ध्वन्यालोक (टीका सहित) · भाग 4160
द्विवचनान्तात्त्रल् ।
अपिशब्दश्चाध्याहार्य इत्याशयेन व्याचष्टे--द्व्यंशत्वे सत्यपीति ।
अर्थस्येति शेषः ।
द्वयोर्भेदयोः सतोरपीत्यर्थः ।
अपिशब्देनैकस्यैव बहुधा व्याकरणे विरोधं दर्शयतान्येषामपारं मौर्ख्यं द्योत्यते ।
प्रसिद्धपदं व्याचष्टे--वनितेत्यादि ।
विदितः ।
ऽकाव्यलक्ष्मविधायिभिऽरित्यस्य कारिकाचतुर्तपादत्वशङ्कां परिहर्तुमाह---अन्यैरित्यादि ।
इति विशेषप्रतिषेधेनेत्यादि ।
अज्ञातज्ञापनलक्षणं प्रतिपादनं हि प्रतननं, तस्य विशेषरूपस्य प्रतिषेधेन तत्प्रतिद्वन्द्वितया परिशिष्टमनुवदनं गम्यत इति भावः ॥ 3 ॥
प्रतीयमानं पुनर् अन्यद् एव वस्त्व् अस्ति वाणीषु महा-कवीनाम् ।
(ध्व्क्_1.4अ)
प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकविनाम् ।
लोचनम् अन्यदेव वस्त्विति ।
पुन्श्शब्दो वाच्याद्विशेषद्योतकः ।
तद्व्यतिरिक्तं सारभूतं चेत्यर्थः ।
महाकवीनामिति बहुवचनमशेषविषयव्यापकत्वमाह ।
एतदभिधास्यमानप्रतीयमानानुप्राणितकाव्यनिर्माणनिपुणप्रतिभाभाजनत्वेनैव महाकविव्यपदेशे भवतीति भावः ।
यदेवंविधमस्ति तद्भाति ।
नह्यत्यन्तासतो भानमुपपन्नम्; रजताद्यपि नात्यन्तमसद्भाति ।
अनेन सत्वप्रयुक्तं तावद्भानमिति भानात्सत्वमवगम्यते ।
तेन यद्भाति तदस्ति तथेत्युक्तं भवति ।
तेनायं प्रयोगार्थः--प्रसिद्धं वाच्यं धर्मि, बालप्रिया ऽप्रतीयमानम्ऽ इत्यादिकारिकाव्याख्यानेनैव ऽसह्यर्थऽ इत्यतः प्राक्तनो वृत्तिग्रन्थो ऽपि व्याख्यातो भवतीत्याशयेन कारिकां व्याचष्टे--पुनश्शब्द इत्यादि ।
वाच्यादिति ।
ऽवाच्यांशादिऽति च पाठः ।
अन्यपदं व्याचष्टे---तदिति ।
वाच्यव्यतिरिक्तमित्यर्थः ।
वस्तुपदं व्याचष्टे--सारेति ।
इति बहुवचनमिति ।
ऽविणीष्विऽति बहुवचनस्याप्युपलक्षणमिदम् ।
अशेषविषयव्यापकत्वमिति ।
प्रतीयमानस्येति शेषः ।
एतदिति ।
एतस्मिन्नेतद्ग्रन्थे अभिधास्यमानेन प्रतीयमानेन ।
एतदिति प्रतीयमानविशेषणं वा ।
इति भाव इति ।
ऽमहाकवीनाम्ऽ इति प्रकृत्यंशेनायमर्थो गम्यतैत्यर्थः ।
कारिकायाः प्रतीयमानसत्त्वसाधकानुमानपरतां दर्शयितुमुपक्रमते--यदित्यादि ।
यत् यस्मात् ।
एवंविधं व्यतिरिक्तं सारभूतं च प्रतीयमानम् अस्ति ।
तत् तस्मात् ।
भातीति ।
हेतुहेतुमद्भावो ऽयमार्थिको बोध्यः ।
अनेन सत्त्वभासमानत्वयोर्हेतुहेतुमद्भावरूपानुकूलतर्कश्च प्रकाशितः ।
न्यायमतानुसारेणाह--न हीति ।
भानं प्रतीतिः ।
उपपन्नं युक्तिसिद्धम् ।
रजताद्यपीति ।
अत्यन्तमसन्न भाति, किन्तु आपणादौ सदेव रजतादि शुक्तिकादौ भातीति भावः ।
अनेनेति ।
अत्यन्तासतो ऽभानेनेत्यर्थः ।
यद्वा--ऽअस्तिऽ विभातीऽतिकारिकाभागेनेत्यर्थः ।
अस्मिन् पक्षे इत्युक्तं भवतीत्यनेनास्य सम्बन्धः ।
तावदिति सम्प्रतिपत्तौ ।
यदिति ।
यद्यदित्यर्थः ।
भातीति ।
यथेति शेषः ।
इत्युक्तमिति ।
इति व्याप्तिः कारिकायां वृत्तो च प्रदर्शितेत्यर्थः ।
तेनेति ।
भानसत्वयोः व्याप्तिदर्शनेनेत्यर्थः ।
अयं वक्ष्यमाणः प्रयुज्यत इति प्रयोगस्तद्रूपार्थः ।
परार्थानुमानरूपन्यायप्रयोग इति यावत् ।
यत् तत् प्रसिद्धावयवातिरिक्तं विभाति लावण्यम् इवाङ्गनासु
यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु ॥ 4 ॥
प्रतीयमानं पुनरन्यदेव वाच्याद्वस्त्वस्ति वाणीषु महाकवीनाम् ।
यत्तत्सहृदयसुप्रसिद्धं प्रसिद्धेभ्यो ऽलङ्कृतेभ्यः प्रतीतेभ्यो वावयवेभ्यो व्यतिरिक्तत्वेन प्रकाशते लावण्यभिवाङ्गनासु ।
यथा ह्यङ्गनासु लावण्ये पृथङ्निर्वर्ण्यमानं निखिलावयवव्यतिरेकि किमप्यन्यदेव सहृदयलोचनामृतं तत्त्वान्तरं तद्वदेव सो ऽर्थः ।
लोचनम् प्रतीयमानेन व्यतिरिक्तेन तद्वत्, तथा भासमानत्वात् लावण्योपेताङ्गनाङ्गवत् ।
प्रसिद्धशब्दस्य सर्वप्रतीतत्वमलङ्ककृतत्वं चार्थः ।
यत्तदिति सर्वनामसमुदायश्चमत्कारसारताप्रकटीकरणार्थमव्यपदेश्यत्वमन्योन्यसंवलनाकृतं चाव्यतिरेकभ्रमं दृष्टान्तदार्ष्टान्तिकयोर्दर्शयति ।
एतच्च किमपीत्यादिना व्याचष्टे ।
लावण्यं हि नामानयवसंस्थानाभिव्यङ्ग्यमवयवव्यतिरिक्तं धर्मान्तरमेव ।
बालप्रिया प्रसिद्धमित्यादि धर्मीत्यन्तेन पक्षनिर्देशः ।
ऽसिद्धं धर्मिणमुद्दिश्य साध्यधर्मे ऽभिधीयतऽ इति वचनानुरोधेन प्रसिद्धं धर्मीति चोक्तं, न त्वनयोः पक्षकोटिप्रवेशः ।
प्रतीयमानेन व्यतिरिक्तेन तद्वदिति साध्यनिर्देशः ।
स्वव्यतिरिक्तप्रतीयमानसम्बद्धमित्यर्थः ।
वाच्यस्यैव प्रतीयमानत्वमभ्युपगच्छतां मते स्वात्मकप्रतीयमानवत्वं सिद्धमिति सिद्धसाधनवारणाय स्वव्यतिरिक्तत्वनिवेशः ।
तथा भासमानत्वादिति हेतुनिर्देशः ।
स्वव्यतिरिक्तप्रतीयमानवत्वेन प्रमीयमाणत्वादित्यर्थः ।
अत्र दृष्टान्तः--अङ्गनाङ्गवदिति ।
अत्र स्वव्यतिरिक्तप्रतीयमानपदार्थत्वेन लावण्यं ग्राह्यमिति प्रदर्शयितुं लावण्योपेतेत्युक्तम् ।
अङ्ग्वदित्यन्तरं इतीति शेषः ।
वृत्तौ ऽअलङ्कृतेभ्यः प्रतीतेभ्यो वाऽ इत्यत्र वाशब्दः समुच्चयार्थक इति प्रदर्शयितुं व्याचष्टे--प्रसिद्धशब्दस्येत्यादि ।
लावण्यस्य भूषणशोभातो व्यतिरेकं दर्शयितुमलङ्कृतत्वरूपार्थस्यापि कथनम् ।
कारिकायां ऽयत्तदिऽत्यत्र यच्छब्दः पूर्वोक्तप्रतीयमानवस्तुवाची ।
ऽतदिऽ ति तच्छब्दस्तु प्रसिद्धार्थक इत्याशयेन ऽसहृदयसुप्रसिद्धम्ऽ इति वृत्तौ व्याख्यातम्, आभ्यां गम्यमानमर्थं व्याचष्टे--यत्तदित्यादि ।
समुदाय इति ।
यच्छब्दसहितस्तच्छब्द इत्यर्थः ।
चमत्कारः सारः प्राणो यत्र तत् ।
चमत्कारसारं प्रतीयमानं लावण्यं च तस्य भावस्तत्ता तस्याः ।
प्रकटीकरणार्थं द्योतनार्थम् ।
अव्यपदश्यत्वं व्यपदेष्टुमशक्यत्वम् ।
रसध्वन्यभिप्रायेण चेदमुक्तम् ।
अन्योन्येति ।
वाच्यव्यङ्ग्ययोरङ्गलावण्ययोश्चेत्यर्थात्सिध्यति ।
ऽअव्यतिरेकभ्रमं चेऽति योजना ।
दृष्टान्तेत्यादि ।
यत्तदित्यस्य दृष्टान्ते ऽपि सम्बन्धो ऽस्तीति भावः ।
दर्शयति स ह्यर्थो वाच्यसामर्थ्याक्षिप्तं वस्तुमात्रमलङ्काराःरसादयश्चेत्यनेकप्रभेदप्रभिन्नो दर्शयिष्यते ।
सर्वोषु च तेषु प्रकारेषु तस्य वाच्यादन्यत्वम् ।
लोचनम् न चावयवानामेव निर्देषता वा भूषणयेगो वा लावण्यम्, पृथङ्निर्वर्ण्यमानकाणादिदोषशून्यशरीरावयवयोगिन्यामप्यलङ्कृतायामपि लावण्यशून्येयमिति, अतथाभूतायामपि कस्याञ्चिल्लावण्यामृतचन्द्रिकेयमिति सहृदयानां व्यवहारात् ।
ननु लावण्यं तावद्व्यतिरिक्तं प्रथितम् ।
प्रतीयमानं किं तदित्येव न जानीमः, दूरे तु व्यतिरेकप्रथेति ।
तथा भासमानत्वमसिद्धो हेतुरित्याशङ्क्य स ह्यर्थ इत्यादिना स्वरूपं तस्याभिधत्ते ।
सर्वेषु चेत्यादिना च व्यतिरेकप्रथां साधायिष्यति ।
तत्र प्रतीयमानस्य तावद्द्वौ भेदौ--लौकिकः, काव्यव्यापारैकगोचरश्चेति ।
लौकिको यः स्वशब्दवाच्यतां कदाचिदधिशेते, स च विधिनिषेधाद्यनेकप्रकारो वस्तुशब्देनोच्यते ।
सो ऽपिद्विविधः--यः पूर्वं क्वापि वाक्यार्थे ऽलङ्कारभावमुपमादिरूपतयान्वभूत्, इदानीं त्वनलङ्काररूप बालप्रिया सूचयति ।
किमपीत्यादिना व्याचष्ट इति ।
वृत्तौ ऽकिमपीऽत्यादेः दार्ष्टान्तिके ऽपि सम्बन्धो बोध्य इति भावः ।
द्दष्टान्तस्य साध्यवैकल्यशङ्कां परिहर्तुमाह-लावण्यं हीत्यादि ।
धर्मान्तरं धर्मविशेषः ।
उक्तमुपपादयति--न चेति ।
पृथगिति ।
पृथङ्निर्वर्ण्यमाना दृश्यमानाः काणादिदोषशून्याश्च ये शरीराक्यवास्तद्योगिन्यामपि ।
काणशब्दः काणत्वपरः ।
अतथाभूतायामिति ।
काणत्वादिदोषसहितायामनलङ्कृतायां चेत्यर्थः ।
चन्द्रिकेत्यारोपेणोक्तिः ।
वृत्तौ ऽपृथगिऽत्यादि ।
पृथङ्निर्वण्यमानेभ्यो निखिलावयवेभ्यो व्यतिरेकीत्यर्थः ।
ऽस ह्यर्थऽ इत्यादिवृत्तिग्रन्थमवतारयति-नन्वित्यादि ।
तदिति ।
भवदुच्यमानमित्यर्थः ।
ऽकिमित्येव न जानीमऽ इत्येवकारसूचितं कैमुतिकन्यायं स्पष्टीकरोति-दूर इति ।
तस्येति शेषः ।
व्यतिरेकस्य वाच्याद्भेदस्य, प्रथा प्रसिद्धः ।
धर्मसिद्धेः धर्मिसिध्यधीनत्वात् प्रतीयमानस्यासिद्धौ तत्र वाच्यभेदस्याप्यसिद्धिरित्यर्थः ।
इतीति हेतौ ।
तथेत्यादि ।
तथाभासमानत्वरूपो हेतुः हेत्वप्रसिद्धिरूपदोषविशिष्ट इत्यर्थः ।
ऽवस्तुमात्रऽ मित्यादिवृत्युक्तमुपपादयति-तत्र प्रतीयमानस्येत्यादि ।
तत्र प्रतीयमानस्य अस्तित्वे सति ।
तावदादौ ।
लौकिकः लोकविदितः ।
काव्येति ।
काव्यं शब्दार्थमयं तस्य शब्दस्यार्थस्य च यो व्यापारः व्यञ्जनारूपः तदैकगोचरः नान्यगोचरः ।
ततश्चालौकिक इति भावः ।
लौकिको य इति ।
स इति शेषः ।
कदाचित् ।
वाच्यत्वावस्थायाम् ।
वस्तुशब्देनेति ।
वस्तुध्वनिशब्देनेत्यर्थः ।
वस्तुशब्दं व्याख्याय ऽवस्तुमात्रऽ मिति मात्रशब्दव्याख्यासौकर्यायादावलङ्कारध्वनिं व्याख्यातुमाह---सो ऽपीत्यादि ।
पूर्व वाच्यत्वावस्थायाम् ।
इदानीं व्यङ्ग्यत्वावस्थायाम् ।
अन्यत्र वाच्यार्थे यो लोचनम् एवान्यत्र गुणीभावाभावात्, स पूर्वप्रत्यभिज्ञानवलादलङ्कारध्वनिरिति व्यपदिश्यते ब्राह्मणश्रमणन्यायेन ।
तद्रूपताभावेन तूपलक्षितं वस्तुमात्रमुच्यते ।
मात्रग्रहणेन हि रूपान्तरं निराकृतम् ।
यस्तु स्वप्ने ऽपि न स्वश्ब्दवाच्यो न लौकिकव्यवहारपतितः, किं तु शब्दसमर्प्यमाणहृदयसंवादसुन्दरविभावानुभावसमुचितप्राग्विनिविष्टरत्यादिवासनानुरागसुकुमारस्वसंविदानन्दचर्वणाव्यापाररसनीयरूपो रसः, स काव्यव्यापारैकगोचरो बालप्रिया गुणीभावः तस्याभावात् ।
नन्वनलङ्कारस्वरूपत्वे कथमलङ्कार ध्वनिरिति व्यवहार इत्यत अहा--पूर्वेति ।
ऽन्यायेन व्यपदिश्यतऽ इति सम्बन्धः ।
श्रमणः आर्हतसमयप्रविष्टः ।
तद्रूपताभावेन अलङ्काररूपत्वाभावेन ।
मात्रग्रहणेनेति ।
ऽवस्तुमात्रम्ऽ इति वृत्तिस्थमात्रशब्देनेत्यर्थः ।
रूपान्तरं अलङ्काररूपत्वम् ।
स्वप्ने ऽपीति ।
स्वप्ने ह्यघटमानमपि घटते ।
न लौकिकव्यवहारपतित इति ।
न पुत्रजन्मादिहर्षतुल्यरूप इति भावः ।
शब्देति ।
शब्दैः गुणालङ्कारसुन्दरकाव्यशब्दैः ।
समर्प्यमाणाः सम्यक्तया रसाभिव्यञ्जनसमुचिततया अर्प्यमाणाः सहृदयहृदयमुकुरोदरे संक्रामिताः ।
अनेन विभावादेर्वास्तवसत्वमप्रयोजकमिति दर्सितम् ।
स्वष्टमिदं दशरूपकादौ ।
अत एव शकुन्तलादीनामिव मालत्यादीनामपि विभावत्वादिकमुपपन्नम् ।
न केवलं काव्यशब्दसमर्पमकृतमेव विभावत्वादिकं, किन्तु सहृदयहृदयसंवादकृतमपीत्याह--हृदयेति ।
शब्दसमर्प्यमाणाः हृदयसंवादसुन्दराश्च ये विभावानुभावाः तेषां समुचिताः प्राक्जन्मनः आरभ्य "न ह्येतच्चित्तवृत्तिशून्यः प्राणी भवती"त्युक्तदिशा आत्मनि विशेषतो निविष्टाः याः रत्यदीनां वासनाः सूक्ष्मरूपाः, तासामनुरागेण उद्बोधद्वारकेण रूषणेन ।
सुकुमारा रसचर्वणयोग्यतां गता या स्वस्य चर्वयितुः सहृदयस्य संवित् सम्यग्वेत्त्यनयेति संविन्मनः, तस्या य आनन्दमयः चर्वणारूपो व्यापारः तेन, रसनीयमास्वादनीयं रूपं यस्य सः ।
यथोक्तं मुनिना--"आस्वादयन्ति मनसे"त्यादि ।
यद्वा--सुकुमारः नित्यमनोहरः ।
स्वसंवित् स्वानुभवसिद्धः, आनन्दमयश्च यः चर्वणाव्यापारः तेनेत्यर्थः ।
रसध्वनिरितीत्यनन्तरमुच्यत इति शेषः ।
तथा ह्याद्यस्तावत्प्रभेदो वाच्याद्दूरं विभेदवान् ।
स हि कदाचिद्वाच्ये विधिरूपे प्रतिषेधरूपः ।
यथा-- भम धम्मिअ वीसत्थो सो सुणओ अज्ज मारिओ देण ।
गोलाणैकच्छकुडङ्गवासिणा दरिअसीहेण ॥
लोचन.म् रसध्वनिरिति, स च ध्वनिरेवेति, स एव मुख्यतयात्मेति ।
यदूचे भट्टनायकेन--ऽअंशत्वं न रूपताऽ इति, तद्वस्त्वलङ्कारध्वन्योरेव यदि नामोपालम्भः, रसध्वनिस्तु तेनैवात्मतयाङ्गीकृतः, रसचर्वणात्मनस्तृतीयस्यांशस्याभिधाभावनांशद्वयोत्तीर्णत्वेन निर्णयात्, वस्त्वलङ्कारध्वन्यो रसध्वनिपर्यन्तत्वमेवेति वयमेव वक्ष्यामस्तत्र तत्रेत्यास्तां तावत् ।
वाच्यसामर्थ्याक्षिप्तमिति भेदत्रयव्यापकं बालप्रिया वस्त्वादिध्वनितो विशेषमाह---स चेति ।
चस्त्वर्थे ।
ध्वनिरेव व्यङ्घ्य एव, न वाच्य इत्येवकारार्थः ।
इतीति हेतौ ।
स एव रसध्वनिरेव ।
एवकारेण वस्त्वादिध्वनेर्व्यवच्छेदः ।
मुख्यतया आत्मेति ।
वस्त्वादिध्वनेरौपचारिकमेवात्मत्वं, न मुख्यमिति भावः ।
इतीत्यनन्तरमुच्यत इति शेषः ।
तदिति ।
तद्वचनमित्यर्थः ।
यदि नामेति निश्चये सत्यनिश्चयवचनम् ।
उपालंभः प्रतिक्षेपः, आत्मत्वनिषेध इति यावत् ।
भवेदिति शेषः ।
तद्वचनं वस्त्वलङ्कारध्वन्योरेवात्मत्वप्रतिषेधरूपं स्यान्न रसध्वनेरित्यर्थः ।
कुत इत्यत्राह--रसेति ।
कथमिदमवगतमित्यत्राह--रसचर्वणेत्यादि निर्णयादित्यन्तम् ।
वस्त्वलङ्कारध्वन्योरात्मत्वप्रतिषेधो ऽस्मदभिमत एवेति तत् सिद्धसाधनमित्याह--वस्त्विति ।
रसध्वनिपर्यन्तत्वमेवेति ।
वाच्ययोर्वस्त्वलङ्कारयोरिव ध्वन्यमानयोरपि तयोः विभावादिरूपत्वेन कस्यचिद्रसस्य व्यञ्जकतया पर्यवसानाद्रसध्वनिविश्रान्तत्वमेवेत्यर्थः ।
विश्रान्तधामत्वकृतं हि मुख्यमात्मत्वं, तच्च रसध्वनेरेव ।
वस्त्वलङ्कारध्वन्योस्तु ध्वन्यमानत्वकृतो वाच्यादुत्कर्ष इत्यमुख्यमात्मत्वम् ।
तदपेक्षया च ऽध्वनिः काव्यात्मेऽति सामान्येनोक्तिरिति भावः ।
ऽवाच्यसामर्थ्यक्षिप्तम्ऽ इति क्लीबैकवचनान्तत्वेन निर्देशाद्वस्तुमात्रमित्यस्यैव विशेषणमिति भ्रमः स्थादतस्तन्निवृत्तये व्याचष्टे---वाय्यसामर्थ्यक्षिप्तमिति ।
भेदत्रयेति ।
वाच्यसामर्थ्याक्षिप्तमित्यस्य लिङ्गवचनयोर्विपरिणामेमनालङ्कारा लोचनम् सामान्यलक्षणम् ।
यद्यपि हि ध्वननं शब्दस्यैव व्यापारः, तथाप्यर्थसामर्थ्यस्य सहकारिणः सर्वत्रानपायाद्वाच्यसामर्थ्यक्षिप्तत्वम् ।
शब्दशक्तिमूलानुरणनव्यङ्ग्ये ऽप्यर्थसामर्थ्यदेव प्रतीयमानावगतिः, शब्दसक्तिः केवलमवान्तरसहकारिणीति वक्ष्यामः ।
दूरं विभेदवानिति ।
विधिनिषेधौ विरुद्धाविति न कस्यचिदपि विमतिः ।
एतदर्थं प्रथमं तावेवोदाहरति--- ऽभ्रम धार्मिक विस्रब्धः स शुनको ऽद्य मारितस्तेन ।
गोदावरीनदीकूललतागहनवासिना दृप्तसंहेन ॥
बालप्रिय्.आ रसादय इत्यनयोरपि योजना कार्थेति भावः ।
ऽवाच्यसामर्थ्यक्षिप्तऽ इति पठि तु अर्थ इत्यस्य विशेषणम् ।
सामान्यलक्षणमिति ।
वाच्यसामर्थ्याक्षिप्तत्वं वस्तुध्वन्यादिभेदत्रयानुगतो धर्म इत्यर्थः ।
नन्वभिधादिव्यापारवत् ध्वननव्यापारस्य शब्दाश्रयत्वाद्वस्त्वादिध्वनेरुक्तलक्षणमसम्भवीति शङ्कते--यद्यपीति ।
समाधत्ते--तथापीत्यादि ।
ननु शब्दशक्तिमूले ध्वनौ शब्दशक्तिरेव सहकारिणी नेतरेत्य आह--शब्देत्यादि ।
तर्हि मा भूच्छब्दशक्तिरित्यत्राह--शब्दशक्तिरिति ।
अवान्तरसहकारिणी अर्थसामर्थ्योपकारिणी ।
वक्ष्याम इति ।
शब्दशक्तिमूलप्रभेदनिरूपण इति शेषः ।
वृत्तौ ऽआद्यःप्रभेदऽ इति ।
विधिनिषेधादिरूपवस्तुमात्ररूपो भेद इत्यर्थः ।
दूरं विभेदवानिति ।
अत्यर्थं भिन्न इत्यर्थः ।
आत्यन्तिकं भेदमुपपादयति लोचने--विधीत्यादि ।
विधिनिषेधौ एकस्याः क्रियायाः विधिर्निषेधश्च ।
विरुद्धाविति ।
विरोधो नाम युगपदेकत्र वृत्तित्वाभावो, भिन्नत्वं वा ।
इतीति प्रकारे, इत्यत्रेत्यर्थः ।
विपरीता मतिर्विमतिः ।
एतदर्थे अविमत्यर्थम् ।
विमत्यभावाद्धेतोरिति यावत् ।
यद्वा--एतदर्थे आत्यन्तिकभेदप्रदर्शनार्थम् ।
तावेव वाच्यव्यङ्ग्यभूतौ विधिनिषेधावेव ।
यथेत्यस्य व्याख्यानं-उदाहरतीति ।
अन्यत उद्धृत्य तत्प्रतिपादकवाक्यानि आहरति प्रबन्धमिमं प्रापयतीत्यर्थः ।
छायां पठति--भ्रमेत्यादि ।
वस्तब्धमिति च पाठः ।
ऽगोदानदीकच्छनिकुञ्जवासिनेऽति छाया ।
तत्र गोदापदस्य गोदावरीति, कच्छादिपदयोः कूललतागहनेति च विवरणम् लोचनम् कस्याश्चित्सङ्केतस्थानं जीवितसर्वस्वायमानं धर्मिकसञ्चरणान्तरायदोषात्तदवलुप्यमानपल्लवकुसुमादिविच्छायीकरणाच्च परित्रातुमियमुक्तिः ।
तत्र स्वतःसिद्धमपि भ्रमणंश्वभयेनापोदितमिति प्रतिप्रसवात्मको निषेधाभावरूपः, न तु नियोगः प्रैषादिरूपो ऽत्र विधिः; अतिसर्गप्राप्तकालयोर्ह्ययं लोट् ।
तत्र भावतदभावयोर्विरोधाद्द्वयोस्तावन्न युगपद्वाच्यता, बालप्रिया वक्तृविशेषानुक्तौ व्यङ्ग्यप्रतीत्यनुदयमाशङ्क्यावतारिकामाह---कस्याश्चिदित्यादि ।
परित्राणे हेतुः--जीवितसर्वस्वायमानमिति ।
अतिप्रियात्वादिति भावः ।
सञ्चरणेन यो ऽन्तरायः चौर्यसुरतस्य खल्पकालविच्छेदरूपो विघ्नः तद्रूपो दाषस्तस्मात् ।
दोषान्तरमप्याह---तदवेति ।
तेन धार्मिकेण अवलुप्यमानमपह्लियमाणं पल्लवकुसुमादि, तेन यद्विच्छायीकरणं निश्शेभतापादनं, तस्मात् ।
तत्रेति ।
तथा सतीत्यर्थः ।
स्वत इत्यादि ।
अत्र भ्रममरूपे वाक्यार्थे ऽविधिर्निषेधाभावरूपः न तु प्रैषादिरूपो नियोगऽ इति सम्बन्धः ।
ननु किमिति मुख्य एव न स्यादित्यत्राह--प्रतिप्रसवात्मक इति ।
अत्र हेतुमाह--स्वत इत्यादि ।
श्वभयेन कर्त्रा ।
अपोदितं प्रतिषिद्धम् ।
इतीति हेतौ ।
यथोक्तं ऽप्राप्ते तु प्रतिषेधे हि प्रतिप्रसवयोगिताऽ इति ।
निषेधाभावरूपो विधिरित्यत्र हेतुत्वेन लोडर्थमाह--अतिसर्गेति ।
अयमर्थः--स्वतस्सिद्धं भ्रमणं श्वभीतिर्निषेधति स्म ।
प्रतिषिद्धस्य भ्रमणस्य प्रतिषेधकाभावः सम्प्रति कथ्यते ।
अतो ऽयं प्रतिप्रसवः ।
प्रतिषेधनिवर्तनं हि सः ।
अतो भ्रमणस्येदानीं न कश्चित् प्रतिबन्ध इति निषेधाभावो ऽत्र विधेः, नतु नियोगः ।
न खल्वेषा स्वैरिणी राजेव भ्रमणविधिं करोति, श्वभयमिव भ्रमणनिषेधं वा ।
किं तर्हि? भ्रमणप्रतिषेधकाभावं कथयति ।
ततो भ्रमणं विधीयमानताकोटिं निविशते ।
तस्मादयं लोट् कामचारभ्यनुज्ञारूपातिसर्गे, प्राप्तकालार्थश्चायं लोडिति ।
अथ भ्रमणनिषेधस्य व्यङ्ग्यत्वं व्यवस्थापयिष्यन् वाच्यत्वादिकं निराकरोति--तेत्रेत्यादिना ।
तत्र तथाविधवचने ।
द्वयोः भ्रम, मा भ्रमीरिति विधिनिषेधरूपयोरर्थयोः ।
युगपत् एकदा ।
लोचनम् न क्रमेण, विरम्य व्यापारभावात् ।
ऽविशेष्यं नाभिधा गच्छेत्ऽ इत्यादिनाभिधाव्यापारस्य विरम्य व्यपारासंभवाभिधानात् ।
ननु तात्पर्यशक्तिरपर्यवसिता विवक्षया दृप्तधार्मिकतदादिपदार्थानन्वयरूपमुख्यार्थबाधबलेन विरोधनिमित्तया विपरीतलक्षणया च वाक्यार्थीभूतनिषेधप्रतीतिमभिहितान्वयद्दशा करोतीति शब्दशक्तिमूल एव सो ऽर्थः ।
एवमनेनोक्तमिति हि व्यवहारः, तन्न बालप्रिया न वाच्यता न अभिधेयता ।
अत्र हेतुः--भावेति ।
घटतदभावयोरिव तयोर्विरोधादित्यर्थः ।
विरुद्धयोस्तयोर्युगपद्बुद्धिपथानारोहित्वादिति ।
यावत् ।
न क्रमेणेति ।
वाच्यतेत्यनुषज्यते ।
अत्र हेतुमाह--विरम्य व्यापाराभावादिति ।
अभिधाया विरम्य पुनः सम्भवाभावादित्यर्थः ।
एकश्शब्द एकमर्थमभिधया बोधयित्वा पुनस्तया अर्थान्तरं न बोधयति यतः, तस्मादिति यावत् ।
अत्र प्रमाणमाह--विशेष्यमित्यादि ।
आदिपदेन ऽक्षीणशक्तिर्विशेषणऽ इत्यस्य संग्रहः ।
अभिधा गवादिपदाभिधा ।
विशेषणो गोत्वादावर्थे ।
क्षीणा विरता ।
शक्तिः बोधजननसामर्थ्यं यस्याः सा तथा सती ।
विशेष्यं गवादिव्यक्तिरूपम् ।
न गच्छेत् न बोधयेदिति तदर्थः ।
अतश्च विधिनिषेधयोरेक एवाभिधेय इति भावः ।
यद्येवं तर्हि निषेधस्यैवात्र बोधो भवत्विति शङ्कते---नन्वित्यादि ।
यत्र तात्पर्यं तद्धि वाक्यार्थः ।
तात्पर्यविषयश्चात्र भ्रमणनिषेधः ।
अतः स एव वाक्यार्थः ।
तेन तस्य विवक्षया विवक्षितत्वाद्धेतोः ।
अपर्यवसिता भ्रमणविधौ पर्यवसानमनाप्नुवती ।
तात्पर्यशक्तिः पदनिष्ठा विवक्षितार्थप्रतीतिजननसामर्थ्यरूपतात्पर्यात्मिका शक्तिः ।
वाक्यार्थीभूतस्य निषेधस्य प्रतीतिं करोति ।
केन व्यापारेणेत्यत्राह--लक्षणयेति ।
लक्षणानिमित्तमाह--विरोधेति ।
विरोधरूपसम्बन्धनिमित्तयेत्यर्थः ।
ऽवाच्यार्थस्य च वाक्यार्थे सम्बन्धानुपपत्तितःऽ इत्युक्तं मुख्यार्थबाधं दर्शयति--दृप्तेत्यादि ।
भ्रमेत्यस्य मुख्यार्थकत्वे दृप्तत्वाद्यभिधानस्य वैयर्थ्यापत्त्या दृप्तादिपदार्थघटितवाक्यार्थे भ्रमणविधिरूपमुख्यार्थस्य यो ऽनन्वयः अन्वयोपपत्त्यभावः, तद्रूपो यो मुख्यार्तबाधस्तस्य बलेन सहकारेणेत्यर्थः ।
अभिहितान्वयदृशेति ।
अभिहितान्वयदर्शनेनेत्यर्थः ।
अभिहितान्वयवादिमतानुरोधेनेति यावतत् ।
फलितमाह--इतीत्यादि ।
शब्दशक्तिरभिधा तन्मूलः ।
तात्पर्यशक्तिलक्षणासक्त्योरभिधाश्रयत्वेनावस्थानादिति भावः ।
वक्ष्यते च ऽअभिधापुच्छभूता लक्षणेऽति ।
सो ऽर्थ इति ।
भ्रमणनिषेध इत्यर्थः ।
अत्र प्रमाण लोचनम् वाच्यातिरिक्तो ऽन्यो ऽर्थ इति ।
नैतत्; त्रयो ह्यत्र व्यापाराः संवेद्यन्ते--पदार्थेषु सामान्यात्मस्वभिधाव्यापारः, समयापेक्षयार्थावगमनशक्तिर्ह्यभिधा ।
समयश्च तावत्येव, न विशेषांशे, आनन्त्या द्व्यभिचाराच्चैकस्य ।
ततो विशेषरूपे वाक्यार्थे तात्पर्यशक्तिः परस्परान्विते, ऽसामान्यान्यन्यथासिद्धेर्विशेषं गमयन्ति हिऽ इति न्यायात् ।
बालप्रिया माह---एवमित्यादि ।
उक्तमिति हि व्यवहार इति ।
न तु व्यञ्जितमिति व्यवहार इति भावः ।
उपसंहरति---तन्नेति ।
वाच्यातिरिक्तः अभिधेयातिरिक्तः ।
विपरीतलक्षणयात्र निषेधप्रतीतिर्न सम्भवति, तस्या अनवकासादित्याशयेन मतमेतत्प्रत्याचष्टे--नैतदित्यादि ।
एतन्न एतन्मतं युक्तं नेत्यार्थः ।
कुत इत्यत्राह--त्रय इत्यादि ।
अत्र लोकव्यवहारे ।
त्रयो व्यापाराः अभिधातात्पर्यलक्षणाः ।
शब्दस्येति ।
शेषः ।
संवेद्यन्तेज्ञायन्ते ।
आद्यस्य व्यापारस्य विषयमाह--पदार्थेष्विति ।
सामान्यात्मसु गोत्वादिसामान्यरूपेषु ।
अभिदाव्यापार इति ।
गवादिपदानामिति शेषः ।
स्वरूपमाह-समयेत्यादि ।
समयापेक्षया सङ्केतग्रहणसहकारेण ।
ऽसमयापेक्षेऽति च पाठः ।
समयं सङ्केतग्रहणमपेक्षत इति तदर्तः ।
अर्थावगमनशक्तिः अर्थबोधनसामर्थ्यम् ।
तावत्येव सामान्यात्मकपदार्थ एव ।
एवकारव्यवच्छेद्यमाह--नेत्यादि ।
विशेषांशे व्यक्त्यात्मनि ।
कुत इत्यत्राह-आनन्त्यादिति ।
विशेषांशानामनन्तत्वादित्यर्थः ।
तथा च सर्वस्मिन् विशेषे समयः कर्तुं न शक्यः ।
अनन्तश्च स्यादिति भावः ।
हेत्वन्तरमप्याह-व्यभिचाराच्चैकस्येति ।
एकैकस्य विशेषांशस्य मिथो व्यभिचाराच्चेत्यर्थः ।
गोपदेन यस्य गोव्यक्तिविशेषस्य बोधो जायते, तस्मिन्नितरगोव्यक्तिगतसमयो नास्तीति रीत्या व्यभिचारो बोध्यः ।
यद्वा--समयश्चेत्यत्र समयशब्दस्य सङ्केतग्रह इत्यर्थः ।
सर्वस्मिन् विशेषे सङ्केतग्रहस्य व्यवहाराङ्गत्वे दोषमाह--आनन्त्यादिति ।
विशेषाणामनन्तत्वात्सर्वस्मिन् विशेषे सङ्केतग्रहो न सम्भवतीत्यर्थः ।
तर्ह्येकस्मिन्नेव विशेषे तद्ग्रहो व्यवहाराङ्गमस्त्वित्यत्राह--व्यभिचाराच्चैकस्येति ।
अगृहीतसङ्केतकस्यापि गवादिव्यक्तिविशेषस्य गवादिव्यक्तिविशेषस्य गवादिपदेन बोधोदयात्तत्र सङ्केतग्रहस्य व्यभिचाराच्चेत्यर्थः ।
अथ द्वितीयं व्यापारं सविषयं दर्शयति--तत इत्यादि ।
ततः उक्ताद्धेतोः ।
परस्परान्विते आकाङ्क्षावशाद्गुणप्रधानभावेन मिथस्संबद्धे ।
विशेषरूपे सामान्यात्मकततत्पदार्थाक्षिप्तत्तह्यक्तिरूपविशेषघटिते ।
वाक्यार्थे विषये ।
तात्पर्यशाक्तिः स वाक्यार्थः परःप्रधानतया प्रतिपाद्यः येषां तानि तत्पराणि तेषां भावस्तात्पर्य तद्रूपा शक्तिः, पदानामिति शेषः ।
आक्षेपं बोधयन्नाह--सामान्यानीत्यादि ।
सामान्यानि पदैरभिहिताः सामान्यरूपा अर्थाः अन्यथा विशेषाणामनवगमने ।
असिद्धेः क्रियाद्यन्वयासिद्धेः ।
विशेषं स्वाश्रयव्यक्तिरूपं गमयन्ति ।
स्वाविनाभावाद्बोधयन्ति ।
ऽसामान्यानन्यथेऽति पाठे तु लोचनम् तत्र च द्वितीयकक्ष्यायां ऽभ्रमेऽति विध्यतिरिक्तं न किञ्चित्प्रतीयते, अन्वयमात्रस्यैव प्रतिपन्नत्वात् ।
न हि ऽगङ्गायां घोषःऽ ऽसिंहो बटुःऽ इत्यत्र यथान्वय एव बुभूषन् प्रतिहन्यते, योग्यताविरहात्; तथा तव भ्रममनिषेद्धा स श्वा सिंहेन हतः ।
तदिदानीं भ्रमणनिषेधकारमवैकल्याद्भ्रमणं तववोचितमित्यन्वयस्य काचित्क्षतिः ।
अत एव मुख्यार्थबाधा नात्र शङ्क्येति न विपरीतलक्षणाया अवसरः ।
भवतु वासौ ।
तथापि द्वितीयस्थानसंक्रान्ता तावदसौ न भवति ।
तथा हि-मुख्यार्थबाधायां लक्षणायाः प्रक्लॄप्तिः ।
बाधा च विरोधप्रतीतिरेव ।
न चात्र पदार्थानां स्वात्मनि विरोधः ।
परस्परं विरोध इति चेत्--सो ऽयं तर्ह्यन्वये विरोधः प्रत्येयः ।
बालप्रिया पदानीति शेषः ।
सामान्यानां स्वाभिहितसामान्यरूपाणामर्थानामन्यथासिद्धेरविनाभावादित्यर्थः ।
एवमुपनिबद्धपीठिको लक्षणां निराकर्तुमारभते--तत्र चेत्यादि ।
तत्र तात्पर्यशक्तिविषयभूतायाम् ।
द्वितीयकत्त्यायां अभिधाव्यापारविषयापेक्षया द्वितीयस्यां कक्ष्यायाम् ।
भ्रमेत्यादिवाच्यो भ्रमणविधेरेव प्रतीयते, नान्यन्निषेधरूपं किञ्चिदित्यर्थः ।
अन्वयमात्रस्येति ।
वाक्यार्थमात्रस्येत्यर्थः ।
एवकारो मात्रशब्दार्थस्फुटीकरणार्थः ।
एतह्यवच्छेद्यं विध्यतिरिक्तमित्यादि पूर्वोक्तं बोध्यम् ।
प्रतिपन्नत्वादिति ।
ज्ञातत्वादित्यर्थः ।
उक्तमुपपादयति---न हीत्यादि ।
ऽइत्यन्वयस्य न हि काचित् क्षतिऽरिति सम्बन्धः ।
गङ्गायामितायदि वैधर्म्येणोदाहरणम् ।
अन्वय इति वाच्यवर्मिणोरन्वय इत्यर्थः ।
बुभूषन्नेव भवितुमारब्धवानेव ।
प्रतिहन्यते वाधितो भवति ।
योग्यताविरहादिति ।
गङ्गादिपदवाच्यधर्मिणः स्रोतोविशेषादेः घोषादिना सहाघाराधेयभावसम्बन्धादेरभावादित्यर्थः ।
क्षतिः बाधा ।
फलितमाह-अत एवेत्यादि ।
अत एव अन्वयक्षतेरभावादेव ।
अथ लक्षणाप्रयोजनविषये ध्वनिव्यापारं प्रदर्शयिष्यन्नभ्युपगम्यापि लक्षणान्तस्याः पूर्वपक्ष्यभिमततात्पर्यशक्तिविषयकक्ष्यानिवेशं निराकुर्वन्नाह--भवतु वेत्यादि ।
असौ लक्षणा ।
द्वितीयस्थानसङ्कान्तेति ।
तात्पर्यकक्ष्यानिविष्टेत्यर्थः ।
तावदिति सम्प्रतिपत्तौ, वाक्यालङ्कारे वा ।
एतदेवोपपादयति-तथाहीत्यादिना ।
लक्षणायाः प्रक्लॄप्तिरिति ।
लक्ष्यार्थोपस्थितिकल्पनेत्यर्थः ।
बाधा चेति ।
बाधापदार्थश्चेत्यर्थः ।
ऽसा चेऽति क्वचित् पाठः ।
विरोधप्रतीतिरेवेति ।
मुक्यार्थबाधा नाम मुख्यार्थस्य यो विरोधस्तत्प्रतीतिरेवेत्यर्थः ।
एककारेण नात्र विवाद इति दर्शयति ।
उक्ती विरोधः पदार्थानां स्वात्मन्युत परस्परमिति विकल्पं हृदि निधायाद्यं निराचष्टे-न चेत्यादि ।
चस्त्वर्थः ।
अत्र लक्षणस्थले ।
ऽअत्र विरोधस्तु पदार्थानां स्वात्मनि नऽति सम्बन्धः ।
स्वात्मनि स्वेन सह ।
द्वितीयमाशङ्कते-परस्परमिति ।
पदार्यानामित्यनुषङ्गः ।
समाधत्ते-तो ऽयमित्यादि लोचनम् न चाप्रतिपन्ने ऽन्वये विरोधप्रतीतिः, प्रतिपत्तिश्चान्वयस्य नाभिधाशक्त्या, तस्याः पदार्थप्रतिपत्त्युपक्षीणाया विरम्याव्यापारात् इति तात्पर्यशक्त्यैवान्वयप्रतिपत्तिः ।
नन्वेवं ऽअङ्गुल्यग्रे करिवरशतम्ऽ किन्तु प्रमाणान्तरेण सो ऽन्वयः प्रत्यक्षादिना बाधितः प्रतिपन्ने ऽपि शुक्तिकायां रजतमिवेति तदवगमकारिणो वाक्यस्याप्रामाण्यम् ।
ऽसिंहोमाणवकःऽ इत्यत्र द्वितीयकक्ष्यानिविष्टतात्पर्यशक्तिसमर्पितान्वयबाधकोल्लासानन्तरमभिधातात्पर्यशक्तिद्वयव्यतिरिक्त बालप्रिया तर्हि सः लक्षणमूलत्वेन प्रसिद्धः ।
अयं भवद्भिरभ्युपगतो विरोधः ।
अन्वेये पदार्थानां परस्परान्वये प्रत्येयः ज्ञातव्यः ।
न चेत्यादि ।
अप्रतिपन्ने अज्ञाते ।
ऽविरोधप्रतीतिर्न चेऽत्यन्वयः ।
धर्मिण्यप्रतीते धर्मरूपस्य विरोधस्य तत्र प्रतीत्ययोगादिति भावः ।
तर्हि प्रतिपन्ने ऽस्त्वित्यत्राह--प्रतिपत्तिश्चेत्यादि ।
अव्यापारादिति ।
व्यापारास्भवादित्यर्थः ।
मुख्यार्थबाधा नाम लक्षणास्थले ऽसिहो माणवकऽ इत्यादौ सिंहादिपदमुख्यार्थस्य माणवकपदार्थेन सहाकाङ्क्षातात्पर्यवशाद्भासमानस्तादात्म्यादिसंसर्गरूपो यो ऽन्वयस्तस्मिन् वरुद्धत्वस्य प्रतीतिः ।
विरुद्धत्वं च तस्मिन्नन्वये सिंहादिप्रतियोगिकत्वस्य माणवकाद्यनुयोगिकत्वस्य च द्वयोरभावेन तद्रूपं बाधितत्वम् ।
अत एव वक्तृविवक्षितत्वाभावस्तदित्यपि केचित् ।
भवति च सत्यपि बाधनिश्चये वाक्यजन्यो बोध इति भावः ।
प्रसङ्गादाशङ्कते-नन्वेवमित्यादि ।
एवं बाधितस्याप्यन्वयस्य वाक्यात्प्रतीत्यङ्गीकरि ।
इष्टापत्या समाधत्ते-किन्नेत्यादि ।
किं न भवति भवत्येव ।
वैधर्म्येण दृष्टान्तमाह-दशेत्यादि ।
"दशदाडिमानि षडपूपा" इत्यादि महाभाष्योदाहृतवाक्यसमुदायस्थल इवेत्यर्थः ।
तत्र भवतिक्रियाध्याहारेण प्रत्येकं दशदाडिमानीत्यादि तत्तद्वाक्यादन्वयबोधे सत्यपि सर्ववाक्यार्थानां मिथः संसर्गावगाह्येकविशिष्टार्थबोधात्मकान्वयप्रतीतिराकाङ्क्षादिकारणाभावान्न भवति, प्रकृते च तत्सत्वादन्वयप्रतीतिर्भवत्येवेत्यर्थः ।
विशेषमाह-किन्विति ।
ऽप्रतिपन्नो ऽपि सो ऽन्वयः शुक्तिकायां रजतमिंव प्रत्यक्षादिना प्रमाणान्तरेण बाधितऽ इति सम्बन्धः ।
इतीति हेतौ ।
अन्वयस्य बाधितत्वादित्यर्थः ।
तत्यज्ञानस्य ।
ननु तर्हि ऽसिंहो माणवकऽ इत्यादेरप्यप्रामाण्यं स्यादित्यत्राह--सिंह इत्यादि ।
शक्त्या समर्पिते बोदिते अन्वये, बाधरकस्य विरोधस्य उल्लासः प्रतीतिः तदनन्तरम् ।
तद्वाधकविधुरीति ।
तद्वाधकस्य अन्वयबाधकस्य विधुरीकरणे लोचनम् तावत्तृतीयैव शक्तिस्तद्बाधकविधुरीकरणनिपुणा लक्षणाभिधाना समुल्लसति ।
नन्वेवं ऽसिंहो वटुःऽ इत्यत्रापि काव्यरूपता स्यात्; ध्वननलक्षणस्यात्मनो ऽत्रापि समनन्तरं वक्ष्यमाणतया भावात् ।
ननु घटे ऽपि जीवव्यवहारः स्यात्; आत्मनो विभुत्वेन तत्रापि भावात् ।
शरीरस्य खलु विशिष्टाधिष्टानयुक्तस्य सत्यात्मनि जीवव्यवहारः, न यस्य कस्यचिदिति चेत्-गुणालङ्कारौचित्यसुन्दरशब्दार्थशरीरस्य सति ध्वननाख्यात्मनि काव्यरूपताव्यवहारः ।
न चात्मनो ऽसारता काचिदिति च समानम् ।
न चैवं भक्तिरेव ध्वनिः, भक्तिर्हि लक्षणाव्यापारस्तृतीयकक्ष्यानिवेशी ।
चतुर्थ्या तु कक्ष्यायां ध्वननव्यापारः ।
तथा हि-त्रितयसन्निधौ लक्षणा प्रवर्तत इति तावद्भवन्त एव वदन्ति ।
तत्र मुख्यार्थबाधा तावत्प्रत्यक्षादिप्रमामान्तरमूला ।
निमित्तं च यदबिधीयते सामीप्यादि तदपि प्रमाणान्तरावगम्यमेव ।
बालप्रिया बाधने निपुणा समर्था ।
समुल्लसति प्रवर्तते ।
तथा च तत्र लक्ष्यार्थस्य न बाधितत्वमिति भावः ।
लक्षणाङ्गीकारे ऽतिप्रसङ्गमाशङ्कते--नन्वेवमिति ।
ऽआत्मनः अत्रापि भावात्ऽ सत्वादिति सम्बन्धः ।
प्रतिबन्द्या उत्तरयति---ननु घटे ऽपीति ।
तत्परिहारमाह--शरीरस्येति ।
विशिष्टेति ।
करचरणाद्यवयवैर्विशिष्टं यदधिष्टानं संस्थानं तेन युक्तस्य ।
तुल्यमुत्तरमस्माकमित्याह---गुणेति ।
गुणालङ्काराणामौचित्येन रसविषयकेण सुन्दरौ शब्दार्थावेव शरीलं तस्य ।
न चेत्यादि ।
इति च समानमिति ।
यथाऽत्मनो निस्सारघटादिसम्बन्धित्वे ऽपि नासारता काचित्, तता ध्वननाख्यात्मनो लौकिकवाक्ये सत्त्वे ऽपि नासारता कापीत्यर्थ ।
नन्वेवं भक्तिरेव ध्वनिःस्यादित्याशङ्क्य परिहरति--न चेवमित्यादि ।
एवं लक्षणास्थले ध्वननसद्भावे सति ।
ऽध्वनिर्न चेऽत्यान्वयः ।
अत्र हेतुमाह-भक्तिर्हिति ।
भिन्नकक्ष्यानिविष्टत्वादुभयोर्विषयभेदो यतः, तस्मादित्यर्थः ।
त्रितयसन्निधाविति ।
मुख्यार्थबाधादित्रये सतीत्यर्थः ।
भवन्त एव वदन्तीति ।
लक्षणाध्वननयोरभेदं वदन्तो भवन्त एवाहुरित्यार्थः ।
ऽभवतां मतम्ऽ इति च पाठः ।
मुख्यार्थबाधादिषु त्रिष्वन्त्यस्य ध्वनिव्यापारमात्रगम्यत्वं साधयिष्यन्नादावाद्ययोरन्यसिद्धत्वमाह--तत्रेत्यादिना ।
अभिधीयत इति ।
"अभिधेयेन सामीप्यादि" त्यादिवचनेनोच्यत इत्यर्थः ।
एवं बाधानिमित्तयोरन्यविषयत्वमुक्त्वा प्रयोजनस्यानन्यविषयत्वं स्वरूपकथनेनाह--यत्त्वित्यादि ।
लोचनम् यत्त्विदं घोषस्यातिपवित्रत्वशीतलत्वसेव्यत्वादिकं प्रयोजनमशब्दान्तरवाच्यं प्रमाणान्तराप्रतिपन्नम्, वटोर्वा पराक्रमातिशयशालित्वं, तत्र शब्दस्य न तावन्न व्यापारः ।
तथाहि--तत्सामीप्यत्तद्धर्मत्वानुमानमनैकान्तिकम्, सिंहशब्दवाच्यत्वं च वटोरसिद्धम् ।
अथ यत्र यत्रैवंशब्दप्रयोगस्तत्र तत्र तद्धर्मयोग इत्यनुमानम्, तस्यापि व्याप्तिग्रहणकाले मौलिकं प्रमामान्तरं वाच्यम्, न चास्ति ।
न च स्मृतिरियम्, अननुभूते तदयोगात्, बालप्रिया ऽयत्तु अतिपवित्रत्वादिकं पराक्रमातिशयशालित्वं वा तत्रेऽति सम्बन्धः ।
घोषस्येति ।
इदं चातिपवित्रत्वादेः तीरे प्रत्यायानद्वारा घोषऽपि तत्प्रत्यायनमस्ति तस्यैव परमतात्पर्यविषयत्वादित्याशयेनोक्तम् ।
यद्वा--घोषाधिकरमस्येति तदर्थः ।
अशब्दान्तरवाच्यं लाक्षणिकशब्दातिरिक्तशचब्दाबोध्यम् ।
प्रमाणान्तरेति ।
शब्तातिरिक्तप्रमाणेत्यर्थः ।
वटोर्वेति ।
प्रयोजनमित्यादित्रयमनुषज्यते ।
ननु तर्हि शब्देनापि न तत्प्रतीतिरित्यलं तह्यापारान्तरगवेषणयेत्यत आह--तत्रेत्यादि ।
तत्र पूर्वोक्ते प्रयोजने ।
शब्दस्य न तावन्न व्यापार इत्युक्तं द्रढयति--तथां हीत्यादिना ।
तत्सामीप्यादिति ।
तीरं गङ्गतातिपवित्रत्वादिधर्मवत्, गङ्गासामीप्यात् ।
मुनिजनादिवदित्यनुमानंमित्यर्थः ।
अनैकान्तिकं गङ्गातटादिगतशिरः--कपालादौ व्यभिचारि ।
सिंहेति ।
वटुः सिंहधर्मवान् सिंहशब्दवाच्यत्वात्, सम्प्रतिपन्नसिंहवदित्यत्र सिंहशब्दवाच्यत्वरूपो हेतुः स्वरूपासिद्ध इत्यरथः ।
अनुमानान्तरमाशङ्क्य निराचष्टे-अथेत्यादि ।
एवमिति ।
लक्षणयेत्यर्थः ।
इत्यनुमानमिति ।
तटः गङ्गशब्दवाच्यवृत्तिधर्मवान् लक्षणया गङ्गशब्दप्रयोगविषयत्वात्; वटुः सिंहशब्दवाच्यवृत्तिधर्मवान, लक्षणया सिंहशब्दप्रयोगविषयत्वात्; यो लक्षणया यत्पदप्रयोगविषयः, स तत्पदवाच्यवृत्तिधर्मवान् इत्यादिरत्र प्रयोगो बोध्यः ।
यद्वा-इत्यनुमानमिति ।
एवं व्याप्तिविशिष्टो हेतुरित्यर्थः ।
तस्यापीत्यादि ।
तस्मिन् यद्व्याप्तिग्रहणं तत्काले ।
मौलिकमिति ।
मूले अनुमानाङ्गव्याप्तिग्रहणरूपे साधनतया भवमित्यर्थः ।
प्रामामान्तरं प्रत्यक्षादि ।
न चास्तीति ।
प्रमाणान्तरमित्यनुषज्यते ।
सामान्यमुखव्याप्त्यधीनानमितिस्थले प्रकृतसाध्यहेत्वोः तत्सजातीययोर्वा प्रत्यक्षादिना व्याप्तिग्रहणं वाच्यम् ।
तच्च लक्षणास्थले व्यभिचारशङ्क्या उत्पत्तुन्नार्हतीत्यर्थः ।
न चेति ।
इयं पावनत्वादिप्रयोजनज्ञानं लोचनम् नियमाप्रतिपत्तेर्वक्तुरेतद्विवक्षितमित्यध्यवसायाभावप्रसङ्गाच्चत्यस्ति तावदत्र शब्दस्यैव व्यापारः ।
व्यापारश्च नाभिधात्मा, समयाभावात् ।
न तात्पर्यात्मा, तस्यान्वयप्रतीतावेव परक्षयात् ।
न लक्षणात्मा, उक्तादेव हेतोः स्खलद्गतित्वाभावात् ।
तत्रापि हि स्खलद्गतित्वे पुनर्मुक्यार्थबादा निमित्तं प्रयोजनमित्यनवस्था स्यात् ।
अत एव यत्केनचिल्लक्षितलक्षणेति नाम कृतं तह्यसनमात्रम् ।
तस्मादभिघातात्पर्यलक्षणाव्यतिरिक्तश्चतुर्थो ऽसौ बालप्रिया ऽस्मृतिर्न चेऽत्यन्वयः ।
न च स्मृतिप्रतिपन्नमेतदित्यर्थः ।
अत्र हेतुमाह--अननुभूते तदयोगादिति ।
ननु तत्स्मृतिः कथञ्चित्सम्पाद्येत्यतो हेत्वन्तरमाह---नियमेत्यादि ।
नियामकस्य कस्यचिदनुपलंभादेतदेव प्रयोजनमत्र विवक्षितमित्यनिश्चयप्रसंगाच्चेत्यर्थः ।
व्यञ्जनव्यापारोपगमे तु सहकारिविशेषान्नियमः सेत्स्यतीति भावः ।
निगमयति--इतीत्यादि ।
इतीति हेतौ ।
यत एवं नान्यगम्यं प्रयोजनं तत इत्यर्थः ।
अत्रेति ।
पावनत्वादौ प्रयोजन इत्यर्थः ।
अथ व्यञ्जनव्यापारस्य पारिशेष्यात्सिद्धिं दर्शयितुमाह-व्यापारश्चेत्यादि ।
अत्रेत्यस्यानुषङ्गः ।
समयाभावात् गङ्गादिशब्दस्य पावनत्वादौ सङ्केताभावात् ।
अन्वयप्रतीताविति ।
प्राथमिकवाच्यार्थान्वयबोध इत्यर्थः ।
उक्तादेवेत्यादि ।
पूर्वोक्तो हेतुर्मुख्यार्थबाधादिः, तस्माद्यत् स्खलद्गतित्वं स्कलन्ती प्रतिहन्यमाना गतिरवबोधनव्यापारो यस्य शब्दस्य तस्य भावस्तत्त्वम् ।
स्वार्थाद्भ्रंश इति यावत् ।
तस्याभावादित्यर्थः ।
गङ्गादिशब्दानां हि मुख्यार्थबाधादिवसात्तीरादववगमयितव्ये स्वार्थात्स्रोतोविशेषादेर्यथा भ्रंशः, तथा प्रयोजने पावनत्वादाववगमयितव्ये स्वार्थात्तीरादेर्भ्रंशो नास्ति, यतस्तस्मादित्यर्थः ।
यद्वा--उक्तादेव हेतोरिति ।
न्यिमाप्रतिपत्तेरित्यादिपूर्वोक्ताद्धेतोरित्यर्थः ।
हेत्वन्तरं चाह-स्खलद्गतित्वाभावादिति ।
अस्यार्थः पूर्ववद्बोध्यः ।
अभ्युपगम्यापि दोषमाह--तत्रापीत्यादि ।
प्रयोजनं निमित्तीकृत्यापि लक्ष्यार्थात् स्खलद्गतित्वे ऽङ्गीक्रियमाणे पुनः पुनरपि लक्षणामूलपरिकल्पनयालक्षणानवस्था स्यादित्यर्थः ।
व्यापारश्च नाभिधात्मेत्याद्येतदन्तग्रन्थस्य विवरणरूपः-"नाभिधा, समयाभावादि"त्यादिकाव्यप्रकाशग्रन्थ इति द्रष्टव्यम् ।
गङ्गादिशब्देन तीरादौ लक्षिते पुनः पावनत्वादिप्रयोजनमपि लक्ष्येत ।
अत एव तल्लक्षणायाः लक्षितलक्षणेति नामेति केचित् ।
तन्मतं निराकरोति-अत एवेत्यादि ।
अत एव अनवस्थादिदोषादेव ।
नाम कृतमिति ।
प्रयोजनविषयवल्यापारस्येति शेषः ।
व्यसनमात्रं ध्वनिनिराकरणनिर्बन्धमात्रं तद्धेतुकमिति यावत् ।
वक्ष्यते च "तेनायं लक्षतलक्षणाया न विषयः" इति ।
तस्मादित्यादि ।
ध्वननेति ।
ध्वननादिरूपाः लोचनम् व्यापारो ध्वननद्योतनव्यञ्जनप्रत्यायनावगमनादिसोदरव्यपदेसनिरूपितो ऽभ्युपगन्तव्यः ।
यद्वक्ष्यति-- ऽमुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् ।
यदुद्दिस्य फलं तत्र शब्दो नैव स्खलद्गतिः ॥
इत्.इ ॥
तेन समयापेक्षा वाच्यावगमनशक्तिरिभिधाशक्तिः ।
तदन्यथानुपपत्तिसहायार्थावबोधनशक्तिस्तात्पर्यशक्तिः ।
मुख्यार्थबाधादिसहकार्यपेक्षार्थप्रतिभासनशक्तिर्लक्षणाशक्तिः ।
तच्छक्तित्रयोपजनितार्थावगममूलजाततत्प्रतिभासपवित्रितप्रतिपत्तृप्रतिभासहायार्थद्योतनशक्तिर्ध्वननव्यापारः; बालप्रिया सोदराः पर्यायाश्च ये व्यपदेशाः शब्दाः तैः निरूपितो निश्चित इत्यर्थः ।
ध्वननादिव्यपदेशः प्रसिद्धः ।
व्यपदेशश्च व्यपदेश्यं विना न तिष्टतीति तच्छ्रवणान्यथानुपपत्तिनिरूपणीयो ऽयमिति यावत् ।
अभ्युपगन्तव्यः अनिच्छद्भरपीति शेषः ।
प्रयोजनांशे न लक्षणेत्यत्र मूलसम्मतिमाह---यद्वत्त्यतीति ।
एवं प्रयोजनविषयकं ध्वननव्यापारं प्रसाध्य तमेवेतरव्यापारत्रयाद्भेदेन स्पष्टयितुं व्यापाराणां स्वरूपं दर्शयति--तेनेत्यादि ।
समयापेक्षेति ।
तदर्थसङ्केतग्रहणसहकारेण तदर्थबोधनसामर्थ्य पदनिष्टमभिधा नाम शक्तिरित्यर्थः ।
सामर्थ्यं नाम शक्त्यपरपर्यायं पदार्थान्तरमिति बोध्यम् ।
तदन्यथेति ।
तस्या अभिधायाः, अन्यथा आत्मानं विना अनुपपत्तिरसम्भवः प्रयोजनाभावादिना सहायो यस्याः सा ।
केचित्तु तस्य विशेषरूपस्यान्वितार्थस्य अन्यथा तात्पर्याभावे या अनुपपत्तिः, तत्सहायेति व्याचक्षते ।
अर्थेति ।
संसृष्टार्थेत्यर्थः ।
मुख्येति ।
मुख्यार्थबाधादित्रयं यत्सहकारि तदपेक्षत इति तथा ।
तच्छक्तीति ।
तत् पूर्वोक्तं यत् शक्तित्रयमभिधादिकं तेन, उपजनितः यदर्थानां पदार्थवाक्यार्थलक्ष्यार्थानामवगमः बोधः, तस्मादेव मूलाज्जाता, तत्प्रतिभासेन अभिधेयाद्यर्थानां निरन्तरप्रतीत्या पवित्रितस्य संस्कारलक्षणातिशयवत्तया लोचनम् स च प्राग्वृत्तं व्यापारत्रयं न्यक्कुर्वन्प्रधानभूतः काव्यात्मेत्याशयेन निषेधप्रमुखतया च प्रयोजनविषयो ऽपि निषेधविषय इत्युक्तम् ।
अभ्युपगममात्रेण चैतदुक्तम्; न त्वत्र लक्षणा, अत्यन्ततिरस्कारान्यसंक्रमणयोरभावात् ।
न ह्यर्थशक्तमूले ऽस्या व्यापारः ।
सहकारिभेदाच्च शक्तिभेदः स्पष्ट एव, यथा तस्यैव शब्दस्य व्याप्तिस्मृत्यादिसहकृतस्य विवक्षावगतावनुमापकत्वव्यापारः ।
अक्षादिसहकृतस्य वा विक्ल्पकत्वव्यापारः ।
बालप्रिया सम्पादितस्य प्रतिपत्तुर्या प्रतिभा तत्सहाया ।
अर्थद्योतनशक्तिः प्रयोजनादिलक्षणस्यार्थस्य व्यञ्जने सामर्थ्यम् ।
इत्युक्तं भवतीति शेषः ।
अस्त्वेवंभूतो ऽसौ; कथमस्यैव काव्यात्मत्वमित्यत आह--स चेति ।
चकारो ऽवधारणे ।
ऽस च काव्यात्मेऽति सम्बन्धः ।
अत्र हेतुः--प्रधानभूत इति ।
तत्र हेतुः--प्राग्वृत्तमित्यादि ।
अभिधादित्रयमपेक्ष्य स्वयं प्रवृत्तो ऽपि तदुपसर्जनीकुर्वन्नित्यर्थः ।
व्यङ्ग्यस्य काव्यात्मत्वाद्व्यञ्जनस्यापि तत्त्वं बोध्यम् ।
नन्वेतावता ऽभ्रम धार्मिकेऽत्यादौ भ्रमणनिषेधो लक्षणाविषयः, तदन्यप्रयोजनविषयकश्च व्यञ्जनाव्यापार इत्यायातम् ।
तथाच कथं वृत्तिकृता ऽप्रतिषेधरूपऽ इति वदता व्यञ्जनाव्यापारस्य निषेधविषयकत्वमुक्तमित्यत आह-इत्याशयेनेत्यादि ।
इत्याशयेन उक्तभिप्रायेण ऽप्रयोजनविषयो ऽपि सः निषेधप्रमुखतया निषेधविषय इत्युक्तम्ऽ इति सम्बन्धः ।
प्रयोजनं विषयो यस्य सः ।
प्रयोजनं चात्र स्वैरिण्याः सङ्केतस्थानपरित्राणस्वच्छन्दविहरणादिकम् ।
निषेधप्रमुखतया निषेधप्रतीतिद्वारकत्वेन ।
इत्युक्तमिति ।
कदाचिदावाच्ये विधिरूपे प्रतिषेधरूप इत्यनेन प्रदर्सितमित्यर्थः ।
भ्रमणनिषेधो ऽत्र लक्ष्य एव ।
प्रयोजनस्योक्तस्य निषेधप्रतीतिपूर्वकप्रतीतिविषयत्वान्निषेधरूपतया उक्तिरित्यर्थः ।
वस्तुतो ऽत्र लक्षणा न प्रवर्तत इति वृत्तिग्रन्थानुगुण्येनाह--अभ्युपगमेत्यादि ।
अभ्युपगममात्रेण प्रौढिवादमात्रेण ।
इदं विपरीतलक्षणया ।
निषेधबोधनम् ।
अत्र लक्षणाया अप्रवृत्तौ हेतुमाह--अत्यन्तेति ।
यत्र वाच्यस्यात्यन्ततिरस्कारो ऽन्यसङ्क्रमणं वा तत्र हि लक्षणा ।
न चात्र भ्रमणविधिरूपस्य वाच्यस्योभयं तस्मादित्यर्थः ।
नन्वत्रार्थशक्तिमूलो ध्वनिरेवास्तु; तत्रापि किं न लक्षणेत्यत आह--न हीति ।
अर्थशक्तिमूल इति ।
हेतुगर्भम् ।
ध्वनाविति शेषः ।
अस्या व्यापारः लक्षणायाः प्रवृत्तिः ।
किञ्चार्थशक्तिमूलध्वननव्यापारस्य वक्तृबोद्धव्यवैशिष्ट्यादिकं सहकारि, लक्षणायास्तु मुख्यार्थबाधादिकमतो ऽप्यनयोर्भेद इत्यह-सहकारीति ।
उक्तमर्थं दृष्टान्तेन विशदयति-यथेत्यादि ।
तस्यैव अर्थबोधनाय प्रयुक्तस्यैव ।
शब्दस्य गामानयेत्यादिशब्दस्य ।
स्मृत्यादीत्यादिपदेन पक्षधर्मताज्ञानपरिग्रहः ।
अनुमापकत्वव्यापारः अनुमापकत्वशक्तिः ।
अयं वक्ता एद्विबक्षुः एतच्छब्दप्रयोगात् इत्यादिः प्रयोगो ऽत्र बोध्यः ।
उक्तं चैतत्तृतीयोद्योते अक्षादीति ।
अक्षं चक्षुरादीन्द्रियम् ।
आदिपदेन तत्सन्निकर्षादिपरिग्रहः ।
लोचनम् एवमभिहितान्वयवादिनामियदनपह्नवनीयम् ।
योप्यन्विताभिधानवादी ऽयत्परः शब्दः स शब्दार्थःऽ इति हृदये ग्रहूत्वा शरवदभिधाव्यापारमेव दीर्घदीर्घमिच्छति, तस्य यदि दीर्घो व्यापारस्तदेको ऽसाविति कुतः? भिन्नविषयत्वात् ।
अथानेको ऽसौ? तद्विषयसहकारिभेदादसजातीय एव युक्तः ।
सजातीये च कार्ये विरम्यव्यापारः शब्दकर्मबुद्ध्यादीनां पदार्थविद्भिर्निषिद्धः ।
असजातीये चास्मन्नय एव ।
बालप्रिया विकल्पकत्वव्यापारः सविकल्पकज्ञानजनकत्वशक्तिः ।
शब्दो हि श्रोत्रादिसहकारेण स्वप्रत्यक्षं जनयति ।
अथ च ज्ञायमानः संज्ञाशब्दः संज्ञिनि चक्षुस्सन्निकर्षादिकाले स्वविशेषणकं संज्ञिप्रत्यक्षं जनयति इति मतविशेषः ।
इयदिति ।
अभिधादित्रयोतीर्णध्वनिव्यापारो ऽस्तीत्येतावदित्यर्थः ।
अनपह्नवनीयमनिराकरणीयं, प्रत्युताभ्युपगन्तव्यमिति भावः ।
यो ऽपीत्यादि ।
अपिशब्दस्तुशब्दार्थे ।
ऽय इच्छति तस्येऽति सम्बन्धः ।
गामानयेत्यादिकस्य तत्तद्वाक्यस्य तत्तद्वाक्यार्थे प्रथमं सङ्गतिग्रहः, पश्चादावापोद्वापाभ्यामन्वितस्वार्थे गवादिपदानां सङ्गतिग्रह इत्यादिरन्विताबिधानवादिमतप्रक्रियान्यतो ऽवधेया ।
यत्पर इति ।
यो ऽर्थः परः प्रधानप्रतिपाद्यः तात्पर्यविषयो यस्य सः शब्दार्थः शब्दाभिधेयः ।
शरव्त् शरव्यापारतुल्यम् ।
इच्छतीति ।
यथोक्तम्-"सो ऽयमिषोरिवदीर्घदीर्धो व्यापार" इति ।
यथा धनुर्धरेण प्रेरितश्शरो वेगाख्येनैकेनेव व्यापारेम परस्य वर्मच्छेदनगात्रभेदनादिका अनेकक्रियाः करोति, तथा सुकविना प्रयुक्तः शब्दो ऽभिधाख्येनैकेनैव व्यापारेण पदार्थवाक्यार्थयोलङ्क्ष्यत्वेन व्यङ्ग्यत्वेनाभिमतयोश्च प्रतीतीर्जनयतीत्यर्थः ।
इत्थं तन्मतमुपन्यस्य तेनापि ध्वननमङ्गीकारयितुं स दीर्घो ऽभिधाव्यापारः किमेकः प्रतिविषयमनेको वेति विकल्प्याद्यं प्रत्याचष्टे-तस्येत्यादि ।
अभिमत इति शेषः ।
ऽव्यापारो दीर्घस्तस्याभिमतो यदीऽति सम्बन्धः ।
तत् तर्हि ।
असौ एक इति कुतः? एको भवितुं नार्हतीत्यर्थः ।
अत्र हेतुः--भिन्नेति ।
भिन्नाः विषयाः वाच्याद्यर्थाः यस्य तत्त्वात् ।
विषयबेदे सति तत्सम्बन्धिव्यापारभेदो ऽप्यावश्यक इति भावः ।
दिवितीयमनूद्यावद्यति-अथेत्यादि ।
अथेति यदीत्यर्थे ।
तत् तर्हि ।
विषयेति ।
विषयाः वाच्यलक्ष्यव्यङ्ग्यत्वेनाभिमता अर्थाः ।
लोचनम् अथ यो ऽसौ चतुर्थकक्षानिविष्टो ऽर्थः, स एव झटिति वाक्येनाभिधीयत इत्येवंविधं दीर्घदीर्घत्वं विवक्षितम्, तर्हि तत्र सङ्केताकरणात्कथं साक्षात्प्रतिपत्तिः ।
निमित्तेषु सङ्केतः, नैमित्तिकस्त्वसावर्थस्संकेतानपेक्ष एवेति चेत्-पश्यत श्रोत्रियस्योक्तिकौशलम् ।
यो ह्यसौ पर्यन्तकक्षाभाग्यर्थः प्रथमं प्रतीतिपथमवतीर्णः, तस्य पश्चात्तनाः पदार्थावगमाः बालप्रिया सहकारिणः समयमुक्यार्थबाधादिवक्तृवैशिष्ट्यादयः ।
तेषां भेदात् ।
असजातीयः भिन्नजातीयः ।
सजातीयत्वेदोषप्रदर्सनेनोक्तमेव साधयति-सजातीय इत्यादि ।
अनेको ऽसावित्यस्य विपरिमामेनानुषङ्गः ।
अनेके ऽस्मिन् व्यापारे सजातीये अङ्गीक्रियमाणे सतीत्यर्थः ।
स पुनर्न प्रवर्तत इति शेषः ।
अत्र हेतुमाह--कार्य इत्याद ।
कार्ये कार्यं प्रति ।
पदार्थविद्भिः नैयायिकादिभिः ।
नन्वसजातीयो ऽस्त्वित्यत्राह--असजातीय इत्यादि ।
अनेके ऽस्मिन्नसजातीये अङ्गीक्रियमाणे च सतीत्यर्थः ।
अस्मन्नय एवेति ।
व्यापारभेदसिद्ध्या ध्वननव्यापारसिद्धेरिति भावः ।
यद्वासजातीय इत्यादेरयमर्थः--किञ्च व्यापारस्य यत्कार्यमनेकार्थज्ञानं तततत्सजातीयमन्यद्वेति विकल्पं मनसि निधायाह--सजातीय इत्यादि ।
सजातीये कार्ये तत्प्रति ।
व्यापारः अभिधादिः ।
निषिद्ध इति ।
अतो व्यापारान्तरस्वीकारे चास्मन्नय एवेति भावः ।
असजातीय इति ।
कार्ये इत्यनुषज्यते ।
अस्मन्नय एवेति ।
कार्यस्य विजातीयत्वे तत्कारणभूतव्यापारवैजात्यस्यावश्यकत्वात् ध्वननव्यापारसिद्धिरिति भावः ।
अथ व्यापारस्य दीर्घत्वं नाम नैकत्वमेकजातीयत्वं वा; किन्तु प्रतिपिपादयिषितार्थप्रतिपादनझाटित्यविशेष एव ।
अतो व्यङ्घ्यस्याभिधाविषयत्वमस्त्येवेत्याशङ्कते--अथेत्यादि ।
अथ यदि ।
ऽविवक्षितमथेऽति सम्बन्धः ।
चतुर्थेति ।
अन्त्येत्यर्थः ।
स एव सो ऽपि ।
समाधत्ते--तर्हित्यादि ।
तत्र अन्त्यकक्ष्यानिविष्टार्थे ।
साक्षादिति ।
अभिधयेत्यर्थः ।
कथमिति ।
भवतीति शेषः ।
न भवतीत्यर्थः ।
अथ पदार्थवाक्यार्थयोर्निमित्तनैमित्तिकभावाभ्युपगमान्निमित्तभूतेषु पदार्थेषु सङ्केतग्रहणात्तन्मात्रेणैव पृथगन्त्यवाक्यार्थविषयकसङ्केतानपेक्षया तद्वाक्यार्थप्रतीतिरभिधाव्यापारेण भवतीत्याशङ्कामुद्भाव्य व्युदस्यति--निमित्तेष्वित्यादि ।
निमित्तेषु पदार्थेषु ।
असावर्थः अन्त्यवाक्यार्थः ।
पश्यतेत्यादि परिहासवचनम् ।
ऽइत्युक्तिकौशलम्ऽ इति सम्बन्धः ।
पर्यन्तकक्ष्यायाः भागी भजनशीलः ।
पश्चात्तनाः वाक्यार्थप्रतीत्युत्तरकालभाविनः ।
लोचनम् निमित्तभावं गच्छन्तीति नूनं मीमांसकस्य प्रपौत्रं प्रति नैमित्तिकत्वमभिमतम् ।
अथोच्यते--पूर्वं तत्र सङ्केतग्रहणसंस्कृतस्य तथा प्रतिपत्तिर्भवतीत्यमुया वस्तुस्थितया निमित्तत्वं पदार्तानाम्, तर्हि तदनुसरणोपयोगि न किञ्चिदप्युक्तं स्यात् ।
न चापि प्रक्पदार्थेषु सङ्केतग्रहणं वृत्तम्, अन्वितानामेव सर्वदा प्रयोगात् ।
आवापोद्वापाभ्यं तथाभाव इति चेत्-सङ्केतः पदार्थमात्र एवेत्यभ्युपगमे पास्चात्यैव विशेषप्रतीतिः ।
अथोच्यते--द्दष्टेव झटिति तात्पर्यप्रतिपत्तिः किमत्र कुर्म इति ।
तदिदं वयमपि न नाङ्गीकुर्मः ।
यद्वक्ष्यामः-- तद्वत्सचेतसां सो ऽर्थो वाक्यार्थविमुखात्मनाम् ।
बुद्धौ तत्त्वावभासिन्यां झटित्येवावभासते ॥
इत्.इ ॥
किं तु सातिसयानुशीलनाभ्यासात्तत्र सम्भाव्यमानीऽपि क्रमः सजातीयतद्विकल्पपरम्परानुदयादभ्यस्तविषयव्याप्तिसमयस्मृतिक्रमवन्न संवेद्यत इति ।
बालप्रिया पदार्थावगमाः पदार्थप्रतीतयः ।
प्रपौत्रं प्रतीत्यादि ।
प्रपौत्रं निमित्तमपेक्षयात्मनो नैमित्तिकत्वमभिमतं स्यादित्यर्थः ।
अथ पदार्तप्रतीतेः पश्चात्तनत्वे ऽपि तद्विषयकसङ्केतग्रहणस्य पूर्वं जातत्वात्तद्द्वारकः पदार्थानां निमित्तत्वव्यपदेसो न विरुध्यते ।
उपलभ्यते हि गृहूतसङ्केतस्य प्रतिपत्तुर्ऽगङ्गायां धोषऽ इत्यादियाक्यश्चवणानन्तरमेव झटिति शैत्यपावनत्वादिरूपपार्यन्तिकार्थप्रतीतिरित्याशङ्कामुद्भाव्य परिहरति--अथोच्यत इत्यादिना ।
तदनुसरणेति ।
तस्याः पार्यन्तिकार्थप्रतीतेः अनुसरणे स्वमतेन निर्वहणे यदुपयोगि ।
यद्वा-तदनुसरणे पदार्तानां पार्यन्तिकार्थस्यासङ्केतितस्य कथमवगमो भवेदिति भावः ।
किञ्च पूर्वं पदार्थेषु सङ्केतग्रहमपि न घटत इत्याह--न चापीति ।
अन्वितानामेव अन्वितार्थबोधकानामेव ।
वाक्यत्वमापन्नानामेवेति ।
यावत् ।
शङ्ते-आवापेत्यादि ।
तथाभावः पृथक् पृथक् पदार्थेषु सङ्केतग्रहणस्य भवनम् ।
परिहरति---सङ्केत इत्यादि ।
विशेषप्रतीतिः पाश्चात्यैवेति ।
वाक्यार्थप्रतीतिः पश्चात्तन्येव भवति, न पूर्वकालभवेत्यर्थः ।
तथा च भवत्सिद्धान्तो विरुध्येतेति भावः ।
अथेत्यादि ।
तात्पर्यप्रतिपत्तिः पार्यन्तिकार्थप्रतीतिः ।
किमत्र कुर्म इति ।
पदार्थेषु सङ्केतग्रहणस्य निमित्तता भवतु मा वेति भावः ।
यद्येवं तर्हि सिद्धं नः समीहितमित्याह--तदित्यादि ।
विशेषमाह-किन्त्वित्यादि ।
तत्रेति ।
पार्यन्तिकार्थरूपव्यङ्ग्यार्थतप्रतीतावित्यर्थः ।
सम्भाव्यमानो ऽपि प्रमाणेन ज्ञायमानो ऽपि ।
क्रमः पदार्थप्रतीतेः पौर्वापर्यम् ।
ऽसंवेद्यतऽ इति सम्बन्धः ।
अत्र हेतुमाह-सजातीयेत्यादि ।
सजातीयाः वाक्यार्थप्रतीत्यङ्गत्वेन सजातीयाः ये तद्विकल्पाः पदार्थविषयकप्रत्ययाः ।
तेषां लोचनम् निमित्तनैमित्तिकभावश्चावश्यश्रयणीयः, अन्यथा गौणलाक्षणिकयोर्मुख्याद्भेदः ऽश्रुतिलिङ्गादिप्रमाणषट्कस्य पारदौर्बल्यम्ऽ इत्यादिप्रक्रियाविघातः, निमित्ततावैचित्र्येणैवास्याः समर्थितत्वात् ।
निमित्ततावैचित्र्ये चाभ्युपगते किमपरमस्मास्वसूयया ।
ये ऽप्यविभक्तंस्फोटं वाक्यं तदर्थं चाहुः, तैरप्यविद्यापदपतितैः सर्वेयमनुसरणीया प्रक्रिया ।
तदुत्तीर्णत्वे तु सर्वं परमेश्वराद्वयं ब्रह्योत्यस्मच्छास्त्रकारेण न न विदितं तत्वालोकग्रन्थं विरचयतेत्यास्ताम् ।
बालप्रिया परम्पराया अनुदयादनुल्लेखादित्यर्थः ।
क्रमो हि हेतुहेतुमद्भावेनावस्थितयोर्धर्मः, तस्य ज्ञाने तयोर्ज्ञानमपेक्षितमिति भावः ।
अनुदये हेतुमाह-सातिशयेति ।
सातिशयं यदनुशीलनं पर्यालोचनं तस्याभ्यासात् पौनःपुन्यादित्यर्थः ।
क्रमस्य सत्त्वे ऽप्यप्रतिपत्तौ दृष्टान्तमाह-अभ्यस्तेति ।
अभ्यस्तः भूयो भूयः पर्यालोचितो विषयो ययोस्ते ।
यद्वा-अभ्यस्ते विषये धूमादिहेतौ गवाद्यर्थे च यो व्याप्तिसमययोः वह्न्यादिसाध्यव्याप्तिगवादिपदसङ्केतयोः स्मृती, तयोरनुमितिशाब्दबोधयोर्यः क्रमस्तद्वदित्यर्थः ।
इतीत्यादि ।
इतीति हेतौ ।
अतो हेतोरित्यर्थः ।
क्रमस्य निमित्तनैमित्तिकभावोपजीव्यत्वत्तस्य च साधितत्वादिति यावत् ।
निमित्तनेमित्तिकभावाश्रयणस्यावश्यकत्वं विपक्षे बाधकमुखेनाह--अन्यथेत्यादि ।
ऽअन्यथा इत्यादि प्रक्रियाविघातऽ इति सम्बन्धः ।
गौणेति ।
गौणलाक्षणिकार्थप्रतीतौ हि मुख्यार्थबाधानिमित्तं, ततश्च मुख्यार्थे मौलिकं निमित्तमित्यापतति ।
तदन्तरेण बाधाया मुख्यामुख्यनियमस्य चासिद्धेरित्यर्थः ।
लौकिकीं प्रक्रियामुक्त्वा वैदिकीमाह-श्रुतीत्यादि ।
श्रुत्यादिपदार्थास्तदुदाहरणानि चापोदेवीयादौ काव्यप्रदीपादौ च ग्रन्ते प्रपञ्चितानि ।
निमित्तनेमित्तिकभावानाश्रयणेकथमुक्तप्रक्रियाविघात इत्यत आह--निमित्ततेति ।
निमित्ततायाः वेचित्र्यण बेदेन ।
अस्याः प्रक्रियायाः ।
समर्थितत्वादिति ।
एतन्निमित्ततावैचित्र्यञ्च अभिधाया दीर्घदीर्घत्वाङ्गीकारे नोपपद्य इति भावः ।
ननु तर्हि निमित्तनैमित्तिकभावो ऽस्तु विचित्रो, येनायं प्रक्रियाविघातो न स्यादित्यत्राह--निमित्ततेति ।
निमित्ततावैचित्र्याङ्गीकारे व्यापारभेदस्याप्यङ्गीकर्तव्यतया किमस्मदुक्तावमर्ष इत्यर्थः ।
ये ऽपीति ।
मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0