ध्वन्यालोक (टीका सहित) · भाग 6180
स्फोटवादिनो वैयाकरणादय इत्यर्तः ।
स अविद्येति ।
अविद्यापदं व्यवहारमार्गः ।
अस्मच्छास्त्रकारेण आनन्दवर्धनाचार्येण ।
न न विदितं विदितमेव ।
अत्र हेतुः--तत्तवालोग्रन्थं विरचयतेति ।
लोचनम् यत्तु भट्टनायकेनोक्तम्--इह दृप्तसिंहादिपदप्रयोगे च धार्मिकपदप्रयोगे च भयानकरसावेशकृतैव निषेदावगतिः तदीयभीरुवीरत्वप्रकृतिनियमावगममन्तरेणैकान्ततो निषेधावगत्यभावादिति तन्न केवलार्थसामर्थ्यनिषेधावगतेर्निमित्तमिति ।
तत्रोच्यतेकेनोक्तमेतत् ऽवक्तृप्रतिपत्तृविशेषावगमविरहेण शब्दगतध्वननव्यापारविरहेण च निषेधावगतिःऽ इति ।
प्रतिपत्तृपिरतिभासहकारित्वं ह्यस्माभिर्द्येतनस्य प्राणत्वेनोक्तम् ।
भयानकरसावेशश्च न निवार्यते, तस्य भयमात्रोत्पत्त्यभ्युपगमात् ।
प्रतिपत्तुश्च रसावेशो रसाभिव्यकत्यैव ।
रसश्च व्यङ्ग्य एव, तस्य च शब्दवाच्यत्वं तेनापि नोपगतमिति बालप्रिया यत्वित्यादि ।
उक्तिप्रकारमाह--इहेत्यादि ।
इह ऽभ्रमेऽत्यादौ ।
भयानकरसावेशकृतैव निषेधावगतिरिति सम्बन्धः ।
कुत इत्यत आह--दृप्तेत्यादि ।
निमित्तरूपार्थे सप्तम्यौ ।
श्वमारणनिमित्तभ्रमणविधिसिद्धं धार्मिकभीरुत्वं विना निषेधार्थो न सिध्यतीति धार्मिकेत्याद्युक्तम् ।
तावन्मात्रेणापि गृहभ्रमणविधिरेवानुगृहीतो भवति, न प्रकृतनिषेध इत्यतो दृप्तसिंहादीतिच ।
एवकारो भयानकरसावेशस्य निषेधावगतिजनने प्राधान्यं दर्सयति ।
ध्वननव्यापारेणैवास्तु निषेधावगतिः, किमित्येवं कल्प्यत इत्यत्राह--तदीयेत्यदि ।
तदीययोः धार्मिकसिंहसम्बन्धिनोः ।
भीरुत्ववीरत्वरूपयोः प्रकृत्योः स्वभावयोः नियमस्याविनाभावस्यावगमं ज्ञानम् ।
अन्तरेण विना ।
एकान्ततः कारणान्तरेम तन्नियमात् ।
ध्वननव्यापारमात्रेणेति यावत् ।
य निषेधेति ।
भ्रमणनिषेधेत्यर्थः ।
फलितमाह--इतीत्यादि ।
इति तदिति ।
इत्युक्ताद्धेतोरित्यर्थः ।
अर्थसामर्थ्यस्यापि सहकारितया हेतुत्वलानपायं केवलपदेन दर्शयति ।
ऽइति यत्तु उक्तम्ऽ इति सम्बन्धः ।
ऽतन्न केवलेऽत्यादिकं श्रुत्वा तदसहमानो ध्वनिवाद्याहकेनेत्यादि ।
ऽइत्येतत्केनोक्तम्ऽ इति सम्बन्धः. यद्वा---एतदिति वक्तृप्रतीत्यादिसमासघटकम् ।
एतस्य वाक्यस्य सम्बन्धिनौ एतौ वा यौ वक्तृप्रतिपत्तृविशेषौ सङ्केतस्थानपरिरक्षणोत्सुककामिनीभीरुधार्मिकौ, तयोरवगमस्य विरहेण अभावेन ।
विशेषपदेन वक्तृगतस्वैरिणीत्वादिकं प्रतिपत्तृगतप्रतिभादिकं च विवक्षितम् ।
ननु त्वयैवोक्तमित्यात्राह--प्रतिपत्र्रिति ।
तदुक्तं कञ्चिदंशमनुजानन् विरुद्धमंशं निराकरोति---भयानकेत्यादि ।
न निवार्यत इति ।
तस्यास्तित्वमात्रं न निषेधावगतिं प्रति हेतुत्वमिति भावः ।
कथं बोद्धव्ये धार्मिके भयानकरसावेश इत्यत आह--तस्येत्यादि ।
तस्य भयानकरसावेशस्य ।
भयमात्रोत्पत्त्येति ।
प्रकृत्यादित्वात्तृतीया ।
तद्रूपस्य पस्येत्यर्थः ।
मात्रपदेन रस्त्वं व्युदस्यते ।
अभ्युपगमात् बोद्धव्ये स्वीकारात् ।
तथैक किं सहृदयस्य नेत्याह--प्रतिपत्तुरित्यादि ।
प्रतिपत्तुः सहृदयस्य तु रसो ऽभिव्यज्यते, नोत्पद्यते ।
तदभिव्यक्त्या तदावेशश्च भवतीत्यर्थः ।
बोद्धव्यस्य भयमिव,सहृदयस्य रसो ऽप्युत्पद्यतां किं तदभिव्यक्तिकल्पनयेत्यत आह--रसश्चेत्यादि ।
लोचनम् व्यङ्ग्यत्वमेव ।
प्रतिपत्तुरपि रसावेशो न नियतः, न ह्यसौ नियमेन भीरुधार्मिसब्रह्मचारी सहृदयः ।
अथ तद्विशेषो ऽपि सहकारी कल्प्यते, तर्हि वक्तृप्रतिपत्तृप्रतिभाप्राणितो ध्वननव्यापारः किं न सह्यते ।
किं च वस्तुध्वनिं दूषयता रसध्वनिस्तदनुग्राहकः समर्थ्यत इति सुष्ठुतरां ध्वनिध्वंसो ऽयम् ।
यदाह--ऽक्रोधो ऽपि देवस्य वरेण तुल्यःऽ इति ।
अथ रसस्यैवेयता प्राधान्यमुक्तम्; तत्को न सहते ।
अथ वस्तुमात्रध्वनेरेतदुदाहरणं न युक्तमित्युच्यते तथापि काव्योदाहरणत्वाद्द्वावप्यत्र ध्वनी स्तः, को दोषः ।
यदि तु रसानुवेधेन विना न तुष्यति, तत् भयानकरसानुवेधो नात्र सहृदयहृययदर्पणमध्यास्ते; अपि तु उक्तनीत्या सम्भोगाभिलाषविभावसङ्केतस्थानोचिताविशिष्टकाक्वाद्यनुभावशबलनोदितशृङ्गररसानुवेधः ।
बालप्रिया फलितमाह--इतीति ।
यद्यस्ति प्रतिपत्तू रसाभिव्यक्तिः, तर्हि तयैवास्तु निषेदावगतिरित्यत्राह--प्रतिपत्तुरपीत्यादि ।
प्रतित्तुरपि सहृदयस्यापि ।
नियतः अविनाभूतः ।
उक्तमुपपादयति--न हीत्यादि ।
सब्रह्यचारी सद्दशः ।
कस्यचिद्भयानकरसास्वादसम्भवे ऽपि वीरादिप्रकृतेः प्रतिपत्तुस्तदसम्भवात्, भयानकरसाभिव्यक्त्या निषेषप्रतीतिर्न भवतीति भावः ।
शङ्कते--अथेति ।
तद्विशेषो ऽपि प्रतिपत्तृविशेषो ऽपि ।
विशेषो भीरुस्वभावत्वम् ।
सहकारीति ।
भयानकरसाभिव्यक्ताविति शेषः ।
परिहरति--तर्हीत्यादि ।
उक्तनयेनापसिद्धान्तापातादपि रसावेशकृता निषेधावगतिरिति वक्तुं न शक्यमित्युपहासमुखेनाह--किञ्चेत्यादि ।
दूषयतेति ।
भयानकविभावादीनभिदधत्या तद्रसावेशशक्तिसहकारिण्या अभिधया अर्थादभिहित एवायं निषेध इत्यभिप्रायेण दूषयतेत्यर्थः ।
क्रोधो ऽपीत्यादि ।
तदिहायातमिति शेषः ।
क्रोधो हि शापेन तुल्यः ।
अत्र तु वरेणेति भावः ।
शङ्कते--अथेति ।
रसस्य प्राधान्यमेव दर्शितं न तु वस्तुध्वनेर्दूषणमित्यर्थः ।
परिहरति--तदिति ।
तत् तर्हि ।
को न सहत इति ।
वस्तुध्वने रसध्वन्यङ्गत्वमिष्टमिति भावः ।
पुनरपि शङ्कते--अथेति ।
परिहरति-तथापीति ।
ध्वनी स्तामिति ।
कामचाराभ्यनुज्ञाने लोट् ।
अत्र हेतुः--काव्येति ।
ननु कामचारभ्यनुज्ञानं न युक्तं, रसस्यैव सहृदयाह्लादकारित्वादित्यत आह--यदि त्वित्यादि ।
अनुवेधः आवेशः ।
तुष्यतीति ।
सहृदय इति शेषः ।
तुष्यते इति पाठे सहृदयेनेति शेषः ।
उक्तनीत्येति ।
कस्याश्चित् सङ्केतस्थानं जीवितसर्वस्वायमानमिति पूर्वोक्तरीत्येत्यर्थः ।
सम्भोगेति ।
सम्भोगाभिलाषस्य विभावः उद्दीपनविभावभूतं यत्सङ्केतस्थानं तस्य ।
तथा तस्यैवाभिलाषस्य उचिताः सम्भोगानुगुण्याद्विशिष्टाश्च ये काक्वादयः अनुभावाः, आदिपदेन तात्कालिक्यो ऽन्याश्चेष्टा ग्राह्याः ।
तेषाञ्च शबलनात्संवलनादुदितो ऽभिव्यक्तो यः शृङ्गाररसः, तस्यानुवेध लोचनम् रसस्यालौकिकत्वात्तावन्मात्रादेव चानवगमात्प्रथमं निर्विवादसिद्धविविक्तविधिनिषेधप्रदर्शनाभिप्रायेण चैतद्वस्तुध्वनेरुदाहरणं दत्तम् ।
यस्तु ध्वनिव्याक्यानोद्यतस्तात्पर्यशक्तिमेव विवक्षासूचकत्वमेव वा ध्वननमवोचत्, स नास्माकं हृदयमावर्जयति ।
यदाहुः--ऽभिन्नरुचिर्हि लोकःऽ इति ।
तदेतदग्रे यथायथं प्रतनिष्याम इत्यास्तां तावत् ।
भ्रमेति ।
अतिसृष्टो ऽसि प्राप्तस्ते भ्रमणकालः ।
धार्मिकेति ।
कुसुमाद्यूपकरणार्थं युक्तं ते भ्रमणम् ।
विस्रब्ध इति शङ्कारणवैकल्यात् ।
स इति पुनरस्यानुत्थानम् ।
तेनेति ।
यः पूर्वं कर्णोपकर्णिकया त्वयाप्याकर्णितो गोदावरीकच्छगहने प्रतिवसतीति ।
पूर्वमेव हि तद्रक्षायै तत्तयोपश्रावितो ऽसौ; स चाधुना तु बालप्रिया इत्यर्थः ।
सहृदयहृदयदर्पणमध्यास्त इत्यनुषङ्गः ।
विवेचनदशायामत्र भयानकविभावादयो न प्रतीयन्ते, अपि तु शृङ्गरसम्बन्धिन एवेति भावः ।
ननु यदि शृङ्गारध्वनिरत्राङ्गी, तर्हि कुतस्तदुदाहरणत्वेनेयं गाथा नोक्ता? वस्तुध्वन्युदाहरमतयोक्ता चेत्यत आह--रसस्येत्यादि ।
तावन्मात्रादेव उदाहरणमात्रादेव ।
अनवगमात् अवगमासम्भवात् ।
वक्ष्यमाणयुक्तिभिरेव रसस्वरूपज्ञानसम्भवादिति भावः ।
तावन्मात्रादेवेत्यस्य लोकमात्रादेवेत्यर्थ इति केचित् ।
निर्विवादेति ।
निर्विवादसिद्धं विविक्तं विवेको भेदो ययोर्विधिनिषेधयोः ।
एतदुक्तं भवति--रसध्वनिर्हि काव्यात्मत्वेन प्रतिपिपादयिषितः ।
स च प्रमाणेन केनापि न सिद्धो लोके, नाद्यापि काव्यव्यापारविषयतया च ।
अतस्तत्प्रतिपादनार्थमारभमाणेन तदुपोद्धाततया प्रथमं वस्तुध्वन्यादिकमन्यदेव वाच्याद्भिन्नत्वेन प्रदर्शनीयं, पश्चादविवादसिद्धे ध्वनिसामान्ये साक्षाल्लक्षणीयो रसध्वनिरुदाहरणीय इति ।
यस्त्वित्यादि ।
विवक्षायाः विवक्षितार्थस्य ।
सूचकत्वमनुमापकत्वम् ।
नावर्जयतीति ।
निर्युक्तिकत्वादिति भावः ।
नन्वेतद्द्वयातिरिक्तं नाद्यपि हृदयपथमवतरतीत्यत्राह--तदेतदिति ।
यदुक्तमतिसर्गप्राप्तकालयोर्ह्ययं लोडिति, तदनुरोधेन व्याचष्टे--भ्रमेत्यादि ।
स इत्यनुभूतार्थकमित्याह--यस्त इति ।
ऽअद्येऽति पदं पूर्वं बिधिः प्रतिकूलो ऽभूदिदानीं तु भवद्भाग्यमहिम्नानुकूलो जात इत्यर्थं द्योतयतीत्यह--दिष्ट्यति ।
ऽमारितऽ इत्यादेर्व्यङ्ग्यं दर्शयति--मारित इतीत्यादिना ।
ऽतेनेऽति पदमप्यनुभूतार्थकमित्याह--यः पूर्वमिति ।
ऽवसतीत्याकर्णितऽ इति सम्बन्धः ।
ननु स्वैरिण्या गोदावरीतीरे सिंहसद्भावस्स्वयमारोपितः ।
तत्कथमेवमुक्तमित्यतो व्याख्याता तदूपपादयति--पूर्वमेवेत्यादि ।
तद्रज्ञायै सङ्केतस्थानरक्षणार्थम् ।
तत्तयोपश्रावितो ऽसाविति ।
तत् सिंहनिवासवृत्तम् ।
असौ धार्मिकः ।
सङ्केतस्थानरक्षणार्तमन्यापदेशेन ववचिद्वाच्ये प्रतिषेधरूपे विधिरूपो यथा-- अत्ता एत्थ णिमज्जै एत्य अहं दिअसअं पलोएहि ।
मा पहिअ रत्तिअन्धअ सेज्जाए मह णिमज्जहिसि ॥
लोचन.म् दृप्तत्वात्ततो गहनान्निस्सरतीति प्रसिद्धगोदावरीतीरपरिसरानुसरणमपि तावत्कथाशेषीभूतं का कथा तल्लतागहनप्रवेशशङ्कयेति भावः ।
अत्ता इति ।
श्वश्रूरत्र शेते अथवा निमज्जति अत्राहं दिवसकं प्रलोकय ।
मा पथिक रात्र्यन्ध शय्यायामावयोः शयिष्टाः ॥
मह इति निपातो ऽनेकार्तवृत्तिरत्रावयोरित्यर्थे न तु ममेति ।
एवं हि विशेषवचनमेव शङ्काकारि भवेदिति प्रच्छन्नाभ्युपगमो न स्यात् ।
काञ्चित्प्रोषितपतिकां तरुणीमवलोक्य प्रवृद्धमदनाङ्कुरः संपन्नः पान्थो ऽनेन निषेधद्वारेण तयाभ्युपगत इति निषेधाभावो ऽत्र बालप्रिया पूर्वं स्वैरिण्यै वृत्तान्तो ऽयं सख्यादिद्वारा धर्मिकस्य कर्णगोचरीकृत इत्यर्थः ।
नन्वेवं किमिति स्वयमुक्तमित्यत आह--स चाधुना त्विति ।
सः सिंहः ।
गहनान्निस्सरतीति ।
इतीत्यनन्तरं तयासावुपश्राव्यत इति शेषः ।
धर्मिकस्य शङ्गा मा भूदिति ऽगौदेऽत्याद्यनुवादपूर्वकंसिंहस्य दृप्तत्वादिविशेषो बोध्यत इति भावः ।
विशेषबोधनस्य फलमाह--प्रसिद्धेत्यादि ।
इति भाव इति ।
बोध्यत इति शेषः ।
एते चार्थाः भ्रमणनिषेधव्यञ्जने सहकारिभूताः ।
एवमुपर्यपि बोध्यम् ।
"णिमज्जै" इत्यस्य छायां द्वेधा दर्शयति---शेत इत्यादि ।
अनेकार्थवृत्तिरिति ।
बगुलटनान्च इत्यर्थः ।
एवं हि प्रच्छन्नाभ्युपगमो न स्यादिति सम्बन्धः ।
अत्र हेतुमाह--विशेषेति ।
शङ्केति ।
श्वश्र्वादिशङ्केत्यर्थः ।
प्रच्छन्नेति ।
प्रच्छन्नत्वाभावे ऽभ्युपगमस्य न सहृदयचमत्कारकारितेति भावः ।
काञ्चिदित्यादि ।
तरुणीमाकारैः प्रोषितपतिकां चालोक्येत्यर्थः ।
ऽसम्पन्नऽ इत्यनेनास्य सम्बन्धः ।
प्रवृद्धेति ।
दर्शनक्षणे मदनाङ्कुरो जातस्तदीयसौन्दर्यादेर्मुहुरवलोकनादिना स प्रवृद्धः ।
अनेन मा शयिष्टा इत्युक्तेन ।
निषेध एव द्वारमुपायस्तेन ।
तया प्रोषितपतिकया ।
लोचनम् विधिः ।
न तु निमन्त्रणरूपो ऽप्रवृत्तप्रवर्तनास्वभावः सौभाग्याभिमानखण्डनाप्रसङ्गात् ।
अत एव रात्र्यन्धेति समुचितसमयसंभाव्यमानविकाराकुलितत्वं ध्वनितम् ।
भावतदभावयोश्च साक्षाद्विरोधाद्वाच्याद्व्यस्य स्फुटमेवान्यत्वम् ।
यत्त्वाह भट्टनायकः--ऽअहमित्यभिनयविशेषेणात्मदशावेदनाच्छाब्दमेतदपीऽति ।
तत्राहमिति शब्दस्य तावन्नायं साक्षादर्थः; काक्वादिसहायस्य च तावति ध्वननमेव व्यापार इति ध्वनेर्भूषणमेतत् ।
अत्तेति प्रयत्नेनानिभृतसंभोगपरिहारः ।
अथ यद्यपि भवान्मदनशरासारदीर्यमाणहृदय उपेक्षितुं न युक्तः, तथापि किं करोमि पापो दिवसको ऽयमनुचितत्वात्कुत्सितो ऽयमित्यर्थः ।
प्राकृते पुंनपुंसकयोरनियमः ।
न च सर्वथा त्वामुपेक्षे, यतो ऽत्रैवाहं तत्प्रलोकय नान्यतो ऽहं गच्छमि, तदन्योन्यवदनावलोकनविनोदेनोदेन बालप्रिया अभ्युपगतः शयनाभ्युपगमः कृतः ।
फलितमाह--इतीत्यादि ।
विधिरिति ।
स च पान्थगतनिषेधशङ्कानिवृत्त्यर्थः ।
न त्वित्यत्र हेतुमाह--सौभाग्येति ।
विधेर्निमन्त्रणरूपत्वे स्वानुरागप्रकाशनादिति भावः ।
व्याख्याते ऽर्थे प्रमाणत्वेन पदान्तरमवतारयति--अत एवेत्यादि ।
अत एव यतो विधिर्निषेधाभावरूपस्तत एव ।
समुचितेति ।
समुचिते सम्भोगयोग्ये समये रात्रौ भविष्यतीत्यात्मना सम्भाव्यमानो यो ऽर्थः तन्निमित्तका ये विकराः ।
यद्वा-भविष्यन्तीति सम्भाव्यमाना ये विकाराः तैराकुलितत्वमित्यर्थः ।
तद्व्वननेनात्मनः सौभाग्याभिमानः ख्यापित इति भावः ।
भावेति ।
व्यङ्ग्यशयनक्रियाविधिलक्षणस्य भावस्य वाच्यतदभावस्य चेत्यर्थः ।
अहमित्यादि ।
अभिनयविशेषसहितेनाहमिति पदेनेत्यर्थः ।
आत्मदशेति ।
स्वीयकामावस्थेत्यर्थः ।
एतदपि निषेधद्वारा अभ्युपगमनमपि ।
अपिशब्दो ऽर्थान्तरसमुच्चये ।
शाब्दं शब्दाभिधेयम् ।
प्रतिवक्ति---तत्रेत्यादि ।
अयमिति ।
उक्त इत्यर्थः ।
काक्वादीति ।
आदिपदेनाभिनयो गृह्यते ।
तावति उक्तार्थे ।
वाच्यार्थं सिद्धवत्कृत्योक्तव्यङ्ग्यशेषतयावान्तरवाक्याभिप्रायं विवृणोति--प्रयत्नेनेत्यादि ।
विधेय इति शेषः ।
अनुरागातिरेकेण सम्भावितो य आवयोरनिभृतः सम्भोगः तस्य परिहारः ।
पूर्वव्याख्यातरात्र्यन्दपदार्थाभिप्रायेणाह---भवानिति ।
उपेक्षितुं न युक्त इत्यनेन स्वस्याभिलाषो ऽपि प्रदर्शितः ।
अनुचितत्वादिति ।
सम्भोगायोग्यत्वादित्यर्थः ।
ऽदिअसअम्ऽ इत्यस्य कथं प्रथमान्ततया व्याख्यानमित्यत आह---प्रकृत इति ।
न चोपेक्षे क्वचिद्वाच्ये विधिरूपे ऽनुभयरूपो यथा--- वच्च मह व्विअ एक्केइ होन्तु णीसासरोइअव्वाइं ।
मा तुज्ज वि तीअ विणा दक्खिण्णहअस्स जाअन्तु ॥
लोचनं दिनं तावदतिवाहयाव इत्यर्थः ।
प्रतिपन्नमात्रायां च रात्रावन्धीभूतो मदीयायां शय्यायां मां श्लिषः, अपि तु निभृतनिभृतमेवात्ताभिधाननिकटकंण्टकनिद्रान्वेषणपूर्वकमितीयदत्र ध्वन्यते ।
व्रज ममैवैकस्या भवन्तु निःश्वासरोदितव्यानि ।
मा तवापि तया विना दाक्षिण्यहतस्य जनिषत ॥
अत्र व्रजेति विधिः ।
न प्रमादादेन वायिकान्तरसंगमनं तव, अपि तु गाढानुरागात्, येनान्याद्दङ्मुखरागः गोत्रस्खलनादि च, केवलं पूर्वकृतानुपालनात्मना दाक्षिण्येनैकरूपत्वाभिमानेनैव बालप्रिया इति सम्बन्धः ।
प्रतिपन्नमात्रायामितिर् ।
इषदर्थे मात्राशब्दः ।
अन्धीभूतो मा शिलष इति ।
अन्धीभूतत्वेन श्लेषणं निषिध्यते, न तु श्लेषणमात्रम् ।
अत्तेति ।
अत्त इत्यभिधानं यस्य सः ।
ऽदत्तावधानेऽति पाठे स्वभावत एव सावधान इत्यर्थः ।
कण्टक श्वश्रूरूपः ।
स्वाभिमतविरोधित्वेनानिष्टकारित्वात्कण्टकत्वेनोक्तिः ।
पूर्वकमिति ।
शय्यं प्रप्नुहीति शेषः ।
इयदिति ।
उक्तमित्यर्थः ।
विधिरिति ।
वाच्य इति शेषः ।
व्यङ्ग्यमाह---न प्रमादादित्यादि ।
त्वमेकरूपताभिमानेन अहमेकरूप इत्यभिमानेन ।
अत्र मद्विषये ।
ऽस्थित इति यत् तत् केवलं दाक्षिण्येनैवेऽति सम्बन्धः ।
केवलैवकाराभ्यामनुरागरूपहेतोर्व्यवच्छेदः ।
अत एवाह-पूर्वेति ।
पूर्वकृतेन पूर्वकर्मणा अद्दष्टेन हेतुना यदनुपालनं मत्पालनम् ।
यद्वा-पूर्वकृतं यद्दाक्षिण्यं तस्यानुपालनमविच्छेदेन पालनं तदात्मना दाक्षिण्येन ।
फलितमाह--तदित्यादि ।
क्वचिद्वाच्ये प्रतिषेधरूपे ऽनुभयरूपो यथा----
दे आ पसिअ णिवत्तसु मुहससिजोह्लाविलुत्ततमणिवहे ।
अहिसारिआणं विग्धं करोसि अणणाणं वि हआसे ॥
लोचन.म् त्वमत्र स्थितः, तत्सर्वथा शठो ऽसीति गाढमन्युरूपो ऽयं खण्डितनायिकाभिप्रायो ऽत्र प्रतीयते ।
न चासौ व्रज्याभावरूपो निषेधः, नापि विध्यन्तरमेवान्यनिषेधाभावः ।
दे इति निपातः प्रार्थनायाम् ।
आ इति तावच्छब्दार्थे ।
तेनायमर्तः-- प्रार्थये तावत्प्रसीद निवर्तस्य मुखशशिज्योत्स्नाविलुप्ततमोनिवहे ।
अभिसारिकाणां विध्नं करोष्यन्यासामपि हताशे ॥
अत्र व्यवसिताद्गमनान्निवर्तस्वेति प्रतीतेर्निषेधो वाच्यः ।
गृहागता नायिका गोत्रस्खलिताद्यपराधिनि बालप्रिया सर्वथेति ।
तत्रैवासक्तत्वेन, उभयत्रापि वेत्यर्थः ।
अनुभयरूपत्वं विवृणोति--न चेत्यादि ।
व्रज्याभावरूप इति ।
व्रज्या गमनम् ।
अन्यनिषेधा भाव इति ।
व्रज्यापेक्षया अन्यो निषेधाभाव इत्यर्थः ।
तदात्मकं विध्यन्तरमिति सम्बन्धः ।
अभिप्रायरूपव्यङ्ग्यस्य तदुभयरूपत्वाभावादिति भावः ॥
ऽप्रार्थयऽ इत्यादौ निषेधवाचकस्य नञादेरप्रयोगादसङ्गतिमाशङ्क्याह---अत्रेत्यादिना ।
निवर्तस्वेत्यनेन मागम इत्यर्थस्योक्ततया गमननिषेधो वाच्य इति भावः ।
व्यङ्ग्यबोधाङ्गतया वक्त्रादिविशेषं दर्शयति---गृहागतेत्यादि ।
ऽअन्यासामपीऽत्यापिशब्दार्थमाह--न केवलमित्यादि ।
लोचनम् नायके सत ततः प्रतिगन्तुं प्रवृत्ता, नायकेन चाटूपक्रमपूर्वकं निवर्त्यते ।
न केवलं स्वात्मनो मम च निर्वृतिविध्नं करोषि, यावदन्यासामपि; ततस्तव न कदाचन सुखलवलाभो ऽपि भविष्यतीत्यत एव हताशासीति वल्लभाभिप्रायरुपश्चाटुविशेषो व्यङ्ग्यः ।
यदि वा सख्योपदिश्यमानापि तदवधीरणया गच्छन्ती सख्योच्यते-न केवलमात्मनो विध्नं करोषि, लाघवादबहुमानास्पदमात्मानं कुर्वती, अत एव हताशा, यावद्वदनचन्द्रिकाप्रकाशितमार्गतयान्यासामप्यभिसारिकाणां विध्नं करोषीति सख्यभिप्रायरूपश्चादुविशेषो व्यङ्ग्यः ।
अत्र तु व्याख्यानद्वये ऽपि व्यवसितात्प्रतीपगमनात्प्रियतमगृहगमनाच्च निवर्तस्वेति पुनरपि वाच्य एव विश्रान्तेर्गुणीभूतव्यङ्ग्यभेदस्य प्रेयोरसवदलङ्कारस्योदाहरणमिदं स्यात्, न ध्वनेः ।
तेनायमत्र भावः--काचिद्रभसात्प्रियतममभिसरन्ती तद्गृहाभिमुखमागच्छता तेनैव हृदयवल्लभेनैवमुपश्लोक्यते ऽप्रत्यभिज्ञानच्छलेन, अत एवात्मप्रत्यभिज्ञापनार्थमेव नर्मवचनं बालप्रिया निर्वृतिविघ्नमिति ।
विघ्नपदेनात्र निर्वृतिविध्नो विवक्षित इति भावः ।
फलितमाह--तत इत्यादि ।
ततः सर्वेषामपि सुखविघ्नकरणात् ।
अत एवेति. सुखलेशस्याप्यलाभादेवेत्यर्तः ।
हतेति ।
हता विषयालाभाद्भग्ना आशा यस्याः सा ।
एवं वाच्यार्थं व्याख्याय व्यङ्ग्यं दर्शयति--इतीत्यादि ।
इतीति हेतौ ।
उक्तेन वाच्यर्थेन हेतुनेत्यर्थः ।
वल्लभेति ।
त्वत्सद्दशी नान्य काचिदित्येवंरूपो यो वल्लभाभिप्रायः, तद्रूप इत्यर्थः ।
प्रकारान्तरेण व्याचष्टे---यदि वेत्यादि ।
ऽन केवलमात्मनो विध्नं करोषि, यावदन्यासामपीऽति सम्बन्धः ।
आत्मनो विध्नं करोषीत्यस्य विवरणम्---लाघवादित्यादि ।
अत एव अबहुमानास्पदत्वकरणादेव ।
सख्यभिप्राय इति ।
स च पूर्ववद्वोध्यः ।
प्रतीपगमनादिति ।
स्वगृहं प्रति गमनादित्यर्थः ।
विश्रान्तेरिति ।
उक्तव्यङ्ग्यस्येति शेषः ।
प्रेयोरसवदिति ।
प्रेयश्च रसवच्चानयोस्समाहारः प्रेयोरसवत्तदात्मकालङ्कारस्येत्यर्थः ।
भावस्य पराङ्गत्वे प्रेयो ऽलङ्कारः ।
रसस्य तत्त्वे रसवदलङ्कारः ।
सखीवचनपक्षे सखीगताया नायिकाविषयकरतेर्भावरूपाया व्यङ्ग्यत्वात्तस्याश्चानुभावरूपतदुक्तार्थद्वारेम ऽनिवर्तस्वेऽति वाक्यार्थं प्रत्यङ्गत्वात्प्रेयो ऽलङ्कारत्वम् ।
नायकोक्तिपक्षे तूक्तरीत्या रसवदलङ्कारत्वमित्यर्थः ।
न ध्वनेरिति ।
तथा च प्रक्रमविरोध इति भावः ।
तेनायमिति ।
अयं वक्ष्यमाणप्रकारः ।
उपश्लोक्यत इति ।
मुखेन्दुकान्तिवर्णनादिरूपोपश्लोकनमात्राभिप्रायकमेतदित्यर्थः ।
ननु गूढाभिसरणे नायिकायाः साक्षान्नायकेनोपश्लोकनमनुचितमित्यत्राह--अप्रतियबिज्ञानच्छलेनेति ।
अप्रत्यभिज्ञानं क्वचिद्वाच्याद्विभिन्नविषयत्वेन व्यवस्थापितो यथा--
कस्स वण होइ रोसो दट्ठूण पिआएं सव्वणं अहरम् ।
लोचनम् हताश इति ।
अन्यासाञ्च विध्नं करोषि तव चेप्सितलाभो भविष्यतीति का प्रत्याशा ।
अत एव मदीयं वा गृहमागच्छ, त्वदीयं वा गच्छावेत्युभयत्रापि तात्पर्यादनुभयरूपो वल्लभाबिपारायस्चाट्वात्मा व्यङ्ग्य इत्यतेयेव व्यवतिष्टते ।
अन्ये तु---ऽतटस्थानां सहृदयानामभिसारिकां प्रतीयमुक्तिःऽ इत्याहुः ।
तत्र हताशे इत्यामन्त्रणादि युक्तमयुक्तं वेति सहृदया एव प्रमाणम् ।
एवं वाच्यव्यङ्ग्ययोर्धार्मिकपान्थप्रियतमाभिसारिकाविषयैक्ये ऽपि स्वरूपभेदाद्भेद इति प्रतिपादितम् ।
अधुना तु विषयभेदादपि व्यङ्ग्यस्य वाच्याद्भेद इत्याह--क्वचिद्वाच्यादिति ।
व्यवस्थापिति इति ।
विषयभेदो ऽपि विचित्ररूपो व्यवतिष्टमानः सहृदयैर्व्यवस्थापयितुं शक्यत इत्यर्थः ।
कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम् ।
सभ्रमरपझाघ्राणशीले वारितवामे सहस्वेदानीम् ॥
कस्य्.अ वेति ।
अनीर्ष्यालोरपि भवति रोषो दृष्ट्वैव; अकृत्वापि कुतश्चिदेवापूर्वतया बालप्रिया तद्विषयकप्रत्यभिज्ञानाभावः, तस्य छलेन तदप्रत्यभिज्ञानं स्वस्मिन्नारोप्येत्यर्थः ।
अत एव उपश्लोकनरूपत्वादेव ।
आत्मेति ।
स्वस्य बोधनायेत्यर्थः ।
प्रियडजनेनैव नर्मवचनस्य प्रयोक्तव्यत्वादिति भावः ।
ऽहताश इति नर्मवचनम्ऽ इति सम्बन्धः ।
तत्पदस्योक्तार्थानुगुणमर्थमाह---अन्यासां चेत्यादि ।
अन्यासां च त्वद्गृहगमनोत्सुकस्य मम चेति चकारार्थः ।
व्यङ्ग्यमाह--अत एवेत्यादि ।
अत एव यत एवंरूपो वाच्यार्थः, तत एव ।
ऽमदीयं गृहमागच्छ त्वदीयं वा गृहङ्गच्छावेति चाटवात्मा वल्लभाभिप्रायो व्यङ्ग्यऽ इति सम्बन्धः ।
इयत्येवेति ।
उक्तरूपव्यङ्ग्यः व्यवतिष्टत एव, न तु पश्चाद्वाच्योपस्काराय धावतीत्यर्थः ।
अत्र पक्षे ऽनिवर्तस्वेऽ त्यस्य तवाध्ववसायान्निवर्तस्वेति वाच्यार्थे बोध्यः ।
अन्ये त्विति ।
पक्षे ऽस्मिन् तटस्थानां नायिकाप्रेमाबावात्तेषां वचनं न प्रवर्तकं , न वा निवर्तकमतः पूर्वोक्तव्यङ्ग्यस्य वाच्याङ्गत्वं नेति बोध्यम् ।
आमन्त्रणादीत्यादिपदेन अभिसारिकाविघ्नकरणवचनादेर्ग्रहणम् ।
ननु वृत्तौ ऽव्यवस्थापितऽ इत्युक्तिः कथं सङ्गच्छते व्यवस्थापनस्यानिष्पन्नत्वादित्यतो व्याचष्टे--विषयभेदो ऽपीत्यादि ।
विचित्ररूपः नानाविधः ।
ऽकस्येऽ त्यस्य भावार्थविवरममनीर्ष्यालोरपीत्यादि ।
ऽकस्य वेऽति वाकारो ऽवधारणार्थङ्को दृष्ट्वेत्युत्तरं थोज्य इत्याशयेन व्याचष्टे---दृष्ट्वैवेत्यादि ।
एवकारार्थमाह--अकृत्वापीति ।
सभमरपौमग्घाइणि वारिअवामे सहसु एह्णिम् ॥
अन्ये चैवंप्रकारा वाच्याद्विभेदिनः प्रतीयमानभेदाः प्रतीयमानभेदाः सम्भवन्ति ।
तेषां दिङ्मात्रमेतत्प्रदर्शितम् ।
द्वितीयो ऽपि प्रभेदो वाच्याद्विभिन्नः सप्रपञ्चमग्रे दर्शायिष्यते ।
लोचनम् प्रियायाःसव्रणमधरमवलोक्य ।
सभ्रमरपझाघ्रामशीले शीलं हि कथञ्चिदपि वारयितुं न शक्यम् ।
वारिते वारणायां, वामे तदनङ्गीकारिमि ।
सहस्वेदानीमुपालम्भपरम्परामित्यर्थः ।
अत्रायं भावः---काचिदविनीता कुतश्चित्खण्डिताधरा निश्चिततत्सविधसंनिधाने तद्भर्तरि तमनवलोकमानयेव कयाचिद्विदग्धसख्या तद्वाच्यतापरिहारायैवमुच्यते ।
सहस्वेदानीमिति वाच्यमविनयवतीविषयम् ।
भर्तृविषयं तु-अपराधो नास्तीत्यावेद्यमानं व्यङ्ग्यम् ।
सहस्वेत्यपि च तद्विषयं व्यङ्ग्यम् ।
तस्यां च प्रियतमेन गाढमुपारब्यमानायां तह्यलीकशङ्कितप्रातिवेशकलोकविषयं सौभाग्यातिशयख्यापनं प्रियाया इति शब्दबलादिति सपत्नीविषयं व्यङ्ग्यम् ।
सपत्नीमध्ये इयता खलीकृतास्मीति बालप्रिया वस्तुतस्सव्रणत्वाभावे ऽपीत्यर्थः ।
तर्हि कथं तदवलोक्नमित्यत आह--कुतश्चिदित्यादि ।
केनापि कारणेन प्रगद्दष्टविशेषवत्तया प्रमुखतः सव्रणतया विलोक्येत्यर्थः ।
कृत्वापीति पाठे कृतश्चिल्लाक्षारसादिना केनचिदेव कृत्वापि स्वयं कृत्वापीत्यर्थः ।
कृत्वापीति पाठे कुतश्चिल्लाक्षारसादिना केनचिदेव कृत्वापि स्वयं कृत्वापीत्यर्थः ।
ऽवामेऽ इत्यस्य तदनङ्गीकारिणीति विवरणम् ।
अत्रायं भाव इति ।
उक्ते वाच्यार्थे स्थिते वक्ष्यमाणो व्यङ्ग्यार्थ इत्यर्थः ।
कुतश्चिदिति ।
जारादिनेत्यर्थः ।
तद्वाच्यतेति ।
भर्तुरुपालम्भविषयतेत्यर्थः ।
तस्याः वाच्यतेति वा ।
वाच्यतापरिहारप्रसङ्गः क इत्यत उक्तं निश्चितेति ।
सख्या निश्चितेत्यर्थः ।
सविधः पुरोभागातिरिक्तः प्रदेशः ।
वाच्यव्यङ्ग्ययोर्विषयभेदं दर्शयति-सहस्वेत्यादिना ।
इत्यावेद्यमानमिति ।
निरपराधत्वमित्यर्थः ।
सहस्वेति ।
अधरव्रणावलोकनजनितकोपभरं सहस्वेत्यर्थः ।
इयमेवङ्खण्डिताधरा तदन्यहेतुकत्वशङ्कयामा कुप्येत्यर्थः ।
तस्यां नायिकायाम् ।
उपालब्यमानायामिति ।
प्रियातमागमनसमय इति शेषः ।
तह्यलीकमिति ।
तस्य भर्तुर्व्यलीकमप्रियमनया कृतमिति शङ्कितो यः प्रातिवेशिकलोकस्तद्विषयमित्यर्थः ।
प्रत्यायनं निरपराधत्वबोधनम् ।
तत्सपत्न्यामिति ।
विषयभेदकथनप्रकरणत्वात्सप्तमी, तस्यै इत्यर्थः ।
तदित्यादि ।
तत्पदे नायिकार्थके ।
सौभाग्येति ।
नायिकासौभाग्येत्यर्थः ।
ख्यापनमिति ।
व्यङ्ग्यमिति शेषः ।
इति शब्दबलादिति ।
श्रुतप्रियाशब्दायाः प्रियतमकृतोपालम्भप्रतीत्यनन्तरमियमेव मत्तो ऽधिकतरं सुभगेति प्रतीतिसम्भवादिति भावः ।
इयतेति ।
अविनयस्फुटोट्भावनेनेत्यर्थः ।
खलीकृता लघुःकृता ।
प्रत्युतेति ।
सखीमध्य इत्यनुषज्यते ।
बहुमान इति ।
अविनयस्यात्यन्तप्रच्छादनादिति भावः ।
तृतीयस्तु रसादिलक्षणः प्रभेदो वाच्यसामर्थ्याक्षिप्तः लोचनम् लाघवमात्मनि ग्रहीतुं न युक्तं; प्रत्युतायं बहुमानः, सहस्व शोभस्वेदानीमिति सखीविषयं सौभाग्यप्रख्यापनं व्यङ्ग्यम् ।
अद्येयं तव प्रच्छन्नानुरागिणी हृदयवल्लभेत्थं रक्षिता, पुनः प्रकटरदनदंशनविधिर्न विधेय इति तच्चौर्यकामुकविषयसम्बोधनं व्यङ्ग्यम् ।
इत्थं मयैतदपह्नुतमिति स्ववैदग्ध्यख्यापनं तटस्थविदग्धलोकविषयं व्यङ्ग्यमिति ।
तदेतदुक्तं व्यवस्थापितशब्देन ।
अग्र इति ।
द्वितीयोद्द्योते ऽअसंलक्ष्यक्रमव्यङ्ग्यः क्रमेणोद्द्योतितः परःऽ इति विवक्षितान्यपरवाच्यस्य द्वितीयप्रभेदवर्णनावसरे ।
यथा हि विधिनिषेधतदनुभयात्मना रूपेण संकलय्य वस्तुध्वनिः संक्षेपेण सुवचः, तथा नालङ्कारध्वनिः, अलङ्काराणां भूयस्त्वात् ।
तत एवोक्तम्-सप्रपञ्चं इति ।
तृतीयस्त्विति ।
तुशब्दो व्यतिरेके ।
वस्त्वलङ्कारावपि शब्दाभिधेयत्वमध्यासाते तावत् ।
रसभावतदाभासतत्प्रशमाः पुनर्न कदाचिदभिधियन्ते, अथ चास्वाद्यमानताप्राणतया भान्ति ।
तत्र ध्वननव्यापाराद्दते नास्तिकल्पनान्तरम् ।
स्खलद्गतित्वाभावे मुख्यार्थबाधादेर्लक्षणानिबन्धनस्यानाशङ्कनीयत्वात् ।
औचित्येन प्रवृत्तौ चित्तवृत्तेरास्वाद्यत्वे स्थायिन्या रसो, व्यभिचारिण्या भावः, अनौचित्येन तदाभासः, रावणस्येव सीतायां रतेः ।
यद्यपि तत्र हास्यरसरूपतैव, ऽशृङ्गाराद्धि भवेद्धास्यःऽ इति वचनात् ।
तथापि पाश्चात्येयं सामाजिकानां बालप्रिया सखीति ।
नायिकेत्यर्थः ।
सम्बोधनमिति ।
उपदेश इत्यर्थः ।
न ह्येतत्सर्वं स्वोत्प्रेक्षामात्रेणोक्तमपि तु विधिधमवस्थापितो ऽव्यवस्थापितऽ इति वृत्तिग्रन्थानुरोधेनेत्याह---तदेतदित्यादि ।
ननु वस्तुध्वनिवदलङ्कारध्वनेरप्यत्रैव प्रदर्शनीयत्वे किमित्यग्रे दर्शयिष्यत इत्युक्तमित्यतस्तात्पर्यमाह-यथा हीत्यादि ।
व्यतिरेकमेव दर्शयति---वस्त्वित्यादि ।
ऽशब्दाभिधेयत्वमपीऽति योजना ।
किं रसादयो ऽपि तथेत्यत्राह-रसभावेति ।
भावादिग्रहणेन वृत्तिस्थादिशब्दो व्याख्यातः ।
अथ चेति ।
तथापीत्यर्थः ।
तत्रेति ।
रसादिभान इत्यर्थः ।
कल्पनान्तरं व्यापारान्तरम् ।
नास्तीत्यत्र हेतुमाह---रखलदिति ।
रसादीनां स्वरूपमाह--औचित्येनेति ।
ऽऔचित्येन प्रवृत्ताविऽति रसभावयोः सम्बध्नाति ।
स्थाथिन्याश्चित्तवृत्तेरास्वाद्यत्वे रसः, व्यभिचारिण्याश्चित्तवृत्तेरास्वद्यत्वे भाव इति योजना ।
अनौचित्येनेति ।
स्थायिन्याश्चित्तवृत्तेरनौचित्येन प्रवृत्तावित्यर्थः ।
तदाभासः रसाभासः ।
रसाभासानां हास्याद्भेदं दर्शयिष्यन् प्राधान्याच्छृङ्गाराभासविषयमाह--रावणस्येति ।
हास्यविषय एवायमित्याशङ्क्य परिहरिति--यद्यपीत्यादि ।
तत्र सीताविषयकरावणरतौ ।
शृङ्गारादिति ।
शृङ्गाराभासद्वारेणेत्यर्थः ।
पाश्चात्या तन्मयीभवनकालोत्तरकालभवा ।
पूर्वापरविवेकदशायां लोचनम् स्थितिः, तन्मयीभवनदशायां तु रतेरेवास्वाद्यतेति शृङ्गारतैव भाति पौर्वापर्यविवेकावधारणेन ऽदूराकर्षणमोहमन्त्र इव मे तन्नाम्नि याते शुतिम्ऽ इत्यादौ ।
तदसौ शृङ्गाराभास एव ।
तदङ्गं भावाभासश्चित्तवृत्तेः प्रशम एव प्रकान्तया हृदयमाह्लादयति यतो विशेषेण, तत एव तत्सङ्गृहीतो ऽपि पृथग्गणितो ऽसौ ।
यथा-- एकस्मिन् शयने पराङ्मुखतया वीतोत्तरं ताम्यतो- रन्योन्यस्य हृदि स्थिते ऽप्यनुनये संरक्षतोर्गौरवम् ।
दंपत्योः शनकैरपाङ्गवलनामिश्रीभवच्चक्षुषोर्- भग्रो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहम् ॥
इत्यत्रेर्ष्यारोषात्मन्.ओ मानस्य प्रशमः ।
न चायं रसादिरर्थः ऽपुत्रस्ते जातःऽ इत्यतो यथा हर्षो जायते तथा ।
नापि लक्षणया ।
अपि तु सहृदयस्य हृदयसंवादबलाद्विभावानुभावप्रतीतौ बालप्रिया विभावाभासज्ञानद्वारा स्थाय्याभासनिश्चयेनेत्यर्थः ।
इयं स्थितिः रतेर्हास्यरूपत्वाध्यवसायः ।
कुत इत्यत्राह---तन्मयीत्यादि ।
पौर्वापर्येति ।
विभावरत्याद्योर्यत् पौर्वापर्य तद्विवेकस्यावधीरणेनाभावेन ।
ऽइत्यादौ भतीऽत्यन्वयः ।
श्लोको ऽयं द्वितीयोद्योते वक्ष्यते ।
अत्रादौ सहृदयानां सीताविषयकरावणरतेस्तन्मयीभावेनास्वाद्यतेति शृङ्कारचर्वणैव, पश्चात्तद्रतेरनुचितालम्बनकत्वज्ञानेन तद्विषयकहासौद्बोधाद्धास्यचर्वणा शृङ्गारचर्वणा च तदाभासचर्वणैवेत्याशयेनोपसंहरति---तदिति ।
तदङ्गं भावाभास इति ।
शृङ्गारादिरसाभासस्याङ्गभूतो भावो भावाभास इत्यर्थः ।
भावशब्देनैव भावप्रशमस्यापि ग्रहणसम्भवात् किमिति पृथक् तद्ग्रहणमित्यत आह-चित्तवृत्तेरित्यादि ।
प्रक्रान्तायाः रसं व्यञ्जयितुमारब्धायाः ।
ऽप्रशम एव यतो विशेषेंणाह्लादयति ।
ततो ऽसौ पृथग्गणितऽ इत्यन्वयः ।
तत्संगृहीतो ऽपि भावशब्देन बोधितो ऽपि ।
असौ भावप्रशमः ।
एकस्सिन्नति ।
एकस्मिन् शयने सख्या कथञ्चिदेकशयनं नीतयोः ।
मानस्यानुवृत्या या पराङ्मुखता तया ।
वीतमपगतमुत्तरं शयनानन्तरकृत्यं यत्र, तत्तथा ।
ताम्यतोः सन्तप्यतोः ।
अन्योन्यस्येति ।
गौरवभङ्गभयेन हृदि स्थितमप्यनुनयमकुर्वतोः ।
अपाङ्गयोर्वलनाद्विवर्तनात् ।
मानकलिः प्रणंयरोषकलहः ।
हासेन रभसेन वेगेन, यद्व्यावृत्तं व्यावर्तनं तेन च सहितः कण्ठग्रहो यत्र, तत्तथा ।
योजयति-इत्यत्रेति ।
रिर्ष्यारूपो रोषस्तदात्मनः ।
क्रोधेति च पाठः ।
प्रशम इति ।
प्रतीयत इति शेषः ।
ऽवाच्यसामर्थ्यक्षिप्तः प्रकाशतऽ इत्यनेन दर्शितं विभावादिव्यङ्ग्यत्वं रसादेः साधयिष्यन् आदौ तस्य तात्पर्यशक्तिगम्यत्वं निषेधति---न चेत्यादि तथेत्यन्तेन ।
अत्र काव्यादिति शेषः ।
यथा ऽपुत्रस्ते जातऽ इत्यादिवाक्यं प्रियरूपार्थप्रतिपादनमुखेन श्रोतुर्हर्षमुत्पादयति, प्रकाशते, न तु साक्षाच्छब्दव्यापारविषय इति वाच्याद्विभिन्न एव ।
तथा हि वाच्यत्वं तस्य स्वशब्दनिवेदितत्वेन वा स्यात् विभावादिप्रतिपादनमुखेन वा ।
पूर्वस्मिन् पक्षे स्वशब्दनिवेदितत्वाभावे रसादीनामप्रतीतिप्रसङ्गः ।
लोचनम् तन्मयीभावेनास्वाद्यमान एव रस्यमानतैकप्राणः सिद्धस्वभावसुखादिविलक्षणः परिस्फुरति ।
तदाह-प्रकाशत इति ।
तेन तत्र शब्दस्य ध्वननमेव व्यापारो ऽर्थसहकृतस्येति ।
विभावाद्यर्थे ऽपि न पुत्रजन्महर्षन्यायेन तां चित्तवृत्तिं जनयतीति जननातिरिक्तो ऽर्थस्यापि व्यापारो ध्वननमेवोच्यते ।
स्वशब्देति ।
शृङ्गारादिना शब्देनाभिदाव्यापारवशादेव निवेदितत्वेन ।
विभावादीति ।
तात्पर्यशक्त्येत्यर्थः ।
तत्र स्वशब्दस्यान्वयव्यतिरेकौ रस्यमानतासारं रसं प्रति निराकुर्वन्ध्वननस्यैव ताविति बालप्रिया तथा काव्यं विभावाद्यर्थप्रतिपादनद्वारा तात्पर्यशक्त्या रसचर्वणां न जनयतीत्यर्थः ।
नापीति ।
रसादिरर्थ इत्यनुषज्यते ।
परिस्फुरतीत्यपपकृष्यते ।
आपत्वित्यादि ।
हृदयस्य संवादः सम्प्रतिपत्तिः, स एव बलं सहकारि तस्मात् ।
प्रतीतावित्यनेन सामग्री दर्शिता ।
आस्वाद्यमान एव सन् ।
रसपदलभ्यार्थकथनं---रस्यमानतेति ।
सुकादिवत्साध्यत्वं व्यावर्तयति--सिद्धेत्यादि ।
आत्मानतिरेकेण सिद्धस्वभावः ।
सुखादि तु तदतिरेकेण साध्यस्वभावमिति सुखादिविलक्षणश्चेत्यर्थः ।
यद्वा--स्थाय्येव विभावादिप्रत्ययारभ्यत्वाद्रस इति मतमपाकर्तुमाह---सिद्धेति ।
सिद्धस्वभावा ये सुखादयो भावाः सुखपदेन रतिर्विवक्षिता ।
तद्विलक्षण इत्यर्थः ।
तदाह तदेतदाह ।
फलितमाह---तेनेत्यादि ।
तेन कारकत्वलक्षकत्वयोरभावेन ।
इतीति ।
उक्तमिति शैषः ।
अथार्थस्यापि ध्वननमेव व्यापार इति जनकत्वनिषेधपूर्वकं दर्शयति-विभावाद्यर्थो ऽपीत्यादि ।
ऽस्वशब्दनिवेदित्त्वेन वेऽत्यादिना यत् कल्पद्वयमुक्तं तदभिधातात्पर्यशक्तिद्वयाभिप्रायकमिति दर्शयति--शृङ्गारादिनेत्यादि ।
तत्रेति ।
आद्यपक्ष इत्यर्थः ।
अन्वयेति ।
यत्र यत्र रसादिप्रतीतिः, तत्र तत्र नेति व्यतिरेकः, तावित्यर्थः ।
यद्वा---स्वशब्दसत्वे रसादिप्रतीतिस्तदभावे रसादिप्रतीत्यभाव इत्यन्वयव्यतिरेकावित्यर्थः ।
रस्यमानतासारमिति हेतुगर्भम् ।
न च सर्वत्र तेषां स्वशब्धनिवेदितत्वम् ।
यत्राप्यस्ति तत्, तत्रापि विशिष्टविभावादिप्रतिपादनमुखेनैवैषां प्रतीतिः ।
स्वशब्देन सा केवलमनूद्यते, न तु तत्कृता ।
विषयान्तरे तथा तस्या अदर्शनात् ।
न हि केवलशृङ्गरादिब्दमात्रभाजि लोचनम् दर्शयति--न च सर्वत्रेति ।
यथा भट्टेन्दुराजस्य--- यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् ।
दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोः कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः ॥
इत्यत्रानुभावविभावबोधनोत्तरमेव्.अ तन्मयीभवनयुक्त्या तद्विभावानुभावोचितचित्तवृत्तिवासनानुरञ्जितस्वसंविदानन्दचर्वणागोचरो ऽर्थो रसात्मा स्फुरत्येवाभिलाषचिन्तौत्सुक्यनिद्राधृतिग्लान्यालस्यश्रमस्मृतिवितर्कादिशब्दाभावे ऽपि ।
एवं व्यतिरेकाभावं प्रदर्श्यान्वयाभावं दर्शयति-यत्रापीति ।
तदिति स्वशब्दनिवेदितत्वम् ।
प्रतिपादनमुखेनेति ।
शब्दप्रयुक्तया विभावादिप्रतिपत्त्येत्यर्थः ।
सा केवलमिति ।
तथा हियाते द्वारवतीं तदा मधुरिपौ तद्दत्तझम्पानतां बालप्रिया व्यभिचारविषयमुदाहरति---यदिति ।
विश्रम्य मध्ये मध्ये विरम्य ।
निस्थेमनी स्थैर्यरहिते अतिव्याकुले ।
आद्यपादेन अलसा नाम दृष्टिरुक्ता ।
व्रीडौत्सुक्यै च द्योत्येते ।
दरिद्रति कृशीभवन्ति शुष्यन्ति च ।
लूनेत्याद्युपमया म्लानच्छायत्वादिकं द्योत्यते ।
निविडः घनःवर्णान्तरानुप्रवेशरहितः ।
पादत्रयेणानुभावव्यभिचारिवर्गो दर्शितः ।
यूनि आरब्धयौवने ।
कृष्ण इत्यनेन विभावश्च ।
वनितासुगोपीषु ।
एषैव उक्तालसविलोकनादिरूपैव ।
वेषस्थितिः वेषरचना ।
तदिति ।
तन्मयीभवनस्य युक्तिर्योगस्तया ।
तदिति ।
तेषां रसादीनां त एव वा ये विभावानुभावाः,तेषामुचिता याश्चित्तवृत्तयः स्थायिव्यभिचारिरूपास्तासां वासनाभिरनुरञ्जिताया रूषितायास्स्वसंविदो या आनन्दमयी चर्वणा तस्याः, गोचरो विषय इत्यर्थः ।
ऽरसात्मा अर्थः इत्यादिशब्दाभावे ऽपिस्फुरत्येवेऽति सम्बन्धः ।
अभिलाषः अभिलाषविप्रलम्भः ।
अत्राभिलाषो महावाक्येन चिन्तादयस्त्ववान्रवाक्येन व्यज्यन्त इति बोध्यम् ।
अन्वयाभावमिति ।
यदि लक्ष्ये स्वशब्देन रसादिप्रतीतिस्तर्ह्यन्वयः स्यान्न तु स्वशब्देनातो ऽन्वयाभाव इति भावः ।
वृत्तौ ऽयत्रापीऽ त्यपिशब्दस्तुशब्दार्थे ।
यात इति ।
द्वारवर्ति यात इत्यनेन प्रत्यागमनप्रत्याशाविरहः सूच्यते ।
मधुरिपावित्यनेन दुष्टनिग्रहव्यग्रताद्योतनेन स एवोपोद्बलितः ।
तदा मगधराजे मधुरामुपरुन्द्दति सति ।
आलिङ्गने हेतुमाह--तद्दत्तेति ।
तेन मधुरिपुणा लोचनम् कालिन्दीतटरूढवञ्जुललतामालिङ्ग्य सोत्कण्ठया ।
तद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥
इत्यत्र विभावानुभावावम्लानतया प्रतीयेते ।
उत्कण्ठा च चर्वणागोचरं प्रतिपद्यत एव ।
सोत्कण्ठाशब्दः केवलं सिद्धं साधयति, उत्कमित्यनेन तूक्तानुभावानुकर्षणं कतुं सोत्कण्ठाशब्दः प्रयुक्त इत्यनुवादो ऽपि नानर्थकः, पुनरनुभावप्रतिपादने हि पुनरुक्तिरतन्मयीभावो वा न तु तत्कृतेत्यत्र हेतुमाह---विषायान्तर इति ।
ऽयद्विश्रम्यऽ बालप्रिया दत्ता या झम्पा वेगेनोर्ध्वादिदेशादास्फालनपूर्वकपतनक्रिया विहरणकालभवा तया ।
झम्पाशब्दः पुल्लिङ्गो वा ।
आनताम् दाने हि प्रतिग्रहीतुरानतिरुचिता ।
ऽसम्पन्नतेऽति पाठे तेन दत्ता सम्पादिता सम्पन्नता पुष्पपल्लवादिसमृद्धिर्यस्यास्तामित्यर्थः ।
कालिन्दीतटरूढेति वल्लभविहरणस्थानरूढत्वेन सौभाग्यातिशयं सूचयति, तद्देशत्योत्कण्ठाकारित्वं च ।
तत् तथाविधम् ।
गातमिति भावे क्तः ।
गुर्विति ।
गुरुणा प्रभूतेन बाष्पेण रुद्धकण्ठतया गद्गदं यथा तथा गलन् प्रसरन् तार उच्चैस्तश्च स्वरो यत्र तत्तथा ।
येन गीतेन ।
यदाकर्णनेनेति यावत् ।
अन्तर्जलचारिभिः सारसादिमिरपि, न केवलं जलबहिर्भागसञ्चारिभिर्हसादिभिः ।
उत्कं सोत्कण्ठम् ।
उत्कूजितं उच्चैःकूजितं तन्मयीभवनयुक्त्या रुदितमित्यर्थः ।
विभावानुभावाविति ।
मधुरिपुविरहो, वियुक्तो मधुरिपुर्वा आलम्बनविभावः, कालिन्दीतटादय उद्दीपनविभावाः, लतालिङ्गनादयो ऽनुभावाः ।
ऽविभानुभावम्ऽ इति च पाठः ।
अम्लानतया अक्लेशेन वाच्यतयैवेति यावत् ।
प्रतीयेते प्तीयत इति च पाठः ।
ततः किमत आह---उत्कण्ठा चेति ।
चर्वणाया गोचरं विषयत्वं प्रतिपद्यत एव, नात्र स्वशब्दापेक्षामूलकस्संशयः कार्य इत्यर्थः ।
ननु सा स्वशब्दावेदितैवेत्यत आह--सोत्कराठाशब्ग इति ।
सिद्धं साधयतीति ।
ज्ञातं ज्ञापयतीत्यर्थः ।
अतश्चानुवादक इति भावः ।
केवलशब्दनात्र विभावानुभावौ प्रति सहकारित्वमपि नेति दर्शयति ।
अनुवादो ऽप्ययं नानर्थक इत्याह--उत्कमित्यादि ।
अयमर्थः---जलचारिणां कूजिते ऽपि गुरुबाष्पेत्याद्युक्तानुभावानां संयोजन एव तन्मयीभवनयुकत्या तदुत्कण्ठायाश्चर्वणागोचरत्वं भवति ।
उत्कमित्यनेन च तदनुभावसाहित्यं प्रतिपिपादयिषितम् ।
न च केवलेनोत्कशब्देन तत्प्रतिपादनं भवति, तस्य तावत्यपर्याप्तत्वात् ।
सति च पूर्ववाक्ये सोत्कण्ठाशब्दे तत्संगृहीतानामनुभावानां सोत्कण्ठासमानार्थकोत्कशब्देन प्रतिपादनं भवतीति सोत्कण्ठाशब्दस्सप्रयोजन इत्यर्थः ।
ननु पुनरप्यनुभावप्रदर्शनमस्त्वित्यत आहपुनरिति ।
न केवलं पुनरुक्तिरेव, तथाविधस्यानुभवजातस्य तन्मयीभवनोपयोगितापि न स्यादनौचित्यप्रतिपत्तिग्रस्तसौभाग्यत्वादित्याह--अतन्मयीति ।
ऽविषयान्तरऽ विभावादिप्रतिपादनरहिते काव्ये मनागपि रसवत्त्वप्रतीतिरस्ति ।
यतश्च स्वाभिधानमन्तरेण केवलेभ्यो ऽपि विभावादिभ्यो विशिष्टेभ्यो रसादीनां प्रतीतिः ।
केवलाच्च स्वाभिधानादप्रतीतिः ।
तस्मादन्वयव्यतिरेकाभ्यामभिधेयसामर्थ्याक्षिप्तत्वमेव रसादीनाम् ।
न स्वभिधेयत्वं कथञ्चित्, लोचनम् इत्यादौ ।
न हि यदभावे ऽपि यद्भवति तत्कृतं तदिति भावः ।
अदर्शनमेव द्रढयतिन हीति ।
केवलशब्दार्थ स्फुटयति---विभावादीति ।
काव्य इति ।
तव मते काव्यरूपतया प्रसज्यमान इत्यर्थः ।
मनागपीति ।
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥
इत्यत्र. ।
एवं स्वशब्देन सह रसादेर्व्यतिरेकान्वयाभावमुपपत्या प्रदर्श्य तथैवोपसंहरति-यतश्चेत्यादिना कथञ्चिदित्यन्तेन ।
अभिधेयमेव सामर्थ्यं सहकारिशक्तिरूपं विभावादिकं रसध्वनने शब्दस्य कर्तव्ये, अभिधेयस्य च पुत्रजन्महर्षभिन्नयोगक्षेमतया जननव्यतिरिक्ते दिवाभोजनाभावविशिष्टपीनत्वानुमितरात्रिभोजनविलक्षणतया चानुमानव्यतिरिक्ते ध्वनने कर्तव्ये सामर्थ्यं शक्तिः विशिष्टसमुचितो वाचकसाकल्यमिति बालप्रिया इत्यस्य विवरणम् यद्विश्रम्येत्यादाविति ।
भावमाह-न हीति ।
ऽतत्तत्कृतं न हीऽति सम्बन्धः ।
ननु विभावादिप्रतिपादकत्वाभावे कथं काव्यत्वं, येन सिद्धवन्निर्देश इत्याशङ्कां परिहरन् पराभिमतस्यैव काव्यरूपत्वप्रसञ्जनाभिप्रायेयमुक्तिरित्याह---तव मत इत्यादि ।
स्वशब्दकृता रसादिप्रतीतिः न विभावादिकृतेत्यस्मिन् मते काव्यत्वेनानभिमतमपि काव्यमापद्येतेत्यर्थः ।
तथाविधमेवोदाहरणमाह--शृङ्गारेति ।
ऽयतश्चेऽत्यादिवृत्तिग्रन्थस्यानर्थक्यशङ्कामुपसंहारत्वोक्त्या शमयन्नाह--एवमित्यादि ।
वृत्तावभिधेयसामर्थ्याक्षिप्तत्वमुपसंहृतं, तत्तु शब्दार्थोभयगतध्वननव्यापारगम्यत्वरूपमिति व्याचष्टे---अभिधेयमेवेत्यादि ।
सामर्थ्यपदस्य विवरणम्--सहेत्यादि ।
सहकारि एव शाक्तिः शक्नोत्यनयेति शक्तिस्तद्रूपम् ।
तत्किमित्यत्राह--विभावादिकमिति ।
ध्वनन इत्याक्षेपपदव्याख्यानम् ।
कर्मधारयाश्रयणेन शब्दे योजयित्वा षष्टीतत्पुरुषाश्रयेणार्थे योजयति---अभिधेयस्य येत्यादि ।
अभिधेयस्येत्यस्य ध्वनन इत्यनेन सम्बन्धः ।
भिन्नयोगक्षेमतया भिन्नस्वभावतया ।
पुत्रजन्म खलु हर्ष जनयति, न तथा विभावाद्यर्थो रसं जनयतीति तद्विलक्ष्णत्वमर्थगतध्वननस्य ।
अनुमानपक्षमपि पराकरोति--दिवेति ।
सामर्थ्यमैत्यस्य व्याख्यानम्--शक्तिरिति ।
शक्तिमेव विवृणोति--विशिष्टेति ।
गुणालङ्कारादिविशिष्टेन समुचितेन रसानुगुणेन च वाचकेन इति तृतीयो ऽपि प्रभेदो वाच्याद्भिन्न एवेति स्थितम् ।
वाच्येन त्वस्य सहेव प्रतीतिरित्यग्रे दर्शयिष्यते ।
काव्यस्यात्मा स एवार्थस् तथा चादिकवेः पुरा ।
(ध्व्क्_1.5अ)
काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा ।
लोचनम् द्वयोरपि शब्दार्थयोर्ध्वननं व्यापारः ।
एवं द्वौ पक्षावुपक्रम्याद्यो दूषितः, द्वितीयस्तु कथञ्चिद्दूषितः कथञ्चिदङ्गीकृतः, जननानुमानव्यापाराभिप्रायेण दूषितः; ध्वननाभिप्रायेणाङ्गीकृतः ।
यस्त्वत्रापि तात्पर्यशक्तिमेव ध्वननं मन्यते, स न वस्तुतत्त्ववेदी ।
विभावानुभावप्रतिपादके हि वाक्ये तात्पर्यशक्तिर्भेदे संसर्गे वा पर्यवस्येत्; न तु रस्यमानतासारे रसे इत्यलं बहुना ।
इतिशब्दो हेत्वर्थे ।
ऽइत्यपि हेतोस्तृतीयो ऽपि प्रकारो वाच्याद्भिन्न एवेऽति सम्बन्धः ।
सहेवेति ।
इवशब्देन विद्यमानो ऽपि क्रमो न संलक्ष्यत इति तद्दर्शयति--अग्र इति ।
द्वितीयोद्द्योते ॥ 4 ॥
एवं ऽप्रतीयमानं पुनरन्यदेवऽ इतीयता ध्वनिस्वरूपं व्याख्यातम् ।
अधुना काव्यात्मत्वमितिहासव्याजेन च दर्शयति---काव्यास्यात्मेति ।
स एवेति प्रतीयमानमात्रे ऽपि प्रक्रान्ते तृतीय एव रसध्वनिरिति मन्तव्यं, इतिहासबलात् प्रक्रान्तवृत्तिग्रन्थार्थबलाच्च ।
बालप्रिया साकल्यं परिपूर्णत्वमित्यर्थः ।
इतीति हेतौ ।
आद्य इति ।
ऽस्वशब्दनिवेदितत्वेन वेऽति पक्ष इत्यर्थः ।
द्वितीय इति ।
ऽविभावादिप्रतिपादनमुखेन वेऽति पक्ष इत्यर्थः ।
रसादीनामभिधेयसामर्थ्याक्षिप्तत्वमेवेति वदतो वृत्तिकृतस्तात्पर्यशाक्तिरेव ध्वननव्यापारो ऽभिमतः, न तु तद्व्यतिरिक्तश्चतुर्थकक्ष्यानिवेशी अभिधेयान्यथानुपपत्तिसहायार्थबोधनशक्तेरेव तात्पर्यशक्तित्वादिति कश्चिदाह, तन्मतमनूद्य दूषयति--यस्त्वित्यादि ।
भेदे संसर्गे वेति ।
गामानयेत्यादौ कर्मान्तरेभ्यः क्रियान्तरेभ्यश्च भेदो वाक्यार्थः, संसर्गस्त्वार्थ इति केचित् ।
कर्मविशेषादेः क्रियाविशेषेण सम्बन्धरूपसंसर्गो वाक्यार्थः, भेदस्त्वार्थ इत्यपरे ॥ .4 ॥ ॥ .॥
ननु ध्वनिस्वरूपे वाच्याद्भेदेन समर्थिते, लक्षणनुक्त्वा तस्यात्मत्वप्रतिपादिकायाः कारिकायाः का सङ्गतिरित्यतो वृत्तानुवादपुरस्सरं तां दर्शयति--एवमित्यादिना ।
व्याख्यातमिति ।
ध्वनिस्वरूपं तस्य काव्यात्मत्वञ्चेति प्रकृतयोर्द्वयोराद्यं प्रतिपादितमित्यर्थः ।
इतिहासव्याजेनेति ।
व्याजशब्देन ध्वनेरात्मत्वप्रतिपादन एव तात्पर्यं, नेतिहासोपक्षेप इति दर्शितम् ।
प्रकृतानुगुण्येन व्याचष्टे---स एवेत्यादि ।
स एवेतीत्यस्यानन्तरं
क्रौञ्च-द्वन्द्व-वियोगोत्थः शोकः श्लोकत्वम् आगतः
क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः ॥ 5 ॥
लोचनम् तेन रस एव वस्तुत आत्मा, वस्त्वलङ्कारध्वनी तु सर्वथा रसं प्रतिपर्यवस्येते इति वाच्यादुत्कृष्टौ तावित्यभिप्रायेण ऽध्वनिः काव्यस्यात्मेऽति सामान्येनोक्तम् ।
शोक इति ।
क्रौञ्चस्य द्वन्द्ववियोगेन सहचरीहननोद्भूतेन साहचर्यध्वंसनेनोत्थितो यः शोकः स्थायिभावो निरपेक्षभावत्वाद्विप्रलम्भशृङ्गारोचितरतिस्थायिभावादन्य एव, स एव तथाभूतविभावतदुत्थाक्रन्दाद्यनुभावचर्वणया हृदयसंवादतन्मयीभवनक्रमादास्वाद्यमानतां बालप्रिया तच्छब्देनेति, रसध्वनिरित्यस्यानन्तरं परामृष्ट इति च शेषः ।
मन्तव्यमिति ।
युक्त्या निश्चेतव्यभित्यर्थः ।
तामाह--इतिहासेत्यादि ।
इतिहासवलादिति ।
कारिकाशेषबलादित्यर्थः ।
प्रक्रान्तेति ।
ऽतृतीयस्त्विऽत्यादिना पूर्वोक्तेत्यर्थः ।
ऽप्रतीयमानस्य चेऽत्यादि समनन्तरवृत्तिग्रन्थस्याप्युपलक्षणमिदम् ।
तेनेति ।
यस्माद्रस ध्वनिरेव स एवेति परामर्शनीयस्तस्मादित्यर्थः ।
ऽतेन इत्यभिप्रायेण सामान्येनोक्तम्ऽ इति सम्बन्धः ।
इतिशब्दपरामृष्टमभिप्रायमाह--रस एवेत्यादि ।
सर्वथेति ।
अङ्गित्वे ऽङ्गत्वे चेत्यर्थः ।
इतीति हेतौ ।
अन्यथा प्रतिपत्तिनिरासाय विवक्षितं व्याचष्टे---क्रौञ्चस्येत्यादि ।
द्वन्द्ववियोगकाणमाह---सहचरीत्यादि ।
द्वन्द्ववियोगेनेत्यस्य व्याक्यानम्---साहचर्यध्वंसनेनेति ।
उत्थितः उत्पन्नः ।
क्रौञ्ज इति शेषः ।
साहचर्यध्वंसोत्थत्वेन प्राप्तं शृङ्गारस्थायित्वं प्रतिषेधति--निरपेक्षेत्यादि ।
उपेक्षायाः सङ्गमप्रत्याशायाः निष्क्रान्तो निरपेक्षो भावस्तत्वात् ।
क्रौञ्चेत्यादिकं व्याख्याय शोकस्य श्लोकताप्राप्तिं विवृणोति---स एवेत्यादि ।
क्रौञ्चे तातस्य शोकस्य वासनारूपेणादिकवौ स्थितस्य शोकस्य चाभेदबुद्धिकृतमैक्यं विवक्षित्वा स एवेत्युक्तम् ।
ऽस एवेति श्लोकरूपतां प्राप्तऽ इति सम्बन्धः ।
अत्र हेतुः--करुणरसरूपतां प्रतिपन्न इति ।
तत्र चास्वाद्यमानतां प्रतिपन्न इति ।
रत्यादिचित्तवृत्तिरास्वाद्यमाना हि शृङ्गारादिव्यपदेशगोचर इति भावः ।
आस्वाद्यमानताप्राप्तौ हेतुः---हृदयेत्यादि ।
सहृदयस्यादौ हृदयसंवादः, ततस्तन्मयीभावलाभस्तदुत्तरमास्वाद इति क्रमः ।
अत्रापि हेतुः---तथाभूतेत्यादि ।
तथाभूतो ध्वस्तसाहचर्यो विभावः क्रौञ्चरूपः ।
लोचनम् प्रतिपन्नः करुणरसरूपतां लौकिकशोकव्यतिरिक्तां स्वचित्तद्गुतिसमास्वाद्यसारां प्रतिपन्नो रसपरिपूर्णकुम्भोच्चलनवच्चित्तवृत्तिनिःष्यन्दस्वभाववाग्विलापादिवच्य समयानपेक्षत्वे ऽपि चित्तवृत्तिव्यञ्जकत्वादिति नयेनाकृतकतयैवावेशवशात्समुचितशब्दच्छन्दोवृत्तादिनियन्त्रितश्लोकरूपतां प्राप्तः-- मा निषाद प्रतिष्टां त्वंमगमः शाश्वतीः समाः ।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥
इत्.इ ॥
न तु मुनेः शोक इति मन्तव्यम् ।
एवं हि सति तद्दुःखेन सो ऽपि दुःखित इति कृत्वा रसस्यात्मतेति निरवकाशं भवेत् ।
न च दुःखसन्तप्तस्यैषा दशेति ।
एवं चर्वणोचितशोकस्थायिभावात्मककरुणरसमुच्चलनस्वभावत्वात्स बालप्रिया आक्रान्दनादीत्यादिपदेनावनितलपरिलुण्ठनादिर्ग्राह्यः ।
करुणरसरूपताप्राप्तेः फलमाहलौकिकेति ।
स्वरूपसामग्रीभेदादिति भावः ।
स्वसंवेदनप्रमाणसिद्धत्वमलौकिकरसस्य दर्शयितुमाह---स्वेत्यादि ।
स्वस्य चर्वयितुश्चित्तस्य या द्गुतिस्तन्मयीभावजनिता पुलकादिभिर्लक्ष्यमाणा तया समास्वाद्यो मनसानुभाव्यः सारः प्राणो यस्यास्ताम् ।
कथमात्मभूतस्य रसस्य बहिःश्लोकतया परिणाम इति शङ्कायां दृष्टान्तेनोत्तरमाह---रसेत्यादि ।
यथा जलपरिपूर्णमौलिस्थकुम्भोच्चलने तद्गतजलं बहिः प्रस्रवति, तथेत्यर्थः ।
मूर्तत्वामूर्तत्वाभ्यां वैषम्याशङ्कायां दृष्टान्तान्तरमाह--चित्तवृत्तीत्यादि ।
यथा दुःखादि चित्तवृत्तिपरिणामरूपा वाङ्मया विलापादयः, आदिपदेन प्रशंसादयो ग्राह्याः, तथेत्यर्थः ।
चकारो विकल्पे ।
ननु रसस्य काव्यात्मत्वं तद्विषयत्वेनैव वक्तव्यम् ।
न च समयसव्यपेक्षप्रवृत्तिकस्य शब्दस्य तद्विषयत्वं सम्भवतीत्याशङ्कामनुवदन् व्यङ्ग्यत्वेन तद्विषयत्वं दर्शयति--समयानपेक्षत्वे ऽपीत्यादि ।
इति नयेनेति ।
लोके हि विलापप्रशंसादयो वचनप्रकाराः शोकबहुमानरूपां चित्तवृत्तिं व्यञ्जयन्तीत्युक्तरीत्येत्यर्थः ।
अकृतकतयैवेति ।
अमुमर्थमनेन प्रकाशयामीति बुद्धिपूर्वकत्वमन्तरेणैवेत्यर्थः ।
तर्हि कथमित्यत आह--आवेशवशादिति ।
आवेशः आत्मव्याप्तिः ।
समुचितेति ।
समुचिता एव शब्दादयो रसादीन् व्यञ्जयन्तीति भावः ।
आदिकवेः श्लोकत्वमागत इत्येवं व्याख्यायादिकवेः शोक इत्यन्वयभ्रमं निरस्यति---न त्वित्यादि ।
मुनिशब्देन दुःखप्रसङ्गं निरस्यति ।
तथान्वये दोषमाह--एवमित्यादि ।
तद्दुःखेन ज्ञातेन क्रौञ्जटुःखेन ।
सो ऽपि आदिकविरपि ।
इति कृत्वा इत्यर्थाद्धेतोः ।
इतीति ।
इति वचनमित्यर्थः ।
दोषान्तरमप्याह--न चेति ।
एषा दशेति ।
शापवचनकर्तृत्वरूपा श्लोकरचनारूपा वा दर्शत्यर्थः ।
उपसंहरति--एवमित्यादि ।
एवमुक्तप्रकारेण चर्वणोचितः शोकस्थायिभाव एवात्मा यस्य तथा भूतो यः करुणरसस्तस्य विविधवाच्यवाचकरचनाप्रपञ्जचारुणः काव्यस्य स एवार्थः सारभूतः ।
लोचनम् एव काव्यस्यात्मा सारभूतस्वभावो ऽपरशाव्दवैलक्षण्यकारकः एतदेवोक्तं हृदयदर्पणे--ऽयावत्पूर्णो न चैतेन तावन्नैव वमत्यमुम्ऽ इति ।
अगम इति च्छान्दसेनाडागमेन ।
स एवेत्यावकारेणेदमाह--नान्य आत्मेति ।
तेन यदाह भट्टनायकः-- शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः ।
अर्थतत्त्वेन युक्तं तु वदन्त्याख्यानमेतयोः ॥
द्वयोर्गुणत्व्.ए व्यापारप्राधान्ये काव्यधीर्भवेत् ॥
इति तदपास्तम् ।
व्यापारो हि यदि ध्वननात्मा रसनास्वभावस्तन्नापूर्वमुक्तम् ।
अथाभिधैव व्यापारस्तथाप्यस्याः प्रधान्यं नेत्यावेदितं प्राक् ।
श्लोकं व्याचष्टे-विविधेति ।
विविधं तत्तदभिव्यञ्जनीयरसानुगुण्येन विचित्रं कृत्वा बालप्रिया समुच्चलनं बहिः प्रसरणं स्वभावः स्वरूपं यस्य ऽमा निषादेऽत्यादिश्लोकस्य तस्य भावस्तत्वं तस्मात् ।
स एव करुणरस एव ।
काव्यस्यात्मेति ।
यतो ऽमा निषादेऽत्यादिकाव्यं करुणरससमुच्चलनस्वरूपमतः काव्यस्य रस एवात्मेति भावः ।
आत्मेत्यस्य व्याख्या सारभूतस्वभाव इति ।
तदुपपादकम्---अपरेत्यादि ।
काव्यस्य रससमुच्चलनस्वभावत्वे भट्टनायकवचनं संवादयति---यावदिति ।
कविरिति शेषः ।
एतेन रसेन ।
यावन्न पूर्णाः विभावादितन्मयीभवनक्रमेण, तावत् अमुं रसम् ।
नैव वमति बहिर्भावमापाद्य परास्वादनीयं नैव करोति ।
रसेन पूर्ण एव कविः, काव्यरूपेण रसमुद्गिरतीति रसवमनरूपस्य काव्यस्य रसरूपत्वमेवेति भावः ।
स्वेन विलिखिते ऽमा निषादेऽत्यादौ ऽअगमऽ इत्यडागमस्य "नमाङ्योगऽ इति निषेधशङ्कायामुपपत्तिमाह--अगम इत्यादि ।
तेनेति ।
रसस्यात्मत्वसमर्थनेनेत्यर्थः ।
ऽतदपास्तम्ऽ इत्यानेनास्य सम्बन्धः ।
शब्देति ।
आश्रित्येति ।
प्रवृत्तमिति शेषः ।
शास्त्रं वेदादि ।
अर्थतत्वेन अर्थप्राधान्येन ।
युक्तमितिहासादि ।
ऽयुक्तेऽ इति च पाठः ।
एतयोर्द्वयोः शब्दार्तयोः ।
काव्यधीः काव्यव्यवहारः ।
तद्वति प्रबन्ध इति शेषः ।
व्यापार इति ।
व्यापारप्राधान्य इत्यत्र व्यापारपदार्थ इत्यर्थः ।
अथेति शङ्कायाम् ।
विविधं वाच्यवाचकरचनासु प्रपञ्जेन चारु इति विग्रहमभिप्रेत्य व्याचष्टे---तत्तदित्यादि ।
मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0