भाषा

ENहिગુ
ग्रंथ पाठ

ध्वन्यालोक (टीका सहित) · भाग 541560

ऽनारायणं नमस्कृत्येऽत्यादिश्लोकेषु नारायणाद्यथस्य क्रियाकारकभावादिसम्बन्धेन नमस्कारादावन्वयो विवक्षितः ।
एवं नारायणाद्यथस्य क्रियाकारकभावादिसम्बन्धेन नमस्कारादावन्वयो विवक्षितः ।
एवं नारायणादिपदानां विष्ण्वादयो ऽर्थाश्च तद्विवक्षा च तस्मात्स्थितमेतत्--अङ्गिभूतरसाद्याश्रयेण काव्ये क्रियमाणे नवार्थलाभो भवति बन्धच्छाया च महती सम्पद्यत इति ।
अत एव च रसानुगुणार्थविशेषोपनिबन्धमलङ्कारान्तरविरहे ऽपि छायातिशययोगि लक्ष्ये दृश्यते ।
यथा-- मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः ।
येनैकचुलके दृष्टौ तौ दिव्यौ मत्स्यकच्छपौ ॥ ॥
इत्यादौ ।
अत्र ह्यद्भूतरसानुगुणमेकचुलके मत्स्यकच्छपदर्शनं छायातिशयं पुष्णाति ।
तत्र ह्येकचुलके सकलजलधिसन्निधानादपि दिव्यमत्स्यकच्छपदर्शनमक्षुण्णत्वादद्भुतरसानुगुणतरम् ।
क्षुण्णं हि वस्तु लोचनम् अत इति ।
यत एवं स्थितं अत एवेदमपि यल्लक्ष्ये दृश्यते, तदुपपन्नमन्यथा तदनुपपन्नमेव, न च तदनुपपन्नम्; चारुत्वेन प्रतीतेः ।
तस्याश्यैतदेव कारणं रसानुगुणार्थत्वमेवेत्याशयः ।
अलङ्कारान्तरेति ।
अन्तरशब्दो विशेषवाची ।
यदि वा दित्सिते उदाहरणे रसवदलङ्कारस्य विद्यमानत्वात्तदपेक्षयालङ्कारान्तरशब्दः ।
ननु मत्स्यकच्छपदर्शनात्प्रतीयमानं यदेकचुलके जलनिधिसन्निधानं ततो मुनेर्माहात्म्यप्रतिपत्तिरिति न रसानुगुणेनार्थेन च्छायापोषितेत्याशङ्क्याह--अत्र हीति ।
नन्वेवं प्रतीयमानं जलनिधिदर्शनमेवाद्भुतानुगुणं भवत्विति रसानुगुणो ऽत्र वाच्यो ऽर्थ इत्यस्मिन्नंशे कथमिदमुदाहरणमित्याशङ्क्याह--तत्रेति ।
क्षुण्णं हीति ।
पुनः पुनर्वर्णननिरूपणादिना यत्पिष्टपिष्टत्वादतिनिर्भिन्नस्वरूपमित्यर्थः ।
बहुतरलक्ष्यव्यापकञ्चैतदिति बालप्रिया लोकप्रसिद्ध्यनुरोधिनीति भावः ।
ऽअत एवेऽत्यादि ऽदृश्यतऽ इत्यन्तं विवृणोति--यत इत्यादि ।
तस्या इति ।
चारुत्वेन प्रतीतेरित्यर्थः ।
ऽअलङ्कारान्तरविरहे ऽपीऽत्यत्रालङ्कारान्तरशब्दं द्वेधा विवृणोति--अलङ्कारान्तरशब्द इत्यादि ।
इतीति हेतौ ।
नेत्यादि ।
किन्तूक्तेन ब्यङ्ग्येनैव छाया पोषितेति भावः ।
वृत्तौ--ऽअद्भूतरसानुगुणम्ऽ इति ।
मुन्यालम्बितस्याद्भतरसस्यानुगुणमित्यर्थः ।
काकतालीयेनेति भावार्थविवरणम् ।
ऽप्रतिलग्नऽ इति ।
नायकपार्श्वेन सम्बन्ध इत्यर्थः ।
असीत्यव्ययं त्वमित्यर्थे ।
हे सुभग त्वं येन तस्या येन पार्श्वेण अतिक्रान्तः, तस्याः रथ्या तुलाग्रप्रतिलग्नस्स पार्श्वो ऽद्यापि स्विद्यतीत्याद्यन्वयः ।
ऽपरस्परेऽति ।
पार्श्वसम्बन्धातिक्रमणेन नायकगतस्याप्यनुरागस्य प्रतीतेरिति भावः ।
लोकप्रसिद्य्धाद्भूतमपि नाश्चर्यकारि भवति ।
न चाक्षुण्णं वस्तूपनिबध्यमानमद्भुतरसस्यैवानुगुणं यावद्रसान्तरस्यापि ।
तद्यथा-- सिज्जै रोमञ्चिज्जै वेवै रत्थातुलग्गपडिलग्गो ।
सोपासो अज्ज वि सुहअ जेणासि वोलीणो ॥ ॥

एतद्गाथार्थाद्भाव्यमानाद्या रसप्रतीतिर्भवति, सा त्वां स्पृष्ट्वा स्विद्यति रोमाञ्चते वेपते इत्येवंविधादर्थात्प्रतीयमानान्मनागपि नो जायते ।
तदेवं ध्वनिप्रभेदसमाश्रयेण यथा काव्यार्थानां नवत्वं जायते तथा प्रतिपादितम् ।
गुणीभूत्वयङ्ग्यस्यापि त्रिभेदव्यङ्ग्यापेक्षया ये प्रकारास्तत्समाश्रयेणापि काव्यवस्तूनां नवत्वं भवत्येव ।
तत्त्वतिविस्तारकारीति नोदाहृतं सहृदयैः स्वयमुत्प्रेक्षणीयम् ।
लोचनम् दर्शयति--न चेत्यादिना ।
रथ्यायान्तुलाग्रेण काकतालीयेन प्रतिलग्नस्सा मुख्येन स पार्श्वो ऽद्यापि सुभग तस्या येनास्यतिक्रान्तः ।
रसप्रतीतिरिति ।
परस्परहेतुकशृङ्गारप्रतीतिः ।
अस्यार्थस्य रसानुगुणत्वं व्यतिरेकद्वारेण द्रढयति--सा त्वामित्यादिना ।
ऽध्वनेर्यस्सगुणीभूतव्यङ्ग्यस्याध्वा प्रदर्शितऽ इत्युद्योतारम्भे यः श्लोकः तत्र ध्वनेरध्वना कवीनां प्रतिभागुणो ऽनन्तो भवतोत्येष भागो व्याख्यात इत्युपसंहरति--तदेवमित्यादिना ।
सगुणीभूतव्यङ्ग्यस्येत्यमुं भागं व्याचष्टे--गुणीभूतेत्याहिना ।
त्रिप्रभेदो वस्त्वलङ्काररसात्मना यो व्यङ्ग्यः तस्य यापेक्षा वाच्येगुणीभावः तयेत्यर्थः ।
तत्र सर्वे ये ध्वनिभेदास्तेषां गुणीभावादानन्त्यमिति तदाह--अतिविस्तरेति ।
स्वयमिति ।
तत्र वस्तुना व्यङ्ग्येन गुणीभूतेन नवत्वं सत्यप पुराणार्थस्पर्शे यथा ममैव-- भअविहलरख्खणेककमल्लसरणागआणअथ्थाण ।
खणमत्तं विण दिण्णा विस्सामकहेत्ति जुत्तमिणम् ॥ ॥
अत्र त्वमनवरतमर्थास्त्यजसीति औदार्यलक्षणं वस्तु ध्वन्यमानं वाच्यस्योपस्कारकं बालप्रिया त्रिभेदव्यङ्ग्यापेक्षयेत्येतद्व्याचष्टे--त्रिप्रभेद इत्यादि ।
भअवहलेति ।
भयविह्वलरक्षणैकमल्लशरणागतानामर्थानाम् ।
क्षणमात्रमात्रमपि न दत्ता विश्रामकथेति युक्तमिदम् ॥ ॥
इतिछाया ।
इतीदंयुक्तमित्यत्र काक्वा इत्येतन्न युक्तमित्यर्थः ।
चाइअणेति ।
लोचनम् नवत्वन्ददाति, सत्यपि पुराणकविस्पृष्टे ऽर्थे ।
तथाहि पुराणीगाथा--- चाइअणकरपरम्परसञ्चारणखे अणिस्सहससरीरा ।
अथ्था किवणधरन्थ्था सथ्नापथ्थास्ववन्तीव ॥
अलङ्कारेण व्यङ्ग्येन वाच्योपस्कारे नवत्वं यथा ममैव-- वसन्तमत्तालिपरम्परोपमाः कचास्तवासन् कल रागवृद्धये ।
श्मशानभूभागपरागभासुराः कथन्तदेतेन मनाग्विरक्तये ॥ ॥
अत्र ह्याक्षेपेण विभावनया च ध्वन्यमानाभ्यां वाच्यमुपस्कृतमिति नवत्वं सत्यपि पुराणार्थयोगित्वे ।
तथाहि पुराणश्लोकः--- क्षुत्तृष्णाकाममात्सर्यं मरणाच्च महद्भयम् ।
पञ्चैतानि विवर्धन्ते वार्धके विदुषामपि ॥
इति ।
व्यङ्ग्येन रसेन गुणीभूतेन वाच्योपस्कारेण नवत्वं यथा ममेव-- जरा नेयं मूर्ध्नि ध्रुवमयमसौ कालभुजगः क्रुधान्धः फूत्कारैः स्फुटगरलफेनान् प्रकिरति ॥ ॥
तदेनं संपश्यत्यथ च सुखितम्मन्यहृदयः शिवो पायन्नेच्छन् बत बत सुधीरः खलु जनः ॥
बालप्रिया त्यागिजनकरपरम्परासञ्चारणखेदनिस्सहशरीराः ।
अर्थाः कृपणगृहस्थाः स्वस्थावस्थाः स्वपन्तीव ॥ ॥
इति छाया ।
अर्थःस्पष्टः ।
वसन्तेति ।
कञ्चन मित्रं प्रति कस्यचिदुक्तिः ।

वसन्ते वसन्तेन वा मत्ता ये अलयो भृङ्गास्तत्परम्परोपमाः तेषां परम्परया तुल्याः अतिनीलस्निग्धा इति यावत् ।
तथाभूताः कचा इत्यनेन यौवनदशा प्रदर्शिता ।
तव रागस्य वृद्धये आसन् किल ।
श्मशानभूभागे ये परागाः भस्मरेणवस्ते इव भासुराः शुभ्राः जरया शुक्ला इति यावत् ।
एते कचाः ।
रागस्य वैराग्यस्य चोद्दीपकत्वात्तत्तदुपमानमुपात्तम् ।
तव मनागीषदुपि विरक्तये वैराग्याय न भवन्ति ।
तत् तथं वैराग्यस्य कारणे सत्यपि तदजननं कुत इत्यर्थः ।
अनेन प्रत्युत कारणाभावे ऽपि काम एव वर्धन्त इत्यर्थस्य कामस्य महिमा वर्णयितुमशक्य इत्यर्थस्य च प्रकाशनाद्विभावनाक्षेपौ व्यज्येते, ताभ्यां च वाच्यमुपस्क्रियत इत्याह--अत्र हीत्यादि ॥ ॥
क्षुत्तृण्णेत्यादिसमाहारद्वन्द्वः ।
जरेति ।
जराजीर्ण कञ्चिदुश्योक्तिः ।
मूर्ध्नि इयं दृश्यमाना जरा न भवति ।
अयमसौ क्रधान्धः ।
कालभुजगः कृण्णसर्पः ।
अथ च अन्तकरूपो भुजगः ।
फूत्कारैः स्फुटं गरलं येषु तथाभूतान् फेनान् प्रकिरति वर्षति ।
इयं न जरा, किन्तु शिरस्थकालभुजगाभिवृष्टः फेननिकर
ध्वनेर् इत्थं गुणीभूत-व्यङ्ग्यस्य च समाश्रयात् ।
न काव्यार्थ-विरामो ऽस्ति यदि स्यात् प्रतिभा-गुणः
ध्वनेरित्थं गुणीभूतव्यङ्ग्यस्य च समाश्रयात् ।
न काव्यार्थविरामो ऽस्ति यदि स्यात्प्रतिभागुणः ॥ 6 ॥
सत्स्वपि पुरातनकविप्रबन्धेषु यदि स्यात्प्रतिभागुणः, तस्मिंस्त्वसति न किञ्चिदेव कवेर्वस्त्वस्ति ।
बन्धच्छायाप्यर्थद्वयानुरूपशब्दसन्निवेशो ऽर्थप्रतिभानाभावे कथमुपपद्यते ।
अनपेक्षितार्थविशेषाक्षपपतनैन बन्धच्छायेति नेदं नेदीयः सहृदयानाम् ।
एवं हि सत्यर्थानपेक्षचतुरमधुरवचनरचनायामपि लोचनम् अत्राद्भुतेन व्यङ्ग्येन वाच्यमुपस्कृतं शान्तरसप्रतिपत्यङ्गत्वाच्चारु भवतीति नवत्वं सत्यप्यस्मिन् पुराणश्लोके जराजीर्णशरीरस्य वैराग्यं यन्न जायते, तन्नुनं हृदये मृत्युर्दृढन्नास्तीति निश्चयः ॥ 5 ॥ ॥ ॥
सत्स्वपीत्यादि कारिकाया उपस्कारः ।
त्रीन् पादान् स्पष्टान्मत्वा तुर्यं पादं व्याख्यातुं पठति--यदीति ।
विद्यमानो ह्यसौ प्रतिभागण उक्तरीत्या भूयान् भवति, न त्वत्यन्तासन्नेवेत्यर्थः ।
तस्मिन्निति ।
अनन्तीभूते प्रतिभागुणे ।
न किञ्चिदेवेति ।
सर्व हि पुराणकविनैव स्पृष्टमिति किमिदानीं वर्ण्यं, यत्र कवेर्वर्णनाव्यापारस्स्यात् ।
ननु यद्यपि वर्ण्यमपूर्वन्नास्ति, तथाप्युक्तिपरिपाकगुम्भघटनाद्यपरपर्यायबन्धच्छाया नवनवा भविष्यति ।
यन्नवेशने काव्यान्तराणां संरम्भ इत्याशङ्क्याह---बन्धच्छायापीति ।
अर्थद्वयं गुणीभूतव्यङ्ग्यं प्रधानभूतं व्यङ्ग्यं च ।
नेदीय इति ।
निकटतरं हृदयानुप्रवेशि न भवतीत्यर्थः ।
अत्र हेतुमाह--एवं हि सतीति ।
बालप्रिया इत्यर्थः ।

ध्रुवमित्युत्प्रेक्षायाम् ।
तदिति जनः ।
तदेनान् तथाभूतान् फेनान् ।
फेनमिति तदेनमिति वा पाठः ।
सम्पश्यति अथ च सुखितमन्यहृदयः शिवोपायं नेच्छंश्च ।
अतः सुधीरः खल्वित्यन्वयः ।
बतेत्यद्भुते ।
जरेति ।
तदिति तस्मादित्यर्थः ।
मृत्युर्नास्तीति विश्चयः हृदयेदृढमस्ति नूनमित्यन्वयः ॥ 5 ॥ ॥ ॥
उपस्कार इति ।
सत्स्वपीत्यादेः न काव्यार्थविरामो ऽस्तीत्यनेनान्वय इति भावः ।
यदीत्यादेर्भावं विवृणोति--विद्यमान इत्यादि ।
वृत्तौ ऽबन्धच्छायेऽत्यस्य विवरणम्--ऽअर्थद्वयानुरूपशब्दसन्निवेशऽइति ।
तद्रूपा बन्धच्छायेत्यर्थः ।
ऽअनपेक्षितेऽत्यादिशङ्काग्रन्थः ।
इतीदं सहृदयानां न नेदीय इति सम्बन्धः ।
पुनश्शङ्कते--ऽशब्दार्थयोऽरित्यादि ।
ऽकाव्यत्वऽ इति निमित्ते सप्तमी ।
शब्दार्थयोः सहितयोः काव्यत्वेन हेतुनेत्यर्थः ।
ऽतथाविधऽ इति ।
अर्थानपेक्षचतुरमधुरवचनरचन इत्यर्थः ।
ऽकव्यव्यवस्थेऽति ।
काव्यव्यपदेश इत्यर्थः ।
समाधत्ते---ऽपरेऽत्यादि ।
ऽतत्काव्यत्वेऽति तत्पदेन परः परामृश्यते ।
ऽकाव्यसन्दर्भाणाम्ऽ इति ।
तत्काव्यत्वव्यवहार इत्यनुषज्यते ।
काव्यव्यपदेशः प्रवर्तेत ।
शब्दार्थयोः साहित्येन काव्यत्वे कथं तथाविधे विषये काव्यव्यवस्थेति चेत्---परोपनिबद्धार्थविरचने यथा तत्काव्यत्वव्यवहारस्तथा तथाविधानां काव्यसन्दर्भाणाम् ।
न चार्थानन्त्यं व्यङ्ग्यार्थापेक्षयैव यावद्वाच्यार्थापेक्षयापीति प्रतिपादयितुमुच्यते--
अवस्थादेश-कालादि-विशेषैर् अपि जायते ।
आनन्त्यम् एव वाच्यस्य शुद्धस्यापि स्वभावतः
अवस्थादेशकालादिविशेषैरपि जायते ।
आनन्त्यमेव वाच्यस्य शुद्धस्यापि स्वभावतः ॥ 7 ॥
शुद्धस्यानपेक्षितव्यङ्ग्यस्यापि वाच्यस्यानन्त्यमेव जायते स्वभावतः ।
स्वभावो ह्ययं वाच्यानां चेतनानामचेतनानां च यदवस्थाभेदाद्देशभेदात्कालभेदात्स्वालक्षण्यभेदाच्चानन्तता भवति ।
तैश्च तथाव्यवस्थितैः सद्भिः प्रसिद्धानेकस्वभावानुसरणरूपया स्वभावोक्त्यापि तावदुपनिबध्यमानैर्निरवधिः लोचनम् चतुरत्वं समाससङ्घटना ।
मधुरत्वमपारुष्यम् ।
तथाविधानामिति ।

अपूर्वबन्धच्छायायुक्तानामपि परोपनिबद्धार्थनिबन्धने परकृतकाव्यत्वव्यवहार एव स्यादित्यर्थस्यापूर्वत्वमाश्रयणीयम् ।
कवनीयं काव्यं तस्य भावः काव्यत्वं, न त्वयं भावप्रत्ययान्तात् भावप्रत्यय इति शङ्कितव्यम् ॥ 6 ॥ ॥ ॥
प्रतिपादयितुमिति ।
प्रसङ्गादिति शेषः ।
यदि वा वाच्यन्ताबद्विविधव्यङ्ग्योपयोगि तदेव चेदनन्तं तद्बलादेव व्यङ्ग्यानन्त्यं भवतीत्यभिप्रायेणेदं प्रकृतमेवोच्यते ।
शुद्धस्येति ।
व्यङ्ग्यविषयो यो व्यापारः तत्स्पर्शं विनाप्यानन्त्यं स्वरूपमात्रेणैव पश्चात्तु तथा स्वरूपेणानन्तं सद्व्यङ्ग्यं व्यनक्तीति भावः ।
न तु सर्वथा तत्र व्यङ्ग्यं नास्तीति मन्तव्यमात्मभूततद्रूपाभावे काव्यव्यवहारहानेः; तथा चोदाहरणेषु रसध्वनेस्सद्भावो ऽस्त्येव ।
आदिग्रहणं व्याचष्टे---स्वालक्षेयेति ।
स्वरूपेत्यर्थः ।
यथारूपस्पर्शयोस्तीव्रैकावस्थयोरेकद्रव्यनिष्ठयोरेककालयोश्च ।
बालप्रिया स्यादिति शेषः ।
लोचने भावं विवृणोति---अपूर्वबन्धेत्यादि ।
काव्यत्वमित्यस्य व्युत्पत्तिं दर्शयति---कवनीयमित्यादि ॥ 6 ॥ ॥ ॥
कारिकास्थं शुद्धस्येति पदमन्यथाप्रतिपत्तिपरिहाराय व्याचष्टे--व्यङ्ग्येत्यादि ।
व्यापार इति ।
वाच्यस्येति शेषः ।
आत्मेति ।
आत्मभूतस्य व्यङ्ग्यस्याभाव इत्यर्थः ।
हानिः अभावः ।
ननु कीदृशं व्यङ्ग्यं तत्र भवतीत्यत्राह---तथाचेत्यादि ।
वृत्तौऽअनपेक्षितव्यङ्ग्यस्येऽत्येतदप्युक्तरीत्या व्याख्येयम् ।
ऽतैश्चेऽति ।
ऽतैःऽ वाच्यार्थैः ।
ऽप्रथममेवेऽति ।
काव्यार्थः सम्पद्यते ।
तथा ह्यवस्थाभेदान्नवत्वं यथा---भगवतीपार्वती कुमारसम्भवे ऽसर्वोपमाद्रव्यसमुच्चयेनऽ इत्यादिभिरुक्तिभिः प्रथममेव परिसमापितरूपवर्णनापि पुनर्भगवतः शम्भोर्लोचनगोचरमायान्ती ऽवसन्तपुष्पाभरणं वहन्तीऽ मन्मथोपकरणभूतेन भङ्ग्यन्तरेणोपवर्णिता ।
सैव च पुनर्नवोद्वाहसमये प्रसाध्यमाना ऽतां प्राङ्मुखीं तत्र निवेश्य तन्वीम्ऽ इत्याद्युक्तिर्भिर्नवेनैव प्रकारेण निरूपितरूपसौष्ठवा ।
न च ते तस्य कवेरेकत्रैवासकृत्कृता वर्णनप्रकारा अपुनरुक्तत्वेन वा नवनवार्थनिर्भरत्वेन वा प्रतिभासन्ते ।
दर्शितमेव चैतद्विषमबाणलीलायाम्--- ण अ ताण घडै ओही ण अ ते दीसन्ति कह वि पुनरुत्ता ।
जे विब्भमा पिआणं अत्था वा सुकैवाणीणम् ॥ ॥
अयमपरश्चावस्थाभेदप्रकारो यदचेतनानां सर्वेषां चेतनं द्वितीयं रूपमभिमानित्वप्रसिद्धं हिमवद्गङ्गादीनाम् ।
तच्चोचितचेतनबिषयस्वरूपयोजनयोपनिबध्यमानमन्यदेव सम्पद्यते ।
यथा कुमारसम्भव एव पर्वतस्वरूपस्य हिमवतो वर्णनं, पुनः सप्तर्षिप्रियोक्तिषु चेतनतस्स्वरूपापेक्षया प्रदर्शितं तदपूर्वमेव प्रतिभाति ।
प्रसिद्धश्चायं सत्कवीनां मार्गः ।
इदं लोचनम् न च तेषां घटते ऽवधिः, न च ते दृश्यन्ते कथमपि पुनरुक्ताः ।
ये विभ्रमाः प्रियाणामर्था वा सुकविवाणीनाम् ॥ ॥
चकाराभ्यामतिविस्मयस्सूच्यते ।
कथमपीति ।
प्रयत्नेनापि विचार्यमाणं पौनरुक्त्यं न लभ्यमिति यावत् ।

प्रियाणामिति ।
बहुवल्लभो हि सुभगो राधावल्लभप्रायस्तास्ताः कामिनीः परिभोगसुभगमुपभुञ्जानो ऽपि न विभ्रमपौनरुक्त्यं पश्यति तदा ।
एतदेव प्रियात्वमुच्यते, यदाह-- बालप्रिया प्रथमसर्ग इत्यर्थः ।
ऽउपवर्णितेऽति ।
तृतीयसर्ग इति शेषः ।
ऽनिरूपितरूपसौष्ठवेऽति ।
सप्तमसर्ग इति शेषः ।
ते वर्णनप्रकाराः न च भासन्त इति सम्बन्धः ।
ऽतस्य कवेरिऽति ।
कालिदासस्यापि कवेरित्यर्थः ।
ऽणअऽ इत्यादेः छायां दर्शयति लोचने---न चेत्यादि ।
प्रियाणां विभ्रमाः कथमपि पुनरुक्ता न दृश्यन्त इत्येतद्विवृणोति--बहुवल्लभ इत्यादि ।
तदा विभ्रमपौनरुक्त्यं न पश्यतीति सम्बन्धः ।
तदा परिभोगकाले ।
यदाहेतु माघकविरिति शेषः ।
च प्रस्थानं कविव्युत्पत्तये विषमबाणलीलायां सप्रपञ्चं दर्शितम् ।
चेतनानां च बाल्याद्यवस्थाभिरन्यत्वं सत्कवीनां प्रसिद्धमेव ।
चेतनानामवस्थाभेदे ऽप्यवान्तरावस्थाभेदान्नानात्वम् ।
यथा कुमारीणां कुसुमशरभिन्नहृदयानामन्यासां च ।
तत्रापि विनीतानामविनीतानां च ।
अचेतनानां च भावानामारम्भाद्यवस्थाभेदभिन्नानामेकैकशः स्वरूपमुपनिबध्यमानमानन्त्यमेवोपयाति ।
यथा--- हंसानां निनदेषु यैः कवलितैरासज्यते कूजता- मन्यः को ऽपि कषायकण्ठलुठनादाघर्घरो विभ्रमः ।
ते सम्प्रत्यकठोरवारणवघूदन्ताङ्कुरस्पर्धिनो निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः ॥ ॥
एवमन्यत्रापि दिशानयानुसर्तव्यम् ।
लोचनम् क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयताया इति ।
प्रियाणामिति चासंसारं प्रवहद्रूपरो यो ऽयं कान्तानां विभ्रमविशेषः स नवनव एव दृश्यते ।
न ह्यसावग्निचयनादिवदन्यतश्शिक्षितः, येन तत्सादृश्यात्पुनरुक्ततां गच्छेत् ।
अपि तु निसर्गोद्भिद्यमानमदनाङ्कुरविकासमात्रन्तदिति नवनवत्वम् ।
तद्वत्परकीयशिक्षानपेक्षनिजप्रतिभागुणनिष्यन्दभूतः काव्यार्थ इति भावः ।
बालप्रिया प्रियाणां विभ्रमा इत्यनेन गम्यमर्थमाह---प्रियाणामिति चेत्यादि ।
न हीत्यादि ।
असौ विभ्रमविशेषः ।
यथा अग्निचयनमन्यतश्शिक्ष्यते तथा शिक्षितो नेत्यर्थः ।
येनेति ।
अन्यतश्शिक्षितत्वेनेत्यर्थः ।
तदिति ।
विभ्रमविशेष इत्यर्थः ।
नवनवत्वमिति ।
तस्येति शेषः ।
ऽअर्था वा सुकविवाणीनामिति प्रकृतं विवृणोति---तद्वदित्यादि ।

तद्वदिति ।
तेन तुल्यो भवति नवनवो भवतीत्यर्थः ।
वृत्तौऽचेतनतत्स्वरूपापेक्षयेऽति ।
हिमवतो वर्णनमित्यनुषज्यते ।
ऽप्रदर्शितं तदिऽति ।
वर्णितं तदित्यर्थः ।
ऽअवस्थाभेदे ऽपीऽति ।
कौमारादिशरीरावस्थाया भेदाभावे ऽपीत्यर्थः ।
ऽआन्तरेऽति ।
मानसिकेत्यर्थः ।
ऽहंसानाम्ऽ इति ।
ऽकबलितैःऽ भक्षितैः ।
यैः कूजतां हंसानां निनदेषु कषायकण्ठलुण्ठनादाघर्घरः अन्यः को ऽपि विभ्रमः आसज्यते आसक्तः क्रियत इत्याद्यन्ययः ।
तच्च यथावस्थितमपि तावदुपनिबध्यमानमित्यत्र तावत्पदं लोचने विवृणोति--उत्तरकालन्त्वित्यादि ।
देशभेदान्नानत्वमचेतनानां तावत् ।
यथा वायूनां नानादिग्देशचारिणामन्येषामपि सलिलकुसुमादीनां प्रसिद्धमेव ।
चेतनानामपि मानुषपशुपक्षिप्रभृतीनां ग्रामारण्यसलिलादिसमेधितानां परस्परं महान्विशेषः समुपलक्ष्यत एव ।
स च विविच्य यथायथमुपनिबध्यमानस्तथैवान्त्यमायाति ।
तथा हि---मानुषाणामेव तावद्दिग्देशादिभिन्नानां ये व्यवहारव्यापारादिषु विचित्रा विशेषास्तेषां केनान्तः शक्यते गन्तुम्, विशेषतो योषिताम् ।
उपनिबध्यते च तत्सर्वमेव सुकविभिर्यथाप्रतिभम् ।
कालभेदाच्च नानात्वम् ।
यथर्तुभेदाद्दिग्व्योमसलिलादीनामचेतनानाम् ।
चेतनानां चौत्सुक्यादयः कालविशेषाश्रयिणः प्रसिद्धा एव ।
स्वालक्षण्यप्रभेदाच्च सकलजगद्गतानां वस्तूनां विनिबन्धनं प्रसिद्धमेव ।
तच्च यथावस्थितमपि तावदुपनिबध्यमानमनन्ततामेव काव्यार्थस्यापादयति ।
अत्र केचिदाचक्षरिन्---यथा साभान्यात्मना वस्तूनि वाच्यतां प्रतिपद्यन्ते न विशेषात्मना; तानि हि स्वयमनुभूतानां सुखादीनां तन्निमित्तानां च स्वरूपमन्यत्रारोपयद्भिः स्वपरानुभूतरूपसामान्यमात्राश्रयेणोपनिबध्यन्ते कविभिः ।
न हि तैरतीतमनागतं वर्तमानञ्च अपरिचितादिस्वलक्षणं योगिभिरिव प्रत्यक्षीक्रीयते; तच्चानुभाव्यानुभवसामान्यं सर्वप्रतिपत्तृसाधारणं परिमितत्वात्पुरातनानामेव गोचरीभूतम्, तस्या विषयत्वानुपपत्तेः ।
लोचनम् तावदिति ।
उत्तरकालन्तु व्यङ्ग्यस्पर्शनेन विचित्रतां परां भजतान्नाम, तावति तु स्वभावेनैव सा विचित्रेति तावच्छब्दस्याभिप्रायः ।
तन्निमित्तानाञ्चेति ।
ऋतुमाल्यादीनाम् स्वेत ।
स्वानुभूतपरानुभूतानां यत्सामान्यं तदेव विशेषान्तररहितन्तन्मात्रं तस्याश्रयेण ।
न हि तैरिति कविभिः ।
एतच्चात्यन्तासंभावनार्थमुक्तम् ।
बालप्रिया स्वपरानुभूतेत्येतत् व्याचष्टे---स्वानुभूतेत्यादि ।
मात्रशब्दार्थविवरणम्--विशेषान्तररहितमिति ।
वृत्तौ ऽअपरिचितादिस्वलक्षणम्ऽ इति ।
अपरिचितादीनां वस्तूनां स्वरूपमित्यर्थः ।
एतच्चोक्तमिति सम्बन्धः ।
न हीत्यादि कथनं चेत्यर्थः ।

ऽअत्यन्तासम्भावनार्थम्ऽ इति ।
अत्यन्तंयदसम्भावनं वस्तूनां विशेषात्मना प्रतिपादनसम्भवाभावस्तदर्थं तत्प्रतिपत्त्यर्थमित्यर्थः ।
एतदेव विशदयति---प्रत्यक्षेत्यादि ।
अत एव स प्रकारविशेषो यैरद्यतनैरभिनवत्वेन प्रतीयते तेषामभिमान मात्रमेव भणितकृतं वैचित्र्यमात्रमत्रास्तीति ।
तत्रोच्यते--यत्तूक्तं सामान्यमात्राश्रयेण काव्यप्रवृत्तिस्तस्य च परिमितत्वेन प्रागेव गोचरीकृतत्वान्नास्ति नवत्वं काव्यप्रवृत्तिस्तस्य च परिमितत्वेन प्रागेव गोचरीकृतत्वान्नास्ति नवत्वं काव्यवस्तूनामिति, तदयुक्तम्; यतो यदि सामान्यमात्रमाश्रित्य काव्यं प्रवर्तते किङ्कृतस्तर्हि महाकविनिबध्यमानानां काव्यर्थानामतिशयः ।
वाल्मिकिव्यतिरिक्तस्यान्यस्य कविव्यपदेश एव वा सामान्यव्यतिरिक्तस्यान्यस्य काव्यार्थस्यभावात्, सामान्यस्य चादिकविनैव प्रदर्शितत्वात् ।
उक्तिवैचित्र्यान्नैष दोष इति चेत्--किमिदुमुक्तिवैचित्र्यम्? उक्तिर्हि वाच्यविशेषप्रतिपादि वचनम् ।
तद्वैचित्र्ये कथं न वाच्यवैचित्र्यम् ।
वाच्यवाचकयोरवनाभावेन प्रवृत्तेः ।
लोचनम् प्रत्यक्षदर्शने ऽपि हि--- शब्दास्संकेतितं प्राहुर्व्यवहाराय स स्भृतः ।
तदा स्वलक्षणं नास्ति सङ्केतस्तेन तत्र नः ॥ ॥
इत्यादियुक्तिभिस्सामान्यमेव स्पृश्यते ।
किमिति ।
असंवेद्यमानमर्थपौनरुक्यं कथं प्राकरणिकैरङ्गीकार्यमिति भावः ।
तमेव प्रकटयत---न चेदिति ।
उक्तिर्हीति ।
पर्यायमात्रतैव यद्युक्तिविशेषस्तत्पर्यायान्तरैरविकलं तदर्थोपनिबन्धे अपौनरुक्त्याभिमानो न भवति ।
बालप्रिया प्रत्यक्षदर्शने ऽपीति ।
कवीनां वस्तुस्वरूपप्रत्यक्षदर्शने सत्यपीत्यर्थः ।
स्पृश्यत इति ।
कविवाचेति शेष- ।
वृत्तौ--ऽअनुभाव्येऽति ।
अनुभाव्यानामनुभवितव्यानां वस्तूनामनुभवानां च यत् सामान्यं सामान्यस्वरूपमित्यर्थः ।
ऽतस्येऽति ।
अनुभाव्यानुभावसामान्यस्येत्यर्थः ।
ऽअविषयत्वेऽति ।
पुरातनानामित्यनुषङ्गः ।
ऽतेषाम्ऽ इति ।
अद्यतनानामित्यर्थः ।
इत्यभिमानमात्रमेवेति सम्बन्धः ।
ऽतत्रोच्यतऽ इत्यस्यानन्तरं ऽयत्तूक्तं सामान्यमात्राश्रयेण काव्यप्रवृत्तिऽरित्यादि पाठः ।
क्वचिद्गन्थे त्वस्मात् पूर्वं ऽयदि सामान्यमात्राश्रयेण काव्यप्रवृत्तिस्तत्प्रर्शितप्रकारं काव्यवैचित्र्यमवस्थादिविशेषात्किं पुनरुक्तमेवास्तु न चेत्तथा तत्कर्थं न काव्यानन्त्यम्ऽ इत्यपि पाठः ।
तदसुरोधी किमितीत्यादि न चेदितीत्यन्तो लोचनग्रन्थः ।
ऽउक्तिर्हीऽत्यादिग्रन्थस्य भावं विवृणोति--पर्यायेत्यादि ।
पर्यायमात्रतैव शब्दान्तरेण निर्देश एव ।
तत् तर्हि ।
अविकलं वैकल्यं विना ।
अपौनरुक्त्याभिमानो न भवतीति ।
वाच्यानां च काव्ये प्रतिभासमानानां यद्रूपं तत्तु ग्राह्यविशेषाभेदेनैव प्रतीयते ।
तेनोक्तवैचित्र्यवादिना वाच्यवैचित्र्यमनिच्छताप्यवश्यमेवाभ्युपगन्तव्यम् ।

तदयमत्र सङ्क्षेपः-- वाल्मीकव्यतिरिक्तस्य यद्येकस्यापि कस्यचित् ।
इष्यते प्रतिभार्थेषु तत्तदानन्त्यमक्षयम् ॥ ॥
किञ्च, उक्तिवैचित्र्यं यत्काव्यनवत्वे निबन्धनमुच्यते तदस्मत्पक्षानुगुणमेव ।
यतो यावानयं काव्यार्थानन्त्यभेदहेतुः प्रकारः प्राग्दर्शितः स सर्व एव पुनरुक्तिवैचित्र्याद्द्विगुणतामापद्यते ।
यश्चायमुपमाश्लेषादिरलङ्कारवर्गः लोचनम् तस्माद्विशिष्टवाच्यप्रतपादकनैवोक्तेर्विशेष इति भावः ।
ग्राह्यविशेषेति ।
ग्राह्यः प्रत्यक्षादिप्रमाणैर्यो विशेषः तस्य यो अभेदः ।
तेनायमर्थः--पदानान्तावत्सामान्ये वा तद्वति वापोहे वा यत्र कुत्रापि वस्तुनि समयः, किमनेन वादान्तरेण? वाक्यात्तद्विशेषः प्रतीयत इति कस्यात्र वादिनो विमतिः ।
अन्विताभिधानतद्विपर्ययसंसर्गभेदादिवाक्यार्थपक्षेषु सर्वत्र विशेषस्याप्रत्याख्येयत्वात् ।
उक्तिवैचित्र्यञ्च न पर्यायमात्रकृतमित्युक्तम् ।
अन्यत्तु यत्तत्प्रत्युतास्माकं पक्षसाधकमित्याह---कित्र्चेति ।
पुनरिति ।
भूय इत्यर्थ-. उपमा हि निभ, प्रतिम् च्छल, प्रतिबिम्ब, प्रतिच्छाय, तुल्य, सदृशाभासादिभिर्विचित्राभिरुक्तिभिर्विचित्रीभवत्येव ।
वस्तुत एतासामुक्तीनामर्थवैचित्र्यस्य विद्यमानत्वात् ।
नियमेन भानयोगाद्धि निभशब्दः, बालप्रिया किन्तु पौनरुक्त्यबुद्धिरेव भवतीत्यर्थः ।
विशिष्टवाच्येति ।
वाच्यविशेषेत्यर्थः ।
प्रत्यक्षादिप्रमाणैः ग्राह्य इति सम्बन्धः ।
तेनायमर्थ इति ।
उक्तग्रन्थेन वक्ष्यमाणो ऽर्थस्सिध्यतीत्यर्थः ।
मीमांसकादीनां मते सामान्ये वस्तुनि, नैयायिकमते तद्वति, बौद्धमते अपोहे समयः ।
वादान्तरेणवादविशेषेण ।
तद्विशेषः वस्तुविशेषः ।
कस्यात्र विमतिः न कस्यापि ।
अत्र हेतुमाह---अन्वितेत्यादि ।
अन्विताभिधानादीनां ये वाक्यार्थत्वपक्षास्तेषु सर्वेष्वपीत्यर्थः ।
विशेषस्याप्रत्याख्येयत्वादिति ।
प्रतीताविति शेषः ।
वस्तुविशेषप्रतीतेः प्रत्याख्यातुमशक्यत्वादित्यर्थः ।
पुनरुक्तिवैचित्र्यादित्यत्रत्यपुनश्शब्दस्य व्याख्यानम्---भूय इति ।
ऽयश्चायम्ऽ इत्यादिग्रन्थस्य भावार्थविवरणम्--उपमेत्यादि ।
उपमा हि विचित्रीभवत्येवेति सम्बन्धः ।
ननु निभप्रतिमादिशब्दानां समानार्थकत्वात् कथं त चित्र्यमित्यत आह---वस्तुत इत्यादि ।
उपसंहरति---एवमिति ।
तदिति ।
रलङ्कारवर्गः प्रसिद्ध स भणितिवैचित्र्यादुपनिबध्यमानः स्वयमेवानवधिर्धत्ते पुनः शतशाखताम् ।
भणितिश्च स्वभाषाभेदेन व्यवस्थिता सती प्रतिनियतभाषागोचरार्थवैचित्र्यनिबन्धनं पुनरपरं काव्यार्थानामानन्त्यमापादयति ।
यथा ममैव--- महमह इत्ति भणन्तौ वज्जदि कालो जणस्स ।
तोइ ण देउ जणद्दण गोअरी भोदि मणसो ॥ ॥
इत्थं यथा यथा निरूप्यते तथा तथा न लभ्यते ऽन्तः काव्यार्थानाम् ।

इदं तूच्यते--- अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनम् ।
यत्प्रदर्शितं प्राक् लोचनम् तदनुकारतया तु प्रतिमशब्द इत्येवं सर्वत्र वाच्यं केवलं बालोपयोगि काव्यटीकापरिशीलनदौरात्म्यादेषु पर्यायत्वभ्रम इति भावः ।
एवमर्थानन्त्यमलङ्कारानन्त्यञ्च भणितिवैचित्र्याद्भवति ।
अन्यथापि च तत्ततो भवतीति दर्शययि---भणितिश्चेति ।
प्रतिनियताया भाषाया गोचरो वाच्योयो ऽर्थस्तत्कृतं यद्वैचित्र्यं तन्निबन्धनं निमित्तं यस्य, अलङ्काराणां काव्यार्थानाञ्चानन्त्यस्य ।
तत्कर्मभूतं भणितिवैचित्र्यं कर्तृभूतमापादयतीति सम्बन्धः ।
कर्मणो विशेषणच्छलेन हेतुर्दर्शितः ।
मम मम इति भणतो व्रजति कालो हेतुर्दर्शितः ।
तथापि न देवो जनार्दनो गोचरो भवति मनसः ॥ ॥
मधुमथन इति यो अनवरतं भणति, तस्य कथन्न देवो मनोगोचरो भवतीति वीरोधालङ्कारच्छाया ।
सौन्धवभाषया महमह इत्यनया भणित्या समुन्मेषिता ॥ 7 ॥
अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनम् ।
बालप्रिया अर्थाद्यानन्त्यमित्यर्थः ।
तत इति ।
भणितिवैचित्र्यादित्यर्थः ।
यस्तेत्यन्यपदार्थविवररणम्--अलङ्काराणामित्यादि ।
विशेषणच्छलेनेति ।
प्रतिनियतेत्यादिविशेषणव्याजेनेत्यर्थः ।
ऽमहेऽत्यादेः छायामाह--ममेत्यादि ।
मम मम इति भणतः ममायं ममेदमित्यादि भणतः ।
अत्र ममेति प्रकृतार्थः ।
मधुमथन इति प्रतीयमानो विरुद्धार्थः ।
तथापीति विरोधद्योतकम् ।
समुन्मिषितेति ।
महमह इत्यस्य मम मम इति मधुमथन इति च छाया भवतीति भावः ॥ 7 ॥ ॥ ॥
इत ऊर्ध्वङ्कारिकावृत्योर्भेदस्य दुर्ग्रहतया तदुभयं पृथक्प्रदर्शयन् विवृणोति--अवस्थेत्यादि ।
भूम्नैव दृश्यते लक्ष्ये
न तच् छक्यम् अपोहितुम् ।
. . . . . . . . . . .तत् तु भाति रसाश्रयात्
... न तच्छक्यमपोहितुम् ।
तत्तु भाति रसाश्रयात् ॥ 8 ॥
तदिदमत्र सङ्क्षेपेणाभिधीयते सत्कवीनामुपदेशाय---
रस-भावादि-सम्बद्धा यद्य् औचित्यानुसारिणी ।
अन्वीयते वस्तु-गतिर् देश-कालादि-भेदिनी
रसभावादिसम्बद्धा यद्यौचित्यानुसारिणी ।
अन्वीयते वस्तुगतिर्देशकालादिभेदिनी ॥ 9 ॥
तत्का गणना कवीनामन्येषां परिमितशक्तीनाम् ।
वाचस्पति-सहस्राणां सहस्रैर् अपि यत्नतः ।
निबद्धा सा क्षयं नैति प्रकृतिर् जगताम् इव
वाचस्पतिसहस्राणां सहस्रैरपि यत्नतः ।

निबद्धा सा क्षयं नैति प्रकृतर्जगतामिव ॥ 10 ॥ ॥ ॥
यथाहि जगत्प्रकृतिरतीतकल्पपरम्पराविर्भूतविचित्रवस्तुप्रपञ्चा सती लोचनम् भूम्नैव दृश्यते लक्ष्ये तत्तु भाति रसाश्रयात् ॥ ॥
इति कारिका ।
अन्यस्तु ग्रन्थो मध्योपस्कारः ॥ 8 ॥ ॥ ॥
अत्र तु पादत्रयस्यार्थमनूद्य चतुर्थपादार्थो ऽपूर्वतयाभिधीयते ।
तदित्यादि ।
शक्तीनामित्यन्तं कारिकयोर्मध्योपस्कारः ।
द्वितीयकारिकायास्तुर्यं पादं व्याचष्टे--यथाहीति ॥ 1॥
, 10 ॥
बालप्रिय अन्यस्तु ग्रन्थ इति ।
ऽयत्प्रदर्शितं प्रागिऽति ऽन तच्छक्यमपोहितुम्ऽ इति च ग्रन्थ इत्यर्थः ॥ 8 ॥ ॥ ॥
चतुर्थेत्यादि ।
ऽतत्तु भात रसाश्रयाऽदित्यस्यार्थो ऽत्र विधीयमान इत्यर्थः ।
करिकयोरिति ।
ऽरसभावेऽत्यादेः ऽवाचस्पतीऽत्यादेश्च कारकयोरित्यर्थ- ।
उपस्कार इति ।
यद्यन्वीयते अन्यैः कविभिः तत्तर्हि इत्यर्थः ।
अन्येषां वाल्मीकिव्यतिरिक्तानाम् ।
कवीनां गणना का ।
ते अगण्या भवेयुरिति तदर्थः ।
तुर्यं पादमिति ।
प्रकृतिर्जगतामिवेति पादमित्यर्थः ।
व्याचष्ट इति ।
क्षयं नैतीत्यनेन सह विवृणोतीत्यर्थः ।
यथाहीतीति ।
ऽयथाहीऽत्यादिना ऽअभिधातुम्ऽ इत्यन्तग्रन्थेनेत्यर्थः. ऽतद्वदिऽत्यादिकं तु वाचस्पतीत्यादिपादत्रयार्थविवरणम् ।
वृत्तौ ऽजगत्प्रकृतिरिऽति ।
जगत्कारणभूता प्रकृतिरित्यर्थः ।
ऽअतीतेऽति ।
अतीतानां कल्पनां परम्परायामाविर्भून्तः आविर्भावितः विचित्राणां वस्तूनां प्रपञ्चो यया सा ऽपरीऽति ।
परिक्षीणा नष्टा अपरपदार्थानां निर्माणशक्तिर्यस्यास्सेत्यर्थः ॥ 1॥
, 10 ॥
पुनरिदानीं परिक्षीणा परपदार्थानिर्माणशक्तिरिति न शक्यते ऽभिधातुम् ।
तद्वदेवेयं काव्यस्थितिरनन्ताभिः कविमतिभिरुपभुक्तापि नेदानीं परिहीयते, प्रत्युत नवनवाभिर्व्युत्पत्तिभिः परिवर्धते ।
इत्थं स्थिते ऽपि--
संवादास् तु भवन्त्य् एव बाहुल्येन सुमेधसाम् ।
स्थितं ह्य् एतत् संवादिन्य एव मेधाविनां बुद्धयः ।
किन्तु-
नैक-रूपतया सर्वे ते मन्तव्या विपश्चिता
संवादास्तु भवन्त्येव बाहुल्येन सुमेधसाम् ।

स्थितं ह्येतत् संवादिन्य एव मेधाविनां बुद्धयः ।
किन्तु-- नैकरूपतया सर्वे ते मन्तव्या विपश्चिता ॥ 11 ॥
कथमिति चेत्--- संवादो ह्यन्यसादृश्यं तत्पुनः प्रतिबिम्बवत् ।
आलेख्याकारवत्तुल्यदेहिवच्च शरीरिणाम् ॥ 12 ॥
संवादो हि काव्यार्थस्योच्यते यदन्येन काव्यवस्तुना सादृश्यम् ।
तत्पुनः शरीरिणां प्रतिबिम्बवदालेख्याकारवत्तुल्यदेहिवच्च त्रिधा व्यवस्थितम् ।
किञ्चिद्धि काव्यवस्तु वस्त्वन्तरस्य शरीरिणः प्रतिबिम्बकल्पम्, लोचनम् संवादा इति कारि काया अर्धं, नैकरूपतयेति द्वितीयम् ॥ 11 ॥
किमियं राजाज्ञेत्यभिप्रायेणाशङ्कते---कथमिति चेदिति ।
अत्रोत्तरम्--
संवादो ह्य् अन्य-सादृश्यं तत् पुनः प्रतिबिम्बवत् ।
आलेख्याकारवत् तुल्य-देहिवच् च शरीरिणाम्
संवादो ह्यन्यसादृश्यन्तत्पुनः प्रतिबम्बवत् ।
आलेख्या कारवत्तुल्यदेहिवच्च शरीरिणाम् ॥ 12 ॥
इत्यनेया कारिकया ।
एषा खण्डीकृत्य वृत्तौ व्याख्याता ।
शरीरिणामित्ययञ्चशब्दः प्रतिवाक्यं द्रष्टव्य इति दर्शितम् ।
शरीरिण इति ।
पूर्वमेव प्रतिलब्धस्वरूपतया बालप्रिया लोचने--संवादा इत्यादि ।
ऽसंवादाऽ इत्यादिऽसुमेधसाम्ऽ इत्यन्तं कारिकायाः प्रथमार्धं, ऽनैकेऽत्यादि ऽविपश्चितेऽ त्यन्तं द्वितीयार्धं चेत्यर्थः ।
अत्र सुमेधसां संवादा इत्यस्य सुमेधसां बुद्धीनां काव्यानां च संवादा इत्यर्थ इत्यभिप्रेत्य ऽस्थितं ह्येतदिऽत्यादिकं ऽसंवादो हि काव्यार्थस्योच्यतऽ इति च वृत्तावुक्तमिति बोध्यम् ॥11 ॥
ख एडीकृत्य(?) वृत्तौ व्याख्यातेति ।
केषुचित्पुस्तकेष्विति शेषः ।
अत एव वक्ष्यते--केषुचित् पुस्तकेषु कारिका अखण्डीकृता एव दृश्यन्त इति ।
खण्डीकृत्य व्याख्यानं तु ऽसंवादो ह्यन्यसादृश्यम्ऽ ऽसंवादो हि काव्यार्थस्योच्यते, यदन्येन काव्यवस्तुना सादृश्यम्, तत् पुनः प्रतिबिम्बवत्, तत्पुनश्शरीरिणां प्रतिबिम्बवत्ऽ इत्यादिकं बोध्यम् ।
प्रतिवाक्यमित्यादि ।
शरीरिणामित्यस्य प्रतिबिम्बादिभिस्त्रिभिस्सम्बन्ध इति भावः ।
अन्यदालेख्यप्रख्यम् अन्यत्तुल्येन शरीरणा सदृशम् ।
तत्र पूर्वम् अनन्यात्म तुच्छात्म तद्-अनन्तरम् ।
तृतीयं तु प्रसिद्धात्म नान्य-साम्यं त्यजेत् कविः
तत्र पूर्वमनन्यात्म तुच्छात्म तदनन्तरम् ।
तृतीयं तु प्रसिद्धात्म नान्यसाम्यं त्यजेत्कविः ॥ 13 ॥
तत्र पूर्वं प्रतिबिम्बकल्पं काव्यवस्तु परिहर्तव्यं सुमतिना ।
यतस्तदनन्यात्म तात्त्विकशरीरशून्यम् ।
तदनन्तरमालेख्यप्रख्यमन्यसाम्यं शरीरान्तरयुक्तमपि तुच्छात्मत्वेन त्यक्तव्यम् ।
तृतीयं तु विभिन्नकमनीयशरीरसद्भावे सति ससंवादमपि काव्यवस्तु न त्यक्तव्यं कविना ।
न हि शरीरी शरीरिणान्येन सदृशो ऽप्येक एवेति शक्यते वक्तुम् ।
लोचनम् प्रधानभूतस्येत्यर्थः ॥ 12 ॥
तत्र पूर्वमनन्यात्म तुच्छात्म तदनन्तरम् ।
तृतीयन्तु प्रसिद्धत्म नान्यसाम्यन्त्यजेत्कविः ॥ ॥
इति कारिका ।

अनन्यः पूर्वोपनिबन्धकाव्यादात्मा स्वभावो यस्य तदनन्यात्म येन रूपेण भाति तत्प्राक्कविस्पृष्टमेव, यथा येन रूपेण प्रतिबिम्बं भाति, तेन रूपेण बिम्बमेवैतत् ।
स्वयन्तु तत्कीदृशमित्यत्राह--तात्विकशरीरशून्यमिति ।
न हि तेन किञ्चिदपूर्वमुत्प्रेक्षितं प्रतिबिम्बमप्येवमेव ।
एवं प्रथमं प्रकारं व्याख्याय द्वितीयं व्याचष्टे--तदनन्तरन्त्विति ।
द्वितीयमित्यर्थः ।
अन्येन साम्यं यस्य तत्तथा ।
तुच्छात्मेति ।
अनुकारे ह्यनुकार्यबुद्धिरेव चित्रपुस्तादाविव न तु सिन्दूरादिबुद्धिः स्फुरति, सापि च न चारुगत्वायेति भावः ॥13॥
बालप्रिया वृत्तौ ऽकाव्यार्थस्येऽति पूरतम् ।
काव्यार्थगतमन्यसादृश्यं विवृणोति--ऽयदन्येनेऽत्यादि ।
प्रतिबिम्बवदित्यादित्रये षष्ट्यन्ताद्वतिः ।
प्रतिबिम्बे अन्यसादृश्यं शरीरिणा बिम्बेन सादृश्यमेवमालेख्याकारतुल्यदेहनोश्च शरीरिणा सादृश्यं बोध्यम् ।
ऽकिञ्चिद्धीऽत्यादिफलितरथकथनम् ।
तत्र शरीरिण इत्येतत्पदस्य विवरणं लोचने--पूर्वमेवेत्यादि ।
नान्यसाम्यं त्यजेत्कविरित्युक्त्या गम्यस्यार्थस्य विवरणं वृत्तौ ऽपरिहर्तव्यं सुमतिनेऽति ।
ऽत्यक्तव्यम्ऽ इति च ॥ 12 ॥ ॥ ॥
तात्विकशरीरशून्यमित्यनन्यात्मेत्यस्य विवरणमित्यन्यथा प्रतिपत्तिः स्यादित्यतो लोचने विवृणोत--अनन्य इत्यादि ।
भातीति ।
काव्यवस्त्विति शेषः ।
तस्य प्रतिबिम्बकल्पत्वं दर्शयति--यथेत्यादि ।
इत्यत्राहेति ।
तथाच तात्विकेत्यादिकमनन्यात्मेत्यस्य विवरणं नेति भावः ।
तात्विकशरीरशून्यत्वे हेतुमाह--न हीत्यादि ।
तेनेति ।
नवीनकविनेत्यर्थः ।
अपूर्वमिति ।
काव्यवस्त्विति शेषः ।
तुच्छात्मत्वमुपपादयति--अनुकारे हीत्यादि ।
सापीति ।
सा अनुकार्यबुद्धिः ॥ 13॥
एतदेवोपपादयितुमुच्यते--
आत्मनो ऽन्यस्य सद्-भावे पूर्व-स्थित्य्-अनुयाय्य् अपि ।
वस्तु भातितरां तन्व्याः शशि-च्छायम् इवाननम्
आत्मनो ऽन्यस्य सद्भावे पूर्वस्थित्यनुयाय्यपि ।
वस्तु भातितरां तन्व्याः शशिच्छायमिवाननम् ॥ 14 ॥ ॥ ॥
तत्त्वस्य सारभूतस्यात्मनः सद्धावे ऽन्यस्य पूर्वस्थित्यनुयाय्यपि वस्तु भातितराम् ।
पुराणरमणीयच्छायानुगृहीतं हि वस्तु शरीरवत्परां शोभां पुष्यति ।
न तु पुनरुक्तत्वेनावभासते ।
तन्व्याः शशिच्छायमिवाननम् ।
एवं तावत्ससंवादानां समुदायरूपाणां वाक्यार्थानां विभक्ताः सीमानः ।

पदार्थरूपाणां च वस्त्वन्तरसदृशानां काव्यवस्तूनां नास्त्येव दोष इति प्रतिपादयितुमुच्यते--
अक्षरादि-रचनेव योज्यते यत्र वस्तु-रचना पुरातनी ।
नूतने स्फुरति काव्य-वस्तुनि व्यक्तम् एव खलु सा न दुष्यति
अक्षरादिरचनेव योज्यते यत्र वस्तुरचना पुरातनी ।
नूतने स्फुरति काव्यवस्तुनि व्यक्तमेव खलु सान दुष्यति ॥ 15 ॥ ॥ ॥
न हि वाच्यस्पतिनाप्यक्षराणि पदानि वा कानिचिदपूर्वाणि घटयितुं लोचनम् एतदेवेति तृतीयस्य रूपस्यात्याज्यत्वम् ।
आत्मनो ऽन्यस्य सद्भावे पूर्वस्थित्यनुयाय्यपि ।
वस्तु भातितरान्तन्व्याश्शशिच्छायमिवाननम् ॥ ॥
इति कारिका खण्डीकृत्य वृत्तौ पठिता ।
केषुचित्पुस्तकेषु कारिका अखण्डीकृता एव दृश्यन्ते ।
आत्मन इत्यस्य शब्दस्य पूर्वपठिताभ्यामेव तत्वस्य सारभूतस्येति च पदाभ्यामर्थो निरूपितः ॥ 14 ॥
ससंवादानामिति पाठः ।
संवादानामिति तु पाठे वाक्यार्थरूपाणां समुदायानां ये संवादाः तेषामिति वैयधिकरण्येन संगतिः ।
वस्तुशब्तदेन एको वा द्वौ वा त्रयो बालप्रिया एतदेवेत्यत्रत्यैतत्पदार्थविवरणम्--तृतीयस्येत्यादि ।
आत्मन इत्यस्यार्थो निरूपित इति सम्बन्धः तत्त्वस्य सारभूतस्येति चात्मपदार्थविवरणमिति भावः ।
वृत्तौ ।
ऽपूर्वस्थितीऽ त्याद्युक्तस्यैव विवरणं ऽपुराणेऽत्यादि ।
ऽपुष्यतीऽ त्यन्तम् ।
ऽपुराणेऽति ।
पुराणी रमणीया च या छाया तयानुगृहीतमित्यर्थः ।
ऽशरीरवत्ऽ शरीरेण तुल्यम् ॥14 ॥ ॥ ॥
कारिकायां वस्तुरचनेत्यत्र वस्तुपदं विवृणोति लोचने--वस्तुशब्देनेत्यादि ।
शक्यन्ते ।
तानि तु तान्येवोपनिबद्धानि न काव्यादिषु नवतां विरुध्यन्ति ।
तथैव पदार्थरूपाणि श्लेषादिमयान्यर्थतत्त्वानि ।
तस्मात्-- यदपि तदपि रम्यं यत्र लोकस्य किञ्चित्-स्फुरितमिदमितीयं बुद्धिरभ्युज्जिहीते ।
स्फुरणेयं काचिदिति सहृदयानां चमत्कृतिरुत्पद्यते ।
अनुगतम् अपि पूर्व-च्छायया वस्तु तादृक्
सुकविर् उपनिबध्नन् निन्द्यतां नोपयाति
अनुगतमपि पूर्वच्छायया वस्तु तादृक् ।
सुकविरुपनिबध्नन्निन्द्यतां नोपयाति ॥ 16 ॥
लोचनम् वा चतुरादयो वा पदानामर्थाः ।
तानि त्विति ।
अक्षराणि च पदानि च ।
तान्येवेति ।
तेनैव रूपेण युक्तानि मनागप्यन्यरूपतामनागतानीत्यर्थः ।
एवमक्षरादिरचनैवेति दृष्टान्तभागं व्याख्याय दार्ष्टान्तिके योजयति--तथवेति ।
श्लेषादिमयानीति ।
श्लेषादिस्वभावानीत्यर्थः ।
सद्वृत्ततेजस्विगुणद्विजादयो हि शब्दाः पूर्वपूर्वैरपि कविसहस्रैः श्लेषच्छायया निबध्यन्ते, निबद्धाश्चन्द्रादयश्चोपमानत्वेन ।

तथैव पदार्थरूपाणीत्यत्र नापूर्वाणि घटयितुं शक्यन्ते इत्यादि विरुध्यन्तीत्येवमन्तं प्राक्तनं वाक्यमभिसन्धानीयम् ॥ 15 ॥ ॥ ॥
ऽलोक्येऽति व्याचष्टे--सहृदयानामिति ।
चमत्कृतिरिति ।
आस्वादप्रधाना बुद्धिरित्यर्थः ।
ऽअभ्युज्जीहीतऽ इति व्याचष्टे--उत्पद्यत इति ।
उदेतीत्यर्थः ।
बुद्धेरेवाकारं दर्शयति--स्फुरणेयं काचिदिति ।
यदपि तदपि रम्यं यत्र लोकस्य किञ्चि- त्स्फुरितमिदमितीयं बुद्धिरभ्युज्जिहीते ।
बालप्रिया अर्था इति ।
विवक्षिता इति शेषः ।
तानि त्वित्यादिकं विवृणोति--अक्षराणीत्यादि ।
तान्येवोपनिबद्धानीत्यस्य विवरणम्--तेनैवेत्यादि ।
व्याख्यायेति ।
न हीत्यादिना विरुध्यन्तीत्यन्तेनेति शेषः ।
सद्वृत्तेत्यादि ।
सद्वृत्तादयो हि शब्दा नानार्थकाः ।
निबद्धा इत्यादि ।
पूर्वैरुपमानत्वेन निबद्धाश्चन्द्रादयश्चाद्यतनैरुपमानत्वेन निबध्यन्त इत्यर्थः ।
अभिसन्धानीयमिति ।
अनुषञ्जनीयमित्यर्थः ।
कारिकायां यत्रेत्युक्त्या तत्रेत्यध्याहृत्य काव्यवस्तुनीत्यनेन योज्यम् ।
यत्रेत्यस्य स्थाने या त्विति वा पाठः ।
कारिकायां ऽयदपीऽत्यादि ।
ऽयदपि तदपिऽ यत्किञ्चित्तद्वस्त्वपि ।
ऽरम्यंऽ काव्ये चारु भवति ।
तत्पदार्थं विवृणोति--ऽयत्रेऽत्यादि ।
ऽयत्रऽ निबद्धे यस्मिन् वस्तुनि ।
इदं किञ्चित् स्फुरितमितीयं बुद्धिः लोकस्य उज्जिहीते इत्यन्वयः ।
तदनुगतमपि पूर्वच्छायया वस्तु तादृक् तादृक्षं सुकविर्विवक्षितव्यङ्ग्यवाच्यार्थसमर्पणसमर्थशब्दरचनारूपया बन्धच्छाययोपनिबध्नन्निन्धतां नैव याति ।
तदित्थं स्थितम्--- प्रतायन्तां वाचो निमितविविधार्थामृतरसा न सादः कर्तव्यः कविभिरनवद्ये स्वविषये ।
सन्ति नवाः काव्यार्थाः परोपनिबद्धार्थविरचने न कश्चित्कवेर्गुण इति भावयित्वा ।
परस्वादानेच्छा-विरत-मनसो वस्तु सुकवेः
सरस्वत्य् एवैषा घटयति यथेष्टं भगवती
परस्वादानेच्छाविरतमनसो वस्तु सुकवेः ।
सरस्वत्येवैषा घटयति यथेष्टं भगवती ॥ 17 ॥
लोचनम् अनुगतमिपि पूर्वच्छायया वस्तु तादृक्सुकविरुपनिबध्नन्निन्द्यतां नोपयति ॥ ॥
इति कारिका खण्डीकृत्य पठिता ॥ 16 ॥
स्वविषय इति ।
स्वयन्तात्कालिकत्वेनास्फुरित इत्यर्थः ।
परस्वादानेच्छेत्यादिद्वितीयं श्लोकार्धं पूर्वोपस्कारेम सह पठति--परस्वादानेच्छाविरतमनसो बालप्रिया तत्र लोकस्येत्यादेर्विवरणं वृत्तौ ऽस्फुरणेयम्ऽ इत्यादि ।

तदेतद्दर्शयन्नाह लोचनेलोकस्येत्यादि ।
खण्डीकृत्य पठितेति ।
ऽयदपीऽत्यादिकारिकापूर्वार्धं पाठानन्तरं ऽस्फुरणेयऽमित्यादिवृत्तिग्रन्थपाठः, स्तदनन्तरं ऽअनुगतमपीऽत्याद्युत्तरार्धपाठः, तदनम्तरं ऽगतम्ऽ इत्यादिवृतितग्रन्थपाठश्चेति भावः ॥ 16 ॥
ऽप्रतायम्ताम्ऽ इति ।
निमिताः तुलिताः विविधार्थामृतरसाः अमृतरसतुल्याः विविधार्थाः याभिः ताः, यावन्तो ऽर्थास्तावत्य इति भावः ।
यथा माधे ऽयावदर्थपदां वाचम्ऽ इति ।
वाचः काव्यरूपाः ।
कविभिः ऽप्रतायन्तांऽ सविस्तराः निबध्यन्ताम् ।
ऽअनवद्येऽ भिर्देषे ।
ऽस्वविषयेऽ काव्यवस्तुनि विषये कविभिः ऽसादःऽ मनस्सादः, कुतः खल्वपूर्वमानयमीत्यादिचिन्तया विषाद इति यावत्; न कर्तव्यः, कुत इत्यत्राह--ऽपरस्वेऽत्यादि ।
ऽवस्तुऽ काव्यम् ।
सुकवेर्घटयतीति सम्बन्धः ।
ऽयथेष्टंऽ कवेरिष्टमनतिक्रम्य इति कारिकार्थं स्पष्टं मत्वा स्वविषय इत्यत्र पूरयति लोचने--स्वयं तात्कालिकत्वेनास्फुरित इति ।
तत्काले कवेरस्फुरित इत्यर्थः ।
अनेन सादस्य हेतुर्दर्शितः ।
पूर्वोपस्कारेण सह पठतीति ।
करिकापूर्वार्धपाठानन्तरं सन्ती परस्वादानेच्छाविरतमनसः सुकवेः सरस्वत्येषा भगवती यथेषृं घटयति वस्तु ।
येषां सुकवीनां प्राक्तनपुण्याभ्यासपरिपाकवशेन प्रवृत्तिस्तेषां परोपरचतार्थपरिग्रहनिःस्पृहाणां स्वव्यापारो न क्वचिदुपयुज्यते ।
सैवभगवती सरस्वती स्वयमभिमतमर्थमाविर्भावयति ।
एतदिव हि महाकवित्वं महाकवीनामित्योम् ।
इत्यक्लिष्टरसाश्रयोचितगुणालङ्कारशोभाभृतो यस्माद्वस्तु समीहितं सुकृतिभिः सर्वं समासाद्यते ।
लोचनम् वस्तु सुकवेरिति तृतीयः पादः ।
कुतः खल्वपूर्वमानयामीत्याशयेन निरुद्योगः परोपनिबद्धवस्तूपजीवको वा स्यादत्याशङ्क्याह--सरस्वत्येवेति ।
कारिकायां सुवेरिति जातावेकवचनमित्यभिप्रायेण व्याचष्टे--सुकविनामिति ।
एतदेव स्पष्टयति--प्राक्तनेत्यादि ।
न तेषामित्यन्तेन ।
आविर्भावयतीति ।
नूतनमेव सृजतीत्यर्थः ॥ 17 ॥ ॥ ॥
इतीति ।
कारिकातद्वृत्तिनिरूपणप्रकारेणेत्यर्थः ।
अक्लिष्टा रसाश्रयेण उचिता ये गुणालङ्कारास्ततो या शोभा तां बिभर्ति काव्यम् ।
उद्यानमप्यक्लिष्टः कालोचितो यो लसः सेकादिकृतः तदाश्रयस्तत्कृतो यो गुणानां सौकुमार्यच्छायावत्वसौगन्ध्यप्रभृतीनमलङ्कारः पर्याप्तताकारणं तेन च या शोभा तां बिभर्ति ।
यस्मादिति काव्याख्यादुद्यानात् ।
सर्वे समीहितमिति ।
व्युत्पत्तिकीर्तिप्रीतिलक्षणमित्यर्थः ।
बालप्रिया त्यादिभावयित्वेत्यन्तस्य वृत्तिग्रन्थस्य पाठः ।
तस्य परस्वादानेच्छाविरतमनस इत्यत्र विरतेत्यनेन सम्बन्धश्चेति भावः ।
अवतारयति--कुत इत्यादि ।
आशयेन चिन्तया ।
निरुद्योगः काव्यविषयकोद्योगरहितः ।

स्यादिति ।
कुतो न स्यात्, स्यादेवेत्यर्थः ॥ 17 ॥
इत्यक्लिष्टेत्यादिश्लोकस्थस्येतिपदस्य विवरणम्---कारिकेत्यादि ।
कारिका च तद्वृत्तिश्च ताभ्यां यन्निरूपणं तत्प्रकारेणेत्यर्थः ।
अस्य ध्वनिर्दर्शित इत्यनेन सम्बन्धः ।
अक्लिष्टेति शोभायाः रसाश्रयोचितेति गुणालङ्कारयोश्च विशेषणमिति दर्शयन् व्याचष्टे--अक्लिष्टेत्यादि ।
तत इति ।
गुणालङ्कारहेतुकेत्यर्थः ।
तत्कृत इति ।
तत्प्रयुक्त इत्यर्थः ।
कालोचितजलसेकेन हि पल्लवपत्रपुष्पादिसमृद्ध्या लतावृक्षादिसमुदायरूपस्योद्यानस्य सौकुमार्यादिगुणसम्पत्तिर्भवति ।
अलंशब्दो ऽत्र पर्याप्ततावाचीत्याशयेन विवृणोति--पर्याप्तताकरणमिति ।
परिपूर्णताप्रापणमित्यर्थः ।
काव्याख्ये ऽखिलसौख्यधाम्नि विबुधोद्याने ध्वनिर्दर्शितः सो ऽयं कल्परूपमानमहिमा भोग्यो ऽस्तु भव्यात्मनाम् ॥
सत्काव्यतत्त्वनयवर्त्मचिरप्रसुप्त- कल्पं मनस्सु परिपक्वधियां यदासीत् ।
लोचनम् एतच्च सर्वं पूर्वमेव वितत्योक्तमिति श्लोकार्थमात्रं व्याख्यातम् ।
सुकृतिभिरिति ।
ये कष्टोपदेशेनापि विना तथावि धफलभाजः तैरित्यर्थः ।
अखिलसौख्यधाम्नीति ।
अखिलं दुःखलेशेनाप्यननुविद्धं यत्सौख्यं तस्य धाम्नि एकायतन इत्यर्थः ।
सर्वथा प्रियं सर्वथा च हितं दुर्लभं जगतीति भावः ।
विबुधोद्यानं नन्दनम् ।
सुकृतीनां कृतज्योतिष्टोमादीनामेव समीहितासादनिमित्तम् ।
विबुधाश्च काव्यतत्वविदः ।
दर्शित इति ।
स्थित एव सन् प्रकाशितः, अप्रकाशितस्य हि कथं भोग्यत्वम् ।
कल्पतरुणा उपमानं यस्य तादृङ्महिमा यस्येति बहुव्रीहिगर्भो बहुव्रीहिः ।
सर्वसमीहितप्राप्तिर्हि काव्ये तदेकायत्ता ।
एतच्चोक्तं विस्तरतः ॥
सत्काव्यतत्वनयवर्त्म चिरप्रमुक्तकल्पं मनस्सु परिपक्वधियां यदासीत् ।
बालप्रिया तथाविधफलभाज इति ।
तथाविधानि व्युत्पत्यादीनि फलानि भजन्ते तद्भजनशीलाः तदर्हा इत्यर्थः ।
तैरिति ।
राजकुमारादिभिरित्यर्थः ।
खिलशब्दो ऽत्र दुःखार्थकः ।
नास्ति खिलं यस्मिंस्तदखिलं इति बहुव्रीहिश्चेत्याशयेन विवृणोति--दुःखेत्यादि ।
भावमाह--सर्वर्थत्यादि ।
कृतज्योतिष्टोमेत्यादिना उद्यानपक्षे सुकृतिपदार्थो विवृतः ।
उद्यानस्येव काव्यस्यापि विबुधपदार्थसम्बन्धो ऽर्थाद्विवक्षित इत्याशयेनाह---विबुधाश्चेत्यादि ।
काव्यतत्वविदश्चेति योजना ।

चकारेण देवा इत्यर्थस्य समुच्चयः ।
दर्शित इति भोग्यत्वोपपादकमिति दर्शयन्नाह--अप्रकाशितस्येत्यादि ।
उपमानपदस्योपमित्यर्थकत्वाभिप्रायेण विग्रहमाह--कल्पतरुणोत्यादि ।
उपमानपदस्योपमितिकरणाथकत्वे तु कल्पतरुरुपमानमिति विग्रहः ।
बहुव्रीहिरिति ।
अत्र कल्पतरुसाम्यस्य महिम्नि शब्देन बोधने ऽपि महिमाश्रये ध्वनौ तस्य पर्यवसानं बोध्यम् ।
काव्यं नन्दनोद्यानेन तुल्यं ध्वनिः कल्पतरुतुल्यश्चेति भावः ।
अत एव ध्वनेः कल्पतरुसाम्यप्रयोजकं दर्शयन्नाह---सर्वेत्यादि ।
समीहितं प्रीत्यादि ।
तदेकायत्ता ध्वन्येकप्रयुक्ता ।
सत्काव्येऽति ।
सत्काव्यत्वस्य ध्वनिस्वरूपस्य ऽनयवर्त्म, न्याय्यमार्गः साधकं युक्तिजातमित्यर्थः ।
ऽचिरेऽति ।
चिरकालादारभ्य प्रसुप्ततुल्यं स्फुटमप्रकाशमित्यर्थः ।
ऽपरिपक्वधियांऽ परिणतपरोज्ञातां पूर्वेषां ग्रन्थकृताम् ।
ऽतदिऽति ।
ध्वनिस्वरूपं तत्सा तद्य्वाकरोत्सहृदयोदयलाभहेतो- रानन्दवर्धन इति प्रथिताभिधानः ॥
इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके चतुर्थ उद्द्योतः समाप्तो ऽयं ग्रन्थः ॥
लोचनम् तद्व्याकरोत्सहृदयोदयलाभहेतोः इति सम्बन्धाभिधेयप्रयोजनोपसंहारः ।
इह बाहुल्येन लोको लोकप्रसिष्या सम्भावनाप्रत्ययबलेन प्रवर्तते ।
स च सम्भावनाप्रत्ययो नामश्रवणवशात्प्रसिद्धान्यतदीयसमाचारकवित्वविद्वत्तादिसमनुसमरणेन भवति ।
तथाहि--भर्तृहरिणेदं कृतम्--यस्यायमौदार्यमहिमा यस्यास्मिञ्छास्त्रे ।
एवंविधस्सारो दृश्यते तस्यायं श्लोकप्रबन्धस्तस्मादादरणीयमेतदित लोकः प्रवर्तमानो दृश्यते ।
लोकश्चावश्यं प्रवर्तनीयः तच्छास्त्रोदितप्रयोजनसम्पत्तये ।
तदनुग्राह्यश्रोतृजनप्रवर्तनाङ्गत्वाद्ग्रन्थकाराः स्वनामनिबन्धनं कुर्वन्ति, तदभिप्रायेणाह--आनन्दनवर्धन इति ।
प्रथितशब्देनैतदेव प्रथितं यत्तु बालप्रिया धकं युक्तजातं चेत्यर्थः ।
ऽव्याकरोत्ऽ विशदीकृतवान् ।
ऽसहृदयेऽति ।
सहृदयानां य उदय अभ्युदयः ध्वनिस्वरूपावबोधहेतुका प्रीतिः तल्लाभस्य हेतोः ।
तल्लाभरूपप्रयोजनायेत्यर्थः ।
ऽतेन ब्रूमः सहृदयमनः प्रीतये तत्स्वरूपम्ऽ इत्युपक्रमानुरूपो ऽयमुपसंहारः ।
श्लोकार्थं स्पष्टं मत्वा वक्तव्यमंशं विवृणोति लोचने---सत्काव्येत्यादि ।
इतिसम्बन्धाभिधेयप्रयोजनोपसंहार इति ।
सम्बन्धः ध्वनिस्वरूपस्यैतद्गन्थस्य च प्रतिपाद्यप्रतिपादकभावः ।
अभिधेयं ध्वनिस्वरूपं, प्रयोजनं ध्वनिस्वरूपज्ञानहेतुका प्रीतिः ।
तद्य्वाकरोत्सहृदयोदयलाभहेतोरित्यनेनाभिधेयप्रयोजने स्पष्टमुक्ते, सम्बन्धस्त्वर्थाल्लभ्यते ।
अथानन्देत्यादिचतुर्थपादमवतारयति--इहेत्यादि ।
सम्भावनाप्रत्ययेति ।
बहुमानेत्यर्थः ।
नामेति ।

ग्रन्थकारनाम्नो यच्छ्रावणं तद्वशादित्यर्थः ।
प्रसिद्धेति ।
प्रसिद्धमन्यन्नाम्नो ऽन्यत् ।
यद्वा--प्रसद्धान्यमसाधारणमित्यर्थः ।
तथाविधं यत्तदीयं ग्रन्थकारसम्बन्धिसमाचारस्सदाचारः तदादि तत्स्मरणेनेत्यर्थः ।
स च सम्भावना प्रत्ययो भवतीति सम्बन्ध- ।
उक्तं सदृष्टान्तमाह---तथाहीत्यादि ।
भर्तृहरिणेदं कृतमित्यादिकं लोकबुद्ध्याकारकथनम् ।
यस्य भर्तृहरेः ।
अयमिति ग्रन्थमुद्दिश्योक्तिः ।
इतीति ।
इति बुद्ध्येत्यर्थः ।
सम्पत्तये प्रवर्तनीय इति सम्बन्धः ।
लोचनम् तदेव नामश्रवणं केषाञ्चन्निवृत्तिं करोति, तन्मात्सर्यविजृम्भितं नात्र गणनीयम्, निश्रेयसप्रयोजनादेव हि श्रुतात्को ऽपि रागान्धो यदि निवर्तते किमेतावता प्रयोजनमप्रयोजनमप्यवश्यं वक्तव्यमेव स्यात् ।
तस्मादर्थिनां प्रवृत्यङ्गन्नाम प्रसिद्धम् ।
स्फुटीकृतार्थवैचित्र्यबहिःप्रसरदायिनीम् ॥ ॥
तुर्यां शक्तिमहं वन्दे प्रत्यक्षार्थनिदर्शिनीम् ॥
आनन्दवर्धनविवेकविकासिकाव्यालोकार्थतत्त्वघटनादनुमेयसारम् ।
यत्प्रोन्मिषत्सकलसद्विषयप्रकाशि व्यापार्यताभिनवगुप्तविलोचनं तत् ॥
बालप्रिया तदिति ।
तस्मादित्यर्थः ।
एतदेव प्रथितमिति ।
उक्तमेव प्रकाशितमित्यर्थः ।
तदेव नामश्रवणमिति ।
यदेव नामश्रवणं बहूनां प्रवृत्तिं करोति, तदेव नामश्रवणमित्यर्थः ।
करोति उत्पादयति ।
निःश्रेयसेति ।
निश्रेयसं प्रयोजनं यस्य तस्मादित्यर्थः ।
श्रुतादिति ।
श्रुतिप्रतिपादितात्तत्वाज्ज्ञानादित इत्यर्थः ।
एतावतेति ।
रागान्धनिवृत्तिमात्रेणेत्यर्थः ।
प्रयोजनमिति ।
वस्तुतः प्रयोजनमित्यर्थः ।
अप्रयोजनं प्रयोजनभिन्नम् ।
वक्तव्यमेव स्यात्कमिति सम्बन्धः ।
न वक्तव्यमिति भावः ।
प्रथितं नामप्रवृत्त्यङ्गमिति सम्बन्धः ।
प्रथमोद्योतान्ते पराया द्वितीयोद्योतान्ते पश्यन्त्यास्तृतीयोद्योतान्ते मध्यमायाश्च वन्दनं कृतवान् ग्रन्थकारः, चतुर्थोद्योतान्ते वैखर्या वन्दनमनुतिष्ठति--स्फुटीत्यादि ।
स्फुटीकृतानि वक्त्रा मनसि स्पष्टीकृतानि यानि अर्थवैचित्र्याणि विचित्रार्थाः तेषां यःबहिःप्रसरः श्रोतृजनेषु प्रकाशः तद्दायिनीम् ।

प्रत्यक्षेति ।
प्रत्यक्षं यथा तथा अर्थनिदर्शिनीमर्थान्निदर्शयन्तीम् ।
अप्रत्यक्षानप्यर्थान् प्रत्यक्षानिव प्रदर्शयन्तीमिति यावत् ।
तुर्यी शक्तिं वैखरीरूपां शक्तिम् ।
अहं वन्दे इत्यर्थः ।
आनन्देत ।
आनन्दवर्धनस्य यो विवेकः विविच्यतत्तदर्थावबोधः तेन विकासी प्रकाशमानो यः काव्यलोकस्तस्य यान्यर्थतत्वानि सारार्थाः तेषां घटनात्संयोजनाद्धेतोः ।
अनुमेयस्सार उत्कर्षो यस्य तत्, किञ्च यत् प्रोन्मिषत् सहृदयेषु प्रकाशमानमथ च प्रकर्षेण उन्मिषत् सत् सकलानां सर्वेषां सर्वेषां काव्यादीनां सद्विषयान् सारार्थान् सकलान् सद्विषयान्वा अथ च सकलानां सर्वेषां काव्यादीनां सद्बिषयान् सारार्थान् सकलान् सद्विषयान् वा अथ च सकलान् सद्विषयान् विद्यमानान् पदार्थान् प्रकाशयतीति तथा भवति तत् तथाविधम् ।
अभिनवगुप्तस्य तन्नाम्नः स्वस्य, अथ च अभिनवं नवीनां गुप्तमन्येषामविदितं च लोचनमालोचनं ज्ञानं नेत्रं च व्यापार्यत आत्मना व्यापारितम् ।
णिजन्तात्कर्मणि लङ् ।
अत्र ज्ञाने नेत्रसाम्यं गम्यते ।
श्रीसिद्धीति ।
श्रीमतः सिद्धिचेलस्य तन्नाम्नः गुरोः चरणाब्जपरागैः पूतो यो लोचनम् श्रीसिद्धिचेलचरणाब्जपरागपूतभट्टेन्दुराजमतिसंस्कृतबुद्धिलेशः ।
वाक्यप्रमाणपदवेदिगुरुः प्रबन्धसेवारसो व्यरचयदध्वनि वस्तुवृत्तिम् ॥
सज्जनान् कविरसौ न याचते ह्लादनाय शशमृत्किमर्थितः ।
नैव निन्दति खलान्मुहुर्मुहुः धिक्कृतो ऽपि न हि शीतलो ऽनलः ॥ ॥
वस्तुतश्शिवमये हृदि स्फुटं सर्वतश्शिवमयं विराजते ।
नाशिवं क्वचन कस्यचिद्वचः तेन वश्शिवमयी दशा भवेत् ॥
इति महामाहेश्वराभिनवगुप्तविरचिते काव्यालोकलोचने चतुर्थ उद्योतः समाप्तश्चावं ग्रन्थः ॥
बालप्रिया भट्टेन्दुराजः तस्य मत्या ज्ञानेन संस्कृतो बुद्धिलेशो यस्य सः ।
वाक्येति ।
वाक्यं मीमांसाशास्त्रं, प्रमाणं न्यायशास्त्रं, पदं व्याकरणशास्त्रं, तद्वेदिनां गुरुरित्यर्थः ।
प्रबन्धसेवायां रसो यस्य सः ।
अभिनवगुप्त इति शेषः ।
ध्वनिवस्तुवृर्त्ति ध्वनिग्रन्थविवृतिम् ।
व्यरचयत् कृतवान् ।
सज्जनानिति ।
असौ कविरित्यात्मानं निर्दिश्योक्तिः ।
ह्लादनाय स्वग्रन्थादरणेव स्वप्रीणनाय सज्जनान्न याचते ।
कुतो न याचत इत्याशङ्कां दृष्टान्तप्रदर्शनेन परिहरिति---शशभृत्किमर्थित इति ।
ह्लादनायेत्यनुषङ्गः ।
किमिर्थितः जनैरर्थितः ।
किं नैवेत्यर्थः ।
चन्द्र इव सज्जनः स्वयमेव परानाह्लादयतीति चन्द्रस्येव पराह्लादनं सज्जनस्य स्वभाव इत्यर्थः ।
नैवेति ।
मुहुर्मुहुः धिक्कृतो ऽपि खलैः पुनः पुनरधिक्षिप्तो ऽपि ।
असौ कविरित्यनुषङ्गः ।
खलान्नैव निन्दति कुत इत्यत आह---न हीत्यादि ।
अनलः अग्निः, शीतलः अनुष्णः ।
न हि यथा अग्निः सर्वदा उष्णस्वभाव एव तथा खलजनः परदूषणस्वभाव एव, स्वभावश्चापरिहार्य इत्यर्थः ।

मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc