भाषा

ENहिગુ
ग्रंथ पाठ

ध्वन्यालोक (टीका सहित) · भाग 101120

नायिकाया नायके यो व्यवहारः स निशायां समारोपितः; नायिकायां नायकस्य यो व्यवहारः स शशिनि समारोपित इति व्याख्याने नैकशेषप्रसङ्गः ।
आक्षेप इति ।
प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ।
वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ॥
तत्राद्य.उ यथा--- अहं त्वां यदि नेक्षेय क्षणमप्युत्सुका ततः ।
इयदेवास्त्वतो ऽन्येन किमुक्तेनाप्रियेण ते ॥
बालप्रिया इत्युक्त्यनुगुणतया राजहंसानां चामरत्वं शरदश्चामरग्राहिणीत्वं चार्थात् सिध्यति, तथा प्रकृते तिमिरांशुकपदानुगुणतया निशादेर्नायिकात्वादिकमत एकदेशविवर्तिरूपकं स्यादित्यर्थः ।
न तु समासोक्तिरित्यत्र हेतुमाह-तुल्येति ।
उक्तमुक्तिपदानुगुण्यं निराकरोति--गम्यत इत्यादि ।
अनेनेति ।
लक्षणवचनेनेत्यर्थः ।
उक्तिरिति तु प्रकृतविषयतयैवोपपद्यते यत्रोक्तित्याद्यारम्भादिति भावः ।
नायिकाया इत्यादि ।
नायिकाया व्यवहारे नीलाम्बरगलनानवलोकनादिरूपो व्यापारः, नायकस्य तु वदनचुम्बनारम्भादिलक्षणः ।
इति व्याख्यान इति ।
एवमर्थस्य विवक्षितस्य व्याख्याने सतीत्यर्थः ।
नैकशेषप्रसङ्ग इति ।
नायिकानायकेत्यत्र "पुमांस्स्त्रिये"त्येकशेषप्रसङ्गो नेत्यर्थः ।
एवं समासोक्तौ व्यङ्ग्योपस्कृतं वाच्यमेव प्रधानमतस्तत्र ध्वनिलक्षणस्य नातिव्याप्तिरिति प्रदर्श्याक्षेपे ऽपि स एव प्रकार इत्याह वृत्तो-ऽआक्षेपे ऽपीऽ त्यादि ।
आक्षेपे ऽपि ऽवाच्यस्यैव चारुत्वं, प्राधान्येन ज्ञायतऽ इति सम्बन्धः ।
अत्र हेतुः ऽवाक्यार्थऽ इत्यादि ।
वाक्यार्थे विषये या आक्षेपोक्तिः, तस्याः सामर्थ्यादित्यर्थः ।
कथं तत्राक्षेपोक्तिरित्यत उक्तम्--ऽव्यग्येऽति ।
व्यङ्गयो यो विशेषस्तदाक्षेपिणस्तदाकर्षित्वादित्यर्थः ।
ऽशब्दोपारूढऽ इति ।
शब्दवाच्य इत्यर्थः ।
लोचने भामहोक्ते तल्लक्षणाद्योदाहरणे दर्शयति--प्रतिषेध इति ।
विशेषाबिधित्सया व्यङ्ग्यभूतविशेषप्रतिपिपादयिषया ।
यः इष्टस्य वक्तुमिष्टस्य ।
प्रतिषेध इव लोचनम् इति वक्ष्यमाणमरणविषयो निषेधात्माक्षेपः ।
तत्रेयदस्त्वित्येतदेवात्र म्रिये इत्याक्षिपत्सच्चारुत्वनिबन्धनमित्याक्षेप्येणाक्षेपकमलङ्कृतं सत्प्रधानम् ।
उक्तविषयस्तु यथा ममैव--- भो भोः किं किमकाण्ड एव पतितस्त्वं पान्थ कान्या गतिः तत्ताद्दक्तृषितस्य मे खलमतिः सो ऽयं जलं गूहते ।
अस्थानोपनतामकालसुलभां तृष्णां प्रति क्रुध्य भोः त्रैलोक्यप्रथितप्रभावमिहिमा मार्गः पुनर्मारवः ॥
बालप्रिय्.आ प्रतिषेधाभासः इष्टत्वादेव ।
सः आक्षेपः ।
तस्य द्वैविध्यमाह---वक्ष्यमाणेति ।
अत्र वक्ष्यमाणविषये कथनस्यैव निषेधः ।
उक्तविषये तु क्वचिद्वस्तुनः, क्वचिद्वस्तुकथनस्येति बोध्यम् ।
अहमिति ।
प्रस्थानोन्मुखं प्रियतमं प्रति सोत्कण्ठायाः कस्याश्चिदुक्तिः ।

उत्सुकाहं त्वां क्षणमपि न तर् इक्षेय यदि, ततः तर्हि इयदेतावत् यदिपर्यन्तं वचनमेव अस्तु ।
अतः अन्येन ते अप्रियेणेति हेतुगर्भम् ।
उक्तेन वचनेन ।
किं न वक्ष्यामीत्यर्थः ।
अत्र लक्षणं योजयति---इतीत्यादि ।
निषेधात्मेति ।
किमुक्तेनेति कथननिषेधाभासात्मेत्यर्थः ।
अत्रापि वाच्यस्यैव प्राधान्यमिति दर्शयति--तत्रेत्यादि ।
इत्येतदेव इति वाच्यार्थं एव ।
आक्षिपत् ।
व्यञ्जयत् ।
आक्षेप्येण मरणाध्यवसायरूपव्यङ्ग्येन ।
आक्षेपकमियदेवास्त्वित्यादिनोक्तम् ।
भो भो इति ।
ऽखलसृतिस्सेयम्ऽ इति ऽखलमतिस्सो ऽयम्ऽ इति च पाठः ।
अत्र पान्थमरुमार्गसम्बन्ध्यर्थो वाच्यः ।
प्रकृतो दुष्प्रभुसेवावृत्तान्तस्तु व्यङ्ग्यः ।
भो भो इति वीप्सया बोधनीयं प्रत्यादरातिशयो द्योत्यते ।
अकाण्डे ।
अस्थान एव ।
किं किं पतितः अत्रागमनेन एतत्सेवनेन चाभिमतं फलं न सिध्यतीत्यर्थः ।
पान्थेत्यनेन सेवानभिज्ञत्वं द्योत्यते ।
चिरसेविना केनचिदेवमुक्ते पान्थः किञ्चित् कुपित आह---कान्येत्यादि खलेत्यन्तेन ।
हे खल ।
तत्तादृगतिशयेन तृषितस्य तृषा जलपिपासा धनलिप्सा च ।
मे अन्यागतिराश्रयः का नैवेत्यर्थः ।
मार्गान्तरालाभादत्रागतः आश्रयणीयान्तरालाभादयं प्रभुराश्रितश्चेत्यर्थः ।
तच्छ्रुत्वापर आह--सृतिरित्यादिसा त्वयाऽश्रिता ।
इयं सृतिः अयं मार्गः प्रभुश्च ।
जलं वारि धनं च ।
घते संवृणोति ।
कुतो वितरमसम्भावनेति भावः ।
ऽखलमतिस्सो ऽयम्ऽ इति पाठे तु सो ऽयमिति मारवमार्गं प्रभुं चोद्दिश्योक्तिः ।
गूहत इत्यन्तं पान्थस्यैव वचनमिति केचित् ।
खलेत्यनेन प्रकाशितं कोपमुपहसन् पर एवाह-अस्थानेत्यादि ।
अकालसुलभां यदा विषयस्य सुलभत्वं तदा तृष्णा न भवति, यदा पुनरसुलभत्वं तदा भवतीत्यकालसुलभत्वम् ।
तृष्णां प्रति तव तृष्णायै क्रुध्य न मां प्रतीति भावः ।
कथमस्थानोपनतत्वमित्यत्राह--त्रैलोक्येत्यादि ।
प्रभावमहिमा अत्यन्तापकारित्वादिरत्यन्तलुब्धत्वादिश्च ।
मारवः मरुसम्बन्धी मार्गः, अथ च दुष्प्रभुः ।

लोचनम् अत्र कश्चित्सेवकः प्राप्तः प्राप्तव्यमस्मात्किमिति न लभ इति प्रत्याशाविशस्यमानहृदयः केनचिदमुनाक्षेपेण प्रतिबोध्यते ।
तत्राक्षेपेण निषेधरूपेम वाच्यस्यैवासत्पुरुषसेवातद्वैफल्यतत्कृतोद्वेगात्मनः शन्तरसस्थायिभूतनिर्वेदविभावरूपतया चमत्कृतिदायित्वम् ।
वामनस्य तु ऽउपमानाक्षेपःऽ इत्याक्षेपलक्षणम् ।
उपमानस्य चन्द्रादेराक्षेपः; अस्मिन्सति किं त्वया कृत्यमिति ।
यथा--- तस्यास्तन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्ढुना सौन्दर्यस्य पदं दृशौ यदि च तैः किं नाम नीलोत्पलैः ।
बालप्रिया उक्तं व्यङ्ग्यमर्थमभिप्रेत्याह-अत्रेत्यादिना ।
ऽकश्चित् सेवकः केनचित्प्रतिबोध्यतऽ इति सम्बन्धः ।
प्राप्त इत्यादिद्वयं सेवकविशेषणम् ।
प्राप्तः सेव्यं प्रभुं प्राप्तः ।
प्राप्तव्यम् धनादिकम् ।
अस्मात् प्रभोः ।
किमिति ।
कस्मात् कारणात् ।
न लभे इति वितर्कानन्तरजातया प्रत्याशया प्रतिक्षणोत्पन्नया आशया विशस्यमानं हृदयं यस्य स इति प्रतिबोधने हेतुः ।
केनचित् चिरसेविना केनापि कर्त्रा ।
अमुना आक्षेपेण असत्पुरुषसेवातद्वैफल्यादिरूपव्यङ्ग्यविशेषप्रतिपिपादयिषया कृतेन किं किमकाण्ड एव पतित इति निषेधरूपेण ।
प्रतिबोध्यत इति ।
पूर्वमेव ज्ञातं प्रभोरत्यन्तलोभशीलत्वादिस्वभावं कारुण्यात्प्रतिबोध्यत इत्यर्थः ।
अत्रापि व्यङ्ग्यस्य वाच्योपस्कारकत्वं दर्शयति---तत्रेत्यादि ।
तत्र उदाहरणे ।
निषेधरूपेणेति ।
किं किमिति पतनफलनिषेधरूपेमेत्यर्थः ।
आक्षेपेणेति तृतीयार्थो वैशिष्ट्यं वाच्यान्वयि, तत्सहितवाच्येत्यर्थः ।
वाच्यस्यैवेति ।
पान्थमरुमार्गादिवाच्यार्थं प्रत्येवेत्यर्थः ।
ऽचमत्कृतिदायित्वम्ऽ इत्यनेन सम्बन्धः ।
कस्येत्यत्राह-असदित्यादि ।
असत्पुरुषः दुष्प्रभुः ।
व्यङ्ग्यस्येत्यर्थात् ।
अस्य व्यङ्ग्यस्य वाच्यार्थचमत्कारसम्पादने हेतुमाह---शान्तेत्यादि ।
असत्पुरुषसेवावैफल्यं विभावः, तत्कृतोद्वेगो ऽनुभावः ।
किं किमकाण्ड एव पतित इतीष्टपतनफलनिषेधरूपाक्षेपेमाक्षेप्यं यदसत्पुरुषसेवावैफल्यादि तेनालङ्कृतमाक्षेपकं तद्वाच्यमेव प्रधानमिति भावः ।
"प्राणा येन समर्पिता" इत्यादिवदत्राप्रस्तुतप्रशंसाप्यस्तीति तत्सङ्कीर्णो ऽयमाक्षेप इत्यपि बोध्यम् ।
ऽवामनस्येति लक्षणम्ऽ इत्यनेन सम्बन्धः ।
आक्षेपशब्दार्थं दर्शयति---आस्मिन्नित्यादि ।
अस्मिन् उपमेयत्वाभिमते मुखादौ ।
त्वया मुखाद्युपमानेन चन्द्रादिना ।
कृत्यं फलम् ।
तस्या इति ।
तदित्यनुभूतार्थकं दृशावित्यनेनापि विपरिणामेन योज्यम् ।

सौम्यं मधुरदर्शनमत एव सुभगं च ।
किं किं फलम् ।
दृशाविति ।
स्त इति शेषः ।
यदीति सिद्धानुवादे ।
तैः प्रसिद्धैः ।
तत्र तस्मिन् ।
हीति ।
अहो कष्टमित्यर्थः ।
रूपो य आक्षेपः स एव व्यङ्ग्यविशेषमाक्षिपन्मुख्यं काव्यशरीरम् ।
चारुत्वोत्कर्षनिबन्धना हि वाच्यव्यङ्ग्ययोः प्रादान्यविवक्षा ।
यथा---- अनुरागवती सन्ध्या दिवसस्तत्पुरस्सरः ।
लोचनम् किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे ही धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वा ग्रहः ॥
अत्र्.अ व्यङ्ग्यो ऽप्युपमार्थो वाच्यस्यैवोपस्कुरुते ।
किं तेन कृत्यमिति त्वपहस्तनारूप आक्षेपो वाच्य एव चमत्कारकारणम् ।
यदि वोपमानस्याक्षेपः सामर्थ्यादाकर्षणम् ।
यथा-- ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम् ।
प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ॥
इत्यत्रेर्ष्याकलुषितनायकान्तरमुपमानमाक्षिप्तमप्.इ वाच्यर्थमेवालङ्करोतीत्येषा तु समासोक्तिरेव ।
तदाह---चारुत्वोत्कर्षेति ।
अत्रैव प्रसिद्दं दृष्टान्तमाह---अनुरागवतीति ।
तेनोपप्रमेयसमर्थनमेवापरिसमाप्तमिति मन्तव्यम् ।
तत्रोदाहरमत्वेन बालप्रिया पुनरिति ।
पुनरुक्तानामनुपादेयानां निष्फलानां वस्तूनां पार्वणचन्द्रादीनां रचनायां सृष्टौ विषये ये आरम्भा व्यापाराः तेषु ।
अपूर्वः अन्यत्राद्दष्टः ।
ग्रहः अभिसन्धिविशेषः ।
अत्रापि व्यङ्गयस्य गुणीभावं दर्सयति---अत्रेत्यादि ।
उपमार्थः चन्द्रादिसाद्दश्यरूपार्थः ।
वाच्यस्यैवोपस्कुरुते वाय्यार्थमेवालङ्करेति ।
अत्र हेतुमाह---किमित्यादि ।
ऽइति वाच्य आक्षेप एव चमत्कारकारणम्ऽ इति सम्बन्धः ।
अपहस्तनारूपः निरसनरूपः ।
"उपमानाक्षेप" इति सूत्रमन्यथा व्याचष्टे---यदि वेत्यादि ।
सामर्थ्यादर्थसामर्थ्यात् ।
आकर्षणं व्यञ्जनम् ।
ऐन्द्रमिति ।
पयोधरो मेधः स्तनस्च ।
प्रसादयन्तीत्यादि ।
शरत्काले हि चन्द्रस्य प्रसादातिशयो रवितापाधिक्यं च ।
अत्र लक्षमं योजयति---अत्रेत्यादिर् ।

इर्ष्येतिर् ।
इर्ष्यया आक्षान्त्या कलुषितं यन्नायकान्तरं तद्रूपमुपमानमित्यर्थः ।
आक्षिप्तमिति ।
व्यञ्जितमित्यर्थः ।
नायिकाव्यञ्जनस्याप्युपलक्षणमिदम् ।
नायिकापक्षे नखक्षतस्थतया श्रुतमप्युपमानत्वमैन्द्रे धनुषियोजनीयमिन्द्रचापाभं नकक्षतं दधानेत्यर्थः ।
एषेत्यादि ।
वामनमते आक्षेपोदाहरणत्वेनोक्तं इदं भामहमते समासोक्त्युदाहरणमेवेत्यर्थः ।
तदाहेति ।
वाच्यस्यैव प्राधान्यं न व्यङ्ग्यस्येत्यस्मिन्नुक्तार्थे हेतुमाहेत्यर्थः ।
अत्रैवेति ।
चारुत्वोत्कर्षकृतं प्राधान्यमित्यस्मिन्नर्थ एवेत्यर्थः ।
एवकारो ऽलङ्कारोदाहरणत्वशङ्काशमनार्थः ।
अनुरागवतीति ।
अनुरागौ रक्तिमा प्रेमविशेषश्च ।
तत्पुरस्सरः तस्याःस पुरस्सरः पूर्वकाले सम्मुखं च सरन्निति द्वयोरर्थयोरध्यवसायेनैक्यं बोध्यमत एवाहो इत्यादेपरुपपत्तिः ।
नायकपक्षे तु सम्मुखं वर्तमान इत्यर्थः ।
तेनेति ।
द्दष्टान्तोक्तितया अहो दैवगतिः कीद्दक्तथापि न समागमः ॥
अत्र सत्यामपि व्यङ्ग्यप्रतीतौ वाच्यस्यैव चारुत्वमुत्कर्षवदिति तस्यैव प्राधान्यविवक्षा ।
यथा च दीपकापह्नुत्यादौ व्यङ्ग्यत्वेनोपमायाः प्रतीतावपि प्राधान्येनाविविक्षितत्वान्न तया व्यपदेशस्तद्वदत्रापि द्रष्टव्यम् ।
लोचनम् समासोक्तिश्लोकः पठितः ।
अहो दैवगतिरिति ।
गुरुपारतन्त्र्यादिनिमित्तो ऽसमागम इत्यर्थः ।
तस्यैवेति ।
वाच्यस्यैवेति यावत् ।
वामनाभिप्रायेमायमाक्षेपः, भामहाभिप्रायेण तु समासोक्तिरित्यमुमाशयं हृदये गृहीत्वा समासोक्त्यक्षेपयोः युक्त्येदमेकमेवोदाहरणं व्यतरद्ग्रन्थकृत् ।
एषापि समासोक्तिर्वास्तु आक्षेपो वा, किमनेनास्माकमे ।
सर्वथालङ्कारेषु व्यङ्ग्यं वाच्ये गुणीभवतीति नः साध्यमित्यत्राशयो ऽत्र ग्रन्थे ऽस्मद्गुरुभिर्निरूपितः ।
एवं प्राधान्यविवक्षायां दृष्टान्तमुक्त्वा व्यपदेशो ऽपि प्राधान्यकृत एव भवतीत्यत्र दृष्टान्तं स्वपरप्रसिद्धमाह---यथा चेति ।
उपमाया इति ।
उपमानोपमेयभाव स्येत्यर्थः ।
तयेत्युपमया ।
दीपके हि ऽआदिमध्यान्तविषयं त्रिधा दीपकमिष्यतेऽ इति लक्षणम् ।
मणिः शाणोल्लीढः समरविजयी हेतिदलितः कलाशेषश्चन्द्र सुरतमृदिता बाललना ।
मदक्षीणो नागः शरदि सरिदाश्यानपुलिना तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जनाः ॥
बालप्रिय्.आ अलङ्कारोदाहरणत्वाभावेनेत्यर्थः ।
अपरिसमाप्तमेवेति योजना ।
तत्रेति ।
आक्षेपसमर्थन इत्यर्थः ।

नायकयोरसमागमे गम्यं हेतुं दर्शयति---गुर्वित्यादि ।
ऽअनुरागेऽत्याद्युदाहरणप्रदर्शनाबिप्रायमाह---वामनेत्यादि ।
वामनाभिप्रायेम उपमानप्रत्यायनपक्षरूपेण ।
इदमिति ।
अनुरागेत्यादिकमित्यर्थः ।
अत्र ग्रन्थ इति ।
चारुत्वेत्यादिप्राधान्यविवक्षेत्यन्तग्रन्थ इत्यर्थः ।
दीपके हीति ।
ऽइत्यत्र दीपनकृतमेव चारुत्वम्ऽ इत्यन्वयः ।
दीपके हीत्यस्य स्थाने ऽतथाहीऽति च पाठः ।
भामहोक्तलक्षणमन्यत्तदुदाहरणञ्च दर्शयति---आदीत्यादि ।
अत्राद्यादयश्शब्दा वाक्यविषयाः ।
तत्रान्त्यदीपकमुदाहरति---मणिरिति ।
लोचनम् इत्यत्र दीपनकृतमेव चारुत्वम् ।
ऽअपह्नुतिरभीष्टस्य किञ्चिदन्तर्गतोपमाऽ इति ।
तत्रापह्नुत्यैव शोभा ।
यथा--- नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः ।
अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥
इति ॥
एवमाक्षेपं विचार्योद्देशक्रमेणैव प्रमेयान्तरमाह-अनुक्तनिमित्तायामिति ।
एकदेशस्य विगमे या गुमान्तरसंस्तुतिः ।
विशेषप्रथनायासौ विशेषोक्तिरिति स्मृता ॥
यथा--- स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शम्भुना न हृतं बलम् ॥
इयं चाचिन्त्यनिमित्तेति नास्यां व्यङ्ग्यस्य सद्भावः ।
उक्तनिमित्तायामपि वस्तुस्वभावमात्रत्वे पर्यवसानमिति तत्रापि न व्यङ्ग्यसद्भावशङ्का ।
यथा--- कर्पूर इव दग्धो ऽपि शक्तिमान्यो जने जने ।
नमो ऽस्त्ववार्यवीर्याय तस्मै कुसुमधन्वने ॥
बालप्रिय्.आ श्लोको ऽर्थ कुवलयानन्दे ऽप्युदाहृतः ।
दीपनकृतमेवेति ।
दीपनं नामानेकत्रैकधर्मान्वयः ।
एवकारेण व्यङ्ग्याया उपमाया व्यवच्छेदः ।
अपह्नुतेर्भामहीये लक्षणोदाहरणे दर्शयति---अपह्नुतिरित्यादि ।
अत्रापह्नुतिपदस्यावृत्तिर्बोध्या ।
अभीष्टस्य वर्ण्यत्वेनाभिमतस्य ।
किञ्जिदन्तर्गता व्यङ्ग्या उपमा यस्यास्सा ।
अपह्नुतिः निषेधः ।
अपह्नुतिः तन्नामालङ्कारः ।
अपह्नुत्येति ।
अपह्नवेनेति च पाठः ।

शोभाचारुत्वम् ।
नेयमिति ।
मुहुर्विरौतीत्यन्वयः ।
ऽमदेन मुखरा आकृष्यमाणस्येऽति च बिम्बप्रतिबिम्बतयोक्तिः ।
ऽअनुक्तनिमित्तायाम्ऽ इत्यादिग्रन्यस्य पूर्वग्रन्थेन सम्बन्धं दर्शयन्नवतारयति--एवमित्यादि ।
उद्देशेति ।
समासोक्त्याक्षेपेत्यादिपूर्वोक्तेत्यर्थः ।
ऽअनुक्तनिमित्तायाऽमिति कथनस्य फलं वक्तुमुपक्रममांण आह---एकेत्यादि ।
एकेत्यादिलक्षणं भामहीयम् ।
एकदेसस्य तनुमत्त्वादेः कारणस्य ।
गुणान्तरस्य बलवत्वादिरूपकार्यस्य ।
संस्तुतिः कथनम् ।
विशेषप्रथनाय कस्यचिदतिशयस्य ख्यापनाय ।
स इति ।
सः प्रसिद्धः ।
अपिशब्दः सम्भुनेत्यत्रापि योज्यः ।
बलस्य तन्वाश्रयत्वात्तनुविगमे बलविगमो न्याय्यः ।
इह तु तनुविगमे ऽपि बलसद्भाव उक्तः ।
तत्र च यत्किञ्चिन्निमित्तं भवेत्, परन्तु तदचिन्त्यमित्याह---इयञ्चेति ।
वस्तुस्वभावमात्रत्वे पर्यवसानमिति ।
वार्थान्तरव्यञ्जकत्वमित्यर्थः ।
कर्पूर इति ।
अवार्येत्यादिर्निमित्तोक्तिः ।
तेनेति ।
यस्मादुक्ते प्रकारद्वये व्यङ्यसद्भावो अनुक्तनिमित्तायामपि विशेषोक्तौ---- आहूतो ऽपि सहायैः ओमित्युक्त्वा विमुक्तनिद्रो ऽपि ।
गन्तुमना अपि पथिकः सङ्कोचं नैव शिथिलयति ॥
इत्याद.उ व्यङ्ग्यस्य प्रकरणसामर्थ्यात्प्रतीतिमात्रम् ।
न तु तत्प्रतीतिनिमित्ता लोचनम् तेन प्रकारद्वयमवधीर्य तृतीयं प्रकारमाशङ्कते--अनुक्तनिमित्तायामपीति ।
व्यह्ग्यस्येति ।
शीतकृता खल्वार्तिरत्र निमित्तमिति भट्टोद्भटः, तदभिप्रायेणाह-न त्वत्र काचिच्चारुत्वनिष्पत्तिरिति ।
यत्तु रसिकैरपि निमित्तं कल्पितम्-ऽकान्तासमागमे गमनादपि लघुतरमुपायं स्वप्नं मन्यमानो निद्रागमबुद्ध्या सङ्कोचं नात्यजत्ऽ इति तदपि निमित्तं चारुत्वहेतुतया नालङ्कारविद्भिः कल्पितम्, अपि तु विशेषोक्तिभाग एव न शिथिलयतीत्येवम्भूतो ऽभिव्यज्यमाननिमित्तोपस्कृतश्चारुत्वहेतुः ।
अन्यथा तु विशेषोक्तिरेवेयं न भवेत् ।
एवमभिप्रायद्वयमपि साधारणोक्त्या ग्रन्थकृन्न्यरूपयन्न त्वौद्भटेनैवाभिप्रायेण ग्रन्थो व्यवस्थित इति मन्तव्यम् ।
पर्यायोक्ते ऽपीति ।
पर्यायोक्तं यदन्येन प्रकारेमाभिधीयते ।
वाच्यवाचकवृत्तिभ्यां शून्येनावगमात्मना ॥
इति लक्षणम् ।
यथा--- शत्रुच्छेदद्दढेच्छस्य मुनेरुत्पथगामिनः ।
रामस्यानेन धनुषा देशिता धर्मदेशना ॥
इति ॥

बालप्रिया नास्ति, तस्मादित्यर्थः ।
अत्र निमित्तमिति ।
सङ्कोचाशिथिलने गम्यं निमित्तमित्यर्थः ।
लघुतरमिति ।
सङ्कोचापरित्यागलभ्यत्वान्निद्रागमस्येति भावः ।
तदपि निमित्तमिति ।
रसिकैः कल्पितं निद्रागमबुद्धिरूपं निमित्तमित्यर्थः ।
अपि त्वित्यादि ।
ऽन शिथिलयतीत्येवंभूतो विशेषोक्तिभाग एवेऽति योजना ।
अभिव्यज्यमाननिमित्तेति ।
पूर्वोक्तनिमित्तेत्यर्थः ।
अन्यथा त्विति ।
व्यज्यमाननिमित्तोपस्काररूपविशेषविरहेत्वित्यर्थः ।
अभिप्रायद्वयमिति ।
उद्भटरसिकाभिप्रायद्वयमित्यर्थः ।
साधारणोकत्या व्यङ्ग्यस्यत्याद्युक्त्या ।
भट्टोद्भटोक्तं लक्षणमाह--पर्यायोक्तमिति ।
तदिति शेषः ।
पर्यायशब्दार्थं दर्शयति--अन्येनेति ।
तमेव स्फुटयति--वाच्येति ।
शत्रुच्छेद इति ।
मुनेश्शत्रुसद्भावो नोचितः, तत्र तदुच्छेदेच्छा ततो ऽप्यनुचिता, तस्या द्रढिमा अत्यन्तानुचितः; अत एवाह-उत्पतेति ।
रामस्य भार्गवस्य ।
अनेन भीष्मेम कर्त्रा धनुषा करणेन ।
देशिता कृता ।
धर्मदेशना धर्मोपदेशः ।
अत्रापि वाच्यमेव प्रधानमिति दर्शयति-अत्रेत्यादि ।
काचिच्चारुत्वनिष्पत्तिरिति न प्राधान्यम् ।
पर्यायोक्ते ऽपि यदि प्राधान्येन व्यङ्ग्यत्वं तद्भवतु नाम तस्य ध्वनावन्तर्भावः ।
न तु ध्वनेस्तत्रान्तर्भावः ।
तस्य महाविषयत्वेनाङ्गित्वेन च प्रतिपादयिष्यमामत्वात् ।
लोचनम् अत्र भीष्मस्य भार्गवप्रभावभिभावी प्रभाव इति यद्यपि प्रतीयते, तथापि तत्सहायेन देशिता धर्मदेशनेत्यभिधीयमानेनैव काव्यार्थो ऽलङ्कृतः ।
अत एव पर्यायेण प्रकारान्तरेणावगमात्मना व्यङ्ग्येनोपलक्षितं सद्यदभिधीयते तदभिधीयमानमुक्तमेव सत्पर्यायोक्तमित्यभिधीयत इतिलक्षणपदम्, पर्यायोक्तमिति लक्ष्यपदम्, अर्थालङ्कारत्वं सामान्यलक्षणं चेति सर्वं युज्यते ।
यदि त्वभिधीयत इत्यस्य बलाद्य्वख्यानमभिधीयते प्रतीयते प्रदानतयेति, उदाहरमं च ऽभम धम्मिअऽ इत्यादि, तदालङ्गारत्वमेव दूरे सम्पन्नमात्मतायां पर्यवसानात् ।
तदा चालङ्कारमध्ये गणना न कार्या ।
भेदान्तराणि चास्या वक्तव्यानि ।
तदाह---यदि प्राधान्येनेति ।
ध्वनाविति ।
आत्मन्यन्तर्भावादात्मैवासो नालङ्कारस्स्यादित्यर्थः ।
तत्रेति ।

बालप्रिया प्रतीयत इति ।
व्यज्यत इत्यर्थः ।
तत्सहायेनेति ।
तेन प्रतीयमानार्थेनोपस्कृतेनेत्यर्थः ।
अभिधीयमानेनैव वाच्यार्थेनैव ।
काव्यार्थः वीररसः ।
अत एवेति ।
ऽअत एव इति सर्वं युज्यतऽ इति सम्बन्धः ।
व्यङ्ग्यस्य प्राधान्ये सर्वमेतदनुपपन्नं भवेदतो वाच्यस्यैव प्राधान्यमभ्युपेयमिति भावः ।
ऽपर्यायोक्तं यदन्येन प्रकारेणाभिधीयतऽ इत्येतावन्मात्रं भामहोक्तं लक्षणम्; तत्रान्येन प्रकारेणेत्यस्य विवरणं ऽपर्यायेणेत्याद्युपलक्षितऽमित्यन्तम् ।
पर्यायशब्दार्थ एवान्येन प्रकारेणेत्यनेनोक्त इत्यवेदयितुमत्र पर्यायेणेत्युक्तम् ।
अत एव तस्य व्याख्यानम्---प्रकारान्तरेणेति ।
को ऽसौ प्रकार इत्यात्राह--अवगमात्मनेति ।
अस्यैव विवरणम्--व्यङ्ग्येनेति ।
तृतीयाया अर्थमाह---उपलक्षितमिति ।
ऽयदभिधीयते तदभिदीयमानं पार्ययोक्तमित्यभिधीयतेऽ इति सम्बन्धः ।
ऽअभिदीयमानम्ऽ इत्यस्य व्याख्यानम्---उक्तमेव सदिति ।
इति लक्षणपदमिति ।
इत्यर्थकं लक्षणवाक्यमित्यर्थः ।
अनेन लक्षणवाक्येनैव व्यङ्ग्यानुगतस्य वाच्यस्य प्राधान्यं गम्यत इति भावः ।
इति लक्ष्यपदमिति ।
अन्वर्थेनानेनापि पूर्वोक्तं गम्यत इति भावः ।
अर्थालङ्कारत्त्वं सामान्यलक्षणमिति ।
व्यङ्ग्यस्य प्राधान्ये ऽलङ्कार्यत्वप्राप्त्यालङ्कारत्वभङ्गस्स्यादिति ।
भावः ।
सामान्यलक्षणं सामान्यधर्मः ।
पक्षान्तरमाशङ्कते-यदित्विति ।
बलादिति ।
शब्दपीडनेनेत्यर्थः ।
प्रतीयते प्रधानतयेति ।
अभीत्याभिमुख्ये ।
तच्च प्रादान्यनिबन्धनमिति भावः ।
अस्मिन् पक्षे ऽभिमतं न सिद्ध्येदित्याह--तदेत्यादि ।
ननु माभूदलङ्कारत्वमित्यत्राह---तदेति ।
न केवलमस्य प्रसिद्धस्वभावपरित्यागः, अप्रसिद्धावान्तरभेदकल्पनापि स्यादित्याह-भेदेत्यादि ।
प्राधानव्यङ्ग्यानां न पुनः पर्यायोक्ते भामहोदाहृतसद्दशे व्यङ्ग्यस्यैव प्राधान्यम् ।
वाच्यस्य तत्रोपसर्जनाभावेनाविवक्षितत्वात् ।
अपह्नुतिदीपकयोः पुनर्वाच्यस्य लोचनम् याद्दशो ऽलङ्कारत्वेन विवक्षितस्ताद्दशे ध्वनिर्नान्तर्भवति, न ताद्दगस्माभिर्ध्वनिरुक्तः ।
ध्वनिर्हि महाविषयः सर्वत्र भावाद्य्वापकः समस्तप्रतिष्टास्थानत्वाच्चाङ्गी ।
न चालङ्कारो व्यापको ऽन्यालह्कारवत् ।

न चाङ्गी, अलङ्कार्यतन्त्रत्वात् ।
अथ व्यापकत्वाङ्गित्वे तस्योपगम्येते, त्यज्यते चालङ्कारता,तर्ह्यस्मन्नय एवायमवलम्ब्यते केवलं मात्सर्यग्रहात्पर्यायोक्तवाचेति भावः ।
न चेयदपि प्राक्तनैर्द्दष्टमपि त्वस्माभिरेवोन्मीलितमिति दर्शयति-न पुनरिति ।
भामहस्य याद्दक्तदीयं रूपभिमतं ताद्दगुदाहरणेन दर्शतम्. तत्रापि नैव व्यङ्ग्यस्य प्राधान्यं चारुत्वाहेतुत्वात् ।
तेन तदनुसारितया तत्सद्दशं यदुदाहरणान्तरमपि कल्प्यते तत्र नैव व्यङ्ग्यस्य प्राधान्यमिति सङ्गतिः ।
यदि तु तदुक्तमुदाहरणमनाद्दतय ऽभम धम्म्ऽ इत्याद्युदाह्नियते, तदस्मच्छिष्यतैव ।
केवलं तु नयमनवलम्ब्यापश्रवमेनात्मसंस्कार इत्यनार्यचेष्टितम्. यदाहुरैतिहा सिकाः---ऽअवज्ञयाप्यवच्छाद्य शृण्वन्नरकमृच्छतिऽ इति ।
भामहेन ह्युदाहृतम्--- ऽगुहेष्वध्वसु वा नान्नं भुञ्ज्महे यदधीतिनः ।
विप्रा न भुञ्जतेऽ इति ।
बालप्रिया बहुविधत्वादिति भावः ।
वृत्तौ ध्वन्यन्तर्भावमात्रमुक्तं, तस्यानलङ्कारत्वप्रसङ्गपर्यवसायितामाह---आत्मनीति ।
यादृश इति ।
उपसर्जनीभूतव्यङ्ग्यार्थ इत्यर्थः ।
अनन्तर्भावे हेतुमाह-नेत्यादि ।
समस्तेति ।
गुणादीत्यर्थः ।
अन्यालङ्कारवदिति ।
लोकप्रसिद्धकटकादिवदित्यर्थः ।
अथेत्यादि ।
पर्यायोक्तमित्ययमलङ्कारः व्यापकश्चाङ्गीचेत्युपगम्यत इति चेदित्यर्थः ।
तर्हीति ।
मात्सर्यग्रहणात्केवलं पर्यायोक्तवाचा अयमस्मन्नय एवावलम्ब्यत इति योजना ।
इयदपीति ।
व्यङ्ग्यस्य प्राधान्यमपीत्यर्थः ।
इति दर्शयतीति ।
ऽन पुनरिऽत्यादिग्रन्थेनोक्तमर्थं दर्शयतीत्यर्थः ।
तत्रापीति ।
भामहोदाहरणे ऽपीत्यर्थः ।
पक्षान्तरमाशङ्क्य परिहरति---यदि त्वित्यादि ।
केवलन्तु नयमनवलम्ब्यापश्रवणेनेति ।
यथाविधि गुरूपसदनपूर्वकं गुरुमुखादेव शास्त्रार्थग्रहणमकृत्वा श्रवणाभासेनेत्यर्थः ।
श्रवज्ञयेति ।
विद्यायां गुरौ चेति शेषः ।
अनच्छाद्य आत्मापह्नवं कृत्वा ।
ऋच्छति प्राप्नोति ।
किं तद्भामहोदाहरणमित्यत्राह---भामहेनेति ।
गृहेष्विति ।
ऽअधीतिनः विप्राः यदन्नं न भुञ्जते वयं गृहेष्वध्वसु वा तदन्नं न प्राधान्यं व्यङ्ग्यस्य चानुयायित्वं प्रसिद्धमेव ।
सङ्करालङ्कारे ऽपि यदालङ्कारो ऽलङ्कारान्तरच्छायामनुगृह्णाति, लोचनम् एतद्धि भगवद्वासुदेववचनं पर्यायेम रसदानं निषेधति ।
यत्स एवाह---ऽतच्च रसदाननिवृत्तयेऽ इति ।

न चास्य रसदाननिषेधस्य व्यङ्ग्यस्य किञ्चिच्चारुत्वमस्ति येन प्राधान्यं शङ्ग्येत ।
अपि तु तद्य्वङ्ग्योपोद्बलितं विप्रभोजनेन विना यन्नभोजनं तदेवोक्तप्रकारेण पर्यायोक्तं सत्प्राकरणिकं भोजनार्थमलङ्कुरुते ।
न ह्यस्य निर्विषं भोजनं भवत्विति विवक्षितमिति पर्यायोक्तमलङ्कार एवेति चिरन्तनानामभिमत इति तात्पर्यम् ।
अपह्नुतिदीपकयोरिति ।
एतत्पूर्वमेव निर्णीतम् ।
अत एवाह---प्रसिद्धमिति ।
प्रतीतं प्रसाधितं प्रामाणिकं चेत्यर्थः ।
पूर्वं चैतदुपमादिव्यपदेशभाजनमेव तद्यथा न भवतीत्यमुया छायया दृष्टान्ततयोक्तमप्युद्देशक्रमपूरणाय ग्रन्थशय्यां योजयितुं पुनरप्युक्तं ऽव्यह्क्यप्रादान्याभावान्न ध्वनिरिऽति ।
छायान्तरेम वस्तु पुनरेकमेवोपमाया एव व्यङ्ग्यत्वेन ध्वनित्वाशङ्कनात् ।
यत्तु विवरणकृत्---दीपकस्य सर्वत्रोपमान्वयो नास्तीति बहुनोदाहरणप्रपञ्चेनविचारितवांस्तदनुपयोगि निस्सारं सुप्रतिक्षेपं च ।
मदो जनयति प्रीतिं सानङ्गं मानभञ्जनम् ।
बालप्रिया भुञ्जमहेऽ इत्यन्वयः ।
वचनमिति ।
चैद्यं प्रतीति शेषः ।
पर्यायेणेति ।
अवगमात्मना प्रकारन्तरेणेत्यर्थः ।
रसदानं निषेधतीति ।
विषदाननिवृत्तिं बोधयतीत्यर्थः ।
चैद्यसङ्कल्पतमन्नयोजितविषदानं मे मा भवत्विति, भोजनं निर्विषं भवत्विति वा भगवतो ऽभिप्रायस्सहृदयानां व्यङ्ग्यो भवतीत्यर्थः ।
ऽचारुत्वं नास्तीऽति सम्बन्धः ।
वाच्यस्यैव चारुत्वमिति भावः ।
तद्व्यङ्ग्येति ।
उक्तव्यङ्ग्येत्यर्थः ।
तदेव वाच्यन्तदेव ।
उक्तप्रकारेणेति ।
अवगमात्मना व्यङ्ग्येनोपलक्षितत्वेनेत्यर्थः ।
प्राकरणिकं भोजनार्थमिति ।
प्रकरणसिद्धमधीतिभुक्तशिष्टमन्नं भुञ्जमहे इत्येवंभूतमर्थमित्यर्थः ।
व्यह्ग्यस्याविक्षितत्वेन चाप्राधान्यमित्याह---न ह्यस्येति ।
अस्य वासुदेवस्य ।
न विवक्षितं चैद्यं प्रत न बुबोधयिषितम् ।
उपसंहरति--इतीति ।
प्रसिद्धपदं त्रिधा व्याचष्टे---प्रतीतमित्यादि ।
तीपकापह्नुत्यादाविति पूर्वोक्तस्यैवाद्यकथनेन पौनरुकत्यमित्याशङ्कायां स्वरूपैक्ये ऽपि प्रकारभेदान्न पौनरुक्त्यमित्याह---पूर्वमित्यादि ।
इत्यमुया च्छाययेति ।
इत्यनेन प्रकारेणेत्यर्थः ।
ऽव्यङ्ग्य प्राधान्याभावान्न ध्वनिरिति पुनरप्युक्तम्ऽ इति सम्बन्धः ।
वस्त्विति ।
व्यङ्ग्यत्वे ऽप्युपमाया अप्राधान्यरूपं वस्त्वित्यर्थः ।
उपमान्वयप्रदर्शनेन सुप्रतिक्षेपत्वमाह--मद इत्यादि ।

मदः विशिष्टविषयनिषेवाज्जनितो हर्षः ।
प्रीतिं विषयाभिषङ्गम् ।
मानः चितसमुन्नतिः, तद्भञ्जनमित्यनङ्गविशेषणम् ।
लोचनम् स प्रियासङ्गमोत्कण्ठां सासह्यां मनसः शुचम् ॥
इत्.इ ।
अत्राप्युत्तरोत्तरजन्यत्वऽप्युपमानोपमेयभावस्य सुकल्पत्वात् ।
न हि क्रमिकाणां नोपमानोपमेयभावः ।
तथा हि--- राम इव दशरथो ऽभूद्दशरथ इव रधुरजो ऽपि रधुसद्दशः ।
अज इव दिलीपवंशश्चित्रं रामस्य कीर्तिरियम् ॥
इत्.इ न न भवति ।
तस्मात्क्रमिकत्वं समं वा प्राकरणिकत्वमुपमां निरुंणद्धीति को ऽयं त्रास इत्लं गर्दभीदोहानुवर्तनेन ।
सङ्करालङ्गारे ऽपीति ।
विरुद्धालङ्क्रियोल्लेखे समं तद्वृत्यसम्भवे ।
एकस्य च ग्रहे न्यायदोषाभावे च सङ्करः ॥
इत्.इ लक्षणादेकः प्रकारः ।
यथा ममैव--- शशिवदनासितसरसिजनयना सितकुन्ददशनपङ्क्तिरियम् ।
गगनजलस्थलसम्भवहृद्याकारा कृता विधिना ॥
इत्.इ ।
अत्र शशी वदनमस्याः तद्वद्वा वदनमस्या इति रूपकोपमोल्लेखाद्युगपद्द्वयासम्भवादेकतरपक्षत्यागग्रहणे प्रमाणाभावात्सङ्कर इति व्यङ्ग्यवाच्यताया एवनिश्चयात्का ध्वनिसम्भावना ।
यो ऽपि द्वितीयः प्रकारः---शब्दार्थालङ्कारामामेकत्रभाव इति तत्रापि प्रतीयमानस्य का शङ्का ।
यथा--स्मर स्मरमिव प्रियं रमयसे यमालिङ्गनात् इति ।
बालप्रिया उत्तरेति ।
उत्तरोत्तरस्य पूर्वपूर्वजन्यत्वे ऽपीत्यर्थः ।
अनेन क्रमिकत्वमुक्तम् ।
उपमानेति ।
मनोविकारजनकत्वेन तेषां साम्यस्य कल्पयितुं शक्यत्वादित्यर्थः ।
क्रमिकामामुपमानोपमेयभावं दर्शयति--राम इवेति ।
अत्र गुमविशेषवत्वेन साम्यं बोद्यम् ।
न न भवतीति ।
भवत्येवेत्यर्थः ।
सोपहासमुपसंहरति---तस्मादित्यादि ।
सङ्करश्चतुर्विधः---सन्देहसङ्करादिभेदादिति; तेषां लक्षणानि भट्टोद्भटमतानुरोधेन दर्शयति--विरुद्धेति ।
विरुद्धयोरलङ्क्रिययोः उल्लेखः उल्लासः तस्मिन् सति ।
समं युगपत ।
तद्वृत्यसम्भव इति ।
तयोर्वर्तनस्यासम्भव इत्यर्थः ।
एकस्य ग्रहे तयोरेकस्यान्यत्यागेन ग्रहेणे ।
न्यायः साधकं भानम्. दोषः बाधकम् ।
शशीति ।
ऽशशिवदनेऽत्यादि विशेषणत्रयं क्रमेंण ऽगगनेऽत्यादेरुपपादकम् ।

एकेति ।
एकतरस्य पक्षस्य त्यागे ग्रहणे चेत्यर्थः ।
इतीति हेतौ ।
व्यङ्ग्येत्यादि ।
को व्यङ्ग्यः को वाच्य इत्यनिश्चयाद्व्यङ्ग्यप्रादान्यकृतध्वनित्वसम्भावनापि लोचनम् अत्रैव यमकमुपमा च ।
तृतीयः प्रकारः-- यत्रैकत्र वाक्यांशे ऽनेको ऽर्थालङ्कारस्तत्रापि द्वयोः साम्यात्कस्य व्यङ्ग्यता ।
यथा--- तुल्योदयावसानत्वाद्गते ऽस्तं प्रति भास्वति ।
वासाय वासरः क्लान्तो विशतीव तमोगुहाम् ॥
इत्.इ ।
अत्र हि स्वामिविपत्तिसमुचितव्रतग्रहणहेवाकिकुलपुत्रकरूपणमेकदेशविवर्त्तिरूपकं दर्शयति ।
उत्प्रेक्षा चेवशब्देनोक्ता ।
तदिदं प्रकारद्वयमुक्तम् ।
शब्दार्थवर्त्त्यलङ्कारा वाक्य एकत्र वर्त्तिनः ।
सङ्गरश्चैकवाक्यांशप्रवेशाद्वाभिधीयते ॥
इत्.इ च ।
चतुर्थस्तु प्रकारः यत्रानुग्रह्यानुग्राहकभावो ऽलङ्काराणाम् ।
यथा--- प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या ।
तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गहीतं नु मृगाङ्गनाभिः ॥
अत्र मृगाङ्गनावलोकनेन तदवलोकनस्योपमा यद्यपि व्यङ्ग्या, तथापि वाय्यस्य सा सन्देहालङ्कारस्याभ्युत्थानकारिमीत्वेनानुग्रहकत्वाद्गुणीभूता, अनुग्राह्यत्वेन हि सन्देहे पर्यवसानम् ।
यथोक्तम्--- परस्परोपकारेण यत्रालङ्कृतयः स्थिताः ।
स्वातन्त्र्येणात्मलाभं नो लभन्ते सो ऽपि सङ्करः ॥
बालप्रिया केत्यर्थः ।
एकवाक्यवर्तनरूपं सङ्करं दर्शयित्वा, एकवाक्यांशसमावेशरूपं सङ्करं दर्शयति--यत्रेत्यादि ।
साम्यादिति ।
वाच्यात्वेन साद्दश्यादित्यर्थः ।
स्वामीती ।
स्वामिनो विपत्तौ सत्यां समुचितं यद्व्रतग्रहण तत्र हेवाकी उद्युक्तः यः कुलपुत्रकः तद्रूपणं वासरविषयकं कर्म ।
तमोगुहामित्येकदेशविवर्तिरूपङ्कं कर्तः ।
भास्वतस्स्वामित्वमतस्तद्गमनस्य विपत्तित्वं गुहानिवासस्य व्रतग्रहमत्वं तत्प्रवेशस्य तदर्थव्यापारत्वञ्च तमोगुहामिति शाब्देन रूपकेण गम्यत इति भावः ।
उक्तयोर्भेदयोस्सम्मतिमाह--तदिदमित्यादि ।
अनया कारिकया उक्तयोर्भेदयोर्लक्षणं प्रदर्सितम् ।
वृत्तिग्रन्थानुरोदेन वाच्यव्यङ्ग्ययोरनुग्राह्यानुग्राहकभावापन्नं सङ्करमुदाहरति-प्रवातेति ।
तयेति ।
श्रीपार्वत्येत्यर्थः ।
नन्वनुग्राहकत्वे ऽपि कुतो गुणीभाव इत्यत आह---अनुग्राह्यत्वेनेति ।
सन्देहस्येति शेषः ।
पर्यवसानमिति ।
अनुग्राहिकायाव्यङ्ग्योपमाया इति शेषः ।
तदा व्यङ्ग्यस्य प्राधान्येनाविवक्षितत्वान्न ध्वनिविषयत्वम् ।
अलङ्कारद्वयसम्भावनायां तु वाच्यव्यङ्ग्ययोः समं प्राधान्यम् ।

अथ वाच्योपसर्जनीभावेन व्यङ्ग्यस्य तत्रावस्थानं तदा लोचनम् तदाह-यदालङ्कार इत्यादि ।
एवं चतुर्थे ऽपि प्रकारे ध्वनिता निराकृता ।
मध्यमयोस्तु व्यह्ग्यसम्भावनैव नास्तीत्युक्तम् ।
आद्ये तु प्रकारे ऽशशिवदनेऽत्याद्युदाहृते कथञ्चिदस्ति सम्भावनेत्याशचङ्क्य निराकरोति---अलङ्कारद्वयेति ।
सममिति ।
द्वयोरप्यान्दोल्यमानत्वादिति भावः ।
ननु यत्र व्यङ्ग्यमेव प्राधान्येन भाति तत्र किं कर्तव्यम् ।
यथा--- हीइ ण गुणाणुराओ खलाणं णवरं पसिद्धिसरणाणम् ।
किर पहिणुसै ससिमणं चन्दे पिआमुहे दिट्ठे ॥
अत्रार्थान्तरन्यासस्तावद्वाच्यत्वेनाभात्.इ, व्यतिरेकापह्नुती तु व्यङ्ग्यत्वेन प्रधानतयेत्यभिप्रायेणाशङ्कते---अथेति ।
तत्रोत्तरम्--तदा सो ऽपीति ।
सङ्करालङ्कार बालप्रिया अस्मिंश्चतुर्थे भेदे ध्वन्यभावपरतया वृत्तिग्रन्थमवतारयति---तदाहेति ।
आन्दोल्यमानत्वादिति ।
वाच्यत्वव्यङ्ग्यत्वाभ्यां सन्दिह्यमानत्वादित्यर्थः ।
नन्वित्यादि ।
यत्रेति ।
याद्दशे सङ्करालङ्कार इत्यर्थः ।
होइ इति ।
भवति न गुणानुरागः खलानां केवलं प्रसिद्धिशरणानाम् ।
किल प्रस्नैति शशिमणिः चन्द्रे न प्रियामुखे दृष्टे ॥
इति च्छाया ।
गुणानुरागः परैर्वर्ण्यमानेष्वपि केषाञ्चिद्गुणेषु प्रीतिः ।
न भवतीत्यत्र हेतुमाह--प्रसिद्धीति ।
वस्तुतत्वावमर्शरहितानामिति भावः ।
उक्तं सामान्यं विशेषेण समर्थयते---किलेत्यादि ।
ऽशशिमणिः चन्द्रे दृष्टे प्रस्नौति किल; प्रियामुखे दृष्टे न प्रस्नौतीऽत्यान्वयः ।
यदि शसिमणेर्गुमानुरागस्स्यात्तदा प्रियामुखदर्शने कथं न निःष्यन्देतेति भावः ।
व्यतिरेकेति ।
चन्द्रः प्रियामुखमेव चन्द्र इत्यर्थस्य ख्यापनादपह्नुतिश्चेति भावः ।
व्यङ्ग्यत्वेनेत्यादि ।
व्यङ्ग्यत्वेन प्रधानतया च भात इत्यर्थः ।
सङ्करोक्तेरेव ध्वनित्वबुद्धिनिवर्तकत्वं वृत्तावुक्तं, सो ऽपि ध्वनिविषयो ऽस्तु, न तु स एव ध्वनिरिति वक्तुं शक्यम् ।
पर्यायोक्तनिर्दिष्टन्यायात् ।
अपि च सङ्करालङ्कारे ऽपि च क्वचित् सङ्करोक्तिरेव लोचनम् एवायं न भवति, अपि त्वलङ्कारध्वनिनामायं ध्वनेर्द्वितीयो भेदः ।
यच्च पर्यायोक्ते निरूपतं तत्सर्वमत्राप्यनुसरणीयम् ।
अथ सर्वेषु सङ्करप्रभेदेषु व्यङ्ग्यसम्भावनानिरासप्रकारं साधारणमाह---अपि चेति ।
ऽक्वचिदपि सङ्करालङ्कारे चेऽति सम्बन्धः, सर्वभेदभिन्न इत्यर्थः ।
सङ्कीर्मता हि मिश्रत्वं लोलीभावः, तत्र कथमेकस्य प्राधान्यं क्षीरजलवत् ।
अधिकारादपेतस्य वस्तुनो ऽन्यस्य या स्तुतिः ।
अप्रस्तुतप्रशंसा सा त्रिविधा परिकीर्त्तिता ॥

अप्रस्तुतस्य वर्णनं प्रस्तुताक्षेपिम इत्यर्थः ।
स चाक्षेपस्त्रिविधो भवति---सामान्यविशेषभावात्, निमित्तनिमित्तिभावात् सारूप्याच्च ।
तत्र प्रथमे प्रकारद्वये प्रस्तुताप्रस्तुतयोस्तुल्यमेव प्राधान्यमिति प्रतिज्ञां करोति-अप्रस्तुतेत्यादिना प्राधान्यमित्यन्तेन ।
तत्र सामान्यविशेषभावे ऽपि द्वयी गतिः--सामान्यमप्राकरणिकं शब्देनोच्यते, गम्यते तु प्राकरणिको विशेषः स एकः प्रकारः ।
यथा--- अहो संसारनैर्घृण्यमहो दौरात्म्यमापदाम् ।
अहो निसर्गजिह्मस्य दुरन्ता गतयो विधेः ॥
अत्र हि दैवप्राधान्यं सर्वत्र सामान्यरूपमप्रस्तुतं वर्णितं सत्प्रकृते वस्तुनि क्वापि विनष्टे विशेषात्मनि पर्यवस्यति ।
तत्रापि विशेषांशस्य सामान्येन व्याप्तत्वाद्य्वङ्ग्यविशेषवद्वाच्यसामान्यस्यापि प्राधान्यम्, न हि सामान्यविशेषयोर्युगपत्प्राधान्यं विरुध्यते ।
यदा तु विसेषो ऽप्राकरमिकः प्राकरणिकं सामान्यमाक्षिपति तदा द्वितीयः बालप्रिया तत्कथमित्यत्राह--सङ्कीर्णतेति ।
ऽमिक्षत्वम्ऽ इत्यस्य विवरणम्---लोलीभाव इति ।
आत्यन्तिकस्संश्लेष इत्यर्थः ।
अधिकारादिति भामहीयमिदम् ।
अधिकारः प्रस्तुतत्वम् ।
सारार्थं व्याचष्टे-अप्रस्तुतस्य वर्णनमिति ।
स्तुतिशब्दार्थकथनं वर्णनमिति ।
द्वयी गतिरिति ।
प्रकारद्वयमित्यर्थः ।
स इति ।
सामान्याद्विशेषप्रतीतिरूप इत्यर्थः ।
दैवप्राधान्यमिति ।
ऽदैवस्वातन्त्र्यम्ऽ इति च पाठः ।
सर्वत्र सामान्यरूपमिति ।
संसारनैर्घृण्यादावनुगतमित्यर्थः ।
सर्वस्य तदायत्तस्थितित्वादिति भावः ।
क्वापीति ।
प्रेयसीपुत्रादिरूप इत्यर्थः ।
अत्र व्यङ्ग्यवाच्ययोस्समप्राधान्यं दर्शयति--तत्रापीत्यादि ।
ननु व्यङ्ग्यस्य विशेषस्यास्तु प्राधान्यं, वाच्यस्य सामान्यस्य तत्कथं स्यादित्यत्राह--विशेषांशस्येति ।
प्राधान्यमिति ।
ध्वनिसम्भावनां निराकरोति ।
अप्रस्तुतप्रशंसायामपि यदा सामान्यविशेषभावान्निमित्तनिमित्तिभावाद्वा अभिधीयमानस्याप्रस्तुत्सय प्रतीयमानेन प्रस्तुतेनाभिसम्बन्धः तदाभिधीयमानप्रतीयमानयोः सममेव प्राधान्यम् ।
यदा तावत्सामान्यस्याप्रस्तुतस्याभिधीयमानस्य प्राकरणिकेन विशेषेण प्रतीयमानेन सम्बन्धस्तदा विशेषप्रतीतौ सत्यामपि प्राधान्येन तत्सामान्येनाविनाभावात्सामान्यस्यापि प्राधान्यम् ।
यदापि विशेषस्य सामान्यनिष्ठत्वं तदापि सामान्यस्य प्राधान्ये सामन्ये सर्वविशेषाणामन्तर्भावाद्विशेषस्यापि प्राधान्यम् ।
लोचनम् प्रकारः ।
यथा--- एतत्तस्य मुखात्कियत्तकमलिनीपत्त्रे कणं पार्थसो यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन्यदस्मादपि ।
अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनै. स्तत्रोङ्डीय गतो हहेत्यनुदिनं निद्राति नान्तः शुचा ॥
अत्रास्थान्.ए महत्त्वसम्भवनं सामान्यं प्रस्तुतम्, प्रस्तुतं तु जलबिन्दौ मणित्वसम्भावनं विशेषरूपं वाच्यम् ।
तत्र्रापि सामान्यविशेषयोर्युगपत्प्राधान्ये न विरोध इत्युक्तम् ।
एवमेकः प्रकारो द्विभेदो ऽपि विचारितः, यदा तावदित्यादिना विशेषस्यापि प्राधान्यमित्यन्तेन ।
एतमेव न्यायं निमित्तनैमित्तिकभावे ऽतिदिशंस्तस्यापि द्विप्रकारतां बालप्रिया विशेषप्राधान्यनान्तरीयकत्वं सामान्यप्राधान्यस्येति भावः ।

न हि विरुध्यत इति ।
यथा ऽरक्तं पटं वयेऽत्यादौ द्वयोस्त्रयाणं वा विधिरित् भावः ।
एतदिति ।
मुखादिति ।
आरम्भत इत्यर्थः ।
प्रथमतस्सम्भूतमिति यावत् ।
ऽएतद्वक्ष्यमाणं शृण्विऽति सम्बन्धः ।
मुक्तामणिरित्यमस्त यत् एतत्तस्य जडस्य कियत् वक्ष्यमाणापेक्षया अत्यल्पमेवेत्यर्थः ।
साद्दश्यनिमित्तकस्तद्भ्रमस्य सम्भवाज्जलकणे मुक्तामणिभ्रमो भवेदिति भावः ।
शृण्विति ।
अस्मात् पूर्वोक्तात् ।
अन्यदपि त्वं शृणु; किं तदित्यत्राह---अङ्गुलीति ।
स जड इत्यत्राप्यनुषज्यते ।
जातमुक्तामणिभ्रमो जड इत्यर्थः ।
तत्रेति ।
तस्मिञ्जलकण इत्यर्थः ।
ऽकुत्रोड्डीयेऽति पाठे तु तस्मिन्निति शेषो बोध्यः ।
शनैः मुक्तामणिबुध्या मन्दम् ।
आदीयमाने अङ्गुल्यग्रस्य लघुक्रियया अल्पचाचलनेन प्रव्लयिनि अङ्गुलोवेव लग्र इत्यर्थस्तथा सति ।
उड्डीयेति ।
अयमिति शेषः ।
तस्यादर्शिनान्ममायं मुक्तामणिः खमुत्पत्य गत इति मत्वा अन्तःशुचा न निद्रातीत्यर्थः ।
निमित्तनिमित्तिभावे चायमेव न्यायः ।
यदा तु सारूप्यमात्रवशेनाप्रस्तुतप्रशंसायामप्रकृतप्रकतयोः लोचनम् दर्शयति---निमित्तेति ।
कदाचिन्निमित्तमप्रस्तुतं सदभिधीयमानं नैमित्तिकं प्रस्तुतमाक्षिपति ।
यथा----- ये यान्त्यभ्युदये प्रीतिं नोज्झन्ति व्यसनेषु च ।
ते बान्धवास्ते सुहृदो लोकः स्वार्थपरो ऽपरः ॥
अत्राप्रस्तुत.ं सुहृद्बान्धवरूपत्वं निमित्त् सज्जनासक्त्या वर्णयति नैमित्तिकीं श्रद्धेयवचनतां प्रस्तुतामात्मनो ऽभिव्यङ्क्तुम्; यत्र नैमित्तिकप्रतीतावपि निमित्तप्रतीतिरेव प्रधानीभवत्यनुप्राणाकत्वेनेति व्यङ्ग्यव्यञ्जकयोः प्राधान्यम् ।
कदाचित्तु नेमितितकमप्रस्तुतं वर्ण्यमानं सत्प्रस्तुतं निमित्तं व्यनक्ति ।
यथा सेतौ---
सग्गं अपारिजाअं कोत्थुहलच्छिरहिअं महुमहस्स उरम् ।
सुमराभि महणपुरओ अमुद्धअन्दं च हरजडापब्भारम् ॥
अत्र जाम्बवान् कौस्तुभलक्ष्मीविरहितहरिवक्षःस्मरणादिकमप्रस्तुतनेमित्तिकं वर्णयति प्रस्तुतं वृद्धसेवाचिरजीवित्वव्यवहारकौशलादिनिमित्तभूतं मन्त्रितायामुपादेयमभिव्यङ्क्तुम् ।
तत्र निमित्तप्रतीतावपि नेमित्तिकं वाच्यभूतम्; प्रत्युत तन्निमित्तानुप्राणितत्वेनोद्धुरकन्धरीकरोत्यात्मानमिति समप्रधानतैव वाच्यव्यङ्ग्ययोः ।
तत्रापि द्वौ प्रकारौ---अप्रस्तुतात्कदाचिद्वाच्याच्चमत्कारः, व्यङ्ग्यं तु तन्मुखप्रेक्षम् ।
यथास्मदुपाध्यायभट्टेन्दुराजस्य---- प्राणा येन समर्पितास्तव बलाद्येन त्वमुत्थापितः स्कन्धे यस्य चिरं स्थितो ऽसि विदधे यस्ते सपर्यामपि ।
तस्यास्य स्मितमात्रकेण जनयन् प्राणापहारक्रियां भ्रातः प्रत्युपकारिणां धुरि परं वेताल लीलायते ॥
बालप्रिया अत्रास्थान इति ।
जडानामिति शेषः ।
ये इति ।

अपरः उक्तविपरीतवृत्तिः ।
निमित्तं श्रद्धेयवचनतानिमित्तम् ।
सज्जनासक्त्येति ।
सज्जनबहुमत्येत्यर्थः ।
नैमित्तकेति ।
श्रद्धेयवचनतेत्यर्थः ।
निमित्तप्रतीतिरेवेति ।
न हि वक्तुस्तथाविधबान्धवत्वादिप्रतीतिं विना श्रद्धेयवचनत्वं प्रतीतिपथमवतरेदिति भावः ।
सग्गमिति ।
स्वर्गमपारिजातं कौस्तुभलक्ष्मीरहितं मधुमथनस्योरः ।
स्मरामि मथनात्पुरतः अमुग्धचन्द्रं च हरजटाप्राग्भारम् ॥
इति छाया ।
वृद्धेत्यादित्रयं प्रस्तुतमित्यस्य विशेषणम ।
उद्धुरकन्धरीकरोतीति ।
प्रधानीकरोतीत्यर्थः ।
तन्मुखप्रेक्षमिति ।
तथा च अप्रधानमिति भावः ।
प्राणा इति ।
लोचनम् अत्र यद्यपि सारूप्यवशेन कृतध्नः कश्चिदन्यः प्रस्तुत आक्षिप्यते, तथाप्यप्रस्तुतस्यैव वेतालवृत्तान्तस्य चमत्कारकारित्वम् ।
न ह्यचेतनोपालम्भवदसम्भाव्यमानो ऽयमर्थो न च न हृद्य इति वाच्यस्यात्र प्रधानता ।
यदि पुनरचेतनादिनात्यन्तासम्भाव्यमानतदर्थविशेषणेनाप्रस्तुतेन वर्णितेन प्रस्तुतमाक्षिप्यमाणं चमत्कारकारि तदा वस्तुध्वनिरसौ ।
यथा ममैव---- भावव्रात हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य संक्रीडसे ।
स त्वामाह जडं ततः सहृदयम्मन्यत्वदुःशिक्षितो मन्ये ऽमुष्य जडात्मता स्तुतिपदं त्वत्साम्यसम्भावनात् ॥
कश्चिन्महापुरुषो वीतरागो ऽपि सरागवदिति न्यायेन गाढविवेकालोकतिरस्कृततिमिरप्रतानो ऽपि लोकमध्ये स्वात्मानं प्रच्छादयलंलोकं च वाचालयन्नात्मन्यप्रतिभासमेवाङ्गीकुर्वंस्तेनैव लोकेन मूर्खो ऽयमिति यदवज्ञायते तदा तदीयं लोकोत्तरं चरितं प्रस्तुतं बालप्रिया ऽत्वमुत्पादितऽ इति ऽसपर्यां पुरऽ इति च पाठः ।
सारूप्यवशेनेति ।
प्राणसमर्षणाद्युपकर्तरि अपकर्तृत्वरूपसाद्दश्यबलेनेत्यर्थः ।
प्रस्तुतस्यैवेति ।
वाच्यस्येति शेषः ।
अत्र हेतुमाह---न हीत्यादि ।
न च न हृद्य इति ।
हृद्य एवेत्यर्थः ।
यदीत्यादि ।
ऽअचेतनादिना आक्षिप्यमाणम्ऽ इति योजना ।
अचेतनादिनेत्यस्य विशेषणानि-अत्यन्तेत्यादीनि ।
अत्यन्तमसम्भाव्यमानानि तदर्थस्य अप्रस्तुतार्थस्य विशेषणानि यत्र तेन ।
वस्तुध्वनिरसाविति ।
नायमप्रस्तुतप्रशंसालङ्कार इति भावः ।
भावेति ।
भावानां चन्द्रोद्यानादिपदार्थनां व्रातः सार्थः हे भाव व्रात ।
त्वं तथा संक्रीडसे यदिति सम्बन्धः ।

ततः एवं संक्रीडनाद्धेतोः ।
सहृदयम्मन्यत्वेन सहृदयो ऽहमित्यभिमानेन दुःशिक्षितः दुर्ललितः ।
सः जनः ।
त्वां जडमाह ।
परन्तु अमुष्य एवंवदतो जनस्य ।
या जडात्मता जडो ऽसीत्युच्यमानता सा त्वत्साम्यसम्भावनात् त्वत्साम्यापाताद्धेतोः ।
ऽअमुष्य स्तुतिपदं मन्येऽ इति सम्बन्धः ।
येनेऽत्यस्य ऽप्रच्छादयन्निऽत्यादिना सम्बन्धः ।
यथोक्तम्---- "ज्ञाततत्वस्य लोको ऽयं जडोन्मत्तपिशाचवत् ।
ज्ञाततत्वो ऽपि लोकस्य जडोन्मत्तपिशाचवदि"ति ॥
गाढेति. ।
गाढो यो विवेक एवालोकः तेन तिरस्कृतं तिमिरप्रतानं मोहान्धकारसमूहो यस्य सः ।
वाचालयन्निति ।
आत्मावमानगर्भिता बह्वीर्वाचः प्रवर्तयन्नित्यर्थः ।
आत्मनि स्वस्मिन् ।
अप्रतिभासं जनैरारोपितमवबोधम् ।
अथ सम्बन्धस्तदाप्यप्रस्तुतस्य सरूपस्याभिधीयमानस्य प्राधान्येनाविवक्षायां ध्वनावेवान्तःपातः ।
लोचनम् व्यङ्ग्यतया प्राधान्येन प्रकाश्यते ।
जडो ऽयमिति ह्युद्यानेन्दूदयादिर्भावो लोकेनावज्ञायेते, स च प्रत्युत कस्यचिद्विरिहिण औत्सुक्यचिन्तादूयमानमानसतामन्यस्य प्रहर्षपरवशतां करोतीति हठादेव लोकं यथेच्छं विकारकारणाभिर्नर्तयति ।
न च तस्य हृदयङ्केनापि ज्ञायते कीदृगयमिति, प्रत्युत महागम्भीरो ऽतिविदग्धः सुष्टुगर्वहीनो ऽतिशयेन क्रीडाचतुरः स यदि लोकेन जड इति तत एव कारणात्प्रत्युत वैदग्ध्यसम्भावननिमित्तात्सम्भावितः, आत्मा च यत एव कारणात्प्रत्युत जाड्येन सम्भाव्यस्तत एव सहृदयः सम्भावितस्तदस्य लोकस्य जडो ऽसीति यद्युच्यते तदा जड्यमेवंविधस्य भावव्रातस्याविदग्धस्य प्रसिद्धमिति सा प्रत्युत स्तुतिरित् ।
जडादप पापीयानयं लोक इति ध्वन्यते ।
तदाह---यदा त्विति ।
इतरथा त्विति ।
इतरथैव पुनरलङ्कारान्तरत्वमलङ्कारविशेषत्वं न व्यङ्ग्यस्य कथञ्चिदपि प्राधान्य इति भावः ।
उद्देशे यदादिग्रहणं कृतं समासोक्तीत्यत्र द्वन्द्वे तेन व्याजस्तुतिप्रभृतिरलङ्कारवर्गो ऽपि सम्भाव्यमानव्यङ्ग्यानुवेशः सम्भावितः ।
बालप्रिया वाच्यार्थं दर्शयति---जडो ऽयमित्यादि स्तुतिरित्यन्तेन ।
ऽइति ह्यवज्ञायतऽ इति सम्बन्धः ।
लोकेन कर्त्रा ।
स च उद्यानादिर्भावश्च ।
प्रत्युतेति ।
अजड एव न, किन्तु विदग्धस्वभावो ऽपीत्यर्थः ।
अन्यस्येति ।
प्रियतमामिलितस्येत्यर्थः ।
हठादाक्रम्येत्यस्य व्याख्यानम्----यथेच्छं विकारकारणाभिरित् ।
विकाराणामौत्सुक्यहर्षादीनां कारणाभिः प्रवर्तनाभिः ।
आत्महृदयं प्रच्छाद्येत्यस्य व्याख्यानम्---न चेत्यादि ।
प्रत्युतेत्यस्यैव विवरणम्---महागम्भीर इत्यादि ।
स इत्यास्य अत्रापि सम्बन्धः ।
उत्तरार्धं व्याचष्टे---स यदीत्यादि ।
सः उक्तगुणविशिष्टो भावव्रातः ।

जड इतीत्यस्य सम्भावित इत्यनेनान्वयः ।
तत इत्यस्य व्याख्यानम्--तत एव कारणादिति ।
उक्तप्रकारकसंक्रीडनरूपादित्यर्थः ।
कारणादित्यस्य विशेषणम्--प्रत्युत वैदग्ध्येत्यादि ।
सहृदयेत्यादेर्व्याख्यानम्---आत्मा चेत्यादि ।
तदिति ।
तर्हि इत्यर्थः ।
ऽअस्य लोकस्य सा स्तुतिरिऽति सम्बन्धः ।
का स्तुतिरेवेत्यर्थः ।
कुत एतदित्यत आह-तदेत्यादि ।
तदा तद्वचनकाले ।
जाड्यमेवंविधस्येत्यादि ।
अयमर्थः---अजडस्य सतो जडत्वप्रसिध्युपजीविनी हि जनसम्बन्धिजडत्वोक्तिः ।
तथा सति तत्तुल्ययोगक्षेमतया जनस्याप्यजडत्वसम्भवाज्जनं प्रतिजडो ऽसीत्युक्तिर्वास्तवी स्तुतिरेव पर्यवस्येदिति ।
एवमप्रस्तुतं वाच्यार्थ व्याख्या पार्यन्तिकमर्थं प्रदर्शयति---जडादपीति ।
तदाहेति ।
यदेतत्सारूप्येण प्रतीयमानस्य प्राधान्ये ध्वनित्वमुक्तं तदाहेत्यर्थः ।
एवकारो भिन्नक्रम इति दर्शयति---इतरथैवेति ।
तुशब्दार्थकथनं इतरथात्वलङ्कारान्तरमेव ।
तदयमत्र सङ्क्षेपः---- लोचनम् तत्र सर्वत्र साधारणमुत्तरं दातुमुपक्रमते---तदयमत्रेति ।
कियद्वा प्रतिपदं लिख्यतामिति भावः ।
तत्र व्याजस्तुतिर्यथा--- किं वृत्तान्तैः परगृहगतैः किन्तु नाहं समर्थ- स्तूणीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः ।
गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्या- मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥
अत्र्.अ व्यङ्ग्यं स्तुत्यात्मकं यत्तेन वाच्यमेवोपस्क्रियते ।
यत्तूदाहृतं केनचित्---- आसीन्नाथ पितामही तव मही जाता ततो ऽनन्तरं माता सम्प्रति साम्बुराशिरशना जाया कुलोद्भूतये ।
पूर्णे वर्षशते भविष्यति पुनः सैवानवद्या स्नुषा युक्तं नाम समग्रनीतिविदुषां किं भूपतीनां कुले ॥
इति, तदस्माकं ग्राम्यं प्रतिभात्यत्यन्तासभ्यस्मृतिहेतुत्वात् ।
का चानेन स्तुतिः कृता? त्वं वंशक्रमेण राजेति हि कियदिदम्? इत्येवंप्राया व्याजस्तुतिः सहृदगोष्ठीषु निन्दितेत्युपेक्ष्यैव ।
यस्य विकारः प्रभवन्नप्रतिबन्धस्तु हेतुना येन ।
गमयति तमभिप्रायं तत्प्रतिबन्धं च भावो ऽसौ ॥
इति ।
अत्रापि वाच्यप्राधान्ये भावालङ्काराता ।
यस्य चित्तवृत्तिविशेषस्य सम्बन्धी वाग्व्यापारादिर्विकारो ऽप्रतिबन्धो नियतः बालप्रिया पुनरिति ।
ऽअलङ्कारान्तराङ्गत्वम्ऽ इत्यत्रान्यथाप्रतिपत्तिः स्यादित्यतो विवृणोति---अलङ्कारविशेषत्वमिति ।
इति भाव इति ।
अप्रस्तुतवर्णनस्थले यत्र वाच्यस्य अप्रस्तुतार्थस्य चमत्कारकारित्वं व्यङ्ग्यं, प्रस्तुतं तु तदङ्गं तत्रैवाप्रस्तुतप्रशंसालङ्कारः ।
यत्र तु प्रस्तुतस्य व्यङ्ग्यस्य प्राधान्यं तत्र वस्तुध्वनिरेव नालङ्कार इति ग्रन्थकाराशय इत्यर्थः ।
स्तुत्यात्मकमिति ।
भवतः कीर्तिर्विश्वं व्याप्नोति इत्युत्तमश्लोकत्वरूपगुणकीर्तनमित्यर्थः ।
आसीदिति ।

स्नुषा पुत्रभार्या ।
अत्यन्तासभ्येति ।
पितामह्या मातृत्वोक्तावेवाङ्कुरिता तावदसभ्यस्मृतिस्तसाय जायात्वस्नुषात्ववर्णनेन सुतरामभिव्यक्तेत्याशयेनोक्तमत्यन्तासभ्येति ।
वाच्ये ऽर्थे दोषमुक्त्वा व्यङ्ग्ये ऽपि तमाह-का चेति ।
कियदिदमिति ।
राजान्तरादुत्कर्षविशेषाप्रतीतेरिति भावः ।
ऽव्याजस्तुतिप्रभृतिरिऽति पूर्वोक्तप्रभृतिपदार्थं भावालङ्कारं रुद्रटोक्तमाह-यस्येति ।
ऽयस्य विकारस्तु अप्रतिबन्धः प्रभवन् येन हेतुना तमभिप्रायं तत्प्रतिबन्धं च गमयति असौ भाव इत्यन्वयः ।
अत्रापि द्वैविध्यमस्तीत्याशयेनाह---अत्रापीत्यादि ।
लक्षणवाक्यं व्याचष्टे---यस्येत्यादि ।
चित्तवृत्तिविशेषस्य अनुरागादेः सम्बन्धीजन्यः ।
अप्रतिबन्ध इत्यस्य व्याख्यानम्---नियत इति ।
व्यङ्ग्यस्य यत्राप्राधान्यं वाच्यमात्रानुयायिनः ।
समासोक्त्यादयस्तत्र वाच्यालङ्कृतयः स्फुटाः ॥
व्यङ्ग्यस्य्.अ प्रतिभामात्रे वाच्यार्थानुगमे ऽपि वा ।
न ध्वनिर्यत्र वा तस्य प्राधान्यं न प्रतीयते ॥
लोचनम् प्रभवंस्तं चित्तवृत्तिविशेषरूपमभिप्रायं येन हेतुना गमयति स हेतुर्यथेष्टोपभोग्यत्वादिलक्षणो ऽर्थो भावालङ्कारः ।
यथा--- एकाकिनी यदबला तरुणी तथाहमस्मिन्गृहे गृहपतिश्च गतो विदेशम् ।
कं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ ॥
अत्र व्यङ्ग्यमेकैकत्र पदार्थे उपस्कारकारीति वाच्यं प्रधानम् ।
व्यङ्ग्यप्राधान्ये तु न काचिदलङ्कारतेति निरूपितमित्यलं बहुना ।
यत्रेति काव्ये ।
अलङ्कृतय इति ।
अलङ्कृतित्वादेव च वाच्योपस्कारकत्वम् ।
प्रतिभामात्र इति ।
यत्रोपमादौ म्लिष्टार्थप्रतीतिः ।
वाच्यार्थानुगम इति ।
वाच्येनार्थेनानुगमः समं प्राधान्यमप्रस्तुतप्रशंसायामिवेत्यर्थः ।
न प्रतीयत इति ।
स्फूटतया बालप्रिया येन हेतुनेति ।
वाक्यप्रतिपाद्येनेति शेषः ।
ऽयेन प्रतिबद्धेनऽ इति पाठे तु प्रतिबद्धेनेत्यस्योक्त एवार्थः ।
स हेतुरिति ।
कस्यचिच्चित्तवृत्तिविशेषस्य अनुभावो व्यापारादिर्व्यङ्ग्यहेतुद्वारा तच्चित्तवृत्तिविशेषस्य गमकः स हेतुरित्यर्थः ।
वक्ष्यमाणोदाहरमाभिप्रायेण तद्धेतुं दर्शयति---यथेष्टेत्यादि ।
अहं त्वया यथेष्टमुपभोक्तव्या न किञ्चित्प्रतिबन्धकमिति नायिकामनोगतादिरर्थं इत्यर्थः ।
एकाकिनीति ।
तथेति समुच्चये ।
तदिति ।
यदहमेवंविधास्मि गृहपतिर्गतश्च तदित्यर्थः ।

मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc