ध्वन्यालोक (टीका सहित) · भाग 521540
यस्मादिति हिशब्दार्थ कथनम् ।
आवृत्येति ।
वाच्यालङ्कारसंसृष्टतत्वं पदापेक्षयैवेति पदानामावृत्तिः तत्र पदापेक्षयेत्यस्य तथाविधपदापेक्षयेत्यर्थश्चेति भावः ।
इदमुपलक्षणं तत्रेति शेषश्च बोध्यः ।
दीर्घीकुवन्नित्यनेनोक्तं सिप्रावातहेतुकं कूजितस्य दीर्घत्वं दैशिकं कालिकं स्वसजातीयसंवलनकृतं चेति त्रिविधमिति विवृणोति--सप्रावातेनेत्यादि दीर्घत्वमित्यन्तेन ।
पटु समर्थं दीर्घीकुर्वन्नितिं क्रियाविशेषणमित्यभिप्रायेण व्याचष्टे--तथेत्यादि ।
सुकुमारः मन्दः ।
दीपयति पोषयति यतस्तन्मधुरमतो नानुपयोगीन्ति सम्बन्धः ।
तथाविधसेवेति ।
सरतग्लानिहरणादिरूपसेवेत्यर्थः ।
तत्रेति ।
उज्जयिन्यामित्यर्थः ।
निरूपयति दर्शयति ।
स्फुटितानीत्यस्य त्रुटितानीत्यर्थं मनसिवृत्य तत्र हेतुं गम्यं दर्शयति--अन्तरित्यादि ।
स्फुटितानीत्यनेनार्थान्तरं च विचक्षितमित्याह--तथेत्यादि ।
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥
लोचनम् तथा स्फुटितानि विकसितानि नयनहारीणि यानि कमलानि तेषां य आमोदस्तेन या मैत्री अभ्यासाङ्गावियोगपरस्परानुकूल्यलाभस्तेन कषाय उपरक्तो मकरन्देन च कषायवर्णीकृतः ।
स्त्रीणामिति ।
सर्वस्य तथाविधस्य त्रैलोक्यसारभूतस्य य एवं करोति सुरतकृतां ग्लानिं तान्तिं हरति, अथ च तद्विषयां ग्लानिं पुनः सम्भोगाभिलाषोद्दीपनेन हरति ।
न च प्रसह्यप्रभुततयापि त्वङ्गानुकूलो ह्यद्यस्पर्शः हृदयान्तर्भूतश्च ।
प्रियतमे तद्विषये प्रार्थनार्थं चाटूनि कारयति ।
प्रियतमो ऽपि तत्पवनस्पर्शप्रबुद्धसम्भोगाभिलाषः ।
प्रार्थनार्थं चाटूनि करोतीति तेन तथा कार्यत इति परस्परानुरागप्राणशृङ्गारसर्वस्वभूतो ऽसौ पवनः ।
युक्तं चैतत्तस्य यतः सिप्रापरिचितो ऽसौ वात इति नागरिको न त्वविदग्धो बालप्रिया भावार्थमाह--नयनेति ।
मैत्रीपदमुख्यार्थस्यात्र बाधात्तत्पदेन विवक्षितं दर्शयति--अभ्यासङ्गेत्यादि ।
अभ्यासङ्गस्य संश्लेषस्यावियोगो ऽविच्छेदः अविच्छिन्नस्संश्लेष इति यावत् ।
तेन परस्परानुकूल्यस्य परस्परोपकारित्वस्य लाभ इत्यर्थ-. अत्राविच्छिन्नस्संश्लेषो लक्ष्यार्थः, परस्पनुकूल्यलाभस्तु व्यङ्ग्य इति विवेकः ।
उपरक्तः सम्बद्धः ।
अर्थान्तरं चाह--मकरन्देनेत्यादि ।
पीतमिश्रो रक्तः कषायवर्णः सर्वस्येति बहुवचनार्थकथनम् ।
तथाविधस्य स्त्रीत्वविशिष्टस्य ।
त्रैलोक्येत्यादि गम्यार्थकथनम् ।
सुरतग्लानिमित्येतत्सुरतकृतां ग्लानिं सुरतविषयां ग्लानिमित्युभयथा विवृणोति--सुरतकृतामित्यादि ।
तान्तमिति ।
शारीरं श्रममित्यर्थः ।
ग्लानिमिति ।
अनुत्साहमित्यर्थः ।
न चेति ।
हरतीत्यनुषज्यते ।
अङ्गस्य हृदयस्यानुकूल इत्यर्थो ऽपीत्याह--हृदयान्तर्भूत इति ।
स्निग्ध इत्यर्थः ।
प्रियतमे इति च पदच्छेदमभिप्रेत्य प्रियतमे प्रार्थना चाटुकार इति वातविशेषणतयापि योजयति--प्रियतम इत्यादि ।
प्रियतम इति सप्तम्यन्तस्य विवरणम्--तद्विषयैति ।
प्रार्थनार्थमिति ।
स्त्रीणां सम्भोगप्रार्थनोत्पादनमित्यर्थः ।
चाटुकार इति ण्यन्तात्कर्तरि प्रत्यय इत्याह--चाटूनि अत्र हि मैत्रीपदमविवक्षितवाच्यो ध्वनिः ।
पदान्तरेष्बलकारान्तराणि ।
संसृष्टालङ्कारान्तरसंकीर्णो ध्वनिर्यथा-- लोचनम् ग्राम्यप्राय इत्यर्थः ।
प्रियतमो ऽपि रतान्ते ऽङ्गानुकूलः संवाहनादिना प्रार्थनार्थं चाटुकार एवमेव सुरतग्लानिं हरति ।
कूजितं चानङ्गीकरणवचनादि मधुरध्वनितं दीर्घीकरोति ।
चाटुकरणावसरे च स्फुटितं विकसितं यत्कमलकान्तिधारिवदनं तस्य यामोदमैत्री सहजसौरभपरिचयस्तेन कषाय उपरक्तो भवति ।
अङ्गेषु चातुष्षष्टिकप्रयोगेष्वनुकूलः ।
एवं शब्दरूपगन्धस्पर्शा यत्र हृद्या यत्र च पवनो ऽप तथा नागरिकः स तवावश्यमभिगन्तव्यो देश इति मेघढूते मेघं प्रति कामिन इयमुक्तिः ।
उदाहरणे लक्षणं योजयति--मैत्रीपदमिति ।
हिशब्दो ऽनन्तरं पठितव्य इत्युक्तमेव ।
अलङ्कारान्तराणीति ।
उत्प्रेक्षास्वभावोक्तिरूपकोपमाः क्रमेणेत्यर्थः ।
एवमियता सगुणीभूतव्यङ्ग्यैः सालङ्कारैः सहप्रभेदैः स्वैः ।
सङ्करसंसृष्टिभ्याम् ।
इत्येतदन्तं व्याख्यायोदाहरणानि च निरूप्य ऽपुनरपिऽ इति यत्कारिकाभागे पदद्वयं तस्यार्थं प्रकाशयत्युदाहरणद्वारेणैव---संसृष्टेत्यादि ।
पुनःशब्दस्यायमर्थः---न केवलं ध्वनेः स्वप्रभेदादिभिः संसृष्टिसङ्करौ विवक्षितौ यावत्तेषामन्योन्यमपि स्वप्रभेदानां बालप्रिया कारयतीति ।
एतदेव विवृणोति--प्रियतमो ऽपीत्यादि ।
तेनेति ।
वातेनेत्यर्थः ।
परस्परेत्यादि ।
स्त्रीणां प्रियतमस्य च सम्भोगाभिलाषोद्दीपकत्वादिति भावः ।
सिप्रापरिचित इति सिप्राया नायिकात्वं गम्यते ।
इतीति हेतौ ।
उपमाने प्रियतमे ऽपि विशेषणानि योजयति--प्रियतमो ऽपीत्यादि ।
संवाहनादिना अङ्गानुकूल इति योजना ।
चाटुकार इति ।
चाटुवाक्यकर्तेत्यर्थः ।
अनङ्गीकरणवचनेति ।
मालमित्यादिवचनेनेत्यर्थः ।
मदकलमित्यस्य विवरणम्--मधुरध्वनितमिति ।
चाटिवत्यादि ।
प्रियतमचाटुवाक्यश्रवणावसर इत्यर्थः ।
विकसितमिति ।
चाटुश्रवणजनितस्मितेनेति भावः ।
कमलपदं साध्यवसानलक्षणया मुखपरमित्याह--कमलेत्यादि ।
वदनमिति ।
स्त्रीणामिति शेषः ।
अङ्गानुकूल इत्येतदन्यथापि व्याचष्टे--अङ्गेष्वित्यादि ।
श्लोकस्यास्य सारार्थं दर्शयन् विवरणमुपसंहरति--एवमित्यादि ।
स देश इति ।
उज्जयिनीदेश इत्यर्थः ।
उत्प्रेक्षेत्यादि ।
पटु दीघोकुर्वन्नित्यत्र गम्योत्प्रेक्षा, प्रत्यूषस्वभावोक्तिः, अङ्गानुकूलः स्निग्ध इत्यस्य वायावारोपाद्रूपकं, यद्वा--रूपकमित्यस्य रूपकातिशयोक्तिरित्यर्थः ।
कमलपदेन मुखस्य बोधनात्तत्र सा बोध्य ।
प्रियतम इवेत्युपमा चेत्यर्थः ।
संसृष्टेत्यादिग्रन्थमवतारयति--एवमियतेत्यादि ।
तेषामन्योन्यमपीति ।
दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे ।
दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि ॥
अत्र हि समासोक्तिसंसृष्टेन विरोधालङ्कारेण संकीर्णस्यालक्ष्यकमव्यङ्ग्यस्य ध्वनेः प्रकाशनम् ।
दयावीरस्य परमार्थतो वाक्यार्थीभूतत्वात् ।
लोचनम् स्वप्रभेदैर्गुणीभूतव्यङ्ग्येन वा सङ्कीर्णानां संसृष्टानां च ध्वनीनां सङ्कीर्णत्वं संसृष्टत्वं च दुर्लक्षमिति विस्पष्टोदाहरणं न भवतीत्यभिप्रायेणालङ्कारस्यालङ्कारेण संसृष्टस्य संकीर्णस्य वा ध्वनौ संकरसंसर्गौ प्रदर्शनीयौ ।
तदस्मिन् भेदचतुष्टये प्रथमं भेदमुदाहरति--दन्तक्षातनीति ।
बोधिसत्त्वस्य स्वकिशोरभक्षणप्रवृत्तां सिंहो प्रति निजशरीरं वितीर्णवतः केनचिच्चाटुकं क्रियते ।
प्रोद्भूतः सान्द्रः पुलकः परार्थसम्पत्तिजेनानन्दभरेण यत्र ।
रक्ते रुधिरे मनो ऽभिलाषो यस्याः, अनुरक्तं च मनो यस्याः ।
मनुयश्चोद्बोधितमदनावेशाश्चेति विरोधः ।
जातस्पृहैरिति च वयमपि कदाचिदेवं कारुणिकपदवीमधिरोक्ष्यामस्तदा सत्यतो मुनयो भविष्याम इति मनोराज्ययुक्तैः ।
समासोक्तिश्च नायिकावृत्तान्तप्रतीतेः ।
दयावीरस्येति ।
दयाप्रयुक्तत्वादत्र धर्मस्य धर्मवीर एव दयावीरशब्देनोक्तः ।
वीरश्चात्र रसः, उत्साहस्यैव स्थायित्वादिति भावः ।
दयावीरशब्देन वा शान्तं व्यपदिशत ।
सो ऽत्र बालप्रिया संसृष्टिसङ्करौ विवक्षितावित्यनुषङ्गः ।
अयमर्थ इति पूर्वेण सम्बन्धः ।
नन्वेवं वृत्तौ संसृष्टालङ्कारान्तरसङ्कीर्णत्वादिभेदमात्रप्रदर्शने किं बीजमित्यत आह--स्वप्रभेदानामित्यादि ।
ध्वनिनेति ।
ध्वनिना सहेत्यर्थः ।
दुर्ल्लक्षमितीति ।
दुर्ल्लक्षत्वाद्धेतोरित्यर्थः ।
विस्पष्टेति ।
सुस्पष्टेत्यर्थः ।
प्रदर्शनीयौ प्रदर्शयितुं शक्यौ ।
प्रथमं भेदमिति ।
संसृष्टालङ्कारसङ्कीर्णत्वरूपं भेदमित्यर्थः ।
परार्थसम्पत्तिजेनेति ।
परपरित्राणजन्येनेत्यर्थः ।
नायिकासम्भोगजन्येन चेति ।
भवतश्शरीर इत्यनेन कामिनश्शरीर इति, मृगराजवध्वेत्यनेन मृगाख्यपुञ्जातिविशेषस्य वध्वेति च गम्यते ।
मुनिभिरपि जातस्पृहैरित्यत्र विषयविरक्तैरप्युद्बुद्धकामैरित्यर्थप्रतीत्या विरोध इत्याह--मुनयश्चेत्यादि ।
प्रकृतमर्थमाह--जातस्पृहैरित्यादि ।
मनोराज्ययुक्तैश्चेति योजना ।
मुनिना दयावीरस्याकथनादाह--दयेत्यादि ।
धर्मस्य दयाप्रयुक्तत्वादत्र दयावीरशब्देन धर्मवीर एवोक्त इति सम्बन्धः ।
पक्षान्तरमाह--दयावीरशब्देनेत्यादि ।
समासोक्तिसंसृष्टेनेत्यादिवृत्तयुक्तं विवृणोति--सो ऽत्रेत्यादि ।
स रसः धर्मवीरश्शान्तो वा संसृष्टालङ्कारसंसृष्टत्वं च ध्वनेर्यथा---
अहिणअपओअरसएसु पहिअसामाइएसु दिअहेसु ।
सोहै पसारअगिआणं णच्चिअं मोरवन्दाणम् ॥
लोचनम् रसः संसृष्टालङ्कारेणानुगृह्यते ।
समासोक्तिमहम्ना ह्ययमर्थः सम्पद्यते--यथा कश्चिन्मनोरथशतप्रार्थितप्रेयसीसम्भोगावसरे जातपुलकस्तथा त्वं परार्थसम्पादनाय स्वशरीरदान इत करुणातिशयो ऽनुभावविभावसम्पदोद्दीपितः ।
द्विवसेषु ।
तथा पथिकान् प्रति श्यामायितेषु मोहजनकत्वाद्रात्रिरूपतामाचरितवत्सु ।
यदि वा पथिकानां श्यामायितं दुःखवशेन श्यामिका येभ्यः ।
शोभते प्रसारितग्रीवाणां मयूरवृन्दानां नृत्तम् ।
अभिनयप्रयोगरसिकेषु पथिकसामाजकेषु सत्सु मयूरवृन्दानां प्रसारितगीतानां प्रकृष्टसारणानुसारिगीतानां तथा ग्रीवारेचकाय प्रसारितग्रीवाणां नृत्तं शोभते ।
पथिकान् प्रति श्यामा इवाचरन्तीति क्यच् ।
प्रत्ययेन लुप्तोपमा निर्दिष्टा ।
पथिकसामाजिकेष्विति कर्मधारयस्य स्पष्टत्वाद्रूपकम् ।
ताभ्यां ध्वनेः संसर्ग इति ग्रन्थकारस्याशयः ।
अत्रैवोदाहरणेऽन्यद्भेदद्वयमुदाहर्तुं शक्यमित्याशयेनोदाहरणान्तरं न दत्तम् ।
तथाहि--व्याघ्रादेराकृतिगणत्वे पथिकसामाजिकेष्वित्युपमारूपकाभ्यां बालप्रिया रसः ।
संसृष्टालङ्कारेणेति ।
समासोक्तिसंसृष्टेन विरोधालङ्कारेणेत्यर्थः ।
मुनिभिरपि जातस्पृहैरवलोकितानीत्यनेन दयावीरस्य परिपोषप्रतीत्या विरोधस्यानुग्राहकत्वं स्पष्टमिति मनसि कृत्य समासोक्तेस्तदुपपादयति--समासोक्तिमहिम्नेत्यादि ।
इतीति ।
इत्यर्थादित्यर्थः ।
अनुभावेत्यादि ।
अनुभावः सान्द्रपुलकाविर्भावः ।
आलम्बनविभावः सिंही ।
उद्दीपनविभावो दन्तक्षतादिरिति बोध्यम् ।
द्वितीयमिति ।
संसृष्टालङ्कारसंसृष्टत्वरूपमित्यर्थः ।
अभिनवेत्यादि ।
वर्षावर्णनम् ।
अत्रादौ वाच्यमर्थं व्याचष्टे--अभिनवमित्यादि ।
पथिकान् विरहिणः ।
इयामायितोष्वित्यत्र रात्रिवाचकात् श्यामाशब्दादाचारार्थे क्यजित्यभिप्रेत्य व्याचष्टे--मोहेत्यादि ।
श्यामायितमित्यस्य श्यामिकेत्यर्थमभिप्रेत्याह--यदि वेत्यादि ।
श्यामिका वर्णभेदः ।
छायान्तरदर्शनेनात्र व्यङ्ग्यमर्थं दर्शयति--अभिनयप्रयोगेत्यादि ।
प्रसारितगीतानामित्यस्य व्याख्यानम्--प्रकृष्टेत्यादि ।
अत्र पक्षे प्रसारितग्रीवाणामिति च योज्यमित्याह--तथेत्यादि ।
ध्वनेः संसृष्टालङ्कारसंसृष्टत्वं विवृणोति--पथिकानित्यादि ।
रूपकमिति ।
पथिकेषु सामाजिकत्वारोपादिति भावः ।
ध्वनेरिति ।
अभिनयप्रयोगेत्याद्युक्तस्य व्यङ्ग्यस्येत्यर्थः ।
संसर्गः संसृष्टिः ।
अन्यद्भेदद्वयमिति ।
अत्र ह्युपमारूपकाभ्यां शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य ध्वनेः संसृष्टत्वम् ।
एवं ध्वनेः प्रभेदाः प्रभेद-भेदाश् च केन शक्यन्ते ।
सङ्ख्यातुं दिङ्-मात्रं तेषाम् इदम् उक्तम् अस्माभिः
एवं ध्वनेः प्रभेदाः प्रभेदभेदाश्च केन शक्यन्ते ।
संख्यातुं दिङ्मात्रं तेषामिदमुक्तमस्माभिः ॥ 44 ॥
अनन्ता हि ध्वनेः प्रकाराः सहृदयानां व्युत्पत्तये तेषां दिङ्मात्रं कथितम् ।
इत्य् उक्त-लक्षणो यो ध्वनिर् विवेच्यः प्रयत्नतः सद्भिः
सत्-काव्यं कर्तुं वा ज्ञातुं वा सम्यग् अभियुक्तैः
इत्युक्तलक्षणो यो ध्वनिर्विवेच्यः प्रयत्नतः सद्भिः ।
सत्काव्यं कर्तुं वा ज्ञातु वा सम्यगभियुक्तैः ॥ 45 ॥
उक्तस्वरूपध्वनिनिरूपणनिपुणा हि सत्कवयः सहृदयाश्च नियतमेव लोचनम् सन्देहास्पदत्वेन सङ्कीर्णाभ्यामभिनयप्रयोगे, अभिनवप्रयोगे च रसिकेष्विति प्रसारितगीतानामिति यः शब्दशक्त्युद्भवस्त संसर्गमात्रमनुग्राह्यत्वाभावात् ।
ऽपहिअसामाइएसुऽ इत्यत्र तु पदे सङ्कीर्णाभ्यां ताभ्यामुपमारूपकाभ्यां शब्दशक्तिमूलस्य ध्वनेः सङ्कीर्णत्वमेकव्यञ्जकानुप्रवेशादिति सङ्कीर्णालङ्कारसंसृष्टः ।
सङ्कीर्णालङ्कारसङ्कीर्णश्चेत्यपि भेदद्वयं मन्तव्यम् ॥ 43 ॥
एतदुपसंहरति---एवमिति ।
स्पष्टम् ॥ 44 ॥
अथ ऽसहृदयमनःप्रीतयेऽ इति यत्सूचितं तदिदानीं न शब्दमात्रमपि तु निर्व्यूढमित्याशयेनाह--इत्युक्तेत ।
यः प्रयत्नतो विवेच्यः अस्माभिश्चोक्तलक्षणो ध्वनिरेतदेव काव्यतत्त्वं यथोदितेन प्रपञ्चनिरूपणादिना व्याकर्तुमशक्नुवद्भिरलङ्कारैः रीतयः बालप्रिया सङ्कीर्णालङ्कारसंसृष्टत्वसङ्कीर्णालङ्कारसङ्कीर्णत्वरूपभेदद्वयमित्यर्थः ।
सङ्कीर्णाभ्यामुपमारूपकाभ्यामिति सम्बन्ध- ।
ऽअहिणअऽ इत्यस्य अभिनय अभिनव इत्युभयथापि च्छायेति दर्शयन् ध्वनिं दर्शयति--अभिनयेत्यादि ।
अनुग्राह्यत्वाभावादिति ।
उपमारूपकाभ्यां तस्येत्यनुषङ्गः ॥ 43 ॥
एतदिति ।
बहुप्रभेदकथनमित्यर्थः ॥ 44 ॥
सहृदयेत्यादि ।
ऽसहृदयमनः प्रीतये तत्स्वरूपं ब्रूमऽ इति यदुक्तमित्यर्थः ।
शब्दमात्रं वाङ्मात्रम् ।
इत्युक्तलक्षण इत्यादिकारिकाद्वयमेकवाक्यमित्याह---य इत्यादि ।
उक्तेत्यत्र पूरयति--अस्माभिरिति ।
एतदिति य इत्यस्य प्रतिनिर्देशः ।
यथोदितमित्यस्य व्याकर्तुमित्यनेन सम्बन्ध इति दर्शयन् विवृणोति--यथोदितेनेत्यादि ।
अन्ये त्वित्यादि ।
इत्युक्तलक्षणो ऽयं ध्वनिरिति पठन्तीत्यर्थः ।
एतत्पक्षे काव्यविषये परां प्रकर्षपदवीमासादयन्ति ।
अस्फुट-स्फुरितं काव्य-तत्त्वम् एतद् यथोदितम् ।
अशक्नुवद्भिर् व्याकर्तुं रीतयः सम्प्रवर्तिताः
अस्फुटस्फुरितं काव्यतत्त्वमेतद्यथोदितम् ।
अशुक्नुवद्भिर्व्याकर्तुं रीतयः सम्प्रवर्तिताः ॥ 46 ॥
एतद्ध्वनिप्रवर्तनेन निर्णीतं काव्यतत्त्वमस्फुटस्फुरितं सदशक्नुवद्भिः प्रतिपादयितुं वैदर्भी गौडी पाञ्चाली चेति रीतयः प्रवर्तिताः ।
रीतिलक्षणविधायिनां हि काव्यतत्त्वमेतदस्फुटतया मनाक्स्फुरितमासादिति लक्ष्यते तदत्र स्फुटतया सम्प्रदर्शितेनान्येन रीतिलक्षणेनन किञ्चित् ।
शब्द-तत्त्वाश्रयाः काश्चिद् अर्थ-तत्त्व-युजो ऽपराः ।
वृत्तयो ऽपि प्रकाशन्ते ज्ञाते ऽस्मिन् काव्य-लक्षणे
शब्दतत्त्वाश्रयाः काश्चिदर्थतत्त्वयुजो ऽपराः ।
वृत्तयो ऽपि प्रकाशन्ते ज्ञाते ऽस्मिन् काव्यलक्षणे ॥ 47 ॥
अस्मिन् व्यङ्ग्यव्यञ्जकभावविवेचनमये काव्यलक्षणे ज्ञाते सति याः काश्चित्प्रसिद्धा उपनागारकाद्याः शब्दतत्त्वाश्रया वृत्तयो याश्चार्थतत्त्वसम्बन्द्धाः कैशिक्यादयस्ताः सम्यग्रीतिपदवीमवतरन्ति ।
अन्यथा तु तासामदृष्टार्थनामिव वृत्तीनामश्रद्धेयत्वमेव स्यान्नानुभवसिद्धत्वम् ।
एवं स्फुटतयैव लक्षणीयं स्वरूपमस्य ध्वनेः ।
यत्र शब्दानामर्थानां च केषाञ्चित्प्रतिपत्तृविशेषसंवेद्यं लोचनम् प्रवर्तिता इत्युत्तरकारिकया सम्बन्धः ।
अन्ये तु यच्छब्दस्थाने ऽअयंऽ इति पठन्ति ।
प्रकर्षपदवीमिति ।
निर्माणे बोधे चेति भावः ।
व्याकर्तुमशक्नुवद्भिरित्यत्र हेतुः--अस्फुटं कृत्वा स्फुरितमिति ।
लक्ष्यत इति ।
रीतिर्हि गुणेष्वेव पर्यवसिता ।
यदाह--विशेषो गुणात्मा गुणाश्च रसपर्यवसायिन एवेति ह्युक्तं प्राग्गुणनिरूपणे ऽशृङ्गार एव मधुरःऽ इत्यत्रेति ॥ 45॥
-46 ॥
प्रकाशन्त इति ।
अनुभवसिद्धतां काव्यजीवितत्वे प्रयान्तीत्यर्थः ।
रीतिपदवीमिति ।
बालप्रिया इत्युक्तेत्यादिकमेकं वाक्यमस्फुटेत्यादिवाक्यान्तरं तत्रैतदित्यनेन ध्वनेः परामर्शश्चेति बोध्यम् ।
परां प्रकर्षपदवीमासादयन्तीत्यत्र पूरयति--निर्माणे बोधे चेति ।
ऽअस्फुटस्फुरितं सदिऽति वृत्या तत्पदं हेतुगर्भमिति दर्शितं, तदेव स्पष्टयति--व्याकर्तुमित्यादि ।
ऽइति लक्ष्यतऽ इत्युक्तं वृत्तौ तत्कथमित्यत उपपादयति--रीतिर्हित्यादि ।
इत्यत्र इति ह्युक्तमिति सम्बन्धः ॥ 45॥
-46 ॥
अनुभवसिद्धत्वमिति वृत्तौ वक्ष्यमाणं फलितमर्थं मनसिकृत्य विवृणोति---अनुभवेत्यादि ।
जात्यत्वमिव रत्नविशेषाणां चारुत्वमनाख्येयमवभासते काव्ये तत्र ध्वनिव्यवहार इति यल्लक्षणं ध्वनेरुच्यते केनाचित्तदयुक्तमिति नाभिधेयतामर्हति ।
यतः शब्दानां स्वरूपाश्रयस्तावदक्लिष्टत्वे सत्यप्रयुक्तप्रयोगः ।
वाचकाश्रयस्तु प्रसादौ व्यञ्जकत्वं चेति विशेषः ।
अर्थानां च स्फुटत्वेनावभासनं व्यङ्ग्यपरत्वं व्यङ्ग्यांशविशिष्टत्वं चेति विशेषः ।
तौ च विशेषौ व्याख्यातुं शक्येते व्याख्यातौ च बहुप्रकारम् ।
तद्य्वतिरिक्तानाख्येयविशेषसम्भावना तु विवेकावसादभावमूलैव ।
यस्मादनाख्येयत्वं लोचनम् तद्वदेव रसपर्यवसायित्वात् ।
प्रतीतिपदवीमिति वा पाठः ।
नागरिकया ह्युपमितेत्यनुप्रासवृत्तिः शृङ्गारादौ विश्राम्यति ।
परुषेति दीप्तेषु रौद्रादिषु ।
कोमलेति ।
हास्यादौ ।
तथा--ऽवृत्तयः काव्यमातृकाःऽ इति यदुक्तं मुनिना तत्र रसोचित एव चेष्टाविशेषो वृत्तिः ।
यदाह-- ऽकैशिकी श्लक्ष्णनेपथ्या शृङ्गाररसम्भवाऽ इत्यादि ।
इयता ऽतस्याभावं जगदुरपरेऽ इत्यादाभावविकल्पेषु ऽवृत्तयो रीतयश्च गताः श्रवणगोचरं, तदतिरिक्तः को ऽयं ध्वनिरिऽति ।
तत्र कथञ्चिदभ्युपगमः कृतः कथञ्चिच्च दूषणं दत्तमस्फुटस्फुरितमिति वचनेन ।
इदानीं वाचां स्थितमविषयेऽ इति यदूचे तत्तु प्रथमोद्द्योते दूषितमपि दूषयत् सर्वप्रपञ्चकथने हि असम्भाव्यमेवानाख्येयत्वमित्यभिप्रायेण ।
अक्लिष्टत्व इति ।
श्रुतिकष्टाद्यभाव इत्यर्थः ।
अप्रयुक्तस्य प्रयोग इत्यपौनरुक्त्यम् ।
बालप्रिया तद्वदेव रीतिवदेव ।
रीतिपदवीमवतरन्तीत प्रकाशन्त इत्यस्य विवरणमिति वक्तव्यं, तच्च न सम्भवति तयोर्भिन्नार्थत्वात् ।
किञ्च रीतिपदवीमवतरन्तीत्यत्र काव्यलक्षणज्ञानस्य हेतुत्वमपि दुर्घटमित्यतो ऽन्यथैवात्र पाठ इत्याह--प्रतीतिपदवीमिति ।
वृत्तेः रसपर्यवसायितां विशिष्य दर्शयति--नागरिकयेत्यादि ।
वृत्तौ--ऽयत्रेऽत्यादि ।
रत्नविशेषाणां जात्यत्वमिव प्रतिपत्तृविशेषसंवेद्यं यत्र केषाञ्चिच्छब्दानामर्थानां च चारुत्वमनाख्येयमेवावभासत इत्यन्वयः ।
ऽअयुक्तम्ऽ इतीति ।
अयुक्तत्वाद्धेतोरित्यर्थः ।
चारुत्वं नाम कश्चिद्विशेष इति वक्तव्यमित्यभिप्रेत्य नाभिधेयतामर्हतीत्युक्तमुपपादयति--ऽयतऽ इत्यादि ।
ऽस्वरूपाश्रयऽ इति ऽविशेषऽ इत्यनेनास्य सम्बन्धः. लोचने वृत्तानुवादपूर्वकमाह--इयतेत्यादि ।
ध्वनिरितीति ।
यदूचे इत्यस्यात्रापकर्षः ।
दूषयतीति ।
यत्रेत्यादिनानूद्य तदयुक्तमित्यादिना ग्रन्थेन दूषयतीत्यर्थः ।
अभिप्रायेण दूषयतीति सम्बन्धः ।
अक्लिष्टतत्व इत्येतद्विवृणोति--श्रुतीत्यादि ।
विवेकावसादभावेत्यंशं सर्वशब्दागोचरत्वेन न कस्यचित्सम्भवति ।
अन्ततो ऽनाख्येयशब्देन तस्याभिधानसम्भवात् ।
सामान्यसंस्पर्शिविकल्पशब्दागोचरत्वे सति, प्रकाशमानत्वं तु यदनाख्येयत्वमुच्यते क्वचित् तदपि काव्यविशेषाणां रत्नाविशेषाणामिव न सम्भवति ।
तेषां लक्षणकारैर्व्याकृतरूपत्वात् ।
रत्नाविशेषाणां च सामान्यसम्भावनयैव मूल्यस्थितिपरिकल्पनादर्शनाच्च ।
उमयेषामपि तेषां प्रतिपत्तृविशेषसंवेद्यत्वमस्त्येव ।
वैकटिका एव हि रत्नतत्त्वविदः, सहृदया एव हि काव्यानां रसज्ञा इति कस्यात्र विप्रतिपत्तिः ।
यत्त्वनिर्देश्यत्वं सर्वलक्षणविषयं बौद्धानां प्रसिद्धं तत्तन्मतपरीक्षायां ग्रन्थान्तरे निरूपयिष्यामः ।
इह तु ग्रन्थान्तरश्रवणलवप्रकाशनं सहृदयवैमनस्यप्रदायीति न प्रक्रियते ।
बौद्धमतेन वा यथा प्रत्यक्षादिलक्षणं तथास्माकं ध्वनिलक्षणं भविष्यति ।
तस्माल्लक्षणान्तरस्याघटनादशब्दार्थत्वाच्च लोचनम् ताविति शब्दगतो ऽर्थगतश्च ।
विवेकस्यावसादो यत्र तस्य भावो निर्विवेकत्वम् ।
सामान्यस्पर्शी यो विकल्पस्ततो यः शब्दः दृष्टान्ते ऽपि अनाख्येयत्वं नास्तीति दर्शयति--रत्नविशेषाणां चेति ।
ननु सर्वेण तन्न संवेद्यत इत्याशङ्क्याभ्युपगमेनैवोत्तरयति--उभयेषामिति ।
रत्नानां काव्यानां च ।
ननु नार्थं शब्दाः स्पृशन्त्यपीति, अनिर्देश्यस्य वेदकमित्यादौ कथमनाख्येयत्वं वस्तूनामुक्तमिति चेदत्राह--यत्त्विति ।
एवं हि सर्वभाववृत्तान्ततुल्य एव ध्वनिरिति ध्वनिस्वरूपमनाख्येयमित्यतिव्यापकं लक्षणं स्यादिति भावः ।
ग्रन्थान्तर इति विनिश्चयटीकायां धर्मोत्तर्यां या विवृतिरमुना ग्रन्थकृता कृता तत्रैव तद्व्याख्यातम् ।
बालप्रिया व्याचष्टे--विवेकस्येत्यादि ।
सामान्येत्यादिकं विवृणोति---सामान्येत्यादि ।
सामान्यसंस्पर्शोति ।
जात्यादिसामान्यावगाहीत्यर्थः ।
विकल्प इति ।
सविकल्पकज्ञानमित्यर्थः ।
ततो यश्शब्द इति ।
तद्धेतुको व्यवहारात्मको यश्शब्द इत्यर्थः ।
नास्तीति दर्शयतीति ।
रत्नविशेषाणां जात्यत्वादिसामान्यस्य सम्भावनयैव मूल्यपरिकल्पनाया दर्शनादिति भावः ।
तदिति ।
जात्यत्वं चारुत्वञ्चेत्यर्थः ।
तद्ग्रन्थान्तरे निरूपयिष्याम इत्युक्त्या सूचितमनिर्देश्यत्वरूपलक्षणस्य दोषं दर्शयति--एवं हीत्यादि ।
सर्वभावेति ।
सर्वपदार्थेत्यर्थः ।
इति लक्षणमतिव्यापकं स्यादिति सम्बन्धः ।
मयैवेत्यर्थ इति ।
अनेन ऽअनाख्येयेऽत्यादेः परिकरश्लोकत्वं दर्शितम् ।
अनाख्येयांशस्येति ।
अनाख्येयो यो ऽशिः स्वरूपांशः तस्येत्यर्यः ।
भास इति ।
क्वचित् ग्रन्थे भाव इति च पाठः ।
तत्पक्षे अनाख्येयांशभावित्वमिति श्लोके तस्योक्तमेव ध्वनिलक्षणं साधीयः ।
तदिदमुक्तम्-- अनाख्येयांशभासित्वं निर्वाच्यार्थतया ध्वनेः ।
न लक्षणं, लक्षणं तु साधीयो ऽस्य यथोदितम् ॥
इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके तृतीय उद्द्योतः ॥
लोचनम् उक्तमिति ।
संग्रहार्थं मयैवेत्यर्थः ।
अनाख्येयांशस्याभासो विद्यते यस्मिन् काव्ये तस्य भावस्तन्न लक्षणं ध्वनेरिति सम्बन्धः ।
अत्र हेतुः--निर्वाच्यार्थतयेति ।
निर्विभज्य वक्तुं शक्यत्वादित्यर्थः ।
अन्यस्तु ऽनिर्वाच्यार्थतयाऽ इत्यत्र निसो नञर्थत्वं परिकल्प्यानाख्येयांशभासित्वे ऽयं हेतुरिति व्याचष्टे, तत्तु क्लिष्टम् ।
हेतुश्च साध्याविशिष्ट इत्युक्तव्याख्यानमेवेति शिवम् ।
काव्यालोके प्रथां नीतान् ध्वनिभेदान् परामृशत् ।
इदानीं लोचनं लोकान् कृतार्थान्संविधास्यति ॥
आसूत्रितानां भेदानां स्फुटतापत्तिदायिनीम् ।
त्रिलोचनप्रियां वन्दे मध्यमां परमेश्वरीम् ॥
इति श्रीमहामाहेश्वराचार्यवर्याभिनवगुप्तान्मीलिते सहृदयालोकलोचने ध्वनिसङ्केते तृतीय उद्द्योतः ॥
ऋऋऋऋऋ बालप्रिया पठनीयम् ।
तदिति ।
अनाख्येयस्वरूपत्वमित्यर्थः ।
निर्वाच्यार्थतयेति निर्वाच्यांशतयेति वा पाठः ।
निरित्यस्य विवरणम्---विभज्येति ।
दूषणान्तरमाह--हेतुश्चेत्यादि ।
साध्याविशिष्ट इति ।
साध्यादभिन्न इत्यर्थः ।
काव्यालोका इति ।
प्रथां नीतानिति ।
विस्तृतानित्यर्थः ।
परामृशदिति हेतुगर्भंम् ।
लोचनमित्यादि ।
यथा नयनं लोकान् कृतार्थान् विदधाति, तथेदं व्याख्यानमिति भावः ।
आसूत्रितानामिति ।
आसूत्रितानां भेदानां सम्यक्सूत्रैर्निर्दिष्टानां ध्वन्यादिभेदरूपाणां काव्यवाणीनां या स्फुटतापत्तिः ।
स्फुटत्वप्राप्तिस्तद्दायिनीम् ।
मध्यमा हि वैखर्याः स्फुटत्वं ददाति ।
मध्यमामिति ।
मध्यमारूपामित्यर्थः ।
शुभमस्तु सर्वं शिवम् इति श्रीरामशारकरचितायां लोचनटिप्पण्यां तृतीय उद्द्योतः ॥
चतुर्थ उद्द्योतः
चतुर्थ उद्द्योतः एवं ध्वनिं सप्रपञ्चं विप्रतिपत्तिनिरासार्थं व्युत्पाद्य तद्व्युत्पादने लोचनम् चतुर्थ उद्द्योतः कृत्यपञ्चकनिर्वाहयोगे ऽपि परमेश्वरः ।
नान्योपकरणापेक्षो यया तां नौमि शाङ्करीम् ॥ ॥
उद्योतान्तरसङ्गतिं विरचयितुं वृतिकार आह---एवमिति ।
प्रयोजनान्तरमिति ।
यद्यपि ऽसहदयमनःप्रीतयऽ इत्यनेन प्रयोजनं प्रागेवोक्तं, तृतीयोद्योतावधौ च सत्काव्यं कर्तुं वा ज्ञातुं वेति तदेवेषत्स्फुटीकृतं, तथापि स्फुटतरीकर्तुमिदानीं यत्नः ।
यतस्सुस्पष्टरूपत्वेन विज्ञायते, अतो ऽस्पष्टनिरूपितात्स्पष्टनिरूपणमन्यथैव प्रतिभातीति प्रयोजनान्तरमित्युक्तम् ।
अथवा पूर्वोक्तयोः प्रयोजनयोरन्तरं विशेषो ऽभिधीयते; केन विशेषेण सत्काव्यकरणमस्य प्रयोजनं, केन च सत्काव्यबोध इति विशेषो निरूप्यते ।
बालप्रिया अथ चतुर्थोद्योतटिप्पणी प्रारभ्यते अर्थोद्योतं चतुर्थे च लोचनस्य यथामति ।
किमपि व्याकरिष्यामि प्रसीदन्त्वत्र मे बुधाः ॥ ॥
कृत्येति ।
कृत्यपञ्चकं सृष्ट्यादिरूपम् ।
यथोक्तं---"पञ्चविधं तत्कृत्यं सृष्टिस्थितिसंहारतिरोभावः तद्वदनुग्रहकरणं प्रोक्तं सततोदितस्यास्य" इति ।
यया मायारूपया हेतुना ।
नान्योपकरणापेक्ष इति सम्बन्धः ।
मायारूपां यामेवापेक्षमाणः सृष्ट्यादिकं निर्वहतीत्यर्थः ।
उद्योतान्तरसङ्गतिमिति ।
तृतीयोद्योतेन सह चतुर्थोद्योतस्य सङ्गतिमित्यर्थः ।
पूर्वोक्तस्यैव प्रयोजनस्य वक्ष्यमाणत्वात् प्रयोजनान्तरमित्युक्तिरयुक्तेत्याशङ्क्य समाधत्ते--यद्यपीत्यादि ।
ननु प्रीतिरूपप्रयोजनस्योक्तत्वे ऽपि वक्ष्यमाणं तदन्यदेवेत्यत आह--तृतीयेत्यादि ।
तदेवेति ।
प्रयोजनमेवेत्यर्थः ।
स्फुटतरीकर्तुमिति ।
तदेवेत्यनुषज्यते ।
विज्ञायत इति ।
वक्ष्यमाणमिति शेषः ।
ततः किमत आह--अत इत्यादि ।
अस्पष्टनिरूपितादिति ।
प्रयोजनादिति शेषः ।
सत्काव्यं कर्तुं वा ज्ञातुं वा सम्यगभियुक्तैः सद्भिः ध्वनिः प्रयत्नतो विवेच्य इत्युक्त्या सत्काव्यकरणज्ञानयोः ध्वनिविवेचनप्रयोजनत्वमर्थाल्लभ्यत इत्यतस्तत्प्रयोजनमस्पष्टनिरूपितमित्यर्थः ।
स्पष्टनिरूपणमिति ।
स्पष्टमुक्तमित्यर्थः ।
प्रकारान्तरेण व्याचष्टे--अथवेत्यादि ।
उक्तस्यैव विवरणम्--केन विशेषेणेत्यादि ।
अस्येति ।
ध्वनिव्युत्पादनस्येत्यर्थः ।
प्रयोजनान्तरमुच्यते--
ध्वनेर् यः सगुणी-भूत-व्यङ्ग्यस्याध्वा प्रदर्शितः ।
अनेनानन्त्यम् आयाति कवीनां प्रतिभा-गुणः
ध्वनेर्यः सगुणीभूतव्यङ्ग्यस्याध्वा प्रदर्शितः ।
अनेनानन्त्यमायाति कवीनां प्रतिभागुणः ॥ 1 ॥
य एष ध्वनेर्गुणभूतव्यङ्ग्यस्य च मार्गः प्रकाशितस्तस्य फलान्तरं कविप्रतिभानन्त्यम् ।
कथमिति चेत्---
अतो ह्य् अन्यतमेनापि प्रकारेण विभूषिता ।
वाणी नवत्वम् आयाति पूर्वार्थान्वयवत्य् अपि
अतो ह्यन्यतमेनापि प्रकारेण विभूषिता ।
वाणी नवत्वमायाति पूर्वार्थान्वयवत्यपि ॥ 2 ॥
लोचनम् तत्र सत्काव्यकरणे कथमस्य व्यापार इति पूर्वं वक्तव्यं निष्पादितस्य ज्ञेयत्वादिति तदुच्यते--
ध्वनेर्य इति ॥1 ॥
ननु ध्वनिभेदात् प्रतिभानामानन्त्यमिति व्यधिकरणमेतदित्यभिप्रायेणाशङ्कते--कथमितीति ।
अत्रोत्तरम्--अतो हीति ।
आसतान्तावद् बहवः प्रकाराः, एकेनाप्येवं भवतीत्यपिशब्दार्थः ।
एतदुक्तं भवति--वर्णनीयवस्तुनिष्ठः प्रज्ञाविशेषः प्रतिभानं, तत्र वर्णनीयस्य पारिमित्यादाद्यकविनैव स्पृष्टत्वात् सर्वस्य तद्विषयं प्रतिभानं तज्जातीयमेव स्यात् ।
ततश्च काव्यमपि तज्जातीयमेवेति भ्रष्ट इदानीं कविप्रयोगः, उक्तवैचित्र्येण तु त एवार्था निरवधयो भवन्तीति तद्विषयाणां प्रतिभानामानन्त्यमुपपन्नमिति ।
ननु प्रतिभानन्त्यस्य किं फलमिति निर्णेतुं वाणी नवत्वमायातीत्युक्तं, तेन वाणीनां काव्यवाक्यानां तावन्नवत्वमायाति ।
तच्च प्रतिभानन्त्ये सत्युपद्यते, तच्चार्थानन्त्ये, तच्च ध्वनिप्रभेदादिति ।
बालप्रिया कथमस्य व्यापार इतीति ।
ध्वनिप्रतिपादनं कथमुपयोगीत्येतदित्यर्थः ।
इत्येतदिति सम्बन्धः ॥ 1 ॥ ॥ ॥
व्यधिकरणमिति ।
असङ्गतमित्यर्थः ।
ऽअन्यतमेनापीऽत्यपिशब्दं दर्शयति--आसतामिति ।
एतदुक्तं भवतीति ।
प्रथमकारिकोत्तरार्धेन द्वितीयकारिकया च वक्ष्यमाणो भावार्थः प्रदर्शितो भवतीत्यर्थः ।
तमेवाह--वर्णनीयेत्यादि ।
ध्वनिप्रभेदादित्यन्तेन ।
वर्णनीयवस्तुनिष्ठः वर्णनीयतत्तद्वस्तुविषयकः ।
प्रज्ञाविशेष इति ।
स्फुर्तिरूप इत्यर्थः ।
कवेरिति शेषः ।
तज्जातीयमिति ।
आद्यकविप्रतिभानजातीयमित्यर्थः ।
तज्जातीयमेवेति ।
आद्यकविकाव्यजातीयमेवेत्यर्थः ।
इतीति हेतौ ।
भ्रष्ट इति ।
स्यादित्यनुषङ्गः ।
उक्तवैचित्र्येणेति ।
ध्वनिगुणीभूतव्यङ्ग्यवैचित्र्येणेत्यर्थः ।
वाणीनामित्यस्य विवरणम्--काव्यवाक्यानामिति ।
इतीति समाप्तौ ।
अतो ध्वनेरुक्तप्रभेदमध्यादन्यतमेनापि प्रकारेण विभूषिता सती वाणी पुरातनकविनिबद्धार्थसंस्पर्शवत्यपि नवत्वमायाति ।
तथाह्यविवक्षितवाच्यस्य ध्वनेः प्रकारद्वयसमाश्रयणेन नवत्वं पूर्वार्थानुगमे ऽपि यथा--- स्मितं किञ्चिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोर्भिसरसः ।
गतानामारम्भः किसलयितलीलापरिमलः स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः ॥
लोचनम् तत्र प्रथममत्यन्ततिरस्कृतवाच्यान्वयमाह--स्मितमिति ।
मुग्धमधुरविभवसरसकिसलयितपरिमलस्पर्शनान्यत्यन्ततिरस्कृतानि ।
तैरनाहृतसौन्दर्यसर्वजनवाल्लभ्याक्षीणप्रसरत्वसन्तापप्रशमनतर्पकत्वसौकुमाय्रसार्वङ्कालिकतत्संस्कारानुवृत्तित्वयत्नाभिलषणीयसङ्गतत्वानि ध्वन्यमानानि यानि, तैः स्मितादेः प्रसिद्धस्यार्थस्य स्थविरवेधोविहितधर्मव्यतिरेकेण धर्मान्तरपात्रात यावत् क्रियते, तावत्तदपूर्वमेव सम्पद्यत इति सर्वत्रेति मन्तव्यम् ।
अस्येति अपूर्वत्वमेव भासत इति दूरेण सम्बन्धः ।
सर्वत्रैवास्य बालप्रिया ऽस्मितम्ऽ इति ।
किञ्चित् स्मितं मन्दस्मितम् ।
मुग्धं भवति इति सर्वत्र शेष- ।
तरलश्च मधुरश्च तरलमधुरः ।
दृष्टिविभवः विभवविशिष्टा दृष्टिः ।
परिस्पन्दः प्रसरः ।
अभिनवा ये विलासास्तात्कालिका विशेषास्तेषामूर्मिभिः उत्तरोत्तरमुत्पद्यमानाभिः परम्पराभिः सरसः ।
किसलयितः किसलयसम्बन्धी लीलायाः परिमलो यत्र तथाभूतः. मोहयतीति व्युत्पत्त्या मोहकारित्वं "मुग्धा नववयःकामे"त्यादिना लक्षितं लौग्ध्यं वा यत्तद्वान्मुग्धशब्दस्य मुख्यार्थः ।
एवं मधुरविभावादिशब्दानां मधुररसैश्वर्यादयो मुख्यार्थाः, तेषामत्र बाधात्तत्सादृश्येन निमित्तेन मुग्धादिशब्दाः स्मितादीन् लक्षयन्ति, तेन च स्मितादीनां सौन्दर्यविशेषादिकं द्योत्यत इत्याह--मुग्धेत्यादि ।
मुग्धमधुरेत्यादि ।
मुग्धमधुरादयो मुख्यार्था इत्यर्थः ।
अत्यन्ततिरस्कृतानीति ।
बाधादिति भावः ।
तैरित्यस्य ध्वन्यमानानीत्यनेन सम्बन्धः ।
अत्र यथासंख्यं तेन स्मितस्य अनाहृतमकृत्रिमं सौन्दर्यम् ।
दृष्टेः सर्वजनवाल्लभ्यमक्षीणप्रसरत्वं च ।
वचसस्सन्तापप्रशमनत्वं तर्पकत्वं च, गमनस्य सुकुमारपादकृतत्वेन मान्द्यं सार्वकालिकलीलानुवृत्तित्वं च, तारुण्यस्य यत्नाभिलषयणीयसङ्गतत्वं च ध्वन्यत इत्यर्थः ।
तैर्धर्मान्तरपात्रतेति सम्बन्धः ।
अनाहृतसौन्दर्यादिरूपधर्मान्तरपात्रत्वमित्यर्थः ।
स्थविरवेधाः ब्रह्मा ।
तदिति ।
स्मितादकमित्यर्थः ।
इतीति हेतौ ।
सर्वत्रेत्यादि ।
इत्थं सर्वत्र मन्तव्यमित्यर्थः ।
अपूर्वत्वमेव भासत इति ।
भाविभ्रमेत्यादौ स्मितादीनां
इत्यस्य, सविभ्रमस्मितोद्भेदा लोलाक्ष्यः प्रस्खलद्गिरः ।
नितम्बालसगामिन्यः कामिन्यः कस्य न प्रियाः ॥ ॥
इत्येवमादिषु श्लोकेषु सत्स्वपि तिरस्कृतवाच्यध्वनिसमाश्रयेणापूर्वत्वमेव प्रतिभासते ।
तथा-- यः प्रथमः प्रथमः स तु तथाहि हतहस्तिबहलपललाशी ।
श्वापदगणेषु सिंहः सिंहः केनाधरीक्रियते ॥ ॥
इत्यस्य, स्वतेजःक्रीतमहिमा केनान्येनातिशय्यते ।
महद्भिरपि मातङ्गैः सिंहः किमभिभूयते ॥ ॥
इत्येवमादिषु श्लोकेषु सत्स्वप्यर्थान्तरसङ्क्रमितवाच्यध्वनिसमाश्रयेण नवत्वम् ।
विवक्षितान्यपरवाच्यस्याप्युक्तप्रकारसमाश्रयेण नवत्वं यथा-- निद्राकैतविनः प्रियस्य वदने विन्यस्य वक्रं वधूः बोधत्रासनिरुद्धचुम्बनरसाप्याभोगलोलं स्थिता ।
लोचनम् नवत्वमिति सङ्गतिः ।
द्वितीयः प्रथमशब्दो ऽर्थान्तरे ऽनपाकरणीयप्रधानत्वासाधारणत्वादिव्यङ्ग्यधर्मान्तरे सङ्क्रान्तं स्वार्थं व्यनक्ति ।
एवं सिंहशब्दो ऽपि वीरत्वानपेक्षत्वविस्मयनीयत्वादौ व्यङ्ग्यधर्मान्तरे सङ्क्रान्तं स्वार्थं ध्वनति ।
एवं प्रथमस्य द्वौ भेदावुदाहृत्य द्वितीयस्याप्युदाहर्तुमासूत्रयति--विवक्षितेति ।
निद्रायां कैतवी कृतकसुप्त इत्यर्थः ।
वदने विन्यस्य वक्त्रमिति ।
वदनस्पर्शजमेव तावद्दिव्यं सुखं त्यक्तुन्न पारयतीति ।
अत एव प्रियस्येति ।
वधूः नवोढा ।
बोधत्रासेन प्रियतमप्रबोधभयेन निरुद्धो हठात् प्रवर्तमानः प्रवर्तमानो ऽपि कथञ्चित्कथञ्चित् बालप्रिया चतुर्णा वर्णने ऽपि तदपेक्षया स्मितं किञ्चिदित्यादौ तद्वर्णनस्यापूर्वत्वमेव भातीत्यर्थः ।
एवमुत्तरत्रापि बोध्यम् ।
अनपेति ।
अनपाकरणीयप्रधानत्वासाधारणत्वादिरूपं व्यङ्ग्यं यद्धर्मान्तरं तस्मिन्नित्यर्थः ।
वीरत्वेत्यादेरप्येवमर्थो बोध्यः ।
कृतकेति ।
कैतवेत्यर्थः ।
तावदिति ।
आदावित्यर्थः ।
पारयतीति ।
वधूरिति शेषः ।
इतीति ।
व्यज्चत इति शेषः ।
अत एवेति ।
एवंविधप्रीतिकारित्वादेवेत्यर्थः ।
इतीति ।
इत्युक्तमित्यर्थः ।
निरुद्धत्वोक्त्या गम्यमाह--हठात्प्रवर्तमानो ऽपीति ।
धृतः वैलक्ष्याद्विमुखीभवेदिति पुनस्तस्याप्यनारम्भिणः साकाङ्क्षप्रतिपत्ति नाम हृदयं यातं तु पारं रतेः ॥ ॥
इत्यादेःश्लोकस्य, शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै- र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।
विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ ॥
इत्यादिषु श्लोकेषु सत्स्वपि नवत्वम् ।
यथा वा---ऽतरङ्गभ्रूभङ्गाऽ लोचनम् क्षणमात्रन्धृतश्चुम्बनाभिलाषो यया ।
अत एव आभोगेन पुनः पुनर्निद्राविचारनिर्वर्णनया विलोलं कृत्वा स्थिता, न तु सर्वथैव चुम्बनान्निवर्तितुं शक्नोतीत्यर्थः ।
एवंभूतैषा यदि मया परिचुम्ब्यते, तद्विलक्षा विमुखीभवेदिति तस्यापि प्रियस्य परिचुम्बनविषये निरारम्भस्य ।
हृदयं साकाङ्क्षप्रतिपत्ति नामेति ।
साकाङ्क्षा साभिलाषा प्रतिपत्तिः स्थितिर्यस्य तादृशं रुहिरुहिकाकदर्थितं न तु मनोरथसम्पत्तिचरितार्थं, किन्तु रेतः परस्परजीवितसर्वस्वाभिमानरूपायाः परनिर्वृतेः केन चिदप्यनुभवेनालब्धावगाहनायाः पारङ्गतमिति परिपूर्णीभूत एव शृङ्गारः ।
द्वितीयश्लोके तु परिचुम्बनं सम्पन्नं लज्जा स्वशब्देनोक्ता ।
तेनापि सा परिचुम्बितेति यद्यपि पोषित एव शृङ्गारः, तथापि प्रथमश्लोके परस्पराभिलाषप्रसरनिरोधपरम्परापर्यवसानासम्भवेन या बालप्रिया प्रतिबद्धः ।
भोगपदस्य साक्षात्कारार्थकत्वमभिप्रेत्याह--आभागेनेत्यादि ।
निद्रेति ।
निद्राविचारेण अयं निद्रातीति बुद्ध्या या निर्वर्णना दर्शनं तयेत्यर्थः ।
अनेन चुम्बनाभिलाषस्य पुनराविर्भावो गम्यते ।
विलोलं कृत्वा चुम्बनसंशयसहितं यथा तथा ।
भावार्थमाह--न त्वित्यादि ।
उत्तरार्धं विवृणोति--एवमित्यादि ।
विलक्षा लज्जिता सती ।
इतीति हेतौ ।
अपीति वध्वाः समुच्चये ।
रुहरुहिकाकदर्थितं औत्सुक्येन पीडितम् ।
गम्यमर्थमाह---न त्वित्यादि ।
चरितार्थमित्यस्यानन्तरं यद्यपीति क्वचित् ग्रन्थे पाठः, तत्तु नामशब्दविवरणम् ।
किन्त्विति तुशब्दार्थकथनम् ।
अनुभवेनेति ।
चुम्बनालिङ्गनाद्यनुभवेनेत्यर्थः ।
अलब्धेति ।
अलब्धमवगाहनं यस्यां तस्यामित्यर्थः ।
अवगाहनस्यालाभे ऽपि पारं गतमित्यापाततो विरोधः ।
श्लोकस्यास्य नवत्वं दर्शयितुमाह--द्वितीयश्लोक इत्यादि ।
शङ्कते--तेनापीत्यादि ।
समाधत्ते--तथापीत्यादि ।
परस्परेति ।
परस्पराभिलाषप्रसरस्य या निरोधपरम्परा तस्या यत्पर्यवसान् इत्यादिश्लोकस्य ऽनानाभङ्गिभ्रमद्भूःऽ इत्यादिश्लोकापेक्षयान्यत्वम् ।
युक्त्यानयानुसर्तव्यो रसादिर् बहु-विस्तरः ।
मिथो ऽप्य् अनन्ततां प्राप्तः काव्य-मार्गो यदाश्रयात्
युक्त्यानयानुसर्तव्यो रसादिर्बहुविस्तरः ।
मिथो ऽप्यनन्ततां प्राप्तः काव्यमार्गो यदाश्रयात् ॥ 3 ॥
बहुविस्तारो ऽयं रसभावतदाभासतत्प्रशमनलक्षणो मार्गो यथास्वं विभावानुभावप्रभेदकलनया यथोक्तं प्राक् ।
स सर्व एवानया युक्त्यानुसर्तव्यः ।
यस्य रसादेराश्रयादयं काव्यमार्गः पुरातनैः कविभिः सहस्र संख्यैरसंख्यैर्वा बहुप्रकारं क्षुण्णत्वान्मिथो ऽप्यनन्ततामेति ।
रसभावादीनां हि प्रत्येकं विभावानुभावव्यभिचारिसमाश्रयादपरिमितत्वम् ।
तेषां चैकैकप्रभेदापेक्षयापि तावज्जगद्वृत्तमुपनिबध्यमानं सुकविभिस्तदिच्छावशादन्यथा स्थितमप्यन्यथैव विवर्तते ।
प्रतिपादितं चैतच्चित्रविचारावसरे ।
लोचनम् रतिरुक्ता, सोभयोरप्येकस्वरूपचित्तवृत्यनुप्रवेशमाचक्षाणा रति सुतरां पोषयति ॥ 2 ॥ ॥ ॥
एवं मौलं भेदचतुष्टयमुदाहृत्यालक्ष्यक्रमभेदेष्वतिदेशमुखेन सर्वोपभेदविषयं निर्देशं करोति--युक्त्यानयेत ।
अनुसर्तव्य इति ।
उदाहर्तव्य इत्यर्थः ।
यथोक्तमिति ।
तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश्च ये ।
तेषामानन्त्यमन्योन्यसम्बन्धपरिकल्पना ॥ ॥
इत्यत्र ।
प्रतिपादितं चैतदिति ।
चशब्दो ऽपिशब्दार्थे भिन्नक्रमः ।
एतदपि बालप्रिया तदसम्भवेन तत्सम्भवं विनेत्यर्थः ।
रतिरिति ।
निर्वृतिरित्यर्थः ।
उक्तेति ।
दर्शितेत्यर्थः ।
सुतरामिति ।
द्वितीयश्लोकतो ऽत्यधिकमित्यर्थः ॥ 2 ॥ ॥ ॥
मौलं भेदचतुष्टयमिति ।
अत्यन्ततिरस्कृतवाच्यार्थान्तरसङ्क्रमितवाच्यावविवक्षितवाच्यस्य द्वौ भेदौ, असंलक्ष्यक्रमव्यङ्ग्यसंलक्ष्यक्रमव्यङ्ग्यौ विवक्षितान्यपरवाच्यस्य द्वौ भेदावित्येवमादिमं भेदचतुष्टयमित्यर्थः ।
उदाहृत्येति ।
अनेन तरङ्गेत्यादिकं संलक्ष्यक्रमव्यङ्ग्योदाहरणमिति स्फुटीकृतं विक्रमोर्वशीयस्थं, द्वितीयोद्योतोदाहृतं तत्पद्यं तु यथा तदुदाहरणं भवति, तथा सहृदयैरालोचनीयम् ।
नानाभङ्गीत्यादिश्लोकस्समग्रतया नोपलब्धः ।
अलक्ष्येति ।
अलक्ष्यक्रमस्यावान्तरभेदेष्वित्यर्थः ।
कारिकास्थस्यामुसर्तव्य इत्यस्य व्याख्यानम्--उदाहर्तव्य इति ।
यथोक्तं प्रागित्यत्रत्यप्राक्पदार्थकथनं तस्याङ्गानामित्यादि ।
अपिशब्दार्थ इति ।
समुच्चय इत्यर्थः ।
इत्यत्र प्रतिपादितमिति सम्बन्धः ।
अतथास्थितानित्यत्र पूरयति--बहिरिति ।
हृदयाद्बहिर्लोक इत्यर्थः ।
गाथा चात्र कृतैव महाकविना--
अतहट्ठिए वि तहसण्ठिए व्व हिअअम्मि जा णिवेसेइ ।
अत्थविसेसे सा जऐ विकडकैगोअरा वाणी ॥ ॥
[अतथास्थितानपि तथासंस्थितानिव हृदये या निवेशयति ।
अर्थविशेषान् सा जयति विकटकविगोचरा वाणी ॥
इति छाया] ।
तदित्थं रसभावाद्याश्रयेण काव्यार्थानामानन्त्यं सुप्रतिपादतम् ।
एतदेवोपपादयितुमुच्यते-- लोचनम् प्रतिपादितं "भावानचेतनानपि चेतनवच्चेतनानचेतनवदि"त्यत्र ।
अतथास्थितानपि बहिस्तथासंस्थितानिवेति ।
इवशब्देन एकतरत्र विश्रान्तियोगाभावादेव सुतरां विचित्ररूपानित्यर्थः ।
हृदय इति ।
प्रधानतमे समस्तभावकनकनिकषस्थान इत्यर्थः ।
निवेशयति यस्य यस्य हृदयमस्ति, तस्य तस्य अचलतया तत्र स्थापयतीत्यर्थः ।
अतेव ते प्रसिद्धार्थेभ्यो ऽन्य एवेत्यर्थविशेषास्सम्पद्यन्ते ।
हृदयनिविष्टा एव च तथा भवन्ति नान्यथेत्यर्थः ।
सा जयति परिच्छिन्नशक्तिभ्यः प्रजापतिभ्यो ऽप्युत्कर्षेण वर्तते ।
तत्प्रसादादेव कविगोचरो वर्णनीयो ऽर्थो विकटो निस्सीमासम्पद्यते ॥ 3 ॥ ॥ ॥
प्रतिभानां वाणीनाञ्चानन्त्यं ध्वनिकृतमिति यदनुद्भिन्नमुक्तं, तदेव कारिकया भङ्ग्या निरूप्यत इत्याह--उपपादयितुमिति ।
उपपत्या निरूपयितुमित्यर्थः ।
यद्यप्यर्थानन्त्यमात्रे हेतुर्वृत्तिकारेणोक्तः, तथापि कारिकाकारेण नोक्त इति भावः ।
यदि वा उच्यते संग्रहश्लोको ऽयमिति भावः ।
अत एवास्य श्लोकस्य वृत्तिग्रन्थे व्याख्यानं न कृतम् ।
बालप्रिया इवशब्देनेति ।
सम्भावनार्थकेनेति भावः ।
इत्यर्थ इति ।
गम्यत इति शेषः ।
समस्तेति ।
समस्तभावाः सकलपदार्था एव कनकानि तेषां निकषस्थान इत्यर्थः ।
हृदये निवेशयतीत्यस्य विवरणम्--यस्येत्यादि ।
अत एव हृदयस्थापनादेव ।
ते हृदयस्थापितार्थाः ।
अर्थविशेषानित्यस्य विवरणम्--प्रसिद्धेत्यादि ।
तथेति ।
अर्थविशेषा इत्यर्थः ।
विकटः कविगोचरो यस्या इति व्युत्पत्तिमभिप्रेत्य विवृणोति--कविगोचर इत्यादि ॥ 3 ॥ ॥ ॥
ऽएतदेवेऽत्यादिग्रन्थमवतारयति--प्रतिभानामित्यादि ।
ध्वनिकृतमिति ।
ध्वनिभेदकृतार्थानन्त्यप्रयुक्तमित्यर्थः ।
अनुद्भिन्नमिति ।
उपपत्तेरकथनेनास्फुटमित्यर्थः ।
उक्तमिति ।
ध्वनेर्य इत्यादिनोक्तमित्यर्थः ।
वृत्तिकारेणोक्त इति ।
ऽयुक्त्यानयेऽत्यादिकारिकाव्याख्यावसर इति शेषः ।
संग्रहश्लोक इति ।
वृत्तिकारकृतः परिकरश्लोक इत्यर्थः ।
दृष्ट-पूर्वा अपि ह्य् अर्थाः काव्ये रस-परिग्रहात् ।
सर्वे नवा इवाभान्ति मधु-मास इव द्रुमाः
दृष्टपूर्वा अपि ह्यर्थाः काव्ये रसपरिग्रहात् ।
सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः ॥ 4 ॥
तथा हि विवक्षितान्यपरवाच्यस्यैव शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यप्रकारसमाश्रयेण नवत्वम् ।
यथा--ऽधरणीधारणायाधुना त्वं शेषःऽ इत्यादेः ।
शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः ।
यदलङ्घितमर्यादाश्चलन्तीं बिभ्रते भुवम् ॥ ॥
इत्यादिषु सत्स्वपि ।
तस्यैवार्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यसमाश्रयेण नवत्वम् ।
यथा--ऽएवंवादिनि देवर्षौऽ इत्यादि श्लोकस्य ।
कृते वरकथालापे कुमार्यः पुलकोद्गमैः ।
सूचयन्ति स्पृहामन्तर्लज्जयावनताननाः ॥ ॥
इत्यादिषु सत्स्वर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य कविप्रौढोक्तिनिर्मितशरीरत्वेन नवत्वम् ।
यथा--ऽ
सज्जेइ सुरहिमासोऽ इत्यादेः ।
सुरभिसमये प्रवृत्ते सहसा प्रादुर्भवन्ति रमणीयाः ।
रागवतामुत्कलिकाः सहैव सहकारकलिकाभिः ॥ ॥
इत्यादिषु सत्स्वप्यपूर्वत्वमेव ।
अर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरत्वेन नवत्वम् ।
लोचनम् दृष्टपूर्वा इति ।
बहिः प्रत्यक्षादिभिः प्रमाणैः प्राक्तनैश्च कविभिरित्युभयथा नेयम् ।
काव्यं मधुमांसस्थानीयम् स्पृहां लज्जामिति, रागवतामुत्कमिका इति च ।
शब्दस्पृष्टे ऽर्थे का हृद्यता ।
एतानि चोदाहरणानि वितत्य पूर्वमेव व्याख्यातानीति किं पुनरुकक्त्या सत्यपि प्राक्तनकविस्पृष्टत्वे नूतनत्वं भवत्येवैतत्प्रकारानुग्रहादित्येतावति तात्पर्यं हि ग्रन्थस्याधिकन्नान्यत् ।
बालप्रिया द्रुमान्वयिनमर्थमाह---बहिरित्यादि ।
अर्थान्वयिनमाह--प्राक्तनैरित्यादि ।
का हृद्यतेति ।
अतश्च ऽकृतऽ इत्यादिश्लोकात् ऽएवंवादिनीऽत्यादेः ऽसुरभीऽत्यादिश्लोकात् ऽसज्जतीऽत्यादेश्च नवत्वमस्तीति भावः ।
सत्यपीत्यादि ।
एतेषामिति शेषः ।
एतत्प्रकारानुग्रहान्नूतनत्वं भवत्येवेति सम्बन्धः ।
यथा--
ऽवाणिअअ इत्थिदन्ताऽ इत्यादिगाथार्थस्य ।
करिणीवेहव्वअरो मह पुत्तो एक्ककाण्डविणिवाइ ।
इअसोन्हाएं तह कहो जह कण्डकरण्डअं वहै ॥ ॥
[करिणीवैधव्यकरो मम पुत्र एककाण्डविनिपाती ।
हतस्नुषया तथा कृतो यथा काण्डकरण्डकं वहति ॥
इति च्छाया] ।
एवमादिष्वर्थेषु सत्स्वप्यनालीढतैव ।
यथा व्यङ्ग्यभेदसमाक्षयेण ध्वनेः काव्यार्थानां नवत्वमुत्पद्यते, तथा व्यञ्जकभेदसमाश्रयेणापि ।
तत्तु ग्रन्थविस्तरभयान्न लिख्यते स्वयमेव सहृदयैरभ्यूह्यम् ।
अत्र च पुनःपुनरुक्तमपि सारतयेदमुच्यते--
व्यङ्ग्य-व्यञ्जक-भावे ऽस्मिन् विविधे सम्भवत्य् अपि ।
रसादि-मय एकस्मिन् कविः स्याद् अवधानवान्
व्यङ्ग्यव्यञ्जकभावे ऽस्मिन्विविधे सम्भवत्यपि ।
रसादिमय ऐकस्मिन् कविः स्यादवधानवान् ॥ 5 ॥
अस्मिन्नर्थानन्त्यहेतौ व्यङ्ग्यव्यञ्जकभावे विचित्रं शब्दानां सम्भवत्यपि कविरपूर्वार्थलाभार्थी रसादिमय एकस्मिन् व्यङ्ग्यव्यञ्जकभावे यत्नादवदधीत ।
रसभावतदाभासरूपे हि व्यङ्ग्ये तद्य्वञ्जकेषु च यथानिर्दिष्टेषु वर्णपदवाक्यरचनाप्रबन्धेष्ववहितमनसः कवेः सर्वमपूर्वे काव्यं सम्पद्यते ।
तथा च रामायणमहाभारतादिषु सङ्घामादयः पुनःपुनरभिहिता अपि नवनवाः प्रकाशन्ते ।
प्रबन्धे चाङ्गी रस एक एवोपनिबध्यमानो ऽर्थविशेषलाभं छायातिशयं च पुष्णाति ।
कस्मिन्निवेति चेत्---यथा रामायणे यथा वा महाभारते ।
रामायेणे हि करुणो रसः स्वयमादिकविनासूत्रितः ऽशोकः श्लोकत्वमागतःऽ इत्येवंवादिना ।
निर्व्यूढश्च स एव लोचनम् करिणीवैधव्यकरो मम पुत्रः एकेन काण्डेन विनिपातनसमर्थः हतस्नुषया तथा कृतो यथा काण्डकरणकं वहतीत्युत्तान एवायमर्थः, गाथार्थस्यानालीढतैवेति सम्बन्धः ॥ 4. ॥
बालप्रिया एतत्प्रकारेत्यस्य ध्वनिप्रभेदेत्यर्थः ।
वृत्तौ ऽशरीरत्वेन नवत्वऽमित्युभयत्र भवतीति शेषः. ऽएककाण्डविनिपातीऽति छाया, तस्य विवरणम्--एकेन काण्डेनेत्यादि ।
काण्डो बाणः ॥ 4. ॥
सीतात्यन्तवियोगपर्यन्तमेव स्वप्रबन्धमुपरचयता ।
महाभारते ऽपि शास्त्ररूपं काव्यच्छायान्वयिनि वृष्णिपाण्डवविरसावसानवैमनस्यदायिनीं समाप्तिमुपनिबध्नता महामुनिना वैराग्यजननतात्पर्यं प्राधान्येन स्वप्रबन्धस्य दर्शयता मोक्षलक्षणः पुरुषार्थः शान्तो रसश्च मुख्यतयाविवक्षाविषयत्वेन सूचितः ।
एतच्चशिन विवृतमेवान्यैर्व्याख्याविधायिभिः ।
स्वयमेवचैतदुद्गीर्ण तेनोदीर्णमहामोहमग्नमुज्जिहीर्षता लोकमतिविमलज्ञानालोकदायिना लोकनाथेन--- यथा यथा विपर्येति लोकतन्त्रमसारवत् ।
तथा तथा विरागो ऽत्र जायते नात्र संशयः ॥
लोचनम् अत्यन्तग्रहणेन निरपेक्षभावतया विप्रलम्भाशङ्कां परिहरति ।
वृष्णीनां परस्परक्षयः, पाण्डवानामपि महापथक्लेशेनानुचिता विपत्तिः, कृष्णस्यापि व्याधाद्विध्वंस इति सर्वंस्यापि विरसमेवावसानमिति ।
मुख्यतयेति ।
यद्यपि "धर्मे चार्थे च कामे च मोक्षे चे"त्युक्तं, तथापि चत्वारश्चकारा एवमाहुः--यद्यपि धर्मार्थकामानां सर्वस्वं तादृङ्नास्ति यदन्यत्र न विद्यते, तथापि पर्यन्तविरसत्वमत्रैवावलोक्यताम् ।
मोक्षे तु यद्रूपं तस्य सारतात्रैव विचार्यतामिति ।
यथायथेति ।
लोकैस्तन्त्र्यमाणं यत्नेन सम्पाद्यमानन्धर्मार्थकामतत्साधनलक्षणं वस्तुभूततयाभिमतमपि ।
येन येनार्जनरक्षणक्षयादिना प्रकारेण ।
असारवत्तुच्छेन्द्रझालाडिवत् ।
विपर्येति ।
प्रत्युत विपरीतं सम्पद्यते ।
आस्तान्तस्य स्वरूपचिन्तेत्यर्थः ।
तेन तेन प्रकारेण अत्र लोकतन्त्रे ।
विरागो जायत इत्यनेन तत्वज्ञानोत्थितं निर्वेदं बालप्रिया ऽसीतात्यन्तवियोगपर्यन्तमित्यत्रात्यन्तग्रहणफलमाह--अत्यन्तग्रहणेनेत्यादि ।
वृष्णिपाण्डवविरसावसानेत्युक्तं ववृणेति ।
वृष्णीनामित्यादि ।
मोक्षलक्षणः पुरुषार्थो मुख्यतया विवक्षाविषयत्वेन सूचित इति यदुक्तं तस्यानुपपत्तिमाशङ्क्य परिहरति--यद्यपीत्यादिना ।
मोक्षे चेत्युक्तमिति ।
क्वचिद्दग्रन्थे ऽभरतर्षभ यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचिऽदिति च पाठः ।
एवमाहुरिति ।
वक्ष्यमाणं विशेषं द्योतयन्तीत्यर्थः ।
सर्वस्वमिति ।
प्रधानं स्वरूपमित्यर्थः ।
नास्तीति ।
अत्रेति शेषः ।
यदन्यत्र न विद्यते तादृगत्र नास्तीति सम्बन्धः ।
यदत्रास्ति तदन्यत्राप्यस्तीति भावः ।
द्योत्यं विशेषं दर्शयति--तथापीत्यादि ।
पर्यन्तविरसत्वमिति ।
धर्मार्थकामानामित्यनुषज्यते ।
लोकतन्त्रमित्येतद्व्याचष्टे--लौकैरित्यादि ।
इत्यादि बहुशः कथयता ।
ततश्च शान्तो रसो रसान्तरैर्मोक्षलक्षणः पुरुषार्थः पुरुषार्थान्तरैस्तदुपसर्जनत्वेनानुगम्यमानो ऽङ्गित्वेन विवक्षाविषय इति महाभारततात्पर्य सुव्यक्तमेवावभासते ।
अङ्गाङ्गिभावश्च यथा रसानां तथा प्रतिपादितमेव ।
पारमार्थिकान्तस्तत्त्वानपेक्षया शरीरस्येवाङ्गभूतस्य रसस्य पुरुषार्थस्य च स्वप्राधान्येन चारुत्वमप्यविरुद्धम् ।
ननु महाभारते यावान्विवक्षाविषयः सो ऽनुक्रमण्यां सर्व एवानुक्रान्तो न चैत्तत्र दृश्यते, प्रत्युत सर्वपुरुषार्थप्रबोधहेतुत्वं सर्वरसगर्भत्वं च महाभारतस्य तस्मिन्नुद्देशे स्वशब्दनिवेदितत्वेन प्रतीयते ।
अत्रोच्यते--सत्यं शान्तस्यैव रसास्याङ्गित्वं महाभारते मोक्षस्य च सर्वपुरुषार्थभ्यः प्राधान्यमित्येतन्न स्वशब्दाभिधेयत्वेनानुक्रमण्या दर्शितम्, दर्शितं तु व्यङ्ग्यत्वेन--- ऽभगवान्वासुदेवश्च कीर्त्यते ऽत्र सनातनःऽ इत्यस्मिन् वाक्ये ।
अनेन ह्ययमर्थो व्यङ्ग्यत्वेन विवक्षितो यदत्र महाभारते पाण्डवादिचरितं यत्कीर्त्यते तत्सर्वमवसानविरसमविद्याप्रपञ्चरूपञ्च, परमार्थसत्यस्वरूपस्तु भगवान् वासुदेवो ऽत्र कीर्त्यते ।
तस्मात्तस्मिन्नेव परमेश्वरे भगवति भवत भावितचेतसो, मा भूत विभूतिषु निःसारासु रागिणो गुणेषु वा नयविनयपराक्रमादिष्वमीषु केवलेषु केषुचित्सर्वात्मना प्रतिनिविष्टधियः ।
तथा चाग्रे--पश्यत निःसारतां संसारस्येत्यमुमेवार्थे लोचनम् शान्तरसस्थायिनं सूचयता तस्यैव च सर्वेतरासारत्वप्रति पादनेन प्राधान्यमुक्तम् ।
ननु शृङ्गारवीरादिचमत्कारो ऽपि तत्र भातीत्याशङ्क्याह--पारमार्थिकेति ।
भोगाभिनिवेशिनां लोकवासनाविष्टानामङ्गभूते ऽपि रसे तथाभिमानः, यथा शरीरे प्रमातृत्वाभिमानः प्रमातुर्भेगायतनमात्रे ऽपि केवलेष्विति ।
परमेश्वरभक्त्युपकरणेषु बालप्रिया वस्तुभूततयेति ।
परमार्थतयेत्यर्थः ।
तुच्छेत ।
तुच्छं शशशृङ्गादि ।
तस्यैवेति ।
शान्तरसस्यैवेत्यर्थः ।
पारमार्थिकेत्यादिग्रन्थमवतारयति--नन्वित्यादि ।
तत्र महाभारते ।
भावं विवृणोति--भोगेत्यादि ।
तथाभिमानः प्राधान्याभिमानः ।
मात्रे ऽपि शरीरे इति सम्बन्धः ।
द्योतयन् स्फुटमेवावभासते व्यञ्चकशक्त्यनुगृहीतश्च शब्दः ।
एवंविधमेवार्थे गर्भीकृतं सन्दर्शयन्तो ऽनन्तरश्लोका लक्ष्यन्ते--ऽस हि सत्यम्ऽ इत्यादयः ।
अयं च निगूढरमणीयो ऽर्थो महाभारतावसाने हरिवंशवर्णनेन समाप्तिं विदधता तेनैव कविवेधसा कृष्णद्वैपायनेन सम्यक्स्फुटीकृतः ।
अनेन चार्थेन संसारातीते तत्त्वान्तरे भक्त्यतिशयं प्रवर्तयता सकल एव सांसारिको व्यवहारः पूर्वपक्षीकृतो न्यक्षेण प्रकाशते ।
देवतातीर्थतपः--प्रभृतीनां च देवतावशेषाणामन्येषां च ।
पाण्डवादिचरितवर्णनस्यापि वैराग्यजननतात्पर्याद्वैराग्यस्य च मोक्षमूलत्वान्मोक्षस्य च भगवत्प्राप्त्युपायत्वेन मुख्यतया गीतादिषु प्रदर्शितत्वात्परब्रह्मप्राप्त्युपायत्वमेव ।
परम्परया वासुदेवादिसञ्ज्ञाभिधेयत्वेन चापरिमितशक्त्यास्पदं परं ब्रह्म गीतादिप्रदेशान्तरेषु तदभिधानत्वेन लब्धप्रसिद्धि माथुरप्रादुर्भावानुकृतसकलस्वरूपं विवक्षितं न तु माथुरप्रादुर्भावांश एव, सनातनशब्दविशेषितत्वात् ।
लोचनम् तु न दोष इत्यर्थः ।
विभूतिषु रागिणो गुणेषु च निविष्टधियो मा भूतेति सम्बन्धः ।
अग्र इति अनुक्रमण्यनन्तरं यो भारतग्रन्थः तत्रेत्यर्थः ।
ननु वसुदेवापत्यं वासुदेव इत्युच्यते, न परमेश्वरः परमात्मा महादेव इत्याशङ्क्याह--वासुदेवादिसंज्ञाभिधेयत्वेनेति ।
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवस्सर्वम् बालप्रिया अन्वयं दर्शयति---विभूतिष्वित्यादि ।
वृत्तौऽतथाचेऽत्यादि ।
द्योतयन् शब्दो ऽवभासत इति सम्बन्धः ।
ऽन्यक्षेणेऽति ।
कात्स्येंनेत्यर्थः ।
प्राप्त्युपायत्वेन वर्णनमित्यन्वयः ।
देवताविशेषाणामित्यत्र प्रभावातिशयवर्णनमित्यनुषज्यते ।
ऽमोक्षस्येऽति ।
अज्ञाननिवृत्तेरित्यर्थः ।
वासुदेवसंज्ञाभिधेयत्वेन ब्रह्म विवक्षितमित्यन्वयः ।
ऽतदभिधानत्वेनऽ वासुदेवसंज्ञाभिधेयत्वेन ।
माथुरो यः प्रादुर्भावस्तेनानुकृतं सकलस्वरूपं येन तत् ।
ऽन त्विऽत्यादि ।
ऽविवक्षितऽ इति विपरिमाणामेनानुषङ्गः ।
हेत्वन्तरमप्याह--ऽरामयणादिष्विऽत्यादि ।
ऽपुरुषार्थऽ इति ऽविवक्षितऽ इत्यनेनास्य सम्बन्धः ।
रामायणादिषु चानया सञ्ज्ञया भगवन्मूर्त्यन्तरे व्यवहारदर्शनात् ।
निर्णीतश्चायमर्थः शब्दतत्त्वविद्भिरेव ।
तदेवमनुक्रमणीनिर्दिष्टेन वाक्येन भगवद्य्वतिरेकिणः सर्वस्यान्यस्यानित्यतां प्रकाशयता मोक्षलक्षण एवैकः परः पुरुषार्थः शास्त्रनये, काव्यनये च तृष्णाक्षयसुखपरिपोषलक्षणः शान्तो रसो महाभारतस्याङ्गित्वेन विवक्षित इति सुप्रतिपादितम् ।
अत्यन्तसारभूतत्वाच्चायमर्थो व्यङ्ग्यत्वेनैव दर्शितो न तु वाच्यत्वेन ।
सारभूतो ह्यर्थः स्वशब्दानभिधेयत्वेन प्रकाशितः सुतरामेव शोभामावहति ।
प्रसिद्धिश्चेयमस्त्येव विदग्घविद्वत्परिषत्सु यदभिमततरं वस्तु व्यङ्ग्यत्वेन प्रकाश्यते न साक्षाच्छब्दवाच्यत्वेन ।
लोचनम् इत्यादौ अंशिरूपमेतत्संज्ञाभिधेयमिति निर्णितं तात्पर्यम् ।
निर्णीतश्चेति ।
शब्दा हि नित्या एव सन्तो ऽनन्तरं काकतालीयवशात्तथा सङ्केतिता इत्युक्तम्--"ऋष्यन्धकवृष्णिकुरुभ्यश्चे"त्यत्र ।
शास्त्रनय इति ।
तत्रास्वादयोगाभावे पुरुषेणार्थ्यत इत्ययमेव व्यपदेशः सादरः, चमत्कारयोगे तु रसव्यपदेश इति भावः ।
एतच्च ग्रन्थकारेण तत्त्वालोके वितक्त्योक्तमिह त्वस्य न मुख्यो ऽवसर इति नास्माभिस्तद्दर्शितम् ।
सुतरामेवेति यदुक्तं तत्र हेतुमाह--प्रसिद्धिश्चेति ।
चशब्दो यस्मादर्थे ।
यत इयं लौकिकी प्रसिद्धिरनादिस्ततो भगवद्य्वासप्रभृतीनामप्ययमेवास्वशब्दाभिधाने आशयः, अन्यथा हि क्रियाकारकसम्बन्धादौ ऽनारायणं नमस्कृत्येऽत्यादिशब्दार्थनिरूपणे च तथाविध एव तस्य भगवत आशय इत्यत्र किं प्रमाणामिति भावः ।
विदग्धविद्वद्ग्रहणेनकाव्यनये शास्त्रनय इति चानुसृतम् ।
रसादिमय एतस्मिन् कविः स्यादवधानवानिति यदुक्तं, तदेव प्रसङ्गागतभारतसम्बन्धनिरूपणानन्तरमुपसंहरति--तस्मात्स्थितमिति ।
बालप्रिया ऽगीतादिप्रदेशान्तरेषुऽ इत्यादिकं विवृणोति लोचने--बहूनामित्यादि ।
काकतालीयवशादिति यदृच्छयेत्यर्थः ।
इत्यत्रोक्तमिति सम्बन्धः ।
काशिकावृत्ताविति शेषः ।
शास्त्रनये मोक्षः पुरुषार्थः, काव्यनये तु शान्तो रस इत्युक्तं विवृणोति--तत्रेत्यादि ।
सादर इति ।
अर्ह इत्यर्थः ।
यस्मादर्थ इति ।
हेत्वर्थक इत्यर्थः ।
अयमेवेति ।
उक्ता विदग्धविद्वत्परिषत्प्रसिद्धिरेवेत्यर्थः ।
अस्वशब्दाभिधाने अभिमतस्यार्थस्य स्वशब्देनानभिधाने ।
आशयः अभिमतो हेतुः ।
अत्रोपष्टम्भकमाह--अन्यथेत्यदि ।
मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0