दिव्यावदान · अध्याय 20
192.025. भूतपूर्वं भिक्षवो ऽन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी।
192.026. तेन सदृशात् कुलात् कलत्रमानीतम्।
192.027. स तया सार्धं क्रीडति रमते परिचारयति।
192.027. तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता।
192.028. सा अष्टानां वा नवानां वा मासानामत्ययात् प्रसूता।
192.029. दारको जातः।
192.029. तस्य त्रीणि सप्तकान्येकविंशतिदिवसानि विस्तरेण जातस्य जातिमहं कृत्वा कुलसदृशं नामधेयं व्यवस्थापितम्।
192.030. स उन्नीतो वर्धितो महान् संवृत्तः।
192.031. यावदपरेण समयेन स गृहपतिः संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवंजीवकोन्नादितम्<193> वनखण्डमन्तर्जनसहाय उद्यानभूमिं निर्गतः।
193.001. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्या। यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः।
193.004. प्रान्तशयनासनसेविनस्ते न।
193.004. सो ऽप्रविश्यैव कर्वटकम् येन तदुद्यानं तेनोपसंक्रान्तः।
193.004. अद्राक्षीत् स गृहपतिस्तं प्रत्येकबुद्धं कायप्रासादिकं च शान्तेनेर्यापथेनोद्यानं प्रविशन्तम्।
193.005. दृष्ट्वा च पुनः प्रीतिप्रामोद्यजातस्त्वरितत्वरितं प्रत्युद्गतः।
193.006. प्रत्येकबुद्धः संलक्षयति--आकीर्णमिदमुद्यानम्।
193.007. अन्यत्र गच्छे।
193.007. इति विदित्वा प्रतिनिवर्तितुमारब्धः।
193.007. स गृहपतिः पादयोर् निपत्य कथयति--आर्य, किं निवर्तसे त्वम्? पिण्डकेनार्थी।
193.008. अहमपि पुण्येन।
193.008. अस्मिन्नेवोद्याने विहर, पिण्डकेनाविघातं करोमीति।
193.009. परानुग्रहप्रवृत्तास्ते महात्मानः।
193.009. स तस्यानुकम्पाचित्तमुपस्थाप्य तस्मिन्नेवोद्याने विहर्तुमारब्धः।
193.010. सो ऽपि तस्य पिण्डकेन योगोद्वहनं कर्तुं प्रवृत्तः।
193.011. यावदपरेण समयेन तस्य गृहपतेरन्यतरकर्वटके किंचित् करणीयमुत्पन्नम्।
193.011. स पत्नीमामन्त्रयते--भद्रे, ममामुष्मिन् कर्वटके किंचित् करणीयमुत्पन्नम्।
193.012. तत्राहं गच्छामि।
193.012. त्वया तस्य महात्मनः प्रव्रजितस्यान्नपानेनाविघातः कर्तव्यः।
193.013. इत्युक्त्वा प्रक्रान्तः।
193.013. अपरस्मिन् दिवसे सा गृहपत्नी काल्यमेवोत्थाय तदर्थमन्नपानं साधयितुमारब्धा।
193.014. सा पुत्रेणोच्यते--अम्ब, कस्यार्थे ऽन्नपानं साध्यत इति? सा कथयति--पुत्र, यो ऽसौ उद्याने शान्तात्म प्रव्रजितस्तिष्ठति, तस्यार्थे साध्यत इति।
193.016. स रुषितः कथयति--अम्ब, किमर्थं भृतिकया कर्म कृत्वा न भुङ्क्त इति? सा कथयति--पुत्र, मा एवं वोचः।
193.017. अनिष्टो ऽस्य कर्मणो विपाक इति।
193.018. स निवार्यमाणो ऽपि नावतिष्ठते।
193.018. यावदसौ गृहपतिरागतः।
193.018. पत्नीमामन्त्रयते--भद्रे, कृतस्ते तस्य पिण्डकेनाविघातह्? आर्यपुत्र कृतः।
193.019. किं तु अनेन दारकेण तस्यान्तिके खरावाग्निश्चारिता।
193.020. स कथयति--भद्रे, किं कथयति? तया विस्तरेण समाख्यातम्।
193.020. स संलक्षयति--क्षमो ऽयं तपस्वी।
193.021. गच्छामि, तं महात्मानं क्षमापयामि--मा अत्यन्तमेव क्षतो भविष्यति।
193.022. इति विदित्वा तं दारकमादाय येन प्रत्येकबुद्धस्तेनोपसंक्रान्तः।
193.022. अद्राक्षीत् स प्रत्येकबुद्धस्तं गृहपतिमात्मना द्वितीयमागच्छन्तम्।
193.023. स संलक्षयति--न कदाचिदयं गृहपतिरात्मना द्वितीयमागच्छति।
193.024. तत् किमत्र कारणमिति? असमन्वाहृत्य श्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तते।
193.025. स समन्वाहर्तुं प्रवृत्तः।
193.025. तेन् समन्वाहृत्य विज्ञातम्।
193.025. कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी।
193.026. स तस्यानुकम्पार्थं विततपक्ष हव हंसराज उपरिविहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः।
193.027. आशु पृथग्जनस्य ऋद्धिरावर्जनकरी।
193.028. स मूलनिकृत्त इव द्रुमः सपुत्रः पादयोर् निपतितः।
193.028. ततः स दारक आहृष्टरोमकूपः कथयति--अवतर अवतर सद्भूतदक्षिणीय, मम कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छेति।
193.030. स तस्यानुकम्पार्थमवतीर्णः।
193.030. स गृहपतिपुत्रस्तीव्रेणाशयेन पादयोर् निपत्य प्रणिधानं कर्तुमारब्धह्--यन्मया एवंविधे सद्भूतदक्षिणीये खरा वाग्निश्चारिता, मा तस्य कर्मणो भागी स्याम्।
193.032. यत्तु इदानीं चित्तमभिप्रसादितम्, अनेनाहं कुशलमूलेनाढ्ये महाधने <194>महाभोगे कुले जायेयम्, एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति॥
194.003. किं मन्यध्वे भिक्षवह्? यो ऽसौ गृहपतिपुत्रः, एष एवासौ सहसोद्गतो गृहपतिः।
194.004. यदनेन प्रत्येकबुद्धस्यान्तिके खरा वाग्निश्चारिता, तेन पञ्च जन्मशतानि भृतकपुरुषो जातः।
194.005. यावदेतर्ह्यपि भृतिकया कर्म कृतम्।
194.005. यत् पुनस्तस्यैवान्तिके चित्तमभिप्रसाद्य प्रणिधानं कृतम्, तेन सहसैव भोगैरभिवृद्धः।
194.006. ममान्तिके सत्यदर्शनं कृतम्।
194.006. अहं चानेन प्रत्येकबुद्धकोटिशतसहस्रेभ्यः प्रतिविशिष्टतरः शास्ता आरागितो न विरागितः।
194.007. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः।
194.009. तस्मात्तर्हि एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः।
194.010. इत्येवं वो भिकवः शिक्षितव्यम्॥
194.010. (इयं तावदुत्पत्तिर् न तावत् बुद्धो भगवाञ् श्रावकाणां विनये शिक्षापदम्।?)
194.012. इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
194.013. सहसोद्गतस्य प्रकरणावदानमेकविंशतिमम्॥
********** अवदान 22 **********
195.001. दिव्22 चन्द्रप्रभबोधिसत्त्वचर्यावदानम्।
195.002. एवं मया श्रुतम्।
195.002. एकस्मिन् समये भगवान् भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धमर्धत्रयोदशाभिर्भिक्षुशतैः।
195.003. तत्र भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--पश्य भदन्त, यावदायुष्मन्तौ शारिपुत्रमौद्गल्यायनौ तत्प्रथमतरं निरुपधिशेषे निर्वाणधातौ परिनिर्वृतौ, न त्वेव पितृमरणमागमितवन्तौ।
195.005. अत्रेदानीं भिक्षवः किमाश्चर्यम् यदेतर्हि शारिपुत्रमौद्गल्यायनौ भिक्षू विगतरागौ विगतद्वेषौ विगतमोहौ परिमुक्तौ जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासौर् निस्तृष्णौ निरुपादानौ प्रहीणसर्वाहंकारममकारास्मिमानाभिनिवेशानुशयौ तिष्ठति बुद्धप्रमुखे भिक्षुसंघे तत्प्रथमतरं निरुपधिशेषे निर्वाणधातौ परिनिर्वृतौ, न त्वेव पितृमरणमागमितवन्तौ।
195.009. यत्त्वतीते ऽध्वनि शारिपुत्रमौद्गल्यायनौ सरागौ सद्वेषौ समोहावपरिमुक्तौ जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर्ममान्तिके चित्तमभिप्रसाद्य कालं कृत्वा कामधातुमतिक्रम्य ब्रह्मलोक उपपन्नौ, न त्वेव पितृमरणमागमितवन्तौ, तच्छ्रूयताम्॥
195.013. भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्युत्तरापथे भद्रशिला नाम नगरी राजधानी अभूत्, ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च आकीर्णबहुजनमनुष्या च।
195.014. द्वादशयोजनान्यायामेन द्वादशयोजनानि विस्तरेण चतुरस्रा चतुर्द्वारा सुविभक्ता उच्चैस्तोरणगवाक्षवातायनवेदिकाप्रतिमण्डिता नानारत्नसम्पूर्णा सुसमृद्धसर्वद्रव्यवणिग्जननिकेता पार्थिवामात्यगृहपतिश्रेष्ठिराष्ट्रिकनीति(?)मौलिधराणामावासो वीणावेणुपणवसुघोषकवल्लरीमृदङ्गभेरीपटहशङ्खनिर्नादिता।
195.018. तस्यां च राजधान्यामगुरुगन्धाश्चन्दनगन्धाश्चूर्णगन्धाः सर्वकालिकाश्च कुसुमगन्धा नानावातसमीरिता अतिरमणीया वीथीचत्वरशृङ्गाटकेषु वायवो वायन्ति स्म।
195.019. हस्त्यश्वरथपत्तिबलकायसम्पन्ना युग्ययानोपशोभिता विस्तीर्णातिरमणीयवीथीमहापथा उच्छ्रितविचित्रध्वजपताका तोरणगवाक्षार्धचन्द्रावनद्धा अमरालय इव शोभते।
195.021. उत्पलपद्मकुमुदपुण्डरीकानि सुरभिजलजकुसुमपरिमण्डितानि स्वादुस्वच्छशीतलजलपरिपूर्णपुष्किरिणीतडागोदपानप्रस्रवणोपशोभिता शालतालतमालसूत्र(?)कर्णिकाराशोकतिलकपुंनागनागकेशरचम्पकबकुलातिमुक्तकपाटलापुष्पसंछन्ना कलविङ्कशुकशारिकाकोकिलबर्हिगणजीवंजीवकोन्नादितवनषण्डोद्यानपरिमण्डिता।
195.025. भद्रशिलायां च राजधान्यामन्यतरं मणिगर्भं नाम राजोद्यानं नानापुष्पफलवृक्षविटपोपशोभितं सोदपानं हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवंजीवकशकुनिमनोज्ञरवनिर् नादितमतिरमणीयम्।
195.027. एवं सुरमणीया भद्रशिला राजधानी बभूव।
195.027. भद्रशिलायां राजाधान्यां राजाभूच्चन्द्रप्रभो नाम अभिरूपो दर्शनीयः प्रासादिको दिव्यचक्षुश्चतुर्भागचक्रवर्ती धार्मिको धर्मराजा जम्बुद्वीपे राज्यैश्वर्याधिपत्यं कारितवान् स्वयम्प्रभुः।
195.029. न खलु राज्ञश्चन्द्रप्रभस्य गच्छतो ऽन्धकारं भवति, न च मणिर्वा प्रदीपो वा उल्का वा पुरस्तात् नीयते, अपि तु स्वकात् कायात् राज्ञश्चन्द्रप्रभस्य प्रभा निश्चरन्ति तद्यथा चन्द्रमण्डलाद्रश्मयः।
195.032. अनेन कारणेन राज्ञश्चन्द्रप्रभस्य चन्द्रप्रभ इति संज्ञा बभूव॥
196.001. <196>तेन खलु समयेनास्मिञ् जम्बुद्वीपे ऽष्डषष्टिनगरसहस्राणि बभूवुर्भद्रशिलाराजधानीप्रभुखानि ऋद्धानि स्फीतानि क्षेमाणि सुभिक्षाण्याकीर्णबहुजनमनुष्याणि।
196.002. अपीदानीं जम्बुद्वीपका अकरा अभूवन्न् अशुल्का अतरपण्याः।
196.003. कृषिसम्पन्नाः सौम्या जनपदा बभूवुः।
196.003. कुक्कुटसम्पातमात्राश्च ग्रामनिगमराष्ट्रराजधान्यो बभूवुः।
196.004. तेन खलु समयेन चतुश्चत्वारिंशद्वर्षसहस्राणि जम्बुद्वीपे मनुष्याणामायुषः प्रमाणमभूत्।
196.005. राजा चन्द्रप्रभो बोधिसत्त्वो ऽभूत् सर्वंददः सर्वपरित्यागी निःसङ्गपरित्यागी च।
196.006. महति त्यागे वर्तते।
196.006. तेन भद्रशिलायां राजधान्यां निर्गत्य बहिर्धा नगरस्य चतुर्षु नगरद्वारेषु चत्वारो चत्वारो महायज्ञवाटा मापिताश्छत्रध्वजयूपपताकात्युच्छ्रिताः।
196.007. ततः सुवर्णभेरीः संताड्य दानानि दीयन्ते, पुण्यानि क्रियन्ते, तद्यथा--अन्नमन्नार्थिभ्यः, पानं पानार्थिभ्यः, स्वाद्यभोज्यमाल्यविलेपनवस्त्रशयनासनापाश्रयावासप्रदीपच्छत्राणि रथा आभरणान्यलंकाराः, सुवर्णपात्र्यो रूप्यचूर्णपरिपूर्णाः, रूप्यपात्र्यः सुवर्णपरिपूर्णाः, सुवर्णशृङ्गाश्च गावः कामदोहिन्यः।
196.011. कुमाराः कुमारिकाश्च सर्वालंकारविभूषिताः कृत्वा प्रदानानि दीयन्ते।
196.011. वस्त्राणि नानारङ्गानि नानादेशसमुच्छ्रितानि नानाविचित्राणि, तस्यथा--पट्टांशुकचीनकौशेयधौतपट्टवस्त्राण्यूर्णादुकूलमयशोभनवस्त्राण्यपरान्तकफलकहर्यणिकम्बलरत्नसुवर्णप्रावरकाकाशिकांशुक्षोमकाद्याः।
196.014. राज्ञा चन्द्रप्रभेण तावन्तं दानमनुदत्तम्, येन सर्वे जम्बुद्वीपका मनुष्या आढ्या महाधना महाभोगाः संवृत्ताः।
196.015. राज्ञा चन्द्रप्रभेण तावन्ति हस्त्यश्वरथच्छत्राणि प्रदानमनुप्रदत्तानि, यथा अस्मिञ् जम्बुद्वीपे एकमनुष्यो ऽपि पद्भ्यां न गच्छति।
196.016. सर्वे जम्बुद्वीपका मनुष्या हस्तिपृष्ठैश्च चतुरश्वयुक्तैश्च रथैरुपरिसुवर्णमयै रूप्यमयैश्चातपत्रैरुद्यानेनोद्यानं ग्रामेण ग्राममनुविचरन्ति स्म।
196.018. ततो राज्ञश्चन्द्रप्रभस्यैतदभवत्--किं पुनर्मे इत्वरेण दानेन प्रदत्तेन? यन्न्वहम् यादृशान्येव मम वस्त्रालंकाराण्याभरणानि, तादृशान्येव दानमनुप्रयच्छेयम्, यत् सर्वे जम्बुद्वीपका मनुष्या राजक्रीडया क्रीडेयुः।
196.020. अथ राजा चन्द्रप्रभो जम्बुद्वीपकेभ्यो मनुष्येभ्यो मौलिपट्टवस्त्रालंकाराभरणाण्यनुप्रयच्छति, तद्यथा--हर्षकटककेयूराहारार्धहारादीन् प्रदानमनुप्रयच्छति स्म।
196.022. राज्ञा चन्द्रप्रभेण तावन्ति राजार्हाणि वस्त्राण्यलंकाराणि मौलयः पट्टाश्चानुप्रदत्ताः, येन सर्वे जम्बुद्वीपका मनुष्या मौलिधराः पट्टधराश्च संवृत्ताः।
196.023. या राज्ञश्चन्द्रप्रभस्याकृतिस्तादृशा एव सर्वे जम्बुद्वीपका मनुष्याः संवृत्ताः।
196.024. ततो राज्ञा चन्द्रप्रभेणाष्टषष्टिषु नगरसहस्रेषु घण्टावघोषणं कारितम्--सर्वे भवन्तो जम्बुद्वीपका मनुष्या राजक्रीडया, क्रीडन्तु, यावदहं जीवामीति।
196.026. अथ जम्बुद्वीपका मनुष्या राज्ञश्चन्द्रप्रभस्य घण्टावघोषणां श्रुत्वा सर्व एव राजक्रीडया क्रीडितुमारब्धाः।
196.027. वीणावेणुपणवसुघोषकवल्लरीभेरीपटहमृदङ्गतालशङ्खसहस्रैस्तूर्यशब्दशतैश्च वाद्यमानैः केयूरहारमणिमुक्ताभरणकुण्डलधराः सर्वालंकारविभूषितप्रमदागणपरिवृता राजश्रियमनुभवन्ति स्म।
196.029. तेन खलु समयेन जम्बुद्वीपकानां मनुष्याणां राजलीलया क्रीडताम् यश्च वीणावेणुपणवसुघोषकवल्लरीभेरीमृदङ्गपटहशब्दो यश्चाष्टषष्टिषु तालवंशनिर्घोषो यश्चन्द्रप्रभस्य चतुर्षु महायज्ञवाटेषु सुवर्णभेरीणां ताड्यमानानां वर्णमनोज्ञशब्दो निश्चरति, तेन सर्वो जम्बुद्वीपो मनोज्ञशब्दनादितो ऽभूत् तद्यथा देवानां त्रायस्त्रिंशानामभ्यन्तरं देवपुतम् <197>नृत्तगीतवादितशब्देन निर्नादितम्।
197.001. एवमेव तस्मिन् काले तस्मिन् समये सर्वो जम्बुद्वीपवासिनां जनकायस्तेन गीतवादितशब्देन एकान्तसुखसमर्पितो ऽत्यर्थं रमते।
197.002. तेन खलु समयेन भद्रशिलायां राजधान्यां द्वासप्ततिरयुतकोटीशतानि मनुष्याणां प्रतिवसन्ति स्म।
197.004. तेषां राजा चन्द्रप्रभ ऋष्टो बभूव प्रियो मनापश्च।
197.004. अपीदानीं वर्णाकृतिलिङ्गस्थैर्यमस्य निरीक्षमाणा न तृप्तिमुपयान्ति स्म।
197.005. यस्मिंश्च समये राजा चन्द्रप्रभो महायज्ञवाटं गच्छति, तस्मिन् समये प्राणिकोटीनियुतशतसहस्राण्यवलोकयन्ति, एवं चाहुह्--देवगर्भो बतायं राजा चन्द्रप्तभ इह जमुद्वीपे राज्यं कारयति।
197.007. न खलु मनुष्या ईदृग्वर्णसंस्थाना यादृशा देवस्य चन्द्रप्रभस्येति।
197.008. राजा चन्द्रप्रभो येन येनावलोकयति, तेन तेन स्त्रीसहस्राण्यवलोकयन्ति--धन्यास्ताः स्त्रियो यासामेष भर्तेति।
197.009. तच्च शुद्धैर्मनोभिर् नान्यथाभावात्।
197.009. एवं दर्शनीयो राजा चन्द्रप्रभो बभूव।
197.010. चन्द्रप्रभस्य राज्ञो ऽर्धत्रयोदशामात्यसहस्राणि।
197.010. तेषां द्वौ अग्रामात्यौ महाचन्द्रो महीधरश्च।
197.011. व्यक्तौ पण्डितौ मेधाविनौ गुणैश्च सर्वामात्यमण्डलप्रतिविशिष्टौ सर्वाधिकृतौ राजपरिकर्षकौ राजपरिपालकौ।
197.012. अल्पोत्सुको राजा सर्वकर्मान्तेषु।
197.013. महाचन्द्रश्चाग्रामात्यो ऽभीक्ष्णं जम्बुद्वीपकान् मनुष्यान् दशसु कुशलेषु कर्मपथेषु नियोजयति--इमान् भवन्तो जम्बुद्वीपका मनुष्या दश कुशलान् कर्मपथान् समादाय वर्तथेति।
197.014. यादृशी च राज्ञश्चक्रवर्तिनो ऽववादानुशासनी, तादृशी महाचन्द्रस्यामात्यस्याववादानुशासनी बभूव।
197.016. महाचन्द्रस्याग्रामात्यस्य राजा चन्द्रप्रभ इष्टश्चाभूत् प्रियश्च मनाअपश्च।
197.016. अपीदानीं वर्णाकृतिलिङ्गसंस्थानमस्य निरीक्षमाणो न तृप्तिमुपयाति॥
197.018. यावदपरेण समयेन महाचन्द्रेणाग्रामात्येन स्वप्नो दृष्टह्--राज्ञश्चन्द्रप्रभस्य धूमवर्णैः पिशाचैर्मौलिरपनीतः।
197.019. प्रतिविबुद्धस्य चाभूद्भयम्, अभूच्छङ्कितत्वम्, अभूद्रोमहर्षह्--मा हैव देवस्य चन्द्रप्रभस्य शिरोयाचनक आगच्छेत्।
197.020. देवश्च सर्वंददः।
197.020. सर्वपरित्यागे नास्त्यस्य किंचिदपरित्यक्तं दीनानाथकृपणवनीपकयाचनकेभ्य इति।
197.021. तस्य बुद्धिरुत्पन्ना--न मया राज्ञश्चन्द्रप्रभस्य स्वप्नो निवेदयितव्यः।
197.022. अपि तु रत्नमयानि शिरांसि कारयित्वा कोषकोष्ठागारं प्रवेश्य स्थापयितव्यानि।
197.023. यदि नाम कश्चिद्देवस्य शिरोयाचनक आगच्छेत्, तमेनमेभी रत्नमयैः शिरोभिः प्रलोभयिष्यामि।
197.024. इति विदित्वा रत्नमयानि शिरांसि कारयित्वा कोषकोष्ठागरेषु प्रक्षिप्य स्थापितवान्।
197.025. अपरेण समयेन महीधरेणाग्रामात्येन स्वप्नो दृष्टह्--सर्वरत्नमयः पोतश्चन्द्रप्रभस्य कुलस्थः शतशो विशीर्णः।
197.026. दृष्ट्वा च पुनर्भीतस्त्रस्तः संविग्नह्--मा हैव राज्ञश्चन्द्रप्रभस्य राज्यच्युतिर्भविष्यति जीवितस्य चान्तरस्य चान्तराय इति।
197.027. तेन ब्राह्मणा ये नैमित्तिका विपश्चिकाश्चाहूय उक्ताह्--भवन्तः, मयेदृशः स्वप्नो दृष्टः, निर्दोषं कुरुतेति।
197.028. ततस्तैर्ब्राह्मणैर् नैमित्तिकैर्विपश्चिकैश्च समाख्यातम्--यादृशो ऽयं त्वया स्वप्नो दृष्टः, नचिरादेव राज्ञश्चन्द्रप्रभस्य शिरोयाचनक आगमिष्यति।
197.030. स चास्यामेव भद्रशिलायां राजधान्यामवतरिष्यतीति।
197.030. ततो महीधरो ऽग्रामात्यः स्वप्ननिर्देशं श्रुत्वा करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितह्--अतिक्षिप्रं राज्ञश्चन्द्रप्रभस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलस्यानित्यताबलं प्रत्युपस्थितमिति।
197.032. अथापरेण समयेनार्धत्रयोदशाभिरमात्यसहस्रैह्<198> स्वप्नो दृष्टह्--राज्ञश्चन्द्रप्रभस्य चतुर्षु यज्ञवाटेषु करोटपाणिभिर्यक्षैश्चछत्रध्वजपताकाः पातिताः, सुवर्णभेर्यश्च भिन्नाः।
198.002. दृष्ट्वा च पुनर्भीतास्त्रस्ताः संविग्नाह्--मा हैव राज्ञश्चन्द्रप्रभस्य महापृथिवीपालस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलस्यानित्यताबलमागच्छेत्, मा हैव अस्माकं देवेन सार्धं नानाभावो भविष्यति विनाभावो विप्रयोगः, मा हैव अत्राणो ऽपरित्राणो जम्बुद्वीपो भविष्यतीति।
198.005. राज्ञा चन्द्रप्रभेण श्रुतम्।
198.005. तेन श्रुत्वा अष्टषष्टिनगरसहस्रेषु घण्टावघोषणं कारितम्--राजलीलया भवन्तः सर्वे जम्बुद्वीपका मानुष्याः क्रीडन्तु यावदहं जीवामि।
198.007. किम् युष्माकं मायोपमैः स्वप्नोपमैश्चिन्तितैह्? राज्ञश्चन्द्रप्रभस्य घण्टावघोषणं श्रुत्वा सर्व एव जम्बुद्वीपका मनुष्या राजलीलया क्रीडितुमारब्धाः, वीणावोणुपणवसुघोषकवल्लरीभेरीमृदङ्गतालशङ्खसहस्रैस्तूर्यशब्दशतैश्च वाद्यमानैः केयूरहारमणिमुक्ताभरणकुण्डलधराः सर्वालंकारविभूषितप्रमदागणपरिवृताअ राजश्रियमनुभवन्ति स्म।
198.010. तेन खलु समयेन जम्बुद्वीपकानां मनुष्याणां राजक्रीडया क्रीडताम् यश्च राज्ञश्चन्द्रप्रभस्य चतुर्षु महायज्ञवाटेषु सुवर्णभेरीणां ताड्यमानानां वल्गुर्मनोज्ञः शब्दो निश्चरति, तेन सर्वो जम्बुद्वीपो मनोज्ञशब्दनिर् नादितो ऽभूत्।
198.013. तद्यथा देवानां त्रायस्त्रिंशानामन्यतरं देवपुरं नृत्तगीतवादितम्, एवमेव तस्मिन् काले तस्मिन् समये सर्वो जम्बुद्वीपनिवासी जनकायस्तेन गीतशब्देनैकान्तसुखसमर्पितो ऽत्यर्थं रमते॥
198.016. तेन खलु समयेन गन्धमादने पर्वते रौद्राक्षो नाम ब्राह्मणः प्रतिवसति स्म इन्द्रजालविधिज्ञः।
198.017. अश्रौषीद्रौद्राक्षो ब्राह्मणो भद्रशिलायां राजधान्यां चन्द्रप्रभो नाम राजा सर्वंददो ऽस्मीत्यात्मानं प्रतिजानीते।
198.018. यन्न्वहं गत्वा शिरो याचेयमिति।
198.018. तस्यैतदभवत्--यदि तावत् सर्वददो भविष्यति, मम शिरो दास्यति।
198.019. अपि तु दुष्करमेतदस्थानमनवकाशो यदेवमिष्टं कान्तं प्रियं मनापमुत्तमाङ्गं परित्यक्ष्यति यदुत शीर्षम्, नेदं स्थानं विद्यते।
198.021. इति विदित्वा गन्धमादनात् पर्वतादवतीर्णः।
198.021. अथ गन्धमादननिवासिनी देवता विक्रोष्टुमारब्धा--हा कष्टं रज्ञश्चन्द्रप्रभस्य मैत्रात्मकस्य महाकारुणिकस्य सत्त्ववत्सलस्यानित्यताबलं प्रत्युपस्थितमिति।
198.023. तेन खलु समयेन सर्वजम्बुद्वीप आकुलाकुलः, धूमान्धकारः, उपकापाताः, दिशोदाहाः, अन्तरीक्षे देवदुन्दुभयो ऽभिनदन्ति।
198.024. भद्रशिलायां च राजधान्यां नातिदूरे पञ्चाभिज्ञो ऋषिः प्रैवसति विश्वामित्रो नांना पञ्चशतपरिवारो मैत्रात्मकः कारुणिकः सत्त्ववत्सलः।
198.026. अथ स ऋषिः सर्वजम्बुद्वीपमाकुलं दृष्ट्वा माणवकानामन्त्रयते--यत्खलु माणवका जानीत सर्वजम्बुद्वीप एतर्ह्याकुलाकुलो धूमान्धकारः।
198.027. सूर्याचन्द्रमसौ एवमहानुभावौ न भासतो न तपतो न विरोचतः।
198.028. नूनं कस्यचिन्महापुरुषस्य निरोधो भविष्यति।
198.028. तथा हि--
198.029. रोदन्ति किन्नरगणा वनदेवताश्च धिक्कारमुत्सृजन्ति देवगणा पि न स्थुः।
198.031. चन्द्रो न भाति न विभाति सहस्ररश्मिर् नैव वाद्यवादितरवो ऽपि निशाम्यते ऽत्र
199.001. <199>एते हि पादपगणाः फलपुष्पनद्धा भूमौ पतन्ति पवनैरपि चालितानि।
199.003. संश्रूयते ध्वनिरयं च यथातिभीमो व्यक्तो भविष्यति पुरे व्यसनं महान्तम्
199.005. एते भद्रशिलानिवासनिरताः सर्वे सदुःखा जना अत्यन्तप्रतिशोकशल्यविहताः प्रस्पन्दकण्ठाननाः।
199.007. एताश्चन्द्रनिभानना युवतयो रोदन्ति वेश्मोत्तमे सर्वे च प्ररुदन्ति तीव्रकरुणाः सन्तः श्मशाने यथा
199.009. किं कारणं पुरनिवासिजनाः समग्राः संपिण्डितं मनसि दुःखमिदं वहन्ति।
199.011. उत्क्रोशतामनिशमर्धकृताग्रहस्तैरैश्वर्यमप्रतिसमं निरुणद्धि वाचम्
199.013. एते पयोदा विनदन्त्यतोया जलाश्रयाः शोकममी व्रजन्ति।
199.015. भुवोरिवाम्भसि च बालसमीरणास्ता वाताः प्रवान्ति च खरा रजसा विमिश्राः
199.017. अशिवानि निमित्तानि प्रवरणि हि साम्प्रतम्।
199.018. क्षेमां दिशमतो ऽस्माकमितो गन्तुं क्षमो भवेत्
199.019. अपि तु खलु माणवका राज्ञश्चन्द्रप्रभस्य चतुर्षु महायज्ञवाटेषु सुवर्णभेरीणां ताड्यमानानां न भूयो मनोज्ञः स्वरो निश्चरति।
199.020. नूनं बत भद्रशिलायां महानुपद्रवो भविष्यतीति॥
199.021. अथ रौद्रक्षो ब्राह्मणो भद्रशिलायां राजधान्यामनुप्राप्तः।
199.021. ततो नगरविवासिनी देवता रौद्राक्षं ब्रह्मणं दूरादेव दृष्ट्वा येन राजा चन्द्रप्रभास्तेनोपसंक्रान्ता।
199.022. उपसंक्रम्य राजानं चन्द्रप्रभमिदमवोचत्--यत्खलु देव जानीयाह्--अद्य देवस्य याचनक आगमिष्यति हिंसको विहेठको ऽवतारप्रेक्षी अवतारगवेषी।
199.024. स देवस्य शिरो याचिष्यतीति।
199.024. तद्देवेन सत्त्वानामर्थायात्मानं परिपालयितव्यमिति।
199.025. अथ राजा चन्द्रप्रभः शिरोयाचनकमुपश्रुत्य प्रमुदितमना विस्मयोत्फल्लदृष्टिर्देवतामुवाच--गच्छ देवते, यद्यागमिष्यति, अहमस्य दीर्घकालाभिलषितं मनोरथं परिपूरयिष्यमीति।
199.027. अथ सा देवता राज्ञश्चन्द्रप्रभस्य इदमेवम्रूपं व्यवसायं विदित्वा दुःखिनी दुर्मनस्का विप्रतिसारिणी तत्रैवान्तर्हिता।
199.028. अथ राज्ञश्चन्द्रप्रभस्यैतदभवत्--किमत्राश्चर्यम् यदहमन्नमन्नार्थिभ्यो ऽनुप्रयच्छामि, पानं पानार्थिभ्यो वस्त्रहिरण्यसुवर्णमणिमुक्तादींस् तदर्थिभ्यः।
199.030. यन्न्वहम् याचनकेभ्यः स्वशरीरमपि परित्यजेयमिति।
199.030. ततो रौद्राक्षो ब्राह्मणो दक्षिणेन नगरद्वारेण प्रविशन् देवतया निवारितह्--गच्छ पापब्राह्मण, मा प्रविश।
199.031. कथमिदानीं त्वम् <200>मोहपुरुष राज्ञश्चन्द्रप्रभस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलस्यानेकगुणसम्पन्नस्य जम्बुद्वीपपरिपालकस्यादूषिणो ऽनपकारिणः शिरश्छेत्स्यसि? रौद्रचित्त पापब्राह्मण, मा प्रविशेति।
200.003. यावदेतत् प्रकरणं राज्ञा चन्द्रप्रभेण श्रुतम्--याचनको मे नगरद्वारे देवतया विधार्यते इति।
200.004. श्रुत्वा च पुनर्महाचन्द्रमग्रामात्यमामन्त्रयते--यत्खलु महाचन्द्र जानीयाह्--याचनको मे नगरद्वारि देवतया विधार्यते।
200.005. गच्छ, शीघ्रं मत्सकाशमानयेति।
200.005. एवं देवेति महाचन्द्रो ऽग्रामात्यो राज्ञश्चन्द्रप्रभस्य प्रतिश्रुत्य नगरद्वारं गत्वा तां देवतामुवाच--यत्खलु देवते जानीयाह्--प्रविशत्वेष ब्राह्मण, राजा चन्द्रप्रभ एनमाह्वापयत इति।
200.007. ततो नगरनिवासिनी देवता महाचन्द्रमग्रामात्यमिदमवोचत्--यत्खलु महाचन्द्र जानीयाह्--एष ब्राह्मणो रौद्रचित्तो निष्कारुणिको राज्ञश्चन्द्रप्रभस्य विनाशार्थं भद्रशिलामनुप्राप्तः।
200.009. किमनेन दुरात्मना प्रवेशितेन? एष मया देवते उपायश्चिन्तितो येनायं ब्राह्मणो न प्रभविष्यति देवस्य शिरो ग्रहीतुमिति।
200.011. अथ महाचन्द्रो ऽग्रामात्यो रौद्राक्षं ब्राह्मणमादाय नगरं प्रविश्य रत्नधरानाज्ञापयति--आनीयन्तां भवन्तो रत्नमयानि शिरांसि।
200.013. अस्मै ब्राह्मणाय दास्यामीति।
200.013. भाण्डागारिकै रत्नमयानां शीर्षाणां राजद्वारे राशिः कृतः।
200.014. महाचन्द्रेणाग्रामात्येन रौद्राक्षस्य रत्नमयानि शीर्षाण्युपदर्शितानि--प्रतिगृह्ण त्वं महाब्राह्मण प्रभूतानि रत्नमयानि शीर्षाणि।
200.015. यावदाप्तं च ते हिरण्यसुवर्णमनुप्रयच्छामि, येन ते पुत्रपौत्राणां जीविका भविष्यति।
200.016. किं ते देवस्य शीर्षेण मज्जाशिङ्घाणकवसादिपूर्णेनेति? एवमुक्ते रौद्राक्षो ब्राह्मणो महाचन्द्रमग्रामात्यमिदमवोचत्--न रत्नमयैर्मे शिरोभिः प्रयोजनम्।
200.018. नापि हिरण्यसुवर्णेन।
200.018. अपि त्वहमस्य महापृथिवीपालस्य सर्वंददस्य सकाशमागतः शिरसो ऽर्थाय।
200.019. एवमुक्ते महाचन्द्रमहीधरौ अग्रामात्यौ करे कपोलं दत्त्वा चिन्तापरौ व्यवस्थितौ--किमिदानीं प्राप्तकालमिति।
200.020. अथैतद्वृत्तान्तमुपश्रुत्य राजा चन्द्रप्रभो महाचन्द्रमहीधरौ अग्रामात्यौ दूरेण प्रक्रोश्यैतदवोचत्--आनीयतामेष मत्समीपम्।
200.021. अहमस्यैवं मनोरथं पूरयिष्यामीति।
200.022. एवमुक्ते महाचन्द्रमहीधरौ अग्रामात्यौ साश्रुदुर्दिनवदनौ करुणकरुणं परिदेवमानौ अभिरुद्य देवस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलास्यानेकगुणसमुदितस्य ज्ञानकुशलस्य दिव्यचक्षुषो ऽनित्यताबलं प्रत्युपस्थितम्, अद्यास्माकं देवेन सार्धं नानाभावो भविष्यति विनाभावो विप्रयोगो विसम्योगः।
200.025. इति विदित्वा राज्ञः पादयोर् निपत्य एकान्ते निषण्णौ।
200.025. अथ राजा चन्द्रप्रभः परमत्यागप्रतिविशिष्टं त्यागं परित्यकुकामो दूरत एव तं ब्राह्मणमामन्त्रयते--एहि त्वं ब्राह्मण, यच्छताम् यत् प्रार्थयसे तद्गृहाणेति।
200.027. अथ रौद्राक्षो ब्राह्मणो येन राजा चन्द्रप्रभस्तेनोपसंक्रान्तः।
200.028. उपसंक्रम्य राजानं चन्द्रप्रभं जयेनायुषा च वर्धयित्वा राजानं चन्द्रप्रभमिदमवोचत्--
200.029. धर्मे स्थितो ऽसि विमले शुभबुद्धिसत्त्व सर्वज्ञतामभिलषन् हृदयेन साधो।
200.031. मह्यं शिरः सृज महाकरुणाग्रचेता मह्यं ददस्व मम तोषकरो भवाद्य
201.001. <201>अथ राजा चन्द्रप्रभो ब्राह्मणस्यान्तिकादिदमेवम्रूपं वाक्प्रव्याहारं श्रुत्वा प्रमुदितमनाः प्रीतिविस्फारिताक्षो रौद्राक्षं ब्राह्मणमुवाच--हन्तेदं ब्राह्मण शिरो ऽविघ्नतः साधु प्रगृह्यतामुत्तमाङ्गमिति।
201.003. आह च--
201.004. प्रियो यथा यद्यपि चैकपुत्रकस्तथापि मे खर्पमिदं गृहाण।
201.006. त्वच्चिन्तितानां फलमस्तु शीघ्रं शिरःप्रदानाद्धि लभेय बोधिम्
मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0