ध्वन्यालोक (टीका सहित) · भाग 481500
यथा दीपकोपमयोः ।
तत्र दीपकमुपमागर्भत्वेन प्रसिद्धम् ।
उपमापि कदाचिद्दीपकच्छायानुयायिनी ।
यथा मालोपमा ।
तथा हि ऽप्रभामहत्या शिखयेव दीपःऽ इत्यादौ स्फुटैव दीपकच्छाया लक्ष्यते ।
लोचनम् इष्टा निदर्शनेऽति ।
उदाहरणम्-- अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति ।
उदयः पतनायेति श्रीमतो बोधयन्नरान् ॥
प्रयोलङ्कारेति ।
चाटुपर्यवसायित्वात्तस्याः ।
सा चोदाहृतैव द्वितीयोद्द्योते ऽस्माभिः ।
उपमागर्भत्व इत्यपमाशब्देन सर्व एव तद्विशेषा रूपकादयः, अथववौपम्यं सर्वसामान्यमिति तेन सर्वमाक्षिप्तमेव ।
स्फुटैवेति ।
ऽतया स पूतश्च विभूषितश्चऽ इत्येतेन दीपस्थानीयेन दीपनाद्दीपकमत्रानुप्रविष्टं प्रतीयमानतया, साधारणधर्माभिधानं बालप्रिया हरणञ्च भामहीयम् ।
यियासति यातुमारभते ।
यथात्रोपमाया व्यङ्ग्यत्वं तथा कुवलयानन्दादौ स्पष्टम् ।
वृत्तौ ऽगुणीभूतव्यङ्ग्यस्यैव विषयाऽ इति ।
गम्यमानधर्मस्य वाच्यसिद्ध्यङ्ग्त्वादिति भावः ।
ऽतत्वव्यवस्थानादिऽति ।
समासोक्तित्वादिव्यवस्थितेरित्यर्थः ।
ऽगुणीभूतव्यङ्ग्यतेऽति ।
वाच्यार्थोपस्कारकत्वादिति भावः ।
प्रेयोलङ्कारगर्भत्वे हेतुमाह लोचने--चाट्विति ।
सा चेति ।
व्याजस्तुतिश्चेत्यर्थः ।
केषाञ्चदलङ्कारमात्रगर्भतायामित्यत्रालङ्कारमात्रशब्देनालङ्कारसामान्याभिधानात्पुनरुपमागर्भत्व इति तद्विशेषाभिधानं व्याहतमित्यत आह--उपमाशब्देनेत्यादि ।
तद्विशेषाः उपमाविशेषाः ।
"उपमैव तिरोभूतभेदा रूपकमिष्यत" इत्यादिवचनादिति भावः ।
रूपकादय इति ।
विवक्षिता इति शेषः ।
उपमाशब्दो ऽत्रोपमालङ्कारस्य न वाचकः किन्त्वौपम्यस्येत्याह--अथवेत्यादि ।
सर्वसामान्यमिति ।
उपमारूपकादिसर्वसाधारणमित्यर्थः ।
कथम्मालोपमायान्दीपकच्छायावगम इत्यत उपपादयति--तयेत्यादि ।
दीपस्थानीयेन दीपनादिति ।
अनेन दीप इवेति दीपयतीति वा दीपकशब्दव्युत्पत्तिर्दर्शिता ।
स्पष्टमिदं कुवलयानन्दे ।
प्रतीयमानतया दीपकमत्रानु प्रविष्टमिति सम्बन्धः ।
प्रतीयमानतया व्यङ्ग्यतया ।
अत्र मालोपमास्थले ऽप्रभामहत्येऽत्यादौ ।
तदेवं व्यङ्ग्यांशसंस्पर्शे संति चारुत्वातिशययोगिनो रूपकादयो ऽलङ्काराः सर्व एव गुणीभूतव्यङ्ग्यस्य मार्गः ।
गुणीभूतव्यङ्ग्यत्वं च तेषां तथाजातीयानां सर्वेषामेवोक्तानुक्तानां सामान्यम् ।
तल्लक्षणे सर्व एवैते लोचनम् ह्येतदुपमायां स्पष्टेनाभिधाप्रकारेणैव ।
तथाजातीयानामिति ।
चारुत्वातिशयवतामित्यर्थः ।
सुलक्षिता इति यत्किलैषां तद्विनिर्मुक्तं रूपं न तत्काव्ये ऽभ्यर्थनीयम् ।
उपमा हि ऽयथा गौस्तथा गवयःऽ इति ।
रूपकं ऽखलेवाली यूपऽ इति ।
श्लेषः ऽद्विर्वचने ऽचीऽति तन्त्रात्मकः ।
यथासंख्यं ऽतुदीशालातुरेऽति ।
दीपकं ऽगामश्वम्ऽ इति ।
ससन्देहः ऽस्थाणुर्वा स्यात्ऽ इति ।
अपह्नुतिः ऽनेदं रजतम्ऽ इति ।
पर्यायोक्तं ऽपौनो दिवानात्तिऽ इति ।
तुल्ययोगिता ऽस्थाध्वोरिच्चऽ इति ।
अप्रस्तुतप्रशंसा सर्वाणि ज्ञापकानि यथा पदसंज्ञायामन्तवचनम्--ऽअन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नऽ इति ।
आक्षेपश्चोभयत्र विभाषासु विकल्पात्मकविशेषाभिधित्सया इष्टस्यापि विधेः पूर्वं निषेधनात्प्रतिषेधेन बालप्रिया अत्र हेतुन्दर्शयन्नाह---साधारणेत्यादि ।
एतदुपमायामिति ।
मालोपमायामित्यर्थः ।
अभिधाप्रकारेण अभिधाव्यापारेण ।
एवकारेण व्यञ्जनस्य व्यवच्छेदः ।
अयमर्थः---अत्रोपमायामपेक्षितो धर्मः पूतत्वादिस्तयेत्यादिना स्पष्टमभिधीयते, न पुनर्दीपकाभिप्रायेण दीपस्थानीयो ऽर्थः ।
प्रभामहत्या शिखया दीप इव तया ।
स पूतश्चेत्यादिवाक्यार्थत्रयस्य बोधो ह्यादौ जायते, तदुत्तरन्तु पूतत्वविभूषितत्वयोर्दीपाद्युपमानत्रयहिमवदुपमेयात्मकानेकानुगमो ऽवगम्यत इति दीपकमत्र व्यङ्ग्यतयानुप्रविष्टमिति ।
मालोपमातिरिक्तोपात्तधर्मकोपमास्थले तु धर्मस्योभयत्र सम्बन्धः स्पष्टमभिधीयत इति न दीपकस्य व्यङ्ग्यतयानुप्रवेश इति मालोपमेत्युक्तम् ।
ऽतथाजातीनाऽमित्यत्र जातिशब्दः प्रकृते चारुत्वातिशययोगित्वरूपोपाधिवचन इत्याह--चारुत्वेति ।
नन्वन्य एव गुणीभूतव्यङ्ग्यप्रकारः, अन्ये चोपमादयो ऽलङ्कारास्तत्कथं गुणीभूतव्यङ्ग्यलक्षणे कृते तेषां लक्षितत्वसिद्धिरित्यतो ऽभिप्रायमुद्भेदयन्नाह--यत्किलेत्यादि ।
एषामिति ।
उपमादीनामित्यर्थः ।
तद्विनिर्मुक्तं गुणीभूतव्यङ्ग्यताविरहितम् ।
नाभ्यर्थनीयमिति ।
अलङ्कारतायामनुपयोगित्वादिति भावः ।
उक्तोपपादनायाह--उपमा हीत्यादि ।
द्विर्वचने ऽचीति ।
सूत्रे ऽस्मिन् द्विर्वचनशब्दो ऽर्थद्वयपरः ।
तुदीति ।
ऽतुदीशालेऽत्यादिसूत्रे हि यथासङ्ख्येन सम्बन्धः ।
गामश्वमित्यत्रैकक्रियया स बोध्यः ।
स्थाध्वोरिति ।
अनेन सूत्रेण द्वयोरेकं विधीयते ।
सर्वाणि ज्ञापकानीति ।
तत्तत्परिभाषादयस्सूत्रस्थतत्तत्पदेन गम्यन्य इति भावः ।
नेतीत ।
ज्ञापयतीति शेषः ।
उभयत्र सुलक्षिता भवन्ति ।
एकैकस्य स्वरूपविशेषकथनेन तु सामान्यलक्षणरहितेन प्रतिपादपाठेनेव शब्दा न शक्यन्ते तत्त्वतो निर्ज्ञातुम्, आनन्त्यात् ।
अनन्ता हि वाग्विकल्पास्तत्प्रकारा एव चालङ्काराः ।
लोचनम् समीकृत इति न्यायात् ।
अतिशयोक्तिः ऽसमुद्रः कुण्डिकाऽ विन्ध्यो वर्धितवानर्कवर्त्मागृह्णात्ऽ इति ।
एवमन्यत् ।
न चैवमादि काव्योपगीति, गुणीभूतव्यङ्ग्यतैवात्रालङ्कारतायां मर्मभूता लक्षिताः तान् सुष्टु लक्षयति ।
यया सुपूर्ण कृत्वा लक्षिताः सङ्गृहीता भवन्ति, अन्यथा त्ववश्यमव्याप्तिर्भवेत् ।
तदाह--एकैकस्येति ।
न चातिशयोक्तिवक्रोक्त्युपमादीनां सामान्यरूपत्वं चारुताहीनानामुपपद्यते, चारुता चैतदायत्तेत्येतदेव गुणीभूतव्यङ्ग्यत्वं सामान्यलक्षणम् ।
व्यङ्ग्यस्य च चारुत्वं रसाभिव्यक्तियोग्यतात्मकम्, रसस्य स्वात्मनैव विश्रान्तिधाम्न आनन्दात्मकत्वमिति नानवस्था काचिदिति तात्पर्यम् ।
अनन्ता हीति ।
प्रथमोद्द्योत एव व्याख्यातमेतत् ऽवाग्विकल्पानामानन्त्यात्ऽ इत्यत्रान्तरे ।
ननु सर्वेष्वलङ्कारेषु नालङ्कारान्तरं व्यङ्ग्यं चकास्ति; तत्कथं गुणीभूतव्यङ्ग्येन बालप्रिय विभाषास्वित्यादि ।
स्पष्टमिदं वैयाकरणानाम् ।
समुदः कुण्डिकेति ।
जलबाहुल्यप्रदर्शनाय कुण्डिकां विषयीकृत्य समुद्र इति निर्देशाद्भेदे अभेदरूपातिशयोक्तिरिति भावः ।
विन्ध्य इत्यादावसम्बन्धे सम्बन्धरूपा सा ।
उपसंहरन्नाह--एवमन्यदित्यादि ।
एवमादीति ।
उक्तोदाहरणादिकमित्यर्थः ।
इतीति हेतौ ।
तल्लक्षणे सर्व एवैते सुलक्षिता भवन्तीत्येतस्य विवरणम्--गुणीभूतेत्यादि ।
यथेति ।
गुणीभूतव्यङ्ग्यतयेत्यर्थः ।
अन्यथेति ।
उक्तेन सामान्यलक्षणेन विना तत्तद्विशेषलक्षणस्यैव कथन इत्यर्थः ।
क्वचद्ग्रन्थे तूपमा हीत्यादिकस्सङ्गृहीता भवन्तीत्यन्तो ग्रन्थो न दृश्यते ।
ननु गुणीभूतव्यङ्ग्यत्वेमेव सर्वेषामलङ्काराणां सामान्यलक्षणं तल्लक्षणेन तेषां सुलक्षितत्वं भवतीत्युक्तमयुक्तमतिशयोक्तयादीनामलङ्कारसामान्यरूपत्वात्तल्लक्षणेनैव च चरितार्थत्वादित्यत आह--न चेत्यादि ।
चारुताहीनानामतिशयोक्त्यादीनां सामान्यरूपत्वन्न चोपपद्यत इति सम्बन्धः ।
ततः किमत आह--चारुतेत्यादि ।
एतदायत्तेति ।
गुणीभूतव्यङ्ग्यात्वाधीनेत्यर्थः ।
नन्वलङ्कारचारुत्वप्रयोजकं गुणीभूतव्यङ्ग्यस्य चारुत्वं वक्तव्यन्तदप्यन्येन प्रयुक्तन्तदप्यन्येनेत्यनवस्थाप्रसङ्ग इत्यत आह--व्यङ्ग्यस्येत्यादि ।
यदुक्तन्तल्लक्षणे सर्व एते सुलक्षिता इति तदाक्षिप्य तत्समाधानपरतयोत्तरग्रन्थमवतारयति--नन्वित्यादि ।
सर्वेष्विति ।
दीपकादौ क्वचिदेव चकास्त्याक्षेपादौ तु गुणीभूतव्यङ्ग्यस्य च प्रकारान्तरेणापि व्यङ्ग्यार्थानुगमलक्षणेन विषयत्वमस्त्येव ।
तदयं ध्वनिनिष्यन्दरूपो द्वितीयो ऽपि महाकविविषयो ऽतिरमणीयो लक्षणीयः सहृदयैः ।
सर्वथा नास्त्येव सहृदयहृदयहारिणः काव्यस्य स लोचनम् लक्षितेन सर्वेषां संग्रहः ।
मैवम्; वस्तुमात्रं वा रसो वा व्यङ्ग्यं सद्गुणीभूतं भविष्यति तदेवाह-गुणीभूतव्यङ्ग्यस्य चेति ।
प्रकारान्तरेण वस्तुरसात्मनोपलक्षितस्य ।
यदि वेत्थमवतरणिका--ननु गुणीभूतव्यङ्ग्येनालङ्कारा यदि लक्षितास्तर्हि लक्षणं वक्तव्यं किमिति नोक्तमित्याशङ्क्याह--गुणीभूतेति ।
विषयत्वमिति लक्षणीयत्वमिति यावत् ।
केन लक्षणीयत्वं ध्वनिव्यतिरिक्तो यः प्रकारो व्यङ्ग्यत्वेनार्थानुगमो नाम तदेव लक्षणं तेनेत्यर्थः ।
व्यङ्ग्ये लक्षिते तद्गुणीभावे च निरूपिते किमन्यदस्य लक्षक्रियतामिति तात्पर्यम् ।
एवं ऽकाव्यस्यात्मा ध्वनिःऽ इति निर्वाह्योपसंहरति--तदयमित्यादिना सौभाग्यमित्यन्तेन ।
बालप्रिया नेति भावः ।
तत्कथमित्यादि ।
अव्यापकत्वादलक्षणमिति भावः ।
गुणीभूतव्यङ्ग्यत्वमित्यत्र व्यङ्ग्यपदेनालङ्कारमात्रन्न विवक्षिम्; किन्तु वस्तुरसादिकञ्चातो नाव्यापकमिदमित्याह--मैवमित्यादि ।
वस्तुमात्रं वेति ।
यत्र गुणीभूतव्यङ्ग्यस्थले ऽलङ्कारो न चकास्ति तत्रेति भावः ।
व्यङ्ग्यार्थानुगमलक्षणेनेत्येतदर्थतो विवृतं व्यङ्ग्यं सद्गुणीभूतं भविष्यतीत्यनेन ।
व्यङ्ग्यत्वेनार्थानुगमो वाच्यं प्रति गुणभावः, स लक्षणमसाधारणधर्मः स्वरूपं वा यस्य प्रकारान्तरस्य तेनेति तदर्थः ।
प्रकारान्तरेणेत्युपलक्षणे तृतोयेत्याह--उपलक्षितस्येति ।
गुणीभूतव्यङ्ग्यस्येत्यस्य विशेषणं, तथा च वस्तुरसालङ्कारान्यतमस्य गुणीभूतस्य व्यङ्ग्यस्येत्यर्थः ।
विषयत्वमस्त्येवेत्यनेन सम्बन्धः ।
अलङ्कारेष्विति विपरिणामेनानुषङ्गः ।
उक्तग्रन्थयो जनायाः क्लेशसम्पाद्यत्वम्मन्वानः प्रकारान्तरेणाह--यदि वेत्यादि ।
लक्षिता इति ।
भवेयुरिति शेषः ।
तस्य गुणीभूतव्यङ्ग्यस्य ।
लक्षणेनेत्युक्तेर्विषयत्वमित्यस्य लक्षणीयत्वमित्यर्थस्मिद्ध्यतीत्याह--लक्षणीयत्वमितीति ।
केन लक्षणीयत्वमिति प्रकारान्तरेणेत्यस्यावतारिका ।
ध्वनिव्यतिरिक्त इति ।
पूर्वमलङ्कारापेक्षया प्रकारान्तरत्वमिदानीन्तु ध्वन्यपेक्षयेति विशेषः ।
अर्थानुगमः वाच्यं प्रति गुणीभावेनावस्थानम् ।
लक्षणमसाधारणधर्मः ।
नन्वेतल्लक्षणन्न प्रागुक्तमतः कथं सिद्धवदभिधानमित्यत आह--व्यङ्ग्य इत्यादि ।
व्यङ्ग्यलक्षणन्तावदुक्तमेव प्रथमोद्योते ।
यत्र व्यङ्ग्यान्वय इत्यादिना गुणीभावश्च निरूपित इति भावः ।
तदयमित्याद्युपसंहारस्योपसंहार्यार्थविशेषर्शनेन तात्पर्यमाह ।
निर्वाह्य निर्व्यूढं कृत्वा ।
प्रकारो यत्र न प्रतीयमानार्थसंस्पर्शेन सौभाग्यम् ।
तदिदं काव्यरहस्यं परमिति सूरिभिर्भावनीयम् ।
मुख्या महा-कवि-गिराम् अलङ्कृति-भृताम् अपि ।
प्रतीयमान-च्छायैषा भूषा लज्जेव योषिताम्
मुख्या महाकविगिरामलङ्कृतिभृतामपि ।
प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् ॥ 37 ॥
अनया सुप्रसिद्धो ऽप्यर्थः किमपि कामनीयकमानीयते ।
लोचनम् यत्प्रागुक्तं सकलसत्कविकाव्योपनिषद्भूतमिति तन्न प्रतारणमात्रमर्थवादरूपं मन्तव्यमिति दर्शयितुम्--तदिदमिति ॥ 3.6 ॥
मुख्या भूषेति ।
अलङ्कृतिभृतामपिशब्दालङ्कारशून्यानामपीत्यर्थः ।
प्रतीयमानकृता छाया शोभा, स च लज्जासदृशी गोपनासारसौन्दर्यप्राणत्वात् ।
अङ्कारधारिणीनामपि नायिकानां लज्जा मुख्यं भूषणम् ।
प्रतीयमाना च्छाया अन्तर्मदनोद्भेदजहृदयसौन्दर्यरूपा यया, लज्जा ह्यन्तरुद्भिन्नमान्मथविकारजुगोपयिषारूपा मदनविजृम्भैव ।
वीतरागाणां यतीनां कौपीनापसारणे ऽपि त्रपाकलङ्कादर्शनात् ।
तथा हि कस्यापि बालप्रिया तदिदमित्यादेरुपसंहार्यानन्तर्भावात्तद्ग्रन्थमवतारयति---यदित्यादि ।
प्रतारणमात्रं चेतोविलोभनमात्रम् ।
अर्थवादरूपं स्तुतिरूपम् ॥ 3.6 ॥
कारिकायां मुख्येत्यस्य भूषेत्यनेन सम्बन्ध इति दर्शयति--मुख्या भूषेति ।
अलङ्कृतिभृतामिति ।
अलङ्कृतिपदेन काव्यालङ्काराः कटकादयश्च ग्राह्याः ।
प्रतीयमानच्छायेत्यस्य विवरणम्--प्रतीयमानकृतेत्यादि ।
प्रतीयमानं वस्त्वलङ्काररसाद्यात्मकम् ।
लज्जेवेत्यस्य व्याख्यानम--लज्जासदृशीति ।
लज्जासादृश्ये हेतुमाहगोपनेति ।
गोपनैव सारो यस्य तत्तथाविधं सौन्दर्यमेव प्राणा यस्यास्तस्या भावस्तत्ता, तस्मादित्यर्थः ।
प्रतीयमानस्य गोपनासारसौन्दर्यप्राणत्वमुक्तं कामिनीकुचकलशनिदर्शनदिशा ।
लज्जायास्त्वनुपदं वक्ष्यति ।
अलङ्कृतिभृतामपीत्यस्य मुख्याभूषेत्यस्य चोपमानयोजनान्दर्शयति--अलङ्कारेत्यादि ।
प्रतीयमानच्छायेत्येतदप्युपमाने योजयति--प्रतीयमानेत्यादि ।
पक्षे ऽत्र छायापदार्थो न कान्तिः, किन्तु योषितां यौवनारम्भसम्भाविनी कापि हृदयस्य दशेत्याह--अन्तरित्यादि ।
अन्तर्मदनोद्भेदजं तद्घृदयसौन्दर्यन्तदेव रूपं यस्यास्सा मदनोद्भेदरूपमनोविकारात्मिकेति यावत् ।
यया प्रतीयमानेति सम्बन्धः ।
उक्तमुपपादयति--लज्जेत्यादि ।
उक्तार्थे व्यतिरेकेण तदसम्भवं हेतुमाह--वीतेत्यादि ।
कुरङ्गीत्यादिश्लोकः काव्यप्रकाशे उदाहृतः ।
अत्र हि मन्मथविकारजुगोपयिषा स्पष्टं गम्यते ।
प्रकारान्तरेणापि तद्यथा---- विस्रम्भोत्था मन्मथाज्ञाविधाने ये मुग्धाक्ष्याः के ऽपि लीलाविशेषाः ।
अक्षुण्णास्ते चेतसा केवलेन स्थित्वैकान्ते सन्ततं भावनीयाः ॥
लोचनम् कवेः--ऽकुरङ्गीवाङ्गानिऽ इत्यादिश्लोकः ।
तथा प्रतीयमानस्य प्रियतमाभिलाषानुनायनमानप्रभृतेः चाया कान्तिः यया ।
शृङ्गाररसतरङ्गिणी हि लज्जावरुद्धा निर्भरतया तास्तान् विलासान्नेत्रगात्रविकारपरम्परारूपान् प्रसूत इति गोपनासारसौन्दर्यलज्जाविजृम्भितमेतदिति भावः ।
विश्रम्भेति ।
मन्मथाचार्येण त्रिभुवनवन्द्यमानशासनेन अत एव लज्जासाध्वसध्वंसिना दत्ता येयमलङ्घनीयाज्ञा तदनुष्ठाने ऽवश्यकर्तव्ये सति साध्वसलज्जात्यागेन विस्रम्भसम्भोगकालोपनाताः, मुग्धाक्ष्या इति अकृतकसम्भोगपरिभावनोचितदृष्टिप्रसरपवित्रिता ये ऽन्ये विलासा गात्रनेत्रविकाराः, अत एवाक्षुण्णाः नवनवरूपतया प्रतिक्षणमुन्मिषन्तस्ते, केवलेनान्यात्राव्यग्रेणैकान्तावस्थानपूर्वं सर्वेन्द्रियोपसंहारेण भावयितुं बालप्रिया तत्पदं व्याचष्टे--प्रतीयमानस्येत्यादि ।
यया हेतुना कान्तिरिति सम्बन्धः ।
कथं लज्जायास्तद्धेतुत्वमित्यत आह--शृङ्गारेत्यादि ।
इत्येतदिति सम्बन्धः ।
नेत्रादिविकारजातं प्रतीयमानच्छायारूपमिति भावः ।
श्लोकं व्याचष्टे--मन्मथाचार्यणेत्यादि ।
राजा ज्ञातो ऽप्यनतिलङ्घनीया ह्याचार्याज्ञा "गुरौ रुष्टे न कश्चने"त्यादिवचनादत आचार्यत्वरूपणम् ।
त्रिभुवनेति ।
यथोक्तं मालतीमाधवे--ऽअन्त्येषु जन्तुष्विऽत्यादि ।
अत एव त्रिभुवनवन्दनीयशासनत्वादेव ।
दत्तेत्यवश्यग्राह्यत्वादिसूचनार्थम् ।
आज्ञेति ।
सर्वा युवत्यस्त्यक्तलज्जा साध्वसास्सम्भोगपरा भवेयुरित्याज्ञेत्यर्थः ।
त्यागेन कर्तव्य इति सम्बन्धः ।
अकृतकेति ।
अकृतकाः अकृत्रिमाः तथा सम्भोगस्य या परिभावना आस्वादः, तत्र तदवसर इति यावत् ।
उचिताश्च ये दृष्टिप्रसरास्तैः पवित्रिता इत्यर्थः ।
सम्भोगपरिभोगेति च पाठः ।
लीलाविशेषा इत्यत्रत्यविशेषपदार्थकथनम् ।
अन्ये इति ।
असाधारणा इत्यर्थः ।
अत एव अन्यत्वादेव ।
एकान्तावस्थानफलमुक्तम्--सर्वेन्द्रियोपसंहारेणेति ।
कृत्यप्रत्ययार्थं द्वेधाह--शक्या अर्हा इति ।
इत्यत्र के ऽपीत्यनेन पदेन वाच्यमस्पष्टमभिदधता प्रतीयमानं वस्त्वक्लिष्टमनन्तमर्पयता का छाया नोपपादिता ।
अर्थान्तर-गतिः काक्वा या चैषा परिदृश्यते ।
सा व्यङ्ग्यस्य गुणी-भावे प्रकारम् इमम् आश्रिता
अर्थान्तरगतिः काक्वा या चैषा परिदृश्यते ।
सा व्यङ्ग्यस्य गुणीभावे प्रकारमिममाश्रिता ॥ 3.8 ॥
या चैषा काक्वा क्वचिदर्थान्तरप्रतीतिर्दृश्यते सा व्यङ्ग्यस्यार्थस्य गुणीभावे सति गुणीभूतव्यङ्ग्यलक्षणं काव्यप्रभेदमाश्रयते ।
यथा---ऽस्वस्था लोचनम् शक्या अर्हा उचिताः ।
यतः के ऽपि नान्येनोपायेन शक्यनिरूपणाः ॥ 37 ॥
गुणीभूतव्यङ्ग्यस्योदाहरणान्तरमाह--अर्थान्तरेति ।
ऽकक लौल्येऽ इत्यस्य धातोः काकुशब्दः ।
तत्र हि साकाङ्क्षनिराकाङ्क्षादिक्रमेण पठ्यमानो ऽसौ शब्दः प्रकृतार्थातिरिक्तमपि वाञ्छतीति लौल्यमस्याभिधीयते ।
यदि वार् इषदर्थे कुशब्दस्तस्य बालप्रिया अर्हा इत्यस्यैव विवरणम्--उचिता इति ।
वृत्तौ "वाच्यमस्पष्टमभिदधते"ति ।
किंशब्दस्यानिर्ज्ञतविशेषधर्मावच्छिन्नवाचकत्वादिति भावः ।
प्रतीयमानं वस्त्विति ।
तच्च वचनाशक्यत्वानुभवैकवेद्यत्वपरमाह्लादकारित्वादिकं बोध्यम् ।
का छायेत्यादि ।
उक्तं व्यङ्ग्यं वाच्यार्थोपस्कारकं सत्काव्यस्य चारुत्वं सम्पादयतीत्यर्थः ॥ 3.7 ॥
कारिकां वृत्तिञ्च विवरिष्यन्नादौ काकुशब्दनिष्पत्तिमाह--कवेत्यादि ।
अस्य धातोः एतद्धातुसम्बन्धी ।
ननु लौल्यमिच्छा तत्कथमत्र घटत इत्यत आह--तत्र हीत्यादि ।
तत्र काकुविषये ।
साकाङ्क्षेति ।
यथोक्तं काव्यानुशासने--"सा च काकुर्द्विधा साकाङ्क्षा निराकाङ्क्षा च, वाक्यस्य साकाङ्क्षनिराकाङ्क्षत्वात् ।
यस्माद्वाक्याद्यादृशस्सङ्केतबलेनार्थः प्रीयते, न तादृश एव, किन्तु न्यूनाभ्यधिकः प्रमाणबलेन निर्णययोग्यस्तद्वाक्यं साकाङ्क्षं तद्विपरीतं निराकाङ्क्षम्. वक्तृगात ह्याकाङ्क्षा वाक्ये उपचर्यते ।
सा च प्रकरणबलान्निश्चीयते ।
विशिष्टवषयत्वञ्च तस्यास्तत एवावसीयते ।
विषयो ऽपि त्रिविधः अर्थान्तरं तदर्शगत एव विशेषस्तदर्थाभावो वे"त्यादि ।
निराकाङ्क्षादीत्यादिशब्देन दीप्ताद्यलङ्कारादिपरिग्रहः ।
क्रमः प्रकारः ।
असौ शब्द इति ।
ध्वनिविशेषात्मिका हि काकुश्शब्दधर्म इत्यतश्शब्द इत्युक्तम् ।
प्रकृतेति ।
प्रकृतो यो ऽर्थस्सङ्केतबलेनावगम्यमानस्तस्मादतिरिक्तमर्थमित्यर्थः ।
वाञ्छतीति ।
बोध्यत्वेनेच्छतीत्यर्थः ।
अभिधीयत इति ।
उपचारादिति शेषः ।
प्रकारान्तरेणाह--यदि वेत्यादि ।
हृदयेति ।
हृदयस्थं यद्वस्तु विधिनिषेधादिरूपं तस्य प्रतीतेरित्यर्थः ।
भवन्ति मयि जीवति धार्तराष्ट्राःऽ ।
लोचनम् कादेशः ।
तेन हृदयस्थवस्तुप्रतीतेरीषद्भूमिः काकुः तया यार्ऽथान्तरगतिः स काव्यविशेष इमं गुणीभूतव्यङ्ग्यप्रकारमाश्रितः. अत्र हेतुर्व्येङ्ग्यस्य तत्र गुणीभाव एव भवति ।
अर्थान्तेरगतिशब्देनात्र काव्यमेवोच्यते ।
न तु प्रतीतेरत्र गुणीभूतव्यङ्ग्यत्वं वक्तव्यं, प्रतीतिद्वारेण वा काव्यस्य निरूपितम् ।
अन्ये त्वाहुः---व्यङ्ग्यस्य गुणीभावे ऽयं प्रकारः अन्यथा तु तत्रापि ध्वनित्वमेवेति ।
तच्चासत्; काकुप्रयोगे सर्वत्र शब्दस्पृष्टत्वेन व्यङ्ग्यस्योन्मीलितस्यापि गुणीभावात् काकुर्हि शब्दस्यैवल कश्चिद्धर्मस्तेन स्पृष्टं ऽगौप्यैवं गदितः सलेशंऽ इति, ऽहसन्नेत्रार्पिताकूतम्ऽ इतिवच्छब्देनैवानुगृहीतम् ।
अत एव ऽभम धम्मिअऽ इत्यादौ काकुयोजने गुणीभूतव्यङ्ग्यतैव व्यक्तोक्तत्वेन तदाभिमानाल्लोकस्य ।
स्वस्था इति ।
भवन्ति इति, मयि जीवति इति, घार्तराष्ट्रा इति च साकाङ्क्षदीप्तगद्गदतारप्रशमनोद्दीपनचित्रिता बालप्रिया कश्चिदुपाय इत्यर्थः ।
भूमिरिति कुशब्दार्थकथनम् ।
कारिकां व्याचष्टे--तयेत्यादि ।
तया काक्वा ।
अर्थान्तरगतिरित्यनेनार्थान्तरावगमकः काव्यविशेषो विवक्षित इति वक्ष्यति तदाशयेन सेत्येतद्व्याचष्टे--स काव्यविशेष इति ।
गुणीभाव इति सप्तमी निमित्ते गुणीभावद्धेतोरित्यर्थ इत्याह--तत्रेत्यादि ।
न त्वित्यादि ।
अर्थान्तरगातिरित्यस्य अर्थान्तरस्य प्रतीतिरिति यथाश्रुतार्थकत्वे अर्थान्तरप्रतीतेरेव गुणीभूतव्यङ्ग्यत्वं वक्तव्यं भवति, तच्चानभिमतमिति भावः ।
यथाश्रुतमुक्तमर्थमेव योजयन्नाह--प्रतीतीत्यादि ।
अर्थान्तरप्रतीतेर्गुणीभावप्रदर्शनव्याजेन तद्धेतुभूतकाव्यस्य गुणीभूतव्यङ्ग्यत्वं प्रदर्शितमित्यर्थः ।
अन्ये तु काकुस्थले यत्र तद्व्यङ्ग्यस्य प्राधान्यन्तत्र ध्वनित्वं, यत्र गुणीभावस्तत्र गुणीभूतव्यङ्ग्यत्वं तदेतद्व्यङ्ग्यस्य गुणीभाव इत्यनेन दर्शितमिति व्याचक्षते; तन्मतमुपन्यस्य दूषयति--अन्य इत्यादि ।
शब्दस्पृष्टत्वमुपपादयति--काकुर्हीत्यादि ।
धर्म इति ।
यथोक्तमभिप्रायवान् पाठ्यधर्मः काकुरिति ।
ऽकाकुः स्त्रियां विकारो यश्शोकभीत्यादिभिर्ध्वनेऽरित्यमरश्च ।
तेन स्पृष्टमिति ।
काकुरूपेण शब्दधर्मेण विषयीकृतमित्षथः ।
शब्देनैवानुगृहीतमित्यनेनास्य सम्बन्धः धर्मधर्मिणोरभेदादति भावः ।
शब्दावेदितत्वरूपशब्दानुगृहीतत्वे दृष्टान्तमाह--गोप्येत्यादि ।
अत एवेति ।
काकुव्यङ्ग्यस्य गुणीभावादेवेत्यर्थः ।
काक्वित्यादि ।
भ्रमणनिषेधस्य काक्वा व्यङ्ग्यत्वे गुणीभूतव्यङ्ग्यत्वमेवेत्यर्थः ।
अत्र हेतुमाह--व्यक्तेत्यादि ।
तदा काकुयोजने ।
काकुमुदाहरणे दर्शयति--स्वस्था इत्यादि ।
इति चेति ।
चतुर्षु स्थलेषु चेत्यर्थः ।
साकाङ्क्षेत्यादि ।
साकाङ्क्षा दीप्ता गद्गदेन ताराप्रशमनोद्दीपनाभ्यां चित्रिता विशेषवती चेत्यर्थः ।
यथा वा--
आम असैओ ओरम पैव्वए ण तुएं मलिणिअं सीलम् ।
किं उण जणस्स जाअ व्व चान्दिलं तं ण कामेमो ॥
शब्दशक्तिरेव हि स्वाभिधेयसामर्थ्याक्षिप्तकाकुसहाया सत्यर्थविशेषप्रतिपत्तिहेतुर्न काकुमात्रम्. विषयान्तरे स्वेच्छाकृतात्काकुमात्रात्तथाविधार्थप्रतिपत्त्यसम्भवात् ।
स चार्थः काकुविशेषसहायशब्दव्यापारोपारूढो ऽप्यर्थसामर्थ्यलभ्य इति व्यङ्ग्यरूप एव ।
वाचकत्वानुगमेनैव तु यदा लोचनम् काकुरसम्भाव्यो ऽयमर्थो ऽत्यर्थमनुचितश्चेत्यमुं व्यङ्ग्यमर्थं स्पृशन्ती तेनैवोपकृता सतीक्रोधानुभावरूपतां व्यङ्ग्योपस्कृतस्य वाच्यस्यैवाधत्ते ।
आमेति ।
आम असत्यः उपरम पतिव्रते न त्या मलिनितं शीलम् ।
किं पुनर्जनस्य जायेव नापितं तं न कामयामहे ॥
इति च्छाया ।
आम असत्यो भवामः इत्यभ्युपगमकाकुः साकाङ्क्षोपहासा ।
उपरमेति निराकाङ्क्षतया सूचनगर्भा ।
पतिव्रते इति दीप्तस्मितयोगिनी ।
न त्वया मलिनितं शीलमिति सगद्गदाकाङ्क्षा ।
किं पुनर्जनस्य जायेव मन्मथान्धीकृता, चन्दिलं नापितमिति पामरप्रकृतिं न कामयामहे इति निराकाङ्क्षगद्गदोपहासगर्भा ।
एषा हि कयाचिन्नापि तानुरक्तया कुलवध्वा दृष्टाविनयाया उपहास्यमानायाः प्रत्युपहासावेशगर्भोक्तिः काकुप्रधानैवेति ।
गुणीभावं दर्शयितुं शब्दस्पृष्टतां तावत्साधयति--शब्दशक्तिरेवेत्यादिना ।
बालप्रिया दीप्ततारावलङ्कारान्तर्गतौ प्रशमनोद्दीपने त्वङ्गान्तर्गते इति विवेकः ।
अयमर्थ इति ।
मयि जीवति धार्तराष्ट्राः स्वस्था भवन्तीति वाच्यार्थ इत्यर्थः ।
स्पृशन्तीति ।
विषयीकुर्वाणा सतीत्यर्थः ।
तेनैव उक्तेन व्यङ्ग्येनैव ।
उपकृता सतीति हेतुकथनम् ।
व्यङ्ग्येति ।
असम्भाव्यत्वादिरूपोक्तव्यङ्ग्येनोपस्कृतस्येत्यर्थः ।
आधत्त सम्पादयति ।
तथाच व्यङ्ग्यं गुणीभूतमिति भावः ।
आमेति ।
वयमसत्यः स्वैरिण्यो भवामः ।
आमेत्यभ्युपगमे ।
उपरम त्वं मदुपहासाद्विरम ।
शीलं सद्वृत्तम् ।
किं पुनः किन्तु ।
जनस्य जायेवेति ।
त्वमिवेत्यर्थः ।
त्वं यथा कामयसे तथेति यावत् ।
लोचने--साकाङ्क्षेति ।
साकाङ्क्षा उपहासव्यञ्जिका चेत्यर्थः ।
पतिव्रत इति न मलिनितमित्यत्र च काक्वा तत्तदभावो व्यङ्ग्य इत्यभिप्रायेणाह--पतिव्रत इत्यादि ।
चन्दिलमित्यस्य छाया--नापितमिति ।
तेन गम्यमाह--पामरेति ।
गुणीभावमिति ।
व्यङ्ग्यस्येति शेषः ।
अनुगम इत्यस्य तद्विशिष्टवाच्यप्रतीतिस्तदा गुणीभूतव्यङ्ग्यतया तथाविधार्थद्योतिनः काव्यस्य व्यपदेशः ।
व्यङ्ग्यविशिष्टवाच्याभिधायिनो हि गुणीभूत्वयङ्ग्यत्वम् ।
प्रभेदस्यास्य विषयो यश् च युक्त्या प्रतीयते ।
विधातव्या सहृदयैर् न तत्र ध्वनि-योजना
प्रभेदस्यास्य विषयो यश्च युक्त्या प्रतीयते ।
विधातव्या सहृदयैर्न तत्र ध्वनियोजना ॥ 38 ॥
सङ्कीर्णो हि कश्चिद्ध्वनेर्गुणीभूतव्यङ्ग्यस्य च लक्ष्ये दृश्यते मार्गः ।
लोचनम् नन्वेवं व्यङ्ग्यत्वं कथमित्याशङ्क्याह---स चेति ।
अधुना गुणीभावं दर्शयति---वाचकत्वेति ।
वाचकत्वे ऽनुगमो गुणत्वं व्यङ्ग्यव्यञ्जकभावस्य व्यङ्ग्यविशिष्टवाच्यप्रतीत्या तत्रैव काव्यस्य प्रकाशकत्वं कल्प्यते; तेन न तथा व्यपदेश इति काकुयोजनायां सर्वत्र गुणीभूतव्यङ्ग्यतैव ।
अत एव ऽमथ्नामि कौरवशतं समरे न कोपात्ऽ इत्यादौ विपरीतलक्षणं य आहुस्ते न सम्यक्यराममृशुः ।
यतो ऽत्रोच्चारणकाल एव ऽन कोपात्ऽ इति दीप्ततारगद्गदसाकाङ्क्षकाकुबलान्निषेधस्य निषिध्यमानतयैव युधिष्ठिराभिमतसन्धिमार्गाक्षमारूपत्वाभिप्रायेण प्रतिपत्तिरिति मुख्यार्थबाधाद्यनुसरणविध्नाभावात्को लक्षणाया अवकाशः ।
ऽदर्शे यजेतऽ इत्यत्र तु तथाविधकाक्वाद्युपायान्तराभावद्भवतु विपरीतलक्षणा इत्यलमवान्तरेण बहुना ॥ 3.8 ॥
अधुना संकीर्ण विषयं विभजते---प्रभेदस्येति ।
युक्त्येति ।
चारुत्वप्रतीतिरेवात्र युक्तिः ।
बालप्रिया विवरणम्--गुणत्वमिति ।
कस्येत्यतः पूरयति--व्यङ्ग्येत्यादि ।
ऽतद्विशिष्टेऽत्यादिवृत्तिग्रन्थविवरणम्--व्यङ्ग्यविशिष्टेत्यादि ।
तत्रैव व्यङ्ग्यविशिष्टवाच्य एव ।
प्रकाशकत्वं बोधकत्वम् ।
वृत्तौ ऽयदा तदेऽत्यनयोर्यतस्तत इत्यर्थौ बोध्यौ ।
मथ्नामीत्यादि ।
प्रतिज्ञातकौरवशतवधस्य क्रुद्धस्य भीमसेनस्य वचनमिदमत एव न मथ्नामीत्यादौ विपरीतलक्षणेति केचित्तदाह--विपरीतेत्यादि ।
इति निषेधस्य निषिद्ध्यमानतयैव प्रतिपत्तिरिति सम्बन्धः ।
काकुकल्पनायां हेतुः--युधिष्टिरेत्यादि ।
युधिष्ठिराभिमतो यस्सन्धिमार्गस्तस्य यदक्षमारूपत्वमक्षम्यत्वं तदभिप्रायो भीमगतस्तेनेत्यर्थः ।
इतीत्यादि ।
अयं भावः--न मथ्नामीत्यादिरूपस्य मथनादिनिषेधस्यादौ प्रतीतिः पश्चात्तु मथ्नाम्येवेत्यादिरूपस्य तन्निषेधनिषेधस्य प्रतीतिरितिन, किन्तूच्चारणकाल एव काकुबलान्मथनादिनिषेधस्य निषेषप्रतियोगित्वेनैव न मथ्नामि नेत्याकारिका प्रतीतिरतो मथनादिनिषेधस्य वाच्यस्य निषेधो व्यङ्ग्य एवेति ।
प्रसङ्गान्मोमांसकं प्रत्याह--दर्श इत्यादि ।
न दृश्यते चन्द्रो ऽत्रेति व्युत्पत्त्या दर्शशब्दो ऽमावास्यायां प्रयुज्यते ।
तथाचात्र दृशधातोर्दर्शनाभावे विपरीतलक्षणेति भावः ।
स्पष्टमिदं श्रौतसूत्रव्याख्याने ॥ 3.8 ॥
सङ्कीर्णं विषयमिति ।
प्रमुख एवान्यतरावधारणनियमासम्भवो यत्र युक्तिपरामर्शं तत्र यस्य युक्तिसहायता तत्र तेन व्यपदेशः कर्तव्यः ।
न सर्वत्र ध्वनिरागिणा भवितव्यम् ।
यथा--- पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।
सा रञ्जयित्वा चरणौ कृताशीर्माख्येन तां निर्वचनं जघान ॥
लोचनम् पत्युरिति ।
अनेनेति ।
अलक्तकोपरक्तस्य हि चन्द्रमसः परभागलाभो ऽनवरतपादपतनप्रसादनैर्विना न पत्युर्झटिति यथेष्टानुवर्तिन्या भाव्यमिति चोपदेशः ।
शिरोधृता या चन्द्रकला तामपि परिभवेति सपत्नीलोकापजय उक्तः ।
निर्वचनमिति ।
अनेन लज्जावहित्थहर्षेर्ष्यासाध्वससौभाग्याभिमानप्रभृति यद्यपि ध्वन्यते, तथापि तन्निर्वचनशब्दार्थस्य कुमारीजनोचितस्याप्रतितत्तिलक्षणस्यार्थस्योपस्कारकतां केवलमाचरति ।
उपस्कृतस्त्वर्थः शृङ्गाराङ्गतामेतीति ।
बालप्रिया विना तं विषयमित्यर्थः ।
न्यायवित्सम्मतस्य युक्तिपदार्थस्यात्रासम्भवात्तत्पदं व्याचष्टे---चारुत्वेत्यादि ।
अत्र काव्यार्थतत्वचिन्ताविषये ।
यदि व्यङ्ग्योपस्कृताद्वाच्यादेव स चेतश्चमत्कारलाभः, तदा गुणीभूतव्यङ्ग्यत्वं, यदा तु व्यङ्ग्यादेव न्यक्कृतवाच्यात्तदा ध्वनित्वमिति चारुत्वप्रतीतिरूपकार्यबलादेव तदन्यतरावधारणसिद्धिरित्यर्थः ।
स्पृशेत्यन्तेन व्यज्यमानमर्थद्वयं दर्शयति--अलक्तकेत्यादि ।
परभागलाभ इति ।
चन्द्रमसो ऽतिधवलतावदलक्तकस्य रक्तत्वाच्चेति भावः ।
अलक्तकोपरञ्जितत्वरूपविशेषणांशव्यङ्ग्यमुक्त्वा चरणेन शिरस्पर्शनविधिना व्यङ्ग्यमाह--अनवरतेत्यादि ।
भ्क्तटितीति ।
नैसर्गिकनिरतिशयरागपारतन्त्र्यबलात्कारादित्यर्थः ।
शिरोधिकरणकत्वविशेषणोपकृतेन स्त्रीलिङ्गनिर्देशेन व्यङ्ग्यमाह--शीरोधृतेत्यादि ।
उक्त इति ।
व्यञ्जित इत्यर्थः ।
ऽनिर्वचनम्ऽ इत्यदिवृत्तिग्रन्थेन दर्शतं व्यङ्ग्यं तस्य गुणीभावं च प्रदर्शयति--अनेनेत्यादि ।
अनेन निर्वचनं जधानेत्यनेन ।
तदिति ।
लज्जादिव्यङ्ग्यजातमित्यर्थः ।
कुमारीजनोचितस्येति ।
अनेन वाच्यार्थस्य चमत्कारकारित्वयोग्यता दर्शिता ।
उपस्कृतस्त्वर्थ इति ।
उक्तव्यङ्ग्योपस्कृतो ऽनिर्वचनं जघानेऽति वाच्यार्थं इत्यर्थः ।
शृङ्गारेति ।
विप्रलम्भशृङ्गारेत्यर्थः ।
उच्चैःशब्दस्योर्ध्वदेशस्थितार्थकत्वं कुमुमविशेषणत्वं चाभिप्रेत्य व्याचष्टे--उच्चैर्यानीत्यादि ।
यथा च--- प्रायच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता ।
न किञ्चिदूचे चरणेन केवलं लिलेश बाष्पाकुललोचना भुवम् ॥
इत्यत्र ऽनिर्वचनं जघानऽ ऽन किञ्जिदूचेऽ इति प्रतिषेधमुखेन व्यङ्ग्यस्यार्थस्योक्त्या किञ्चिद्विषयीकृतत्वाद्गुणीभाव एव शोभते ।
यदा वक्रोक्तिं विना व्यङ्ग्यो ऽर्थस्तात्पर्येण प्रतीयते तदा तस्य प्राधान्यम् ।
यथा ऽएवं वादिनि देवर्षौऽ इत्यादौ ।
इह पुनरुक्तिर्भङ्ग्यास्तीति वाच्यस्यापि प्राधान्यम् ।
तस्मान्नात्रानुरणनरूपव्यङ्ग्यध्वनिव्यपदेशो विधेयः ।
लोचनम् प्रायच्छतेति ।
उच्चैरिति ।
उच्चैर्यानि कुसुमानि कान्तया स्वयं ग्रहीतुमशक्यत्वाद्य्वाचितानीत्यर्थः ।
अस्मदुपाध्यायास्तु हृद्यतमानि पुष्पाणि अमुके, गृहाणगृहाणेत्युच्चैस्तारस्वरेणादरातिशयार्थं प्रयच्छता ।
अत एव लम्भितेति ।
न किञ्चिदिति ।
एवंविधेषु शृङ्गारावसरेषुतामेवायं स्मरतीति माननप्रदर्शनमेवात्र न युक्तमिति सातिशयमन्युसंभारो व्यङ्ग्यो वचननिषेधस्यैव वाच्यस्य संस्कारः ।
तद्वक्ष्यति--उक्तिर्भङ्ग्यास्तीति ।
तस्येति व्यङ्ग्यस्य ।
इहेतु पत्युरित्यादौ ।
वाच्यस्यापीति ।
अपिशब्दो भिन्नक्रमः ।
ध्वनिशब्दस्य विशेषममुक्तम् ॥39 ॥
बालप्रिया एतद्विशेषणव्यङ्ग्यमाह--कान्तयेत्यादि ।
उच्चैःशब्दस्य तारस्वरार्थकत्वं प्रदानक्रियाविशेषणत्वं च स्वाभिमतमित्याह--अस्मदित्यादि ।
अमुक इति ।
पाणितलादिपात्र इत्षथः ।
पुष्पाणीत्यनेन सम्बन्धः ।
उच्चैरित्यस्य व्याख्यानम्--तारस्वरेणेति ।
तारस्वरेम दाने निमित्तमादरातिशयद्योतनमित्याह--आदरेति ।
उक्तार्थसामञ्जस्यद्रढिम्ने पदान्तरमनुकूलयति--अत एवेत्यादि ।
अत एव तारस्वरेम कुसुमदानादेव ।
ऽन किञ्चिदूचऽ इत्यस्य प्रयोजनं दर्शयन् व्यङ्ग्यमाह--एवं विधेष्वित्यादि ।
मानप्रदर्शनमिति ।
अक्षिविवर्तनाद्यनुभावद्वारेति भावः ।
तदिति ।
व्यङ्ग्यस्य वाच्योपस्कारकतया वाच्यायमानत्वमित्यरिथः ।
भिन्नक्रम इति ।
अन्यथा व्याहतस्स्यादिति भावः ।
विशेषणमिति ।
अनुरणनेत्यादिविशेषणमित्यार्थः ।
असंलक्ष्यक्रमव्यङ्ग्यध्वनिरूपत्वस्यात्रापि सत्त्वद्योतकं हि तद्विशेषणमिति भावः ॥ 3.9 ॥
प्रकारो ऽयं गुणीभूत-व्यङ्ग्यो ऽपि ध्वनि-रूपताम् ।
धत्ते रसादि-तात्पर्य-पर्यालोचनया पुनः
प्रकारो ऽयं गुणीभूतव्यङ्ग्यो ऽपि ध्वनिरूपताम् ।
धत्ते रसादितात्पर्यपर्यालोचनया पुनः ॥ 40 ॥
गुणीभूतव्यङ्ग्यो ऽपि काव्यप्रकारो रसभावादितात्पर्यालोचने पुनर्ध्वनिरेव सम्पद्यते ।
यथात्रैवानन्तरोदाहृते श्लोकद्वये ।
यथा च--- दुराराधा राधा सुभग यदनेनापि भृजत- स्तवैतत्प्राणेशाजधनवसनेनाश्रु पतितम् ।
लोचनम् एतदेवेति ।
गुणीभूतव्यङ्ग्यस्य रसादिध्वनिरूपत्वं यदा सूत्रितं तदेवेत्यर्थः ।
तुल्यच्छायमिति ।
पत्युरित्यादौ प्रयच्छतेत्यादौ च भावलध्वनेर्वचननिषेधरूपवाच्यार्थोपस्कारकत्वस्यावगमात्तयोः तुल्यच्छायत्वम् ।
ऽदुराराधेऽति ।
हे सुभग ! यत् पतितमेतदश्रु अनेन प्राणेशाजधनवसनेनापि मृजतस्तव राधा दुराराधा स्त्रीचेतः कठोरं तदुपचारैरलं, हे त्वं विरम्, अनुनयेष्वेवमुदितो हरिः वः कल्याणं क्रियादित्यन्वयः ।
लोचने श्लोकं व्याकरिष्यन् पीठिकामारचयति--अकारणेत्यादि ।
श्लोकगतानां पदानां व्यङ्ग्यमर्थजातमासूत्रयति--सुभगेतीत्यादि ।
य इति ।
त्वमिति शेषः ।
न पार्यस इति ।
इत्येवं राधागताभिप्राय इत्यर्थः ।
व्यज्यत इति शेषः ।
एवमुत्तरत्रापि बोध्यम् ।
व्यङ्ग्यान्तरमाह--तदेव चेति ।
इदमित्यनुषज्यते ।
एवमादृतमित्येतत् स्फुटयति--यदित्यादि ।
मृजत इति वर्तमानार्थकप्रत्ययेन मार्जनस्याविरामत्वोक्या व्यङ्ग्यमाह--अनेन हि प्रत्युतेत्यादि ।
प्रकृत्यंशव्यङ्ग्यमाह--इयच्चेत्यादि ।
मामित ।
पुरःस्थितामपि मामित्यर्थः ।
मन्यस इत्यन्नाप्यस्य सम्बन्धः ।
कठोरं स्त्रीचेतस्तदलमुपचारैर्विरम हे क्रियात्कल्यामं वो हरिरनुनयष्वेवमुदितः ॥
लोचनम् यन्मां विस्मृत्य तामेव कुपितां मन्यसे ।
अन्यथा कथमेवं कुर्याः ।
पतीतमिति ।
गत इदानीं रोदनावकाशो ऽपीत्यर्थः ।
यदि तूच्यते इयताप्यादरेण किमिति कोपं न मुञ्चसि, तत्किं क्रियते कठोरस्वभावं स्त्रीचेतः ।
स्त्रीति हि प्रेमाद्ययोगाद्वस्तुविशेषमात्रमेतत्; तस्य चैष स्वभावः, आत्मनि चैतत्सुकुमारहृदया योषित इति न किंञ्चिद्वज्रसाराधिकमासां हृदयं यदेवंविधवृत्तान्तसाक्षात्कारे ऽपि सहस्रधा न दलति ।
उपचारैरिति ।
दाक्षिण्यप्रयुक्तैः ।
अनुनयेष्विति बहुवचनेनवारं वारमस्य बहुवल्लभस्येयमेव स्थितिरिति सौभाग्यातिशय उक्तः ।
एवमेष व्यङ्ग्यार्थसालो वाच्यं भूषयति ।
तत्तुवाच्यं भूषितं सदीर्ष्याविप्रलम्भाङ्गत्वमेतीति ।
यस्तु त्रिष्वपि श्लोकेषु प्रतीयमानस्यैव रसाङ्गत्वं व्याचष्टे स्म ।
स देवं विक्रीय तद्यात्रोत्सवमकार्षीत ।
एवं हि व्यङ्ग्यस्य या गुणीभूतता प्रकृता सैव समूलं त्रुट्येत् ।
रसादिव्यतिरिक्तस्य हि व्यङ्ग्यस्य रसाङ्गभावयोगित्वमेव बालप्रिया पतितमिति भूतनिर्देशेन व्यङ्ग्यमाह--गत इत्यादि ।
कठोरमित्यादिकं विवरिष्यन्नाह-यदीत्यादि ।
मुञ्चसीत्यस्यानन्तरमितीति शेषः ।
इत्युच्यते यदीति सम्बन्धः ।
तत् तर्हि ।
स्त्रीति तदेनं व्यङ्ग्यमाह--प्रेमादीति ।
स्त्रीति ह्येतदिति सम्बन्धः ।
एष इति ।
कठोरहृदयत्वमित्यर्थः ।
एवं बोधनीयं प्रति व्यङ्ग्यमुक्त्वा राधगतं व्यङ्ग्यमाह--आत्मनीत्यादि ।
आत्मनि चैतदिति ।
वक्ष्यमाणं राधगतं व्यङ्ग्यमित्यर्थः ।
इतीति ।
इत्येतदित्यर्थः ।
न किञ्चिदिति ।
अपरमार्थमित्यर्थः ।
उक्तस्य व्यङ्ग्यजातस्य वाच्यं प्रति तस्य रसं प्रति चाङ्गभावमाह--एवमित्यादि ।
व्याख्यानान्तरमनुवदति--यस्त्वित्यादि ।
प्रतीयमानस्यैवेति ।
एवकारेण प्रतीयमानोपस्कृतस्य वाच्यार्थस्य व्यवच्छेदः ।
व्याचष्टे स्मेति ।
व्याख्यातुरस्यायमाशयः- यस्य हि मुख्यं प्राधानं तं प्रत्येवं गुणीभावो ऽन्याय्यः रसस्यैव च तत्प्राधान्यमिति नेदं व्याख्यानं साधीयैत्युपहासोक्त्या दर्शयति--स देवमित्यादि ।
यथा कश्चिन्निर्धनतया देवं विक्रीय धनं सम्पाद्य तद्यात्रोत्सवं कर्तुमारभते, तथा गुणीभूतव्यङ्ग्योपपादनाय प्रवृत्तस्तद्विरोधिनं कञ्चित्प्रकारमाश्रित इति महत्तरमस्य कौशलमित्युपहासः ।
एतदेति कथं त्रुट्येदित्यत आह--रसादीत्यादि ।
रसादिव्यतिरिक्तस्य व्यङ्ग्यस्य वस्त्वलङ्कारात्मकस्य ।
रसाङ्गेत्यादि ।
व्यङ्ग्यैकस्वभावस्य रसादेस्तावत्स्वत एव प्राधान्यं, तद्वयतिरिक्तस्य तु तदङ्गत्वेनेत्यतस्तस्य तदङ्गत्वे प्राधान्यमेवापतति, न तु गुणत्वमित्यर्थः ।
एवं स्थिते च ऽन्यक्कारो ह्ययमेवऽ इत्यादिश्लोकनिर्दिष्टानां पदानां व्यङ्ग्यविशिष्टवाच्यप्रतिपादने ऽप्येतद्वाक्यार्थीभूतरसापेक्षया व्यञ्जकत्वमुक्तम् ।
न तेषां पदानामर्थान्तरसंक्रमितवाच्यध्वनिभ्रमो विधातव्यः, विवक्षितवाच्यत्वात्तेषाम् ।
तेषु हि व्यङ्ग्यविशिष्टत्वं वाच्यस्य प्रतीयते न तु व्यङ्ग्यरूपपरिणतत्वम् ।
तस्माद्वाक्यं तत्र ध्वनिः, पदानि तु गुणीभूतव्यङ्ग्यानि ।
न च केवलं गुणीभूतव्यङ्ग्यान्येव पदान्यलक्ष्यक्रमव्यङ्ग्यध्वनेर्व्यञ्जकानि यावदर्थान्तरसंक्रमितवाच्यानि ध्वनिप्रभेदरूपाण्यपि ।
यथात्रैव श्लोके रावण इत्यस्य प्रभेदान्तररूपव्यञ्जकत्वम् ।
यत्र तु वाक्ये रसादितात्पर्ये नास्ति गुणीभूतव्यङ्ग्यैः पदैरुद्भासिते ऽपि तत्र गुणीभूतव्यङ्ग्यतैव समुदायधर्मः ।
यथा-- राजानमपि सेवन्ते विषममप्युपयुञ्जते ।
रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः ॥
लोचनम् प्राधान्यं नान्यत्किञ्चिदित्यलं पूर्ववंश्यैः सह विवादेन ।
एवं स्थित इति ।
अनन्तरोक्तेन प्रकारेम ध्वनिगुणीभूतव्यङ्ग्ययोर्विभागे स्थिते सतीत्यर्थः ।
कारिकागतमपिशब्दं व्याख्यातुमाह--न चेति ।
एष च श्लोकः पूर्वमेव व्याख्यात इति न पुनर्लिख्यते ।
यत्र त्विति ।
यद्यपि चात्र विषयनिर्वेदात्मकशान्तरसप्रतीतिरस्ति, तथापि चमत्कारो ऽयं वाच्यनिष्ठ एव ।
व्यङ्ग्यं त्वसम्भाव्यत्वविपरीतकारित्वादि बालप्रिया अतो वाच्यं प्रत्येव गुणीभावो वक्तव्य इति भावः ।
वृत्तौ--ऽपदानाम्ऽ इत्यादि ।
व्यङ्ग्यार्थाः पूर्वमुक्ताः ।
ऽवाक्यार्थीभूतरसेऽति ।
रौद्ररसेत्यर्थः ।
प्रसङ्गादाह---ऽन तेषाम्ऽ इत्यादि ।
ऽन च केवलऽमित्यादिग्रन्थस्योत्सूत्रत्वशङ्कां परिहर्तुमाह लोचने--कारिकेत्यादि ।
अपिशब्दं गुणीभूतव्यङ्ग्यो ऽपीत्यपिशब्दम् ।
व्याख्यातुमिति ।
अपि शब्दो ऽनुक्तसमुच्चायक इति भावः ।
ननु राजानमित्यादौ कथं रसादितात्पर्याभावः ।
राजसेवादिव्यवहारोपलक्षितस्य विषोपभोगतुल्यस्य सर्वस्यापि लौकिकव्यवहारस्य विषयवैरस्यापादकतया शान्तरसव्यञ्जकत्वादिति शङ्कामनूद्य परिहरति--यद्यपीत्यादि ।
अयमिति ।
सहृदयैरनुभूयमान इत्यर्थः ।
वाच्यार्थनिष्ठ इति ।
यतो राजादेरपि सेवादिकं कुर्वन्ति, ततो मानवाः कुशलाः सल्विति वाच्यार्थप्रयुक्त इत्यर्थः ।
इत्यादौ ।
वाच्यव्यङ्ग्ययोः प्राधान्याप्राधान्यविवेके परः प्रयत्नो विधातव्यः, येन ध्वनिर्गुणीभूतव्यङ्ग्ययोरलङ्काराणां चासङ्कीर्णे विषयः सुज्ञातो भवति ।
अन्यथा तु प्रसिद्धालङ्कारविषय एव व्यामोहः प्रवर्तते ।
यथा--- लोचनम् तस्यैवानुययि, तच्चापिशब्दाभ्यामुभयतो योजिताभ्यां चशब्देन स्थानत्रययोजितेन खलुशब्देन चोभयतो योजितेन मानवशब्देन स्पृष्टमेवेति गुणीभूतम् ।
विवेकदर्शना चेयं न निरुपयोगीति दर्शयति--वाच्यव्यङ्ग्ययोरिति ।
अलङ्काराणां चेति ।
यत्र व्यङ्ग्यं नास्त्येव तत्र तेषां शुद्धानां प्राधान्यम् ।
अन्यथात्विति ।
यदि प्रयत्नवता न भूयत इत्यर्थः ।
व्यङ्ग्यप्रकारस्तु यो मया पूर्वमुत्प्रेक्षितस्तस्यासंदिग्धमेव व्यामोहस्थानत्वमित्येवकाराभिप्रायः ।
बालप्रिया एवकारेम शान्तरसनिष्ठत्वव्यच्छेदः ।
ननु तथाप्यत्र राजसेवादेरसम्भाव्यत्वादिकं व्यज्यते ।
तत एव च चमत्कार इत्यत आह--व्यङ्ग्यन्त्वित्यादि ।
विपरीतेति ।
उद्दिष्टफलविपरीतफलेत्यर्थः ।
तस्यैवेति ।
वाच्यस्यैवेत्यर्थः अनुयायीति ।
अङ्गभित्यर्थः ।
तदेव हेतुप्रदर्शनेनोपपादयति--तच्चेत्यादि ।
तच्च स्पृष्टमेवेति सम्बन्धः ।
उभयतो योजिताभ्यामिति ।
राजानमपि सेवन्ते अपि विषमपि उपभुञ्जते अपि इति कर्मणा क्रियया च योजिताभ्यामित्यर्थः ।
राजा तावत्कर्ममूतो यो दुरुपसर्पवस्तुषु मूर्धाभिषिक्तः ।
सेवाक्रियाया क्षणे क्षणे सुलभापायतया समाहितमतिभिरपि दुरनुष्ठेया ।
एवमन्यत्रापि बोध्यम् ।
स्थानत्रययोजितेन चशब्देनेति ।
एको द्योतको बहुष्वन्त्य इति न्यायाद्रमन्ते चेति चकारस्य समुच्चयार्थकस्य क्रियात्रयेण योजनेत्यर्थः ।
उभयतो योजितेन खलुशब्देनेति ।
खलुशब्दः कुशलशब्देन मानवशब्देन च योजनीय इत्यर्थः ।
मानवशब्देन चेति योजना ।
स्पृष्टमिति ।
किञ्चित्प्रकाशितमित्यर्थः ।
इतीति हेतै ।
अलङ्काराणामसङ्कीर्णो विषयः क इत्यत्राह--यत्रेत्यादि ।
तेषामिति ।
अलङ्काराणामित्यर्थः ।
प्रसिद्धालङ्कारविषय एवेत्येवकारेण किमुत व्यङ्ग्यविषय इत्यर्थो दर्शित इत्याह--व्यङ्ग्यप्रकारस्त्वित्यादि ।
उत्प्रेक्षितः उत्प्रेक्ष्य दर्शितः ।
व्यमोहस्थातत्वं व्यमोहविषयत्वम् ।
उदाहृतश्लोकगतानां पदानां व्यङ्ग्यं दर्शयति--द्रविणेत्यादि ।
द्रविणशब्देनेति ।
लावण्ये द्रविणत्वारोपेणेत्यर्थः ।
उक्तमिति ।
लावण्यस्य व्यञ्जितमित्यर्थः ।
विदित इत्यनुक्त्वा गणित इत्युक्त्या व्यङ्ग्यमाह--चिरेणेत्यादि ।
तत्रेति ।
तथाविधे व्यय इत्यर्थः ।
अनन्तेति ।
अनन्तेनानवधिना कालेन यन्निर्माणं तन्वीतनुनिर्माणं तत्कारिणो ऽपीत्यर्थः ।
लावण्यद्रविणव्ययो न गणितः क्लेशो महान् स्वीकृतः स्वच्छन्दस्य सुखं जनस्य वसतः चिन्तानलो दीपितः ।
एषापि स्वयमेव तुल्परमणाभावाद्वराकी हता को ऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥
इत्यत्र व्याजस्तुतिरलङ्कार इति व्याख्यायि केनचित्तन्न चुतुरस्त्रम्; यतो ऽस्याभिधेयस्यैतदलङ्कारस्वरूपमात्रपर्यवसायित्वे न सुश्लिष्टता ।
यतो न तावदयं रागिणः कस्यचिद्विकल्पः ।
तस्य ऽएषापि स्वयमेव तुल्यरमणाभावाद्वराकी हताऽ इत्येवंविधोक्त्यनुपपत्तेः ।
नापि नीरागस्य; लोचनम् द्रविणशब्देन सर्वस्वप्रायत्वमनेकस्वकृत्योपगित्वमुक्तम् ।
गणित इति ।
चिरेण हि यो व्ययः सम्पद्यते न तु विद्युदिव झटिति तत्रावश्यं गणनया भवितव्यम् ।
अनन्तकालनिर्माणकारिणो ऽपि तु विधेर्न विवेकलेशो ऽप्युदभूदिति परमस्याप्रेक्षावत्त्वम् ।
अत एवाह--क्लेशो महानिति ।
स्वच्छन्दस्येति ।
विशृङ्खलस्येत्यर्थः ।
एषापीति ।
यत्स्वयं निर्मीयते तदेव च निहन्यत इति महद्वैशसमपिशब्देन वकारेण चोक्तम् ।
को ऽर्थ इति ।
न स्वात्मनो न लोकस्य न निर्मितस्येत्यर्थः ।
तस्येति ।
रागिणो हि वराकी हतेति कृपणतालिङ्गितममङ्गलोपहतं चानुवितं वचनम् ।
तुल्यरमणाभावादिति बालप्रिया नोदभूदिति ।
तदगणनयेति भावः ।
अस्य विधेः ।
अप्रेक्षावत्त्वम् अविमृश्यकारित्वम् ।
उक्तमित्यनुषङ्गः ।
निर्माणझाटित्याभावविवक्षायां गमकमाह--अत एवेत्यादि ।
पादत्रयोक्तानं त्रयाणामेकेन योग्यो न कश्चिदर्थो निरूप्यमाणो दृश्यत इत्याह--न स्वात्मन इत्यादि ।
अर्थ इत्यनुषज्यते ।
वृत्तौ ऽव्याजस्तुतिरलङ्कारऽ इति ।
निन्दाद्वारा नायिकायाः स्तुतेः प्रतीतेरिति भावः ।
ऽन सुश्लिष्टतेऽति ।
सुष्ठु सङ्गत्वं न भवतीत्यर्थः ।
अत्र हेतुमाह--ऽयतऽ इत्यादि ।
ऽअयम्ऽ इति ।
श्लोकोक्त इत्यर्थः ।
ऽविकल्पःऽ विविधकल्पनाविषयः ।
नेत्यत्र हेतुमाह--ऽतस्येऽत्यादि ।
कथं रागिणस्तथाविथधोक्त्यनुपपत्तिरित्यत उपपादयति लोचने--रागिणो हीत्यादि ।
वराकीति कृपणतालिङ्गितं हतेत्यमङ्गलोपहतं च वचनं रागिणो ह्यनुचितमिति सम्बन्धः ।
रागी हि तन्निमग्नचित्तवृत्तितया तामेव बहुमन्यमानस्तद्रूपसुषमासुधामास्वादयन् कथङ्कारं तस्याः शोच्यत्वममङ्ग्लत्वं च पर्यालोचयेदिति भावः ।
तुल्यरमणाभावादितीति ।
रागिणो वचनमित्यनुषङ्गः ।
स्वात्मनीति ।
स्वात्मनि लोचनम् स्वात्मन्यत्यन्तमनुचितम् ।
आत्मन्यपि तद्रूपासम्भावनायां रागतायां च पशुप्रायत्वं स्यात् ।
ननु च रागिणो ऽपि कुतश्चित्कारणात्परिगृहीतकतिपयकालव्रतस्य वा रावणप्रायस्य वा सीतादिविषये दुष्यन्तप्रायस्य वानिर्ज्ञातजातिविशेषे शकुन्तलादौ किमियं स्वसौभाग्याभिमानगर्भा तत्स्तुतिगर्भा चोक्तिर्न भवति ।
वीतरागस्य वा अनादकालाभ्यस्तरागवासनावासिततया मध्यस्थत्वेनापि तां वस्तुतस्तथा पश्यतो नेयमुक्तिः न संभाव्या ।
न हि वीतरागो विपर्यस्तान् भावान् पश्यति ।
न ह्यस्य वीणाक्वणितं काकरटितकल्पं प्रतिभाति ।
तस्मात्प्रस्तुतानुसारेणोभयस्यापीयमुक्तिरुपपद्यते ।
अप्रस्तुतप्रशंसायामपि ह्यप्रस्तुतः सम्भवन्नेवार्थो वक्तव्यः, नहि तेजसीत्थमप्रस्तुतप्रशंसा सम्भवति--अहो बालप्रिया सति, यद्वा--स्वात्मविषयकमित्यर्थः ।
अत्यन्तमनुचितमिति ।
काममस्तु स्वात्मव्यतिरिक्तजनापेक्षया तुल्यरमणाभावस्य सम्भावना स्वात्मापेक्षयापि तत्सम्भावना न युक्तेत्यतस्तद्वचनमत्यन्तानुचितमित्यर्थः ।
कुतो ।
डनौचित्यमित्यत आह--आत्मन्यपीत्यादि ।
तद्रूपासम्भावनायामिति ।
तदनुरूपसौन्दर्यस्य सम्भावनाया अभावे सतीत्यर्थः ।
तुल्यरमणत्वसम्भावनाया अभावे सतीत्यर्थो वा ।
रागितायां तद्रागित्वे सति ।
श्लोकस्यास्य प्रबन्धान्तर्गतत्वे यथा प्रकरणानुगुणार्थपरिकल्पनं, तथा प्रदर्श्य न चेत्यादिग्रन्थमवतारयति--ननु चेत्यादि ।
रागिणो ऽपीयमुक्तिः किन्न भवतीति सम्बन्धः, भवत्येवेत्यर्थः ।
ननु तदभाव उक्त एवेत्यत आह--कुतश्चिदित्यादि ।
स्वासौभाग्याभिमानगर्भेति ।
तुल्यरमणाभावादिति तु स्वव्यतिरिक्तजनापेक्षयेति भावः ।
रागिजनोक्तित्वमुपपाद्य वीतरागौक्तित्वमत्पपादयति--वीतेत्यादि ।
वीतरागस्य वा इयमुक्तिन न सम्भाव्येति सम्बन्धथः, सम्भाव्यैवेत्यर्थः ।
अत्र हेतुमाह--अनादीत्यादि ।
तथा पश्यतः निरतिशयलावण्यादिगुणशालितया पश्यतः ।
तथा दर्शनाच्च पूर्वरागवासनावशात् तथाविधोक्तिः सम्भवत्येवेत्यर्थः ।
वस्तुतस्तथा पश्यत इत्येतदुपपादयति--न हीत्यादि ।
निगमयति--तस्मादिति ।
उभयस्य रागिणो वीतरागस्य च ।
उक्तमेव द्रढयितुमाह--अप्रस्तुतेत्यादि ।
सम्भवन्नेवाप्रस्तुतो ऽर्थो वक्तव्य इति सम्बन्धः ।
व्यतिरेकप्रदर्शनेनोक्तमेव साधयति--न हीत्यचादि ।
तेजसि प्रस्तुततेजोविषये ।
विशेषमाह--सेत्यादि ।
सा अप्रस्तुतप्रशंसा ।
प्रस्तुतपरतया प्रस्तुतार्थतात्पर्यकतया ।
इतीति हेतौ ।
अत्रेति ।
लावण्येत्यादावित्यर्थः ।
नासम्भव इति ।
अभिधेयस्येति शेषः ।
किन्तूक्तरीत्या सम्भवो ऽस्तीति भावः ।
वृत्तौ--ऽअप्रस्तुतप्रशंसेऽति ।
सारूप्यनिबन्धनाप्रस्तुतप्रशंसेत्यर्थः ।
ऽगुणीभूतात्मनेऽति ।
उपायभूतेनेत्यर्थः ।
अत्र व्यङ्ग्योपस्कृतस्य वाच्यार्थस्यैव प्राधान्यमित्यतो ऽप्रस्तुतप्रशंसालङ्कार इति बोध्यम् ।
तस्यैवंविधाविकल्पपरिहारैकव्यापारत्वात् ।
न चायं श्लोकः क्वचित्प्रबन्ध इति श्रूयते, येन तत्प्रकरणानुगतार्थतास्य परिकल्पयते ।
तस्मादप्रस्तुतप्रशंसेयम् ।
यस्मादनेन वाच्येन गुणीभूतात्मना निस्सामान्यगुणावलोपाध्मातस्य निजमाहिमोत्कर्षजनितसमत्सरजनज्वरस्य विशेषज्ञमात्मनो न कञ्चिदेवापरं पश्यतः परिदेवितमेतदिति प्रकाश्यते ।
तथा चायं धर्मकीर्तेः श्लोक इति प्रसिद्धिः ।
सम्भाव्यते च तस्यैव ।
यस्मात्-- अनध्यवसितावगाहनमनल्पधीशक्तिना- प्यदृष्टपरमार्थतत्त्वमधिकाभियोगैरपि ।
लोचनम् धिक्ते कार्ष्ण्यमिति सा परं प्रस्तुतपरतयेति नात्रासम्भव इत्याशङ्क्याह--न चेति ।
निस्सामान्येति निजमहिमेति विशेषज्ञमिति परिदेवितमित्येतैश्चतुर्भिर्वाक्यखण्डैः क्रमेण पादचतुष्टयस्य तात्पर्यं व्याख्यातम् ।
नन्वत्रापि किं प्रमाणमित्याशङ्क्याह--तथा चेति ।
ननु किमियतेत्याशङ्क्य तदाशयेन निर्विवादतदीयश्लोकार्पितेनास्याशयं संवादयति--सम्भाव्यत इति ।
अवगाहनमध्यवसितमपि न यत्र आस्तां तस्य सम्पादनम् ।
बालप्रिया लोचने--क्रमेणेति ।
निस्सामान्यगुणेत्यनेन लावण्येत्याद्यपादतात्पर्यार्थ उक्तः, एवंवदतो ह्यलोकसामान्यगुणगणपूर्णत्वादहो ।
अहमिति महीयानवलेपः परिस्फुटं गम्यत इति भावः ।
अत्रापीति ।
अप्रस्तुतप्रशंसापक्षे ऽपीत्यर्थः ।
वृत्तौ--ऽतथाचेऽत्यादि ।
चकारो हेतौ ।
यतो ऽयं धर्मकीर्तेः श्लोक इति प्रसिद्धिरतस्तथापूर्वोक्तार्थक इत्यर्थः ।
विनिश्चयवृत्त्यन्ते स्थितो ऽयं श्लोक इति प्रसिद्धिरतस्तथापूर्वोक्तार्थक इत्यर्थः ।
विनिश्चयवृत्त्यन्ते स्थितो ऽयं श्लोक इति श्रूयते ।
लोचने--किमित्यादि ।
इयतेति ।
धर्मकीर्तेः श्लोक इत्येतावतेत्यर्थः ।
तदाशयेन धर्मकीर्तेराशयेन ।
निर्विवादेति ।
प्रकृतोदाहरणे हि विवादो व्याजस्तुत्यप्रस्तुतप्रशंसाविषयो न वक्ष्यमाणतदीयश्लोक इति भावः ।
अस्येति ।
लावण्येत्यादिप्रकृतश्लोकस्येत्यर्थः ।
संवादयतीति ।
अयं भावः--यो यस्याशयो ऽन्यत्र सुस्पष्टप्रतिपत्तिकस्स एव सम्भवन् अन्यत्रापरिस्फुटप्रतीतिके विषये ऽप्यध्यवसातुमुचित इत्यतो वाक्यशेषन्यायानुसारेणात्राप्रस्तुतप्रशंसावधारणसिद्धिरिति ।
वृत्तौ--ऽसम्भाव्यते च तस्यैवेऽति ।
श्लोको ऽयं धर्मकीर्तिसम्बन्धित्वेनैवानुमीयते चेत्यर्थः ।
अत्र हेतुमाह--ऽयस्मादऽत्यादि ।
ऽअनध्यवसितेऽति ।
अनध्यवसितं सुधीभिर्न सम्पिपादयिषितमवगाहनमवबोधः, पयःपक्षे यदा दानायान्तः प्रवेशो यस्य तत् ।
अनल्पा धीशक्तिर्बुद्धिसामर्थ्यं यस्य तेनाप्यन्येन केनचित् कर्त्रा ।
अधिकैरभियोगैः प्रयत्नैरपि ।
अदृष्टानिपरमार्थतत्त्वानि यत्र ।
यद्गतान्युत्कृष्टार्थतत्त्वान्यदृष्टपूर्वाणीत्यर्थः ।
पयःपक्षे त्वेतल्लोचने विवृतम्--अलब्धेत्यादि च ।
मतं मम जगत्यलब्धसदृशप्रतिग्राहकं प्रयास्यति पयोनिधेः पय इव स्वदेहे जाराम् ॥
इत्यनेनापि श्लोकेनैवंविधो ऽभिप्रायः प्रकाशित एव ।
लोचनम् परमं यदर्थतत्त्वं कौस्तुभादिभ्यो ऽप्युत्तमम्, अलब्धं प्रयत्नपरीक्षितमपि न प्राप्तं सदृशं यस्य तथाभूतं प्रतिग्राहमेकैको ग्राहो जलचरः प्राणी ऐरावतोच्चैःश्रवोधन्वन्तरिप्रायो यत्र तदलब्धसदृशप्रतिग्राहकम् ।
एवंविध इति ।
परिदेवितविषय इत्यर्थः ।
इयति चार्थे अप्रस्तुतप्रशंसोपमालक्षणमलङ्कारद्वयम् ।
अनन्तरं तु स्वात्मनि विस्मयधामतयाद्भुते विश्रान्तिः ।
परस्य बालप्रिया एवं भूतं मम मतं मतप्रतिपादको ग्रन्थः ।
अलब्धः सदृशः स्वतुल्यः प्रतिग्राहको ऽन्यान् प्रतिबोधयिता स्वयं बो ।
च यस्य तथाविधं सत् ।
स्वदेहे जरां प्रयास्यति जीर्णं भविष्यति ।
अनध्यवसितमित्यनेन कैमुत्येन लब्धमर्थमाह लोचने--आस्तामित्यादि ।
तस्येति ।
अवगाहनस्येत्यर्थः ।
परममित्यस्य विवरणम्--कौस्तुभादिभ्यो ऽप्युत्तमं यदर्थतत्त्वमिति ।
अदृष्टं परमं यस्मात्तथाविधमर्थतत्त्वं कौस्तुभादिं यत्र तत् ।
यद्गतार्थतत्त्वादुत्तममन्यत्रादृष्टमित्यर्थ इति भावः ।
लाभनिषेधेन तदुपायान्वेषणं सिध्यतीत्याशयेनाह--प्रयत्नेत्यादि ।
सदृशमिति ।
वस्त्विति शेषः ।
तथाभूतं प्रतिग्राहमिति ।
प्रतिग्राहमिति वीप्सायामव्ययीभावः ।
ऽअव्ययीभावश्चेऽति नपुंसकत्वम् ।
प्रतीत्यस्य विवरणम्--एकैक इति ।
ग्राहशब्दश्चत्र न मुख्यार्थकः, किन्तु जलचरप्राणित्वगुणयोगेनार्थान्तरवर्तीत्याह--जलचर इत्यादि ।
यद्गतैरावणादिजलचरसदृशं वस्त्वन्यत्र लब्धमित्यर्थः ।
इयति चार्थ इति ।
उक्ते श्लोकद्वयवाच्यार्थे इत्यर्थः ।
अप्रस्तुतेत्यादि ।
लावण्येत्यादावप्रस्तुतप्रशंसा अनध्यवसितेत्यादावुपमेति तदात्मकालङ्कारद्वयमित्यर्थः ।
अनन्तरन्त्विति ।
उक्तालङ्कारसुन्दरवाच्यार्थप्रतीत्युत्तरकालमित्यर्थः ।
स्वात्मनीति ।
वक्ता धर्मकीर्तिरत्र स्वात्मशब्दार्थः ।
विस्मयेति ।
विस्मयविषयत्वेनेत्यर्थः ।
लावण्येत्यादौ स्वस्य लोकगुणगणपूर्णत्वप्रतिपादनेनानध्यवसितेत्यादौ तादृङ्मतप्रवर्तकत्वप्रतपादनेन चात्मनो विश्वोत्तरत्वप्रत्यायनात्तत्पद्यश्रोतुरात्मविषयकविस्मयजननादिति भावः ।
यद्वा--विस्मयधामतयेति ।
विस्मयाश्रयत्वेनेत्यर्थः ।
तत्तच्छलोकेन पिरतिपादितायास्तथाविधस्य स्वस्य स्वमतस्य च तथाविधशोच्यावस्थायाः स्वप्ने ऽप्यसम्भाव्यायाः सम्भवात् स्वस्य विस्मयः ।
अद्भुते विश्रान्तिरिति ।
सहृदयानां तद्विस्मयचर्वणयेति भावः ।
अनध्यववसितेत्यादिश्लोकस्य वीररसे ऽपि विश्रान्तिमाह--परेस्य चेत्यादि ।
अप्रस्तुतप्रशंसायां च यद्वाच्यं तस्य कदाचिद्विवक्षितत्वं, कदाचिदविवाक्षितत्वं, कदाचिद्विवक्षिताविवक्षितत्वमिति त्रयी बन्धच्छाया ।
तत्र विवक्षितत्वं यथा-- परार्थे यः पीडामनुभवति भङ्गे ऽपि मधुरो यदीयः सर्वेषामिह खलु विकारो ऽप्यभिमतः ।
न सम्प्राप्तो वृर्द्धि यदि स भृशमक्षेत्रपतितः किमिक्षोर्देषो ऽसौ न पुनरगुणाया मरुभुवः ॥
यथा वा ममैव--- अमी ये दृश्यनेति ननु सुभगरूपाः सफलता भवत्येषां यस्य क्षणमुपगतानां विषयताम् ।
लोचनम् च श्रोतृजनस्यात्यादरास्पदतया प्रयत्नग्राह्यतया चोत्साहजननेनैवंभूतमत्यन्तोपादेयं सत्कतिपयसमुचितजनानुग्राहकं कृतमिति स्वात्मनि कुशलकारिताप्रदर्शनया धर्मवीरस्पर्शनेन वीररसे विश्रान्तिरिति मन्तव्यम् अन्यथा परिदेवितमात्रेण किं कृतं स्यात् ।
अप्रेक्षापूर्मकारत्वमात्मन्यावेदितं चेत्किं ततः स्वार्थपरार्थासम्भवादित्यलं बहुना ।
ननु यथास्थितस्यार्थस्यासङ्गतौ भवत्वप्रस्तुतप्रशंसा, इह तु सङ्गतिरस्त्येवेत्याशङ्क्य सङ्गतावपि भवत्येवैषेति दर्शयितुमुपक्रमते---अप्रस्तुतेति ।
नन्विति ।
यैरिदं जगद्भूषितमित्यर्थः ।
यस्य चक्षुषो विषयतां क्षणं गतानामेषां सफलता भवति तदिदं बालप्रिया श्रोतृजनस्योत्साहजनने हेतुद्वयम्--अत्यादरेत्यादि ।
मतस्येति ।
शेषः ।
उत्साहेति ।
मतग्रहविषयकोत्साहेत्यर्थः ।
एवंभूतमित्यादि ।
मतमिति शेषः ।
कुशलकारितेति ।
सन्मतनिर्माणरूपसत्कर्मकारितेत्यर्थः ।
अन्यथेति ।
रसविश्रान्त्यभाव इत्यर्थः ।
मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0