन्ना इति।
053.022. राज्ञा प्रसेनजिता कौशलेन श्रुतम्--अमुकया नगरावलम्बिकया आर्यो महाकाश्यप आचामेन प्रतिपादितः।
053.023. सा तुषिते देवे उपपन्ना इति।
053.024. श्रुत्वा च पुनर्येन भगवांस्तेनोपसंक्रान्तः।
053.024. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
053.025. एकान्तनिषण्णं राजानं प्रसेनजितं कौशलं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति, अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्।
053.027. अथ राजा प्रसेनजित् कौशल उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अधिवासयतु मे भगवानार्यमहाकाश्यपमुद्दिश्य भक्तं सप्ताहेन इति।
053.029. अधिवासयति भगवान् राज्ञः प्रसेनजितस् तूष्णीभावेन।
053.030. अथ राजा प्रसेनजित् कौशलो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतो ऽन्तिकात् प्रक्रान्तः।
053.031. अथ राजा प्रसेनजित् कौशलस्तामेव रात्रिं प्रणीतं खादनीयं भोजनीयं समुदानीयं काल्यमेवोत्थाय आसनानि <54>प्रज्ञाप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तम् यस्येदानीं भगवान् कालं मन्यत इति।
054.002. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन राज्ञः प्रसेनजितः कौशलस्य भक्ताभिसारस्तेनोपसंक्रान्तः।
054.004. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
054.004. अथ राजा प्रसेनजित् कौशलः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति।
054.006. अन्यतमश्च क्रोडमल्लको वृद्धान्ते चित्तमभिप्रसादयंस्तिष्ठति--अयं राजा प्रत्यक्षदर्शीम् एव पुण्यानां स्वे पुण्यफले प्रतिष्ठापितो ऽतृप्त एव पुण्यैर्दानानि ददाति, पुण्यानि करोति।
054.008. अथ राजा प्रसेनजित् कौशलो ऽनेकपर्यायेण बुद्धप्रमुखं भिक्षुसंघं शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तात् निषण्णो धर्मश्रवणाय।
054.011. ततो भगवता अभिहितह्--महाराज, कस्य नांना दक्षिणामादिशामि? किं तव, आहोस्विद्येन तवान्तिकात् प्रभूततरं पुण्यं प्रसूतमिति? राजा संलक्षयति--मां भगवान् पिण्डपातं परिभुङ्क्ते।
054.013. को ऽन्यो ममान्तिकात् प्रभूततरं पुण्यं प्रसविष्यतीति विदित्वा कथयति--भगवन् येन ममान्तिकात् प्रभूततरं पुण्यं प्रसूतं तस्य भगवान् नांना दक्षिणामादिशतु इति।
054.014. ततो भगवता क्रोडमल्लकस्य नांना दक्षिणा आदिष्टा।
054.015. एवम् यावत् षड्दिवसान्।
054.015. ततो ऽन्यदिवसे राजा करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितह्--मम भगवान् पिण्डपातं परिभुङ्क्ते, क्रोडमल्लकस्य नांना दक्षिणामादिशति इति।
054.017. सो ऽमात्यैर्दृष्टः।
054.017. ते कथयन्ति--किमर्थं करे कपोलं दत्त्वा चिन्तापरो व्यवस्थित इति? राजा कथयति--भवन्तः, कथं न चिन्तापरस्तिष्ठामि, यत्रेदानीं स भगवान् मम पिण्डपातं परिभुङ्क्ते, क्रोडमल्लकस्य नांना दक्षिणामामादिशतीति? तत्रैको वृद्धो ऽमात्यः कथयति--अल्पोत्सुको भवतु।
054.020. वयं तथा करिष्यामो यथा श्वो भगवान् देवस्यैव नांना दक्षिणामादिशतीति।
054.021. तैः पौरुषेयाणामाज्ञा दत्ता यतः श्वो भवद्भिः प्रणीत आहारः सज्जीकर्तव्यः प्रभूतश्चैव समुदानयितव्यो यथोपार्धं भिक्षूणां पात्रे पतति उपार्धं भूमौ इति।
054.023. अमात्यैरपरस्मिन् दिवसे प्रभूत आहारः सज्जीकृतः प्रणीतश्च।
054.023. ततः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं परिवेषितुमारब्धः।
054.024. उपार्धं भिक्षूणां पात्रे पतति, उपार्धं भूमौ।
054.025. ततः क्रोडमल्लकाः प्रधाविताह्--भूमौ निपतितं गृह्णीम इति।
054.025. ते परिवेषकैर् निवारिताः।
054.026. ततः क्रोडमल्लकः कथयति--यद्यस्य राज्ञः प्रभूतमन्नम्, स्वापतेयमस्ति, सन्त्यन्ये ऽपि अस्मद्विधा दुःखितका आकाङ्क्षन्ते।
054.027. किमर्थं न दीयते? किमनेनापरिभोगं छोरितेन इति।
054.027. तस्य क्रोडमल्लकस्य चित्तविक्षेपो जातह्--न शक्यं तेन तथा चित्तं प्रसादयितुम् यथा पूर्वम्।
054.028. ततो राजा बुद्धप्रमुखं भिक्षुअसंघं भोजयित्वा न मम नांना दक्षिणामादिशतीति विदित्वा दक्षिणामश्रुत्वैव प्रविष्टः।
054.030. ततो भगवता राज्ञः प्रसेनजितः कौशलस्य नांना दक्षिणा आदिष्टा--
054.031. हस्त्यश्वरथपत्तियायिनो भुञ्जानस्य पुरं सनैर्गमम्।
054.032. पश्यसि(?) फलं हि रूष्किकाया अलवणिकायाः कुल्माषपिण्डिकायाः
मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0