ध्वन्यालोक (टीका सहित) · भाग 461480
शब्दार्थ इति ।
अनुमानं बालप्रिया तदादिकेत्यर्थः ।
उपसंहरति--तदित्यादि ।
तत् तस्मात् ।
तत्र प्रतिपाद्यार्थे विषये ।
शब्दो लिङ्गविधया नार्थप्रतिपादकः पक्षधर्मत्वाद्यनुसन्धानानपेक्ष्या तत्प्रतिपादरकत्वाच्चक्षुरादिवदित्यनुमानमत्र बोध्यम् ।
प्रतिपाद्यद्वैविध्ये निमित्तन्नोक्तं वृत्तावित्यतश्शब्दरूपकरणेतिकर्तव्यताद्वैविध्यं तन्निमित्तमिति दर्शयति--इतिकर्तव्यतेत्यादि ।
एकयेति ।
सङ्केतस्फुरणादिरूपयेत्यर्थः ।
अभिधाव्यापारमिति ।
सङ्केतितार्थबोधनमित्यर्थः ।
द्वितीययेति ।
वक्तृवैशिष्ट्यादिज्ञानादिरूपयेत्यर्थः ।
व्यञ्जनाव्यापारमिति ।
कस्यचिदर्थस्य व्यञ्जनमित्यर्थः ।
करोतीत्यनुषङ्गः ।
शब्द इति शेषः ।
वृत्तौ ऽस्वशब्दानभिधेयत्वेनेऽति ।
स्वशब्दाभिधेयत्वं विनेत्यर्थः ।
अर्थं प्रकाशयितुं समीहत इत्यनुषङ्गः ।
अत्र हेतुः--ऽप्रयोजनेऽत्यादि ।
प्रयोजनापेक्षयेत्येतद्व्याचष्टे लोचने--गोपनेत्यादि ।
गोपनकृतं यत्सौन्दर्यं सूक्तिचारुत्वं तदादेर्यो लाभो निष्पत्तिस्तदभिसन्धानादिकयेत्यर्थः ।
वृत्तौ ऽस त्विऽत्यादि ।
ऽद्विविधो ऽपिऽ वाच्यो व्यङ्ग्यश्च ।
ऽन लिङ्गितयेऽत्यादि ।
व्याप्तिस्मृत्यादिसहकृतशब्दरूपलिङ्गज्ञाप्यो न भवतीत्यर्थः ।
कथन्तर्हि भासत इत्यत्राह--ऽअपि ऽत्विऽत्यादि ।
द्विविधो ऽपीत्यादिशब्दानामित्यन्तस्यानुषङ्गः ।
कृत्रिमेणेत्यादिमतभेदकथनम् ।
ऽसम्बन्धानतरेणेऽति ।
अभिधादिरूपसम्बन्धविशेषेण हेतुनेत्यर्थः ।
न लिङ्गितया प्रकाशत इत्यत्र हेतुमाह--ऽविवक्षेऽत्यादि ।
उक्तमेव साधयति--ऽयदि हीऽत्यादि ।
ऽतत्रऽ प्रतिपिपादयिषिते ऽर्थे ।
ऽलिङ्गतया शब्दानां व्यापारःऽ लिङ्गलिङ्गिभावरूपः शब्दसम्बन्धः ।
ऽस्याद्यदिऽ प्रतिपिपादयिषितार्थो व्याप्तिस्मृत्यादिसहकृतशब्दरूपलिङ्गानुमेयो यदि स्यादित्यर्थः ।
ऽतत्ऽ तर्हि ।
ऽशब्दार्थेऽ शब्दप्रतिपादितार्थे ।
ऽसम्यगिऽत्यादि ।
अयमर्थस्सत्यः, अयमर्थो मिथ्या इत्यादयो विरुद्धा वादाः ।
अयमर्थस्सत्यो मिथ्या वेत्यादिसंशयाश्च वस्तुतः प्रवर्तन्ते तत्प्रवृत्तिर्न स्यादित्यर्थः ।
ऽधूमादोऽति ।
धूमादिलिङ्गेनानुमितं यदनुमेयान्तरं वह्न्यादि तस्मिन्निवेत्यर्थः ।
तत्र यथा तद्विवादा न प्रवर्तन्ते तथेत्यर्थः ।
नन्वनुमिते ऽर्थे कुतो विवादाप्रवृत्तिरित्यतो भावमाह लोचने--अनुमानमित्यादि ।
सम्यङ् मिथ्यात्वाद विवादा एव न प्रवर्तेरन् धूमादिलिङ्गानुमितानुमेयान्तरवत् ।
व्यङ्ग्यश्चार्थो वाच्यसामर्थ्याक्षिप्ततया वाच्यवच्छब्दस्य सम्बन्धी भवत्येव ।
साक्षादसाक्षाद्भावो हि सम्बन्धस्याप्रयोजकः ।
वाच्यवाचकभावाश्रयत्वं च व्यञ्जकत्वस्य प्रगेव दर्शितम् ।
तस्माद्वक्त्रभिप्रायरूप लोचनम् हि निश्चयस्वरूपमेवेति भावः ।
उपाधित्वेनेति ।
वक्त्रिच्छा हि वाच्यादेरर्थस्य बालप्रिया केनचिल्लिङ्गेन कस्यचिदर्थस्यानुमितिर्निश्चयरूपैव भवतीत्यर्थः ।
एवकारेण तदुत्तरन्तद्विषयकविषयकसंशयो व्यवच्छिद्यते ।
सन्देहपूर्विका ह्यनुमितिः अर्थेनाव्यभिचारिण एव हेतोर्गमकत्वञ्चेत्यभिप्रायः ।
ननु व्यङ्ग्यत्वेनाभिमतस्यार्थस्य शब्देन सम्बन्धे सति तत्र व्यापारस्सिद्ध्यति, स एव नेत्याशङ्कायामुक्तमेव स्मारयति वृत्तौ ऽव्यङ्ग्यश्चार्थंऽ इत्यादि ।
वाच्यसामर्थ्याक्षिप्ततयेति हेतौ तृतीया ।
अनेन परम्परासम्बन्धः प्रदर्शितः ।
ऽवाच्यवदिऽति ।
वाच्येन तुल्यमित्यर्थः ।
वाच्य इवेति यावत् ।
ननु वाच्यस्य साक्षात्सम्बन्धः व्यङ्ग्यस्य तु तद्द्वारक इत्यत आह--ऽसाक्षादिऽत्यादि ।
ऽअप्रयोजकऽ इति ।
अत एव संयोगसंयुक्तसमवायादीनां सन्निकर्षत्वाभिधानं सङ्गच्छत इति भावः ।
व्यङ्ग्यस्य वाच्यसामर्थ्याक्षिप्ततया तेन सह सम्बन्धस्य वाच्यधटितत्वमुक्तं द्रढीकर्तुं पूर्वोक्तं स्मारयति--ऽवाच्येऽत्यादि ।
प्रकृतमर्थद्वैविध्यप्रतिपादनं निगमयति---ऽतस्मादिऽत्यादि ।
ऽवक्त्रभिप्रायरूपेऽ विवक्षारूपे ।
एवकारेण तद्विषयीकृतार्थस्य व्यवच्छेदः ।
ऽलिङ्गतयेऽत्यादि ।
शब्दरूपलिङ्गज्ञाप्यत्वमित्यर्थः ।
ऽतद्विषयीऽति ।
शब्दानां व्यापार इत्यनुषङ्गः ।
वक्त्रभिप्रायविषयो ऽर्थस्तु शब्दप्रतिपाद्य इत्यर्थः ।
ऽप्रतीयमाने तस्मिन्निऽति ।
शब्दप्रतिपाद्ये व्यङ्ग्य इत्यर्थः ।
वाचकत्वेनेत्यादिविकल्प्याद्यं निषेधति--ऽम तावदिऽति ।
ऽसम्बन्धान्तरेणेऽति ।
सम्बन्धान्तरेण यो व्यापारस्स व्यञ्जकत्वमेवेत्यर्थः ।
पूर्वोक्तं स्मारयति---ऽन चेऽत्यादि ।
ऽअन्यथादृष्टत्वादिऽति ।
लिङ्गत्वं विना व्यञ्जकत्वस्य दृष्टत्वादित्यर्थः ।
उपसंहरति--ऽतस्मादिऽति ।
ऽप्रतिपाद्यो विषयऽ इति ।
व्यङ्ग्य इत्यर्थः ।
ऽलिङ्गित्वेनऽ लिङ्गलिङ्गिभावेन ।
ऽन सम्बन्धीऽति ।
व्यङ्ग्यत्वेनाभिमतो ऽर्थो न शब्दस्य लिङ्गलिङ्गिभावेन सम्बन्धी शब्दप्रतिपाद्यत्वाद्वाच्यवदित्यनुमानमनेन दर्शितम् ।
उक्तमेव ।
दर्शयितुमाह--ऽयो हीऽत्यादि ।
ऽतेषांऽ शब्दानाम् ।
ऽयथाऽ दर्शितो विषयः विवक्षालक्षणः ।
य ऽसऽ इति ।
विवक्षालक्षणो विषय इत्यर्थः ।
ऽउपाधित्वेनेऽति ।
प्रतीयत इत्यनुषङ्गः ।
उपाधिशब्दो ऽत्र व्यावर्तकपर्याय इत्याशयेन व्याचष्टे लोचने वक्त्रिच्छेत्यादि ।
विशेषणत्वेन भातीति ।
अनेन वक्त्रायमर्थो विवक्षित इति प्रतीतौ विवक्षा ह्यर्थस्य विशेषेणत्वेन भासते ।
तस्मादित्युक्तं द्रढयितुं पूर्वोक्तमेव स्मारयति एव व्यङ्ग्ये लिङ्ग्तया शब्दानां व्यापारः ।
तद्विषयीकृते तु प्रतिपाद्यतया ।
प्रतियमाने तस्मिन्नभिप्रायरूपे ऽनभिप्रायरूपे च वाचकत्वेनैव व्यापारः सम्न्बन्धान्तरेण वा ।
तावद्वाचकत्वेन यथोक्तं प्राक् ।
सम्बन्धान्तरेण व्यञ्जकत्वमेव ।
न च व्यञ्जकत्वं लिङ्गत्वरूपमेव आलोकादिष्वन्यथा दृष्टत्वात् ।
तस्मात्प्रतिपाद्यो विषयः शब्दानां न लिङ्गित्वेन सम्बन्धी वाच्यवत् ।
यो हि लिङ्गित्वेन तेषां सम्बन्धी यथा दर्शितो विषयः स न वाच्यत्वेन प्रतीयते, अपि तूपाधित्वेन ।
प्रतिपाधस्य च विषयस्य लिङ्गित्वे तद्विषयाणां विप्रतिपत्तीनां लौकिकैरेव क्रियमाणानामभावः ।
प्रसज्येतेति ।
एतच्चोक्तमेव ।
लोचनम् विशेषणत्वेन भाति ।
प्रतिपाद्यस्येति ।
अर्थाद्व्यङ्ग्यस्य ।
लिङ्गित्व इति ।
अनुमेयत्व इत्यर्थः ।
लौकिकैरेवेति ।
इच्छायां लोको न विप्रतिपद्यते ऽर्थे तु विप्रतिपत्तिमानेव ।
ननु यदा व्यङ्ग्यो ऽर्थः प्रतिपन्नस्तदा सत्यत्वनिश्चयो ऽस्यानुमानादेव प्रमाणान्तरात् क्रियत इति पुनरप्यनुमेव एवासौ ।
मैवम्; वाच्यस्यापि हि सत्यत्वनिश्चयो ऽनुमानादेव ।
बालप्रिया वृत्तौ--ऽप्रतिपाद्यस्येऽत्यादि ।
प्रतिपाद्यस्येत्येतत्प्रकृतानुगुणं व्याचष्टे लोचने--अर्थाद्व्यङ्ग्यस्येति ।
ननु कथं विप्रतिपत्तिविषयत्वावगमादननुमेयत्वनिश्चयः, अनुमेये ऽपि विप्रतिपत्तिस्म्भवादित्यत आह--इच्छायामित्यादि ।
इच्छायां विवक्षायायाम् ।
अर्थे विवक्षाविषयार्थे ।
विप्रतिपत्तिमानेवेति ।
सत्यत्वादिविप्रतिपत्तिमानेवेत्यर्थः ।
विमतो ऽर्थो नानुमेयः विप्रतिपत्तिविषयत्वाद्व्यतिरेकेण वक्तृविवक्षावदिति प्रयोगः ।
यथा चेत्यादिग्रन्थमवतारयति---नन्वित्यादि ।
प्रतिपन्न इति ।
वाच्यार्थप्रतीतिपूर्वकं शब्दादवगत इत्यर्थः ।
अस्य प्रतिपन्नस्य व्यङ्ग्यार्थस्य ।
अनुमानादेवेत्यस्यानन्तरं प्रमाणान्तरादिति च क्वचिद्ग्रन्थे पाठः ।
क्रियत इति ।
प्रतिपत्तृभिरिति शेषः ।
शब्दस्य संवादकप्रमाणान्तरसहकृतस्यैव स्वार्थे प्रामाण्यमिति भावः ।
इतीति हेतौ ।
पुनरित्यादि ।
प्रतिपाद्यस्य व्यङ्ग्यस्य शब्दापेक्षया लिङ्गित्वाभावे ऽपि संवादकप्रमाणान्तरापेक्षया लिङ्गित्वं भवत्येवेति भावः ।
पूर्वं शब्दादर्थस्यावगमः पश्चात्तत्र संवादकस्यानुमानस्य प्रवृत्तिः,अर्थस्वरूपं हि शब्दस्य विषयः, अनुमानस्य तु तद्गतं सत्यत्वमित्यनुमानस्य
न शब्दावगतार्थानुमापकत्वमिति समाधत्ते--मैवमित्यादि ।
यथा च वाच्यविषये प्रमाणान्तरानुगमेन सम्यक्त्वप्रतीतौ क्वचित्क्रियमाणायां तस्य प्रमाणान्तरविषयत्वे स्त्यपि न शब्दव्यापारविषयताहानिस्तद्य्वङ्ग्यस्यापि ।
लोचनम् यदाहुः--- ऽआप्तवादाविसंवादसामान्यादत्र चेदनुमानताऽ इति ।
न चैतावता वाच्यस्य प्रतोतिरानुमानिकी किं तु तद्गतस्य ततो ऽधिकस्य सत्यत्वस्य तद्व्यङ्ग्ये ऽपि भविष्यति ।
एतदाह--यथा चेत्यादिना ।
एतच्चाभ्युपगम्यक्तं बालप्रिया वाच्यस्यापीत्यपिशब्देन व्यङ्ग्यस्य परिग्रहः ।
यदाहुरिति ।
वाक्याधिकरणे श्लोकवार्तिककृत इति शेषः ।
आप्तेति ।
मुद्रिततत्पुस्तके त्वेवं पाठः--"आप्तवादाविसंवादादत्र चेदनुमानते"ति ।
अस्यावशिष्टन्तु--- "निर्णयस्तावता सिद्ध्येद्बुद्ध्युत्पत्तिर्न तत्कृता ।
अन्यदेव हि सत्यत्वमाप्तवादत्वहेतुकम् ॥
वाक्यार्थश्चान्य एवेति ज्ञातः पूर्वतरन्ततः ।
तत्र चेदाप्तवादेन सत्यत्वमनुमियते ॥
वाक्यार्थप्रत्यययस्यात्र कथं स्यादनुमानतेति ।
आप्तवादाविसंवादादिति हेतुकथनम् ।
अत्रेति ।
वाक्यार्थबुद्धावित्यर्थः ।
अनुमानता अनुमितित्वम् ।
चेदित्यनन्तरं नेति शेषः ।
अत्र हेतुमाह--ऽनिर्णयस्तावतेऽत्यादि ।
एभिर्वचनैर्वाक्यार्थस्य सत्यत्वमेवाप्तोक्तत्वरूपानुमानेन निश्चेतव्यमिति लभ्यत इति भावः ।
ऽआप्तवादाविसंवादस्सामान्यादनुमानतऽ इति पाठो बहुषु ग्रन्थेषु दृश्यते ।
तस्यायमर्थः--आप्तवादस्य आप्तवचनस्य यस्स्वार्थविषयो ऽविसंवादः सत्यत्वं, सत्यार्थविषयकत्वमिति यावत् ।
सः सामान्यादनुमानतः आप्तवादत्वाद्यनुमानगम्य इति ।
ननु तर्हि वाच्यप्रतीतिरप्यानुमानिक्येवाश्रीयतामित्यत्राह--न चेत्यादि ।
तत् किमत्रानुमानिकी प्रतीतिरेव नास्ति, अस्तीत्याह--किन्त्वित्यादि ।
सत्यत्वस्येति ।
प्रतीतिरानुमानिकीत्यनुषङ्गः ।
तद्य्वङ्ग्ये ऽपि भविष्यतीति ।
आनुमानिकं सत्यत्वं व्यङ्ग्यार्थे ऽपि भविष्यतीत्यर्थः ।
व्यङ्ग्यो ऽर्थश्शब्देन प्रतिपाद्यतेतस्य सत्यत्वन्त्वनुमानगम्यमिति भावः ।
एतच्चेति ।
यथाचेत्यादिग्रन्थेनोक्तं व्यङ्ग्यस्यानुमानिकं सत्यत्वमित्यर्थः ।
अभ्यपगम्येति ।
प्रयोजनवत्वं वस्तुतो ऽविद्यमानमपि विद्यमानं कृत्वेत्यर्थः ।
जप्रयोजकत्वमुपपादयति--न हीत्यादि ।
काव्यविषये च व्यङ्ग्यप्रतीतिनां सत्यासत्यनिरूपणस्याप्रयोजकत्वमेवेति तत्र प्रमाणान्तरव्यापारपरीक्षोपहासायैव सम्पद्यते ।
तस्माल्लिङ्गिप्रतीतिरेव सर्वत्र व्यङ्ग्यप्रतीतिरिति न शक्यते वक्तुम् ।
यत्त्वनुमेयरूपव्यङ्ग्यविषयं शब्दानां व्यञ्जकत्वं तद्ध्वनिव्यवहारस्याप्रयोजकम् ।
लोचनम् न त्ननेन नः प्रयोजनमित्याहुः ।
काव्यविषये चेति ।
अप्रयोजकत्वमिति ।
न हि तेषां वाक्यनामाग्रिष्टोमादिवाक्यवत्सत्यार्थप्रतिपादनद्वारेण प्रवर्तकत्वाय प्रामाण्यमन्विष्यते, प्रीतमात्रपर्यवसायित्वात् ।
प्रीतेरेव चालौकिकचमत्काररूपाया व्युत्पत्त्यङ्गत्वात् ।
एतच्चोक्तं वितत्य प्राक् ।
उपहासायैवेति ।
नायं सहृदयः केवलं शुष्कतर्कोपक्रमकर्कशहृदयः प्रतीतिं परामर्ष्टुं नालमित्येष उपहासः ।
नन्वेवं तर्हि मा भूद्यत्र यत्र व्यञ्जकता तत्र तत्रानुमानत्वम्; यत्र यत्रानुमानत्वं तत्र तत्र व्यञ्जकत्वमिति कथमपह्नूयत इत्याशङ्क्याह--यत्त्वनुमेयेति ।
तद्व्यञ्जकत्वं न ध्वनिलक्षणमभिप्रायव्यतिरिक्तविषयाव्यापरादिति भावः ।
नन्वभिप्रायविषयं यद्व्यञ्जकत्वमनुमानैकयोगक्षेमं तच्चेन्न प्रयोजकं ध्वनिव्यवहारस्य तर्हि किमर्थं बालप्रिया तेषां काव्यरूपाणाम् ।
अग्निष्टोमादिवाक्यवदिति ।
वैधर्म्येण दृष्टान्तः ।
प्रवर्तकत्वाय प्रवृत्युपधायकत्वसम्पादनाय ।
अन्विष्यते विचार्यते ।
प्रीतिमात्रेति ।
मात्रशब्देन प्रवर्तकत्वव्युदासः ।
कुतः प्रीतिमात्रपर्यवसायित्वमित्यत आह--प्रीतेरित्यादि ।
उक्तमिति ।
रसस्वरूपनिरूपणावसर इति भावः ।
उपहासस्वरूपमाहनायमित्यादि ।
शुष्केति ।
शुष्केकस्य तर्कस्यानुमानस्योपक्रमेण कर्कशहृदयः अरसिक इत्यर्थः ।
प्रतीतिमिति ।
काव्यजन्यप्रतीतिस्वरूपमित्यर्थः ।
मा भूदिति ।
आलोकादौ व्यभिचारादिति भावः ।
इतीति ।
इत्येतदित्यर्थः ।
वृत्तौ तद्व्यञ्जकत्वं ध्वनिव्यवहारस्याप्रयोजकमित्येवोक्तमप्रयोजकत्वे हेतुर्नोक्त इत्यतो ऽभिप्रेतं हेतुं दर्शयन्नाह--तदित्यादि ।
तद्य्वञ्जकत्वमिति ।
वक्त्रभिप्रायात्मकानुमेयव्यङ्ग्यविषयं शब्दस्य व्यञ्जकत्वमित्यर्थः ।
न ध्वनिलक्षणं ध्वनिव्यवहारविषयस्य लक्षणं न ।
अत्राव्याप्ति हेतुमाह--अभिप्रायेत्यादि ।
अभिप्रायो विवक्षा, तद्व्यतिरिक्तो विषयो रसालङ्कारादिरूपो व्यङ्ग्यः तत्राव्यापाराद्व्यापरणाभावादित्यर्थः ।
यत्राभिप्रायातिरिक्तं व्यङ्ग्यं ध्वनिव्यवरहारविषये तस्मिन्नभिप्रायरूपानुमेयव्यङ्ग्यविषयस्य व्यञ्जकत्वस्याभावादव्याप्तेरिति यावत् ।
स्वीयपूर्ववचनव्याधातशङ्कामुद्भाव्यावतारयति---नन्वित्यादि ।
अनुमानैकेति ।
अनुमानेन सह एकयोगक्षेमतुल्यप्रकारमित्यर्थः ।
अपि तु व्यञ्जकत्वलक्षणः शब्दानां व्यापार औत्पत्तिकशब्दार्थसम्बन्धवादिनाप्यभ्युपगन्तव्य इति प्रदर्शनार्थमुपन्यस्तम् ।
तद्भि व्यञ्जकत्वं कदाचिल्लिङ्गत्वेन कदाचिद्रूपान्तरेण शब्दानां वाचकानामवाचकानां च सर्ववादिभिरप्रतिक्षेप्यमित्ययमस्माभिर्यत्न आख्धः ।
तदेवं गुणवृत्तिवाचकत्वादिभ्यः शब्दप्रकारेभ्यो नियमेनैव तावद्विलक्षणं व्यञ्जकत्वम् ।
लोचनम् तत्पूर्वमुपक्षिप्तमित्याशङ्क्याह--अपि त्विति ।
एतदेव संक्षिप्य निरूपति--तद्धीति ।
यत एव हि क्वचिदनुमानानेनाभिप्रायादौ क्वचित्प्रत्यक्षेण दीपालोकादौ क्वचित्कारणत्वेन गीतध्वन्यादौ क्वचिदभिधया विक्षितान्यपरे क्वचिद्गुणवृत्त्या अविवक्षितवाच्ये ऽनुगृह्यमाणं व्यञ्जकत्वं दृष्टं तत एव तेभ्यः सर्वेभ्यो विलक्षणमस्य रूपं नस्सिध्यति तदाह--तदेवमिति ।
ननु प्रसिद्धस्य किमर्थं रूपसंकोचः क्रियते अभिधाव्यापारगुणवृत्त्यादेः ।
तस्यैव सामग्र्यन्तरपनिपाताद्यद्विविष्टं बालप्रिया पूर्वमुपक्षिप्तमिति ।
तथाविध इत्यादिग्रन्थेनोपन्यस्तमित्यर्थः ।
एतदेवेति ।
उक्तमेवेत्यर्थः ।
तद्धीत्यादिग्रन्थेन सह तदेवमित्यादिग्रन्थस्यार्थं विवृण्वन्नाह--यत इत्यादि ।
क्वचिदत्यस्य विवरणम्--अभिप्रायादाविति ।
एवमुपर्यपि बोध्यम् ।
क्वचिद्रूपान्तरेणेति वृत्तिग्रन्थस्य विवरणं प्रत्यक्षेणेत्यादि ।
तदेवमित्यादेर्विवणं--तत एव तेभ्य इत्यादि ।
यत एव हि अभिप्रायदिविषयं शब्दस्य व्यञ्जकत्वमनुमानैनानुमित्या ।
दोपालोकादिगतं घटादिविषयं व्यञ्जकत्वं प्रत्यक्षेण घटादिचाक्षुषज्ञानेन ।
गीतध्वन्यादिगतं सविषयं व्यञ्जकत्वं कारणत्वेन रसनिष्पादकत्वेन ।
विवक्षितान्यपरगतं व्यञ्जकत्वमभिधया ।
अविवक्षितवाच्यगतं व्यञ्जकत्वं गुणवृत्या च अनुगृह्यमाणं दृष्टं, तत एवेत्यर्थः ।
व्यञ्जकत्वानुग्राहकत्वमेवैतेषां, न तु तत्ताद्रूप्यमिति भावः ।
तेभ्यस्सर्वेभ्य इति ।
अनुमानादिरूपेभ्य इत्यर्थः ।
विलक्षणमित्यादि ।
अनेनायं प्रयोगः प्रदर्शितः--विमतं व्यञ्जकत्वमनुमानादिप्रकारेभ्यो विलक्षणं तेषु व्यावर्तमानेष्वपि अनुवर्तमानतयावभासमानत्वात्, यद्येषु व्यावर्तमानेष्वप्यनुवर्तमानतयावभासते तत्तेभ्यो भिन्नं यथा कुसुमेभ्यः सूत्रमिति ।
तदाहेति ।
तद्वैलक्षण्यमाहेत्यर्थः ।
नन्वित्यादि ।
प्रसिद्धस्याभिधाव्यापारगुमवृत्यादे रूपसङ्कोचः किमर्थं क्रियत इति सम्बन्धः ।
व्यञ्जकत्वस्यातिरिक्तस्य कल्पनेनेति ।
शेषः ।
गुणवृत्यादिरेत्यादिपदेन लक्षणायाः परिग्रहः ।
तर्हि कथं वक्तव्यभित्यत्राह--तस्यैवेत्यादि ।
तस्यैव अभिधाव्यापारादेरेव ।
सामग्र्यन्तरेति ।
प्रतिपत्तृप्रतिभावक्तृवैशिष्ट्यादिज्ञानादिरूपेत्यर्थः ।
तदन्तापातित्वे ऽपि तस्य हठादभिधीयमाने तद्विशेषस्य ध्वनेर्यत्प्रकाशनं विप्रतिपत्तिनिरासाय सहृदयव्युत्पत्तये वा तत्क्रियमाणमनतिसन्धेयमेव ।
न हि सामान्यमात्रलक्षणेनोपयोगिविशेषलक्षणानां प्रतिक्षेपः ।
शक्यः कर्तुम् ।
एवं हि सति सत्तामात्रलक्षणे कृते सकलसद्वस्तुलक्षणानां पौनरुक्त्यप्रसङ्गः ।
तदेवम्-- विमतिविषयो य आसीन्मनीषिणां सततमविदितसतत्त्वः ।
लोचनम् रूपं तदेव व्यञ्जकत्वमुच्यतामित्याशङ्क्याह--तदन्तः--पातित्वे ऽपीति ।
न वयं संज्ञानिवेशनादि निषेधाम इति भावः ।
विप्रतिपत्तिस्तादृग्विशेषो नास्तीति व्युत्पत्तिः संशयाज्ञाननिरासः ।
न हीति ।
उयोगिषु विशेषेषु यानि लक्षणानि तेषाम् ।
उपयोगिपदेनानुपयोगिनां काकदन्तादीनां व्युदासः ।
एवं हीति ।
त्रिपदार्थसङ्करी सत्तेत्यनेनैव द्रव्यगुणकर्मणां लक्षितत्वाच्छ्रुतिस्मृत्यायुर्वदधनुर्वेदप्रभृतीनां बालप्रिया विशिष्टं रूपमिति ।
अवस्थान्तरपर्यायं विलक्षणं स्वरूपमित्यर्थः ।
तदेव व्यञ्जक्वत्वमुच्यतामिति ।
व्यञ्जकत्वाख्यस्यार्थान्तरस्य कल्पनापेक्षया लाघवादिति भावः ।
वृत्तौ तस्य तदन्तःपातित्वे हठादभिधीयमाने ऽपीति योजना ।
ऽतदन्तःपातित्वेऽ गुणवृत्तिवाचकत्वाद्यन्तःपातित्वे ।
ऽतस्यऽ व्यञ्जकत्वस्य ।
ऽतद्विशेषस्य लोचने--न वयमित्यादि ।
वयं संज्ञानिवेशनादि न निषेधाम इति ।
अस्मदभिमतस्य व्यञ्जकत्वस्य विलक्षणस्वरूपाभिधादिसंज्ञा यदि क्रियते, तर्हि तां न निषेधाम इत्यर्थः ।
वस्तुनि हि समुचिता विमतिर्न नाममात्र इति भावः ।
विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिरिति व्युत्पत्तिमभिप्रेत्य तत्पदं व्याचष्टे--तादृगित्यादि ।
तादृग्विशेषः व्यञ्जकत्वरूपः ।
व्युत्पत्तिपदेन विवक्षितमाह--संशयेति ।
उपयोगीत्यादिग्रन्थं विवृणोति--उपयोगिष्वित्यादि ।
उपयोगिषु लोकयात्रोपयोगिषु ।
विशेषेषु वस्तुविशेषेषु ।
तद्गतानीति यावत् ।
उपयोगिष्विति विशेषणस्य फलमाह--उपयोगिपदेनेत्यादि वैशेषिकदर्शने द्रव्यादिपदार्थानामुर्दृशानन्तरमादौ "सदनित्यमि"त्यादिसूत्रेण द्रव्यगुणकर्मणां त्रयाणां सत्तावत्वादिकं लक्षणमभिहितं, तन्मनसि कृत्योक्तं वृत्तौ ऽसत्तामात्रेऽ त्यादि ।
तद्विवृणोति--त्रिपदार्थेत्यादि ।
त्रिपदार्थसङ्करीति ।
त्रिपदार्थसङ्कीर्णति पाठस्साधुः ।
द्रव्यादिपदार्थत्रयव्याप्तेत्यर्थः ।
सकलेत्यादिप्रसङ्ग इत्यन्तेन विवक्षितं व्याचष्टे--श्रुतीत्यादि ।
अनारम्भे बाधकं दर्शयति--सकलेत्यादि ।
वृत्तावुपसंहरति--ऽतदेवम्ऽ इत्यादि ।
ऽविमतीऽत्यादिश्लोको वृत्यन्तर्गतः ।
ऽअविदितिसतत्वऽ ध्वनिसञ्ज्ञितः प्रकारः काव्यस्य व्यञ्जितः सो ऽयम् ॥
प्रकारो ऽन्यो गुणी-भूत-व्यङ्ग्यः काव्यस्य दृश्यते ।
यत्र व्यङ्ग्यान्वये वाच्य-चारुत्वं स्यात् प्रकर्षवत्
प्रकारो ऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते ।
यत्र व्यङ्ग्यान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत् ॥ 34 ॥
लोचनम् सकललोकयात्रोपयोगिनामनारम्भः स्यादिति भावः ।
विमतिविषयत्वे हेतुः--अविदितसतत्त्व इति ।
अत एवाधुनात्र न कस्यचिद्विमतिरेतस्मात्क्षणात्प्रभृतीति प्रतिपादयितुम्--आसीत् इत्युक्तम् ॥ 3.3 ॥
एवं यावद्ध्वनेरात्मीयं रूपं भेदोपभेदसहितं यच्च व्यञ्जकभेदमुखेन रूपं तत्सर्वं प्रतिपाद्य प्राणभूतं व्यङ्ग्यव्यञ्जकभावमेकप्रघट्टकेन शिष्यबुद्धौ विनिवेशयितुं व्यञ्जकवादस्थानं रचितमिति ध्वनिं प्रति यद्वक्तव्यं तदुक्तमेव ।
अधुना तु गुणैभूतो ऽप्ययं व्यङ्ग्यः कविवाचः पवित्रयतीत्यमुना द्वारेण तस्यैवात्मत्वं समर्थयितुमाह--प्रकार बालप्रिया इत्युक्तेरुपयोगमाह लोचने--विमतिविषयतेवे हेतुरिति ।
संशयस्य विशेषानवधारणमूलकत्वं हि प्रसिद्धम् ।
आसीदिति भूतनिर्देशस्य फलमाह--अत एवेत्यादि ।
अत एवेति ।
यत एव विप्रतिपत्तिर्वस्तुतत्वानवबोधनिबन्धना तदवधारणे सति नोत्पत्तुमर्हति, तत एवेत्यर्थः ।
अधुनेत्येतद्विविच्याह--एतस्मात्क्षणादित्यादि ।
प्रतिपादयितुमिति ।
सूचयितुमित्यर्थः ॥ 3.3 ॥
अथ गुणीभूतव्यङ्ग्यप्रतिपादनपरमुत्तरग्रन्थसन्दर्भं तात्पर्यार्थाकथनपूर्वकमवतारयतुमादित आरभ्यैतदन्तवृत्तग्रन्थसन्दर्भस्यार्थं सङ्क्षिप्याह--एवमित्यादि ।
एवं यावद्ध्वनिं प्रति यद्वक्तव्यन्तदुक्तमेवेति सम्बन्धः ।
प्रथमोद्योते तावत्सोपोद्धातं ध्वनेस्सामान्यलक्षणमेवोक्तं, द्वितीये त्वविवक्षितवाच्यादिभेदस्तद्भेदाश्च प्रदर्शिताः ।
तदाह--भेदोपभेदसहितमात्मीयं रूपमिति ।
यच्चेत्यनेन तृतीयोद्योतार्थ उक्तः ।
तत्सर्वं प्रतिपाद्येत्यनेन, तावतैव ध्वनिस्वरूपप्रतिपादनं निर्व्यूढमिति दर्शयति ।
प्राणभूतमित्यनेन व्यङ्ग्यव्यञ्जकभावनिरूपणस्यात्यन्तावश्यकत्वं प्रदर्शितम् ।
एकप्रघट्टकेनेत्यादिना पौनरुक्त्यशङ्का परिहृता ।
ध्वनिं प्रतीत्यनेन प्रतिपाद्यान्तरसद्भावं ध्वनति ।
ननु काव्यस्यात्मा ध्वनिरित्यभ्युपगमेन काव्यात्मभूतध्वनिस्वरूपप्रतिपादनमात्रवृत्तत्वात् किमर्थं गुणीभूतव्यङ्ग्यप्रतिपादनं कृतं, तस्य काव्यात्मत्वाभावादित्यतो ऽभिप्रायं दर्शयन्नवतारयति--अधुनेत्यादि ।
अयं व्यङ्ग्यः उक्तप्रकारो व्यङ्ग्यार्थः ।
गुणीभूतो ऽपि न प्रधानभूत एवेति भावः ।
पवित्रयतीति ।
छायातिशयं सम्पादयतीत्यर्थः ।
अमुना द्वारेणेति ।
कैमुत्यन्यायोपक्षेपमुखेनेत्यर्थः ।
तस्यैवेति ।
ध्वनेरेवेत्यर्थः ।
उक्तं हि प्राक् ऽएवंभूता चेयं व्यङ्ग्यते"त्यादिनराजत्वमिवेऽत्यन्तम् ।
चारुत्वप्रकर्षहेतुत्वेन व्यङ्ग्यान्वयस्य कारिकायान्दर्शितत्वान्न व्यङ्ग्यसम्बन्धमात्रं व्यङ्ग्यो ऽर्थो ललनालावण्यप्रख्यो यः प्रतिपादितस्तस्य प्राधान्ये ध्वनिरित्युक्तम् ।
तस्य तु गुणीभावेन वाच्यचारुत्वप्रकर्षे गुणीभूत्वयङ्ग्यो नाम काव्यप्रभेदः प्रकल्प्यते ।
तत्र वस्तुमात्रस्य व्यङ्ग्यस्य तिरस्कृतवाच्येभ्यः प्रीयमानस्य कदाचिद्वाच्यरूपवाक्यार्थापेक्षया गुणीभावे सति गुणीभूतव्यङ्ग्यता ।
यथा-- लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते ।
उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ॥
लोचनम् इति ।
व्यङ्ग्येनान्वयो वाच्यस्योपस्कार इत्यर्थः ।
प्रतिपादित इति ।
ऽप्रतीयमानं पुनरन्यदेवऽ इत्यत्र ।
उक्तमिति ।
ऽयत्रार्थः शब्दो वाऽ इत्यत्रान्तरे व्यङ्ग्यं च वस्त्वादित्रयं तत्र वस्तुनो व्यङ्ग्यस्य ये भेदा उक्तास्तेषां क्रमेण गुणभावं दर्शयति---तत्रेति ।
लावण्येति ।
अभिलाषविस्मयगर्भेयं कस्यचित्तरुणस्योक्तिः ।
अत्र सिन्धुशब्देन परिपूर्णता, उत्पलशब्देन कटाक्षच्छटाः, शशिशब्देन वदनं, द्विरदकुम्भतटीशब्देन स्तनयुगलं, कदलिकाण्डशब्देनोरुयुगलं, मृणालदण्डशब्देन दोर्युग्ममिति ध्वन्यते ।
तत्र चैषां स्वार्थस्य सर्वथानुपपत्तेरन्धशब्दोक्तेन न्यायेन तिरस्कृतवाच्यत्वम् ।
बालप्रिया वाच्यस्यात्र विवक्षितं, किन्तु व्यङ्ग्यसम्बन्धकृतातिशयविशेषास्पदत्वमित्याह--वाच्यस्योपस्कार इति ।
व्यङ्ग्यस्य गुणीभावे वक्तव्ये वृत्तौ वस्त्वादेर्गुणीभावप्रदर्शनासङ्गतिशङ्कामुद्धर्तुमाह--व्यङ्ग्यञ्च वस्त्वादित्रयमिति ।
उक्तमिति शेषः ।
वृत्तौ ऽलावण्येऽति ।
ऽअत्रऽअस्मिन्देशे ।
ऽअपरैवऽ अपूर्वैव ।
ऽकेयं लावण्यसिन्धुःऽ लावण्यस्य सरित् ।
ऽयत्रऽ यस्याम् ।
ऽशशिनाऽ पूर्णचन्द्रेण ।
ऽसंप्लवन्तेऽ सम्मिलितानि भवन्ति ।
ऽउन्मज्जतिऽ उत्थिता भवति ।
ऽद्विरदःऽ गजः ।
ऽयत्रेऽ त्यादि ।
सन्तीति शेषः ।
ऽकदलिकाण्डःऽ कदलीदण्डः ।
वस्तुमात्रस्य व्यङ्ग्यस्येत्यादिवृत्त्युक्तं सर्वं क्रमेण प्रदर्शयिष्यन्नदौ भूमिकां रचयति लोचने--अभिलाषेत्यादि ।
प्रथमं विस्मयस्ततो ऽभिलाष इति क्रमः, तदविवक्ष्याभिलाषविस्मयगर्भेत्युक्तम् ।
कस्यचिदिति ।
विशेषानुक्तिरनुपयोगात् ।
सिन्धुशब्देनेति ।
सिन्धुशब्देन परिपूर्णतेति ध्वन्यत इत्याद्यन्वयः ।
परिपूर्णतेति ।
पारिपूर्ण्यविशिष्टेत्यर्थः ।
उत्पलानिति बहुवचनान्तनिर्देशानुगुण्येनाह--कटाक्षच्छटा इति ।
ध्वन्यत इति विपरिणामेनात्र सम्बन्धः ।
तत्रेति ।
उक्तवस्तुध्वनेन सतीत्यर्थः ।
एषां सिन्धूत्पलादिशब्दानाम् ।
तिरस्कृतवाच्यत्वमित्यनेन सम्बन्धः ।
अत्र हेतुमाह--स्वार्थस्येत्यादि ।
स्वार्थस्य नदीनीलाब्जप्रभृतेः ।
अतिरस्कृतवाच्योभ्यो ऽपि शब्देभ्यः प्रतीयमानस्य व्यङ्ग्यस्य कदाटचिद्वाच्यप्राधान्येन लोचनम् स च प्रतीयमानो ऽप्यर्थविशेषः ऽअपरैव हि केयंऽ इत्युक्तिगर्भीकृते वाच्येंऽशे चारुत्वच्छायां विधत्ते, वाच्यस्यैव स्वात्मोन्मज्जनया निमज्जितव्यङ्ग्यजातस्य सुन्दरत्वेनावभानात् ।
सुन्दरत्वं चात्यासम्भाव्यमानसमागमसकललोकसारभूतकुवलयादिभाववर्गस्यातिसुभगकाधिकरणव् इशिरान्तलब्धसमुच्चयरूपतया विस्मय विभावनाप्राप्तिपुरस्कारेण व्यङ्ग्यार्थोपस्कृतस्य तथा विचित्रस्यैव वाच्यरूपोन्मज्जनेनाभिलाषादिविभावत्वात् ।
बालप्रिया अन्धेति ।
निःश्वासान्ध इवादर्श इत्यत्रान्धशब्दव्याखायने य उक्तो न्यायस्तेनेत्यर्थः ।
प्रतीयमानो ऽपीत्यपिशब्देन स्वतः प्राप्तप्रधानभावस्य वैपरीत्येन गुणीबावापत्तिर्विरुद्धेति दर्शयति ।
सो ऽर्थविशेषः व्याख्यातव्यङ्ग्यार्थजातम् ।
अपरैवेत्यादि ।
अपरैव हीति केयमिति चोक्तिभ्यां सामान्यात्मनाक्रोडीकृत इत्यर्थः ।
वाच्येंऽशे सिन्धूत्पलादिशब्दवाच्यनदीनीलाब्जादिघटितवाक्यार्थे ।
चारुत्वच्छायां काव्यचारुत्वप्रतीतिहेतुभूतां शोभाम् ।
विधत्ते करोति ।
अनेन व्यङ्ग्यस्य गुणीभावः प्रदर्शितः ।
अत्र सहृदयानुभवमेव प्रमाणयति---वाचस्यैवेत्यादि ।
वाच्यस्यैव सुन्दरत्वेनावभासनादिति सम्बन्धः ।
अत्र हेतुगर्भे विशेषणे दर्शयति--स्वात्मेत्यादि ।
स्वस्य वाच्यस्य य आत्मा स्वरूपन्तस्य यदुन्मज्जनमुद्धुरकन्धरतयावस्थानं तया उपलक्षितस्य ।
तथा निमज्जिनं व्यङ्ग्यजातं पूर्वोक्तं येन तस्य ।
व्यङ्ग्यजातस्य निमज्जनं वाच्यमुखप्रेक्षितया नीचैरवस्थानम् ।
कथं पुनस्तादृशस्य वाच्यस्य सुन्दरत्वमित्यत आह--सुन्दरत्वञ्चेत्यादि ।
अस्य वाच्यस्य ।
श्लोके ऽस्मिन्नदौ वाच्यस्य विस्मयविभावताप्रायेणाह--असम्भाव्येत्यादि ।
असम्भाव्यमानस्सम्भावयितुमप्यशक्यतां प्रतिपद्यमानस्समागमोयेषां ते ।
तथा सकललोकसारभूताश्च ये कुवलयादयो भावाः पदार्थस्तेषां वर्गस्य ।
अतिसुमगं यदेकाधिकरणं नायिकारूपं तत्र या विश्रान्तिः संश्लिष्यावस्थितिस्ताया लब्धं समुच्चरूपं सङ्घातरूपत्वं येन तस्य भावस्तत्ता तया हेतुना ।
या विस्मयविभावताप्राप्तिस्तस्याः पुरस्कारेण पुरस्सरीकारेणेति च पाठः ।
अभिलाषादिविभावताप्राप्तौ हेतुमाह--व्यङ्ग्येत्यादि ।
व्यङ्ग्यार्थोपस्कृतस्य कटाक्षवदनाद्युक्तव्यङ्ग्यार्थजातेनोपस्कृतस्य ।
तथाविचित्रस्य व्यङ्ग्यार्थोपस्कारेण वैचित्र्यं विशेषं प्राप्तस्य ।
ननु यदि व्यङ्ग्यार्थोपस्कृतस्यैवाभिलाषादिविभावत्वं न स्वरूपतः, तर्हि व्यङ्ग्यस्य प्राधान्यमापतितं तस्यैव विभावताप्राप्तौ प्रयोजकत्वादित्यत आह--वाच्यरूपोन्मज्जनेनेति ।
कुवलयचन्द्रादिवाच्यार्थस्वरूपोन्मज्जनेन हेतुनेत्यर्थः ।
काव्यचारुत्वापेक्षया गुणीभावे सति गुणीभूतव्यङ्ग्यता, यथोदाहृतम्--ऽअनुरागवती सन्ध्याऽ इत्येवमादि ।
तस्यैव स्वयमुक्त्या प्रकाशीकृतत्वेन गुणीभावः, यथोहाहृतम्---ऽसङ्केतकालमनसम्ऽ लोचनम् अत एवेयति यद्यपि वाच्यस्य प्राधान्यं , तथापि रसध्वनौ तस्यापि गुणतेति सर्वस्य गुणीभूतव्यङ्ग्यस्य प्राकरे मन्तव्यम् ।
अत एव ध्वनेरेवात्मत्वमित्युक्तचरं बहुशः ।
अन्ये तु जलक्रीडावतीर्णतरुणीजनलावण्यद्रवसुन्दरीकृतनदीविषयेयमुक्तिरिति सहृदयाः, तत्रापि चोक्तप्रकारेणैव योजना ।
यदि वा नदीसन्निधौ स्नानावतीर्णयुवतिविषया ।
सर्वथा तावद्विस्मयमुखेनेयति व्यापाराद्गुणताव्यङ्ग्यस्य ।
उदाहृतमिति ।
बालप्रिया व्यङ्ग्यस्य कटाक्षवदनादेर्वाच्यकुवलयचन्द्रादिरूपत्वेन दर्शनं ह्यभिलाषादिजनने निमित्तमिति भावः ।
अत एवेति ।
उक्तरीत्या व्यङ्ग्यस्य गुणीभावादेवेत्यर्थः ।
इयतीति विस्मथविभावताप्राप्तिपूर्वकाभिलाषादिविभावताप्राप्तिपर्यन्ते ऽर्थ इत्यर्थः ।
अनन्तरन्तु तस्या गुणीभाव एवेत्याह--तथापीत्यादि ।
रसध्वनौ शृङ्गारादिध्वनौ ।
तस्यापि वाच्यस्यापि ।
न केवलमत्रैवेत्याह--इति सर्वस्येत्यादि ।
अत्रोपष्टम्भकमाह--अत एवेत्यादि ।
यदि गुणीभूतव्यङ्ग्यप्रभेदे वाच्यार्थस्यैव प्राधान्यं स्यात्त्दा ध्वनिः काव्यस्यात्मेति तत्र तत्रोद्धोष्यमाणमसङ्गतं स्यादिति भावः ।
शोकस्यास्य क्वचित्प्रबन्धे ऽनुपलम्भान्मुक्तकस्यौचित्यानुसारेण वर्ण्यविशेषनिर्वर्णनाविधेयेति दर्शयन् पक्षान्तरमाह--अन्ये त्वित्यादि ।
लावण्यद्रवसुन्दरीकृतनदीविषयेत्यनेन लावण्यसिन्धुरित्येतद्विवृतं लावण्यमयी लावण्यसुन्दरीकृता वा सिन्धुरिति विग्रहः, सिन्धुशब्दो न तिरस्कृतवाच्यो व्यञ्जक इति च भावः ।
उत्पलादिशब्दानान्तु प्रागुक्तैव व्यञ्जनपरिपाटीत्याह--तत्रापि चेत्यादि ।
अस्मिन् पक्षे कुवलयादीनामतिसुभगैकाधिकरणसमावेशकृतसौभाग्यलाभो न सामञ्जस्येन भवतीत्यस्वरसमन्य इत्यनेन सूचयन् पक्षान्तरमाह--यदि वेत्यादि ।
नदीसन्निधाविति ।
युवतिगतनिरतिशयलावण्यपूरव्याप्तत्वाल्लावण्यमयी सिन्धुर्यसायस्सेत्यर्थात्सन्धुशब्दो ऽत्रापि पक्षे मुख्यार्थक एव, न च प्रागुक्तदोषस्तरुण्या एव वर्णनीयत्वादिति भावः ।
पक्षत्रये ऽपि विवक्षितगुणीभूतव्यङ्ग्यप्रभेदत्वं निर्भाधमित्याह--सर्वर्थेत्यादि ।
निरूपितमिति ।
यथात्र व्यङ्ग्यस्य नायकवृत्तान्तस्य गुणीभावस्तथा दर्शितमित्यर्थः ।
ननु सन्ध्यादिशब्दानामतिरस्कृतवाच्यानामेन नायिकाद्यर्थप्रत्यायकत्वे ऽप्यनुरागशब्दस्य प्रेमवाचकत्वेनैव प्रसिद्धस्य रक्तिमरूपप्रकृतार्थे जहत्स्वार्थलक्षणाया एव वक्तव्यतया कथमतिरस्कृतवाच्यत्वमिति शङ्कां परिजिहीर्षुः प्रत्युत तत्पदस्य योगरूढ्या रक्तिमवाचकत्वमेव, प्रेमरूपार्थे इत्यादि ।
रसादिरूपव्यङ्ग्यस्य गुणीभावो रसवदलङ्कारे दर्शितः; तत्र च तेषामाधिकारिकवाक्यापेक्षया गुणीभावो विवहनप्रवृत्तभृत्यानुयायिराजवत् ।
व्यङ्ग्यालङ्कारस्य गुणीभावे दीवकादिविषयः ।
लोचनम् एतच्च प्रथमोद्द्योत एव निरूपितम् अनुरागशब्दस्य चाभिलाषे तदुपरक्तत्वलक्षणया लावण्यशब्दवत्प्रवृत्तिरित्यभिप्रायेणातिरस्कृतवाच्यत्वमुक्तम् ।
तस्यैवेति ।
वस्तुमात्रस्य ।
रसादीति ।
आदिशब्देन भावादयः रसवच्छब्देन प्रेयस्विप्रभृतयो ऽलङ्कारा उपलक्षिताः ।
नन्वत्यर्थं प्रधानभूतस्य रासदेः कथं गुणीभावः, गुणीभावे वा कथमचारुत्वं न स्यादित्याशङ्क्य प्रत्युत सुन्दरता भवतीति प्रसिद्धदृष्टान्तमुखेन दर्शयति---तत्र चेति ।
रसवदाद्यलङ्कारविषये ।
एवं वस्तुनो रसादेश्च गुणीभावं प्रदर्श्यालङ्कारात्मनो ऽपि तृतीयस्य व्यङ्ग्यप्रकारस्य तं दर्शयति---व्यङ्ग्यालङ्कारस्येति ।
उपमादेः ॥ 3.4 ॥
एवं प्रकारत्रयस्यापि गुणभावं प्रदर्श्य बहुतरलक्ष्यव्यापकतास्येति दर्शयितुमाह---तथेति ।
बालप्रिया तु निरूढलक्षणेत्यतिरस्कृतावाच्यत्वसुपपन्नमेवेति दर्शयति--अनुरागशब्दस्येत्यादि ।
अभिलाषे प्रेम्णि ।
तदिति ।
तत्पदार्थस्तद्वस्तु तदुपरक्तं येन तत्त्वं वस्तूपरञ्जकत्वं तेन निमित्तेन लक्षणयेत्यर्थः ।
लावण्यशब्दवदिति ।
सुषमाविशेषे लावण्यशब्दस्येवेत्यर्थः ।
प्रेमरूपार्थो व्यङ्ग्य एवेति बोध्यम् ।
रसवच्छब्देनेति ।
रसवदलङ्कारे दर्शित इत्यत्रत्यरसवच्छब्देनेत्यर्थः ।
रसवदलङ्कारविषयः प्राक्दर्शित इति च वृत्तौ पाठः ।
दृष्टान्तप्रदर्शनपूर्वकं रसादेर्गुणीभावप्रदर्शनस्य फलं तदसम्भवशङ्कानिवृत्तिरित्याशयेन शङ्कामाह--नन्वत्यर्थमित्यादि ।
वाच्यस्याप्यापेक्षिकं प्राधान्यमस्तीत्यतो ऽत्यर्थमित्युक्तम् ।
कथमिति ।
प्राधान्यगुणीभावयोरेकत्र समावेशो विरुद्ध एवेति भावः ।
ननु प्रधानस्यापि सतो रसादेः कविविवक्षावशाद्गुणीभावः किन्न स्यादित्यत आह--गुणीभावे वेति ।
प्रसिद्धदृष्टान्तेति ।
सुन्दरत्वेन प्रसिद्धदृष्टान्तेत्यर्थः ।
न हि राज्ञो विवाहप्रवृत्तमृत्यानुयायित्वमसुन्दरं भाति, प्रत्युत भृत्योत्कर्षविशेषो ऽपि राजोत्कर्षातिशयायैव कल्पिष्यत इति चारुत्वमेव पुष्णातीति भावः ॥ 3.4 ॥
अस्येति ।
गुणीभूतव्यङ्ग्यस्येत्यर्थः ।
प्रसादगुणयोगात्प्रसन्नानि व्यङ्ग्यार्थाक्षेपकत्वाद्गम्भीराणि चेति सम्बन्धः ।
सुखावहा इत्यनेन तेषु प्रकारो ऽयमेव योज्य तथा---
प्रसन्न-गम्भीर-पदाः काव्य-बन्धाः सुखावहाः ।
ये च तेषु प्रकारो ऽयम् एव योज्याः सुमेधसा
प्रसन्नगम्भीरपदाः काव्यबनधाः सुखावहाः ।
ये च तेषु प्रकारो ऽयमेव योज्यः सुमेधसा ॥ 35 ॥
ये चैते ऽपरिमितस्वरूपा अपि प्रकाशमानास्तथाविधार्थरमणीयाः सन्तो विवेकिनां सुखावहाः, काव्यबन्धास्तेषु सर्वेष्वेवायं प्रकारो गुणीभूतव्यङ्ग्यो नाम योजनीयः ।
यथाः---
लच्छी दुहिदा जामाउओ हरी तंस धरिणिआ गङ्गा ।
लोचनम् प्रसन्नानि प्रसादगुणयोगाद्गभीराणि च व्यङ्ग्यार्थक्षेपकत्वात्पदानि येषु ।
सुखावहा इति चारुत्वहेतुः ।
तत्रायमेव प्रकार इति भावः ।
सुमेधसेति ।
यस्त्वेतं प्रकारं तत्र योजयितुं न शक्तः स परमलीकसहृदयभावनामुकुलितलोचनोक्त्योपहसनीयः स्यादिति भावः ।
लक्ष्मीः सकलजनाभिलाषभूमिर्दुहिता ।
जमाता हरिः यः समस्तभोगापवर्गदानसततोद्यमी ।
तथा गृहिणी गङ्गा यस्याः समभिलषणीये सर्वस्मिन्वस्तुन्यपहत उपायभावः ।
अमृतमृगाङ्कौ च सुतौ, अमृतमिह वारुणी ।
तेन गङ्गास्नानहरिचरणाराधनाद्युपायशतलब्धाया लक्ष्म्याश्चन्द्रोदयपानगोष्ठ्युपभोगलक्षणं मुख्यें फलमिति त्रैलोक्यसारभूतता बालप्रिया इत्यत्र तत्प्रकारस्य चारुत्वेहेतुत्वं दर्शितमित्याशयेनाह--चारुत्वहेतुरित्यादि ।
तत्र तथाविधे काव्यबन्धे ।
सहृदयत्वप्रतिष्टालाभश्चैतत्प्रकारयोजनकौशलशालितानिबन्धन एवेति तदर्थिभिस्तद्विषये महाप्रयत्न आधेय इति दर्शयितुं सुमेधसेत्युक्तमित्याह--यस्त्वेतमित्यादि ।
अलीकेति ।
अयं न सहृदयः किन्त्वलीकसहृदयभावनया असत्यस्य सहृदयत्वस्थ भावनया रसास्वादवैवश्यं मनसः प्रकटयितुं मुकुलितलोचन आस्ते, पश्यतास्य विप्रलम्भकभावमिति सहृदयगोष्ठीषुपरिहासपात्रं स्यादित्यर्थः ।
लक्ष्मीर्दुहिता जामाता हरिस्तस्य हिणी गङ्गा ।
अमृतमृगाङ्कौ च सुतावहो कुटुम्बं महोदधः ॥
इति छाया ।
पदानामेतद्गतानां व्यङ्ग्यमर्थजातन्दर्शयन्योजनामाह--लक्षमीरित्यादि ।
सकलेत्यादि ।
समस्तेत्यादि ।
यस्या इत्यादि च तत्तत्पदव्यङ्ग्यार्थकथनम् ।
अमृतमिति ।
अमृतपदार्थं इत्यर्थः ।
वारुणीति ।
न पीयूषं तस्य चन्द्रोदयवदखिलजनसाधारण्याभावादिति भावः ।
तेनेति ।
उक्तेनार्थजातेनेत्यर्थः ।
गङ्गास्नानेत्यादिगुणीभावमनुभवतीत्यन्तस्यायमर्थः ।
यस्यां स्नानाद्यदाराधनादितश्च या लभ्यते सा गङ्गास्य गृहिण्येव, स हरिरस्य जामातैव, सा लक्ष्मीरस्यात्मजैव, लब्धाया आमिअमिअङ्का अ सुआ अहो कुडुम्बं महोअहिणो ॥
वाच्यालङ्कार-वर्गो ऽयं व्यङ्ग्यांशानुगमे सति ।
प्रायेणैव परां छायां बिभ्रल् लक्ष्ये निरीक्ष्यते
वाच्यालङ्कारवर्गो ऽयं व्यङ्ग्यांशानुगमे सत ।
प्रायेणैव परां छायां बिभ्रल्लक्ष्ये निरीक्ष्यते ॥ 36 ॥
वाच्यालङ्कारवर्गो ऽयं व्यङ्ग्यांशस्यालङ्कारस्य वस्तुमात्रस्य वा यथोयोगमनुगमे सति च्छायातिशयं विभ्रल्लक्षणकारैरेकदेशेन दर्शितः ।
स तु तथारूपः प्रायेण सर्व एव परीक्ष्यमाणो लक्ष्ये निरीक्ष्यते ।
तथा हि--दीपकसमासोक्त्यादिवदन्ये ऽप्यलङ्काराः प्रायेण व्यङ्ग्यालङ्कारान्तरवस्त्वन्तरसंस्पर्शिनो दृश्यन्ते ।
लोचनम् प्रतीयमाना सती अहो कुटुम्बं महोदधेरित्यहोशब्दाच्च गुणीभावमनुभवति ॥ 3.5 ॥
एवं निरलङ्कारेषूत्तानतायां तुच्छतयैव भासमानममुनान्तःसारेण काव्यं पवित्रीकृतमित्युक्त्वालङ्कारस्याप्यनेनैव रम्यतरत्वमिति दर्शयति--वाच्येति ।
अंशत्वं गुणमात्रत्वम् ।
एकदेशेनेति ।
एकदेशविवर्तिरूपकमनेन दर्शितम् ।
बालप्रिया लक्ष्म्यास्सम्पद्रूपाया उपभोगाभावे चालब्धकल्पत्वाच्चन्द्रोदयकाले वारुण्युपभोगो हि मुख्यं फलं, स चन्द्रस्सा वारुणी चास्य पुत्रभावमेव भजत इति महोदधिरेव त्रैलोक्यसार इतीयानर्थो ऽत्र ध्वननव्यापारादवगम्यते ।
स चावगतस्सन्नहो कुटुम्बमिति शब्दस्पृष्टतया गुणीभावमवलम्बते यतः, तद्व्यङ्ग्यार्थजातोपस्कृत एव वाच्यार्थो विस्मयविभावतां प्राप्नोति चमत्कारातिशयञ्च विधत्त इति ॥ 3.4॥
पूर्वकारिकातात्पर्यार्थकथनपूर्वकमुत्तरकारिकामावतारयति--एवमित्यादि ।
निरलङ्कारेष्विति ।
लक्ष्मीरित्याद्युक्तोदाहरणे न कश्चिदलङ्गारः स्फुटो ऽवगम्यत इति भावः ।
उत्तानतायामिति ।
आपाततः प्रतीतावित्यर्थः ।
भासमानं काव्यमिति सम्बन्धः ।
भासमानमपीति च पाठः ।
अमुना गुणीभूतेन व्यङ्ग्येन ।
अन्तरसारेणेति ।
अन्तरस्सारत्वं गुणीभावे ऽपि बालक्रीडाकालीनरजत्वन्यायेन नैसर्गिकमुत्कर्षशालित्वम् ।
अलङ्कारस्येति जात्येकवचनम् ।
अनेनैवेति ।
गुणीभूतव्यङ्ग्येनैवेत्यर्थः ।
रम्यतरत्वमिति ।
अलङ्कारत्वात्स्वतो रम्यत्वमस्तीति तरप्प्रत्ययः ।
अत एव "परां छायामि"ति छायातिशयमिति चोक्तम् ।
व्यङ्ग्यांशानुगम इत्यत्र व्यङ्ग्यस्य वाच्यं प्रत्यंशत्वं गुणीभूतत्वमेवेत्याह--अंशत्वं गुणमात्रत्वमिति ।
अनेन दर्शितमिति ।
नामग्रहणे नामैकदेशग्रहणमिति न्यायेनैकदेशशब्द एकदेशविवर्तिरूपकपर इति भावः ।
यतः प्रथमं तावदतिशयोक्तिगर्भता सर्वालङ्कारेषु शक्यक्रिया ।
कृतैव च सा महाकविभिः कामपि काव्यच्छर्विपुष्यति, कथं ह्यतिशययोगिता स्वविषयौचित्येन क्रियमाणा सती काव्ये लोचनम् तदयमर्थः--एकदेशविवर्तिरूपके--- राजसंसैरवीज्यन्त शरदैव सरोनृपाः इत्यत्र हंसानां यच्चामरत्वं प्रतीयमानं तन्नृपा इति वाच्ये ऽर्थे वाच्ये ऽर्थे गुणतां प्राप्तमलङ्कारकारैर्यावदेव दर्शितं तावदमुना द्वारेण सूचितो ऽयं प्रकार इत्यर्थः ।
अन्ये त्वेकदेशेन वाच्यभागवैचित्र्यमात्रेणेत्यनुद्भिन्नमेव व्याचचक्षिरे ।
व्यङ्ग्यं यदलङ्कारान्तरं वस्त्वन्तरं च संस्पृशन्ति ये स्वात्मनः संस्कारायाश्लिष्यन्तीति ते तथा ।
महाकविभिरिति ।
कालिदासादिभिः ।
काव्यशोभां पुष्यतीति यदुक्तं तत्र हेतुमाह---कथं हीति ।
हि शब्दो हेतौ ।
अतिशययोगिता कथं नोत्कर्षमावहेत् काव्ये नास्त्येवासौ प्रकार इत्यर्थः ।
स्वविषये यदौचित्यं तेन चेद्धृदयस्थितेन तामतिशयोक्तिं कविः करोति ।
यथा भट्टेन्दुराजस्य-- यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् ।
बालप्रिया कथमेकदेशविवर्तिरूपकेण तत्प्रदर्शनमित्यत आह---तदयमर्थ इत्यादि ।
प्रतीयमानमिति ।
सरसां नृपत्वरूपणमेव शाब्दन्तत्सामर्थ्याद्वीजनोपायभूतानां हंसानाञ्चामरत्वं व्यङ्ग्यमित्यर्थः ।
शरदश्चामरग्राहिणीत्वमप्यत्र व्यङ्ग्यं बोध्यम् ।
प्रात्पं प्राप्तं सत् ।
दर्शितमिति ।
अत्रोक्तव्यङ्ग्योपस्कृतस्य वाच्यस्यैव चमत्कारकारित्वाद्व्यङ्ग्यस्य गुणीभूतत्वं स्पष्टीकृतमित्यर्थः ।
यावदेवेति ।
कालावधिनिर्देशस्तस्य स्पष्टत्वातिशयसूचनार्थः ।
तावदिति ।
तद्दर्शनमात्रावसर एवानन्यापेक्षया स्फुटावसेयो ऽयमिति भावः ।
अमुना द्वारेणेति ।
उपलक्षणन्यायेनेत्यर्थः ।
अयं प्रकारः कारिकोक्तप्रकारः ।
एकदेशेन दर्शित इत्यस्यान्येषां व्याख्यानमाह--अन्य इत्यादि ।
एकदेशेनेत्यस्य व्याख्यानम्--वाच्य इत्यादि ।
अनुद्भिन्नमिति ।
अस्पष्टार्थकमित्यर्थः ।
व्यङ्ग्यमित्यस्योभयविशेषणत्वं योजयन्नाह--व्यङ्ग्यमित्यादि ।
संस्पृशन्तीत्यस्य विवरणम्--स्वात्मन इत्यादि ।
संस्काराय अतिशययोगाय ।
काव्य इत्यस्य पूर्वेण सम्बन्धः ।
नास्त्येवेत्यादि ।
सत्यामतिशययोगितायामनासादितोत्कर्षः काव्यप्रकारो नास्त्येवेत्यर्थः ।
किं सर्वथा नेत्याह--स्वविषय इत्यादि ।
स्वविषये स्वस्या अतिशयोक्तेर्यो विषयस्तस्मिन् ।
औचित्यं सम्भाव्यमानत्वलक्षणम् ।
तेन हृदयस्थितेनेति ।
कविहृदयस्थेन तदौचित्येनोपलक्षितामित्यर्थः ।
करोति चेत्तदा नास्त्येवासौ प्रकार इति सम्बन्धः ।
नोत्कर्षमावहेत् ।
भामहेनाप्यतिशयोक्तिलक्षणे यदुक्तम्--- लोचनम् दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोः कृण्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः ॥
अत्र हि भगवतो मन्मथवपुषः सौभाग्यविषयः सम्भाव्यत एवायमतिशय इति तत्काव्ये लोकोत्तरैव शोभोल्लसति ।
अनौचित्येन तु शोभा लोयेत एव ।
यथा-- अल्पं निर्मित्तमाकाशमनालोच्यैव वेधसा ।
इदमेवंविधं भावि भवत्याः स्तनजृम्भणम् ॥
इति ।
नन्वतिशयोक्तिः सर्वालङ्कारेषु व्यङ्ग्यतयान्तलींनैवास्त इति यदुक्तं तत्कथम्? यतो भामहो ऽतिशयोक्तिं सर्वालङ्कारसामान्यरूपामवादीत् ।
न च सामान्यं शब्दाद्विशेषप्रतीतेः पृथग्भूततया पश्चात्तनत्वेन चकास्तीति कथमस्य व्यङ्ग्यत्वमित्याशङ्क्याह--भामहेनेति ।
बालप्रिया तत्रौचित्ययुक्तमुदाहरणमाह--यदित्यादि ।
व्याख्यातो ऽयं श्लोकः ।
भगवत इति मन्मथवपुष इत्यत्र, तच्च सम्भाव्यत एवेत्यत्र च हेतुः ।
सम्भाव्यत एवेति ।
एवं भवेदिति ।
प्रतिपत्तृभिस्सम्भाव्यमान एवेत्यर्थः ।
च हेतुः ।
सम्भाव्यत एवेति ।
एवं भवेदिति प्रतिपत्तृभिस्सम्भाव्यमान एवेत्यर्थः ।
एवकारेणासम्भाव्यमानत्वव्यवच्छेदः ।
अयं सौभाग्यविषयो ऽतिशय इति ।
वनितावस्थाविशेषवर्णनेन प्रतीयमानस्सौन्दर्यादिगुणातिशय इत्यर्थः ।
तत्काव्ये तादृशि काव्ये ।
एतदेव प्रत्युदाहरणमुखेन स्फुटयिष्यन्नाह--अनौटचित्येनेत्यादि ।
लीयत एवेति ।
शोभोल्लासस्य कावार्तेति भावः ।
अल्पमिति ।
अल्पं निर्मितमिति ।
स्तनयोः पर्याप्तावकाशत्वाभावेनेति भावः ।
इदमिति ।
दृश्यमानमित्यर्थः ।
एवंविधमिति ।
वक्तुमशक्यमित्यर्थः ।
अत्रातिमहतो ऽप्यवकाशात्मकाकाशस्याल्पत्वेन निर्माणोक्त्या ततो ऽप्यतिशयितं महत्वं स्तनयोः प्रतीयत इति अतिशयोक्तिर्व्यङ्ग्या, परन्त्वियं स्तनयोस्तथाविधमहत्वस्यासम्भाव्यमानत्वेनानौचित्यवतीति काव्योत्कर्षं सम्पादयितुं न क्षमत इति भावः ।
भामहेनापीत्यादिग्रन्थः प्रकृते किमर्थ इत्यतस्तमवतारयति--नन्वित्यादि ।
यदुक्तमिति ।
अतिशयोक्तिगर्भता सर्वालङ्कारेषु शक्यक्रियेति ग्रन्थेनेति भावः ।
कथमिति ।
अयुक्तमित्यर्थः ।
कुत इत्यत्राह--यत इत्यादि ।
भामहः अलङ्कारलक्षणकारकूटस्थो भामहनामा आचार्यः ।
अवादीदिति ।
सैषा सर्वैव वक्रोक्तिरिति ग्रन्थेनोक्तवानित्यर्थः ।
ऽसर्वापि वक्रोक्तिःऽ सर्व एवालङ्कारः ।
ऽसैषाऽ येयमुक्तातिशयोक्तिः सैवेति तत्तदलङ्काराणां विशेषत्वं तत्सामान्यरूपत्वञ्चातिशयोक्तेरिति तदर्थः ।
भवत्वेवं तावता प्रकृते किमायातमित्यत आह--न चेत्यादि ।
कथमस्य व्यङ्ग्यत्वमिति ।
व्यङ्ग्यं हि वाच्यात पृथक्तया तत्प्रतीत्युत्तरं शब्दात्प्रतीयते समान्यन्त्वन्यथा गौरित्यादिशब्देन सैषा सर्वैव वक्रोक्तिरनयार्थो विभाव्यते ।
यत्नो ऽस्यां कविना कार्यः को ऽलङ्कारो ऽनया विना ॥
इति ।
तत्रातिशयोक्तिर्यमलङ्कारमधितिष्ठति कविप्रतिभावशात्तस्य चारुत्वातिशययोगो ऽन्यस्य लोचनम् भामहेनापि यदुक्तं तत्रायमेवार्थो ऽवगन्तव्य इति दूरेण सम्बन्धः ।
किं तदुक्तम्--सैषेति ।
यातिशयोक्तिर्लक्षिता सैव सर्वा वक्रोक्तिरलङ्कार प्रकारः सर्वः ।
वक्राभिधेयशब्दोक्तिरिष्टा वाचामलङ्कृतिः इति वचनात् ।
शब्दस्य हि वक्रता अभिधेयस्य च वक्रता लोकोत्तीर्णेन रूपेणावस्थानमित्ययमेवासावलङ्कारस्यालङ्कारभावः, लोकोत्तरतैव चातिशयः, तेनातिशयोक्तिः सर्वालङ्कारसामान्यम् ।
तथा हि---अनया अतिशयोक्त्या, अर्थः सकलजनोपभोगपुराणीकृतो ऽपि विचित्रतया भाव्यते ।
तथा प्रमदोद्यानादिः विभावतां नीयते ।
बालप्रिया सामान्यविशेषयोरपृथक्तया समकालमेवावभासादित्यलङ्कारविशेषप्रतीत्युतरं तत्पृथक्तया भासमानत्वं व्यापकं व्यापकं निवर्तमानं स्वव्याप्यं व्यङ्ग्यत्वमपि निवर्तयतीति तस्य व्यङ्ग्यत्वोक्तिर्भामहवचनव्याहतत्वादयुक्तेत्यर्थः ।
व्यवहितत्वादन्वयन्दर्शयति---भामहेनापीत्यादि ।
तदुक्तं भामहोक्तम् ।
श्लोकं व्याचष्टे---येत्यादि ।
लक्षितेति ।
"निमित्ततो वचो यत्त्वि"त्यादिग्नन्थेन लक्षितेत्यर्थः ।
वक्रा वक्ष्यमाणस्वरूपवक्रताविशिष्टा ।
उक्तिरुच्यमानो ऽर्थ इत्यर्थाभिप्रायेण व्याचष्टे--येत्यादि ।
लक्षितेति ।
"निमित्ततो वचो यत्त्वि"त्यादिग्रन्थेन लक्षितेत्यर्थः ।
वक्रा वक्ष्यमाणस्वरूपवक्रताविशिष्टा ।
उक्तिरुच्यमानो ऽर्थ इत्यर्थाभिप्रायेण व्याचष्टे--अलङ्कारप्रकार इति ।
अलङ्कारविषेष इत्यर्थः ।
वक्रोक्तिशब्दस्यालङ्कारार्थकत्वे भामहोक्तिमेव संवादयति--वक्रेत ।
अलङ्कृतिरिति ।
अलङ्क्रियेति च पाठः ।
वक्रशब्दो ऽत्रासम्भवत्स्वार्थस्सादृश्यात्प्रसिद्धपथातिलङ्घिरूपान्तरशालित्वेन लक्ष्यतीत्याशयेनाह--लोकेत्यादि ।
लोकीत्तीर्णेन रूपेण लोकप्रसिद्धशास्त्रेतिहासादिव्यावृत्तेन रूपेण ।
तच्च रूपं विवक्षितरसाभिव्यञ्जनं प्रति योग्यत्वापत्तिलक्षणम् ।
अयमेवेत ।
रसाभिव्यञ्जनयोग्यत्वरूपलोकोत्तीर्णरूपमेवेत्यर्थः ।
अलङ्कारस्यालङ्कारभावः उपमादेरलङ्कारत्वम् ।
तथाच वक्रोक्तिशब्दो ऽलङ्कारार्थक इति भावः ।
तथापि कथमतिशयोक्तिरूपत्वमत आह--लोकोत्तरतैवातिशय इति ।
फलितमाह--तेनेति ।
अनयेत्यादिभागं विवृणोति--तथाहीत्यादि ।
तथाहीति ।
वक्ष्यमाणमुक्तोपपादकमित्यर्थः ।
सकलेति ।
पुराणीकृतः अनास्वाद्यतां नीतः ।
विशब्दार्थविवरणं विचित्रतयेति ।
नवनवविशेषशालितयेत्यर्थः ।
भाव्यते निष्पाद्यते ।
यथाहुः--"स्वभावश्चायमर्थानां यन्न साक्षादमी तथा ।
स्वदन्ते सत्कविगिरां गात गोचरतां यथे"ति ।
अर्थद्वयञ्चान्यद्विभाव्यत इत्यनेन विवक्षितमिति दर्शयति--तथेत्यादि ।
प्रमदोद्यानादिरिति त्वलङ्कारमात्रतैवेति सर्वालङ्कारशरीरस्वीकरणयोग्यत्वेनाभेदोपचारात्सैव सर्वालङ्काररूपेत्ययमेवार्थो ऽवगन्तव्यः ।
तस्याश्चालङ्कारान्तरसंकीर्णत्वं लोचनम् विशेषेण च भाव्यते रसमयीक्रियते, इति तावत्तेनोक्तं, तत्र को ऽसावर्थ इत्यत्राह अभेदोपचारात्सैव सर्वालङ्काररूपेति ।
उपचारे निमित्तमाह--सर्वालङ्कारेति ।
उपचारे प्रयोजनमाह--अतिशयोक्तिरित्यादिना अलङ्कारमात्रतैवेत्यन्तेन ।
मुख्यार्थबाधो ऽप्यत्रैव दर्शितः कविप्रतिभावशादित्यादिना ।
अयं भावः---यदि तावदतिशयोक्तेः सर्वालङ्कारेषु सामान्यरूपता सा तर्हि तादात्म्यपर्यवसायिनीति तद्य्वतिरिक्तो नैवालङ्कारो दृश्यत इति कविप्रतिभानं न तत्रापेक्षणीयं स्यात् ।
बालप्रिया अर्थ इत्यनुषज्यते ।
विशेषेण भाव्यत इत्यस्यैव विवरणं--रसेत्यादि ।
इतीत्यादिपिण्डितार्थकथनम् ।
तावदित्यविसंवादे ।
तत्रेति ।
तद्वचन इत्यर्थः ।
असाविति ।
अयमेवेत्यत्रेदंशब्देन विवक्षित इत्यर्थः ।
उपचारे हि त्रितयमवश्यं वक्त; निमित्तं प्रयोजनं मुख्यार्थबाधश्चेति ।
तत्राभिधेयसम्बन्धलक्षणनिमित्तसमर्पकं सर्वालङ्कारेत्यादिकमित्याहोपचार इत्यादि ।
निमित्तमाहेति ।
तथाचालङ्कारशरीरस्वीकरणयोग्यत्वरूपमुख्यार्थसादृश्यं निमित्तमिति भावः ।
अतिशयोक्तिरित्यादिकं प्रयोजनसमर्पकमित्याह--उपचार इत्यादि ।
वृत्तौ ऽयमलङ्कारमधितिष्ठतीऽति ।
येनालङ्कारेण सम्बध्नातीत्यर्थः ।
ऽतस्येऽति ।
अतिशयोकितिसम्बद्धस्येत्यर्थः ।
ऽअन्यस्येऽति ।
अतिशयोक्त्यसम्बद्धस्येत्यर्थः ।
तथाचोपमादेरतिशयोक्तिसम्बन्धेन चारुत्वातिशयस्य द्योतनं प्रयोजनमिति भावः ।
लोचने--अत्रैवेति ।
प्रयोजनसमर्पकग्रन्थ एवेत्यर्थः ।
कथमनेन मुख्यार्थवाधवगम इत्यपेक्षायामाशयमुन्मीलयन्नाह--अयं भाव इत्यादि ।
यथा खण्डमुण्डादिविशेषेषु गोत्वादेरनुवृत्ततया सामान्यरूपत्वन्तथा उपमादिविशेषेष्वतिशयोक्तेरनुवृत्ततया सामान्यात्मकत्वात्सर्वा वक्रोक्तिस्सैवेत्यभेदव्यपदेशो मुख्यो वा, सामान्यविशेषबावस्याविवक्षयानया वाचोयुक्त्या ध्वनिरेव काव्यात्मेति पक्षप्रतिक्षेपार्थमतिशयोक्तेः काव्यजीवितत्वं वा विवक्षितमिति विकल्पं मनसि कृत्याद्यन्दूषयति--यदि तावदित्यादि ।
तादात्म्यपर्यवसायिनीति ।
तथाच यथा खण्डमुण्डादयो गोत्वाद्यात्मकास्तथा सर्वे ऽलङ्कारा अतिशयोक्त्यात्मान एव भवेयुरिति भावः ।
नन्वस्तु तादात्म्यमित्यत आह--इति तद्व्यतिरिक्त इत्यादि ।
तद्य्वतिरिक्तः अतिशयोक्तिव्यतिरिक्तः ।
तत्र अतिशययोजने ।
अनपेक्षणायन्न स्यादिति ।
यथा खण्डादीनां स्वत एव गोत्वाद्याकारशालित्वं नान्यापेक्षं तथा उपमादेरतिशययोगित्वमपीति कविप्रतिभातारतम्यकृतातिशयतारतम्ययोगित्वमुपलभ्यमानं कदाचिद्वाच्यत्वेन कदाचिद्य्वङ्ग्यत्वेन ।
व्यङ्ग्यत्वमपि लोचनम् अलङ्कारमात्रं च न किञ्चिद्दृश्येत ।
अथ सा काव्यजीवितत्वेनेत्थं विवक्षिता, तथाप्यनौचित्येनापि निबध्यमाना तथा स्यात् ।
औचित्यवती जीवितमिति चेत्--औचित्यनिबन्धनं रसभावादि मुक्त्वा नान्यत्किञ्चिदस्तीति तदेवान्तर्यामि मुख्यं जीवितमित्यभ्युपगन्तव्यं न तु सा ।
एतेन यदाहुः केचित्--औचित्यघटितसुन्दरशब्दार्थमये काव्ये किमन्येन ध्वनिनात्मभूतेनेति ते स्ववचनमेव ध्वनिसद्भावभ्युपगमसाक्षिभूतं मन्यमानाः प्रत्युक्ताः ।
ततश्चोपपन्नमतिशयोक्तेर्व्यङ्ग्यत्वमिति ।
यदुक्तमलङ्कारान्तरस्वोकरणं तदेव त्रिधा विभजते--तस्याश्चेति ।
वाच्यत्वेनेति ।
सापि वाच्या भवति ।
यथा--ऽअपरैव हि केयमत्रऽ इति ।
अत्र रूपके ऽप्यतिशयः बालप्रिया विरुद्ध्येतेति भावः ।
दूषणान्तरमाह--अलङ्कारमात्रमित्यादि ।
किञ्चिदलङ्कारमात्रमतिशयोक्त्यनालिङ्गितमपि दृश्यते, तदप्यघटमानं स्यादित्यर्थः ।
द्वितीयमुत्थाप्य दूषयति--अथेति ।
सा अतिशयोक्तिः ।
काव्यजीवितत्वेनेत्थं विवक्षिता काव्यजीवितत्वप्रदर्शनाय सर्वा वक्रोक्तिस्यैषेत्युक्ता तथापीत्यङ्गीकृत्य वादसूचकम् ।
किमतिशयोक्तिमात्रस्य जीवितत्वं विवक्षितं, किं वा यत्किञ्चिद्विशिष्टस्य? नाद्यः पक्ष इत्याह--अनौचत्येनापीति ।
सेत्यनुषङ्गः ।
यथा "अल्पं निर्मितमि"त्यादौ ।
तथा काव्यजीवितम् ।
द्वितीयमनुवदपि--औचित्यवतीति ।
यथा "यद्विश्रम्ये"त्यादौ ।
तर्हि अस्मदभिमतंसिद्धमित्याह--औचित्यनिबन्धनमित्यादि ।
रसादिकमेवौचित्यप्रयोजकमिति प्रागेवोक्तम् ।
मुख्यत्वे हेतुः--अन्तर्यामीति ।
न तु सेति ।
सा औचित्यवत्यतिशयोक्तिः ।
प्रसङ्गादाह--एतेनेत्यादि ।
एतेन प्रत्युक्ता इति सम्बन्धः ।
स्ववचनमेवेति ।
औचित्यघटितेति वचनमेवेत्यर्थः ।
ध्वनिसद्भावेति ।
औचित्यस्य रसादिनिबन्धनत्वाद्रसादिध्वनिसद्भावस्याभ्युपगमे प्रमाणीभवेदित्यर्थः ।
उपसंहरति--तस्मादित्यादि ।
अभेदोपचार एवायमिति ।
सर्वा वक्रोक्तिस्सैषेति निर्देशो मुखं चन्द्र इत्यादिवदभेदोपचार एवेत्यर्थः ।
औपचारिकत्वोपपादनफलमाह--ततश्चेत्यादि ।
तस्याश्चेत्यादिग्रन्थस्य प्रकृतेन सङ्गतिम्दर्शयन्नाह--यदुक्तमित्यादि ।
उक्तमिति ।
उपचारनिमित्ततया पूर्वोक्तमित्यर्थः ।
अलङ्कारान्तरस्वीकरणमिति ।
अलङ्कारातरसङ्कीर्णत्वमित्यर्थः ।
तस्या इत्यस्य वाच्यत्वेनेत्यनेनापि सम्बन्ध इति व्याचष्टे--सापीत्यादि ।
सा अतिशयोक्तिः ।
अत्रोदाहरणं लावण्येत्याद्युक्तमेव दर्शयति--यथेत्यादि ।
अत्र वाच्यालङ्कारन्दर्शयन्नतिशयोक्तेर्व्यङ्ग्यत्वाभावमाह--अत्रेत्यादि ।
नयनादीनामुत्पलत्वादिरूपणाद्रूपकस्य वाच्यत्वं तावद्व्यक्तमेव, अतिशयोक्तेस्तु कदाचित्प्राधान्येन कदाचिद्गुणभावेन ।
तत्राद्ये पक्षे वाच्यालङ्कारमार्गः ।
द्वितीये तु ध्वनावन्तर्भावः ।
तृतीयेतु गुणीभूतव्यङ्ग्यरूपता ।
अयं च प्रकारो ऽन्येषामप्यलङ्काराणामस्ति, तेषां तु न सर्वविषयः ।
अतिशयोक्तेस्तु सर्वालङ्कारविषयो ऽपि सम्भवतीत्ययं विशेषः ।
येषु चालङ्कारेषु सादृश्यमुखेन तत्त्वप्रतिलम्भः यथा रुपकोपमातुल्ययोगतानिदर्शनादिषु तेषु गम्यमानधर्ममुखेनैव यत्सादृश्यं तदेव शोभातिशयशालि भवतीति ते सर्वे ऽपि चारुत्वातिशययोगिनः सन्तो गुणीभूतव्यङ्ग्यस्यैव लोचनम् शब्दस्पृगेव ।
अस्य त्रैविध्यस्य विषयविभागमाह--तत्रेति ।
तेषु प्रकारेषु मध्ये य आद्यः प्रकारस्तस्मिन् ।
नन्वतिशयोक्तिरेव चेदेवम्भूता तत्किमपेक्षया प्रथमं तावदिति क्रमः सूचित इत्याशङ्क्याह--अयं चति ।
यो ऽतिशयोक्तौ निरूपितो ऽलङ्कारान्तरे ऽप्यनुप्रवेशात्मकः ।
नन्वेवमपि प्रयममिति केनाशयेनोक्तमित्याशङ्क्याह--तेषामिति ।
एवमलङ्कारेषु तावद्व्यङ्ग्यस्पर्शो ऽस्तीत्युक्त्या तत्र किं व्यङ्ग्यत्वेन भातीति ।
विभागं व्युत्पादयति--येषु चेति ।
रूपकादीनां पूर्वमेवोक्तं स्वरूपम् ।
निदर्शनायास्तु ऽक्रिययैव तदर्थस्य बालप्रिया व्यङ्ग्यतया स्थातुमारब्धाया अपि अपरैवेति शब्देन स्पृष्टत्वाद्वाच्यत्वमापतितमिति द्वयोर्वाच्यत्वमित्यर्थः ।
नव्यमते त्वपरैवेत्यत्र भेदकातिशयोक्तिः, यत्रोत्पलानीत्यादौ रूपकातिशयोक्तिः ।
भोजराजमते त्वत्र समासोक्तिरित्यादिमतभेदा बोध्याः ।
अस्येति ।
विषयविभागविरहे त्रैविध्यप्रदर्शनस्य मन्दफलत्वादिति भावः ।
आद्यः प्रकारः द्वयोरपि वाच्यतत्वात्मकः ।
अतियोक्तावुक्तस्य प्रकारस्यायञ्चेत्यादिनालङ्कारान्तरेष्वतिदेशः कृतः, तत् किमर्थमित्यतो ऽवतारयति--नन्वित्यादि ।
चेदित्यसन्दिग्धे सन्देहवचनम् ।
अतिशयोक्तेरेवैतद्युज्येत ।
तस्यास्सर्वालङ्कारशरीरस्वीकरणार्हत्वस्योक्तत्वादिति भावः ।
निरूपित येत्यादि ।
क्रमो हि सत्स्वेव बहुषु क्रमिकेषु घटेत, नान्यथेति भावः ।
निरूपित इति ।
प्रकार इति शेषः ।
प्रथममिति केनाशयेनोक्तमिति ।
प्राथम्यं प्राधान्येनेति वक्तव्यं प्राधान्यं किन्निबन्धनमित्यर्थः ।
आह तेषामितीति ।
तेषामित्यादिना विशेष इत्यन्तेनाहेत्यर्थः ।
व्यङ्ग्यस्पर्शो ऽस्तीत्युक्त्वेति ।
वाच्यालङ्कारवर्गो ऽयमित्यादिग्रन्थेनोक्त्वेत्यर्थः ।
किमित ।
अलङ्कारान्तरं वस्त्वन्तरं वेत्यर्थः ।
वृत्तौ ऽतत्वप्रतिलम्भऽ इति ।
अलङ्कारत्वप्राप्तिरित्यर्थः ।
ऽरूपकेऽत्यादि ।
रूपकादौ सादृश्यं व्यङ्ग्यमुपमा तु तत्स्वरूपैवेति बोध्यम् ।
लोचने--क्रिययेति ।
लक्षणमिदमुदाविशिष्टस्योपदर्शनम् ।
विषयाः ।
समासोक्त्याक्षेपपर्यायोक्तादिषु तु गम्यमानांशाविनाभावेनैव तत्त्वव्यवस्थानाद्गुणीभूतव्यङ्गता निर्विवादैव ।
तत्र च गुणीभूतव्यङ्ग्यतायामलङ्काराणां केषाञ्चिदलङ्कारविशेषगर्भतायां नियमः ।
यथा व्याजस्तुतेः प्रेयोलङ्कारगर्भत्वे ।
केषाञ्चिदलङ्कारमात्रगर्भतायां नियमः ।
यथा सन्देहादीनामुपमागर्भत्वे ।
केषाञ्चिदलङ्काराणां परस्परगर्भतापि सम्भवति ।
मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0