ध्वन्यालोक (टीका सहित) · भाग 81100
तैस्तैर्वाच्यादिभिरिभिव्यञ्जनीयो यो रसः, तं प्रत्यानुगुण्येन ।
विचित्रं कृत्वेति ।
तथा चादिकर्वर्वाल्मीकेः निहतसहचरीविरहकातरक्रौञ्चाक्रन्दजनितः शोक एव श्लोकतया परिणतः ।
लोचनम् वाच्ये वाचके रचनायां च प्रपञ्चेन यच्चारु शब्दार्थालङ्कारगुणयुक्तमित्यर्थः ।
तेन सर्वत्रापि ध्वननसद्भावे ऽपि न तथा व्यवहारः ।
आत्मसद्भावे ऽपि क्वचिदेव जीवव्यवहार इत्युक्तं प्रगेव ।
तेनैतन्निरवकाशम्; यदुक्तं हृदयदर्पणे---ऽसर्वत्र तर्हि काव्यव्यवहारः स्यात्ऽ इति ।
निहतसहचरीति विभाव उक्तः ।
आक्रन्दितशब्दनानुभावः ।
बालप्रिया वाच्यादीति शेषः ।
कृत्वेत्यस्य प्रपञ्चेनेत्यनेन, वाच्य इत्यादित्रयस्य चार्वित्यनेन च सम्बन्धः ।
प्रपञ्चेन प्रपञ्चनेन ।
चारु सुन्दरम् ।
अनेन विवक्षितमाह---शब्देत्यादि ।
तेनेति ।
विविधेत्याद्युक्तस्य काव्यत्वेनेत्यर्थः ।
सर्वत्रापि सिंहो देवदत्त इत्यादावपि ।
तथाव्यवहारः काव्यव्यवहारः ।
ऽइति यदुक्तमेतन्निरवकाशम्ऽ इति सम्बन्धः ।
विभाव इति ।
ध्वस्तसाहचर्यः क्रौञ्च आलम्बनविभावः, निहननमुद्दीपनविभावः ।
ननु निहतेत्यादियथाश्रुतग्रन्थेन तदाक्रन्दजनितो मुनेश्शोक इत्यर्थ इव पग्रतीयते ।
तत्कथं शोको हि करुणस्थायिभावः ।
प्रतीयमानस्य चान्यभेददर्शने ऽपि लोचनम् जनित इति ।
चर्वणागोचरत्वेनेति शेषः ।
ननु शोकचर्वणातो यदि श्लोक उद्भूतस्तत्प्रतीयमानं वस्तु काव्यस्यात्मेति कुत इत्याशङ्क्याह---शोको हीति ।
करुणस्य तच्चर्वणागोचरात्मनः स्थायिभावः ।
शोके हि स्थायिभावे ये विभावानुभावास्तत्समुचिता चित्तवृत्तिश्चर्व्यमाणात्मा रस इत्यौचित्यात्स्थायिनो रसतापत्तिरित्युच्यते ।
प्राक्स्वसंविदितं परत्रानुमितं च चित्तवृत्तिजातं बालप्रिया पूर्वं तन्निषेध इत्यतो व्याचष्टे---चर्वणेत्यादि ।
तदाक्रन्देन जनितश्चर्वणागोचरीकृत इत्यर्थः ।
शोक इत्यस्य वासनारूपेण स्थितो मुनेः शोक इत्यर्थश्चेति भावः ।
ननु ऽशोको हीऽत्यादिग्रन्थेन शोकस्य करुणरसस्थायित्वानुवादो ऽत्र निरर्थक इत्यतस्तद्ग्रन्थमवतारयति---नन्वित्यादि ।
तदिति ।
तर्हित्यर्थः ।
प्रतीयमानं वस्त्विति ।
रस इत्यर्थः ।
प्रकृताविस्मरणार्थमेवमुक्तम् ।
समाधानसिद्ध्यनुगुणं व्याचष्टे---करुणस्येत्यादि ।
तच्चर्वणेति ।
शोकचर्वणेत्यर्थः ।
ऽशोकः श्लोक्त्वमागतःऽ इति शोकचर्वणातः श्लोकोत्पत्तिवचनेनैव रसस्यात्मवं प्रकाशितमेव शोकचर्वणागोचरात्मत्वात्करुणरसस्येति भावः ।
ननु कथमन्यचर्वणाया अन्यो विषयः स्यादित्यत उपपादयतिशोके हीत्यादि ।
शोके स्थायिभावे क्रौञ्चादिवर्ण्यमानगते शोकादौ स्थायिभावे ।
निमित्ते सप्तमी ।
ये विभावानुभावा ।
इति ।
शोकादेर्निमित्तभूता ये विभावाः कार्यभूता ये अनुभवाश्चेत्यर्थः ।
तत्समुचिता चर्व्यमामानां तेषां विभावानुभावानां समुचिता ।
वर्ण्यमानतत्तद्गतस्थायिसजातीयेति यावत् ।
चित्तवृत्तिः चर्वयितरि वासनारूपेण स्थिता शोकादिचित्तवृत्तिः ।
चर्व्यमाणात्मा रस्यमानात्मा ।
रसः रसपदार्थः ।
औचित्यादिति ।
उपयोगित्वनिबन्धनादुपचारादित्यर्थः, न मुख्यत्वेनेति भावः ।
रसतापत्तिः रसत्वप्राप्तिः ।
उच्यते "स्थायिभावो रस" इत्यादिना उच्यते ।
उपयोगित्वं दर्शयति-प्रागित्यादि ।
सहृदयेनेति शेषः ।
स्वसंविदितं स्वस्मिन्ननुभूतम् ।
परत्र क्रौञ्चादौ ।
अनुमितमाक्रन्दनादिनेत्यर्थात् ।
चित्तवृत्तीति ।
स्थायीत्यर्थः ।
संस्कारेत्यादि ।
स्वानुभवसंस्कारं स्वानुमानसंस्कारं चाधाय ताभ्यां हृदयसंवादमादधानं सदित्यर्थः ।
ऽयत उपयुज्यते तत औचित्यादिऽति सम्बन्धः ।
रसभावमुखेनैवोपलक्षणं प्राधान्यात् ।
लोचनम् संस्कारक्रमेण हृदयसंवादमाद धानं चर्वणायामुपयुज्यते यतः ।
ननु प्रतीयमानरूपमात्मा तत्र त्रिभेदं प्रतिपादितं न तु रसैकरूपम्, अनेन चितिहासेन रसस्यैवात्मभूतत्वमुक्तं भवतीत्याशङ्क्याभ्युपगमेनैवोत्तरमाह-प्रतीयमानस्य चेति ।
अन्यो भेदो वस्त्वलङ्कारात्मा ।
भावग्रहणेन व्यभिचारिणो ऽपि चर्व्यमाणस्य तावन्मात्राविश्रान्तावपि स्थायिचर्वणापर्यवसानोचितरसप्रतिष्टामनवाप्यापि प्राणत्वं भवतीत्युक्तम् ।
यथा--- नखं नखाग्रेम विघट्टयन्ती विवर्तयन्ती वलयं विलोलम् ।
आमन्द्रमाशिञ्जितनूपुरेण पादेन मन्दं भुवमालिखन्ती ॥
इत्यत्र्.अ लज्जायाः ।
रसभावशब्देन च तदाभासतत्प्रशमावपि संगृहीतावेव; अवान्तरवैचित्र्ये ऽपि तदेकरूपत्वात् ।
प्राधान्यादिति ।
रसपर्यवसानादित्यर्थः ।
तावन्मात्राविश्रान्तावपि चान्यशाब्दवैलक्षण्यकारित्वेन वस्त्वलङ्कारध्वनेरपि जीवितत्वमौचित्यादुक्तमिति भावः ॥5 ॥
बालप्रिय्.आ प्रतीयमानरूपमात्मेति ।
"काव्यस्यात्मा ध्वनि"रिति प्रतीयमानसामान्यस्यात्मत्वाभिधानादिति भावः ।
वृत्तौ ऽरसेऽत्यादि ।
रसमुखेनैव भावमुखेनैव चेत्यर्थः ।
ऽउपलक्षणम्ऽ इति ।
प्रतीयमानस्येत्यनुषज्यते ।
केनापि सम्बन्धेनान्योन्यसम्बन्धिषु प्रधानस्य यदन्यज्ञापनं तदुपलक्षणं; यथा राजासौ गच्छतीत्यत्र राजा परिवारस्योपलक्षकः ।
अत्र भावग्रहणस्य फलमाह--भावेत्यादि ।
ऽभावग्रहणेन इत्युक्तम्ऽ इति सम्बन्धः ।
तावदिति ।
तावन्मात्रे स्वरूपमात्रे ।
अविश्रान्तिः विश्रान्त्यभावस्तस्यामपीत्यर्थः ।
अपिशब्देनामुख्यत्वं सूचितम् ।
तर्हि रसप्रतिष्टया भाव्यमित्यत आह---स्थायीत्यादि ।
स्तायिचर्वणायां यत्पर्यवसानं तत्पूर्णताकरणलक्षणं तदेव उचितरसप्रतिष्टा तामप्राप्यापीत्यर्थः ।
प्राणत्वं काव्यजीवितत्वम् ।
भवतीति ।
तच्चर्वणयैव चमत्कारोदयादिति भावः ।
नखमिति ।
अत्र वलयविवर्तनोक्त्या प्रियतमादर्शनजनितं कार्श्यं व्यज्यते ।
अत्रोक्तर्नखविघट्टनादिभिरनुभावैर्गम्येन प्रियतमवार्ताश्रवणादिना विभावेन चाभिव्यज्यमानाया लज्जायाः शृङ्गारनिष्टामनवाप्य चर्वणागोचरीभवन्त्याः प्राणत्वमित्याह--अत्र लज्जाया इति ।
प्राणत्वमित्यनुषङ्गः ।
रसेत्यादि ।
रसशब्देन रसाभासस्य, भावशब्देन भावाभासतत्प्रशमयोश्च ग्रहणमित्यर्थः ।
वृत्तौ ऽप्राधान्यादिऽत्यास्य रसस्य प्राधान्यादित्यर्थः ।
तत्र हेतुमाह---रसपर्यवसानादिति ।
अन्येषामिति शेषः ।
प्रसङ्गादाह---तावदित्यादि ।
तावन्मात्राविश्रान्तौ वस्त्वलङ्कारस्वरूपमात्रे विश्रान्त्यभावे ।
अपि चेति निपातो ऽपीत्यर्थे ।
ऽअन्यशाब्दवैलक्षण्यकारित्वेनौचित्यादिऽति सम्बन्धः ।
सरस्वती स्वादु तद्-अर्थ-वस्तु निःष्यन्दमाना महतां कवीनाम् ।
अलोक-सामान्यम् अभिव्यनक्ति परिस्फुरन्तम् प्रतिभा-विशेषम्
सरस्वती स्वादु तदर्थवस्तु निःष्यन्दमाना महतां कवीनाम् ।
अलोकसामान्यमभिव्यनक्ति परिस्फुरन्तं प्रतिभाविशेषम् ॥ 6 ॥
तत् वस्तुतत्त्वं निःष्यन्दमाना महतां कवीनां भारती अलोकसामान्यं लोचनम् एवमितिहासमुखेन प्रतीयमानस्य काव्यत्मतां प्रदर्श्य स्वसंवित्सिद्धमप्येतदिति दर्शयति---सरस्वतीति ।
वाग्रूपा भगवतीत्यर्थः ।
वस्तुशब्देनार्थशब्दं तत्वशब्देन च वस्तुशब्दं व्याचष्टे--निःष्यन्दमानेति ।
दिव्यमानन्दरसं स्वयमेव प्रस्नुवानेत्यर्थः ।
यदाह भट्टनायकः-- वाग्धेनुर्दुग्ध एतं हि रसं यद्बालतृष्णाया ।
बालप्रिया अथेदमालोचनीयं सहृदयैः---श्रीवाल्मीकिना "मा निषादे"त्यादिश्लोकेन श्लोकान्तरैश्च सहचरस्य पुंस एव क्रौञ्चस्य निहननं निर्दिष्टम्, अत्र तु ऽनिहतेऽत्यादियथाश्रतग्रन्थेन वृत्तिकृता, सहचरीहननोद्भूतेनेऽति ऽनिहतसहचरीति विभाव उक्तऽ इति च व्याख्यानेन लोचनकृता, ऽनिषादनिहतसहचरीकं क्रौञ्चयुवानम्ऽ इत्यादिवचनेन काव्यमीमांसाकारेण च सहचरीहननं प्रतिपादितामित्येतेषां ग्रन्थकृतां रामायणवचनविरुद्धार्थप्रतिपादने निमित्तं किमिति ।
अत्र केचित्--ऽनिहतेऽत्यादिवृत्तिग्रन्थस्य ऽनिहतः सहचरीविरहकातरः स्वत एव सहचरीविरहासहिष्णुश्च यः क्रौञ्च
स्तदुद्देश्यको य आक्रन्दस्तज्जनितिऽ इत्यर्थः ।
लोचने ऽसहचरोहननेऽत्यत्र ऽसहचरेऽति पाठेन भाव्यम् ।
ऽनिहतसहचरीति विभाव उक्तऽ इत्यस्य "निहतसहचरी"त्यादिग्रन्थेन विभावः प्रदर्शित इत्यर्थश्चेति न रामायणवचनविरोधः ।
काव्यमीमांसाकृद्वचनं च यथाश्रुतवृत्तिग्रन्थार्थावबोधमूलकमश्रद्धेयमेवेति वदन्ति ॥ .5 ॥ ॥ .॥
एवमित्यादि ।
स्वसंवित्सिद्धं सहृदयानुभवसिद्धम् ।
एतदिति ।
प्रतीयमानस्य काव्यात्मत्वमित्यर्थः ।
दर्शयतीति ।
पूर्वकारिकयेतिहासः प्रतीयमानस्य काव्यात्मत्वे प्रमाणामित्युक्तम्, अनया तु तत्स्थिरीकरणाय स्वसंवेदनलक्षणं प्रमाणमुच्यते ।
स्वसंवेदने हि न कस्यापि विमतिरित्यर्थः ।
सरस्वतीति ।
ऽसरस्वतीऽत्यादिलोकेनेत्यर्थः ।
सरस्वतीपदं व्याचष्टे--वाग्रूपा भगवतीति ।
ऽतदिऽत्यस्य पूर्वोक्तमित्यर्थः ।
ऽवस्तुतत्वम्ऽ इति "अर्थवस्तु" इत्यस्य व्यख्यानमित्याह-वस्तुशब्देनेत्यादि ।
अर्थेषु वस्त्वलङ्काररसेषु ।
वस्तु सारभूतमर्थवस्तु ।
ऽतदर्थवस्त्विऽत्यास्य फलितमर्थं कर्म कृतावा ऽनिःष्यन्दमानेऽत्येतह्याचष्टे--दिव्यं अलौकिकम् ।
स्वयमेवेति सदाभिमुख्यं सूचयति ।
प्रस्नुवाना क्षारयन्ती ।
अनेन सरस्वत्या धेनुसाम्यं सूच्यते ।
उक्तव्याख्याने प्रमाणमाह--पदाहेति ।
वागिति ।
वाक् काव्यरूपा सैव धेनुः ।
एतं दिव्यं रसम् ।
बालतृष्णया लोचनम् तेन नास्य रमः स स्याद्दुह्यते योगिभिर्हि यः ॥ .॥
तदावेशेन विनाप्याक्रान्त्या हि यो योगिभिर्दुह्यते ।
अत एव--- यं सर्वशौलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥ .॥
इत्यनेन साराग्रयवस्तुपात्रत्वं हिमवत उक्तम् ।
ऽअभिव्यनक्ति परिस्फुरन्तम्ऽ इति ।
प्रतिपत्तॄन् प्रति सा प्रतिभा नानुमीयमाना, अपि तु तदावेशेन भासमानेत्यर्थः ।
यदुक्तमस्मदुपाध्यायभट्टतौतेन---ऽनायकस्य कवेः श्रोतुः समानो ऽनुभवस्ततःऽ इति ।
ऽप्रतिभाऽ अपूर्ववस्तुनिर्माणक्षमा प्रज्ञा; तस्या ऽविशेषोऽ रसावेशचवैशद्यसौन्दर्यं काव्यनिर्माणक्षमत्वम् ।
बालप्रिया सहृदयवत्से स्नेहेन हेतुना ।
हि दुग्धे प्रस्नौति यत्, तेन तस्माद्धेतोः सः अस्य बालतृष्णया प्रस्नतस्य रसस्य, रमः न स्यात, यः आनन्दरसः ।
योगिभिर्हि दुह्यत इत्यर्थः ।
असमत्वं स्फुटयितुं तुरीयपादार्थमाह---तदावेशेनेत्यादि ।
तदावेशेन रसावेशेन ।
अपिरेवार्थे ।
आक्रान्त्या बलात्कारेण आनन्दरूपेश्वरतन्मयीभावभावनाप्रकर्षसम्पादनेनेति यावत् ।
वाग्धेनोस्तु बालतृष्णाया तदावेशवशात्तद्दोग्धृतेति भावः ।
आक्रान्तिदुग्धात्स्वयं प्रस्नुतस्य सातिशयत्वे प्रमाणमाह--अत एवेत्यादि ।
अत एव यतो रसपरिपूर्णायास्तदावेशपरवशाया धेनोः प्रस्नवनं प्रति स्वयं कर्तृत्वं, तत एव ।
हिभवतः वत्सरूपस्येति यावत्. ऽअत एव इत्यनेन हिमवतः साराग्षपात्रत्वमुक्तम्ऽ इति सम्बन्धः ।
सरस्वतीप्रतिभाविशेषमभिव्यनक्त्यनुमापयतीत्यर्थभ्रमं निवर्तयन् व्याचष्टे-प्रतिपत्तॄनित्यादि ।
अभिव्यनक्तीत्यत्र प्रतिपत्तॄन् प्रतीति पूरणीयम् ।
प्रतिपत्तृणामित्यर्थः ।
सा प्रतिभा महाकविसम्बन्धिनी प्रतिभा ।
नानुमीयमानेति ।
तथाविधसरस्वतीलिङ्गकानुमितिविषयो नेत्यर्थः ।
तदिति ।
प्रतिभाविषयभूतरसावेशेनेत्यर्थः ।
भासमानेति ।
प्रत्यक्षविषयभूतेत्यर्थः ।
तथाविधा सरस्वती महाकवीनां तथाविधं प्रतिभाविशेषं स्फुरणविशिष्टमभिव्यनक्ति--रसावेशानभिमुखत्वरूपावरणनिवर्तनात्मकाभिव्यञ्जनेन प्रतिपत्तॄणां प्रत्यक्षविषयं करोतीति कारिकार्थ इति भावः ।
कविगतस्य रसस्य कथं प्रतिपत्तृगतत्वमित्यत आह---यदुक्तमित्यादि ।
नायकस्येति ।
नायकस्य कविसमारोपाच्छ्रोतुस्तु रसचर्वणयेति भावः ।
प्रतिभाविशेषमित्येतह्याचष्टे-प्रतिभेत्यादि ।
प्रज्ञा बुद्धिः ।
रसेति ।
प्रतिभाविशेषं परिस्फुरन्तमभिव्यनक्ति ।
येनास्मिन्नतिविचित्रकविपरम्परावाहिनि संसारे कालिदासप्रभृतयो द्वित्राः पञ्चषा वा महाकवय इति गण्यन्ते ।
इदं चापरं प्रतीयमानस्यार्थस्य सद्भावसाधनं प्रमाणम्---
शब्दार्थ-शासन-ज्ञान-मात्रेणैव न वेद्यते ।
वेद्यते स तु काव्यार्थ-तत्त्वज्ञैर् एव केवलम्
शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते ।
वेद्यते स तु काव्यार्थतत्त्वज्ञैरेव केवलम् ॥ 7 ॥
सो ऽर्थो यस्मात्केवलं काव्यार्थतत्त्वज्ञैरेव ज्ञायते ।
यदि च वाच्यरूप लोचनम् यदाह मुनिः---ऽकवेरन्तर्गतं भावंऽ इति ।
येनेति ।
अभिव्यक्तेन स्फुरता प्रतिभाविशेषेण निमित्तेन महाकवित्वगणनेति यावत् ॥ .6 ॥ ॥ .॥
इदं चेति ।
न केवलं ऽप्रतीयमानं पुनरन्यदेवऽ इत्येतत्कारिकासूचितौ स्वरूपविषयभेदावेव; यावद्भिन्नसामग्रीवेद्यत्वमपि वाच्यातिरिक्तत्वे प्रमाणमिति यावत् ।
वेद्यत बालप्रिया रसावेशस्य कारणभूतं यद्वैशद्यं रसावेशानभिमुखत्वराहित्यं तेन यत्सौन्दर्यं रसपरत्वादिलक्षणम्. यद्वा---रसावेशेन यद्वैशद्यं "विवक्षातत्परत्वेन"त्यादिसूचिपदोषराहित्यं, तेन सौन्दर्यं तत्सूचितगुणसाहित्यं तद्रूपं काव्यनिर्माणक्षमत्वमित्यर्थः ।
सरस्वतीप्रतिभाविशेषं प्रतिपत्तॄणामभिव्यनक्तीत्यत्र संवादमाह--यदाहेति ।
ऽयेनेऽत्यादिवृत्तिग्रन्थं व्याचष्टे---अभिव्यक्तेनेत्यादि ।
अबिव्यक्तेन अत एव स्फुरता प्रतिपत्तॄणां प्रत्यक्षविषयेण ।
ऽनिमित्तेनेऽत्यन्तं ऽयेनेऽत्यस्य व्याख्यानम् ।
महाकवित्वगणनेति ।
प्रतिपत्तॄणामादौ रसस्यानुभवस्ततः प्रतिभायास्ततो महाकवित्वगणनेति भावः ॥ .6 ॥ ॥ .॥
ऽन केवेलम्ऽ इत्यादि ऽवेद्यत्वमपीऽत्यन्तं ऽइदञ्चापरम्ऽ इत्यस्य विवरणम् ।
सद्भावेत्यादेर्वाच्यातिरिक्तत्वेन सद्भावस्येत्याद्यर्थ इत्याह---वाच्येत्यादि ।
तथा च कारिका एवासावर्थः स्यात्तद्वाच्यवाटचकरूपपरिज्ञानादेव तत्प्रतीतिः स्यात् ।
अथ च वाच्यवाचकलक्षणमात्रकृतश्रमाणां काव्यतत्त्वार्थभावनाविमुखानां स्वरश्रुत्यादिलक्षणमिवाप्रगीतानां गान्धर्वलक्षणविदामगोचर एवासावर्थः ।
लोचनम् इति ।
न तु न वेद्यते, येन न स्यादसाविति भावः ।
काव्यस्य तत्त्वभूतो यो ऽर्थस्तस्य भावना वाच्यातिरेकेणानवरतचर्वणा तत्र विमुखानाम् ।
स्वराः षङ्जादयः सप्त ।
श्रुतिर्नाम शब्दस्य वैलक्षण्यमात्रकारि यद्रूपान्तरं तत्परिमाणा स्वरतदन्तरालोभयभेदकल्पिता द्वाविशतिविधा ।
आदिशब्देन जात्यंशकग्रामरागभाषाविभाषान्तरभाषादेशी बालप्रिया नाधिकारिभेदप्रदर्शनपरा, किन्तु सामग्रीभेदप्रदर्शनपरा ।
वाच्यार्थबोधे ऽनुशिष्टशब्दार्थज्ञानरूपा, न्यङ्ग्यार्थबोधे तु सहृदयत्वादिरूपा च सामग्री पूर्वोत्तरार्धाभ्यां दर्शिता चेति भावः ।
वेदने सिद्धे तत्सामग्रीचिन्तावकाश इत्याश्येन पुनरपि वेद्यत इत्युक्तम्, तद्व्याचष्टे---न त्वित्यादि ।
येन अवेदनेन ।
असौ प्रतीयमानार्थः ।
वृत्तौ ऽसो ऽर्थऽ इत्याद्युत्तरार्धस्य विवरणं ऽतस्मादिऽति पूर्वार्धेन सम्बन्धः ।
तद्विवरणं ऽयदिचिऽत्यादि ।
ऽअसौ अर्थःऽ प्रतीयमानार्थः ।
ऽतत्प्रतीतिःऽ प्रतीयमानार्थप्रतीतिः ।
इष्टापत्ति परिहरति--ऽअथ चेऽत्यादि ।
ऽअथ चासावर्थः काव्यतत्त्वार्थभावनाविमुकानां वाच्यवाचकलक्षणमात्रकृतश्रमाणामगोचरऽ इति सम्बन्धः ।
तत्र दृष्टान्तः---ऽअप्रगीतानां गन्धर्वलक्षणविदां स्वरश्रुत्यादिलक्षणमिवेऽति ।
ऽअगोचरःऽ अग्राह्यः ।
ऽगान्धर्वलक्षणविदां ग्रन्थपठनेन सङ्गीतलक्षणं जानताम् ।
कारिकायां ऽस हीऽत्यत्र स त्विति च पाठः ।
काव्येत्यादिकं व्याचष्टे---काव्यस्येत्यादि ।
शब्दस्येति ।
गीतादिरूपशब्दस्येत्यर्थः ।
वैलक्षण्यमात्रकारि परस्परभेदमात्रकारि ।
न गुणादायकमिति भावः ।
रूपान्तरं रूपविशेषः ।
गीतादिशब्दश्रवणे सति तस्य शब्दस्य यद्रूपान्तरं लवादिकालांशं निमित्तीकृत्य जायते तदित्यर्थः ।
तदिति ।
तत् परिमामं कालप्रमाणं यस्याः सेत्यर्थः. तन्मात्रकालेति यावत् ।
स्वरेति ।
स्वरः तस्य स्वरस्यान्तरालमुभयमर्थात्पार्श्वद्वयं च तेषां यो भेदस्तत्कल्पितेत्यर्थः ।
श्रुतिर्नाम स्वरस्यैवांश इति यावत् ।
जातीत्यादि ।
झात्यादीनां स्वरूपमन्यतो ऽवधातव्यम् ।
अप्रगीतानामिति बालप्रिया नञ्समासघटकं प्रगीतपदं व्याचष्टे---प्रकृष्टमित्यादि ।
पक्षान्रमाह--कनाडीभेदवशात् द्वाविंशतिप्रकारो भवति ।
इम एव भेदाःश्रुतय इति व्यपदिश्यन्ते ।
श्रवणार्थस्य धातोः क्तिन् प्रत्यये श्रूयन्त इति व्युत्पत्त्या श्रूतिशब्दो निष्पन्नः ।
अत्र नादापरपर्यायश्रुतिविभागविषये बहवः प्रकारा वर्त्तन्ते---केचन द्वाविंशतिं श्रुतीर्मन्यन्ते, अपरे च षट्षष्टिभेदभिन्नाः श्रुतय इत्याचक्षते, अन्ये पुनरानन्तयं कथयन्ति श्रुतीनाम् ।
अत एवोक्तं कोहलेन--- द्वाविंशतिं केचिदुदाहरन्ति श्रुतीः श्रुतिज्ञानविचारदक्षाः ।
षट्षष्टिभिन्नाः खलु केचिदासामानन्त्यमेव प्रतिपादयन्ति ॥
इत्.इ ॥
तत्र द्वाविंशतिपक्ष एव प्रकृते ग्रन्थकाराभिमतः ।
एतासां श्रुतीनां मिथो भेदः--विणादण्डे पूर्वोत्तरबावेन द्वाविंशतिं तन्त्रीः परिकल्प्य प्रथमापेक्षया द्वितीयादितन्त्रीषु किञ्चित्किञ्चिद्द्दढीकरणपूर्वकं वाद्यमानासु तासु प्रत्यक्षतो ऽवगन्तुं शक्यः ।
आभ्यश्च श्रुतिभ्यः षङ्जर्षभगान्धारमद्यमपञ्चमधैवतनिषादाख्याः सप्त स्वरा भवन्ति ।
स्वतः सहकारिकारणनिरपेक्षं रञ्जयति श्रोतृचित्तमनुरक्तं करोतीति स्वरः, इति तद्व्युत्पत्तिः ।
सप्तानामप्यमीषां स्वराणां व्यस्तानां सतां दृष्टाद्दष्टफलौपयिकत्वं न भवतीति तत्सिद्धये ग्रामस्यावश्यकता जायते ।
ग्रामो नाम स्वरसमूहः ।
एतावत्त्युच्यमाने लौकिकवैदिकवाक्येष्वपि स्वरसमूहस्य सम्भवात्तत्रातिव्याप्तिस्स्यादिति तह्यावृत्तये मूर्च्छनाक्रमताववर्णालङ्कारजात्याद्याश्रयत्वे सति स्वरसमूहत्वं ग्रामत्वमिति लक्षणं वक्तव्यम् ।
मूर्चछनादीनां स्वरूपविभागादयः सङ्गीतरत्नाकरस्य स्वराध्यायतो ऽवसेयाः ।
स चायं ग्रामो द्विविधः--षङ्जग्रामः, मध्यमग्रामश्चेति ।
तत्रैकस्मन् वीणादण्डे द्वाविंशतिं तन्त्रीः परिकल्पय आदितस्तुरीयायां तन्त्र्यां षङ्जस्वरः, सप्तम्यां ऋषभः, नवम्यां गान्धारः, त्रयोदश्यां मध्यमः, सप्तदश्यां पञ्चमः, विंश्यां धैवतः, द्वाविंश्यां निषादश्चेति स्वरेषु विन्यस्तेषु षङ्जग्रामो भवति ।
अयमेव शुद्धाश्रयः षङ्जग्राम इति व्यवह्लियते ।
एवमपरस्मिन् वीणादण्डे आदितस्तुरीयायां तन्त्र्यां मध्यमः, सप्तम्यां पञ्चमः, एकादश्यां धैवतः, त्रयोदश्यां निषादः, सप्तदश्यां षङ्जः, विंश्यामृषभः, द्वाविश्यां गान्धारश्चेति विन्यस्तेषु स्वरेषु मध्यमग्रामो भवति ।
अयमेव विकृताश्रयो मध्यमग्राम इति व्यपदिश्यते ।
एवञ्च षङ्जग्रामे---षङ्जमध्यमपञ्चमाः चतसृभ्यः श्रुतिभ्य उत्पन्नाः, ऋषभधैवतौ तिसृभ्य उत्पन्नौ, गान्धारनिषादौ द्वाभ्यामुत्पन्नौ; मध्यमग्रामे च मध्यमधैवतषङ्जाः चतसृभ्य उत्पन्नाः, पञ्चमर्षभौ तिसृभ्य उत्पन्नौ, निषादगन्धारौ द्वाभ्यामुत्पन्नावित द्वैग्रामिक्यो द्वाविंश्यः श्रुतयः स्वरतदन्तरालोभयभेदकल्पिताः सिद्धाः ।
तत्र षङ्जग्राममध्यमग्रामयोर्मिलित्वा सन्त्यष्टादश जातयः--षाङ्जी, आर्षभी, गान्धरी, मध्यमा, पत्र्वमी, धैवती, नैषादी, पङ्जकैशिकी, षङ्जोदीच्यवा, षङ्जगातुं वेति ।
एवं वाच्यव्यतिरेकिणो व्यङ्ग्यस्य सद्भावं प्रतिपाद्य प्राधान्यं तस्यैवेति दर्शयति--- लोचनम् मार्गा गृह्यन्ते ।
प्रकृष्टं गीतं गानं येषां ते प्रगीताः, गातुं वा प्रारब्धा इत्यादिकर्मणिक्तः ।
प्रारम्भेण चात्र फलपर्यन्तता लक्ष्यते ॥ 7 ॥
एवमिति ।
स्वरूपभेदेन भिन्नसामग्रीज्ञेयत्वेन चेत्यर्थः ।
प्रत्यभिज्ञेयावि बालप्रिया आदिकर्मणीति ।
प्रारम्भरूपार्थ इत्यर्थः ।
फलेति ।
फलमत्र स्वरादिसाक्षात्कारः ॥ 7 ॥
एवमित्यनेन सन्निहितमात्रपरामर्शभ्रमः स्यादतो व्याचष्टे--
स्वरूपभेदेनेत्यादि
सो ऽर्थस् तद्-व्यक्ति-सामर्थ्य-योगी शब्दश् च कश्चन ।
यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थौ महाकवेः
सो ऽर्थस्तद्य्वक्तिसामर्थ्ययोगी शब्दश्च कश्चन ।
यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थौ महाकवेः ॥ 8 ॥
व्यङ्ग्यो ऽर्थस्तद्व्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन, न शब्दमात्रम् ।
तावेव शब्दार्थौ महाकवेः प्रत्यभिज्ञेयौ ।
व्यह्ग्यव्यञ्जकाभ्यामेव सुप्रयुक्ताभ्यां लोचनम् त्यर्हार्थे कृत्यः, सर्वो हि तथा यतते इतीयता प्राधान्ये लोकसिद्धत्वं प्रमाणमुक्तम् ।
नियोगार्थेन च कृत्येन शिक्षाक्रम उक्तः ।
प्रत्यभिज्ञेयशब्देनेदमाह--- ऽकाव्यं तु जातु जायेत कस्थचित्प्रतिभावतःऽ इति नयेन यद्यपि स्वयमस्यैतत्परिस्फुरति, तथापीदमित्थमिति विशेषतो निरूप्यमाणं सहस्रशाखीभवति ।
बालप्रिया ऽस्वरूपविषयभेदेनेऽति च पाठः ।
कथं प्राधान्यं दर्शितमित्यतो व्याचष्टे---अर्हार्थ इत्यादि ।
कृत्यः कृत्यप्रत्ययः ।
सर्वः सकलस्सहृदयः ।
ऽतथा हीऽति सम्बन्धः ।
अर्हत्वेन हीत्यर्थः ।
यतते तथाविधशब्दार्तयोर्बुभुत्सया प्रवर्तते ।
फलितमाह--इतीत्यादि ।
इयता सहृदयप्रत्यभिज्ञेयत्ववचनेन ।
प्राधान्ये व्यङ्ग्यस्य प्राधान्ये विषये ।
लोकेति ।
सहृदययोकेत्यर्थः ।
ऽसहृदयैः सो ऽर्थः तथाविधः शब्दस्च महाकवेस्तौ शब्दार्थो यत्नतः प्रत्यभिज्ञेयाविऽति सम्बन्धः ।
ऽताविऽति प्रत्यभिज्ञाकारप्रदर्शकः ।
एतौ महाकवेः तौ ताद्दशौ शब्दार्थावित्याकारकसहृदयप्रत्यभिज्ञानार्हावित्यर्थ इति भावः ।
अथ तौ शब्दार्थौ महाकवेः महाकविना प्रत्यभिज्ञेयावित्यर्थान्तरं च ग्राह्यमित्याह---नियोगेत्यादि ।
अस्मिन् पक्षे ऽताविऽत्यस्य पूर्वोक्तावित्यर्थः ।
पूर्वार्धञ्च भिन्नं वा क्यम् ।
शिज्ञाक्रमः कविशिक्षाप्रकारः ।
शब्दार्थप्रत्यभिज्ञानस्य फलमाह---प्रत्यभिज्ञेयेत्यादि ।
काव्यमतचि ।
तुशब्दः शास्त्रादितो विशेषद्योतकः ।
जातु कदाचिदेव ।
कस्यचित् न सर्वस्य ।
को ऽसावित्यत्राह--प्रतिभावत इति ।
स्वयं स्वयमेव ।
अस्य कवेः ।
एतत् काव्यम् ।
इदमिति ।
इदमित्थं कर्तव्यमिति निरूपणप्रकारः ।
निरूप्यमाणमिति ।
निरूप्य क्रियमाणमित्यर्थः ।
तदित्यनुषज्यते ।
सहस्रेति ।
सहस्रधा भवतीत्यर्थः ।
विच्छित्तिप्रकाराणामनन्तत्वादिति भावः ।
विशेषनिरूपणस्य कर्तव्यतां व्यतिरेकोदाहरणेन समर्थयते--यथोक्तमिति ।
प्रत्यभिज्ञाशास्त्रान्त इति शेषः ।
महाकवित्वलाभो महाकवीनां, न वाच्यवाचकरचनामात्रेण ।
लोचनम् यथोक्तमस्मत्परमगुरुभिः श्रीमदुत्पलपादैः-- तैस्तैरप्युपयाचितैरुपनतस्तन्व्याः स्थितो ऽप्यन्तिके कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा ।
लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता ः
इत्.इ ॥
तेन ज्ञातस्यापि विशेषतो निरूपणमनुसन्धानात्मकमत्र प्रत्यभिज्ञानं, न तु तदेवदमित्येतावन्मात्रम् ।
महाकवेरिति ।
यो महाकविरहं भूयासमित्याशास्ते ।
एवं व्यङ्ग्यस्यार्थस्य व्यञ्जकस्य शब्दस्य च प्राधान्यं वदता व्यङ्क्यव्यञ्जकभावस्यापि बालप्रिया तैस्तैरिति ।
सामान्यतो ऽवगतस्यापीश्वरस्य विशेषतो ऽवगममन्तरेण न फलपर्यन्तीभावलाभ इत्यर्तप्रदर्शनपरो ऽयं श्लोकः ।
तैस्तैरुपयाचितैः दूतीसम्प्रेषणात्मवृत्तान्तनिवेदनादिभिरुपचारपूर्वकयाचनैः ।
ऽउपनतो ऽपीऽति योजना ।
न केवलमुपनतः, तन्व्या अन्तिके स्थितो ऽपि ।
एवमपरिज्ञातः यो मया लोकोत्तरसौन्दर्यादिगुणविशिष्टत्वेन श्रुतस्तत एव रागातिशयेन प्रर्थितस्च स कान्तो ऽयमिति विशेषेणाज्ञातः ।
अत एव लोकसमानः जनसाधारणत्वं प्राप्तः ।
कान्तः तन्वीकामनाविषयः पुरुषः ।
यथा रन्तुं रमयितुं तन्वीमानन्दयितुमिति यावत् ।
न प्रभवतीति शेषः ।
एवं दृष्टान्तं प्रदर्श्य प्रकृतमाह---लोकस्येत्यादि ।
ऽलोकस्यात्मेऽति सम्बन्धः ।
अनवेक्षितेति ।
लोकेन विशेषतो ऽज्ञातेत्यर्थः ।
यस्मात्सामान्यतो ज्ञाते ऽपि विशेषाज्ञानसम्भवः, तस्मात् स्वतः स्फुरितयोरपि शब्दार्थयोः महाकविना युक्तमेव प्रत्यभिज्ञानकरणमिति भावः ।
तर्हि को ऽत्र प्रत्यभिज्ञापदार्थ इत्यत उक्तफलतया तत्स्व्रूपमाह---तेनेत्यादि ।
महाकवित्वर्वृत्तौ शिक्षानर्हत्वान्नियोगायोगमाशङ्क्य व्याचष्टे--यो महेत्यादि ।
महाकविरित्यस्य महाकवित्वप्रकारकाशसाविषय इत्यर्थ इति भावः ।
वृत्तौ ऽमहाकवेस्तौ शब्दार्थौ सहृदयैः प्रत्यभिज्ञेयाविऽविति ऽतावेव शब्दार्थौ महाकवेः प्रत्यभिज्ञेयाविऽति च योजना बोध्या ।
महाकविना प्रत्यभिज्ञेयाविऽविति ऽतावेव शब्दार्थौ महाकवेः प्रत्यभिज्ञेत्याविऽति च योजना बोध्या ।
महाकविना प्रत्यभिज्ञेयावित्यसेयोपपादकम्--ऽव्यङ्ग्येऽत्यादि ।
ऽसुप्रयुक्ताभ्यांऽ विशेषतो निरूप्य प्रयुक्ताभ्याम् ।
ऽमहाकवीनाम्ऽ इत्यस्य उक्तो ऽर्थः ।
वृत्तिग्रन्थेन व्यञजकस्यापि प्रधान्यं दर्शितमत आह--एवमित्यादि ।
उपपन्नमिति ।
ध्वनिरिति इदानीं व्यङ्ग्यव्यञ्जकयोः प्राधान्ये ऽपि यद्वाच्यवाचकावेव प्रथममुपाददते कवयस्तदपि युक्तमेवेत्याह--
आलोकार्थी यथा दीप-शिखायां यत्नवाञ् जनः ।
तद्-उपायतया तद्वद् अर्थे वाच्ये तद्-आदृतः
आलोकार्थी यथा दीपशिखायां यत्नवाञ्जनः ।
तदुपायतया तद्वदर्थे वाच्ये तदादृतः ॥ 9 ॥
यथा ह्यालोकार्थी सन्नपि दीपशिखायां यत्नवाञ्जनो भवति तदुपायतया ।
न हि दीपशिकामन्तरेणालोकः सम्भविति ।
तद्वद्य्वङ्ग्यमर्थं प्रत्याद्दतो जनो वाच्ये ऽर्थे यत्नवान् भवति ।
लोचनम् प्राधान्यमुक्तमिति ध्वनति ध्वन्यते ध्वननमिति त्रितयमप्युपपन्नमित्युक्तम् ॥ .8 ॥ ॥ .॥
ननु प्रथमोपादीयमानत्वाद्वाच्यवाचकतद्भावस्यैव प्राधान्यमित्याशङ्क्योपायानामेव प्रथममुपादानं भवतीत्यभिप्रायेम विरुद्धो ऽयं प्राधान्ये साध्ये हेतुरिति दर्शयति--इदानीमित्यादिना ।
आलोकनमालोकः; वनितावदनारविन्दादिविलोकनमित्यर्थः ।
तत्र चोपायो दीपशिखा ॥ 9 ॥
बालप्रिया वक्ष्यमाणमुपपन्नमित्यर्थः ॥ 8 ॥
व्यङ्ग्यव्यञ्जकप्राधान्यानुवादेन वाच्यवाचकयोः प्रथमोपादानयुक्तत्ववचनं वृत्तावयुक्तं, प्राधान्यानुवादस्यानुपयोगादित्यतः शङ्कोत्तरत्वेन घटयति---नन्वित्यादि ।
वाच्येत्यादि ।
द्वन्द्वैकवद्भावः ।
प्रथमोपादीयमानत्वहेतोः को दोष इत्यतः सो ऽपि दर्शित इत्याह---उपायानामेवेत्यादि ।
विरुद्ध इति ।
साध्याभावेनापारादान्येन व्याप्त इत्यर्थः ।
अप्रयोजक इत्यर्थो वा ।
आलोकशब्दस्य प्रकाशरूपार्थे प्रसिद्धेः प्रकृते तदर्समाह--आलोकनमिति ।
चाक्षुषज्ञानमित्यर्थः ।
आलोकनमित्यस्यैव विवरणम्वनितेत्यादि ।
वृत्तौ ऽप्रतिपादकस्येऽति ।
वक्तुरित्यर्थः ॥ 9 ॥
अनेन प्रतिपादकस्य कवेर्व्यङ्ग्यमर्थं प्रति व्यापारो दर्शितः ।
प्रतिपाद्यस्यापि तं दर्शयितुमाह----
यथा पदार्थ-द्वारेण वाक्यार्थः सम्प्रतीयते ।
वाच्यार्थ-पूर्विका तद्वत् प्रतिपत्तस्य वस्तुनः
यथा पदार्थद्वारेण वाक्यार्थः सम्प्रतीयते ।
वाच्यार्थपूर्विका तद्वत्प्रतिपत्तस्य वस्तुनः ॥ 10 ॥
यथा हि पदार्थद्वारेण वाक्यार्थावगमस्तथा वाच्यार्थप्रतीतिपूर्विका व्यङ्ग्यस्यार्थस्य प्रतिपत्तिः ।
लोचनम् प्रतिपदिति भावे क्विप् ।
ऽतस्य वस्तुनऽ इति व्यङ्ग्यरूपस्य सारस्येत्यर्थः ।
अनेन श्लोकेनात्यन्तसहृदयो यो न भवति तस्यैष स्फुटसंवेद्य एव क्रमः ।
यथात्यन्तशब्दवृत्तज्ञो यो न भवति तस्य पदार्थवाक्यार्थक्रमः ।
काष्टाप्राप्तसहृदयभावस्त तु वाक्यवृत्तकुशलस्येव सन्नपि क्रमो ऽभ्यस्तानुमानाविनाभावस्मृत्यादिवदसंवेद्य इति दर्शितम् ॥ .10 ॥ ॥ .॥
बालप्रिया वृत्तौ ऽप्रतिपाद्यस्येऽति ।
वाच्यार्थस्येत्यर्थः ।
ऽतम्ऽ इति ।
व्यङ्ग्यमर्थं प्रति व्यापारमित्यर्थः ।
स च स्वप्रतीत्युत्पादनरूपः ।
कारिकायां ऽप्रतिपत्तस्येऽत्यत्रान्यथाप्रतिपत्तिनिरासायाह--प्रतिपदित्यादि ।
प्रतिपत्तिरिति तदर्थ इति भावः ।
कारिकायां ऽपदार्थेऽत्यस्य ऽवाच्यार्थेऽत्यस्य च ज्ञायमानतत्तदर्थेत्यर्थः ।
तत्तदर्शज्ञानमिति वा ।
ऽसम्प्रतीयतऽ इति ।
प्रतिपत्तृभिर्ज्ञायत इत्यर्थः ।
अत्र वाच्यव्यङ्ग्यप्रतीत्योः पदार्थवाक्यार्थप्रतीतिसाम्यकथनस्य फलान्तरमप्यस्तीत्यह---अनेनेत्यादि ।
ऽअनेन श्लोकेन इति दर्शितम्ऽ इति सम्बन्धः ।
यः यः प्रतिपत्ता ।
तस्य तथाविधस्य प्रतिपत्तुः ।
एषः वाच्यव्यङ्ग्यनिष्टः ।
अत्र दृष्टान्तमाह---यथेत्यादि ।
शब्दवृत्तेति ।
वाक्यवृत्तेत्यर्थः ।
पदार्थेत्यादि ।
स्फुटसंवेद्य इत्यनुषङ्गः ।
काष्टाप्राप्तेति ।
उत्कर्षप्राप्तेत्यर्थः ।
वाक्यवृत्तकुशालस्येति ।
वाक्यस्फोटादिकं जानत इत्यर्थः ।
सतो ऽपि क्रमस्यासंवेद्यत्वे दृष्टान्तः--अभ्यस्तेत्यादि ।
अभ्यस्ते विषये अनुमानमनुमितिः अविनाभावस्मृतिः व्याप्तिस्मृतिः तयोः ।
आदिपदेन समयस्मृत्यर्थबोधयोः परिग्रहः ।
तद्वत्तन्निष्टक्रमवदित्यर्थः ॥ 10 ॥
इदानीं वाच्यार्थप्रतीतिपूर्वकत्वे ऽपि तत्प्रतीतेर्व्यङ्ग्यस्यार्थस्य प्राधान्यं यथा न व्यालुप्यते तथा दर्शयति---
स्व-सामर्थ्य-वशेनैव वाक्यार्थं प्रतिपादयन् ।
यथा व्यापार-निष्पत्तौ पदार्थो न विभाव्यते
स्वसामर्थ्यवशेनैव वाक्यार्थे प्रतिपादयन् ।
यथा व्यापारनिष्पत्तौ पदार्थो न विभाव्यते ॥ 11 ॥
लोचनम् न व्यालुप्यत इति ।
प्राधान्यादेव तत्पर्यन्तानुसरणरणरणकत्वरिता मध्ये विश्रान्ति न कुर्वत इति क्रमस्य सातो ऽप्यलक्षणं प्राधान्ये हेतुः ।
स्वमामर्थ्यमाकाङ्क्षायोग्यतासन्निधयः ।
विभाव्यत इति ।
विशब्देन विभक्ततोक्ता; विभक्ततया बालप्रिया ऽस्वसामर्थ्यैऽत्यादिकारिकाद्वयमवतारयति वृत्तौ--ऽइदानीम्ऽ इत्यादि ।
ऽतत्प्रतीतेःऽ व्यङ्ग्यप्रतीतेः ।
ऽन व्यालुप्यतेऽ नापगच्छति प्रत्युत सिध्यति ।
ननु कारिकायां सतो ऽपि क्रमस्यालक्षणं दर्शितं, तस्य कथं प्राधान्योपपादकत्वमित्यत आह--प्राधान्यादेवेत्यादि ।
प्राधान्यादेव व्यङ्ग्यस्येत्यर्थात् ।
तदिति ।
तत्पर्यन्तं प्रयोजनभूतप्रतीयमानार्थपर्यन्तं यदनुसरणं बुध्यानुधावनं, ऽतत्तात्पर्येऽति पाठे प्रतीयमानरूपतात्पर्यार्थं प्रति यदनुसरणमित्यर्थः ।
तत्र रणरणकेन औत्सुक्येन त्वरिताः सन्त इत्यर्थः ।
सहृदया इति शेषः ।
मध्ये वाच्यांशचर्वणायाम् ।
विश्रान्तिं न कुर्वत इति ।
तथा च का कथा क्रमपर्यालोचनायामिति भावः ।
हेतुरिति ।
ज्ञापकमित्यर्थः ।
ऽस्वसामर्थ्येऽत्यस्य स्वस्य पदार्थस्य यत् सामर्थ्यं सहकारीत्यर्थाभिप्रायेण विवृणोति--आकाङ्क्षेत्यादि ।
कारिकायां ऽव्यापारनिष्पत्ताऽविति स्वव्यापारस्य वाक्यार्थप्रतिपादनरूपस्य निष्पत्तौ सत्यां वाक्यार्थबुद्धावित्यर्थः ।
वृत्तौ ऽविभक्ततयेऽति कारिकोपस्कार इति भ्रमं नुदति-विशब्देनेति ।
भाव्यते प्रतिपत्तृभिर्ज्ञायते ।
अनेनेति ।
विभावनमात्रनिषेधेन यथा स्वसामर्थ्यवशेनैव वाक्यार्थं प्रकाशयन्नपि पदार्थो व्यापारनिष्पत्तौ न भाव्यते विभक्ततया ।
तद्वत् स-चेतसां सो ऽर्थो वाच्यार्थ-विमुखात्मनाम् ।
बुद्धौ तत्त्वार्थ-दर्शिन्यां झटित्य् एवावभासते
तद्वत् सचेतसां सो ऽर्थो वाच्यार्थविमुखात्मनाम् ।
बुद्धौ तत्त्वार्थदर्शिन्यां झटित्येवावभासते ॥ 12 ॥
लोचनम् न भाव्यत इत्यर्थः ।
अनेन विद्यमान एव क्रमो न संवेद्यत इत्युक्तम् ।
तेन यत्स्फोटाभिप्रायेणासन्नेव क्रम इति व्याचक्षते तत्प्रत्युत विरुद्धमेव ।
वाच्ये ऽर्थे विमुखो विश्रान्तिनिबन्धनं परितोषमलभमान आत्मा हृदयं येषामित्यनेन सचेतसामित्यस्यैवार्थो ऽभिव्यक्तः ।
सहृदयानामेव तर्ह्ययं महिमास्तु, न तु काव्यस्यासौ कश्चिदतिशय इत्याशङ्क्याह-अवभासत इति ।
तेनात्र विभक्ततया न भासते, न तु वाच्यस्य सर्वथैवानवभासः ।
अत एव तृतीयोद्द्योते घटप्रदीपद्दष्टान्तबलाद्व्यङ्ग्यप्रतीतिकाले ऽपि वाच्यप्रतीतिर्न विघटत इति यद्वक्ष्यति तेन सहास्य ग्रन्थस्य न विरोधः ॥ 11॥
,12 ॥
बालप्रिया वस्तुसत्ताया अभ्यनुज्ञानादित्यर्थः ।
तेनेति ।
विद्यमानक्रमालक्षणप्रतपादनेनेत्यर्थः ।
विरुद्धमेवेत्यनेनास्य सम्बन्धः ।
स्फोटाभिप्रायेणेति ।
वाक्यतदर्थावविभक्तस्फोटरूपावित्यभिप्रायेणेत्यर्थः ।
कारिकायां ऽसो ऽर्थऽ इति ।
वाक्यार्थरूपवाच्यार्थः ।
ऽतत्वार्थेऽति ।
व्यङ्ग्यार्थेत्यर्थः ।
ऽवाच्यार्थविमुखात्मनाऽमित्यत्र विमुखशब्दं प्रकरणलब्धमर्थमादाय व्याचष्टे--वाच्य इत्यादि ।
विश्रान्तिरेव निबन्धनं कारणं यस्य तम् ।
नात्यन्तं वाच्यबहिर्मुख इति भावः ।
विशेषणस्यास्य फलमाह--अनेनति ।
अभिव्यक्तः प्रदर्शितः ।
सहृदयानामेवेत्यादि ।
यद्युक्तलक्षणसहृदयबुध्युपाधिकमस्य झाटित्येन स्फुरणं, तर्ह्यन्वयव्यतिरेकाभ्यां तद्बुद्धेरेव तद्धेतुत्वात्सहृदयानामेव लोरोत्तरः कश्चिदतिशयो ऽयं न काव्यस्येत्यर्थः ।
अवभासत इतीति ।
काव्यश्रवणसमयसमनन्तरसमासाद्यमानजन्मनस्तदर्शवभासस्य कार्यस्य परिस्फुटोपलब्धस्य काव्यव्यापारैकनिबन्धनत्वनिश्चयात्काव्यस्यैवायमतिशय इति भावः ।
तेनेत्यादि ।
तेन उक्तेन कारिकाद्वयव्याख्यानप्रकारेण ।
अत्र वाच्यार्थे ।
विभक्तता व्यङ्ग्यार्थापेक्षया पृथकत्वम् ।
न भासते विभक्तत्वस्य केवलमनवभासनमित्यर्थः ।
सर्वथैवेति ।
स्वरूपेणापीति यावत् ।
केचित्तु ऽविभक्ततयेऽति पठित्वा अत्रेति बुद्धावित्यर्थः ।
विभक्ततयेति ।
वाच्यादित्यर्थात् ।
न भासत इति व्यङ्ग्यो ऽर्थ इति शेषः ; येन क्रमो लक्ष्येत इति व्याचक्षते ।
अत एवेति ।
उक्तव्याक्यानादेवेत्यर्थः ।
वाच्यस्य स्वरूपतो ऽवभासाङ्गीकरणाद्विभागमात्रस्यानवभासाङ्गीकाराच्चेति यावत् ।
एवं वाच्यव्यतिरेकिणो व्यङ्ग्यस्यार्थस्य सद्भावं प्रतिपाद्य प्रकृत उपयोजयन्नाह---
यत्रार्थः शब्दो वा तम् अर्थम् उपसर्जनीकृत-स्वार्थौ ।
व्यङ्क्तः काव्य-विशेषः स ध्वनिर् इति सूरिभिः कथितः
यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ ।
व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥ 13 ॥
लोचनम् सद्भावमिति ।
सत्तां साधुभावं प्राधान्यं चेत्यर्थः ।
द्वयं हि प्रतिपिपादयिषितम् ।
प्रकृत इति लक्षणे ।
उपयोजयन् उपयोगं गमयन् ।
तमर्थमिति चायमुपयोगः ।
स्वशब्द आत्मवाची ।
स्वश्चार्थश्च तौ स्वार्थौ; तौ गुणीकृत्तौ याभ्याम्; यथासंख्येन तेनार्थो गुणीकृतात्मा,शब्दो गुणीकृताभिधेयः ।
तमर्थमिति ।
ऽसरस्वती स्वादु तदर्थवस्तुऽ बालप्रिया न विरोध इति ।
इदमुपलक्षणम्, दृष्टान्तवैषम्यमपि नास्तीति बोध्यम् ॥ 12 ॥
ऽसाधुभावम्ऽ इत्यस्य व्याख्यानं---प्राधान्यमिति ।
इत्यर्थ इति ।
यथोक्तम्---"सद्भावे साधुभावे च सदित्येतत्प्रयुच्यते" इति ।
द्वयमुक्तार्थद्वयम् ।
लक्षण इति ।
प्रस्तुतस्य ध्वनेर्लक्षण इत्यर्थः ।
उपयोगमिति ।
अर्थद्व्यङ्ग्यसद्भावस्य ।
केनांशेनोपयोजनमित्यत आह--तमिति ।
व्यङ्ग्यस्य सद्भावे सिद्धवि सिद्ध एव तमरिथमिति तत्पदेन परामर्शो युज्यत इति भावः ।
अर्थस्यार्थाभावाह्याचष्टे---स्वश्चेत्यादि ।
ऽउपसर्जनीकृताविऽत्यस्य विवरणन्-गुणीकृताविति ।
फलितमाह-तेनेत्यादि ।
तथाविधो ऽर्थस्तथाविधः शब्दश्चेत्यर्थः ।
यत्रार्थो वाच्यविशेषः वाचकविशेषः शब्दो वा तमर्थं व्यङ्क्तः, स काव्यविशेषो ध्वनिरिति ।
अनेन वाच्यवाचकचारुत्वहेतुभ्य उपमादिभ्यो ऽनुप्रासादिभ्यश्च लोचनम् इति यदुक्तम् ।
व्यङ्क्तः द्योतयतः ।
व्यङ्क्त इति द्विवचनेनदमाह--यद्यप्यविवक्षितवाच्ये शब्द एव व्यञ्जकस्तथाप्यर्थस्यापि सहकारिता न त्रुट्यति, अन्यथा अज्ञातार्थो ऽपि शब्दस्तह्यञ्जकः स्यात् ।
विवक्षितान्यपरवाच्ये च शब्दस्यापि सहकारित्वं भवत्येव, विशिष्टशब्दाभिधेयतया विना तस्यार्थस्याव्यञ्जकत्वादिति सर्वत्र शब्दार्थयोरुभयोरपि ध्वननं व्यापारः ।
तेन यद्भट्टनायकेन द्विवचनं दूषितं तद्गजनिमीलिकयैव ।
अर्थः शब्दो वेति तु विकल्पाभिधानं प्राधान्याभिप्रायेम ।
काव्यं च तद्विशेषश्चासौ काव्यस्य वा विशेषः ।
काव्यग्रहणाद्गुणाङ्कारोपस्कृतशब्दार्थपृष्टपाती ध्वनिलक्षण ऽआत्मेऽत्युक्तम् ।
बालप्रिया नन्वेकैकत्र शब्दार्थयोरेकैकस्यैव व्यञ्जकत्वात् व्यङ्क्त इति द्विवचनमनुपपन्नमित्यत आह--द्विवचनेनेत्यादि ।
अभयोरपि ध्वननं व्यापारः ऽद्विवचनेनेदमाहऽ इति सम्बन्धः ।
विशिष्टशब्देति ।
यथारसं वर्णानां भेदादिति भावः ।
तेनेति ।
युक्त्या द्विवचनसमर्थनेनेत्यर्थः ।
गजनिमीलिकयेति ।
यथा गजस्याक्षिनिमीलनं न बुद्धिपूर्वकमपि तु स्वभावत एवेत्यविचारो गजनिमीलिकाशब्देन लक्ष्यते ।
ननु यदि समुच्चयस्तर्हि ऽअर्थशब्दाविऽति भाव्यमित्यत आह--अर्थ इत्यादि ।
प्राधान्येति ।
व्यञ्जनप्राधान्येत्यर्थः ।
अयं भावः---वाकारो ऽत्र शब्दार्थयोः व्यञ्जनक्रियाकर्त्तृत्वे विकल्पस्य न बोधकः, येन "शिरश्श्वा काको वा द्गुपदतनयो वा परिमृशे"दित्यादाविवैकवचनं भवेत्, आपि तु व्यञ्जनक्रियायां कर्तृत्वेनान्वितयोः शब्दार्थयोः व्यञ्जनप्राधान्ये विकल्पमवगमयति ।
तथा च विकल्पितव्यञ्जनप्राधान्यौ शब्दार्थौ व्यङ्क्त इति वाक्यार्थ इति ।
विशेषशब्दस्य विशिष्टार्थत्वाभिप्रायेण विवृणोति--काव्यमित्यादि ।
पक्षान्तरमाह---काव्यस्य वेति ।
काव्येत्यादि ।
ऽयो ध्वनिलक्षण आत्मा स तथाविधशब्दार्थपृष्टपातीति काव्यग्रहणादुक्तम्ऽ इति संबन्धः ।
शब्दार्थपृष्टपातित्वं तह्यङ्ग्यत्वात् ।
लोचनम् तेनैतन्निरवकाशं श्रुतार्थापत्तावपि ध्वनिव्यवहारः स्यादिति ।
यच्चोक्तम्--ऽचारुत्वप्रतीतिस्तर्हि काव्यस्यात्मा स्यात्ऽ इति तदङ्गीकुर्म एव ।
नाम्नि खल्वयं विवाद इति ।
यच्चोक्तम्---ऽचारुणः प्रतीतिर्यदि काव्यात्मा प्रत्यक्षादिप्रमाणादपि सा भवन्ती तथा स्यात्ऽ इति ।
तत्र शब्दार्थमयकाव्यात्माभिधानप्रस्तावे क एष प्रसङ्ग इति न किञ्चिदेतत् ।
स इति ।
अर्थो वा शब्दो वा, व्यापारो वा ।
अर्थो ऽपि वाच्यो वा ध्वनतीति, शब्दोप्येवम् ।
व्यङ्ग्यो वा ध्वन्यत इति व्यापारो वा बालप्रिया तेनेति ।
यतो गुणालङ्कारोपस्कृतशब्दार्थपृष्टपातिनो ध्वनिव्यवहारस्तत इत्यर्थः ।
स्यादिति ।
ऽपोनो देवदत्तो दिवा न भुङ्क्तऽ इत्यादौ रात्रिभोजनादेर्गम्यत्वादिति भावः ।
चारुत्वप्रतीतिस्तर्हीत्यादि ।
यदि चारुत्वहेतुतया प्रासिद्धेभ्यो गुणादिभ्यो ऽन्यः काव्यात्मा स्यात्तर्हि चारुत्वप्रतीतिरेव तदात्मास्तु, तस्याः दृष्टत्वेनाद्दष्टवस्त्वन्तरकल्पने गौरवादिति तदतिरिक्तो न ध्वनिरित्याक्षेपः ।
कुतो ऽङ्गीकार इत्यत आह--नाम्नीति ।
खलुरवधारणे ।
चारुत्वप्रतीतिरित्यस्य चारुत्वप्रतीतेर्विषयो हेतुर्वा कश्चिद्गुणादिभ्यो ऽन्य इत्यर्थस्य वक्तव्यतया ध्वनिनाम्न्येन विवाद इत्यर्तः ।
चारुणः प्रतीतिरिति ।
चारुवस्तुप्रतीतिरित्यर्थः ।
वस्तुविशेष्यकचारुत्वप्रतीतिरिति यावत् ।
सेति ।
चारुवस्तुप्रतीतिरित्यर्थः ।
तथा ध्वनिव्यवहारविषयः ।
प्रकरणानभिज्ञो ऽसौ पूर्वंपक्षी, अत उपेक्ष्य इति परिहरति---तत्रेत्यादि ।
तत्र प्रत्यक्षादिविषये ।
ऽएव प्रसङ्गः कऽ इति सम्बन्धः ।
ननु काव्यस्य शब्दार्थज्ञितत्वाभिदानमित्यत आह--अर्थो वेत्यादि ।
कस्य कथें ध्वनिशब्दवाच्यत्वमित्यत्राह--अर्थो ऽपीत्यादि ।
सर्वत्र इतिशब्दो ऽध्वनिरिति प्रतिपादितम्ऽ इत्यनेन सम्बध्यते ।
एवमिति ।
ध्वनतीति प्रकारेणेत्यर्थः ।
शब्दवाच्यव्यङ्ग्यव्यञ्जनानि चत्वार्यपि योगेन ध्वनिशब्दवाच्यानीत्यर्थः ।
प्राधान्येनेति ।
मख्यतायां हेतुः; समुदायस्य समुदाय्यपेक्षया प्राधान्यात् ।
विभक्त एव ध्वनेर्विषय इति दर्शितम् ।
यदप्युक्तम्---ऽप्रसिद्धप्रस्थानातिक्रमिणो मार्गस्य काव्यत्वहानेर्ध्वनिर्नास्तिऽ इति, तदप्ययुक्तम् ।
यतो लक्षणकृतामेव स केवलं न प्रसिद्धः, लक्ष्ये तु परीक्ष्यमाणे स एव सहृदयहृदयाह्लादकारि काव्यतत्त्वम् ।
लोचनम् शब्दार्थयोर्ध्वननमिति ।
कारिकया तु प्राधान्येन समुदाय एव काव्यरूपो मुख्यतया ध्वनिरिति प्रतिपादितम् ।
विभक्त इति ।
गुणालङ्काराणां वाच्यवाचकभावप्राणत्वात् ।
विषयशब्दार्थः ।
एवं तद्व्यतिरिक्तः को ऽयं ध्वनिरिति निराकृतम् ।
लक्षणकृतामेवेति ।
लक्षणकाराप्रसिद्धताविरुद्धो हेतुः; तत एव हि यत्नेन लक्षणीयता ।
लक्ष्ये त्वप्रसिद्धत्वमसिद्धो हेतुः ।
बालप्रिया मुख्यतयेति ।
इतरेषान्त्वमुख्यतयेति भावः ।
ध्वनिरित्यादि ।
रूढ्या ध्वनिपदार्थत्वेनोक्तमित्यर्थः ।
तथाच सः तथाविधः शब्दवाच्यव्यङ्ग्यव्यञ्जनसमुदायात्मकः काव्यविशेषो ध्वनिरिति कथितः ।
रूढ्या ध्वनिपदवाच्यत्वेन कथित इति कारिकार्थः ।
तथाविधकाव्यविशेषत्वं लक्षणं, रूढ्या ध्वनिपदवाच्यत्वं लक्ष्यतावच्छेदकम् ।
यद्यपि ऽकाव्यविशेषघटितलक्षणस्यैव प्रकृत उपयोगात्तदभिहितमिति च बोध्यम् ।
वृत्तौ ऽअनेनेऽति ।
एवं लक्षणप्रतिपादनेनेत्यर्थः ।
ऽउपमादिभ्यऽ इत्यादि ।
तद्विषयेभ्य इत्यर्थः ।
ऽविभक्तःऽ भिन्नः ।
कथं घ्वनेरुपमादिभ्यो विभक्तविषयत्वमित्यत आह--गुणेत्यादि ।
वाच्यवाचकाश्रयत्वात्तद्भावोपजीवित्वम् ।
उक्तार्थोपपादनाय ऽविशेषेण सिनोति बध्नाति स्वसम्बन्धिनं पदार्थम्ऽ इति व्युत्पत्तिमभिप्रेत्य विषयशब्दस्यार्थमाह--अनन्यत्र भाव इति ।
अन्यत्र सद्भावस्याभाव इत्यर्थः ।
विषयशब्दार्थः विशेषण विधया विषयशब्दप्रतिपाद्यः ।
ऽध्वनेर्विषयऽ इत्यस्य यसमादन्यत्र ध्वनिव्यवहारस्य सद्भावो नास्ति, स इत्यर्थ इति भावः ।
लक्षणप्रतिपादनेनैव प्रथमाभाववादिमतं निराकृतमित्यभिप्रायेण वृत्तिकृतो ऽयदप्युक्तम्ऽ इत्यादिना द्वितीयाभाववादिमतदूषणाभिधानमिति प्रदर्शयितुमाह--एवमित्यादि ।
एवमिति निर्देषलक्षणकथनमुशेन ध्वनेः सद्भावस्य समर्थितत्वेनेत्यर्थः ।
इतीति ।
उपसंहारोक्तमेतादित्यर्थः ।
घ्ननिर्नाम काव्यप्रकारो न काव्यशब्दवाच्यः प्रसिद्धप्रस्थानातिक्रामित्वादिति परमतस्य प्रसिद्धप्रस्थानातिक्रामित्वादित्यनेन लक्षणकाराप्रसिद्धत्वं लक्ष्याप्रसिद्धत्वं वा विवक्षितमिति विकल्पमभिप्रेत्य यत इत्यादिना दूषणमभिहितमिति व्याचष्टे---लक्षणेत्यादि ।
विरुद्धत्वं साधयति---तत एवेति ।
लक्षणकाराप्रसिद्धत्वादेव ।
काव्यविशेषेषु ध्वनिलक्षणानुगमनेन काव्यशब्दवाच्येष्वपि लक्षणकाराप्रसिद्धत्वहेतोर्वर्तनाद्विरुद्धो हेतुरित्यर्थः ।
तत्तो ऽन्यच्चित्रमेवेत्यग्रे दर्शयिष्यामः ।
यदप्युक्तम्---ऽकामनीयकमनतिवर्तमानस्य तस्योक्तालङ्कारादिप्रकारेष्वन्तर्भावःऽ इति, तदप्यसमीचीनम्; वाच्यवाचकमात्राश्रयिणि प्रस्थाने व्यङ्ग्यव्यञ्जकसमाश्रयेम व्यवस्थितस्य ध्वनेः कथमन्तर्भावः, वाच्यवाचकचारुत्वहेतवो हि तस्याङ्गभूताः, स त्वङ्गिरूप एवेति प्रतिपादयिष्यमाणत्वात् ।
परिकरश्लोकश्चात्र--- व्यङ्ग्यव्यञ्जकसम्बन्धनिबन्धनतया ध्वनेः ।
वाच्यवाचकचारुत्वहेत्वन्तःपातिता कुतः ॥
लोचन.म् यच्च नुत्तगीतादिकल्पं, तत्काव्यस्य न किञ्जित् ।
चित्रमिति ।
विस्मयकृद्वृत्तादिवशात्, न तु सहृदयाभिलषणीयचमत्कारसाररसनिःष्पन्दमयमित्यर्थः ।
काव्यानुकारित्वाद्वा चित्रम्, आलेखमात्रत्वाद्वा, कलामात्रत्वाद्वा ।
अग्र इति ।
प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थितम् ।
द्विधा काव्यं ततो ऽन्यद्यत्तच्चित्रमभिधीयते ॥
इति तृतीयोद्द्योते वक्ष्यति ।
परिकरार्थ कारिकार्थस्याधिकावापं कर्तुं श्लोकः परिकरश्लोकः ।
बालप्रिया गुणादिव्यतिरिक्तस्य तस्य नृत्तादिप्रायत्वमेवेति यदुक्तं तदपि निराकरोति--यच्चेत्यादि ।
काव्यस्येति ।
ध्वनिलक्षणलक्षितस्येत्यर्थः ।
न किञ्जिदिति ।
उपहास्यतामावहतीत्यर्थः ।
वृत्तौ ऽसहृदयहृदयाह्लादकारीऽति ध्वनिगुणीभूतव्यङ्ग्ययोर्ग्रहणमित्यभिप्रायेण ऽततो ऽन्यच्चित्रमेऽवेत्यत्र चित्रपदं व्याचष्टे--विस्मयकृदिति ।
वृत्तादीत्यादिपदेन यमकोपमादिपरिग्रहः विवक्षितं व्यवच्छेद्यमाह--न त्वित्यादि ।
गौणो वा काव्यस्य चित्रपदेन व्यवहार इत्याह--काव्येत्यादि ।
काव्येति ।
ध्वनिकाव्येत्यर्थः ।
विष्णवाद्यनुकारित्वमालेख्यमात्रत्वं कलारूपत्वं च लोकप्रसिद्धचित्राणामस्तीति तद्योगात्काव्ये चित्रशब्दप्रवृत्तिरित्यर्थः ।
वाकारस्समुच्चये ।
वृत्तौ ऽप्रस्थानऽ इति ।
अलङ्कारादावित्यर्थः ।
ऽवाच्येऽत्यादि ।
अलङ्कारादय इत्यर्थः ।
ऽतस्यऽ ध्वनेः ।
ऽसःऽ ध्वनिः ।
ऽप्रतिपादयिष्यमामत्वात्ऽ वक्ष्यमामत्वात् ।
परिकररस्य सापेक्षत्वात्कस्येत्यपेक्षायामाह-कारिकार्थस्येति ।
परिकार्थमित्यस्य व्याख्यानम्-अधिकावापं कर्तुमिति ।
ननु यत्र प्रतियमानस्यार्थस्य वैशद्येनाप्रतीतिः स नाम मा भूद्ध्वनेर्विषयः ।
यत्र तु प्रतीतिरस्ति, यथा-समासोक्त्याक्षेपानुक्तनिमित्तविशेषोक्तिपर्यायोक्तापह्नुतिदी पकसङ्क- रालङ्कारादौ, तत्र ध्वनेरन्तर्भावो भविष्यतीत्यादि निराकर्तुमभिहितम्- ऽउपसर्जनीकृतस्वार्थौऽ इति ।
अर्थो गुणीकृतात्मा, गुणीकृतात्मा, गुणीकृताभिधेयः शब्दो वा यत्रार्थान्तरमभिव्यनक्ति स ध्वनिरिति ।
तेषु कथं तस्यान्तर्भावः ।
व्यङ्ग्यप्राधान्ये हि ध्वनिः ।
न चैतत्समासो लोचनम् यत्रेत्यलङ्कारेः वैशद्येनेति ।
चारुतया स्फुटतया चेत्यर्थः ।
अभिहितमिति भूतप्रयोग आदौ व्यङ्क्त इत्यस्य व्याख्यातत्वात् ।
गुणीकृतात्मेति ।
आत्मेत्यनेन स्वशब्दस्यार्थो व्याख्यातः ।
न चैतदिति ।
व्यङ्ग्यस्य प्रादान्यम् ।
प्राधान्यं च यद्यपि ज्ञप्तौ न चकास्ति; ऽबुद्धौ तत्त्वावभासिन्यांऽ इति नयेनाखण्डचर्वमाविश्रान्तेः, तथापि विवेचकैर्जीवितान्वेषणे क्रियमाणे यदा व्यङ्ग्यो ऽर्थः पुनरपि वाच्यमेवानुप्राणयन्नास्ते तदा तदुपकरणत्वादेव तस्यालङ्कारता ।
ततो वाच्यादेव तदुपस्कृताच्चमत्कारलाभ इति ।
यद्यपि पर्यन्ते रसध्वनिरस्ति, तथापि मध्यकक्षानिविष्टो ऽसौ व्यह्ग्यो ऽर्थो बालप्रिया कारिकायामनुक्तस्याधिकस्यापेक्षितस्यार्थस्यावापः प्रक्षेपः तं कर्तुमित्यर्थः ।
अलङ्कार इति ।
उपमास्वाभावोक्त्यादावित्यर्थः ।
आहेत्यनुक्त्वा ऽअभिहितम्ऽ इत्युक्तेर्बीजमाह--अभिहितमित्यादिना ।
पूर्वोक्तमनुस्मारयति--आत्मेत्यादि ।
ध्वनिगुणीभूतव्यङ्ग्ययोर्द्वयोरपि प्रतीतिदशायां प्राधान्यप्रतीत्यभावस्य तुल्यत्वात्, प्राधान्यं तुल्यमित्याशङ्क्याभिप्रायप्रकटनेन परिहरति--प्राधान्यं चेत्यादि ।
प्राधान्यं व्यङ्ग्यस्य प्राधान्यम् ।
अखण्डेति ।
खण्डो गुमप्राधान्यादिलक्षणो भेदः, तद्रहितो ऽखण्डस्ताद्दशस्य वाक्यार्थीभूतस्य रसादिव्यङ्ग्यस्य चर्वणायां विश्रान्तेः सहृदयमनसां विश्रान्तेरित्यर्थः ।
विवेचकैः सहृदयैः ।
अखण्डचर्वणानन्तरमित्यर्थात् ।
जीवितान्वेषणे क्रियमाम इत्युभयसाधारणम् ।
यदेत्यादि ।
यः पूर्वं वाच्यादुत्तीर्मस्तद्व्यङ्ग्यत्वात्सकक्ष्यान्तरह्गतो ऽपि पुनः पूर्वभाविर्नी वाच्यकक्ष्यां प्रविश्य वाच्यमेवानुप्राणयन्यदा आस्ते इत्यर्थः ।
ऽतदालङ्कारतेऽति सम्बन्धः ।
अवधार्यत इति शेषः ।
तदुपकरणत्वादिति ।
तस्य वाच्यस्य उपकरणत्वदङ्गत्वादित्यर्थः ।
व्यङ्ग्यं विना तच्चारुत्वासिद्धेरिति भावः ।
एवेति ।
नान्यतेत्यर्थः ।
तस्य व्यङ्ग्यस्य ।
अस्त्वेवं किमत इत्यत्राह--तत इत्यादि ।
ततः तस्यालङ्कारत्वात् ।
तदुपस्कृतात् व्यङ्ग्येनालङ्कृतात् ।
चमत्कारलाभ इति ।
यदा पुनर्व्यङ्ग्यो ऽर्थो वाच्येनोपस्कृतः काव्यमनुप्राणटयन्नास्ते तदा तस्माच्चमत्कारलाभ इत्यनेनार्थात् सिध्यति ।
स्वयमङ्गस्य सत्यङ्गिनि किमित्यङ्गान्तरे पर्थवसानमित्याशङ्क्य समाधत्ते---यद्यपीत्यादि ।
मध्यकक्षेति ।
समासोक्त्यादिषु क्त्यादिष्वस्ति ।
समासोक्तौ तावत्---- उपोढरागेम विलोलतारकं तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिशंशुकं तया पुरो ऽपि रागाद्गलितं न लक्षितम् ॥
इत्याद.उ व्यङ्ग्येनानुगतं वाच्यमेव प्राधान्येन प्रतीयते लोचनम् न रसोन्मुखीभवति; स्वातन्त्र्येणापि तु वाच्यमेवार्थ संस्कर्तुं धावतीति गुणीभूतव्यङ्ग्यतोक्त ।
समासोक्ताविति ।
यत्रोक्तौ गम्यते ऽन्यो ऽर्थस्तत्समानैर्विशेषणैः ।
सा समसोक्तिरुदिता संक्षिप्तार्थतया बुधैः ॥
इत्यत्र समासोक्तेर्लक्षणस्वरूपं हेतिर्नाम तन्निर्वचनमिति पादचतुष्टयेन क्रमादुक्तम् ।
उपोढोरागः सान्ध्यो ऽरुणिमा प्रेम चयेन ।
विलोलास्तारका ज्योतींषि नेत्रत्रिभागाश्च यत्र ।
तथेति ।
झटित्येव प्रेमरभसेन च ।
गृहीतमाभासितं परिचुम्बितुमाक्रान्तं च ।
निशाया मुखं प्रारम्भो वदनकोकनदं चेति ।
यथेति ।
झटिति ग्रहणेन प्रेमरभसेन च ।
तिमिरं चांशुकाश्च सूक्ष्मांशवस्तिमिशंशुकं रश्मिशबलीकृतं तमःपटलं, तिमिशंशुकं नीलजालिका नवोढाप्रौढवधूचिता ।
रागाद्रक्तत्वात् सन्ध्याकृतादनन्तरं प्रेमरूपाच्च बालप्रिया प्रथमावाच्यस्य द्वितीया वस्तुव्यङ्ग्यस्य तृतीया रसध्वनेश्च कक्षेति स्थितिः ।
स्वातन्त्र्येणेति ।
वाच्यं---लक्षणमित्यादि ।
लक्षणस्वरूपमिति ।
स्वरूपलक्षणमित्यर्थः ।
ऽलक्षणं स्वरूपम्ऽ इति च पाठः ।
अत्र निशाशशिवृत्तान्तः प्राकारणिकत्वाद्वाच्यो नायकवृत्तान्तस्त्वप्राकरणिकत्वाद्व्यङ्ग्य इत्यभिप्रेत्य समानविशेषणत्वं विवृणोति--उपोढ इत्यादिना ।
ज्योतिषां विलोलत्वं प्रतीत्या ।
नेत्रत्रिभागा इति ।
नेत्रत्रिभागनिरीक्षणानीत्यर्थः ।
तथा गृहीतमित्येत्त्प्रकृतानुगुणतया व्याचष्टे--भक्तिटत्येवेत्यादि ।
आक्रान्तमिति ।
तथैव चुम्वनस्य रसावहत्वात् ।
यथोक्तम्--"वामो हि काम" इति ।
एकरूपत्वार्थं यथाशब्दं व्याचष्टे--भ्क्तटितीत्यादि ।
तिमिरांशुकमित्यत्र रूपकभ्रमं व्यावर्तंयति--तिमिरं चेत्यादि ।
अल्पार्थे क इत्याभिप्रायेणंशुकपदं व्याचष्टे---सूक्ष्मांशव इति ।
अर्थाच्छशिनः ।
तिमिएंशुकमिति द्वन्द्वैकवद्भावः ।
फलितमाह---रश्मीति ।
शवलं चित्रम् ।
नीलजालिकेति ।
नीलवर्णपट्टवसनस्य कामशास्त्रप्रसिद्धं नाम ।
तस्यात्रौचित्यादुक्तिरित्याह---नवोढेत्यादि ।
प्रकृते तिमिरांशुकगलनं प्रतिरागस्याहेतुत्वात् पूरयति-अनन्तरमिति ।
पुर इत्यस्य व्याख्यानम्-पूर्वस्यामित्यादि ।
लोचनम् हेतोः ।
पुरो ऽपि पूर्वस्यां दिशि अग्रे च ।
गलितं प्रशान्तं पतितं च ।
रात्र्या करणभूतया समस्तं मिश्रितम्; उपलक्षणत्वेन वा ।
न लक्षितं राक्षिप्रारम्भो ऽसाविति न ज्ञातं, तिमिरसंवलितांशुदर्शने हि रात्रिमुखमिति लोकेन लक्ष्यते न तु स्फुट आलोके ।
नायिकापक्षे तु तयेति कर्तृपदम् ।
लाक्षिपक्षे तु अपिशब्दो लक्षितमित्यस्यानन्तरः ।
अत्र च नायकेन पश्चाद्गतेन चुम्बनोपक्रमे पुरो नीलांशुकस्य गलनं पतनम् ।
यदि वा ऽपुरो ऽग्रे नायकेन तथा गृहीतं मुखम्ऽ इति सम्बन्धः ।
तेनात्र व्यङ्ग्ये प्रतीते ऽपि न प्राधान्यम् ।
तथाहि नायकव्यवहारो निशाशशिनावेव शृङ्गारविभावरूपौ संस्कुर्वाणो ऽलङ्कारतां भजते, ततस्तु वाच्याद्विभावीभूताद्रसनिःष्यन्दः ।
यस्तु व्याचष्टे---ऽतेयानिशयेति कर्तृपदं, न चाचेतनायाः कर्तृत्वमुपपन्नमिति शब्देनैवात्र नायकव्यवहार उन्नीतो ऽभिधधेय एव, न व्यङ्ग्य इत्यत एव समासोक्तिःऽ इति ।
स प्रकृतमेव ग्रन्थार्थमत्यजद्व्यङ्ग्येनानुगतमिति ।
एकदेशविवर्ति चेत्थं रूपकं स्यात्, ऽराजहंसैरवीज्यन्त शरदैव सरोनृपाःऽ इतिवत्, न तु समासोक्तिः; तुल्यविशेषणाभवात् ।
बालप्रिया तिमिरस्य सूक्ष्मांशूनां च सम्मिश्रणं प्रति रात्र्याः करमत्वसम्भवात्तयेति करणे तृतीयेत्याह---करणभूतयेति ।
तन्मिश्रणं प्रति रात्र्याः ज्ञापकत्वरूपोपलक्षणत्वसम्भवात् तयेत्युपलक्षणे तृतीया वेत्याह-उपलक्षणत्वेन वेति ।
तस्या उपलक्षणत्वेन तया मिक्षितमिति सम्बन्धः ।
उपलक्षणेन वेति च पाठः ।
न लक्षितमित्येतदाकारं प्रदर्शयन् व्याचष्टे-रात्रीत्यादि ।
न ज्ञातमिति ।
जनैरिति शेषः ।
लभितमिति भावे क्तः ।
गलितमित्यन्तं भिन्नं वाक्यम् ।
अत एव न लभितमिति हेतुहेतुमद्भावं बोधयितुमाह---तिमिरेत्यादि ।
रात्रिपक्ष इति ।
अनेनान्यत्र पुरो ऽपीत्येव सम्बन्ध इति दर्शितम् ।
अनन्तर इति ।
तथा चापिशब्दो गलनालक्षणयोः समुच्चायक इत्यर्थः ।
कथं नीलाम्बरपुरोगलनमित्यतस्तदुपपादयति-अत्र चेत्यादि ।
चुम्बनौचित्यानुसारेणाह--यदि वेत्यादि ।
पुरश्शब्दस्य व्यवहितेन गृहीतमित्यनेनान्वय इति भावः ।
तेनेति ।
उक्तेनार्थद्वयेनेत्यर्थः ।
प्यङ्ग्ये इति ।
नायकवृत्तान्तरूपव्यङ्ग्ये इत्यर्थः ।
अलङ्कारतां भजत इत्यत्र हेतुगर्भं विशेषणम्---निशेत्यादि ।
संस्कुर्वामः आरोपेणालङ्कुर्वाणः ।
एवं व्यङ्ग्यस्य गुणीभूतत्वं प्रदर्श्य रसापेक्ष्या ध्वनित्वमप्यस्तीति दर्शयिन्तुमाह--तत इत्यादि ।
ततः संस्कृतात् ।
विभावीभूतादिति ।
पूर्वं विभावभावमननुभवतः संस्करणानन्तरं प्राप्तविभावादित्यर्थः ।
शब्देनेति ।
निशाशशिशब्देनेत्यर्थः ।
उन्नीतः अनुमितः, कल्पितो वा ।
अभिघे. एवेति ।
अभिधातिरिक्तव्यापारभावादिति भावः ।
समासोक्तिरिति संज्ञाबलाच्चाभिधेयत्वनिश्चय इत्याह---अत एवेत्यादि ।
प्रत्याचष्टे---स इत्यादि ।
ऽइति ग्रन्थार्थम्ऽ इति सम्बन्धः ।
दूषणान्तरमाह--एकदेशेत्यादि ।
इत्थमिति ।
नायकव्यवहारस्यभिधेयत्व इत्यर्थः ।
इतिवदिति ।
यथात्र सरोनृपा समारोपितनायिकानायकव्यवहारयोर्निशाशशिनोरेव वाक्यार्थत्वात् ।
आक्षेपे ऽपि व्यङ्ग्यविसेषाक्षेपिणो ऽपि वाच्यस्यैव चारुत्वं प्राधान्येन वाक्यार्थ आक्षेपोक्तिसामर्थ्यादेव ज्ञायते ।
तथाहि-तत्र शब्दोपारूढो विशेषाभिधानेच्छया प्रतिषेष लोचनम् गम्यत इति चानेनाभिधाव्यापारनिरासादित्यलमवान्तरेण बहुना ।
मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0