भाषा

ENहिગુ
ग्रंथ पाठ

ध्वन्यालोक (टीका सहित) · भाग 561561

अत इत्युभयत्र पूर्वेण सम्बन्धः ।
अथ परममाहेश्वरो ग्रन्थकारो ग्रन्थान्ते परमशिवानुसन्धानात्मकं परममङ्गलमनुतिष्ठन्नाह---वस्तुत इत्यादि ।
जनस्य हृदि हृदये वस्तुतः शिवमये सति शिवमये हृदीति वा योजना, सर्वतः सर्वं वस्तु स्फुटं शिवमयं विराजते भाति ।
नाशिवमित्यादि ।
क्वचन क्वचिदपि कस्यचिद्वचः अशिवं न भवति, किन्तु सर्वत्र शिवमेव भवतीत्यर्थः ।
अनेन वस्तुतः शिवमये स्वस्य हृदये सर्वं शिवमयं भाति ।
अतस्सर्वत्रापि विषये स्ववचः शिवमेवेत्यर्थः प्रदर्शितः ।
तेनेति ।
स्ववचनेनेत्यर्थः ।
व इति श्रोतॄनुद्दिश्योक्तिः ।
शिवमयी मङ्गलमयी दशा भवेत् भवत्विति सर्वं शिवम् ।
देवी विजयतां वाणी समं सत्कविसूरिभिः ।
हृद्यस्सचेतसां काव्यालोकश्च सहलोचनः ॥ ॥
सर्वविद्याब्धिराजर्षिमहागोश्रीभृदादितः ।
विरुदं यस्सहृदयतिलकाद्यमवाप्तवान् ॥ ॥
सम्मानितश्चाङ्गलश्रीचक्रवर्तिसुते नयः ।
शाकुन्तलादि यो व्याख्याद्गोश्रीशादिगुरुश्च यः ॥ ॥
शास्त्रसाहित्यविन्मौलिः परीक्षिदुपनामकः ।
सुहृत्सतीर्थ्यो गोश्रीशो यस्यालम्बो ऽस्ति सर्वतः ॥ ॥
रामाख्यष्षारकस्सो ऽहमकार्षं टिप्पणीमिमाम् ।
इष्वग्निखेषु कल्यब्दे बालानामस्त्वियं प्रिया ॥ ॥
प्रौढं क्व लोचनं क्वाहं मन्दधीर्बहुधात्र तत् ।
टिप्पण्यां स्खलितानि स्युस्तदियं शोध्यतां बुधैः ॥
इति श्रीसहृदयतिलक पण्डितराज बिरुदद्वयशालिना रामनाम्ना शारकेण विरचितायां काव्यालोकलोचनटिप्पण्यां बालप्रियाख्यायां चतुर्थ उद्योतः समाप्तो ऽयं ग्रन्थः ॥

मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc