भाषा

ENहिગુ
ग्रंथ पाठ

ध्वन्यालोक (टीका सहित) · भाग 501520

परिदेवितमात्रेणेति ।
मात्रशब्देनपूर्वोक्तविश्रान्तिस्थलपर्यवसानव्यवच्छेदः ।
नन्वप्रेक्षापूर्वकत्वमात्मनो ऽनेन दर्शितं स्वविषयपरिदेवितस्य सर्वत्र तदावेदकत्वादिति न किञ्चित्करत्वविरह इत्याशङ्क्य परिहरति--अप्रेक्षेत्यादि ।
नन्वप्रस्तुतप्रशंसायामित्यादिग्रन्थस्य का संगतिरित्यतः प्रासङ्गिकी सेति दर्शयन्नवतारयति--नन्वित्यादि ।
यथास्थितस्यार्थस्येति ।
यथाश्रुतवाच्यार्थस्येत्यर्थः ।
असङ्गतौ असम्भवे ।
इह त्विति ।
लावण्येत्यादौ त्वित्यर्थः ।
सङ्गतिरिति ।
वाच्यार्थस्य सम्भव इत्यर्थः ।
सच पूर्वोक्तरीत्या बोध्यः ।
वृत्तौ ऽअप्रस्तुतप्रशंसायाऽमिति ।
निरालोके लोके कथमिदमहो चक्षुरधुना समं जातं सर्वैर्न सममथवान्यैरवयवैः ॥
अनयोर्हि द्वयोः श्लोकयोरिक्षुचक्षुषी विवक्षितस्वरूपे एव न च प्रस्तुते ।
महागुणस्याविषयपतितत्वादप्राप्तपरभागस्य कस्यचित्स्वरूपमुपवर्णयितुं द्वयोरपि श्लोकयोस्तात्पर्येण प्रस्तुतत्वात् ।
अविवक्षितत्वं यथा-- कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि, साधु विदितं कस्मादिदं कथ्यते ।
लोचनम् चक्षुरिति सम्बन्धः ।
आलोको विवेको ऽपि ।
न सममिति ।
हस्तो हि परस्पर्शादानादावप्युपयोगी ।
अवयवैरिति ।
अतितुच्छप्रायैरित्यर्थः ।
अप्राप्तः पर उत्कृष्टो भागो ऽर्थलाभात्मकः स्वरूपप्रथनलक्षणो वा येन तस्य ।
कथयामीत्यादिप्रत्युक्तिः ।
अनेन पदेनेदमाह--अकथनीयमेतत् श्रूयमाणं हि निर्वेदाय भवति, तथापि तु यदि निर्बन्धस्तत्कथयामि वैराग्यादिति ।
काक्वा देवहतकमित्यादिना च सूचितं ते वैराग्यमिति बालप्रिया अप्रस्तुतार्थवर्णनस्थल इत्यर्थः ।
ऽविवक्षितत्वम्ऽ इति ।
तस्येत्यनुषङ्गः ।
ऽपरार्थऽ इति ।
पीडा नामाक्षौ निष्पीडनं सत्पुरुषे तु क्लेशः ।
एवं भङ्गो ग्रन्थित्रोटनं धनाभावनिमित्तको विप्लवश्च ।
माधुर्यं रसविशेषो ऽनुल्बणत्वञ्च ।
विकारश्शर्करादिश्चित्तविकारश्च ।
न हि सत्पुरुषाः क्रोधाद्यवस्थायामप्यसेव्याः ।
अक्षेत्रमूषरस्थानं निर्विवेकप्रभ्वादिस्थानं च ।
ऽकिम्ऽ इत्यादि ।
मरुभुव एव दोष इति भावः ।
ऽअमीऽति ।
ये इत्यस्य प्रतिनिर्देशः--ऽएषाम्ऽ इति ऽयस्येत्यस्येदम्ऽ इति च ।

ननु सुभगरूपा इत्येतद्विवृणोति लोचने--यैरित्यादि ।
विवेको ऽपीत्यपिशब्देन प्रकाशरूपार्थस्य सङ्ग्रहः साम्याभावे विवक्षितं हेतुं दर्शयति--हस्ता हीत्यादि ।
इदमुपलक्षणं, चरणादिकं हि गमनाद्युपयोगि ।
व्यङ्ग्यार्थमाह--अतितुच्छेति ।
भागशब्देन धनादिलाभः कीर्तिप्रसरलाभो वा ग्राह्यो द्वयोरपि भजनीयत्वेन भागशब्दवाच्यत्वादित्याह--अर्थलाभैत्यादि ।
अनेनेति ।
कथयामीत्यनेनेत्यर्थः ।
आह व्यञ्जयति ।
अकथनीयत्वे हेतुमाह--श्रूयमाणमित्यादि ।
श्रूयमाणं न तु श्रवणोत्तरमेवेत्यतिशयितनिर्वेदहेतुत्वं श्रवणस्य द्योतयितुं शतृप्रत्येन निर्देशः ।
वैराग्यादिव वक्षीत्यत्रेवशब्दः प्रतीतौ,त्वं वैराग्याद्वदसीति ज्ञायत इत्यर्थः ।
मदीयं वैराग्यं केन ज्ञातमित्यत आह--काक्वेत्यादि ।
काक्वा शोकसूचकध्वनिविकारयावत् ।
वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवत न च्छायापि परोपकारकरिणी मार्गस्थितस्यापि मे ॥
न हि वृक्षविशेषेण सहोक्तिप्रत्युक्ती सम्भवत इत्यविवक्षिताभिधेयेनैवानेन श्लोकेन समृद्धासत्पुरुषसमीपवर्तिनो निर्धनस्य कस्यचिन्मनस्विनः परिदेवितं तात्पर्येण वाक्यर्थीकृतमिति प्रतीयते ।
विवक्षितत्वाविवक्षितत्वं यथा---
उप्पहजाआएं असोहिणीएं फलकुसुमपत्तरहआए ।
वेरीएं वैं देन्तो पामर हो ओहसिज्जिहसि ॥
लोचनम् साधुविदितमित्युत्तरम् ।
कस्मादिति वैराग्ये हेतुप्रश्नः ।
इदं कथ्यत इत्यादिसनिर्वेदस्मरणोपक्रमं कथङ्कथमपि निरूपणीयतयोत्तरम् ।
वामेनेति ।
अनुचितेन कुलादिनोपलक्षित इत्यर्थ- ।
वट इति ।
च्छायामात्रकणादेव फलदानादिशून्यादुद्धुरकन्धर इत्यर्थः ।
छायापीति ।
शाखोटको हि स्मशानाग्निज्वालालीढलतापल्लवादिस्तरुविशेषण ।
अत्राविवक्षायां हेतुमाह--न हीति ।
समृद्धो यो ऽसत्पुरुषः ।
ऽसमृद्धसत्पुरुषऽ बालप्रिया इदं कथ्यत इति कथनप्रतिज्ञाभिप्रायामाह--सनिर्वेदेत्यादि ।
स्मृतिविषयवस्तुनो निर्वेदप्रदत्वात्स्मरणसहभावी निर्वेद इति सनिर्वेदत्वं स्मरणस्य ।
निरूपणीयतयेति ।
निरूपणमुचितवचनपर्यालोचनम् ।
उत्तरमिति ।
इदं कथ्यत इत्यादीत्यस्यानेन सम्बन्धः ।
वामेनेत्येतत् प्रस्तुतार्थे योजयति--अनुचितेनेत्यादि ।
वटशब्देनार्थशक्तिबलेन गम्यमर्थमाह--छायेत्यादि ।
शून्यादिति ।
करणादित्यस्य विशेषणम् ।
अत्रन्ति ।

कस्त्वमित्याद्युदाहरण इत्यर्थः ।
वृत्तौ--ऽउत्पथेऽति ।
हे पामर तथाभूताया बदर्याः वृति ददात्त्वं जनैरपहसिष्यस इत्यन्वयः ।
बदरी वृक्षविशेषः ।
"प्राचीनां प्रान्ततो वृत्ति"रित्यमरः ।
सम्भवीत्यस्यानन्तरं न चासम्भवीति च क्वचित् अत्र हि वाच्यारथो नात्यन्तं सम्भवी ना चसम्भवी ।
तस्माद्वाच्यव्यङ्ग्ययोः प्राधान्याप्राधान्ये यत्नतो निरूपणीये ।
प्रधान-गुण-भावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते ।
काव्ये उभे ततो ऽन्यद् यत् तच् चित्रम् अभिधीयते
चित्रं शब्दार्थ-भेदेन द्विविधं च व्यवस्थितम् ।
तत्र किंचिच् छब्द-चित्रं वाच्य-चित्रम् अतः परम्
प्रधानगुणफभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते ।
काव्ये उभे तो ऽन्यद्यत्तञ्चित्रमभिधीयते ॥ 41 ॥
चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितम् ।
तत्र किञ्चिच्छब्दचित्रं वाच्यचित्रमतः परम् ॥ 42 ॥
। लोचनम् इति पाठे समृद्धेन ऋद्धिमात्रेण सात्पुरुषो न तु गुणादिनेति व्याख्येयम् ।
नात्यन्तमिति ।
वाच्यभावनियमो नास्ति नास्तीति न शक्यं वक्तुं, व्यङ्ग्यस्यापि भावादिति तात्पर्यम् ।
तथा हि उत्पथजाताया इति न तथाकुलोद्भूतायाः ।
अशोभनाया इति लावण्यरहितायाः ।
फलकुसुमपत्र्ररहिताया इत्येवम्भूतापि काचित्पुत्रिणी वा भ्रात्रादिपक्षपरिपूर्वतया सम्बन्धिवर्गपोषिता वा परिरक्ष्यते ।
बदर्या वृत्तिं ददत्पामर भोः, हसिष्यसे सर्वलोकैरिति भावः ।
एवमप्रस्तुतप्रशंसां प्रसङ्गतो निरूप्य प्रकृतमेव यन्निरूपणीयं तदुप संहरति--तस्मादिति ।
अप्रस्तुतप्रशंसायामपि लावण्येत्यत्र श्लोके यस्माद्य्वामोहो लोक्स्य दृष्टस्ततो हेतोरित्यर्थः ॥ 40 ॥
एवं व्यङ्ग्यस्वरूपं निरूप्य सर्वथा यत्तच्छून्यं तत्र का वार्तेति निरूपयितुमाह--प्रधानेत्यादिना ।
कारिकाद्वयेन ।
शब्दचित्रमिति ।
यमकचक्रबन्धादिचित्रतया बालप्रिया ग्रन्थे पाठः ।
वाच्यार्थ इत्यादिग्रन्थं तात्पर्यतो विवृणोति लोचने--वाच्यभावनियमो नास्तीति ।
वाच्यार्थस्य सम्भवनियमो नास्तीत्यर्थः ।
नास्तीति न शक्यं वक्तुमिति ।
वाच्यार्थो न भम्भवतीति वक्तुं च न शक्यमित्यर्थः ।
भावात् सत्त्वात् ।
व्यङ्ग्यमर्थमाह--न तथेत्यादि ।
फलेत्यादेः पुत्रसहोदरादिरहिताया इति ।
वृतिमित्यस्य रक्षामिति च व्यङ्ग्यमर्थमभिसन्धायाह--एवंभूतापीत्यादि ।
एवं भूतापि अकुलीना लावण्यादिगुणरहिता च भवन्त्यपि ।
परिरक्ष्यत इति ।
जनेनेति शेषः ।
इयं तु पुत्रादिरहिता च अतो ऽस्या रक्षां कुर्वंस्त्वं परिहासास्पदं भविष्यसीत्यर्थः ।

छायां दर्शयन्नाह--बदर्या इत्यादि ।
तस्मादित्यनेन विवक्षितं हेतुं विवृणोति--अप्रस्तुतप्रशंसायामपीत्यादि ॥ 40 ॥
पूर्वोत्तरग्रन्थयोः सङ्गतिं दर्शयन्नुत्तरग्रन्थमवतारयति--एवमित्याति ।
तच्छून्यमिति ।
व्यङ्ग्यशून्यमित्यर्थः ।
का वार्तेति ।
को व्यवहार इत्यर्थः ।
कारिकाद्वयेनाहेत्यन्वयः ।
विभागप्रदर्शनमात्रेण सिद्धे शब्दचित्रं वाच्यचित्रमिति समशीर्षिकया व्यङ्ग्यस्यार्थस्य प्राधान्ये ध्वनिसंज्ञितकाव्यप्रकारः गुणभागे तु गुणीभूतव्यङ्ग्यता ।
ततो ऽन्यद्रसभावादितात्पर्यरहितं व्यङ्ग्यार्थविशेषप्रकाशनशक्तिशून्यं च काव्यं केवलवाच्यवाचकवैचित्र्यमात्राश्रयेणोपनिबद्धमालेख्यप्रख्यं यदाभासते तच्चित्रम् ।
न तन्मुख्यङ्काव्यम् ।
काव्यानुकारो ह्यसौ ।
तत्र किञ्चिच्छब्दचित्रं यथा दुष्करयमकादि ।
वाच्यचित्रं ततः शब्दचित्रादन्यद्व्यङ्ग्यार्थसंस्पर्शरहितं प्राधान्येन वाक्यर्थतया स्थितं रसादितात्पर्यरहितमुत्प्रेक्षादि ।
अथ किमिदं चित्रं नाम? यत्र न प्रतीयमानार्थसंस्पर्शः ।
प्रतीयमानो ह्यर्थस्त्रिभेदः प्राक्प्रदर्शितः ।
तत्र यत्र वस्त्वलङ्गारान्तरं वा व्यङ्ग्यं नास्ति स नाम चित्रस्य कल्पयतां विषयः ।
यत्र तु रसादीनामवलिषयत्वं स काव्यप्रकारो न सम्भवत्येव ।
यस्मादवस्तुसंस्पर्शिता काव्यस्य नोपपद्यते ।
वस्तु च सर्वमेव जगद्गतमवश्यं कस्यचिद्रसस्य भावस्य वाङ्ग्त्वं प्रतिपद्यते अन्ततो विभावत्वेन ।
चित्तवृत्तिविशेषा हि रसादयः, न च तदस्ति वस्तु किञ्चिद्यन्न चित्तवृत्तिविशेषमुपजनयति तदनुत्पादने वा लोचनम् प्रसिद्धमेव तत्तुल्यमेवार्थचित्रं मन्तव्यमिति भावः ।
आलेख्यप्रख्यमिति ।
रसादिजीवरहितं मुख्यप्रतिकृतिरूपं चेत्यर्थः ।
अथ किमिदमिति आक्षेपे वक्ष्यमाण आशयः ।
अत्रोत्तरम्--यत्र नेति ।
आक्षेप्ता स्वाभिप्रायं दर्शयति--प्रतीयमान इति ।
अवस्तुसंस्पर्शितेति ।
कचटतपादिवन्निर्थकत्वं दशदाडिमादिवदसंबद्धार्थत्वं वेत्यर्थः ।
बालप्रिया संज्ञाकरणस्याभिप्रायमाह--यमकेत्यादि ।
बन्धादीति भिन्नं पदम् ।
प्रसिद्धमेवेति ।
यमकादेरक्षरसन्निवेशविशेषरूपत्वात्तस्य चित्रत्वमलङ्कारविद्भिर्न्निश्चितमेवेत्यर्थः ।
किन्निबन्धनमालेख्यप्रख्यत्वमित्त आह--रसादीति ।
मुख्येत्यादि ।
गुणालङ्कारकृतसौन्दर्यशालित्वेन ध्वनेरनुकृतिरूपं चेत्यर्थः ।
किमिदमित्याक्षेपे हेतुं दर्शयति--वक्ष्यमाण इति ।
अवस्तुसंस्पर्शितेत्येतद्द्वेधा विवृणोति--कचटतपादीत्यादि ।
माभूदिति ।
ध्वनिगुणीभूतव्यङ्ग्ययोरेव कविविषयत्वौचित्यादिति भावः ।
भावं विवृणोति--काव्येत्यादि ।

न निर्दिष्ट इति ।
न तन्मुख्यं काव्यं काव्यानुकारो ह्यसाविति वचनादिति भावः ।
असाविति ।
चित्रविषय इत्यर्थः ।
कविविषयतैव तस्य न स्यात् कविविषयश्च चित्रतया कश्चिन्निरूप्यते ।
अत्रोच्यते--सत्यं न तादृक्काव्यप्रकारो ऽस्ति यत्र रासादीनामप्रतीतिः ।
किं तु यदा रसभावादिविवक्षाशून्यः कविः शब्दालङ्कारमर्थालङ्कारं वोपनिबध्नाति तदा तद्विवक्षापेक्षया रसादिशून्यतार्थस्य परिकल्प्यते ।
विवक्षोपारूढ एव हि काव्ये शब्दानामर्थः ।
वाच्यसामर्थ्यवशेन च कविविवक्षाविरहे ऽपि तथाविधे विषये रसादिप्रतीतिर्भवन्ती परिदुर्बला लोचनम् ननु मा भूत्कविविषय इत्याशङ्क्याह--कविविषयश्चेति ।
काव्यरूपतया यद्यपि न निर्दिष्टस्तथापि कविगोचरीकृत एवासौ वक्तव्यः अन्यस्य वासुकिवृत्तान्ततुल्यस्येहाभिधानायोगात् कवेश्चेद्गोचरा नूनममुना प्रीतिर्जनयितव्या सा चावश्यं विभावानुभाव्यभिचारिपर्यवसायनीति भावः किं त्विति ।
विवक्षा तत्परत्वेन नाङ्गित्वेन कथञ्चन ।
इत्यदिर्यो ऽलङ्कारनिवेशने समीक्षाप्रकार उक्तस्तं यदा नानुसरतीत्यर्थः ।
रसादिशून्यतेति ।
नैव तत्र रसप्रतीतिरस्ति यथा पाकानभिज्ञसूदविरचते मांसपाकविशेषे ।
ननु वस्तुसौन्दर्यादवश्यं भवति कदाचित्तथास्वादो ऽकुशलकृतायामपि शिखरिण्यामिवेत्याशङ्क्याह--वाच्येत्यादि ।
अनेनापीति ।
पूर्वं सर्वथा तच्छून्यत्वमुक्तमधुना बालप्रिया अन्यस्येति ।
कविगोचरीकृतादन्यस्येत्यर्थः ।
वासुकिवृत्तान्ततुल्यस्येति ।
अप्रकृतस्येत्यर्थः ।
नन्वस्तु कविगोचरत्वं किमतस्तत्राह--कवेश्चेत्यादि ।
यथोक्तम्-- स्वभावश्चायमर्थानां यन्न साक्षादमी तथा ।
स्वदन्ते सत्कविगिरां गता गोचरतां यथा ॥
इति ।
नन्वस्तु प्रीतिजनकत्वं, तथापि कथं रसादिशून्यत्वाभाव इत्यत आह--सा चेत्यादि ।
काव्यजन्यस्य प्रीतिविशेषस्य नियमेन रसास्वादैकनिबन्धनत्वादिति भावः ।
ऽकिन्त्विऽत्यादिग्रन्थस्य भावं विवृणोति--विवक्षेत्यादि ।
यदा नानुसरतीति ।
तदनुसारेणालङ्कारोपनिबन्ध एवालङ्काराणां रसाङ्गत्वमिति भावः ।
सदृष्टन्तं भावमाह--नैवेत्यादि ।
तत्रेति ।
समीक्षाप्रकारो य उक्तस्तदनुसरणं विनालङ्कारोपनिबन्धस्थल इत्यर्थः ।
रसप्रतीतिरिति ।
रसशब्देन शृङ्गारादिर्मधुरादिश्च रसो विवक्षितः ।
तथास्वाद इति ।
रसास्वाद इत्यर्थः ।
शिखरिण्यामिवेति ।
शिखरिणी नामदध्यादिमिश्रो भक्ष्यविशेषः ।
ऽअनेनापीऽत्यपिशब्दार्थमाह--पूर्वभित्यादि ।
तच्छून्यत्वम् रसशून्यत्वम् ।

दौर्बल्यमिति ।
रसास्वादस्येति शेषः ।
भवतीत्यनेनाप प्रकारेण नीरसत्वं परिकल्प्य चित्रविषयो व्यवस्थाप्यते ।
तदिदमुक्तम्--- ऽरसभावादिविषयविवक्षाविरहे सति ।
अलङ्कारनिबन्धो यः स चित्रविषयो मतः ॥
रसादिषु विवक्षा तु स्यात्तात्पर्यवती यदा ।
तदा नास्त्येव तत्काव्यं ध्वनेर्यत्र न गोचरः ॥
ऽ एतच्च चित्रं कवीनां विशृङ्खलगिरां रसादितात्पर्यमनपेक्ष्यैव काव्यप्रवृत्तिदर्शनादस्माभिः परिकल्पितम् ।
इदानीन्तनानां तु न्याय्ये काव्यनय व्यवस्थापने क्रियमाणे नास्त्येव ध्वनिव्यतिरिक्तः काव्यप्रकारः ।
यतः परिपाकवतां कवीनां रसादितात्पर्यविरहे व्यापार एव नशोभते ।
रसादितात्पर्ये च नास्त्येव तद्वस्तु यदभिमतरसाङ्गतां नीयमानं न प्रगुणीभवत ।
अचेतना अपि हि भावा यथायथमुचितरसविभावतया चेतनवृत्तान्तयोजनया वा न सन्त्येव ते ये यान्ति न रसाङ्गताम् ।
तथा चेदमुच्चेते--- लोचनम् तु दौर्बल्यमित्यपिशब्दस्यार्थः ।
अज्ञकृतायां च शिखरिण्यामहो खिखरिणीति न तज्ज्ञानाच्चमत्कारः अपि तु दधिगुडमरिचं चैतदसमञ्जसयोजितमिति वक्तारो भवन्ति ।
उक्तमिति ।
मयैवेत्यर्थः ।
अलङ्काराणां शब्दार्थगतानां निबन्ध इत्यर्थः ।
ननु ऽतच्चित्रमभिधीयतेऽ इति किमनेनोपदिष्टेन ।
अकाव्यरूपं हि तदिति कथितम् ।
हेयतया तदुपदिश्यत इति चेत्--घटे कृते कविर्न भवतत्येतदपि वक्तव्यमित्याशङ्क्य कविभिः खलु तत्कृतमतो हेयतयोपदिश्यत इत्येतन्निरूपयति--एतच्चेत्यादिना ।
परिपाकवतामिति ।
शब्दार्थविषयो रसौचित्यलक्षणः परिपाको विद्यते योषाम् ।
बालप्रिया इति वक्तारो भवन्तीत्यनेन रसास्वादस्य दौर्बल्यं दर्शितम् ।
उक्तमित्यनेनान्योक्तत्वं दर्शितमिति भ्रमं वारयति--मयैवेति ।
वृत्तिकारेण मयैवेत्यर्थः ।
अकाव्यरूपमित्यादि ।
तदकाव्यरूपमिति कथितं हीत्यन्वयः ।
तदित्यस्य चित्रमित्यर्थः ।
मध्ये शङ्कते--हेयतयेत्यादि ।
हेयतया त्याज्यतया ।
तत् चित्रम् ।
प्रतिवक्ति--घट इत्यादि ।
तत्कृतमिति ।
चित्रकाव्यं कृतमस्तीत्यर्थः ।
ननु-- यत्पदानि त्यजन्त्येव परिवृत्तिसहिण्णुताम् ।
अपारे काव्यसंसारे कविरेकः प्रजापतिः ।
यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥
शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् ।
स एव वीतरागश्चेन्नीरसं सर्वमेव तत् ॥
भावानचेतनानपि चेतनवच्चेतनानचेतनवत् ।

व्यवहारयति यथेष्ट सुकविः काव्ये स्वतन्त्रतया ॥
तस्मान्नास्त्येव तद्वस्तु यत्सर्वात्मना रसतात्पर्यवतः कवेस्तदिच्छया तदभिमतरसाङ्गतां न धत्ते ।
तथोपनिबध्यमानं वा न चारुत्वातिशयं लोचनम् यत्पदानि त्यजन्त्येव परिवृत्तिसहिण्णुताम् ।
इत्यापि रसौचित्यशरणमेव वक्तव्यमन्यथा निर्हेतुकं तत् ।
अपार इति ।
अनाद्यन्त इत्यर्थः ।
यथारुचि परिवृत्तिमाह--शृङ्गारीति ।
शृङ्गारोक्तविभावानुभावव्यभिचारिचर्वणारूपप्रतीतिमयो न तु स्त्रीव्यसनीति मन्तव्यम् ।
अत एव भरतमुनिः--ऽकवेरन्तर्गतं भावंऽ ऽकाव्यार्थान् भावयतिऽ इत्यादिषु कविशब्दमेव ।
मूर्धाभिषिक्ततया प्रयुङ्क्ते ।
निरूपितं चैतद्रसस्वरूपनिर्णयावसरे ।
जगदिति ।
तद्रसनिमज्जनादित्यर्थः ।
बालप्रिया तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते ॥
इत्यनेन पाकलक्षणमन्यदेवोक्तमित्यत आह--यत्पदानीत्यादि ।
न तु स्त्रीव्यसनीति ।
शृङ्गारिपदार्थ इति शेषः ।
व्यसनमासक्तिः ।
शृङ्गारीत्याद्युक्तार्थे उपष्टम्भकमाह--अत एवेत्यादि ।
कवेरिति ।
वागङ्गमुखरागेण सत्त्वेनाभिनयेन च ।
कवेरन्तर्गतं भावं भावयन् भाव उच्यते ॥
इति श्लोकः, काव्यार्थानित्यादिवाक्यं च नाट्यशास्त्रे सप्तमाध्याये वर्तेते ।
वागङ्गमुखरागात्मना अभिनयेन सत्वलक्षणेन चाभिनयेन करणेन ।
कवेः वर्णनानिपुणस्य यो ऽन्तर्गतो ऽनादिप्रक्तनसंस्कारप्रतिभानमयो देशकालादिभेदाभावात्सर्वसाधारणीभावेनास्वादयोग्यश्चित्तवृत्तिलक्षणो भावस्तम् ।
भावयन्नास्वदयोग्यीकुर्वन् ।
काव्यार्थानित ।
कोः कवतेर्वा कवनीयं काव्यं तत्र च पदार्थवाक्यार्थौ रसेष्वेवं पर्यवस्यत इत्यसाधारण्यात्प्राधान्यच्च काव्यस्यार्था रसाः अर्थ्यन्ते प्रधान्येनेत्यर्था, इति चाभिनवभारत्यां विवृतम् ।
कथं जगतो रसमयत्वमित्यत आह--तद्रसेत्यादि ।
रसोपलक्षणमिति ।
पुण्णाति ।
सर्वमेतच्च माहकवीनां काव्येषु दृश्यते ।
अस्माभिरपि स्वेषु काव्यप्रबन्धेषु यथायथं दर्शितमेव ।
स्थिते चैवं सर्व एव काव्यप्रकारो न ध्वनिधर्मतामतिपतति रसाद्यपेक्षायां कवेर्गुणीभूतव्यङ्ग्यलक्षणो ऽपि प्रकारस्तदङ्गतामवलम्बत इत्युक्तं प्राक् ।
यदा तु चाटुषु देवतास्तुतिषु वा रसादीनामङ्गतया व्यवस्थानं हृदयवतीषु च सप्रज्ञकगाथासु कासुचिद्य्वङ्ग्यविशिष्टवाच्ये प्राधान्यं तदपि गुणीभूतव्यङ्ग्यस्य ध्वनिनिष्पन्दभूतत्वेमेवेत्युक्तं प्राक् ।
तदेवमिदार्नीन्तनकविकाव्यनयोपदेशे क्रियमाणे प्राथमिकानामभ्यासार्थिनां यदि परं चित्रेण व्यवहारः, प्राप्तपरिणतीनां तु लोचनम् शृङ्गारपदं रसोपलक्षणम् ।
स एवेति ।
यावद्रसिको न भवति तदा परिदृश्यमानो ऽप्ययं भाववर्गो यद्यपि सुखदुःखमोहमाध्यस्थ्यमात्रं लौकिकं वितरति, तथापि कविवर्णनोपारोहं विना लोकातिक्रान्तरसास्वादभूवं नाधिशेत इत्यर्थः ।
चारुत्वातिशयं यन्न पुष्णाति तन्नास्त्येवेति संबन्धः ।
स्वेष्विति ।

विषमबाणलीलादिष्टु ।
हृदयवतीष्विति ।
ऽहिअअललिआऽ इति प्राकृतकविगोष्ठ्यां प्रसिद्धासु ।
लङ्घिअगअणा फलहीलआओ होन्तुत्ति वढ्ढअन्तीअ ।
हालि अस्स आसिसं पालिवेसवतुआ विणिठ्ठविआ ॥
बालप्रिया रससामान्योपलक्षकमित्यर्थः ।
वीतरागश्चेदित्यादिकं विवृणोति--यावद्रसिको न भवतीत्यादि ।
सुखेति ।
मध्ये तिष्ठतीति मध्यस्थः तस्य भावो माध्यस्थ्यं सुखदुःखमोहानां यन्माध्यस्थ्यं तदेकानुभवं तन्मात्रमित्यर्थः ।
मात्रपदेन रसास्वादव्यवच्छेदः ।
वितरतीति ।
भाववर्गस्य त्रिगुणात्मकत्वादिति भावः ।
हृदयवतीष्वित्यस्य विवरणम्--
हिअअललिआ इत्यादि ।
त्रिवर्गेति ।
त्रिवर्गस्य धर्मादित्रयस्य य उपायः, स एवोपेयो ज्ञातव्यस्तत्र कुशलास्वित्यर्थ- ।
लङ्घिअ इति ।
लङ्घितगगनाः कार्पासलता भवन्तीति वर्धयन्त्या ।
हालिकस्याशिषं प्रतिवेश्यबधुका निर्वापिता ॥
इतिच्छाया ।
हे हालिक! कार्पासलताः त्वदुपजीवनभूताः कार्पासस्तम्बाः ।
लङ्घितगगनाः अत्युच्चाः ।
भवन्तु इति हालिकस्याशिषं वर्धयन्त्या पुनः पुनः कुर्वत्या कयाचित् ।
प्रातीति ।
प्रातिवेशिनी वधूरित्यर्थः ।
निर्वापिता निर्वृतिं प्रापिता ।
कार्पासलतानां परिपोषे तत्स्थले निश्शङ्कं हालिकेन सह रमणं भविष्यतीति बद्धथा निर्वृतिरित्यनेन तच्चौर्यसम्भोगाभिलाषो वध्वा व्यज्यते, तच्च गुणीभूतम्; तदेतद्य्वाचष्टे--अत्रेत्यादि ।
ध्वनिरेव काव्यमिति स्थितमेतत् ।
तदयमत्र संग्रहः--- यस्मिन् रसो वा भावो वा तात्पर्येण प्रकाशते ।
संवृत्त्याभिहितौ वस्तु यत्रालङ्कार एव वा ॥
काव्याध्वनि ध्वनिर्व्यङ्ग्यप्राधान्यैकनिबन्धनः ।
लोचनम् अत्र गोदावरीकच्छलतागहने भरेण जम्बूफलेषु पच्यमानेषु ।
हालिकवधूः परिधत्ते जम्बूफलरसरक्तं निवसनमिति त्वरितयौर्यसंभोगसंभाव्यमानजम्बूफलरसरक्तत्वपरभागनिह्नवनं गुणीभूतव्यङ्ग्यमित्यलं बहुना ।
ध्वनिरेव काव्यमिति ।
आत्मात्मिनोरभेद एव वस्तुतो व्युत्पत्तये तु विभागः बालप्रिया प्रातिवेश्यिको निर्वृतिं प्रापित इति च लोचने पाठः ।
सो ऽपि साधुः ।
तदनुसारेण गाथा छाया च पठनीया ।
अत्र पक्षे सङ्केतस्थानार्थिनं स्वानुरक्तं प्रातिवेश्यिकं तत्सम्भोगाभिलाषिणी काचिद्यदृच्छया दृष्टं हालिकं प्रत्येवमाशीर्वादेन सङ्केतस्थानं ज्ञापितवतीति तत्सम्मोगाभिलाषो व्यङ्ग्यो बोध्यः ।
गोलाकच्छेति ।
गोदाकच्छनिकुञ्जे भरेण जम्बूषूपच्यमाना ।

सुहालिकवधूर्नियच्छति जम्बूरसरक्तं सिचयम् ॥
इति च्छाया ।
भरेणेत्यस्यातिशयेनेत्यर्थः ।
लोचने ऽगोदेऽत्यादेः गोदावरीत्यादिविवरमं बोध्यम् ।
गुणीभूतं व्यङ्ग्यं दर्शयति---त्वरितेत्यादि ।
त्वरितः पतितजम्बूफले निकुञ्चदेशे सिचयास्तरणे त्वरया कृतो यश्चौर्यसम्भोगस्तेन सम्भाव्यमानः समुत्पाद्यमास्तद्धेतुकतया तर्क्यमाणो वा यो जम्बूफलरसरक्तत्वेन परभागः सिच्यस्य तत्तद्भागे वर्णान्तरप्राप्तिः तस्य निह्नवनं गोपनेच्छेत्यर्थः ।
गुणीभूतव्यङ्ग्यमिति ।
सर्वावयवावच्छेदेन जम्बूफलरसरक्तस्य सिचयस्य परिधानेन तन्निह्नवनं गम्यते, तत्तु वाच्यार्थे गुणीभूतमित्यर्थः ।
ननु ध्वनिकाव्ययोरात्मशरीरस्थानीययोर्भेदाद्वृत्तौ ऽ ध्वनिरेव काव्यम्ऽ इति सामानाधिकरण्येन निर्देशो ऽनुपपन्न इत्यत आह--आत्मात्मिनोरित्यादि ।
आत्मी देहः ।
व्युत्पत्तये शिष्यजनव्युत्पादनाय ।
विभाग इति ।
ध्वनिः काव्यस्यात्मा सर्वत्र तत्र विषयी ज्ञेयः सहृदयैर्जनैः ॥
सगुणीभूत-व्यङ्ग्यैः सालङ्कारैः सह प्रभेदैः स्वैः ।
सङ्कर-संसृष्टिभ्यां पुनर् अप्य् उद्द्योतते बहुधा
सगुणीभूतव्यङ्ग्यैः सालङ्कारैः सह प्रभेदः स्वैः ।
सङ्करसंसृष्टिभ्यां पुनरप्युद्द्योतते बहुधा ॥ 43 ॥
तस्य च ध्वनेः स्वप्रभेदैर्गुणीभूतव्यङ्ग्येन वाच्यालङ्कारैश्च सङ्करसंसृष्टिव्यवस्थायां क्रियमाणायां बहुप्रभेदता लक्ष्ये दृश्यते ।
तथाहि स्वप्रभेदसङ्कीर्णः स्वप्रभेदसंसृष्टो गुणीभूतव्यङ्ग्यसङ्कीर्णो गुणीभूतव्यङ्ग्यसंसृष्टो वाच्यालङ्कारान्तरसङ्कीर्णो वाच्यालङ्कारान्तरसंसृष्टः संसृष्टालङ्कारसङ्कीर्णः संसृष्टालङ्कारसंसृष्टश्चेति बहुधा ध्वनिः प्रकाशते ।
लोचनम् कृत इत्यर्थः ।
वाग्रहणात्तदाभासादेः पूर्वोक्तस्य ग्रहणम् ।
संवृत्येति ।
गोप्यमानतयालब्धसौन्दर्य त्यर्थः ।
काव्याद्ध्वनीति ।
काव्यमार्गे ।
विषयीति ।
स त्रिविधस्य ध्वनेः काव्यमार्गो विषय इत यावत् ॥ 41॥
,42 ॥
एवं श्लोकद्व्येन संग्रहार्थमभिधाय बहुप्रकारत्वप्रदर्शिकां पठति--सगुणीत ।
सहगुणीभूतव्यङ्ग्येन सहालङ्कारैर्ये वर्तन्ते स्वे ध्वनेः प्रभेदास्तैः संकीर्णतया संसृष्ट्या वानन्तप्रकारो ध्वनिरित तात्पर्यम् ।
बहुप्रकारतां दर्शयति--तथाहीति ।
स्वेभेदैर्गुणीभूतव्यङ्ग्येनालङ्कारैः प्रकाश्यत इति त्रयो भेदाः ।
तत्रापि प्रत्येकं संकरेण संसृष्ट्या चेत षट् ।
संकरस्यापि त्रयः प्रकाराः अनुग्राह्यनुग्राहकभावेन संदेहास्पदत्वेनैकपदानुप्रवेशेनेति द्वादश भेदाः ।
पूर्वं च ये पञ्चत्रिंशद्भेदा उक्तास्ते गुणीभूतव्यङ्ग्यस्यापि बालप्रिया शब्दार्थमयं काव्यं शरीरमिति विभाग इत्यर्थः ।
वाग्रहणादिति ।
भावो वेति वाकारादित्यर्थः ।
संवृत्त्याभिहितावत्यस्य विवरणम्--गोप्यमानतया लब्धसोन्दर्य इति ।
ध्वनेर्विषयत्वोक्त्या काव्यमार्गस्य विषयत्वं लब्धमित्याशयेनाह--स त्रिविधस्येत्यादि ।
ऽयस्मिन्निऽत्यादौ ।

यस्मिन् काव्याध्वनि ।
प्रकाशते सर्वत्र तत्र व्यङ्ग्यप्राधान्यैकनिबन्धनो ध्वनिः विषयी सन् सहृदयैर्जनैर्जेय इत्यन्वयः ॥ 41॥
,42 ॥
कारिकां व्याचष्टे---सहेत्यादि ।
उद्यातत इत्यत्र ध्वनिरिति शेष इति भावः ।
सगुणीभूतव्यङ्ग्यैस्सालङ्कारैस्स्वप्रभेदैः सह सङ्करसंसृष्ट्योरुक्त्या प्रत्येकं तैस्त्रिभिस्सह ते लभ्येते इत्याशयेन विभागान् दर्शयति--स्वप्रभेदैरित्यादि ।
प्रकाश्यत इति सम्मिश्न्यत इति च पाठः ।
द्वादशेति ।
स्वप्रभेदादिभिस्त्रिभिः सह सङ्करकृता नव, संसृष्टिकृतास्त्रय इति द्वादशेत्यर्थः ।
पूर्वं च ये पञ्चत्रिंशद्भेदा उक्ता इति ।
द्वितीयोद्योतावसान ऽएवं ध्वनेः प्रभेदान् प्रतिपाद्येऽति वृत्तिग्रन्थव्याख्यानावसरे ये पञ्चत्रिशद्भेदाः तत्र स्वप्रभेदसङ्कीर्णत्वं कदाचिदनुग्राह्यानुग्राहकभावेन ।
यथा--ऽएवंवादिनि देवर्षौऽ इत्यादौ ।
अत्र ह्यर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यध्वनिप्रभेदेनालक्ष्यक्रमव्यङ्ग्यध्वनिप्रभेदो ऽनुगृह्यमाणः प्रतीयते ।
एवं कदाचित्प्रभेदद्वयसम्पातसन्देहेन ।
यथा--
खणपाहुणिआ देअर एसा जाआएं किंपि दे भणिदा ।
रुऐ पडोहरवलहीधरम्मि अणुणिज्जौ वरारि ॥
लोचनम् मन्तव्याः ।
स्वप्रभेदास्तावन्तो ऽलङ्कार इत्येकसप्ततिः ।
तत्र संकरत्रयेण संसृष्ट्या च गुणने द्वे शते चतुरशीत्यधिके ।
तावता पञ्चत्रिंशतो मुख्यभेदानां गुणने सप्तसहस्त्राणि चत्वारि शतानि विशत्यधिकानि भवन्ति ।
अलङ्कारणामानन्त्यात्वसंख्यत्वम् ।
तत्रा व्युत्पत्तये कतिपयभेदेषूदाहरणानि दित्सुः स्वप्रभेदानां कारिकायामन्यपदार्थत्वेन प्रधानतयोक्तत्वात्तदाश्रयाण्येव चत्वार्युदाहरणान्याह--तत्रेति ।
अनुगृह्यमाण इति ।
लज्जया हि प्रतीतया ।
अभिलाषशृङ्गारो ऽत्रानुगृह्यते व्यभिचारिभूतत्वेन ।
क्षण उत्सवस्तत्र निमन्त्रणेनानीता हे देवर! एषा ते जायया किमपि भणिता रोदिति ।
पडोहरे शून्ये वलभीगृहे अनुनीयतां वराकी ।
सा तावद्देवरानुरक्ता तज्जायया विदितवृत्तान्तया किमप्युक्तेत्येषोक्तिस्तद्वृत्तान्तं बालप्रिया स्वयं प्रतिपादिता इत्यर्थः ।
ते इति ।
पञ्चत्रिंशद्भेदा इत्यर्थः ।
स्वप्रभेदा इति ।
ध्वनेरवान्तरभेदा इत्यर्थः ।
तावन्त इति ।
पञ्चत्रिंशदित्यर्थः ।
अलङ्कार इति ।
अलङ्कारत्वावच्छिन्न इत्यर्थः ।
ततत्रेत्यादि ।
एकसप्ततेश्चतुर्भिर्गुणन इत्यर्थः ।
द्वे शते चतुरशीत्यधिके इत्यस्यानन्तरं ऽतावता पञ्चत्रिशतो मुख्यभेदानां गुणने सप्तसहस्राणि चत्वारि विंशत्यधिकानि भवन्तीति पाठो बहुषु ग्रन्थेषु दृश्यते, तदर्थः सङ्गतो न भाति, विद्वद्भिर्न्निश्चेतव्यः ।

असंख्यत्वमिति ।
अतो ऽलङ्कारत्वावच्छि एक एव ग्राह्य इति भाव- ।
अन्यपदार्थत्वेनेति ।
सगुणीभूतेत्यादिबहुव्रीहिद्वयान्यपदार्थत्वेनेत्यर्थः ।
अत्र ह्यर्थशक्तीत्यादिवृत्युक्तं विवृणोति--लज्जयेत्यादि ।
व्यभिवारिभूतत्वेनेति ।
लज्जायाश्शृङ्गारव्यभिचारित्वेन हेतुनेत्यर्थः ।
उत्सव इति ।
उत्सवो ऽयं देवरसम्बन्धी बोध्यः ।
प्राधुणिकेत्यस्याम्यागतेति वाच्यार्थः ।
तद्भावार्थकथनम्---निमन्त्रणेनानीतेति ।
अनेनानुनयनस्यावश्यकत्वं द्योत्यते ।
देवरेत्यादिच्छायाप्रदर्शनम् ।
किमपीति ।
अनुचितमित्यर्थ- ।
यतो रोदति अतो वराकी दीना ।
सा त्वया अनुनीयतामिति सम्बन्धः ।
गाथामिमामवतारणपूर्वकं व्याचष्टे--सेत्यादि ।
सेति ।
या क्षणप्राधुणिकाभूत्सा नायिकेत्यर्थः ।
(क्षणप्राधुणिका देवर एषा जायया किमपि ते भणिता ।
रोदिति शून्यवलभीगृहे ऽनुनीयतां वराकी ॥
इति च्छाया) ।
अत्र ह्यनुनीयतामित्येतत्पदमर्थान्तरसङ्क्रमितवाच्यत्वेन विवक्षितान्यपरवाच्यत्वेन च सम्भाव्यते ।
न चान्यतरपक्षनिर्णये प्रमाणमस्ति ।
एकव्यञ्जकानुप्रवेशेन तु व्यङ्ग्यत्वमलक्ष्यक्रमव्यङ्ग्यस्य स्वप्रभेदान्तरापेक्षया लोचनम् दृष्टवत्या अन्यस्यास्तद्देवरचौरकामिन्याः ।
तत्र तव गृहण्यायं वृत्तान्तो ज्ञात इत्युभयतः कलहायितुमिच्छन्त्येवमाह ।
तत्रार्थान्तरे संभोगेनैकान्तोचितेन परितोष्यतामित्येवंरूपे वाच्यस्य संक्रमणम् ।
यदि वा त्वं तावदेतस्यामेवानुरक्त इतीर्ष्याकोपतात्पर्यादनुनयनमन्यपरं विवक्षितम् ।
एषा तदेवानीमुचितमगर्हणीयं प्रेमास्पदमित्यनुनयो विवक्षितः, वयं त्विदानीं गर्हणीयाः संवृत्ता इत्येतत्परतया उभयथापि च स्वाभिप्रायप्रकाशनादेकतरनिश्चये प्रमाणाभाव इत्युक्तम् ।
विवक्षितस्य हि स्वरूपस्थस्यैवान्यपरत्वम्, बालप्रिया देवरेति ।
तस्या देवरो भर्तुर्भ्रता तस्मिन्ननुरक्तेत्यर्थः ।
विदितेति ।
विदितो वृत्तान्तस्तस्या देवरस्य च परस्परानुरागादिर्यया तयेत्यर्थः ।
तद्वृत्तान्तमिति ।
तज्जायावचनादिवृत्तान्तमित्यर्थः ।
कामिन्या इत्येषोक्तिरित्यन्वयः ।
जायया किमपि भणितेति रोदनहेतुप्रदर्शनमात्रं न तत्कथनस्य फलान्तरमप्यस्तीत्याह--तत्रेत्यादि ।
तद्वचने ।
तत्र इत्येवमाहेति सम्बन्धः ।

सेति शेषः ।
उभयतः कलहायितुमिति ।
तद्देवरस्य तज्जायायाश्च मिथः कलहमुत्पादयितुमित्यर्थः ।
वृत्तावुक्तं सन्देहसङ्करं विवृणोति--तत्रेत्यादि ।
तत्र तथावचने ।
इत्येवंरूपे अर्थान्तर इति सम्बन्धः ।
वाच्यस्य अनुनयतिवाच्यार्थस्य ।
सङ्क्रमणमिति ।
विवक्षितमित्यस्यापकर्षः ।
प्रियभाषणादिः परितोषजनको व्यापारस्तत्वेनानुनयतेर्वाच्यार्थः, स चात्र सम्भोगत्वेन रूपेण लक्ष्यो विवक्षित इत्यर्थः ।
तस्यां तवानुरागो मया ज्ञात इत्यादिरर्थश्चात्र व्यङ्ग्यो बोध्यः ।
एतस्यामेवेति ।
देवर तस्यामेवेति च पाठः ।
या रोदिति तस्यामेवेत्यर्थः ।
इतीति हेतौर् ।
इर्ष्येति ।
वक्तृकामिनीगतयोरीर्ष्याकोपयोस्तात्पर्यादित्यर्थः ।
अनुनयनमिति ।
अनुनयति वाच्यार्थ इत्यर्थः ।
अन्यपरमितिर् ।
इर्ष्याकोपव्यग्यपरमित्यर्थः ।
उक्तमुपपदयति--एषेत्यादि ।
इत्येतत्परतया विवक्षितमिति सम्बन्ध- ।
उभयथापीति ।
अनुनयति वाच्यस्यार्थान्तरसङ्क्रमणपक्षे अन्यपरत्वेन विवक्षितत्वपक्षे चेत्यर्थः ।
स्वभिप्रायेति ।
वक्तृकामिनीगताभिलाषेत्यर्थः ।
उक्तमिति ।
वृत्तिकृतेति शेषः ।
प्रसङ्गादाह--विवक्षितस्येत्यादि ।
बाहुल्येन सम्भवति ।
यथा--ऽस्निग्धश्यामलऽ इत्यादौ ।
स्वप्रभेदसंसृष्टत्वं च यथा पूर्वोदाहरण एव ।
अत्र ह्यर्थान्तरसंक्रमितवाच्यस्यात्यन्ततिरस्कृतवाच्यस्य च संसर्गः ।
गुणीभूतव्यङ्ग्य सङ्कीर्णत्वं यथा--ऽन्यक्कारो ह्ययमेव मे यदरयःऽ इत्यादौ ।
यथा वा-- कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सो ऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः ।
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्कास्ते दुर्योधनो ऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः ॥
लोचनम् संक्रान्तिस्तु तस्यैतद्रूपतापत्तिः ।
यदि वा देवरानुरक्ताया एव तं देवरमन्यया सहावलोकितसंभोगवृतान्तं प्रतीयमुक्तिः, देवरेत्यामन्त्रणात् ।
पूर्वव्याख्याने तु तदपेक्षया देवरेत्यामन्त्रणं व्याख्यातम् ।

बाहुल्येनेति ।
सर्वत्र काव्ये रसादितात्पर्यं तावदस्ति तत्र रसध्वनेर्भावध्वनेश्चैकेन व्यञ्जकेनाभिव्यञ्जनं स्निग्धश्यामलेत्यत्र विप्रलम्भशृङ्गारस्य तद्व्यभिचारिणश्च शोकावेगात्मनश्चर्वणीयत्वात् ।
एवं त्रिविधं संकरं व्याख्याय संसृष्टिमुदाहरति--स्वप्रभेदेति ।
अत्र हीति ।
लिप्तशब्दादौ तिरस्कृतो वाच्यः, रामादौ तु संक्रान्त इत्यर्थः ।
एवं स्वप्रभेदं प्रति चतुर्भेदानुदाहृत्य गुणीभूतव्यङ्ग्यं प्रत्युदाहरति--गुणीभूतेति ।
बालप्रिया स्वरूपस्थस्य वाच्यस्य ।
तस्य वाच्यस्य ।
एतद्रूपतापत्तिः विवक्षितरूपान्तरप्राप्तिः ।
देवरानुरक्ताया इति ।
स्वस्य यो देवरस्तदनुरक्ताया इत्यर्थः ।
सहेत्यस्य सम्भोगेत्यनेन सम्बन्धः ।
उक्तार्थे गमकमाह--देवरेत्यादि ।
तदपेक्षयेति ।
या प्राधुणिकाभूत्तदपेक्षयेत्यर्थः ।
तन्निरूपितं देवरत्वं बोध्यमित्यर्थः ।
गाथेयं काव्यप्रकाशे ऽप्युदाहृता ।
बाहुल्येन सम्भवतीत्येतदुपपादयति--सर्वत्रेत्यादि ।
चर्वणीयत्वादभिव्यञ्जनमिति सम्बन्धः ।
लिप्तशब्दादावित्यादि ।
ऽस्नग्धश्यामलकान्तिलिप्तवियतऽइत्यत्र द्रवद्रव्यस्य सर्वावयवावच्छेदेन यः संयोगस्तदात्मकस्य लेपस्य वाच्यार्थस्य बाधाल्लिपिधातुः सम्पर्कं लक्षयंस्तदतिशयं द्योतयति ।
एवं पयोदास्सुहृदो येषामित्यत्र वाच्यार्थस्य बाधात्सुहृत्पदमुपकारित्वेन रूपेण लक्षयत्तदतिशयं व्यनक्तीत्यर्थः ।
रामादाविति ।
रामादिपद इत्यर्थः ।
वाच्य इत्यनुषज्यते ।
सङ्कान्त इति ।
यथासङ्क्रान्तिस्तथा द्वितीयोद्योते उक्तम् ।
रामादावित्यादिपदेन ऽन्यक्कारऽ इत्यादिस्थरावणादिपदसंग्रहः ।
ऽकर्तेऽत्यादिश्लोको वेणीसंहारस्थः ।
अत्र ह्यलक्ष्यक्रमव्यङ्ग्यस्य वाक्यार्थीभूतस्य व्यङ्ग्यविशिष्टवाच्याभिधायिभिः पदैः सम्मिश्रता ।
अत एव च पदार्थाश्रयत्वे गुणीभूतव्यङ्ग्यस्य वाक्यार्थाश्रयत्वे च ध्वनेः सङ्कीर्णतायामपि न विरोधः स्वप्रभेदान्तरवत् ।
लोचनम् अत्र हीत्युदाहरणद्वये ऽपि ।
अलक्ष्यक्रमव्यङ्ग्यस्येति ।
रौद्रस्य व्यङ्ग्यविशिष्टेत्यनेन गुणता व्यङ्ग्यस्योक्ताः ।
पदैरित्युपलक्षणे तृतीया ।
तेन तदुपलक्षिता यो ऽर्थो व्यङ्ग्यगुणीभावेन वर्तते तेन संमिश्रता संकीर्मता ।
सा चानुग्राह्यानुग्राहकभावेन संदेहयोगेनैकव्यञ्जकानुप्रवेशेन चेति यथासंभवमुदाहरणद्वये योज्या ।
तथा हि-मे यदरय इत्यादिभि- सर्वैरेव पदार्थौः कर्तेत्यादिभिश्च विभावादिरूपतया रौद्र एवानुगृह्यते ।
कर्तेत्यादौ च प्रतिपदं प्रत्यवान्तरवाक्यं प्रतिसमासं च व्यङ्ग्यमुत्प्रेक्षितुं शक्यमेवेति न लिखितम् ।
पाण्डवा यस्य दासा इति तदीयोक्त्यनुकारः ।

तत्र गुणीभूतव्यङ्ग्यतापि योजयितुं शक्या, वाच्यस्यैव क्रोधोद्दीपकत्वात् ।
दासैश्च कृतकृत्यैः स्वाम्यवश्यं द्रष्टव्य इत्यर्थशक्त्यनुरणनरूपतापि ।
उभयथापि चारुत्वादेकपक्षग्रहे प्रमाणाभावः ।
एकव्यञ्जकानुप्रवेशस्तु तैरेव पदैः गुणीभूतव्य व्यङ्ग्यस्य प्रधानीभूतस्य चरसस्य विभावादिद्वारतयाभिव्यञ्जनात् ।
बालप्रिया वृत्तावत्रेत्यस्य कर्तेत्युदाहरणमात्रपरामर्शकत्वभ्रमवारणाय विवृणोति---उदादरणद्वये ऽपीति ।
रौद्रस्येति ।
न्यक्कार इत्यादौ रावणगतस्य कर्तेत्यादौ भीमसेनगतस्य च क्रोधस्य प्रतीतेरिति भावः ।
व्यङ्ग्यविशिष्टेत्यनेनेति ।
व्यङ्ग्यवैशिष्ट्यकथनेनेत्यर्थः ।
गुणतेति ।
वाच्यार्थं प्रतीति शेषः ।
उक्ता दर्शिता ।
पदैस्सम्मिश्रतेत्यस्य यथाश्रुतार्थस्य बाधाद्व्याचष्टे--पदरित्युपलक्षणे तृतीयेति ।
तदैरिति तृतीयार्थो ज्ञाप्यत्वमित्यर्थः ।
तमेवार्थं दर्शयति--तदुपलक्षितेति ।
केन सम्मिश्रतेत्यत्राह--यो ऽर्थ इत्यादि ।
यो ऽर्थः वाच्यार्थः ।
तेनेति ।
गुणीभूतव्यङ्ग्येन वाच्येनेत्यर्थ- ।
सा चेति ।
सङ्कीर्णतेत्यर्थः ।
तृतीयान्तत्रयस्यानेन सम्बन्धः ।
कर्तेत्यादिभिश्चेति ।
पदार्थैरित्यनुषङ्गः ।
ननु न्यक्कारेत्यादौ व्यङ्ग्यार्थाः पूर्वं व्याख्याताः ।
कर्तेत्यादौ तु ते किं न सन्तीत्यत आह--कर्तेत्यादाविति ।
तदीयोक्तीति ।
पाण्डवा मम दासा इति दुर्योधनोक्तीत्यर्थः ।
रौद्र एवानुगृह्यत इत्यनेनानुग्राह्यानुग्राहकभावेन सङ्करं प्रदर्श्य सन्देहयोगेन तं दर्शयति--तत्रेत्यादि ।
पाण्डवगतापकर्षादिकं बोध्यम् ।
इत्यर्थेत्यादि ।
उक्तं यदर्थशक्तिमूलं व्यङ्ग्यं तद्रूपतीऽपीत्यर्थः ।
योजयितुं शक्तेत्यनुषङ्गः ।
अभयथापीत्यादि ।
तथा च गुणीभूतव्यङ्ग्यस्य ध्वनेश्च सन्देहसङ्कर इति भावः ।
तैरिति ।
मे यदरय इत्यादिभिरित्यर्थः ।
विभावादिद्वारतया रसस्य चाभिव्यञ्जनादिति सम्बन्धः ।
अत एवेत्येतद्व्याख्याया त एवेत्यादि न यथाहि ध्वनिप्रभेदान्तराणि परस्परं सङ्कीर्यन्ते पदार्थवाक्यार्थाश्रयत्वेन च न विरुद्धानि ।
किं चैकव्यङ्ग्याश्रयत्वे तु प्रधानगुणभावो विरुध्यते न तु व्यङ्ग्यभेदापेक्षया ततो ऽप्यस्य न विरोधः ।

अयं च सङ्करसंसृष्टिव्यवहारो बहूनामेकत्र वाच्यवाचकभाव इव व्यङ्ग्यव्यञ्जकभावे ऽपि निर्विरोध एव मन्तव्यः ।
यत्र तु पदानि कानिचिदविवक्षितवाच्यानुरमनरूपव्यङ्ग्यवाच्यानि वा तत्र ध्वनिगुणीभूतव्यङ्ग्ययोः संसृष्टत्वम् ।
यथा--ऽतेषां गोपवधूविलाससुहृदाम्ऽ इत्यादौ ।
अत्र हि ऽविलाससुहृदाऽ ऽराधारहःसाक्षिणाम्ऽ इत्येते पदे ध्वनिप्रभेदरूपे ऽतेऽ ऽजानेऽ इत्येते च पदे गुणीभूतव्यङ्ग्यरूपे ।
लोचनम् अत एव चेति ।
यतो ऽत्र लक्ष्ये दृश्यते तत इत्यर्थः ।
ननु व्यङ्ग्यं गुणीभूतं प्रधानं चेति विरुद्धमेव तद्दृश्यमानमप्युक्तत्वान्न श्रद्धेयमित्याशङ्क्य व्यञ्जकभेदात्तावन्न विरोध इति दर्शयति--अत एवेति ।
स्वेति ।
स्वप्रभेदान्तराणि संकीर्णतया पूर्वमुदाहृतानीत तान्येव दृष्टान्तयति ।
तदेव व्याचष्टे--यथाहीति ।
तथात्रापीत्यध्याहारो ऽत्र कर्तव्यः ।
ऽतथा हिऽ इति वा पाठः ।
ननु व्यञ्जकभेदात्प्रथमभेदयोः परिहारो ऽस्तु एकव्यञ्जकानुप्रवेशे तु किं वक्तव्यमित्याशङ्क्य पारमार्थिकं परिहारमाह--किञ्चेतिः ततो ऽपीति ।
यतो ऽन्यद्व्यङ्ग्यं गुणीभूतमन्यच्च प्रधानमिति को विरोधः ।
ननु वाच्यालङ्कारविषये श्रुतो ऽयं संकरादिव्यवहारो न तु व्यङ्ग्यविषय इत्याशङ्क्याह--अयं चेति ।
मन्तव्य इति ।
मननेन प्रतीत्या तथा निश्चेयः उभयत्रापि प्रतीतेरेव शरणत्वादिति भावः ।
एवं गुणीभूतव्यङ्ग्यसंकरभेदास्त्रीनुदाहृत्य संसृष्टिमुदाहरति--यत्र तु पदानीति ।
कानिचिदित्यनेन बालप्रिया विरोध इत्यन्तं ग्रन्थमवतारयति--नन्वित्यादि ।
दृश्यमानमिति ।
लक्ष्य इति शेषः ।
स्वेति ।
दृष्टान्तयतीति सम्बन्धः ।
स्वप्रभेदान्तरवदित्यनेन दृष्टान्तं दर्शयतीत्यर्थः ।
प्रथमभेदयोरिति ।
अनुग्राह्यानुग्राहकभावेन सन्देहयोगेन च यौ सङ्करौ तयोरित्यर्थः ।
किं वक्तव्यमिति ।
किं कर्तव्यमिति ।
च पाठः ।
व्यञ्जकभेदाभावादिति भावः ।
भावमाह--यतो ऽन्तदित्यादि ।
मन्तव्य इत्येतत् प्रकृतानुगुणतया व्याचष्टे--मननेनेत्यादि ।
प्रतीत्या सहृदयप्रतीत्या ।
इत्यनेनेति ।
कानिचिदविवक्षितवाच्यानि कानिचिदनुरणनरूपव्यङ्ग्यवाच्यानीत्युक्त्येत्यर्थः ।
सुहृदित्यादि ।
मुख्यार्थयोः वाच्यालङ्कारसङ्कीर्णत्वमलक्ष्यक्रमव्यङ्ग्यापेक्षया रसवति सालङ्कारे काव्ये सर्वत्र सुव्यवस्थितम् ।
प्रभेदान्तराणामपि कदाचित्सङ्कीर्णत्वं भवत्येव ।
यथा ममैव-- लोचनम् संकरावकाशं निराकरोति ।
सुहृच्छब्देन साक्षिशब्देन चाविवक्षितवाच्यो ध्वनिः ऽतेऽ इतिपदेनासाधारणगुणगणो ऽभिव्यक्तो ऽपि गुणत्वमवलम्बते, वाच्यस्यैव स्मरणस्य प्राधान्येन चारुत्वहेतुत्वात् ।

ऽजानेऽ इत्यनेनोत्प्रेक्ष्यमाणानन्तधर्मव्यञ्जकेनापि वाच्यमेवोत्प्रेक्षणरूपं प्रधानीक्रियते ।
एवं गुणीभूतव्यङ्ग्ये ऽपि चत्वारो भेदा उदाहृताः ।
अधुनालङ्कारगतांस्तान्दर्शयति--वाच्यालङ्कारेति ।
व्यङ्ग्यत्वे त्वलङ्कारणामुक्तभेदाष्टक एवान्तर्भाव इति वाच्यशब्दस्याशयः ।
काव्य इति ।
एवंविधमेव हि काव्यं भवति ।
सुव्यवस्थितमिति ।
ऽविवक्षा तत्परत्वेनऽ इति द्वितीयोद्द्योतमूलोदाहरणेभ्यः संकरत्रयं संसृष्टिश्च लभ्यत एव ।
ऽचलापाङ्गां दृष्टिम्ऽ इत्यत्र हि रूपकव्यतिरेकस्य प्राग्व्याख्यातस्य शृङ्गारानुग्राहकत्वं स्वभावोक्तेः शृङ्गारस्य चैकानुप्रवेशः ।
ऽउप्पह जायाऽ इति गाथायां पामरस्वभावोक्तिर्वा ध्वनिर्वेति प्रकरणाद्यभावे एकतरग्राहकं प्रमाणं नास्ति ।
यद्यप्यलङ्कारो रसमवश्यमनुगृह्णाति, तथापि ऽनाति निर्वहणैषिताऽ इति यदभिप्रायेणोक्तं तत्र सङ्कारासम्भवात्संसृष्टिरेवालङ्कारेम रसध्वनेः ।
यथा--ऽबाहुलतिकापाशेन बद्ध्वा दृढम्ऽ इत्यत्र ।
प्रभेदान्तराणामपीति ।
रसादिध्वनिव्यतिरिक्तानाम् ।
बालप्रिया सुहृत्वसाक्षित्वयोरचेतनेषु लतावेश्मसु बाधात्सुहृत्पदमुपकारित्वेन साक्षिपदमासन्नत्वेन रूपेण च लक्षयति ।
उपकारादिगतातिशयो व्यङ्ग्यश्चेत्यनयोः पदयोर्ध्वनिरित्यर्थः ।
पदेनाभिव्यक्त इति सम्बन्धः ।
गुणत्वमिति ।
वाच्यं प्रतीत शेषः ।
वाच्यालङ्कारसङ्कीर्णत्वमित्यत्रालङ्कारे वाच्यत्वविशेषणस्य फलं दर्शयति--व्यङ्ग्यत्व इत्यादि ।
उक्तभेदाष्टक इति ।
सङ्करसंसृष्टिकृतभेदाष्टक इत्यर्थः ।
एवंविधमिति ।
रसवत्सालङ्कारं चेत्यर्थः ।
सुव्यवस्थितत्वं दर्शयति--विवक्षेत्यादि ।
शृङ्गारानुग्राहकत्वमिति ।
शृङ्गारेण सहानुग्राह्यनुग्राहकभाव इत्यर्थः ।
नायकान्तरगततत्तच्चेष्टादर्शनस्य रत्युद्दीपकत्वादिति भावः ।
इति गाथायामिति ।
पूर्वोदाहृतायामिति शेषः ।
प्रकरणाद्यभाव इति निमित्ते सप्तमी ।
एवं त्रिविधस्य वाच्यालङ्कारसङ्करस्योदाहरणं प्रदर्श्य, तत्संसृष्टेर्विषयमुदाहरणं च दर्शयिष्यन्नाह--यद्यपीत्यादि ।
यदभिप्रायेणेत ।
अनुग्राहकत्वाभावाभिप्रायेणेत्यर्थः ।
इत्यत्रेति ।
अत्र हि रूपकेण रसस्य संसृष्टिरेवेत्यर्थः ।
वक्ष्यमाणोपपात्यर्थमाह--निष्पादनेत्यादि ।
व्यापारवतीत्यादीनि पदानि विवृणोति--तत्रेत्यादिना ।
या व्यापारवती रसान् रसयितुं काचत्कवीनां नवा दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती ।
लोचनम् व्यापारवतीत ।

निष्पादनप्राणो हि रस इत्युक्तम् ।
तत्र विभावादियोजनात्मिकावर्णना, ततः प्रभृति घटनापर्यन्ता क्रिया व्यापारः, तेन सततयुक्ता ।
रसानिति ।
रस्यमानतासारान् स्थायिभावान् रसयितुं रस्यमानतापत्तियोग्यान् कर्तुम् ।
काचिदिति लोकवार्तापतितबोधावस्थात्यागेनोन्मीलन्ती ।
अत एव ते कवयः वर्णनायोगात् तेषाम् ।
नवेति ।
क्षणेक्षणे नूतनैर्नूतनैर्वैचित्र्यैर्जगन्त्यासूत्रयन्ती ।
दृष्टिरिति ।
प्रतिभारूपा, तत्र दृष्टिश्चाक्षुषं ज्ञानं षाडवादि रसयतीति विरोधालङ्कारो ऽत एव नवा ।
तदनुगृहीतश्च ध्वनिः, तथाहि चाक्षुषं ज्ञानं नाविवक्षितमत्यन्तमसम्भवा भावात् ।
न चान्यपरम्; अपि त्वर्थान्तरे ऐन्द्रियकविज्ञानाभ्यासोल्लसिते प्रतिभानलक्षणे ऽर्थे संक्रान्तम् ।
संक्रमणे च विरोधो ऽनुग्राहक एव ।
तद्वक्ष्यति--ऽविरोधालङ्कारेणऽ इत्यादिना ।
बालप्रिया विभावादीत ।
विभावानुभावद्यर्थेत्यर्थः ।
घटनेति ।
तत्तत्पदसङ्घटनेत्यर्थः ।
क्रियेत ।
तत्तदनुसन्धानात्मिका मनःक्रियेत्यर्थः ।
नित्ययोगे बतुबित्याह--तेनेत्यादि ।
युक्तत्वं जन्यजनकभावसम्बन्धेन बोध्यम् ।
रसानित्यस्य वाच्यार्थविवरणम्--रस्यमानतासारानिति ।
रसपदेन प्रकृते विवक्षितमाह--स्थायिभावानिति ।
लोकयात्रापतितबोधेति ।
लौकिकतत्तद्वस्तुविषयकज्ञानेत्यर्थः ।
अत एवेति ।
दृष्ट्युन्मीलनादेवेत्यर्थः ।
कविपदयोगार्थमाह--वणेनायोगादिति ।
आसूत्रयन्ती प्रकाशयन्ती ।
वक्ष्यमाणं सङ्क्रमणं मनसि कृत्याह--प्रतिभारूपेति ।
अत्र दृष्टिश्चाक्षुवज्ञानम् ।
रसान् रसयितुं षाडबादिपेयद्रव्याणि मधुरादिरसयुक्तानि कर्तुम् यद्वा--षाडबादिगतमधुरादिरसानास्वादयितुं व्यापारवतीति विरुद्धार्थस्य प्रतीत्या विरोधाभासालङ्कार इत्याह--तत्र दृष्टिरित्यादि ।
विरोधद्योतकमाह--अत एवेत्यादि ।
नवेति विरोधद्योतकमिति भावः ।
ध्वनिः दृष्टिरित्तयर्थान्तरसङ्क्रमितवाच्यध्वनिः ।
नाविवक्षितमत्यन्तमिति ।
अत्यन्ततिरस्कृतं नेत्यर्थः ।
असम्भवाभावादिति ।
कविगतस्य चन्द्रोद्यानादिचाक्षुषज्ञानस्यापि रसनिष्पादनोपयोगित्वादिति भावः ।

न चान्यपरमिति ।
व्यङ्ग्यपरं विवक्षितं च नेत्यर्थः ।
अपितु प्रतिभानलक्षणे अर्थान्तरे सङ्क्रान्तमिति ।
दृष्टिपदमत्र प्रतिभात्वेन रूपेण ज्ञानं लक्षयतीत्यर्थः ।
प्रतिभानस्यातस्फुटत्वादिकमत्र व्यङ्ग्यम् ।
मुख्यार्थसम्बन्धं दर्शयितुमाह--ऐन्द्रियकेत्यादि ।
ऐन्द्रियकं विज्ञानं लौकिकतत्तद्विषयकचाक्षुषज्ञानं तस्याभ्यास आवृत्तिः तेनोल्लसिते प्रकाशिते इत्यर्थः ।
उक्तमर्थं वृत्त्या सङ्गमयति--तद्वक्ष्यतीत्यादि ।
ते द्वे अप्यवलम्ब्य विश्वमनिश निर्वर्णयन्तो वयं श्रान्ता नैव च लब्धमब्धिशयन त्वद्भक्तितुल्यं सुखम् ॥
लोचनम् या चैवंविधा दृष्टिः परिनिष्टितो ऽचलः अर्थविषये निश्चेतव्ये विषये उन्मेषो यस्याः ।
तथा परिनिष्ठिते लोकप्रसिद्धे ऽर्थे न तु कविवदपूर्वस्मिन्नर्थे उन्मेषो यस्याः सा ।
विपश्चितामियं वैपश्चिती ।
ते अवलम्ब्येति ।
कवीनामिति वैपश्चितीति वचनेन नाहं कविर्न पण्डित इत्यात्मनो ऽनौद्धत्यं ध्वन्यते ।
अनात्मीयमपि दरिद्रगृह इवोपकरणतयान्यत आहृतमेतन्मया दृष्टिद्वयमित्यर्थः ।
ते द्वे अपीति ।
न ह्येकया दृष्ट्या सम्यङ्निर्वर्णनं निर्वहति ।
विश्वमित्यशेषम् ।
अनिशमिति ।
पुनः पुनरनवरतम् ।
निर्वर्णयन्तो वर्णनया, तथा निश्चितार्थं वर्णयन्तः इदमित्थमिति परामर्शनुमानादिनानिर्भज्य निर्वर्णनं किमत्र सारं स्यादिति तिलशस्तिलशो विचयनम् ।
यच्च निर्वर्ण्यते तत्खलु मध्ये व्यापार्यमाणया मध्ये चार्थविशेषु निश्चितोन्मेषया निश्चलया दृष्ट्या सम्यङ्निर्वर्णितं भवति ।
वयमिति ।
मिथ्यातत्वदृष्ट्याहरणव्यसनिन इत्यर्थः ।
श्रान्ता इति ।
न केवलं सारं न लब्धं यावत्प्रत्युत खेदः प्राप्त इति भावः ।
चशब्दस्तुशब्दस्यार्थे ।
अब्धिशयनेति ।
योगनिद्रया त्वमत एव सारस्वरूपवेदी स्वरूपावस्थित इत्यर्थः ।
श्रान्तस्य शयनस्थितं प्रति बहुमानो भवति ।
त्वद्भक्तीति ।
त्वमेव परमात्मस्वरूपोविश्वसारस्तस्य भक्तिः श्रद्धादिपूर्वक उपासनाक्रमजस्तदावेशस्तेन बालप्रिया अर्थविषय इत्यस्यार्थमाह--निश्चेतव्य इत्यादि ।
अन्यथापि व्याचष्टे--तथेत्यादि ।
ते अवलम्ब्येत्यनेन ध्वनितमर्थमुक्त्वा तद्वाच्यार्थमाह--अनात्मीयमित्यादि ।
गृह इवेति ।
अविद्यमानं मण्डनादिकमिति शेषः ।
द्वे अपीत्युक्तेः फलमाह--न हीत्यादि ।
अनिशमित्यस्यार्थद्वयमाह--पुनरित्यादि ।
कविदृष्ट्यवलम्बनेन निर्वर्णनं द्वेधा विवृणोति--निर्वर्णयन्तो वर्णनयेति ।
तथेत्यादीति च ।

वर्णनया निर्वर्णयन्तो वीक्षमाणाः ।
विपश्चिद्दृष्ट्यवलम्बनेन निर्वर्णनं व्याख्याति--इदमित्थमित्यादि ।
निर्भज्य निर्वर्णनमेव स्फुटयति--किमत्रेत्यादि ।
दृष्टिद्वयालम्बनेन निर्वर्णनस्य फलम्--न ह्येकयेत्यादि ।
पूर्वोक्तमेव विशदयति--यच्चेत्यादि ।
वयमित्यस्य भावार्थमाह--मिथ्येत्यादि ।
मिथ्यादृष्टिः कविदृष्टिः तत्वदृष्टिः विपश्चिद्दृष्टिः, तयोराहभावार्थमाह--मिथ्येत्यादि ।
मिथ्यादृष्टिः कविदृष्टिः तत्वदृष्टिः विपश्चिद्दृष्टिः तयोराणे व्यसनिनस्तात्पर्यवन्त इत्यर्थः ।
तुशब्दस्यार्थ इति ।
विशेषरूपार्थबोधक इत्यर्थः ।
अब्धिशयनेत्यस्य गम्यार्थमाह--योगनिद्रयेत्यादि ।
अत एवेति ।
त्वद्भक्तितुल्यस्य सुखस्याभावादेवेत्यर्थः ।
सारेति ।
विश्वसारभूतं यत्स्वस्वरूपं तद्वेदीत्यर्थः ।
व्यङ्ग्यान्तरं च दर्शयति--आन्तस्येत्यादि ।
तदावेश इति ।
तद्विषयकप्रेमातिशय इत्यर्थः ।
यद्वा--अन्तःकरणवृत्तेस्तदाकाराकारितत्वमित्यर्थः ।
भक्तेः स्वरूपं इत्यत्र विरोधालङ्कारेणार्थान्तरसंक्रमितवाच्यस्य ध्वनिप्रभेदस्य सङ्कीर्णत्वम् ।
वाच्यालङ्कारसंसृष्टत्वं च पदापेक्षयैव ।
यत्र हि कानिचित्पदानि लोचनम् तुल्यमपि न लब्धमास्तां तावत्तज्जातीयम् ।
एवं प्रथममेव परमेश्वरभक्तिभाजः कुतूहलमात्रावलम्बितकविप्रामाणिकोभयवृत्तेः पुनरपि परमेश्वरभक्तिविश्रान्तिरेव युक्तेति मन्वानस्येयमुक्तिः ।
सकलप्रमाणपरिनिश्चितद्ष्टादृष्टविषयविशेषजं यत्सुखं, यदपि वा लोकोत्तरं रसचर्वणात्मकं तत उभयतो ऽपि परमेश्वरविश्रान्त्यानन्दः प्रकृष्यते तदानन्दविप्रुण्मात्रावभासो हि रसास्वाद इत्युक्तं प्रागस्माभिः ।
लौकिकं तु सुखं ततो ऽपि निकृष्टप्रायं बहुतरदुःखानुषङ्गादिति तात्पर्यम् ।
तत्रैव दृष्टिशब्दापेक्षयैकपदानुप्रवेशः ।
दृष्टिमवलम्ब्य निर्वर्णनमिति विरोधालङ्कारो वाश्रीयताम्, अन्धपदन्यासेन दृष्टिशब्दो ऽत्यन्ततिरस्कृतवाच्यो वास्तु इत्येकतरनिश्चये नास्ति प्रमाणम्, प्रकारद्वयेनापि हृद्यत्वात् ।
न च पूर्वत्राप्येवं वाच्यम् ।
नवाशब्देन शब्दशक्त्यनुरणनतया विरोधस्य सर्वथावलम्बनात् ।
एवं सङ्करं त्रिविधमुदाहृत्य संसृष्टिमुदाहरति--वाच्येति ।
सकलवाक्ये हि यद्यलङ्कारो ऽपि व्यङ्ग्यार्थो ऽपि व्यङ्ग्यार्थो ऽपि प्रधानं तदानुग्राह्यनुग्राहकत्वसङ्करस्तदभावे त्वसङ्गतिरित्यलङ्कारेण बालप्रिया तस्य परमानन्दरूपत्वं च भक्तिरसायनादिग्रन्थेषु प्रदर्शितम् ।
श्लोकस्यास्यावतारिकामाह--एवमित्यादि ।
एवमियमुक्तिरिति सम्बन्धः ।
श्लोकस्यास्य पार्यन्तिकं तात्पर्यार्थमाह--सकलेत्यादि ।
वृत्तौ सङ्कीर्णत्वमित्यनेनानुग्राह्यानुग्राहकभावेन सङ्करः एकपदानुप्रवेशशङ्करश्च विवक्षित इति दर्शयति--तत्रेत्यादि ।
तत्रैव उक्तश्लोक एव ।
एकपदानुप्रवेश इति ।
विरोधालङ्कारेण सहार्थान्तरसङ्क्रमितवाच्यस्य ध्वनेरिति शेष- ।
सन्देहसङ्करमप्यत्र दर्शयति--दृष्टिमवलम्ब्येत्यादि ।
विरोधालङ्कारो वेति ।

ते अवलम्ब्य निर्वर्णयन्त इत्यत्र ते इति तत्पदेन दृष्टिपदवाच्यार्थस्य दर्शनस्य परामर्शे दर्शनमवलम्ब्य पश्यन्त इति विरुद्धार्थस्य प्रतीत्या विरोधालङ्कारो वेत्यर्थः ।
वक्ष्यमाणमर्थमादायात्र विरोधपरिहारः ।
अन्धेत्यादि ।
निःश्वासान्ध इत्यादावन्धादिपदेनेवात्यन्ततिरस्कृतवाच्येन दृष्टिपदेन लक्ष्यस्य प्रतिभारूपार्थस्य परामर्शे ऽत्यन्ततिरस्कृतवाच्यो ध्वनिर्वेत्यर्थः ।
पूर्वत्रापीति ।
या दृष्टिः रसान् रसयितुं व्यापारवतीत्यत्रापीत्यर्थः ।
एवमिति ।
सन्देहसङ्कर इत्यर्थः ।
नवेत्यादि ।
नवाशब्देनावलम्बनादिति सम्बन्धः ।
नवेति शब्देन द्योतनादित्यर्थः ।
शब्दशक्त्यनुरणनतयेति विशेषणे तृतीया ।
उदाहरतीति ।
दर्शयतीत्यर्थः ।
सकलवाक्य इति ।
सम्पूर्णवाक्य इत्यर्थः ।
वाच्यालङ्कारभाञ्जि कानिचिच्च ध्वनिप्रभेदयुक्तनि ।
यथा-- दीर्धीकुर्वन् पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्त्रीकषायः ।
लोचनम् वा ध्वनिना वा पर्यायेण द्वाभ्यामपि वा युगपत्पदविश्रान्ताभ्यां भाव्यमिति त्रयो भेदाः ।
एतद्गर्भीकृत्य सावधारणमाह--पदापेक्षयैवेति ।
यत्रानुग्राह्यानुग्राहकभावं प्रत्याशङ्कापि नावतरति तं तृतीयमेव प्रकारमुदाहर्तुमुपक्रमते--यत्र हीति ।
यस्माद्यत्र कानिचिदलङ्कारभाञ्जि कानिचिद्ध्वनियुक्तानि, यथा दीर्धीकुर्वन्नित्यत्रेति ।
तथाविधपदापेक्षयैव वाच्यालङ्कारसंसृष्टत्वमित्यावृत्या पूर्वग्रन्थेन सम्बन्धः कर्तव्यः ।
अत्र हीति ।
अत्रत्यो हिशब्दो मैत्रीपदमित्यस्यानन्तरं योज्य इति ग्रन्थ सङ्गतिः ।
दीर्घीकुर्वन्निति ।
सिप्रावातेन हि दूरमप्यसौ शब्दो नीयते, तथा सुकुमारपवनस्पर्शजातहर्षाः चिरं कूजन्ति, तत्कूजितं च वातान्दोलितसिप्रातरङ्गजमधुरशब्दमिश्रं भवतीति दीर्घत्वम् ।
पट्विति ।
तथासौ सुकुमारो वायुर्येन तज्जः शब्दः सारसकूजितमपि नाभिभवति प्रत्युत तत्सब्रह्मचारी तदेव दीपयति ।
न च दीपनं तदीयमनुपयोगि यतस्तन्मदेन कलं मधुरमाकर्णनीयम् ।
प्रत्यूषेष्विति ।
प्रभातस्य तथाविधसेवावसरत्वम् ।
बहुवचनं सदैव तत्रैषा हृद्यतेति निरूपयति ।
स्फुटितान्यन्तर्वर्तमानमकरन्दभरेण ।
बालप्रिया तदभाव इति ।
तत्सङ्कराभाव इत्यर्थः ।
पर्यायेणेति ।
पदविश्रान्तेन भाव्यमिति शेषः ।
तृतीयमेवेति ।
द्वाभ्यामपि युगपत् पदविश्रान्ताभ्यां भाव्यमित्युक्तमेवेत्यर्थः. ऽयत्रेऽत्यादिवाक्यं सङ्गमयति--यस्मादित्यादि ।

मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc