भाषा

ENहिગુ
ग्रंथ पाठ

दिव्यावदान · अध्याय 21

21.1

201.008. इत्युक्त्वा स्वयमेव स्वशिरसो मौलिमपनीतवान्।
201.008. यदा च राजा चन्द्रप्रभेण शिरसो मौलिरपनीतः, तत्समनन्तरमेव सर्वेषां जम्बुद्वीपकानां मनुष्याणां मौलयः पतिताः।
201.010. भद्रशिलायां च राजधान्यां चतुर्दिशमुल्कापाता दिशोदाहाश्च प्रादुर्भूताः।
201.010. नगरदेवताभिश्च शब्दो निश्चारितह्--अस्य राज्ञश्चन्द्रप्रभस्य पापब्राह्मणो शिरश्छेत्स्यतीति।
201.011. तच्छ्रुत्वा महाचन्द्रमहीधरौ अग्रामात्यौ राज्ञश्चन्द्रप्रभस्येदमेवम्रूपं शरीरपरित्यागं विदित्वा साश्रुदुर्दिदवदनौ राज्ञश्चन्द्रप्रभस्य पादौ परिष्वज्याहतुह्--धन्यास्ते पुरुषा देव य एवमत्यद्भुतरूपदर्शनं वा द्रक्ष्यन्तीरि।
201.014. तौ अभिमुखमुद्वीक्ष्यमाणौ राजनि चन्द्रप्रभे चित्तमभिप्रसाद्य रौद्राक्षे च ब्राह्मणे मैत्र्यचित्तमुत्पाद्य नावां शक्ष्यामो निरुपमगुणाधारास्य देवस्यानित्यतां द्रष्टुमिति तस्मिन्नेव मुहूर्ते कालगतौ।
201.016. कामधातुमतिक्रम्य ब्राह्मलोकमुपपन्नौ।
201.016. राज्ञश्चन्द्रप्रभस्येदमेवम्रूपं व्यवसायं बुद्ध्वा तां च नगरनिवासिनीनां देवतानामार्तध्वनिमुपश्रुत्य भौमा यक्षा अन्तरिक्षचराश्च यक्षाः क्रिन्दितुमारब्धाह्--हा कष्टमिदानीं राज्ञश्चन्द्रप्रभस्य शरीरनिक्षेपो भविष्यतीति॥
201.019. अत्रान्तरे च राजकुलद्वारे ऽनेकानि प्रणिशतसहस्राणि संनिपतितान्यभूवन्।
201.019. ततो रौद्राक्षो ब्राह्मणस्तं महाजनकायमवेक्ष्य शिरो ग्रहीतुम्।
201.021. यदि च ते शिरः परित्यक्तम्, एकान्तं गच्छाव इति।
201.022. एवमुक्ते राजा चन्द्रप्रभो रौद्राक्षं ब्राह्मणमवोचत्--एवं महाब्राह्मण क्रियताम्।
201.023. ऋद्ध्यन्तां तव संकल्पाः, परिपूर्यन्तां मनोरथा इति।
201.023. अथ राजा चन्द्रप्रभो राजा आसनादुत्थाय तीक्षणमसिमादाय येन मणिरत्नगर्भमुद्यानं तेनोपसंक्रान्तः।
201.024. अथ राजा चन्द्रप्रभस्य इदमेवम्रूपं व्यवसायं दृष्ट्वा भद्रशिलायां राजधान्यामनेकानि प्राणिशतसहस्राणि विक्रोशमानानि पृष्ठतः पृष्ठतः समनुबद्धानि।
201.026. सो ऽद्राक्षीद्राजा चन्द्रप्रभो महाजनसंनिपातं विक्रोशान्तम्।
201.026. दृष्ट्वा च पुनः समाश्वासयन्नाह--अप्रमादः करणीयः कुशलेषु धर्मोष्विति।
201.027. संक्षेपेण धर्मदेशनां कृत्वा रौद्राक्षं ब्राह्मणमादाय मणिरत्नगर्भमुद्यानं प्रविष्टः।
201.028. समनन्तरप्रविष्टस्य राज्ञश्चन्द्रप्रभस्य मणिरत्नगर्भ उद्याने भद्रशिलायां छत्राणि ध्वजपताकाश्च येन मणिरत्नगर्भमुद्यानं तेनावनामिताः।
201.029. ततो राजा चन्द्रप्रभो मणिरत्नगर्भस्योद्यानस्य द्वारं पिधाय तं तं रौद्राक्षं ब्राह्मणमामन्त्रयते--प्रतिगृह्यतां ब्राह्मण ममोत्तमाङ्गमिति।
201.031. एवमुक्ते रौद्राक्षो ब्राह्मणो राजानं चन्द्रप्रभमुवाच--नाहं शक्ष्यामि देवस्य शिरश्छेत्तुमिति।
201.032. मणिरत्नगर्भस्य चोद्यानस्य मध्ये कुरबकः।
201.032. तत्र सर्वकालिकश्चम्पकवृक्षो<202> जातः।
202.001. ततो राजा चन्द्रप्रभस्तीक्ष्णमसिं गृहीत्वा येन सर्वकालिकश्चम्पकवृक्षस्तेनोपसंक्रान्तः।
202.002. अथ या देवतास्तस्मिन्नुद्याने ऽध्यवसिताः, ता राज्ञश्चन्द्रप्रभस्येदमेवम्रूपं स्वशरीरपरित्यागं विदित्वा विक्रोष्टुमारब्धाः।
202.003. एवं चाहुह्--कथमिदानीं त्वं पापब्राह्मण राज्ञश्चन्द्रप्रभस्यादूषिणो ऽनपकारिणो महाजनवत्सलस्यानेकगुणसम्पन्नस्य शिरश्छेत्स्यसीति? ततो राजा चन्द्रप्रभ उद्यानदेवता निवारयति--मा देवता मम शिरोयाचनकस्यान्तरायं कुरुत।
202.006. तत्कस्य हेतोह्? भूतपूर्वं देवता ममोत्तमाङ्गम् याचनकस्य देवताया अन्तरायः कृतः।
202.007. तया देवतया बहु अपुण्यं प्रसूतम्।
202.007. तत्कस्य देतोह्? यदि तया देवतया अन्तरायो न कृतो ऽभविष्यत्, मया लघु लघ्वेवानुत्तरज्ञानमधिगतमभविष्यत्।
202.008. अतश्च त्वामहमेवं ब्रवीमि--मा मे त्वमुत्तमाङ्गयाचनकस्यान्तरायं कुरुष्वेति।
202.009. अस्मिन्नेव ते मणिरत्नगर्भ उद्याने मया सहस्रशः शिरःपरित्यागः कृतः, न च मे केनचिदन्तरायः कृतः।
202.010. तस्मात् त्वं देवते ममोत्तमाङ्गयाचनकस्यान्तरायं मा कुरु।
202.011. एष एव देवते स पृष्ठीभूतो मैत्रेयो यो व्याघ्र्या आत्मानं परित्यज्य चत्वारिंशत्कल्पसम्प्रस्थितो मैत्रेयो बोधिसत्त्व एकेन शिरःपरित्यागेनावपृष्ठीकृतः।
202.013. अथ सा देवता राज्ञश्चन्द्रप्रभस्य महर्द्धितामवेत्य तस्मिन् राजनि परं प्रसादं प्रवेदयन्ती तूष्णीमवस्थिता।
202.014. अथ राजा चन्द्रप्रभः सम्यक्प्रणिधानं कर्तुमारब्धह्--शृण्वन्तु भवन्तः, ये दशादिक्षु स्थिता देवतासुरगरुडगन्धर्वकिन्नरा अध्युषिताः, इहाहमुद्याने त्यागं करिष्यामि, अस्मिंस् त्यागं स्वशिरःपरित्यागम् येन चाहं सत्येन स्वशिरः परित्यजामि, न राज्यार्थाय न स्वर्गार्थाय न भोगार्थाय न शक्रत्वाय न ब्रह्मत्वाय न चक्रवर्तिविजयाय नान्यत्र कथमहमनुत्तरां सम्यक्सम्बोधिमभिसम्बुद्ध्य अदान्तान् सत्त्वान् दमयेयम्, अशान्ताञ् शमयेयम्, अतीर्णांस्तारयेयम्, अमुक्तान् मोचयेयम्, अनाश्वस्तानाश्वासयेयम्, अपरिनिर्वृतान् परिनिर्वापयेयम्।
202.020. अनेन सत्येन सत्यवचनेन सफलः परिश्रमः स्यात्, परिनिर्वृतास्य च सर्षपफलप्रमाणधातवो भवेयुः, अस्य च मणिरत्नगर्भस्योद्यानस्य मध्ये महान् स्तूपः स्यात् सर्वस्तूपप्रतिविशिष्टः।
202.022. ये च सत्त्वाः शान्तकाया महाचैत्यं वन्दितुकामा गच्छेयुः, ते तं सर्वस्तूपप्रतिविशिष्टं धातुपरं दृष्ट्वा विश्रान्ता भवेयुः।
202.023. परिनिर्वृतस्यापि मम चैत्येषु, जनकाया आगत्य कारां कृत्वा स्वर्गमोक्षपरायाणा भवेयुरिति।
202.024. एवं सम्यक् प्रणिधानं कृत्वा तस्मिंश्चम्पकवृक्षे शिखां बद्ध्वा रौद्राक्षं ब्राह्मणमुवाच--आगच्छ महाब्राह्मण, प्रतिगृह्यताम्।
202.026. मा मे विघ्नं कुरुष्वेति।
202.027. ततो राजा चन्द्रप्रभ आत्मनः कायस्य स्थाम च बलं च संजन्य तस्मिंश्च ब्राह्मणे करुणासहगतं मैत्रचित्तमुत्पाद्य शिरशिछत्त्वा रौद्राक्षाय ब्राह्मणाय निर्यातितवान्।
202.028. कालं च कृत्वा अतिक्रम्य ब्रह्मलोकं प्रणीतत्वाच्छुभकृत्स्ने देवनिकाये उपपन्नः।
202.029. समनन्तरपरित्यक्ते राज्ञा चन्द्रप्रभेण शिरसि अयं त्रिसाहस्रमहासाहस्रो लोकधातुस् त्रिः कम्पितः संकम्पितः संप्रकम्पितः, चलितः संचलितः संप्रचलितः, व्यधितः प्रव्याधितः संप्रव्याधितः।
202.031. गगनतलस्थाश्च देवता दिव्यान्युत्पलानि क्षेप्तुमारब्धाः, पद्मानि कुमुदानि पुण्डरीकान्यगरुचूर्णानि तगरचूर्णानि चन्दनचूर्णानि तमालपत्राणि दिव्यानि <203>मान्दारवाणि पुष्पाणि, दिव्यानि च वाद्यानि प्रवादयित्मारब्धाः, चैलविक्षेपांश्च चाकर्षुः।
203.002. ततो रौद्राक्षो ब्राह्मणः शिरोग्रहायोद्यानान्निर्गतः।
203.002. अथास्मिन्नन्तरे ऽनेकैः प्राणिशतसहस्रैर् नादो मुक्तह्--हा कष्टम्।
203.003. प्रघातितो देवः सर्वजनमनोरथपरिपूरक इति।

203.003. तत एकत्याः पृथिव्यामावर्तन्ते परिवर्तन्ते, एके बाहुभिः प्रक्रोशन्ति, काश्चित् प्रकीर्णकेश्यो रुदन्ति।
203.004. अनेकानि च प्राणिशतसहस्राणि संनिपतितानि।
203.005. तत एकत्यास्तस्मिन्नेव प्रदेशे स्थित्वा ध्यानान्युत्पाद्य तत्रैव कालं कृत्वा शुभकृत्स्ने देवनिकाये उपपन्ना राज्ञश्चन्द्रप्रभस्य सभागतायाम्।
203.006. अपरे ध्यानान्युत्पाद्य तत्रैव कालं कृत्वा भास्वरे देवनिकाये उपपन्नाः।
203.007. अपरे प्रथमध्यानमुत्पाद्य कालं कृत्वा ब्रह्मलोकसभागतायामुपपन्नाः।
203.008. अपरैः संनिपात्य राज्ञश्चन्द्रप्रभस्य शरीरं सर्वगन्धकाष्ठैश्चितां चित्वा, ध्मापितानि च अस्थीनि सौवर्णकुम्भे प्रक्षिप्य, चतुर्महापथे शरीरस्तूपः प्रतिष्टापितः।
203.010. छत्रध्वजपताकाश्चारोपिताः।
203.010. गन्धैर्माल्यैर्धूपैर्दीपैः पुष्पैः पूजां कृत्वा चन्द्रप्रभे राजनि स्वचित्तमभिप्रसाद्य कालगताः षट्सु देवनिकायेषु कामावचरेषु देवेषूपपन्नाः।
203.012. यैश्च तत्र काराः कृताः, सर्वे ते स्वर्गमोक्षपरायणाः संवृत्ता इति॥
203.013. स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा अन्या सा तेन कालेन समयेनोत्तरापथे भद्रशिला नाम राजधान्यभूदिति।
203.014. न खलु एवं द्रष्ट्व्यम्।
203.014. तत्कस्य हेतोह्? एषैव सा तक्षशिला तेन कालेन तेन समयेन भद्रशिला नाम राजधानी बभूव।
203.015. स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा अन्यः स तेन कालेन तेन समयेनोत्तरापथे भद्रशिला नाम राजधान्यभूदिति।
203.014. न खलु एवं द्रष्टव्यम्।
203.014. तत्कस्य हेतोह्? एषैव सा तक्षशिला तेन कालेन तेन समयेन भद्रशिला नाम राजधानी बभूव।
203.015. स्यात्खलु युष्माकं भिक्षुवः काङ्क्षा वा विमतिर्वा अन्यः स तेन कालेन तेन समयेन चन्द्रप्रभो नाम राजाभूदिति।
203.017. न खलु एवं द्रष्टव्यम्।
203.017. तत्कस्य हेतोह्? अहमेव तेन कालेन तेन समयेन राजा चन्द्रप्रभो बभूव।
203.018. स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन रौद्राक्षो नाम ब्राह्मणो ऽभूदिति।
203.019. न खल्वेवं द्रष्टव्यम्।
203.019. तत्कस्य हेतोह्? एष एव स तेन कालेन तेन समयेन देवदत्तो बभूव।
203.020. स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यौ तौ तेन समयेन महाचन्द्रमहीधरौ अग्रामात्यौ बभूवतुरिति।
203.020. न खल्वेवं द्रष्टव्यम्।
203.022. तत्कस्य हेतोह्? एतावेव महाचन्द्रमहीधरौ अग्रामात्यौ शारिपुत्रमौद्गल्यायनौ बभूवतुः।
203.023. तदाप्येतौ तत्प्रथमतः कालगतौ, न त्वेव पुतृमरणमारागितवन्तौ इति॥
203.024. इदमवोचद्भगवान्।
203.024. आत्तमनसस्ते भिक्षवो ऽन्ये च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥
203.026. चन्द्रप्रभबोधिसत्त्वचर्यावदानं नाम द्वाविंशतिमम्।
अfतेर् थिस्, ंस्स्. अद्द्:
तथा च चन्द्रप्रभभूपतिर्भूते
मणिकनकरजतवैड्र्रुयेन्द्रनीलादिद्रविणवसनयानभोजनालांकारग्रामनगरनिगमविषयराज्यादयो
राज्यरथसुतकलत्रमांसरुधिरकरचरणशिरोक्षिग्रीवादिसर्वपरित्यागमन्तरेण
दुर्गतिजननमरणजराकरचरणकरणविकलताप्रियवियोगादितरदुःखोपनिपातभयाभिहतजनपरित्राणकरणसमर्था
सकलभुवनाधिपत्याभिषेकमहती गाथाधुनी गुणसमृद्धिर् न
शक्यते ऽधिगन्तुमिति
कारुण्यादशेषजगद्दुःखोपशमकृतनिश्चयह्
प्रणतसकलसामन्तचूडामणिमयूखाविच्छुरितपादपीठह्
तुरगगजरथवस्त्रालंकारादिपरित्यागेन
परीपूरितनिरवशेषजाम्बूद्वीपकजनमनोरथह्
सकलजनमनोनयनहारी शिरः परित्यक्तवान्।
कथमित्येवमनुश्रूयते इति॥
********** अवदान 23 **********
204.001. दिव्23 सङ्घरक्सितावदानम्।
204.002. किं महाल्लेनाधिगतम्? एकोत्तरिका।
204.002. अयं तावत् खुस्तिकया एकोत्तरिकया धर्मं देशयति--अमी भिक्षवो धर्मकथिका युंक्तमुत्कमुक्तप्रतिभानाः।
204.003. कस्मान्नैतानध्येषयसि? स तैरभिहितह्--महल्ल, किं त्वया अधिगतम्? स कथयति--एकोत्तरिका।
204.004. ते कथयन्ति--त्वं तावन्महल्ल खुस्तिकया एकोत्तरिकया धर्मं देशयसि।
204.005. अमी भिक्षवस्तृपिता धर्मकथिका युक्तमुक्तप्रतिभानाः।
204.006. कस्मान्नैतानध्येषयसि? स कथयति--आर्याः, यूयं कस्यार्थे न देशयत? किमहं निवारयामीति? ते कथयन्ति--नन्दोपनन्द, प्रतिवदत्येषो ऽस्माकं महल्लः।
204.007. कुरुत अस्योत्क्षेपणीयं कर्म।
204.008. स संलक्षयति--यदि मे उत्क्षेपणीयं कर्म करिष्यन्ति, नागभवने ऽप्यहमवकाशं न लप्स्ये।
204.009. स तेषां शयितकानां तं विहारमन्तर्हापयित्वा महासमुद्रं प्रविष्टः।
204.009. ते वालुकास्थले शयितकास्तिष्ठन्ति।
204.010. नन्दोपनन्द, उत्तिष्ठ सिंहासनं प्रज्ञापय, धर्मं देशयामः।
204.010. ते कथयन्ति--को ऽप्यसौ देवो वा नागो वा यक्षो वा भगवत्यभिप्रसन्नो बुद्धे धर्मे संघे कारान् कुर्वन्, सो ऽस्माभिर्विहेठितः।
204.012. एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति।
204.012. भगवानाह--यो ऽसौ भिक्षवो निर्मितो यदि षड्वर्गिकैर्भिक्षुभिर् न विहेठितो ऽभविष्यत्, यावच्छासनकोटिमुद्धाटको बुद्धे धर्मे संघे कारानकरिष्यत्।
204.014. भगवान् संलक्षयति--यः कश्चिदादीनवो भिक्षवः, अनधीष्टो धर्मं देशयति, तस्मान्न भिक्षुणा^नधीष्टेन धर्मो देशयितव्यः।
204.015. भिक्षुरनधीष्टो धर्मं देशयति, सातिसारो भवति।
204.016. अनापत्तयस्तन्मुखिकया निर्गता भवन्ति॥
204.017. श्रावस्त्यां बुद्धरक्षितो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगः।
204.017. तेन सदृशात् कुलात् कलत्रमानीतम्।
204.018. स तया सार्धं क्रीडते रमते परिचारयति।
204.018. तस्य क्रीडतो रमतः परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता।
204.019. आयुष्माञ् शारिपुत्रो वैनेयापेक्षया तत्कुलमुपसंक्रान्तः।
204.020. तेन स गृहपतिः सपत्नीकः शरणगमनशिक्षापदेषु प्रतिक्ष्ठापितः।
204.020. अपरेण समयेन सा तस्य पत्नी आपन्नसत्त्वा सवृत्ता।
204.021. आयुष्माञ् शारिपुत्रस्तस्य च वैनेयकालं ज्ञात्वा एकाक्येव तत् कुलमुपसंक्रान्तः।
204.022. स गृहपतिः कथयति--नास्त्यार्यशारिपुत्रस्य कश्चित् पश्चाच्छ्रमणह्? स कथयति--गृहपते, किमस्माकं काशधानाद्वा कुशधानाद्वा पश्चाच्छ्रमणा भवन्ति? अपि तु ये भवद्विधानां सकाशाल्लभ्यन्ते, अस्माकं ते पश्चाच्छ्रमणा भवन्ति।
204.025. बुद्धरक्षितो गृहपतिह्--आर्य, मम पत्नी आपन्नसत्त्वा संवृत्ता।
204.025. यदि पुत्रं जनयिष्यति, तमहमार्यस्य पश्चाच्छ्रमणं दास्यामि।
204.026. स कथयति--गृहपते, औपयिकम्॥
204.027. सा अष्टानां वा नवानां वा मासानाम् {अत्ययात्} प्रसूता।

204.027. दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासः।
204.029. तस्य ज्ञातयः संगम्य त्रीणि सप्तकान्येकविंशतिदिवसानि विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थापयन्ति--किं भवतु दारकस्य नाम? अयं दारको बुद्धरक्षितस्य गृहपतेः पुत्रः।
204.031. भवतु दारकस्य संघरक्षितो नाम।
204.031. यस्मिन्नेव दिवसे संघरक्षितो जातः, तस्मिन्नेव दिवसे पञ्चानां वणिक्शतानां पञ्च पुत्रशतानि जातानि।
204.032. तेषामपि कुलसदृशानि <205>नामधेयानि व्यवस्थापितानि।
205.001. संघरक्षितो दारक उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन अन्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः।
205.002. आशु वर्धते ह्रदस्थमिव पङ्कजम्।
205.003. यदा महान् समृत्तः, तदा आयुष्माञ् शारिपुत्रस्तस्य वैनेयकालं ज्ञात्वा एकाक्येव तत्कुलमुपसंक्रम्य निमित्तमुपदर्शयितुमारब्धः।
205.004. बुद्धरक्षितेन गृहपतिना संघरक्षितो ऽभिहितह्--पुत्र, अजात एव त्वं मया आर्यशारिपुत्रस्य पश्चाच्छ्रमणो दत्त इति।
205.006. चरमभविकः स आयुष्मता शारिपुत्रेण प्रव्राजित उपसम्पादित आगमचतुष्टयं च ग्राहितः॥
205.007. अथापरेण समयेन तानि पञ्च वणिक्शतानि महासमुद्रगमनीयं पण्यं समुदानीय महासमुद्रमवतर्तुकामानि कथयन्ति--किंचिद्वयं भवन्त आर्यकमवतारयाम यो ऽस्माकं महासौद्रमध्यगतानां धर्मं देशयिष्यति।
205.009. ते कथयति--भवन्तः, अयमस्माकमार्यसंघरक्षितो वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः।
205.010. एतमेवावतारयामः।
205.010. ते तस्य सकाशमुपसंक्रान्ताः।
205.010. आर्य संघरक्षित, त्वमस्माकं वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः।
205.011. वयं च महासमुद्रं संप्रस्थिताः।
205.012. त्वमप्यस्माभिः सार्धमवतर, समुद्रमध्यगतानां धर्मं देशयिष्यसि।
205.012. स कथयति--नाहं स्वाधीनः।
205.013. उपाध्यायमवलोकयत।
205.013. ते येनायुष्माञ् शारिपुत्रस्तेनोपसंक्रान्ताः।
205.013. उपसंक्रम्य कथयन्ति--आर्य शारिपुत्र, अयमस्माकमार्यसंघरक्षितो वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः।
205.014. वयं महासमुद्रं संप्रस्थिताः।
205.015. एषो ऽप्यस्माभिः सार्धमवतरतु, अस्माकं महासमुद्रमध्यगतानां धर्मं देशयिष्यति।
205.016. स कथयति--भगवन्तमवलोकयत।
205.016. ते भगवतः सकाशमुपसंक्रान्ताः।
205.016. भगवन्, वयं महासमुद्रं संप्रस्थिताः।
205.017. अयमस्माकमार्यसंघरक्षितो वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः।
205.018. एषो ऽप्यस्माभिः सार्धं महासमुद्रमवतरतु।
205.018. अस्माकं महासमुद्रमध्यगतानां धर्मं देशयिष्यति।
205.019. भगवान् संलक्षयति--अस्त्येषां कानिचित् कुशलमूलानि? अस्ति।
205.019. कस्यान्तिके प्रतिबुद्धानि? संघरक्षितस्य भिक्षोः।
205.020. तत्र भगवान् संघरक्षितमामन्त्रयते--गच्छ संघरक्षित, भयभैरवसहिष्णुना भवितव्यम्।
205.021. अधिवासयत्यायुष्मान् संघरक्षितो भगवतस्तूष्णीभावेण॥
205.023. अथ तानि पञ्च वणिक्शतानि कृतकौतुकमङ्गलस्वस्त्ययनानि शक्टैर्भारैर्मूढैः पिटकैरुष्ट्रैर्गोभिर्गर्दभैः प्रभूतं पण्यमारोप्य महासमुद्रं संप्रस्थितानि।
205.025. ते निपुणतः समुद्रयानपात्रं प्रतिपद्य महासमुद्रमवतीर्णा धनहारकाः।
205.026. तेषां महासमुद्रमध्यगतानां नागैर्वहनं विधारितम्।
205.027. ते देवतायाचनं कर्तुमारब्धाह्--यो ऽस्मिन् महासमुद्रे देवो वा नागो वा यक्षो वा प्रतिवसति, स आचक्षतु किं मृगयतीति।
205.028. महासमुद्राच्छब्दो निश्चरति--आर्यसंघरक्षितमस्माकमनुप्रयच्छथेति।
205.029. ते कथयति--आर्यसंघरक्षितो ऽस्माकं वयस्यकः सहजन्मिकः सहपांशुक्रीडनको भदन्तशारिपुत्रेणानुप्रदत्तको भगवतानुपरीतकः।
205.030. श्रेयो ऽस्माकमनेनैव सार्धं कालत्रिया, न त्वेन वयं संघरक्षितं परित्यक्ष्यामः।
205.031. ते मन्त्रयन्ते आयुष्मता संघरक्षितेन श्रुताः।
205.032. स कथयति--भवन्तः, किं कथयन्ते? कथयन्ति--आर्य संघरक्षित महासमुद्राच्छब्दो <206>निश्चरितह्--आर्यसंघरक्षितमस्माकमनुप्रयच्छथेति।
206.001. स कथयति--कस्मान्नानुप्रयच्छध्वम्? ते कथयन्ति--आर्य, त्वमस्माकं वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः।
206.002. भदन्तशारिपुत्रेणानुप्रदत्तको भगवतानुप्रदत्तकः।
206.003. श्रेयो ऽस्माकं त्वयैव सार्धं कालक्रिया।
206.003. न त्वेव वयमार्य संघरक्षित त्वां परित्यक्ष्यामः।
206.004. आयुष्मान् संघरक्षितः संलक्षयति--यदुक्तं भगवता भयभैरवसहिष्णुना ते भवितव्यमितीदं तत्।
206.005. स पात्रचीवरं गृहीत्वा आत्मानं महासमुद्रे प्रक्षेप्तुमारब्धः।
206.006. स तैर्दृष्टः।
206.006. ते कथयन्ति--आर्यसंघरक्षित किं करोषि, आर्यसंघरक्षित किं करोषीति।
206.006. स तेष विक्रोशतां महासमुद्रे प्रपतितः।
206.007. मुक्तं तद्वहनम्।
206.007. स नागैर्गृहीत्वा नागभवनं प्रवेशितः॥
206.008. आर्य संघरक्षित, इयं विपश्यितः सम्यक्सम्बुद्धस्य गन्धकुटी।
206.008. इयं शिखिनो विश्वभुवः क्रकुच्छन्दस्य कनकमुनेः काश्यपस्येयं भगवतो गन्धकुटी।
206.009. आर्य संघरक्षित, भगवतः सूत्रं मातृका च देवमनुष्येषु प्रतिष्ठितम्।
206.010. वयं नागा विनिपतितशरीराः।
206.010. अहो बत, आर्यः संघां रक्षित इहाप्यागमचतुष्टयं प्रतिष्ठापयेत्।
206.011. स कथयति--एवं भवतु।
206.011. तेन त्रयो नाग्कुमारा उत्साहिताः।
206.012. एको ऽभिहितह्--त्वं तावत् सम्युक्तकमधीष्व।
206.012. द्वितीयो ऽभिहितह्--त्वमपि मध्यमम्।
206.013. तृतीयो ऽभिहितह्--त्वमपि दीर्घममधीष्व।
206.013. स कथयति--अहमपि तामेवैकोत्तरिकां विमृष्टरूपां प्रज्वालयामि।
206.014. ते ऽध्येतुमारब्धाः।
206.014. तत्रैकश्चक्षुषी निमीलियत्वोद्वेशं गृह्णाति, द्वितीयः पृष्ठतोमुख उद्देशं गृह्णाति, तृतीयो दूरतः स्थित्वोद्देशं गृह्णाति।
206.015. स एव तेषामेकः सगौरवः सप्रतीश इति करणीयैश्च सर्वत्र पूर्वंगमः।
206.016. आर्य उत्तिष्ठ, दन्तकाष्ठ, दन्तकाष्ठं विसर्जय, भगवतो मण्डलकमामार्जय, चैत्याभिवन्दनं कुरु, भुङ्क्ष्व, शय्यां कल्पयेति।
206.017. सर्वैस्तैरागमान्यधीतानि।
206.018. स कथयति--आर्य, अधीतान्येभिरागमानि।
206.018. किं धारयिष्यन्ति आहोस्विन्नधारयिष्यन्ति? स कथयति--स्मृतिमत्तका ह्येते धारयिष्यन्ति, अपि तु दोषो ऽस्त्येषाम्।
206.019. स कथयति--आर्य, को दोषह्? सर्वे ह्येते ऽगौरवा अप्रतीशाः।

206.020. एकस्तावच्चक्षुषी निमीलयित्वोद्वेशं गृह्णाति, द्वितीयः पृष्टतोमुख उद्देशं गृह्णाति, तृतीयो दूरतः स्थित्वोद्देशं गृह्णाति।
206.021. त्वमेवैकः सगौरवः सप्रतीश इति करणीयैश्च सर्वत्र पूर्वंगमः।
206.022. स कथयति--आर्य, न ह्येते ऽगौरवा अप्रतीशाः।
206.023. यस्तावदयं चक्षुषी निमीलयित्वोद्देशं गृह्णाति, अयं दृष्टिविषः।
206.023. यो ऽप्ययं पृष्ष्ठतोमुख उद्देशं गृह्णाति, एषो ऽपि श्वासविषः।
206.024. यो ऽप्येष दूरतः स्थित्वोद्देशं गृह्णाति, एषो ऽपि स्पर्शविषः।
206.025. अहमेको दंष्ट्राविषः।
206.025. स भीत उत्पाण्डूत्पाण्डुकः कृशालुको दुर्बलको म्लानको ऽप्राप्तकायः संवृत्तः।
206.026. स कथयति--आर्य, कस्मात् त्वमुत्पाण्डूत्पाण्डुकः कृशालुको दुर्बलको म्लानको ऽप्राप्तकायः संवृत्तह्? स कथयति--भद्रमुख, अमित्रमध्ये ऽहं वासं कल्पयामि।
206.028. सचेत् युष्माकमन्यतमो ऽन्यतमं प्रकुप्येत, मां नामावशेषं कुर्यात्।
206.028. स कथयति--आर्यास्य वयं न प्रहरामः।
206.029. अपि तु इच्छसि त्वं जम्बुद्वीपं गन्तुम्? भद्रमुख, इच्छामि।
206.030. तच्च वहनमागतम्।
206.030. स तैरुत्क्षिप्तः॥
206.031. विणिग्भिर्दृष्टः।
206.031. ते कथयन्ति--स्वागतमार्यसंघरक्षिताय।
206.031. स कथयति--अनुमोदन्तां भवन्तः।
206.032. मया नागोष्वागमचतुष्टयं प्रतिष्ठापितम्।
206.032. ते कथयन्ति--आर्य संघरक्षित, अनुमोदयामह्<207>।
207.001. ते तं वहने प्रक्षिप्य संप्रस्थिताः।
207.001. ते ऽनुपूर्वेण समुद्रतीरं गत्वा सर्वे ते वणिजः शयिताः।
207.002. आयुष्मान् संघरक्षितो महासमुद्रं द्रष्टुमारब्धः।
207.002.उक्तं भगवता--पञ्चसेचनका दर्शनेन।
207.004. हस्तिनागश्च राजा च सागरश्च शिलोच्चयः।
207.005. असेचनका दर्शनेन बुद्धश्च भगवतां वरः

21.2

इति।
207.006. चिरं महासमुद्रं पश्यञ् जागरितः।
207.006. सो ऽपश्चिमे यामे गढनिद्रावष्टब्धः शयितः।
207.007. ते ऽपि वणिजः सरात्रमेवोत्थाय स्थोराम्ल्लर्दयित्वा संप्रस्थिताः।
207.007. ते कथयन्ति प्रभातायां रजन्याम्--कुत्रायं संघरक्षितह्? तत्रैक एवमाहुह्--पुरस्ताद्गच्छति।
207.009. अपर एवमाहुह्--पृष्ठत आगच्छति।
207.009. ते कथयन्ति--आर्यसंघरक्षितो ऽस्माभिश्छोरितः।
207.010. न शोभनमस्माभिः कृतम्।
207.010. प्रतिनिवर्तयामः।
207.010. आर्यसंघरक्षितो भवन्तो महर्द्धिको महानुभावो यः समुद्रमध्ये न कालगतः।
207.011. स इदानीं कालं करिष्यति? स्थानमेतद्विद्यते यदसौ अग्रत एव यास्यति।
207.012. आगच्छत, गमिष्यामः।
207.012. ते संप्रस्थिताः॥
207.013. आयुष्मानपि संघरक्षितः सूर्यस्याभ्युद्गमनसमये सूर्यांशुभिस्ताडितः प्रतिबुद्धो यावन्न किंचित्पश्यति।
207.014. प्रक्रान्ता वणिजः।
207.014. सो ऽपि पन्थलिकां गृहीत्वा संप्रस्थितः।
207.014. यावदन्यतमस्यां सालाटव्यां विहारं पश्यत्युद्गतं मञ्चपीठवेदिकाजालवातायनगवाक्षपरिमण्डितम्, भिक्षूंश्च संप्रावृतान् संप्रच्छन्नाञ् शान्तेनेर्यापथेनावस्थितान्।
207.016. स तेषां सकाशमुपसंक्रान्तः।
207.016. स तैरुक्तह्--स्वागतं भदन्तसंघरक्षिताय।
207.017. स तैर्विश्रामितः।
207.017. विश्रामयित्वा विहारं प्रवेशितो यावत् पश्यति शोभनां शयनासनप्रज्ञप्तिं कृतां प्रणीतं चाहारमुपहृतम्।
207.018. स तैरुक्तह्--भदन्त संघरक्षित, मा तृषितो ऽसि, मा बुभुक्षितो ऽसि? कथयति--आर्याः, तृषितो ऽस्मि, बुभुक्षितो ऽस्मि।
207.019. भदन्त संघरक्षित भुङ्क्ष्व।
207.020. स कथयति--संघमध्ये मोक्ष्यामि।
207.020. ते कथयन्ति--भदन्त संघरक्षित, मुङ्क्ष्व, आदीनवो ऽत्र भविष्यति।
207.021. तेन मुक्तम्।
207.021. स भुक्त्वा एकान्ते ऽपक्रम्यावस्थितः।
207.021. यावत् तेषां गण्डराकोटिता।
207.022. ते स्वकास्वकानि पात्राण्यादाय यथागत्य निषण्णः।
207.022. स च तेषां विहारो ऽन्तर्हितः।
207.023. अयोमुद्गताः प्रादुर्भूतम्।
207.023. तैस्तावदयोमुद्गरैः परस्परमार्तस्वरं क्रन्दद्भिः शिरांसि भग्नानि, यावत् कालादकालीभूतम्।
207.024. ततः पश्चात् पुनरपि तेषां विहारः प्रादुर्भूतः, ते च भिक्षवः शान्तेनेर्यापथेनावस्थिताः।
207.025. आयुष्मान् संघरक्षितस्तेषां सकाशमुपसंक्रान्तः।
207.026. के यूयमायुष्मन्तः, केन वा कर्मणा इहोपपन्नाह्? भदन्त संघरक्षित, दुष्कुहका जम्बुद्वीपका मनुष्याः।
207.027. नाभिश्रद्दधास्यसि।
207.027. स कथयति--अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? ते कथयन्ति--भदन्त संघरक्षित, वयं काश्यपस्य सम्यक्सम्बुद्धस्य श्रावका आसन्।
207.028. तैरस्माकं भक्ताग्रे रणमुत्पादितम्।
207.029. ते वयं भक्ताग्रे रणमुत्पादयित्वा इह प्रत्येकनरकेषूपपन्नाः।
207.0स्थानमेतद्विद्यते यदस्माभिरितश्च्युतैर् नरकृषूपपत्तव्यं भविष्यति।
207.030. साधु संघरक्षित, जम्बुद्वीपं गत्वा सब्रह्मचारिणामारोचय--मा आयुष्मन्तः संघमध्ये रणमुत्पादयिष्यथ।
207.031. मा अस्यैवम्रूपस्य दुःखदौर्मनस्यस्य भागिनो भविष्यथ तद्यथा श्रमणाः काश्यपीयाः॥
208.001. <208>स संप्रस्थितः।
208.001. यावत् पश्यति द्वितीयं विहारमुद्गतं मञ्चपीठवेदिकाजालवातायनपरिक्षिप्तं गवक्षपरिमण्डितं भिक्षूंश्च सुप्रावृतान् सुप्रतिच्छन्नाञ् शान्ताञ् शान्तेर्यापथे व्यवस्थितान्।
208.003. तेषामुपसंक्रान्तः।
208.003. स तैरुक्तह्--स्वागतं भदन्तसंघरक्षिताय।
208.003. स तैर्विश्रामितः।
208.004. विश्रामयित्वा विहारं प्रवेशितो यावत् पश्यति।
208.004. शोभनां शयनासनप्रज्ञप्तिः कृत्वा प्रणीतं चाहारं समन्वाहृत्य स तैरुक्तह्--भदन्त संघरक्षित मुङ्क्ष्व।
208.005. तेन दृष्टादीनवेन भुक्तम्।
208.005. मुक्त्वा एकान्ते ऽपक्रम्यास्थितः।
208.006. तेषां गण्ड्याकोटिता।
208.006. ते स्वकस्वकानि पात्राण्यादाय यथागत्य निषण्णाः।
208.007. स च विहारो ऽन्तर्हितः, तदन्नपानमयोरसं प्रादुर्भूतम्।
208.007. तैरातस्वरं क्रन्दद्भिस्तावदयोरसेन परस्परमात्मा सिक्तो यावत् कालदकालीभूतम्।
208.008. ततः पश्चात् पुनरपि स तेषां विहारः प्रादुर्भूतः।
208.009. ते च भिक्षवः पुनरपि शान्ताः शान्तेर्यापथेनावस्थिताः।
208.009. स तेषां सकाशमुपसंक्रान्तह्--के यूयमायुष्मन्तः, केन वा कर्मणा इहोपपन्नाह्? दुष्कुहका भदन्त संघरक्षित जम्बुद्वीपका मनुष्याः, नाभिश्रद्दद्धास्यन्ति।
208.011. स कथयति--अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? ते कथयन्ति--भदन्त संघरक्षित, वयं काश्यपस्य सम्यक्सम्बुद्धस्य श्रावका आसन्।
208.013. संघस्य च स्नेहलाभे संपन्ने आगन्तुका भिक्षव आगताः।
208.013. तैरस्माभिरनार्यपरिगृहीतैरेवं चित्तमुत्पादितम्--न तावद्भोजयिष्यामो यावदेते आगन्तुका भिक्षवो न प्रक्रान्ता भविष्यन्तीति।
208.015. तैरस्माभिस्तत्तथैव कृतम्।
208.015. सप्ताहिकं चाकालदुर्दिनं प्रादुर्भूतम्।
208.015. तेन तदन्नपानं क्लेदं गतम्।
208.016. वयं श्रद्धादेयं विनिपातयित्वा इह प्रत्येकनरकेषूपपन्नाः।
208.016. स्थानमेतद्विद्यते यदस्माभिरिह च्युतैर् नरकेषूपपत्तव्यं भविष्यति।
208.017. साधु भदन्त संघरक्षित, जम्बुद्वीपं गत्वा सब्रह्मचारिणामारओचय--मा आयुष्मन्तः श्रद्धादेयं विनिपातयिष्यथ, मा अस्य एवम्रूपस्य दुःखदौर्मनस्यस्य भागिनो भविष्यथ, तद्यथा ब्राह्मणाः काश्यपीयाः॥
208.020. स संप्रस्थितो यावत् पश्यति तृतीयं विहारमुद्गतं मञ्चपीठविदिकाजालवातायनगवाक्षपरिमण्डितं पूर्ववद्यावदायुष्मान् संघरक्षितो संघरक्षितो भुक्त्वा एकान्ते ऽपक्रम्याव्स्थितः।
208.021. गण्ड्याकोटिता।
208.022. स तेन विहार आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्मायितुमारब्धः।
208.022. ते ऽपि तस्मिन्नार्तस्वरं क्रन्दतस्तावद्दग्धा यावत् कालादकालीभूतम्।
208.023. ततः पश्चात् पुनरपि तेषां विहारः प्रादुर्भूतः, ते च भिक्षवः शान्तशान्तेनेर्यापथेनावस्थिताः।
208.024. स तेषां सकाशमुपसंक्रान्तह्--के यूयमायुष्मन्तः, केन वा कर्मणा इहोपपन्नाह्? दुष्कुहका भदन्त संघरक्षित जम्बुद्वीपका मनुष्याः, नाभिश्रद्दधास्यसि।
208.026. स कथयति--अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? ते कथयन्ति--भदन्त संघरक्षित वयं काश्यपस्य सम्यक्सम्बुद्धस्य श्रावका आसन्।
208.027. दुःशीलास्ते वयं शीलवद्भिर्भिक्षुभिर् निष्कासिताः।
208.028. तैरस्माभिरेकः शून्यविहार आवासितः।
208.028. यावत् तत्रैकः शीलवान् भिक्षुरागतः।
208.029. अस्माकं बुद्धिरुत्पन्ना--तिष्ठतु अयं भिक्षुः।
208.029. अयमप्येको ऽस्माकं दक्षिणां शोधयिष्यति।

208.030. स तत्रैव स्थितो यावत् तस्यानिसङ्गेन(?) पुनरपि बहवः शीलवन्तो भिक्षव आगताः।
208.031. ते वयं तत्रापि निर्वासिताः।
208.031. तैरस्माभिरमर्षजातैः शुष्कानि काष्ठानि शुष्कानि तृणानि शुष्कानि गोमयानि उपसंहृत्य तस्मिन् विहारो ऽग्निर्दग्धः।
208.032. तत्र प्रभूताह् <209>शैक्षाशैक्षाः पुद्गला दग्धाः।
209.001. <209>ते वयं शैक्षाशैक्षान् पुद्गलान् दग्ध्वा इह प्रत्येकनरकेषूपपन्नाः।
209.002. स्थानमेतद्विद्यते यदस्माभिरिह च्युतैर् नरकेषूपपत्तव्यं भविष्यति।
209.002. साधु भदन्त संघरक्षित, जम्बुद्वीपं गत्वा सब्रह्मचारिणामारोचय--मा आयुष्मन्तः सब्रह्मचारिणामन्तिके प्रदुष्टचित्तमुत्पादयिष्यथ, मा अस्यैवम्रूपस्य दुःखदौर्मनस्यस्य भगिनो भविनो भविष्यथ तद्यथा श्रमणः काश्यपीयाः॥
209.006. आयुष्मान् संघरक्षितः संप्रस्थितो यावत् सत्त्वानद्रक्षीत् स्तम्भाकारान् कुड्याकारान् वृक्षाकारान् पत्राकारान् पुष्पाकारान् फलाकारान् रज्ज्वाकारान् संमार्जन्याकारानुदूखलाकारान् खट्वाकारान् स्थालिकाकारान्॥
209.009. आयुष्मान् संघरक्षितो जनपदान् गतः।
209.009. अन्यतमस्मिन्नाश्रमपदे पञ्चमात्राणि ऋषिशतानि प्रतिवसन्ति।
209.010. तैरायुष्मान् संघरक्षितो दूरत एव दृष्टः।
209.010. ते कथयन्ति--भवन्तः, क्रियाकारं तावत् कुर्मह्--बहुबोल्लकाः श्रमणाः शाक्यपुत्रीया भवन्ति।
209.011. नास्य केनचिद्वचनं दातव्यम्।
209.012. ते क्रियाकारं कृत्वा अवस्थिताः।
209.012. आयुष्मांश्च संघरक्षितस्तेषां सकाशमुपसंक्रान्तः।
209.013. उपसंक्रम्य प्रतिश्रयम् याचितुमारब्धः।
209.013. न कश्चिद्वाचमनुप्रयच्छति।
209.013. तत्रैक ऋषिः स शुक्लधर्मः।
209.014. कथयति--किम् युष्माकं प्रतिश्रयं न दीयते? अपि तु युष्माकं दोषो ऽस्ति।
209.014. बहुबोल्लका यूयम्।
209.015. समयेनाहं भवतः प्रतिश्रयं दास्ये, सचेत् किंचिन्न मन्त्रयसि।
209.015. आयुष्मान् संघरक्षितः कथयति--ऋषे, एवं भवतु।
209.016. तत्रैक ऋषिर्जनपदचारिकां गतः।
209.016. तस्य कुटिः शून्यावतिष्ठति।
209.017. स कथयति--अस्यां कुटिकायां शाय्यां कल्पय।
209.017. आयुष्मता संघरक्षितेन सा कुटिका सिक्ता संमृष्टा संमार्जिता सुकुमारीं गोमयकासिं चानुप्रदत्ता।
209.018. तैर्दृष्टः।
209.018. ते कथयति--भदन्त, शुच्यपि मार्जन्त्येते श्रमणाः शाक्यपुत्रीयाः।
209.019. आयुष्मान् संघरक्षितो बहिः कुटिकायाः पादौ प्रक्षाल्य कुटिकां प्रविश्य निषण्णः पर्यङ्कमाभुज्य ऋजुकायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्ह्ताप्य।
209.021. य तस्मिन्नाश्रमपदे देवता प्रतिवसति, सा रात्र्याः प्रथमे यामे येनायुष्मान् संघरक्षितस्तेनोपसंक्रान्ता।
209.022. उपसंक्रम्य कथयति--आर्य संघरक्षित, धर्मं देशय।
209.022. आयुष्मान् संघरक्षितः कथयति--सुखिता त्वम्।
209.023. न पश्यसि मया त्रियाकारेण प्रतिश्रयं लब्धम्, किं निष्कासापयितुमिच्छसि? सा संलक्षयति--श्रान्तकायो ऽयम्, स्वपितु।
209.024. मध्यमे यामे उपसंक्रमिष्यामि।
209.025. सा मध्यमे याम उपसंक्रान्ता।
209.025. उपसंक्रम्य कथयति--आर्य संघरक्षित, धर्मं देशय।
209.025. आयुष्मान् संघरक्षितः कथयति--सुखिता त्वम्।
209.026. न पश्यसि मया क्रियाकारेण प्रतिश्रयं लब्धम्? किं निष्कासापयितुमिच्छसि? सा संलक्षयति--श्रान्तकायो ऽयम्, स्वपितु।
209.027. पश्चिमे यामे उपसंक्रमिष्यामि।
209.028. सा पश्चिमे यामे उपसंक्रान्ता।
209.028. उपसंक्रम्य कथयति--आर्य संघरक्षित, धर्मं देशय।
209.029. आयुष्मान् संघरक्षितः कथयति--सुखिता त्वम्।
209.029. न पश्यसि मया क्रियाकारेण प्रतिश्रयं लब्धम्? किं निष्कासापयितुमिच्छसि? सा कथयति--आर्य संघरक्षित, प्रभातमिदानीम्।
209.031. सचिन्निष्कासयिष्यन्ति, गमिष्यसि।
209.031. अपि तु ननूक्तं भगवता भयभैरवसहिष्णुना ते भवितव्यमिति।
209.032. आयुष्मान् संघरक्षितः संलक्षयति--शोभनं कथयति--सचेत् स निष्कासयिष्यति, <210>गमिष्यामि।
210.001. स संलक्षयति--ब्राह्मणा ह्येते।
210.001. ब्राह्मणप्रतिसम्युक्तं भाषयामीत्यायुष्मान् संघरक्षितो ब्राह्मणवर्गं स्वाध्यायितुमारब्धह्--
210.003. न नग्नचर्या न जटा न पङ्को नानाशनं स्थण्डलशायिका वा।
210.005. न रजोमलं नोत्कुटुकप्रहाणं विशोधयेन्मोहमविशीर्णकाङ्क्षम्

21.3

210.007. अलंकृतश्चापि चरेत धर्मं दान्तेन्द्रयः शान्तः सम्यतो ब्रह्मचारी।
210.009. सर्वेषु भूतेषु निधाय दण्डं स ब्राह्मणः स श्रमण स भिक्षुः

21.4

210.011. तैः श्रुतम्।
210.011. ते संलक्षयन्ति--ब्राह्मणप्रतिसम्युक्तम्।
210.011. इत्येक उपसंक्रान्तो द्वितीयस्तृतीयो यावत् सर्वे उपसंक्रान्ताः।
210.012. तथा तया देवतया अधिष्ठितम्, यथा परस्परं न पश्यन्ति।
210.013. ततः पश्चादायुष्मता संघरक्षितेन नगरोपमं सूत्रमुपनिक्षिप्तम्।
210.013. गाथां च भाषते--
210.014. यानीह भूतानि समागतानि स्थितानि भूम्यामथवान्तरिक्षे।
210.016. कुर्वन्तु मैत्रीं सततं प्रजासु दिवा च रात्रौ च चरन्तु धर्मम्

21.5

इति।
210.018. अस्मिन् खलु धर्मपर्याये भाष्यमाणे सर्वैस्तैः सहसत्याभिसमयादनागामिफलमनुप्राप्तम्।
210.019. ऋद्धिश्चापि निर्हृता।
210.019. सर्वैस्तैः सुभाषितं भदन्तसंघरक्षितायेत्येकनादो मुक्तः।
210.019. तया देवतया ऋद्ध्यभिसंस्काराः प्रतिप्रस्रब्धः।
210.020. परस्परं द्रष्टुमारब्धाः।
210.020. ते ऽन्योन्यं कथयन्ति--त्वमप्यागतह्?
210.021. आगतो ऽहम्।
210.021. शोभनम्।
210.021. ते दृष्टसत्याः कथयन्ति--लभेमो वयं भदन्त संघरक्षित स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
210.022. चरेमो वयं भगवतो ऽन्तिके ब्रह्मचर्यम्।
210.022. आयुष्मान् संघरक्षितः कथयति--किं मत्सकाशे प्रव्रजथ, आहोस्विद्भगवतह्? ते कथयन्ति--भगवतः।
210.024. आयुष्मान् संघरक्षितः कथयति--यद्येवम्, आगच्छथ, भगवतः सकाशं गच्छामः।
210.024. ते कथयन्ति--भदन्त संघरक्षित, किमस्मदीयया ऋद्ध्या गच्छामः, आहोस्वित् त्वदीयया? आयुष्मान् संघरक्षितः संलक्षयति--एभिर्मदीयेनाववादेनैवंविधा गुणगणा अघिगताः, अहं लङ्घनकोपमः संवृत्तः।
210.027. स कथयति--तिष्ठन्तु तावद्भवन्तो मुहूर्तम्।
210.027. आयुष्मान् संघरक्षितो ऽन्यतमं वृक्षमूलं निश्रित्य निषण्णः पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य।
210.028. उक्तं भगवता--पञ्चानुशंसा बाहुश्रुत्ये।
210.029. धातुकुशलो भवति, प्रतीत्यसमुत्पादकुशलो भवति, स्थानास्थानकुशलो भवति, अपरप्रतिबद्धा चास्य भवति अववादानुशासनीति।
210.030. तेनोद्यच्छता घटता व्यायच्छता सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
210.031. अर्हन् संवृत्तस्त्रैधातुकवीतरागह् <211>पूर्ववद्यावन्मान्यः पूज्यश्चाभिवाद्यश्च संवृत्तः।
211.001. ते आयुष्मता संघरक्षितेनाभिहिताह्--भवन्तः, गृह्णीध्वं मदीयं चीवरकर्णिकम्, यास्यामः।
211.002. आयुष्मतः संघरक्षितस्य चीवरकर्णिके लग्नाः।
211.003. अथायुष्मान् संघरक्षितो विततपक्ष इव हंसराजस्तत एव ऋद्ध्या उपरिविहायसा प्रक्रान्तः॥
211.004. यावत् तानि पञ्च वणिक्शतानि भाण्डं प्रतिसामयन्ति।
211.004. तेषामुपरि च्छाया निपतिता।
211.005. स तैर्दृष्टः।
211.005. ते कथयन्ति--आर्य संघरक्षित, आगतस्त्वम्? आगतो ऽहम्।
211.005. कुत्र गच्छसि? स कथयति--इमानि पञ्च कुलपुत्रशतान्याकाङ्क्षन्ति स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
211.007. ते कथयन्ति--आर्य संघरक्षित, वयमपि प्रव्रजिष्यामः।
211.007. अवारस्व यावद्भाण्डं प्रतिसामयाम इति।
211.008. आयुष्मान् संघरक्षितो ऽवतीर्णः।
211.008. तैर्भाण्डं प्रतिसामितम्।
211.008. अथायुष्मान् संघरक्षितस्तत् कुलपुत्रसहस्रमादाय येन भगवांस्तेनोअसंक्रान्तः॥
211.010. तेन खलु समयेन भगवाननेकशताया भिक्षुपर्षदः पुरस्तान्निषण्णो धर्मं देशयति।
211.011. अद्राक्षीद्भगवानायुष्मन्तं संघरक्षितं दूरादेव।
211.011. दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म--एष भिक्षुवः संघरक्षितो भिक्षुः सप्राभृत आगच्छति।
211.012. नास्ति तथागतस्यैवंविधं प्राभृतम् यथा वैनेयप्राभृतम्।
211.013. आयुष्मान् संघरक्षितो येन भगवांस्तेनोपसंक्रान्तः।
211.013. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
211.014. एकान्तनिषण्ण आयुष्मान् संघरक्षितो भगवन्तमिदमवोचत्--इदं भदन्त कुलपुत्रसहस्रमाकाङ्क्षति स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
211.016. तं भगवान् प्रव्राजयति उपसम्पादयत्यनुकाम्पामुपादाय।
211.016. ते भगवता एहिभिक्षुकया आभाषिताह्--एत भिक्षुवश्चरत ब्रह्मचर्यम्।
211.017. भगवतो वाचावसाने मुण्डाः संवृत्ताः संघाटीप्रावृताः सप्ताहावरोपितकेशश्मश्रवः पात्रकरकव्यग्रहस्ता वर्षशतोपसम्पन्नस्य भिक्षोरीर्यापथेनावस्थिताः॥
211.020. एहीति चओक्ता हि तथागतेन मुण्डाश्च संघाटिपरीतदेहाः।
211.022. सद्यः प्रशान्तेन्द्रिया एव तस्थुरेवं स्थिता बुद्धमनोरथेन

मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc