दिव्यावदान · अध्याय 19
184.030. इदमवोचद्भगवान्।
184.030. आत्तमनसस्ते भिक्षवो भिक्षुण्युपासकोपासिकादेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगादयः सर्वावती च पर्षद्भगवतो भाषितमभ्यनन्दन्॥
184.032. इति श्रीदिव्यावदाने कनकवर्णावदानं विंशतिमम्।
********** अवदान 21 **********
185.001. दिव्21 सहसोद्गतावदानम्।
185.002. बुद्धो भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे।
185.002. आचरितमायुष्मतो महामौद्गल्यायनस्य कालेन कालं नरकचारिकां चरितुं तिर्यक्चारिकां चरितुं प्रेतचारिकां देवचारिकां मनुष्यचारिकां चरितुम्।
185.004. स यानि तानि नारकाणां सत्त्वानामुत्पाटानुपाटनच्छेदनभेदनादीनि दुःखानि, तिरश्चामन्योन्यभक्षणादीनि, प्रेतानां क्षुत्तृषादीनि, देवानां च्यवनपतनविकिरणविध्वंसनादीनि, मनुष्याणां पर्येष्टिच्यसनादीनि दुःखानि, तानि दृष्ट्वा जम्बुद्वीपमागत्य चतसृणां पर्षदामारोचयति।
185.007. यस्य कस्यचित् सार्धंविहारी अन्तेवासी वा अनभिरतो ब्रह्मचर्यं चरति, स तमादाय येनायुष्मान् महामौद्गल्यायनस्तेनोपसंक्रामति, आयुष्मान् महामौद्गल्यायन एनं सम्यगववदिष्यति, अनुशासिष्यतीति।
185.009. तमायुष्मान् महामौद्गल्यायनः सम्यगववदति सम्यगनुशास्ति।
185.010. एवमपरमपरं ते आयुष्मता महामौद्गल्यायनेन सम्यगववादिताः सम्यगनुशिष्टा अभिरता ब्रह्मचर्यं चरन्ति, उत्तरे च विशेषमधिगच्छन्ति।
185.011. तेन खलु समयेनाउष्मान् महामौद्गल्यायनश्चतसृभिः पर्षद्भिराकीर्णो विहरति भिक्षुभिर्भिक्षुणीभिरुपासकैरुपासिकाभिश्च।
185.013. जानकाः पृच्छका बुद्धा भगवन्तः।
185.013. पृच्छति बुद्धो भगवानायुष्मन्तमानन्दम्।
185.014. स कथयति--आचरितं भदन्त आयुष्मतो महामौद्गल्यायनस्य कालेन कालं नरकचारिकां चरितुं तिर्यक्चरिकां प्रेतचारिकां देवचारिकां मनुष्यचारिकां चरितुम्।
185.015. स यानि तानि नारकाणां सत्त्वानामुत्पाटानुपाटनच्छेदनभेदनादीनि दुःखानि, तिर्यश्चामन्योन्यभक्षणादीनि, प्रेतानां क्षुत्तृषादीनि, देवानां च्यवनपतनविकिरणविध्वंसनादीनि, मनुष्याणां पर्येष्टिव्यसनादीनि दुःखानि, तानि दृष्ट्वा जम्बुद्वीपमागत्य चतसृणां पर्षदामारोचयति।
185.018. यस्य कस्यचित् सार्धंविहारी अन्तेवासी वा अनभिरतो ब्रह्मचर्यं चरति, स तमादाय येनायुष्मान् महामौद्गल्यायनस्तेनोपसंक्रामति, आयुष्मान् महामौद्गल्यायन एव सम्यगववदिष्यति सम्यगनुशासिष्यतीति, तमायुष्मान् महामौद्गल्यायनः सम्यगववदति सम्यगनुशास्ति।
185.021. एवमपरमपरं ते आयुष्मता महामौद्गल्यायनेन सम्यगववादिताः सम्यगवुशिष्टा अभिरता ब्रह्मचर्यं चरन्ति, उत्तरे च विशेषमधिगच्छन्ति।
185.023. अयं भदन्त हेतुरयं प्रत्ययो येनायुष्मान् महामौद्गल्यायनश्चतसृभिः पर्षद्भिराकीर्णो विहरति भिक्षुभिक्षुण्युपासकोपासिकाभिः।
185.024. न सर्वत्र आनन्द मौद्गल्यायनो भिक्षुर्भविष्यति मौद्गल्यायनसदृशो वा।
185.025. तस्माद् द्वारकोष्ठके पञ्चगण्डकं चक्रं कारयितव्यम्।
185.026. उक्तं भगवता द्वारकोष्ठके पञ्चगण्डकं चक्रं कारयितव्यमिति।
185.026. भिक्षवो न जानते कीदृशं कारयितव्यमिति।
185.027. भगवानाह--पञ्च गतयः कर्तव्या नरकास्तिर्यञ्चः प्रेता देवा मनुष्याश्च।
185.028. तत्राधस्तात् नरकाः कर्तव्याः, तिर्यञ्चः प्रेताश्च, उपरिष्टात् देवा मनुष्याश्च।
185.029. चत्वारो द्वीपाः कर्तव्याः पूर्वविदेहो ऽपरगोदानीय उत्तरकुरुर्जम्बुद्वीपश्च।
185.029. मध्ये रागद्वेषमोहाः कर्तव्याः, रागः पारावताकारेण, द्वेषो भुजङ्गाकारेण, मोहः सूकराकारेण।
185.030. बुद्धप्रतिमाश्चैतन्निर्वाणमण्डलमुपदर्शयन्त्यः कर्तव्याः।
185.031. अनुपपादुकाः सत्त्वा घटीयन्त्रप्रयोगेण च्यवमाना उपपद्यमानाश्च कर्तव्याः।
185.032. सामन्तकेन द्वादशाङ्गः प्रतीत्यसमुत्पादो ऽनुलोमप्रतिलोमः कर्तव्यः।
185.033. सर्वमनित्यतया ग्रस्तं कर्तव्यम्, गाथाद्वयं च लेखयितव्यम्--
186.001. <186>आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।
186.002. धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः
186.003. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति।
186.004. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति
इति।
186.005. उक्तं भगवता द्वारकोष्ठके पञ्चगण्डकं चक्रं कारयितव्यमिति भिक्षुभिः कारितम्।
186.006. ब्राह्मणगृहपतय आगत्य पृच्छन्ति--आर्य, किमिदं लिखितमिति? ते कथयन्ति--भद्रमुखाः, वयमपि न जानीम इति।
186.007. भगवानाह--द्वारकोष्ठके भिक्षुरुद्देष्टव्यो य आगतागतानां ब्राह्मणगृहपतीनां दर्शयति।
186.008. उक्तं भगवता भिक्षुरुद्देष्टव्य इति।
186.008. ते अविशेषेणोद्दिशन्ति बालानपि मूढानपि अव्यक्तानपि अकुशलानपि।
186.009. ते आत्मना न जानते, कुतः पुनरागतानां ब्राह्मणगृहपतीनां दर्शयिष्यन्ति? भगवानाह--प्रतिबलो भिक्षुरुद्देष्टव्य इति॥
186.011. राजगृहे ऽन्यतमो गृहपतिः प्रतिवसति।
186.011. तेन सदृशात् कुलात् कलत्रमानीतम्।
186.012. स तया सार्धं क्रीडति रमते परिचारयति।
186.012. तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः।
186.013. तस्य त्रीणि सप्तकान्येकविंशतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा कुलसदृशं नामधेयं व्यवस्थापितम्।
186.014. स पत्नीमामन्त्रयते--भद्रे, जातो ऽस्माकम् ऋणहरो धनहरः।
186.014. तद्गच्छामि, पण्यमादाय महासमुद्रमवतरामीति।
186.015. सा कथयति--आर्यपुत्र, एवं कुरुष्वेति।
186.015. स सुहृत्सम्बन्धिबान्धवानामन्त्रयित्वा अन्तर्जनं च समाश्वास्य महासमुद्रगमनीयं पण्यमादाय दिवसतिथिमुहूर्तेन महासमुद्रमवतीर्णः।
186.017. तत्रैव च निधनमुपयातः।
186.017. तस्य पत्न्या स दारको ज्ञातिबलेन हस्तबलेन पालितः पोषितः संवर्धितो लिप्यामुपन्यस्तो लिप्यक्षरेषु च कृतावी संवृत्तः।
186.018. स वयस्करेण सार्धं वेणुवनं गतो विहारं प्रविष्टः पश्यति द्वारकोष्ठके पञ्चगण्डकं चक्रमभिलिखितम्।
186.019. स पृच्छति--आर्य, किमिदमभिलिखितमिति? भिक्षुः कथयति--भद्रमुख, एताः पञ्च गतयो नरकास्तिर्यञ्चः प्रेता देवा मनुष्याश्च।
186.021. आर्य, किमेभिः कर्म कृतम् येनैवंविधानि दुःखानि प्रर्यनुभवन्तीति? स कथयति--एते प्राणातिपातिका अदत्तादायिकाः काममिथ्याचारिका मृषावादिकाः पैशुनिकाः पारुषिकाः संभिन्नप्रलापिका अभिध्यालवो व्यापन्नचित्ता मिथ्यादृष्टिकाः।
186.024. तदेभिरेते दशाकुशलाः कर्मपथा अत्यर्थमासेविता भाविता बहुलीकृताः, येन एवंविधानि दुःखान्युत्पाटानुपाटच्छेदनभेदनादीनि प्रत्यनुभवन्ति।
186.025. आर्य, गतमेतत्।
186.026. एभिरन्यैः किं कर्म कृतम् येन एवंविधानि दुःखानि प्रत्यनुभवन्ति? दुःखान्यन्योन्यभक्षणादीनि प्रत्यनुभवन्ति।
186.028. आर्य, एतदपि गतम्।
186.028. एभिरन्यैः किं कर्म कृतम् येन एवंविधानि दुःखानि प्रत्यनुभवन्ति? भद्रमुख, एते ऽपि मत्सरिण आसन् कुटुकुञ्चका आगृहीतपरिष्काराः।
186.030. तत्तेन मात्सर्येणासेवितेन भावितेन बहुलीकृतेन एवंविधानि दुःखानि क्षुत्तृषादीनि दुःखानि प्रत्यनुभवन्ति।
186.031. आर्य, एतदपि गतम्।
186.031. एभिरन्यैः किं कर्म कृतम् येन एवंविधानि सुखानि प्रत्यनुभवन्ति? भद्रमुख, एते प्राणातिपातात् प्रतिविरता अदत्तादानात् <187>काममिथ्याचारान्मृषावादात् पैशुन्यात् पारुष्यात् संभिन्नप्रलापादनभिध्यापन्नचित्ताः सम्यग्दृष्टयः।
187.002. तदेभिरेते दश कुशलाः कर्मपथा अत्यर्थमासेविता भाविता बहुलीकृताः, येन एवंविधानि दिव्यस्त्रीललितविमानोद्यानसुखानि प्रत्यनुभवन्ति।
187.003. आर्य, एतदपि गतम्।
187.004. एभिरन्यैः किं कर्म कृतम् येन सुखानि प्रत्यनुभवन्ति? भद्रमुख, एभिरपि दश कुशलाः कर्मपथास्तनुतरा मृदुतराश्चासेविता भाविता बहुलीकृताः, येन एवंविधानि हस्त्यश्वरथान्नपानशयनासनस्त्रीललितोद्यानसुखानि प्रत्यनुभवन्ति।
187.006. आर्य, आसां पञ्चानां गतीनाम् या एतास्तिस्रो गतयो नरकास्तिर्यञ्चः प्रेताश्च, एता मह्यं न रोचन्ते।
187.007. ये तु एते देवा मनुष्याश्च एते रोचेते।
187.008. तत्कथमेते दश कुशलाः कर्मपथाः समादाय वर्तयितव्याह्? भद्रमुख, स्वाख्याते धर्मविनये प्रव्रज्य सचेद् दृष्ट एव धर्मे आज्ञामारागयिष्यसि, एष एव ते ऽन्तो दुःखस्य।
187.010. अथ सावशेषसम्योजनः कालं करिष्यसि, देवेषूपपत्स्यसे।
187.010. उक्तं हि भगवता--पञ्चानुशंसान् समनुपश्यता पिण्डतेनालमेव प्रव्रज्याधिमुक्तेन भवितुम्।
187.011. कतमानि पञ्च? आवेणिका इमे स्वार्था अनुप्राप्तो भविष्यामीति संपश्यता पिण्डतेनालमेव प्रव्रज्याधिमुक्तेन भवितुम्।
187.012. येषामहं दासः प्रेष्यो निर्देश्यो भुजिष्यो नयेन कामंगमः, तेषां पूज्यश्च भविष्यामि प्रशंस्यश्चेति संपश्यता पिण्डतेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम्।
187.014. अनुत्तरम् योगक्षेमं निर्वाणमनुप्राप्स्यामीति संपश्यता पिण्डतेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम्।
187.015. अनुत्तरं वा योगक्षेमं निर्वाणमनुप्राप्नुवतो ऽनापत्तिकस्य सतो देएवेषूपपत्तिर्भविष्यतीति संपश्यता पिण्डतेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम्।
187.016. अनेकपर्यायेण प्रव्रज्या वर्णिता बुद्धैश्च बुद्धश्रावकैश्च।
187.017. आर्य, शोभनम्।
187.017. किं तत्र प्रव्रज्यायां क्रियते? भद्रमुख, यावज्जीवं ब्रह्मचर्यं चर्यते।
187.018. आर्य, न शक्यमेतत्।
187.018. अन्यो ऽस्ति उपायह्? भद्रमुख, अस्ति, उपासको भव।
187.019. आर्य, किं तत्र क्रियते? भद्रंख, यावज्जीवं प्राणातिपातात् प्रतिविरतिः संरक्ष्या, अदत्तादानात् काममिथ्याचारात् सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतिः संरक्ष्या।
187.021. आर्य, एतदपि न शक्यते।
187.021. अन्यमुपायं कथयेति।
187.021. भद्रमुख, बुद्धप्रमुखं भिक्षुसंघं भोजय।
187.022. आर्य, कियद्भिः कार्षापणैर्बुद्धप्रमुखो भिक्षुसंघो भोज्यते? भद्रमुख, पञ्चभिः कार्षापणशतैः।
187.023. आर्य, शक्यमेतत्।
187.023. स तस्य पादभिवन्दनं कृत्वा प्रक्रान्तः।
187.023. येन स्वं निवेशनं तेनोपसंक्रान्तः।
187.024. उपसंक्रम्य मातरमिदमवोचत्--अम्ब, अद्याहं वेणुवनं गतः।
187.024. तत्र मया द्वारकोष्ठके पञ्चगण्डकं चक्रमभिलिखितं दृष्टम्।
187.025. तत्र पञ्च गतयो नरकास्तिर्यञ्चः प्रेता देवा मनुष्याश्च।
187.026. तत्र नारका उत्पाटनुपाटनच्छेदभेदनादीनि दुःखानि प्रत्यनुभवन्ति।
187.027. तिर्यञ्चश्चान्योन्यभक्षणादीनि।
187.027. प्रेताः क्षुत्तृषादीनि।
187.027. देवा दिव्यस्त्रीललितोद्यानविमानसुखानि प्रत्यनुभवन्ति।
187.028. मनुष्या हस्त्यश्वरथान्नपानशयनासनस्त्रीललितोद्यानानि प्रत्यनुभवन्ति।
187.028. आसां मम तिस्रो गतयो नाभिप्रेताः, द्वे अभिप्रेते।
187.029. तत्किमिच्छसि त्वं मां देवेषूपपद्यमानम्? पुत्र, सर्वसत्त्वानिच्छामि देवेषूपपद्यमानान् प्रागेव त्वाम्।
187.030. अम्ब, यद्येवम्, प्रयच्छ पञ्च कार्षापणशतानि।
187.031. बुद्धप्रमुखं भिक्षुसंघं भोजयामि।
187.031. पुत्र, मया त्वं ज्ञातिबलेन हस्तबलेन चाप्यायितः पोषितः संवर्धितः।
187.032. कुतो मे पञ्चानां कार्षापणशतानां विभवह्? अम्ब, यदि <188>नास्ति, भृतिकया कर्म करोमि।
188.001. पुत्र, त्वं सुकुमारः।
188.001. न शक्यसि भृतिकया कर्म कर्तुम्।
188.002. अम्ब गच्छामि, शक्यामि।
188.002. पुत्र, यदि शक्यो ऽसि, गच्छ।
188.002. स तया अनुज्ञातो भृतकवीथीं गत्वा अवस्थितः।
188.003. ब्राह्मणगृहपतयो ऽन्यान् भृतकपुरुषान् गृह्णन्ति, तं न कश्चित् पृच्छति।
188.004. स तत्र दिवसमतिनाम्य विकाले गृहं गतः।
188.004. स मात्रा पृष्टह्--पुत्र, कृतं ते भृतिकया कर्म? अम्ब, किं करोमि? न मां कश्चित् पृच्छति।
188.005. पुत्र, न एवंविधा भृतकपुरुषा भवन्ति।
188.005. पुत्र, स्फटितपरुषा रूक्षकेशा मलिनवस्त्रनिवसनाः।
188.006. यद्यवश्यं त्वया भृतिकया कर्म कर्तव्यम्, ईदृशं वेषमास्थाय भृतकवीथीं गत्वा तिष्ठ।
188.007. अम्ब, शोभनम्।
188.007. एवं करोमि।
188.007. सो ऽपरस्मिन् दिवसे तादृशं वेषमास्थाय भृतकवीथीं गत्वा अवस्थितः।
188.008. यावदन्यतरस्य गृहपतेर्गृहमुत्तिष्ठते।
188.009. स भृतकानामर्थे वीथीं गतः।
188.009. तेन तं प्रत्याख्याय अन्ये भृतकपुरुषा गृहीताः।
188.010. स कथयति--गृहपते, अहमपि भृतिकया कर्म करोमीति।
188.010. गृहपतिः कथयति--पुत्र, त्वं सुकुमारः, न शक्ष्यसि भृतिकया कर्म कर्तुम्।
188.011. तात्, किं त्वं पूर्वं भृतिं ददासि, आहोस्वित् पश्चात्?।
188.012. तात्, अद्य तात्वत् कर्म करोमि।
188.012. यदि तोषयिष्यामि, दास्यसि भृतिमिति।
188.013. स संलक्षयति--शोभनमेष कथयति।
188.013. अद्य तावत् जिज्ञास्यामि यदि शक्ष्यति कर्म कर्तुम्, दास्यामि।
188.014. न शक्ष्यति, न दास्यामीति विदित्वा कथयति--पुत्र आगच्छ, गच्छाम इति।
188.015. स तेन गृहं नीतः।
188.015. ते ऽन्यभृतकाः शाठ्येन कर्म कुर्वन्ति।
188.015. स त्वरितत्वरितं कर्म करोति।
188.016. तांश्च भृतकान् समनुशास्ति।
188.016. वयं तावत् पूर्वकेण दुश्चरितेन दरिद्रगृहेषूपपन्नाः।
188.017. तद्यदि शाठ्येन कर्म करिष्यामः, इतश्च्युतानां का गतिभविष्यति? ते कथयन्ति--भागिनेय, त्वं नवदान्तः।
188.018. स्थानमेतद्विद्यते यदस्माकं पृष्ठतो गमिष्यसि।
188.018. आगच्छ पश्यामः।
188.019. स लोकाख्यायिकायां कुशलः।
188.019. तेंस् तेषां तादृशी लोकाख्यानकथा प्रस्तुता, यां श्रुत्वा ते भृतकपुरुषा आक्षिप्ताः।
188.020. तस्यातिस्वरेण गच्छतो ऽनुपदं गच्छन्ति, मा लोकाख्यायिकां न श्रोष्याम इति।
188.021. तस्मिन् दिवसे तैर्भृतकपुरुषैस्तद्द्विगुणं कर्म कृतम्।
188.022. सो ऽधिष्ठायकपुरुषं पृच्छति--भोः पुरुष, किं त्वया अपरे भृतका गृहीताह्? आर्य, न गृहीताः।
188.023. अथ कस्मादद्य द्विगुणं कर्म कृतम्? तेन यथावृत्तमारोचितम्।
188.024. श्रुत्वा गृहपतिस्तस्य दारकस्य द्विगुणां भृतिं दातुमारब्धः।
188.025. स कथयति--तात्, किं द्विदैवसिकां भृतिं ददासीति? स कथयति--पुत्र, न द्विदैवसिकां ददामि, अपि तु प्रसन्नो ऽहं प्रसन्नाधिकारं करोमीति।
188.026. स कथयति--तात्, यदि त्वं ममाभिप्रसन्नः, यावत् तव गृहे कर्म कर्तव्यं तावत् तवैव हस्ते तिष्ठतु।
188.028. पुत्र एवं भवतु।
188.028. यदा तस्य गृहपतेस्तद्गृहं परिसमाप्तम्, तदा असौ दारको भृतिं गणयितुमारब्धो यावत् पञ्च कार्षापणशतानि न परिपूर्यन्ते।
188.029. स रोदितुमारब्धः।
188.029. स गृहपतिः कथयति--पुत्र, किं रोदिषि? मासि मया किंचित् व्यंसितः।
188.030. तात्, महात्मा त्वम्, किं मां व्यंसयिष्यसि? अपि तु अहमेव मन्दभाग्यः।
188.031. मया पञ्चानां कार्षापणशतानामर्थाय भृतिकया कर्म प्रारब्धं बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामि, ततो देवेषूपपत्स्यामीति।
188.032. तानि <189>न परिपूर्णानि।
189.001. पुनरपि मया अन्यत्र भृतिकया कर्म कर्तव्यमिति।
189.001. स गृहपतिर्भूयसा मात्रया अतिप्रसन्नः।
189.002. स कथयति--पुत्र, यद्येवम्, अहं पूरयामि।
189.002. तात्, मा देवेषूपपत्स्ये।
189.002. पुत्र, अभिश्रद्दधासि त्वं भगवतह्? तात् अभिश्रद्दधे।
189.003. पुत्र गच्छ, भगवन्तं पृच्छ।
189.003. येन भगवांस्तेनोपसंक्रान्तः।
189.004. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
189.004. स गृहपतिपुत्रो भगवन्तमिदमवोचत्--भगवन्, मया पञ्चानां कार्षापणशतानामर्थाय भगवन्तं सश्रावकसंघं भोजयिष्यामीत्यमुकस्य गृहपतेर्भृतिकया कर्म कृतम्।
189.006. तानि मम न परिपूर्णानि।
189.007. स गृहपतिः परिपूरयति।
189.007. भगवन् किम्? आह--वत्स गृहाण, श्राद्धः स गृहपतिः।
189.007. भगवन्, मा देवेषु नोपपत्स्ये? वत्स उपपत्स्यसे, गृहाण।
189.008. स परितुष्टो भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तो येन स गृहपतिस्तेनोपसंक्रान्तः।
189.009. उपसंक्रम्य गृहपतेरन्तिकात् पञ्च कार्षापणशतानि गृहीत्वा मातुः सकाशं गतः।
189.010. कथयति--अम्ब, एतानि पञ्च कार्षापणशतानि।
189.011. भक्तं सज्जीकुरु।
189.011. बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामीति।
189.011. सा कथयति--पुत्र, न मम भाण्डोपस्करो न शयनासनम्।
189.012. स एव गृहपतिर्विस्तीर्णभाण्डोपस्करः श्राद्धश्च।
189.013. तमेव गत्वा प्रार्थय।
189.013. शक्नोत्यसौ संपादयितुमिति।
189.013. स तस्य सकाशं गतः शिरःप्रणामं कृत्वा कथयति--त्वयैव एतानि पञ्च कार्षापणशतानि दत्ताअनि।
189.014. अस्माकं गृहे न भाण्डोपस्करो नापि शयनासनम्।
189.015. तदर्हसि ममानुकम्पया भक्तं सज्जीकर्तुम्।
189.015. अहमागत्य स्वहस्तेन बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामीति।
189.016. गृहपतिः संलक्षयति--ममेदं गृहमचिरोत्थितं बुद्धप्रमुखेन भिक्षुसंघेन परिभुक्तं भविष्यति, प्रतिजागर्मि।
189.017. इति विदित्वा कथयति--पुत्र, शोभनम्।
189.018. स्थापयित्वा कार्षापणान् गच्छ, श्वो बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्रय।
189.018. अहमाहारं सज्जीकरोमीति।
189.019. स संजातसौमनस्यः शिरःप्रणामं कृत्वा प्रक्रान्तो येन भगवांस्तेनोपसंक्रान्तः।
189.020. उपसंक्रम्य वृद्धान्ते स्थित्वा कथयति--सो ऽहं बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्रयामीति।
189.021. अधिवासयति भगवांस्तस्य गृहपतिपुत्रस्य तूष्णीभावेन।
189.021. अथ स गृहपतिपुत्रो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतो ऽन्तिकात् प्रक्रान्तः॥
189.023. तेनापि गृहपतिना तामेव रात्रिं शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय गृहं संमार्जितम्।
189.024. सुकुमारी गोमयकार्षी दत्ता, आसनप्रज्ञप्तिः कारिता, उदकमणयः प्रतिष्ठापिताः।
189.025. तेनापि गृहपतिपुत्रेण गत्वा भगवत आरोचितम्--समयो भदन्त, सज्जं भक्तम् यस्येदानीं भगवान् कालं मन्यते इति।
189.026. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन तस्य गृहपतेर् निवेशनं तेनोपसंक्रान्तः।
189.027. षड्वर्गीयाः पृच्छन्ति--केनाअयं बुद्धप्रमुखो भिक्षुसंघ उपनिमन्त्रित इति? अपरे कथयन्ति--अमुकेन गृहपतिपुत्रेणेति।
189.029. ते परस्परं संजल्पं कुर्वन्ति--नन्दोपनन्द, भृतकपुरुषः सः।
189.029. किमसौ दास्यति? गच्छाम कुलोपकगृहेषु गत्वा पुरोभक्तकां कर्म इति।
189.030. ते कुलोपकगृहाण्युपसंक्रान्ताः।
189.030. तैरुक्ताह्--आर्य, पुरोभक्तकां कुरुतेति।
189.031. ते कथयन्ति--एवं कुर्म इति।
189.031. तैः पुरोभक्तका कृता।
189.031. भगवांस्तस्य गृहपतेर् निवेशने पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
189.032. षड्वर्गीया अपि पुरोभक्तकां कृत्वा <190>संघमध्ये निषण्णः।
190.001. अथ स गृहपतिपुर्तः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभिजनीयेन स्वहस्तं संतर्पयति संप्रवारयति।
190.002. सततपरिवेषणं कुर्वाणः पश्य्ति षड्वर्गीयान् न सत्कृत्य परिमुञ्जानान्।
190.003. दृष्ट्वा च पुनर्भगवन्तं विदित्वा धौतहस्तमपनीतपात्रं भगवतः पुरस्तात् स्थित्वा कथयति--भगवन्, कैश्चिदत्रार्यकैर् न सत्कृत्य परिभुक्तमाहारम्।
190.005. देवेषु नोपपत्स्ये इति? भगवानाह--वत्स, शयनासनपरिभोगेन तावत् त्वं देवेषूपपद्येथाः प्रागेवान्नपानपरिभोगेनेति।
190.006. अथ भगवांस्तं गृहपतिपुत्रं च धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः॥
190.008. अत्रान्तरे पञ्चमात्राणि वणिक्शतानि महासमुद्रात् संसिद्धयानपात्राण्नि राजगृहमनुप्राप्तानि।
190.009. राजगृहे च पर्व प्रत्युपस्थितमिति न किंचित् क्रयेणापि लभ्यते।
190.009. तत्रैको वणिग्भिक्षुगोचरिकः।
190.010. स कथयति--भवन्तः, आगमयत कस्याद्य गृहे बुद्धप्रमुखेन भिक्षुसंघेन भक्तम्, तत्रावश्यं किंचिदुत्सदनधर्मकं भवतीति।
190.011. ते श्रवणपरम्परया चान्वेषमाणास्तस्य गृहपतेः सकाशमुपसंक्रान्ताः।
190.012. कथयन्ति--गृहपते, तवाद्य बुद्धप्रमुखेन भिक्षुसंघेन भुक्ते इह पर्व प्रत्युपस्थितमिति न किंचित् क्रयेणापि लभ्यते।
190.013. यदि किंचिदुत्सदनधर्मकमस्ति, मूल्येन दीयतामिति।
190.014. न ममैतद्भक्तम्, अपि तु तस्यैतद्गृहपतिपुत्रस्य भक्तम्।
190.014. एनम् याचध्वमिति।
190.014. ते तस्य सकाशमुपसंक्रम्य कथयन्ति--गृहपतिपुत्र, दीयतामस्माकं भुक्तशेषम् यदस्ति।
190.015. मूल्यं प्रयच्छाम इति।
190.016. स कथयति--नाहं मूल्येनानुप्रयच्छामि।
190.016. अपि तु एवमेव प्रयच्छामीति।
190.016. ते तेनान्नपानेन संतर्पिता गृहपतेर्गत्वा कथयन्ति--तस्य ते गृहपते लाभाः सुलब्धा यस्य ते निवेशने बुद्धप्रमुखो भिक्षुसंघो ऽन्नपानेन संतर्पितः, इमानि च पञ्च वणिक्शतानीति।
190.018. स कथयति--अनेन गृहपतिपुत्रेण लाभाः सुलब्धाः।
190.019. अनेन बुद्धप्रमुखो भिक्षुसंघो ऽन्नपानेन संतर्पितो न मयेति।
190.020. ते पृच्छन्ति--कतरस्यायं गृहपतेः पुत्रह्? अमुकस्य सार्थवाहस्य।
190.020. सार्थवाहः कथयति--भवन्तः, ममैष वयस्यपुत्रो भवति।
190.021. तस्य पिता महासमुद्रमवतीर्णो ऽनयेन व्यसनमापन्नः।
190.021. शक्यं बहुभिरेकः समुद्धर्तुम्, न त्वेव एकेन बहवः।
190.022. तदयं पटकं प्रज्ञप्तो येन वो यत् परित्यक्तम्, सो ऽस्मिन् पटके ऽनुप्रयच्छत्विति।
190.023. ते पूर्वमेवाभिप्रसन्नाः सार्थवाहेन च प्रोत्साहिता इति तैर्यथासम्भाव्येन मणिमुक्तादीनि रत्नानि दत्तानि।
190.024. महान् राशिः संपन्नः।
190.024. सार्थवाहः कथयति--पुत्र, गृहाणेति।
190.025. स कथयति--तात्, न मया मूल्येन दत्तमिति।
190.025. सार्थवाहः कथयति--पुत्र, न वयं तव मूल्यं प्रयछामः।
190.026. यदि च मूल्यं गण्यते, एकेन रत्नेनेदृशानां भक्तानामनेकानि शतानि संविद्यन्ते।
190.027. किं तु वयं तवाभिप्रसन्नाः प्रसन्नाधिकारं कुर्मः, गृहाणेति।
190.027. स कथयति--तात्, मया बुद्धप्रमुखो भिक्षुसंघो भोजितो देवेषूपपत्स्ये इति।
190.028. तस्मादवशिष्टम् युष्मभ्यं दत्तम्।
190.029. यदि ग्रहीष्यामि, स्थानमेतद्विद्यते यद्देवेषु नोपपत्स्ये? सार्थवाहह्--पुत्र, अभिश्रद्दधासि त्वं भगवतह्? तात्, अभिश्रद्दधे।
190.030. गच्छ, भगवन्तं पृच्छ।
190.030. स येन भगवांस्तेनोपसंक्रान्तः।
190.031. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
190.031. स गृहपतिपुत्रो भगवन्तमिदमवोचत्--भगवन्, मया बुद्धप्रमुखं भिक्षुसंघं भोजयित्वा यदन्नपानमवशिष्टम् <191>तद्विणिजां दत्तम्।
191.001. ते मम प्रसन्नः प्रसन्नाधिकारं कुर्वन्ति।
191.001. किं कल्पते तन्मम ग्रहीतुमाहोस्विन्न कल्पत इति? भगवानाह--यदि प्रसन्नाः प्रसन्नाधिकारं कुर्वन्ति, गृहाण।
191.002. भगवन्, मा देवेषु नोत्पपत्स्ये? भगवानाह--वत्स, पुष्पमेतत्, फलमन्यद्भविष्यति।
191.003. तेन भगवद्वचनाभिसम्प्रत्ययात् परितुष्टेन गत्वा रत्नानि गृहीतानि॥
191.005. अत्रान्तरे राजगृहे ऽपुत्रः श्रेष्ठी कालगतः।
191.005. ततो राजगृहनिवासिनः पौराः संनिपत्य संजल्पं कुर्वन्ति--भवन्तः, श्रेष्ठी कालगतः।
191.006. कं श्रेष्ठिनमभिषञ्चाम इति? तत्रैके कथयन्ति--यः पुण्यमहेशाख्य इति।
191.007. अपरे कथयन्ति--कथमस्माभिर्ज्ञातव्यमिति? ते कथयन्ति--नानावर्णानि बीजानि पक्ककुम्भे प्रक्षिपामः, य एकवर्णान्युद्धरिष्यति, तं श्रेष्ठिनमभिषिञ्चाम इति।
191.009. तैर् नानावर्णानि बीजानि पक्ककुम्भे प्रक्षिप्तानि।
191.009. आरोचितं च--भवन्तः, य एकवर्णानि बीजानि एतस्मात् कुम्भादुद्धरेत्, स श्रेष्ठ्यभिषिच्यते।
191.010. यस्य वः श्रेष्ठित्वमभिप्रेतं च, उद्धरतु इति।
191.011. त उद्धर्तुमारब्धाः।
191.011. सर्वैर् नानावर्णान्युद्धृतानि।
191.011. तेन तु गृहपतिपुत्रेणैकवर्णान्युद्धृतानि\
191.012. पौरजानपदाः कथयन्ति--भवन्तः, अयं पुण्यमहेशाख्यः।
191.012. सर्व एनं श्रेष्ठिनमभिषिञ्चामः।
191.013. तत्रैके कथयन्ति--भवन्तः, अयं भृतकपुरुषः।
191.013. कथमेनं श्रेष्ठिनमभिषिञ्चाम इति? अपरे कथयन्ति--पुनरपि तावत् जिज्ञासामः।
191.014. तेन यावत् त्रिरप्येकवर्णान्युद्धृतानि।
191.014. ते कथयन्ति--भवन्तः, मनुष्यका अप्यस्य साक्षेपमनुप्रयच्छन्ति।
191.015. आगच्छत, एनमेवाभिषिञ्चाम इति।
191.016. स तैः श्रेष्ठी अभिषिक्तः।
191.016. स गृहपतिः संलक्षयति--यदप्यनेन मम भृतिकया कर्म कृतम्, तथाप्ययं पुण्यमहेशाख्यः सत्त्वः।
191.017. संग्रहोस्य कर्तव्य इति।
191.017. तेन तस्य सर्वालंकारविभूषिता दुहिता भार्यार्थं दत्ता।
191.018. तच्च गृहम्, प्रभूतं स्वापतेयम्।
191.018. सहसैवं भोगैरभ्युद्गत इति तस्य सहसोद्गतो गृहपतिः सहसोद्गतो गृहपतिरिति संज्ञा संवृत्ता॥
191.020. स संलक्षयति--या काचिदस्माकं श्रीसौभाग्यसम्पत्, सर्वासौ बुद्धं भगवन्तमागम्य।
191.021. यन्न्वहं पुनरपि बुद्धप्रमुखं भिक्षुसंघमन्तर्गृहे उपनिमन्त्र्य भोजयेयम्।
191.021. इति विदित्वा येन भगवांस्तेनोपसंक्रान्तः।
191.022. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
191.022. एकान्तनिषण्णं सहसोद्गतं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
191.024. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्।
191.025. अथ सहसोद्गतो गृहपतिरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अधिवासयतु भगवाञ् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति।
191.026. अधिवासयति भगवान् सहसोद्गतस्य गृहपतेस्तूष्णीभावेन।
191.027. अथ सहसोद्गतो गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः।
191.028. अथ सहसोद्गतो गृहपतिस्तामेव रात्रिं शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञप्योदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तम् यस्येदानीं भगवान् कालं मन्यत इति।
191.031. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो येन सहसोद्गतस्य गृहपतेर् निवेशनं तेनोपसंक्रान्तः।
191.032. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य<192> प्रज्ञप्त एवासने निषण्णः।
192.001. अथ सहसोद्गतो गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति।
192.002. अनेकपर्यायेण शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तात् निषण्णो धर्मश्रवणाय।
192.005. तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरायसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा सहसोद्गतेन गृहपतिना विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्।
192.007. स दृष्टसत्यस्त्रिरुदानमुदानयति--इदमस्माकं भदन्त न मात्रा कृतं न पित्रा नेष्टेन न स्वजनबन्धुवर्गेण न राज्ञा न देवताभिर् न पूर्वप्रेतैर् न श्रमणब्राह्मणैर्यद्भगवता अस्माकं कृतम्।
192.009. उच्छोषिता रुधिराश्रसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्यपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः, स्मो देवमनुष्येषु।
192.011. अभिक्रान्तो ऽहं भदन्त अभिक्रान्तः।
192.011. एषो ऽहं बुद्धं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च।
192.012. उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतमभिप्रसन्नमिति।
192.012. अथ भगवान् सहसोद्गतं गृहपतिं धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः॥
192.015. भिक्षवः संशयजाताअः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त सहसोद्गतेन गृहपतिना कर्म कृतम् येन भृतिकया कर्म कृतम्, येन सहसा भोगैरभिवृद्धः, सत्यदर्शनं च कृतमिति? भगवानाह--सहसोद्गतेनैव भिक्षवो गृहपतिना कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितान्यवश्यभावीनि।
192.018. सहसोद्गतेन गृहपतिना कर्माणि कृतान्युपचितानि।
192.019. को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपष्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तु उपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च।
192.023. न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि।
192.024. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्
मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0