ध्वन्यालोक (टीका सहित) · भाग 441460
यथा पीनो देवदत्तो दिवा न भुङ्क्त इत्यादौ श्रुतस्य पीनत्वादे रुपपादकतया रात्रिभोजनादिकं कल्प्यते ।
कल्पितस्य तस्यार्थान्तरस्य पीनत्वाद्युपपादन एव पर्यवसानञ्च तथा गुणवृत्तिस्थले ऽर्थान्तरस्य लक्ष्यस्य पदान्तराभिधेयार्थोपपादन एव वर्यवसितिर्यतस्तस्मादित्यर्थः ।
वृत्तौ ऽव्यङ्ग्यमात्राश्रयेणेऽत्यत्र मात्रपदेन चारुत्वहेतुर्मुख्यव्यङ्गयं व्यावर्त्यते ।
ऽप्रिये जनऽइति ।
प्रिय इति तीक्ष्णत्वादत्यादिवद्गुणरूपहेतुकथनं पुनरुक्तपदेनानुपादेयत्वं लक्ष्यत इति पूर्वमेवोक्तम् ।
एषूदाहरणेषु तीक्ष्णत्वादिगुणानामाधिक्यं व्यङ्ग्यं, तत्तु न चारुत्वकारीति भावः ।
ऽउपलक्षणीयेऽति ।
उपलणीयो लक्ष्यो यो ऽर्थो मञ्जस्थबालकादिस्तेन सह यस्सम्बन्ध आधाराधेयभावादिर्मञ्चादपदमुख्यार्थस्य तन्मात्राश्रयेणेत्यर्थः ।
मात्रपदव्यावर्त्यकथनं ऽचारुरूपेऽत्यादि ।
ऽमञ्चाऽ इति ।
अत्र मञ्चस्थबालकानां बहुत्वादकं व्यङ्ग्यं तदपि न चारुत्वकारि ।
ऽचारुरूपऽमित्येतद्विवृणोति लोचने--विश्रान्तीत ।
ननु विनापि चारुव्यङ्ग्यप्रतीतिं व्यञ्जनाव्यापारो भवत्वित्यत आह--तदभाव इत्यादि ।
तदभावे चारुव्यङ्ग्याभावे ।
सः लक्षणामूलकः ।
उन्मीलति प्रकाशते ।
कुत इत्यत आह--प्रत्यावृत्येत्यादि ।
क्षणेति ।
क्षण एव दृष्टो नष्टश्च दिव्यविभवो यस्य सः तथाविधो यः प्राकृतो दरिद्रः पुरुषः तद्वत् ।
तस्य यथा प्रत्यावृत्य प्राकृतविभाव एव तथा व्यञ्जनाव्यापारस्य यत्र तु सा चारुरूपव्यङ्ग्यप्रतीतिहेतुस्तत्रापि व्यञ्जकत्वानुप्रवेशेनैव वाचकत्ववत् ।
असम्भविना चार्थेन यत्र व्यवहारः, यथा---ऽसुवर्णपुष्पां पृथिवीम्ऽ इत्यादौ तत्र चारुरूपव्यङ्ग्यप्रतीतिरेव प्रयोजिकेति तथाविधे ऽपि लोचनम् ननु यत्र व्यङ्ग्ये ऽर्थे विश्रान्तिस्तत्र किं कर्तव्यमित्याशङ्क्याह--यत्र त्विति ।
अस्ति तत्रापरो व्यञ्जनव्यापारः परस्फुट एवेत्यर्थः ।
दृष्टान्तं पराङ्गीकृतमेवाह---वाचकत्ववदिति ।
वाचकत्वे हि त्वयैवाङ्गीकृतो व्यञ्जनव्यापारः प्रथमं ध्वनिप्रभेदमप्रत्याचक्षणेनेति भावः ।
किञ्च वस्त्वन्तरे मुख्ये सम्भवति सम्भवदेव वस्त्वन्तरं मुख्यमेवारोप्यते विषयान्तरमात्रतस्त्वारोपव्यवहार इति जीवितमुपचारस्य, सुवर्णपुष्पाणां तु मूलत एवासम्भवात्तदुच्चयनस्य तत्र क आरोपव्यवहारः; ऽसुवर्णपुष्पां पृथिवीम्ऽ इति हि स्यादारोपः, तस्मादत्र व्यञ्जनव्यापार एव प्रधानभूतो नारोपव्यवहारः, स परं व्यञ्जनव्यापारानरोधितयोत्तिष्ठति ।
तदाह--असम्भविनेति ।
प्रयोजिकेति ।
व्यङ्ग्यमेव हि प्रयोजनरूपं प्रतीतिविश्रामस्थामारोपिते त्वसम्भवति प्रतितिविश्रान्तिराशङ्कनीयापि न भवति ।
बालप्रिया वाच्यार्थ एव विश्रान्तिर्यतस्तस्मादित्यार्थः ।
वृत्तौ ऽयत्रेऽत्यादि ।
ऽसेऽति ।
गुणवृत्तिरित्यर्थः ।
ऽव्यञ्जकत्वानुप्रवेशेनैवेऽति ।
भवतीति शेषः ।
ग्रन्थमेतमवतारयति---नन्वित्यादि ।
अपर इति ।
चारुरूपव्यङ्ग्यप्रत्यायकत्वाद्विलक्षम इत्यर्थः ।
प्रथममिति ।
विवक्षितान्यपरवाच्यमित्यर्थः ।
अप्रत्याचक्षाणेन अभ्युपगच्छता ।
असम्भविनेत्यादिग्रन्थं तात्पर्यतो ऽवतारयति--किञ्चेत्यादि ।
असम्भविना चेति चकारः किञ्चेत्यनेन व्याख्यातः ।
वस्त्वन्तर इत्यादि ।
अधिष्ठानारोप्ययोरुभयोरपि सम्भवे सत्येवारोप इत्यर्थः ।
यथा माणवकादावग्न्यादेः ।
ननु तयोरुभयोस्सत्वे कुत आरोपव्यवहार इत्यत आह---विषयान्तरमात्रत इति ।
विषयान्तरत्वमात्रेणेत्यर्थः ।
वस्तुतस्तयोरैक्याभावादिति भावः ।
इतीत्यादि ।
स्वतस्सतोरारोप्याधिष्ठानयोरेकस्मिन्नन्यस्यारोप इतीदमुपचारस्य मुख्यं जीवितमित्यर्थः ।
अस्त्वेतत्ततः किमत आह-सुवर्णपुष्पाणामित्यादि ।
मूलत एव अत्यर्थमेव ।
तदुच्चयनस्य सुवर्णपुष्पोच्चयनस्य ।
तत्र सुवर्णपुष्पामित्याद्युदाहरणस्थले ।
क इति ।
निर्जीव इत्यर्थः ।
ननु तर्हि सुवर्णपुष्पां पृथिवीमिति प्रयोगः कथमुपपद्यत इत्यत आह--सुवर्णेत्यादि ।
इत्यारोपस्स्याद्धीति सम्बन्धः. तदारोपं विना तस्य महाकविप्रयोगस्यानिर्वाहादिति भावः ।
फलितमाह--तस्मादित्यादि ।
आरोपव्यवहार इति ।
आरोपमूलकगुणवृत्तिव्यवहार इत्यर्थः ।
तदाहेति ।
उक्ताभिप्रायेणाहेत्यर्थः. वृत्तौ ऽप्रयोजिकेऽत्यस्य व्यवहारप्रयोजिकेत्यर्थः ।
चारुरूपेत्यादिग्रन्थस्य भावार्थमाह--व्यङ्ग्यमित्यादि ।
प्रयोजनरूपमिति हेतुगर्भं विशेषणम् ।
नन्वसम्भवदपि विषये गुणवृत्तौ सत्यामपि ध्वनिव्यवहार एव युक्त्यनुरोधी ।
तस्मादविवक्षितवाच्ये ध्वनौ द्वयोरपि प्रभेदयोर्व्यञ्जकत्वविशेषाविशिष्टा गुमवृत्तिर्न तु तदेकरूपा सहृदयहृदयाह्लादिनी प्रतीयमाना प्रतीतिहेतुत्वाद्वियषान्तरे लोचनम् सत्यामपीति ।
व्यञ्जनव्यापारसम्पत्तये क्षणमात्रमवलम्बितायामिति भावः. तस्मादिति ।
व्यञ्जकत्वलक्षणो यो विशेषस्तेनाविशिष्टा अविद्यमानं विशिष्टं विशेषो भेदनं यस्याः व्यञ्जकत्वं न तस्या भेद इत्यर्थः ।
यदि वा व्यञ्जकत्वलक्षणेन व्यापारविशेषेमाविशिष्टा न्यक्कृतस्वाभावा आसमन्ताद्व्याप्ता ।
तदेकेति ।
तेन व्यञ्जकत्वलक्षणेन सहैकं रूपं यस्याः सा तथाविधा न भवति ।
अविवक्षितवाच्ये व्यञ्जकत्वं गुणवृत्तेः पृथक्चारुप्रतीतिहेतुत्वात् विवक्षितवाच्यनिष्ठव्यञ्जकत्ववत्, न हि गुणवृत्तेश्चारुप्रतीतिहेतुत्वमस्तीति बालप्रिया व्यङ्ग्यमात्रान्वितमारोपितमेव प्रतीतिविश्रान्तिस्थानमस्तु, किंस चाररूपव्यङ्ग्यसमाश्रयणेनेत्यत आह--आरोपित इत्यादि ।
असम्भवतीति हेतुगर्भम् ।
क्षणमात्रमवलम्बितायामित्यनेन गुणवृत्तिविषयभूतार्थस्यावान्तरतात्पर्यगोचरत्वं दर्शितम् ।
वृत्तौ ऽतथाविधे विषयऽ इति ।
असम्भवदर्थकवाक्य इत्यर्थः ।
उपसंहरति--ऽतस्मादिऽत्यादि ।
व्यञ्जकत्वविशेषाविशिष्टेत्येतत्प्रकृतानुगुण्ये व्याचष्टे--व्यञ्जकत्वेत्यादि ।
तेनेति करणे तृतीया ।
विवरणेन सिद्धं फलितार्थमाह---व्यञ्जकत्वमित्यादि ।
तस्याः गुणवृत्तेः ।
भेदः अवान्तरधर्मः. व्यञ्जकत्वगुणवृत्योः प्रतिपादितभेदोपसंहारपरतयैवं व्याख्याय व्यञ्जकत्वप्राधान्यस्यान्याप्राधान्यस्य च प्रतिपादितस्योपसंहारपरतयाप्येतं ग्रन्थं व्याचष्टे--यदि वेत्यादि ।
यदि वा अथ च ।
विशिष्टा विशेषिता न भवतीत्यविशिष्ट ।
यद्वा विशिष्टं विशेषः आदरः अविद्यमानं विशिष्टं यस्यास्सेति व्यत्पत्तिमभिप्रेत्याह--न्यक्कृतस्वभावेति ।
व्यञ्जकत्वविशेषेणाविशिष्टेति विग्रहं धातूनां बह्वर्थञ्चाभिप्रेत्य प्रकारान्तरमाह--आसमन्ताद्य्वाप्तेति ।
यदिवेत्यनुषङ्गः ।
ननु तथापि गुणवृत्तेर्व्यञ्जकत्वैकरूपत्वमस्त्विति शङ्कायामुक्तं, न तु तदेकरूपेति तद्विवृणोति--तेनेत्यादि ।
तदेकरूपत्वाभावे हेतुः--ऽसहृदयेऽत्यादि ।
नेत्यस्यानुषङ्गः ।
यतो गुणवृत्तिः सहृदयहृदयाह्लादिनी प्रतीयमाना च न भवत्यतो न तदेकरूपेति सम्बन्धः ।
व्यङ्ग्यगतं सहृदयहृदयाह्णादकत्वं प्रतीयमानत्वञ्च व्यञ्जकत्वे समारोप्य गुणवृत्तेस्तन्निषेधपूर्वक्तं तदेकरूपत्वं निषिद्धमिति बोध्यम् ।
एवं गुणवृत्तेर्व्यञ्जकत्वैकरूपत्वाभावप्रतिपादनेन व्यञ्जकत्वस्य गुणवृत्तिभिन्नत्वं, लभ्यते, तत्र हेतुप्रदर्शकः प्रतीतिहेतुत्वादिति ग्रन्थः, चारुत्वप्रतीतिहेतुत्वादिति तदर्थः, व्यञ्जकत्वस्येति शेषः ।
तथाचायं प्रयोग इत्याशयेनाह लोचने--अविवक्षितवाच्य इत्यादि ।
पृथगिति भिन्नमित्यर्थः ।
वृत्तौ ऽतद्रूपशून्यायाऽ इति ।
चारुत्वप्रतीतिहेतुत्वशून्याया इत्यर्थः ।
गुणवृत्तेरित्यनुषङ्गः ।
ग्रन्थमेतमुक्तानुमानोपयोगितयावतारयति--न हीत्यादि ।
तद्रूपशून्याया दर्शनात् ।
एतच्च सर्वे प्रावसूचितमपि स्फुटतरप्रतीतये पुनरुक्तम् ।
अपि च व्यञ्जकत्वलक्षणो यः शब्दार्थयोर्घर्मः स प्रसिद्धसम्बन्धानुरोधीति न कस्याचिद्विमतिविषयतामर्बहति ।
शब्दार्थर्योर्हि प्रसिद्धो यः सम्बन्धो वाच्यवाचकभावाख्यास्तमनुरुन्धान एव व्यञ्जकत्वलक्षणो व्यापारः सामग्रन्तरसम्बन्धादौपाधिकः प्रवर्तते ।
अत एव वाचकत्वात्तस्य विशेषः वाचकत्वं हि शब्दविशेषस्य नियत आत्मा व्युत्पत्तिकालादारभ्य तदविनाभावेन तस्य प्रसिद्धत्वात् ।
स त्वनियतः, औपाधिकत्वात् ।
लोचनम् दर्शयति---विषयान्तर इति ।
अग्निर्वटुरित्यादौ ।
प्रागिति प्रथमोद्द्योते ।
नियतस्वभावाच्च वाच्यवाचकत्वादौपाधिकत्वेनानियतं व्यञ्जकत्वं कथं न भिन्ननिमित्तमिति दर्शयति--अपि चेति ।
औपाधिक इति ।
व्यञ्जकत्ववैचित्र्यं यत्पूर्वमुक्तं तत्कृत इत्यर्थः ।
अत एव समयनियमितादभिधाव्यापाराद्विलक्षण इति यावत् ।
एतदेव बालप्रिया विषयान्तर इत्यस्य विवरणम्--अग्निर्वटुरित्यादाविति ।
अथापि चेत्यादिग्रन्थो ऽभाववादिनः प्रति स्थूणानिखननन्यायेन व्यञ्जकत्वसाधक इत्यभिप्रायेणावतारयति--नियतेत्यादि ।
नियतस्वाभावादिति ।
वाचकत्वं हि समयापेक्षत्वेन नियतस्वरूपमिति भावः ।
अनियतत्वे हेतुः--औपाधिकत्वेनेति ।
कथमित्यादि ।
वाचकत्वाद्व्यञ्जकत्वस्य प्रवृत्तेर्निमित्तं भिन्नमेवेत्यर्थः ।
वृत्तौ ऽसामग्र्यन्तरेऽत्यादि ।
ऽसामग्न्यन्तरसम्बन्धात्ऽ प्रकरणादेर्मुख्यसामगन्यास्सन्निधानात् ।
ऽऔपाधिकः प्रवर्ततेऽ औपाधिकस्सन्नुल्लसतीत्यर्थः ।
अत्रोपाधिशब्देनान्यावान्तरसामग्रीविवक्षितेत्याशयेन विवृणोति--व्यञ्जकत्वेत्यादि ।
व्यञ्जकत्वे यद्वैचित्र्यं वाच्यवाकयोर्गुणत्वप्राधान्यादि ।
ननु सामग्र्यन्तरसम्बन्धजनितत्वे ऽप्ययं व्यापारो वाचकव्यापारत्वादभिधैवास्त्वित्यत आह--अत एवेत्यादि ।
अत एव यतस्मामग्र्यन्तरसम्बन्धादौपाधिको जनितस्तत एवेत्यर्थः ।
एतदेव उक्तमेव ।
वृत्तौ ऽशब्दविशेषस्येऽति ।
साक्षात्समयापेक्षिणश्शब्दस्येत्यर्थः ।
ऽआत्माऽ स्वभावः ।
ऽव्युत्पत्तिकालादिऽति ।
सङ्केतकालादित्यर्थः ।
तथा पाठश्च ।
ऽतदिऽति शब्देत्यर्थः ।
ऽतस्यऽ वाचकत्वस्य ।
ऽस त्विऽति ।
व्यञ्जकत्वव्यापारस्त्वित्यर्थः ।
ऽप्रकरणाद्यवच्छेदेनऽ प्रकरणादिसहकारेण ।
प्रकरणाद्यवच्छेदेन तस्य प्रतीतेरितरथा त्वप्रतीतेः ।
ननु यद्यनियतस्तत्किं तस्य स्वरूपपरीक्षया ।
नैष दोषः; यतः शब्दात्मनि तस्यानियतत्वम्, न तु स्वे विषये व्यङ्ग्यलक्षणे ।
लिङ्गत्वन्यायश्चास्य व्यञ्जकभावस्य लक्ष्यते, यथा लिङ्गत्वमाश्रयेष्वनियतावभासम्, इच्छाधीनत्वात्; खविषयाव्यभिचारि च ।
तथैवेदं यथा दर्शितं लोचनम् सफुटयति--अत एवेति ।
औपाधिकत्वं दर्शयति--प्रकरणादीति ।
किं तस्येति ।
अनियतत्वाद्यथारुचि कल्प्येत पारमार्थिकं रूपं नास्तीति; न चावस्तुनः परीक्षोपपद्यत इति भावः ।
शब्दात्मनीति ।
सङ्केतास्पदे पदस्वरूपमात्र इत्यर्थः ।
आश्रयेष्विति ।
न हि धूमे वह्निगमकत्वं सदातनम्,अन्यगमकत्वस्य वह्न्यगमकत्वस्य च दर्शनात् ।
इच्छादीनत्वादिति ।
इच्छात्र पक्षधर्मत्वजिज्ञासाव्याप्तिसुस्मूर्षाप्रभृतिः ।
स्वविषयेति ।
बालप्रिया ऽतस्यऽ व्यञ्जकत्वस्य ।
ऽप्रतीतेःऽ उन्मेषात् ।
प्रकरणादीन्त्यादिग्रन्थो न हेत्वन्तरप्रदर्शकः, किन्त्वौपाधिकत्वादित्युक्तस्यैव विवरणरूप इत्याह लोचने--औपाधिकत्वं दर्शयतीति ।
वृत्तौ यद्यनियतऽ इति ।
स इत्यनुषज्यते ।
तस्य व्यञ्जकत्वस्य ।
लोचने भावमाह--अनियतत्वादित्यादि ।
अनियतत्वात् अभिधावन्नियतत्वाभावात् ।
कल्प्येतेति ।
तत्स्वरूपमिति शेषः ।
अत्र हेतुमाह--पारमार्थिकमित्यादि ।
पारमार्थिकं अनुगतम् ।
इतीति हेतौ ।
किं तत इत्यत आह--न चेत्यादि ।
गगनारविन्दादेरपि परीक्ष्यत्वप्रसङ्गादिति भावः ।
शब्दात्मनीयनेन विवक्षितं व्याचष्टे--सङ्केतास्पद इत्यादि ।
मात्रपदेनार्थस्य व्यवच्छेदः ।
वृत्तौ ऽतस्येऽति ।
व्यञ्जकत्वस्येत्यर्थः ।
ऽन त्विऽत्यादि ।
तस्यानियतत्वमित्यनुषज्यते ।
स्वे स्वसम्बन्धिनि ।
ऽव्यङ्ग्यलक्षणे विषयेऽ व्यङ्ग्यार्थे ।
यस्य यरय व्यङ्ग्यो ऽर्थो विद्यते तस्य तस्य व्यञ्जकत्वमित्येवमर्थविषये नियतत्वं व्यञ्जकत्वस्यास्त्येवेत्यर्थः ।
अत्र दृष्टान्तकथनम्--लिङ्गत्वेऽत्यादि ।
ऽलिङ्गत्वन्यायःऽ लिङ्गत्वसाम्यम् ।
ऽलिङ्गत्वंऽ वह्न्यादिज्ञापकत्वम् ।
ऽआश्रयेषुऽ धूमादिषु ।
अनियतावभासमित्येतद्विवृणोति लोचने--न हीत्यादि ।
न हि सदातनमित्यत्र हेतुमाह---अन्येत्यादि ।
अन्येति ।
वह्न्यतिरिक्तेत्यर्थः ।
वह्न्यगमकत्वस्येति ।
कदाचिद्वह्निगमकत्वाभावस्येत्यर्थः ।
दर्शनात् अनुभवात् ।
इच्छाधीनत्वादित्यत्रेच्छापदं प्रकृतानुगुणतया व्याख्याति--इच्छेत्यादि ।
पक्षधर्मता व्याप्यस्य पक्षवृत्तिता व्यञ्जकत्वम् ।
शब्दात्मन्यनियतत्वादेव च तस्य वाचकत्वप्रकारता न शक्या कल्पयितुम् ।
यदि हि वाचकत्वप्रकारता तस्य भवेत्तच्छब्दात्मनि नियततापि स्याद्वाचकत्ववत् ।
स च तथाविध औपाधिको धर्मः शब्दानामौत्पत्तिकशब्दार्थसम्बन्थवादिना वाक्यतत्त्वविदा पौरुषापौरुषेययोर्वाक्ययोर्विशेषमभिदधता नियमेनाभ्युपगन्तव्यः, तदनभ्युपगमे हि तस्य शब्दार्थसम्बन्धनित्यत्वे सत्यप्यपौरुषेयपौरुषेययोर्वाक्ययोरर्थप्रतिपादने लोचनम् स्वस्मिन्विषये च गृहीते त्रैरूप्यादौ न व्यभिचरति ।
न कस्यचिद्विमतिमेतीति यदुक्तं तत्स्फुटयति--स चेति ।
व्यञ्जकत्वलक्षण इत्यर्थः ।
औत्पत्तिकेति ।
जन्मना द्वितीयो भावविकारः सत्तारूपः सामीप्याल्लणातो वानुत्पत्तिः, बालप्रिया तस्याः जिज्ञासा ।
व्याप्तिसुस्मूर्षा हेतौ साध्यस्य या व्याप्तिः, तत्स्मरणेच्छा ।
प्रभृतिपदेन व्याप्यस्य सपक्षसत्वादिजिज्ञासा गृह्यते ।
पक्षधर्मताजिज्ञासादीनामनुमितिं प्रति प्रयोजकत्वं प्राचीनाभ्युपगतं तद्वारा च लिङ्गत्वस्य तदधीनत्वं बोध्यम् ।
स्वाविषयाव्याभिचारीत्यस्य तार्त्पार्थविवरणम्--स्वस्मिन्नित्यादि ।
स्वस्मिन् स्वसम्बन्धिनि लिङ्गे ।
विषये च साध्ये च ।
विषये वेति च पाठः ।
गृहीत इत्यनेनानयोस्सम्बन्धः ।
त्रैरूप्यादाविति ।
त्रैरूप्यमनुमानाङ्गभूतं पक्षसत्वसपक्षसत्वविपक्षासत्वरूपमादिपदेनाबाधितत्वादिकं गृह्यते ।
तत्र त्रैरूप्यस्य लिङ्गे अबाधितत्वादेस्साध्ये च ग्रहः ।
न व्यभिचरतीति ज्ञापकत्वं स्वविषये न व्यभिचरतीत्यर्थः ।
स्वविषयाव्यभिचारीति वृत्तेस्तु ज्ञापकत्वस्य विषये ज्ञाप्ये वह्न्यादौ न व्यभिचरतीत्येवार्थः ।
वृत्तौ ऽवाचकत्वप्रकारतेऽति ।
वाचकत्वावान्तरधर्मतेत्यर्थः ।
ऽतदिऽति ।
तर्हीत्यर्थः ।
नन्वेवं व्यञ्जकत्वं न कस्य चिद्विमतिविषयतामर्हन्तीत्युक्तमयुक्तं व्यङ्ग्यव्यञ्जकभावलक्षणस्य शब्दार्थसम्बन्धस्यानियतत्वेनौत्पत्तिकसूत्रविरोधादित्याशङ्कां स चेत्यादिग्रन्थेन परिहरतीत्यवतारयति--न कस्यचिदित्यादि ।
स्फुटयति स्फुटं करोति साधयतीति यावत् ।
वृत्तौ शब्दानां धर्मं इति योजना ।
ऽऔत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धऽ इत्यादिजैमिनीयं सूत्रं मनसि कृत्योक्तम् ऽऔत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धऽ इत्यादिजैमिनीयं सूत्रं मनसि कृत्योक्तम् ऽऔत्पत्तिकेऽत्यादि ।
तत्रौत्पत्तिकपदेन नित्य इत्यर्थो विवक्षितस्तल्लाभप्रकारं दर्शयति--जन्मनेत्यादि ।
लक्ष्यत इति ।
जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यतीति षङ्विकारा भावानामुक्ताः ।
तत्र द्वितीयस्सत्तारूपो विकारः उत्पत्तिपदार्थेन जन्मना सामीप्यान्निमित्ताल्लक्ष्यत इत्यर्थः ।
सत्तामात्रस्य लक्षणात्सदासत्वं कल्प्यमित्यपरितोषादाह--विपरीतेत्यादि ।
जन्मना लक्ष्यत निर्विशेषत्वं स्यात् ।
तदभ्युपगमे तु पौरुषेयाणां वाक्यानां पुरुषेच्छानुविधानसमारोपितौपाधिकव्यापारान्तराणां सत्यपि स्वाभिधेयसम्बन्धापरित्यागे मिथ्यार्थतापि भवेत् ।
लोचनम् रूढ्या वा औत्पत्तिकशब्दो नित्यपर्यायः तेन नित्यं यः शब्दार्थयोः शक्तिलक्षणं संबन्धमिच्छति जैमिनेयस्तेनेत्यर्थः ।
निर्विशेषत्वमिति ।
ततश्च पुरुषदोषानुप्रवेशस्याकिञ्चित्करत्वात्तन्निबन्धं पौरुषेयेषु वाक्येषु यदप्रामाण्यं तन्न सिध्येत् ।
प्रतिपत्तुरेव हि यदितथा प्रतिपत्तिस्तर्हि वाक्यस्य न कश्चिदपराध इति कथमप्रामाण्यम् ।
अपौरुषेये वाक्ये ऽपि प्रतिपत्तृदौरात्म्यात्तथा स्यात् ।
बालप्रिया इत्यनुषङ्गः विरोधरूपसम्बन्धेन निमित्तेन जन्मना त्पत्तिर्लक्ष्यत इत्यर्थः ।
अत्र मतुबर्थे तद्धितः पक्षद्वये ऽपि ।
लाघवादाह--रूढ्या वेत्यादि ।
रूढ्या सूत्रकारसङ्केतेन ।
फलितमाह--तेनेत्यादि ।
यो जैमिनेय इच्छतीति सम्बन्धः ।
शक्तिलक्षणमिति ।
बोधनसामर्थ्यरूपमित्यर्थः ।
वृत्तौ पूर्वोक्तशङ्काबीजत्वेनौत्पत्तिकेत्याद्युक्तं पौरुषेयेत्यादिकन्त्वभ्युपगन्तव्यत्वे हेतुत्वेन ।
अनभ्युपगमे दोषमाह--ऽतदिऽत्यादि ।
ऽतस्येऽति ।
वाक्यतत्वविदो जैमिनेयस्येत्यर्थः ।
मत इति शेषः ।
ऽशब्देऽत्यादि ।
ऽशब्दार्थसम्बन्धस्यऽ शब्दगतार्थबोधनसामर्थ्यरूपस्य नित्यत्वादित्यर्थः ।
अर्थगोचरज्ञानजननशक्तिर्हि प्रामाण्यं, सा शक्तिर्यथार्थेष्विवायथार्थेष्वपि वाक्येष्वस्ति ।
प्रमाण्यं स्वत एव ।
अप्रामाण्यन्तु कारणदोषबाधकप्रत्ययादिना जन्यत इत्यादिमीमांसकमतमत्रावधेयम् ।
निर्विशेषत्वं स्यादित्यत्रेष्टापत्तिं परिहर्तुं निर्विशेषत्वे दोषं दर्शयति--ततश्चेत्यादि ।
पुरुषेति ।
पुरुषे वक्तरि यः कादाचित्को दोषस्य भ्रमादेरनुप्रवेशः, यद्वा---पुरुषदोषस्य वाक्ये यो ऽनुप्रवेशस्तस्येत्यर्थः ।
अकिञ्चित्करत्वादिति ।
नित्यस्य शब्दार्थसम्बन्धस्य बाधने शक्त्यभावादिति भावः ।
तन्निबन्धनं वस्तुतः पुरुषदोषाधीनम् ।
पौरुषेयेषु लौकिकेषु वाक्येषु अयथार्थवाक्येषु अप्रामाण्यम् यथार्थत्वनिमित्तकमप्रामाण्यम् ।
ततश्च तन्न सिद्ध्येदिति सम्बन्धः ।
ननु पुरुषदोषःप्रतिपत्तृद्वारा वाक्यस्याप्रामाण्यसम्पादक इति शङ्कायामाह---प्रतिपत्तुरित्यादि ।
तथेति ।
अयथार्थतयेत्यर्थः ।
दोषान्तरञ्चाह--अपौरुषयेत्यादि ।
अपौरुषेयवाक्ये वैदिकवाक्ये ।
प्रतिपत्तृदौरात्मयात् प्रतिपत्तुर्देषात् ।
तथा स्यात् अयथार्थत्वप्रतीत्या अप्रामाण्यं स्यात् ।
स्यात् वृत्तौ तथाविधौपाधिकधर्म्माभ्युपगमेगुणमाह--ऽतदभ्युपगमऽ इत्यादि ।
ऽपुरुषेति ।
पुरुषेच्छायाः वक्तृपुरुषाभिप्रायस्यानुविधानाद्धेतोः समारोपितं कल्पितमत एवौपाधिकञ्च यद्व्यापारान्तरं येषु तेषामित्यर्थः ।
दृश्यते हि भावानामपरित्यक्तस्वस्वभावानामपि सामग्न्यन्तरसम्पातसम्पादितौपाधिकव्यापारान्तराणां विरुद्धक्रियत्वम् ।
तथा हि--हिममयूखप्रभृतीनां निर्वापितसकलजीवलोकं शीतलत्वमुद्वहतामेव प्रियाविरहदहनदह्यमानमानसैर्जनैरालोक्यमानानां सतां सन्तापकारित्वं प्रसिद्धमेव ।
तस्मात्पौरुषेयाणां वाक्यानां सत्यपि नैसर्गिके ऽर्थसम्बन्धे मिथ्यार्थत्वं समर्थयितुमिच्छता वाचकत्वव्यतिरिक्तं किञ्चद्रूपमौपाधिकं व्यक्तमेवाभिधानीयम् ।
तच्च व्यञ्जकत्वादृते नान्यत् ।
व्यङ्ग्यप्रकाशनं हि व्यञ्जकत्वम् ।
पौरुषेयाणि च वाक्यानि प्राधान्येन पुरुषाभिप्रायमेव प्रकाशयन्ति ।
स च व्यङ्ग्य एव लोचनम् ननु धर्मान्तराभ्युपगमे ऽपि कथं मिथ्यार्थता, न हि प्रकाशकत्वलक्षणं स्वधर्मं जहाति शब्द इत्याशङ्क्याह--दुश्यत इति ।
प्राधान्येनेति ।
यदाह--"एवमयं पुरुषा वेदेति भवति प्रत्ययः न त्वेवमयमर्थ" इति ।
तथा प्रामाणान्तरदर्शनमत्र बाध्यते, न तु बालप्रिया उक्तार्थस्यानुभवसिद्धत्वमुक्तं दृश्यत इत्यादिना तद्वचनं किमर्थमित्यतस्तद्गन्थमवतारयति--नन्वित्यादि ।
कथमिति न सिद्ध्येदित्यर्थः ।
अत्र हेतुमाह--न हीत्यादि ।
प्रकाशकत्वलक्षणमिति ।
अर्थबोधनसामर्थ्यरूपमित्यर्थः ।
न हि जहातीति सम्बन्धः ।
कॢप्तकल्प्यमानयोः कॢप्तं बलवदिति न्यायो ऽनेन दर्शितः ।
वृत्तौ ऽभावानाम्ऽ इति ।
पदार्थानामित्यर्थः ।
सामग्न्यन्तरसम्पातेन सम्पादितमत एवौपाधिकं धर्मान्तरं येषु तेषाम् ।
ऽविरुद्धक्रियत्वंऽ स्वस्वभावविरुद्धक्रियोत्पादकत्वम् ।
ऽहिममयूखःऽ चन्द्रः ।
ऽनिर्वापितःऽ सन्तापशान्तिं प्रापितो जीवलोको येन तत् ।
तथाविधं शीतलत्वमुद्वहतामित्यनेनापरित्यक्तस्वभावत्वं प्रियाविरहेत्यादना सामग्र्यन्तरेत्याद्युक्तं सन्तापकारित्वमित्यनेन विरुद्धक्रियत्वञ्च दर्शितम् ।
यथा शाकुन्तले "विसृजति हिमगर्भैरग्निमिन्दुर्मयूखैः" इति ।
उपसंहरति--ऽतस्मादिऽत्यादि ।
पौरुषेयाणि वाक्यानि प्राधान्येन पुरुषाभिप्रायमेव प्रकाशयन्तीत्यत्र जैमिनिसूत्रभाष्यकृद्वचनं प्रमाणयति--यदाहेति ।
अयं पुरुष इति ।
वक्तृपुरुष इत्यर्थः ।
एवं वेदेति ।
यथानेनोक्तं तथा जानातीत्यर्थः ।
इति प्रत्ययो भवतीति योजना ।
प्रतिपत्तुरिति शेषः ।
न त्वेवमर्थ इति ।
अयमर्थ एवमेवेति प्रत्ययस्तु प्रतिपत्तर्न भवतीत्यर्थः ।
अर्थस्य बाधसम्भवादिति भावः ।
अतस्तत्तद्वाक्यार्थज्ञानरूपं पुरुषाभिप्रायमेव प्राधान्येन प्रकाशयन्तीति भावः ।
न त्वमिधेयः, तेन सहाभिधानस्य वाच्यवाचकभावलक्षणसम्बन्धाभावात् ।
नन्वनेव न्यायेन सर्वेषामेव लौकिकानां वाक्यानां ध्वनिव्यवहारः प्रसक्तः ।
सर्वेषामप्यनेन न्यायेन व्यञ्जकत्वात् ।
सत्यमेतत्; किं तु वक्रभिप्रायुप्रकाशनेन यद्व्यञ्जकत्वं तत्सर्वेषामेव लौकिकानां वाक्यानामविशिष्टम् ।
तत्तु वाचकत्वान्न भिद्यते व्यङ्ग्यं हि तत्र नान्तरीयकतया व्यवस्थितम् ।
लोचनम् शब्दो ऽन्वय इत्यनेन पुरुषाभिप्रायानुप्रवेशादेवाङ्गुल्यग्रवाक्यादौ मिथ्यार्थत्वमुक्तम् ।
तेन सहेति ।
अनियततया नैसर्गिकत्वाभावादिति भावः ।
नान्तरीयकतयेति ।
बालप्रिया नन्वस्तु पुरुषाभिप्रायो व्यङ्ग्यः व्यापारान्तरञ्च व्यञ्जकत्वं वाक्यस्य, तथापि कथं मिथ्यार्थकत्वमित्यत आह--तथेत्यादि ।
तथा अभिप्रायव्यञ्जकत्वेन प्रकारेण अत्र पौरुषेयवाक्ये विषये ।
प्रमाणान्तरदर्शनं प्रमाणान्तरेण प्रत्यक्षादिना दर्शनं तद्वाक्यार्थज्ञानम् ।
बाध्यते क्वचिद्बाधितं क्रियते ।
बाधा नाम अनुत्पत्तिः ।
पौरुषेयवाक्यस्य पुरुषेच्छानुविधायित्वेन यथा दृष्टार्थकत्वनियमाभावात्कदाचित्तदर्शविषयकं प्रत्यक्षादिज्ञानम् ।
नोत्पद्यत इत्यतो मिथ्यार्थकतेति भावः ।
न त्विति ।
बाध्यत इत्यनुषज्यते ।
शाबदो ऽन्वयः शब्दस्यार्थेन स्वाभाविकस्सम्बन्धो ऽर्थबोधनसामर्थ्यंलक्षणः ।
सामान्येनोक्तं विशेषे दर्शयन्नाह--इत्यनेनेत्यादि ।
अङ्गुल्यग्रवाक्यादौ अङ्गुल्यग्रे करिवरशतमिति वाक्यादौ ।
मिथ्यार्थत्वमुक्तमिति ।
असम्बद्धार्थस्यापि पुरुषाभिप्रेतत्वसम्भवादिति भावः ।
तथावोक्तरूपस्य शब्दार्थसम्बन्धस्य नित्यत्वे ऽपि पौरुषेयवाक्यानां पुरुषाभिप्रायानुविधायित्वात्तदभिप्रेतं यद्वाक्यार्थस्यासत्यत्वं, तद्वाक्यस्य मिथ्यार्थकत्वेनाप्रामाण्यम् ।
अपौरुषेयाणां वाक्यानान्तु वक्तुरभावेन तेषां सर्वेषामेव प्रामाण्यञ्चेति बोध्यम् ।
वृत्तौ ऽतेन सहेऽति ।
पुरुषाभिप्रायेण सहेत्यर्थः ।
ऽअभिधानस्यऽ शब्दस्य ।
ऽवाच्यवाचकसम्बन्धाभावादिऽति ।
अनेन शब्दस्य व्यङ्ग्येन सह यस्सम्बन्धस्तस्य वाच्यवाचकभावत्वं नास्तीति दर्शितं, तत्र हेतुमाह लोचने--अनियतत्वादित्यादि ।
अनियतत्वेन हेतुना स्वाभाविकत्वाभावादित्यर्थः ।
अथाभिप्रायस्य व्यङ्ग्यत्वोक्तिमाश्रित्य शङ्कते--ऽनन्वनेनेऽत्यादि ।
ऽप्रसक्तःऽ प्राप्तः, यद्वा--आपत्तिविषयः ।
अत्र हेतुमाह--ऽसर्वेषाम्ऽ इत्यादि ।
इष्टापत्तिं दर्शयति--ऽसत्यम्ऽ इत्यादि ।
ऽसत्यमेतदिऽति ।
अभिप्रायप्रकाशनेन यद्व्यञ्जकत्वं तत्सर्वेषामस्तीत्यर्थः ।
विशेषमाह--ऽकिन्त्विऽत्यादि ।
यद्व्यजकत्वं तत्तु वाचकत्वान्न भिद्यत इति सम्बन्धः ।
वक्त्रभिप्रायप्रकाशनेनेत्यस्य स्थाने वक्त्रभिप्रायविशिष्टार्थप्रकाशनेनेति च पाठः ।
ऽअविशिष्टंऽ साधारणम् ।
वाचकत्वान्न भिद्यत इत्यत्र हेतुमाह--ऽव्यङ्ग्यं हीऽत्यात्यादि ।
न तु विवक्षितत्वेन ।
यस्य तु विवक्षितत्वेन व्यङ्ग्यस्य स्थितिः तद्य्वञ्जकत्वं ध्वनिव्यवहारस्य प्रयोजकम् ।
लोचनम् गामानयेति श्रुते ऽप्यभिप्राये व्यक्ते तदभिप्रायविशिष्टो ऽर्थ एवाभिप्रेतानयनादक्रियायोग्यो न त्वभिप्रायमात्रेण किञ्चित्कृत्यमिति भावः ।
विवक्षितत्वेनेति ।
प्राधान्येनेत्यर्थः ।
यस्य त्विति ।
ध्वन्युदाहरणेष्विति भावः ।
काव्यवाक्येभ्यो हि न नयनानयनाद्युपयोगिनी प्रतीतिरभ्यर्थ्यते, अपि तु प्रतीतिविश्रान्तिकारिणी, सा चाभिप्रायनिष्ठैन नाभिप्रेतवस्तुपर्यवसाना ।
नन्वेवमभिप्रायस्यैव व्यङ्ग्यत्वात्त्रिविधं व्यङ्ग्यमिति यदुक्तं तत्कथमित्याह--- बालप्रिया ऽनान्तरीयकतयेऽति ।
अविनाभूतत्वेनेत्यर्थः ।
भावं विवृणोति लोचने---गामित्यादि ।
अभिप्राये व्यक्ते ऽपीति सम्बन्धः ।
क्षीरग्रहणाद्यर्थकगवानयनाभिप्राये व्यक्ते ऽपीत्यर्थः ।
अर्थः गोकर्मकात्वाद्यर्थः ।
न त्वित्यादि ।
गोकर्मकानयनादिक्रियारूपार्थं विना अभिप्रायासिद्धिरतश्च न वाचकत्वात्पृथग्व्यञ्जकत्वं वाच्याद्य्वङ्ग्यमिवेति च भावः ।
अभिप्रायरूपव्यङ्ग्यस्य विवक्षितत्वप्राप्त्यभावान्निषेधानुपपत्तिमाशङ्क्य व्याचष्टे--प्राधान्येनेति ।
वृत्तौ यस्य व्यङ्ग्यस्येति सम्बन्धः ।
विवक्षितत्वेन स्थितिरित्यत्राकाङ्क्षां पूरयति--ध्वन्युदाहरणेष्विति ।
वृत्तौ तद्व्यज्यकत्वमित्यस्य तत्कर्मकव्यञ्जकत्वमित्यर्थः ।
ननु ध्वन्युदाहरणेष्वपि लौकिकवाक्येष्विव विवक्षितत्वापरपर्यायं प्राधान्यं वाच्यस्य विद्यत इत्याशङ्क्यायामभिप्रायमाह---काव्यवाचक्येभ्य इत्यादि ।
नयनेति ।
प्रापणादिक्रियोपयोगिनीत्यर्थः ।
प्रतीतिः वाच्यार्थप्रतीतिः ।
नाभ्यर्थ्यत इति ।
किन्तु बलादापततीति भावः ।
अपि त्विति ।
का पुनरभ्यर्थ्यत इति भावः ।
प्रतीतिविश्रान्तिकारिणी वाच्यप्रतीतिविश्रान्तिकारिणी ।
प्रतीतिरभ्यर्थ्यत इत्यनुषङ्गः ।
रसादिप्रतीतिरभ्यर्थ्यन्त इत्यर्थः ।
विभावादिप्रतीतिरूपत्वात्तस्या इति भावः ।
ननु सापि वाच्यपर्यवसायिन्यस्तु, तन्मूलकत्वादिति कथं व्यङ्ग्यस्य प्राधान्यमित्यत आह--सा चेत्यादि ।
चस्त्वर्थे ।
अभिप्रायनिष्ठैव रसादिव्यङ्ग्यपर्यवसायिन्येव ।
अभिप्रेतवस्त्विति ।
वाच्यार्थेत्यर्थः ।
अतश्च वाच्यस्य न विवक्षितत्वलक्षणं प्राधान्यं काव्यवाक्येष्विति भावः ।
यत्त्वित्यादिग्रन्थमानर्थङ्क्यशङ्कापरिहारायावतारयति--नन्वित्यादि ।
वृत्तावभिप्रायविशेषरूपं यद्य्वङ्ग्यन्तु तात्पर्येण प्रकाश्यमानं सच्छशब्दार्थाभ्यां प्रकाश्यते तद्विवक्षितं भवतीति सम्बन्धः ।
ऽविवक्षितंऽ प्रधानम् ।
ऽतदेवऽ अभिप्रायविशेषरूपमेव ।
अपरिमितविषयस्येति हेतुगर्भम् ।
किन्तु तथा दर्शितेति सम्बन्धः ।
ऽतथाऽ उक्तप्रकारेण ।
ऽअनभिप्रायरूपञ्चेऽति ।
विवक्षितमित्यनुषङ्गः ।
ऽनातिव्याप्तिऽरित्यादि ।
गुणीभूतव्ययत्त्विति ।
यत्त्वभिप्रायविशेषरूपं व्यङ्ग्यं शब्दार्थाभ्यां प्रकाशते तद्भवति विवक्षितं तात्पर्येण प्रकाश्यमानं सत् ।
किन्तु तदेव केवलमपरिमितविषयस्य घ्वनिव्यवहारस्य न प्रयोजकमव्यापकत्वात् ।
तथा दर्शितभेदत्रयरूपं तात्पर्येण द्योत्यमानमभिप्रायरूपमनभिप्रायरूपं च सर्वमेव ध्वनिव्यवहारस्य प्रयोजकमिति यथोक्तव्यञ्जकत्वविशेष धव्निलक्षणे नातिव्याप्तिर्न चाव्याप्तिः ।
तस्माद्वाक्यतत्त्वविधां मतेन तावद्य्वञ्जकत्वलक्षणः शाब्दो व्यापारो न विरोधी प्रत्युतानुगुण एव लक्ष्यते ।
परिनिश्चितनिरपभ्रंशशब्दब्रह्मणां विपश्चितां मतमाश्रित्यैव प्रवृत्तो ऽयं ध्वनिव्यवहार इति लोचनम् एवं मीमांसकानां नात्र विमतिर्युक्तेति प्रदर्श्य वैयाकरणानां नैवात्र सास्तीति दर्शयति--परिनिस्चितेति ।
परितः निश्चितं प्रमाणेन स्थापितं निरपभ्रंशं गलितभेदप्रपञ्चतया अविद्यासंस्काररहितं शब्दाख्यं प्रकाशपरामर्थस्वभावं ब्रह्म व्यापकत्वेन बृहद्विशेषशक्तिनिर्भरतया च बृंहितं विश्वनिर्माणशक्तीश्वरत्वाच्च बृंहणम् यैरिति ।
बालप्रिया ऽनान्तरीयकतयेऽति ।
अविनाभूतत्वेनेत्यर्थः ।
भावं विवृणोति लोचने--गामित्यादि ।
अभिप्राये व्यक्ते ऽतीति सम्बन्धः ।
क्षीरग्रहणाद्यर्थकगवानयनाभिप्राये व्यक्ते ऽपीत्यर्थः ।
अर्थः गोकर्मकात्वाद्यर्थः ।
न त्वित्यादि ।
गोकर्मकानयनादिक्रियारूपार्थं विना अभिप्रायासिद्धिरतश्च न वाचकत्वात्पृथग्व्यञ्जकत्वं वाच्याद्व्यङ्ग्यमिवेति च भावः ।
अभिप्रायरूपव्यङ्ग्यस्य विवक्षितत्वप्राप्त्यभावान्निषेधानुपपत्तिमाशङ्क्य व्याचष्टे--प्राधान्येनेति ।
वृत्तौ यस्य व्यङ्ग्यस्येति सम्बन्धः ।
विवक्षितत्वेन स्थितिरित्यत्राकाङ्क्षां पूरयति--ध्वन्युदाहरणेष्विति ।
वृत्तौ तद्य्वञ्जकत्वमित्यस्य तत्कर्मकव्यञ्जकत्वामित्यर्थः ।
ननु ध्वन्युदाहरणेष्वपि लौकिकवाक्येष्विव विवक्षितत्वापरपर्यायं प्राधान्यं वाच्यस्य विद्यत इत्याशङ्कायामभिप्रायमाह--काव्यवाक्येभ्य इत्यादि ।
नयनेति ।
प्रापणादिक्रियोपयोगिनीत्यर्थः ।
प्रतीतिः वाच्यार्थप्रतीतिः ।
नाभ्यर्थ्यत इति ।
किन्तु बलादापततीति भावः ।
अपि त्विति ।
का पुनरभ्यर्थ्यत इति भावः ।
प्रतीतिविश्रान्तिकारिणी वाच्यप्रतीतिविश्रान्तिकारिणी ।
प्रतीतिरभ्यर्थ्य इत्यनुषङ्गः ।
रसादिप्रतीतिरभ्यर्थ्यन्त इत्यर्थः ।
विभावादिप्रतीतिरूपत्वात्तस्या इति भावः ।
ननु सापि वाच्यपर्यंवसायिन्यस्तु, तन्मूलकत्वादिति कथं व्यङ्ग्यस्य प्राधान्यमित्यत आह--सा चेत्यादि ।
चस्त्वर्थे ।
अभिप्रायनिष्ठैव रसादिव्यङ्ग्यपर्यवसायिन्येव ।
अभिप्रेतवस्त्विति ।
वाच्यार्थत्यर्थः ।
अतश्च वाच्यस्य न विवक्षितत्वलक्षणं प्राधान्यं काव्यवाक्येष्विति भावः ।
यत्त्वित्यादिग्रन्थमानर्थक्यशङ्कापरिहारायावतारयति--नन्वित्यादि ।
वृत्तावभिप्रायविशेषरूपं यद्य्वङ्ग्यन्तु तात्पर्येण प्रकाश्यमानं सच्छशब्दार्थाभ्यां प्रकाश्यते तद्विवक्षितं भवतीति शम्बन्धः ।
ऽविवक्षितंऽ प्रधानम् ।
ऽतदेवऽ अबिप्रायविशेषरूपमेव ।
अपरिमितविषयस्येति हेतुगर्भम् ।
किन्तु तथा दर्शितेति सम्बन्धः ।
ऽतथाऽ उक्तप्रकारेण ।
ऽअनभिप्रायरूपञ्चेऽति ।
विवक्षितमित्यनुषङ्ग ।
ऽनातिव्याप्तिऽरित्यादि ।
गुणीभूत्वयङ्ग्यस्थले ऽभिप्रायरूपव्यङ्ग्यस्य यत्त्वभिप्रायविशेषरूपं व्यङ्ग्यं शब्दार्थाभ्यां प्रकाशते तद्भवति विवक्षितं तात्पर्येण प्रकाश्यमानं सत् ।
किन्तु तदेव केवलमपरिमितविषयस्य ध्वनिव्यवहारस्य य प्रयोजकमव्यापकत्वात् ।
तथा दर्शितभेदत्रयरूपं तात्पर्येण द्योत्यमानमभिप्रायरूपमनभिप्रायरूपं च सर्वमेव ध्वनिव्यवहारस्य प्रयोजकमिति यथोक्तव्यञ्जकत्वविशेषे ध्वनिलक्षणे नातिव्याप्तिर्न चाव्याप्तिः ।
तस्माद्वाक्यत्त्वविदां मतेन तावद्य्वञ्जकत्वलक्षणः शाब्दो व्यापारो न विरोधी प्रत्युतानुगुण एव लक्ष्यते ।
परिनिश्चितनिरपभ्रंशशब्दब्रह्मणां विपश्चितां मतमाश्रित्यैव ध्वनिव्यवहार इति लोचनम् एवं मीमांसकानां नात्र विमतिर्युक्तेति प्रदर्श्य वैयाकरणानां नैवात्र सास्तीति दर्शयति--परिनिश्चितेति ।
परितः निश्चितं प्रमाणेन स्थापितं निरपभ्रंशं गलितभेदप्रपञ्चतया अविद्यासंस्काररहितं शब्दाख्यं प्रकाशपरामर्शस्वभावं ब्रह्म व्यापकत्वेन बृहद्विशेषशक्तिनिर्भरतया बृंहितं विश्वनिर्माणशक्तीश्वरत्वाच्च बृंहणम् यैरिति ।
बालप्रिया क्वचित्सत्वात्तदादाय तत्रातिवल्याप्तिर्न रसादिव्यङ्ग्यस्याभिप्रायरूपत्वाभावात्तत्स्थले ऽव्याप्तिश्च नेत्यर्थः ।
उपसंहरति--ऽतस्मादिऽत्यादि ।
न न विरोधीति सम्बन्धः ।
वाक्यतत्ववित्पदार्थकथनेन वृत्तमनुवदन्नुपसंहारग्रन्थं व्याकुर्वन् परिनिश्चितेत्यादिविशेषणविशिष्टविपश्चिच्छब्दार्थकथनेन वर्तिष्यमाणग्रन्थतात्पर्यमाह--एवमित्यादिना ।
सेति ।
विमतिरित्यर्थः ।
परिनिश्चितेत्यादिग्रन्थमनादिनिधनं ब्रह्येत्यादिभर्तृहरिवचनादिकमनुसृत्य सविग्रहं विवृणोति--परित इत्यादि ।
परितः बहुमुखान्वादिनः प्रति दोषविशेषवाचिनापभ्रंशशब्देनात्र सर्वदोषहेतुरविद्यासंस्कारो लक्ष्यत इत्याशयेन व्याचष्टे--गलितेत्यादि ।
गलितभेदप्रपञ्चतया भेदप्रपञ्चसंसर्गरहितत्वेन ।
उपलक्षणे तृतीया ।
गलितभेदप्रपञ्चत्वे हेतुरविद्येत्यादि ।
शब्दपदविवरणं शब्दार्थाख्यमिति ।
शब्द इत्यर्थ इति चाख्या यस्य तत् ।
नामरूपात्मकमित्यर्थः ।
यद्वा--शब्दार्थयोराख्या स्फुरणं यस्मिंस्तच्छब्दार्थभ्रमाधिष्ठानमित्षथः ।
निरूपाधिरूपमाह--प्रकाशेत्यादि ।
स्वप्रकाशज्ञानस्वरूपमित्यर्थः ।
बृहधातोर्ब्रह्मशब्दनिष्पत्तिमभिप्रेत्य विवृणोति--व्यापकत्वेन बृहदिति ।
एवं निरुपाधिपरतया व्याख्याय सोपाधिपरतयापि व्याचष्टे--विशेषेत्यादि ।
विशेषाणां व्यष्टिरूपाणां सर्वेषां शक्तिभिर्निर्भरतापूर्णता तया चेत्यर्थः ।
बृहदित्यनेन सम्बध्नाति ।
बृहधातोर्बह्मशब्दनिष्पत्तिमभिप्रेत्य विवृणोति--व्यापकत्वेन बृहदिति ।
एवं निरुपाधिपरतया व्याख्यासोपाधिपरतयापि व्याचष्टे--विशेषेत्यादि ।
विसेषाणां व्यष्टिरूपाणां सर्वेषां शक्तिभिर्निर्भरतापूर्णता तया चेत्यर्थः ।
बृहदित्यनेन सम्बध्नाति ।
बृहधातोर्बह्मशब्दनिष्पत्यभिप्रायेण चाह--बृंहितमित्यादि ।
बृंहितमिति कर्तरि क्तः ।
कथं परिपोषरूपं बृंहणमित्यत आह--विश्वेत्यादि ।
विश्वस्य यानि निर्माणानि तद्विषया याः शक्तयः तैः सह किं विरोधाविरोधौ चिन्त्येते ।
कृत्रिमशब्दार्थसम्बन्धवादिनां तु युक्तिविदामनुभवसिद्ध एवायं व्यञ्जकभावः शब्दानामर्थान्तराणामिवाविरोधश्चेति न प्रतिक्षेप्यपदवीमवतरति ।
लोचनम् एतदुक्तं भवति--वैयाकरणास्तावद्ब्रह्मपदेनान्यत्किञ्चिदिच्छन्ति तत्र का कथा वाचकत्वव्यञ्जकत्वयोः, अविद्यापदे तु तैरपि व्यापारान्तरमभ्युपगतमेव ।
एतच्च प्रथमोद्द्योते वितत्य निरूपितम् ।
एवं वाक्यविदां पदविदां चाविमतिविषयत्वं प्रदर्श्य माणतत्त्वविदां तार्किकाणामपि न युक्तात्र विमतिरिति दर्शयितुमाह--कृत्रिमेति ।
कृत्रिमः सङ्केतमात्रस्वभावः परिकल्पितः शब्दार्थयोः सम्बन्ध इति ये वदन्ति नैयायिकसौगतादयः ।
यथोक्तम्--ऽन सामयिकत्वाच्छब्दार्थप्रत्ययस्येऽति ।
तथा शब्दाः संकेतितं प्राहुरिति ।
अर्थान्तराणामिति ।
दीपादीनाम् ।
बालप्रिया ताभिर्हेतुभिर्ः इश्वरत्वाद्विश्वपरिणमनसमर्थत्वात् ।
यद्वा--विश्वनिर्माणशक्तिर्माया, तस्यार् इश्वरत्वाद्विश्वरूपेण परिणममानमायाधिष्टानत्वादित्यर्थः ।
यैरित्यस्य परिनिश्चितमित्यनेन सम्बन्धः ।
तेषामिति शेषः ।
वृत्तौ ऽविरोधाविरोधाविऽति ।
पूर्वपक्षतया विरोधस्सिद्धान्ततया अविरोधश्च ।
ननु वैयाकरणमतमाश्रित्य ध्वनिव्यवहारस्य प्रवृत्तत्वे ऽपि वाचकलक्षणस्य शब्दस्य वाचकत्वात्पृथग्व्यञ्जकत्वाङ्गीकारे विरोधाविरोधौ मीमांसकवच्चिन्तनीयाविति तैस्सह किमित्याद्युक्तमयुक्तमिति शङ्कायां तात्पर्यमाह--एतदुक्तमित्यादि ।
ब्रह्मपद इति ।
विद्यादशायामित्यर्थः ।
नेच्छन्तीति सम्बन्धः. अन्यदिति ।
ब्रह्मण इति शेषः ।
तत्र ब्रह्मपदे ।
का कथेति ।
कथापि नास्तीत्यर्थः ।
अतश्च कथं विरोधाविरोधचिन्ताप्रसङ्ग इति भावः ।
व्यापारान्तरमिति ।
व्यञ्जकत्वमित्यर्थः ।
अभ्युपगतमेवेति ।
अतस्तत्रापि न विरोधाविरोधचिन्तावसर इति भावः ।
व्यापारान्तरं तैरम्युपगतमिति कुतो ऽवगन्तव्यमित्यत आह--एतच्चेति ।
प्रथमोद्योत इति ।
ध्वनिलक्षणनिरूपण इति भाव- ।
वृत्तमनुवदन्नवतारयति--एवमित्यादि ।
युक्तिविदामित्यस्यार्थकथनं प्रमाणतत्वविदां तार्किकाणामिति ।
सौगतादेरुपलक्षणमिदम् ।
सङ्केतमात्रस्वभाव इति ।
सङ्केतस्समयः, स चास्माच्छब्दादयमर्थो बोद्धव्य इत्यादीच्छा ।
अस्य शब्दस्यायमर्थ इत्युपदेशस्स इति च केचित् ।
नेत्यादिप्रत्ययस्येत्यन्तं न्यायसूत्रम् ।
शब्दो लिङ्गविधयार्थबोधक इति पूर्वपक्षस्य समाधानमिदम् ।
नेति ।
शब्दो लिङ्गविधयार्थबोधको नेत्यर्थः ।
अत्र हेतुः--सामयिकत्वादित्यादि ।
शब्दादर्थस्य यः प्रत्ययो बोधस्तस्य सामयिकत्वात्सङ्केतमूलकत्वादित्यर्थः ।
सौगतवचनमाह--शब्दा इत्यादि ।
शब्दानामयं व्यञ्जकभावो ऽनुभवसिद्ध एवेत्येतदुपपादनायार्थान्तराणामिवेति दृष्टान्तकथनं, तत्रार्थान्तराणामित्येतद्व्याचष्टे--दीपादीनामिति ।
वाचकत्वे हि तार्किकाणां विप्रतिपत्तयः प्रवर्तन्ताम्, किमिदं स्वाभाविकं शब्दानामाहोस्वित्सामयिकमित्याद्याः ।
व्यञ्जकत्वे तु तत्पृष्ठभाविनि भावान्तरसाधारणे लोकप्रसिद्ध एवानुगम्यमाने को विमतीनामवसरः ।
लोचनम् नन्वनुभवेन द्विचन्द्राद्यपि सिद्धं तच्च विमतिपदमित्याशङ्क्याह--अविरोधश्चेति ।
अविद्यमानो विरोधो निरोधो बाधकात्मको द्वितीयेन ज्ञानेन यस्य तेनानुभवसिद्धश्चाबाधितश्चेत्यर्थः ।
अनुभवसिद्धं न प्रतिक्षेप्यं यथा वाचकत्वम् ।
ननु तत्राप्येषां विमतिः ।
नैतत्; न हि वाचकत्वे सा विमतिः, अपि तु वाचकत्वस्य नैसर्गिकत्वकृत्रिमत्वादौ तदाह--वाचकत्वे हीति ।
नन्वेवं व्यञ्जकत्वस्यापि धर्मान्तरमुखेन विप्रतिपत्तिविषयतापि स्यादित्याशङ्क्याह--व्यञ्जकत्वे त्विति ।
भावान्तरेति ।
अक्षिनिकोचादेः साङ्केतिकत्वं चक्षुरादिकस्यानादिर्योग्यतेति दृष्ट्वा बालप्रिया यथा दीपादिः परिकल्पितनिजविषयादन्यं विषयमपि प्रकाशयति, तथा शब्दो ऽपि सङ्केतितादन्यं विषयं प्रकाशयतीति तेषामप्यनुभवसिद्ध एवायं शब्दानां व्यञ्जकभाव इति भावः ।
नन्वित्यादि ।
अनुभवेन दोषजनितेनानुभवेन ।
तच्च द्विचन्द्रादि च ।
तच्चेत्यस्य स्थाने न च नेति च पाठः ।
परिहारानुगुण्येनावरोधपदं व्याचष्टे--अविद्यमान इत्यादि ।
निरोधः प्रतिबन्धः ।
फलितमाह--तेनेत्यादि ।
न प्रतिक्षेप्यं न विमतिपदम् ।
व्यञ्जकत्वं न विमतिपदमनुभवसिद्धत्वाद्वाचकत्ववदित्यनुमानमनेन दर्शितम् ।
अत्र दृष्टान्तस्य साद्ध्यवैकल्यशङ्कापरिहारपरतया वाचकत्वे हीत्यादिग्रन्थमवतारयति--नन्वित्यादि ।
तत्रापि वाचकत्वे ऽपि ।
एषां तार्किकाणाम् ।
नैतदिति ।
एतन्न युक्तमित्यर्थः ।
अत्र हेतुः--न हीत्यादि ।
वाचकत्वे धर्मिणि न विमतिः, किन्तु तत्र नैसर्गिकत्वादिधर्म एवेत्यर्थः ।
अतो न साध्यवैकल्यं दृष्टान्तस्येति भावः ।
धर्मान्तरमुखेनेति ।
नैसर्गिकत्वादिमुखेनेत्यर्थः ।
विप्रतिपत्तिविषयतापीति ।
न केवलमनुभवसिद्धतेत्यपिशब्दार्थः ।
वाचकत्वस्य विप्रतिपत्तिविषयत्वं व्यञ्जकत्वस्य तदभावञ्च दर्शयन् भावमाह--अक्षीत्यादि ।
अक्ष्णोर्निकोचो विकासः ।
आदिपदेन सङ्कोचादिकं गृह्यते तस्य ।
साङ्केतिकत्वमिति ।
सङ्केतवत्त्वमित्यर्थः ।
यद्वा--अर्थेन सह सम्बन्धस्य सङ्केतसिद्धत्वमित्यर्थः ।
योग्यतेति ।
चाक्षुषादिज्ञानकारणतेत्यर्थः ।
यथा भूषणसारे "इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथे"ति ।
इति दृष्टवेति ।
अलौकिके ह्यर्थे तार्किकाणां विमतयो निखिलाः प्रवर्तन्ते न तु लौकिके ।
न हि नीलमधुराधिष्वशेषलोकेन्द्रियगोचरे बाघारहिते तत्त्वे परस्परं विप्रतिपन्ना दृश्यन्ते ।
न हि बाधारहितं नीलं नीलमिति ब्रुवन्नपरेण प्रतिषिध्यते नैतन्नीलं पीतमेतदिति ।
तथैव व्यञ्जकत्वं वाचकानां शब्दानामवाचकानां च गीतध्वनीनामशब्दरूपाणां च चेष्टादीनां लोचनम् काममस्तु संशयः शब्दस्याभिधेयप्रकाशने व्यञ्जकत्वं तु यादृशमेकरूपं भावान्तरेषु तादृगेव प्रकृते ऽपीति निश्चतैकरूपे कः संशयस्यावकाश इत्यर्थः ।
नैतन्नीलमिति नीले हि न बिप्रतिपत्तिः, अपि तु प्राधानिकमिदं पारमाणवमिदं ज्ञानमात्रमिदं तुच्छदमिति तत्सृष्टावलौकिक्य एव विप्रतिपत्तयः ।
वाचकानामिति ।
ध्वन्युदाहरणेष्विति भावः ।
बालप्रिया अक्षिनिकोचादेश्चक्षुरादीन्द्रियस्य चार्थप्रकाशक्त्त्वे समाने ऽप्याद्यस्यार्थेन सह सम्बन्धस्य साङ्कतिकत्वं द्वितीयस्यार्थेन सह सम्बन्धस्य नैसर्गिकत्वञ्च दृष्ट्वेर्थः ।
काममित्यादि ।
शब्दस्य वाचकत्वे किमिदं साङ्केतिकमाहोस्विन्नैसर्गिकमिति वाचकत्वधर्मिकस्संशयः कामं भवत्वित्यर्थः ।
यथा शब्दे नित्यानित्यत्वसंशयः ।
व्यञ्जकत्वमिति ।
तुशब्दो विशेषे ।
भावान्तरेष्विति ।
प्रदीपादिष्वित्यर्थः ।
न तु लौकिक इत्युक्तमुपपादयति वृत्तौ ऽन हीऽत्यादि ।
ऽनीलमधुरादिषुऽ नीलमधुरादिद्रव्येषु ।
निर्धारणे सप्तमी ।
ऽतत्त्वेऽ पदार्थे ।
ऽविप्रतिपन्नाऽ इति ।
जना इति ।
जना इति शेषः ।
उक्तमेव स्फुटयति--ऽनहीऽत्यादि ।
ऽबाधारहितं सत्यम् ।
ऽनीलंऽ नीलद्रव्यं घटादि ।
ऽनीलमिति ब्रुवन्निऽति ।
इदमिति शेषः ।
लोचने भावमाह--नैतदित्यादि ।
नीले एतन्न नीलमिति ब्रुवन्निऽति ।
इदमिति शेषः ।
ऽअपरेणेऽत्यादि ।
एतन्न नीलमेतत्पीतमिति न हि प्रतिषिध्यत इति सम्बन्धः ।
लोचने भावमाह--नैतदित्यादि ।
नीले एतन्न नीलमिति विप्रतिपत्तिर्न हीति सम्बन्धः ।
लौकिकत्वादिति भावः ।
विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिः ।
अपि त्वित्यादि ।
अपि त्बित्यलौकिक्य एव विप्रतिपत्तय इति सम्बन्धः ।
तत्प्रकारकथनं प्राधानिकमित्यादि ।
इदमित्यनेन सर्वत्र जगद्विवक्षितम् ।
प्राधानिकं प्रधानस्य मूलप्रकृतेर्विकारः ।
पारमाणवं परमाणुजन्यम् ।
ज्ञानमात्रं विज्ञानस्वरूपमेव ।
तुच्छंशून्यम् ।
अत्र क्रमेण सांख्यवैशेषिकविज्ञानवादिमाध्यमिकानाम्मतानि दर्शितानि ।
तत्सृष्टाविति ।
जगत्सृष्टिहेतावित्यर्थः ।
तद्दृष्टाविति पाठे तु जगत्कारणदृष्टावित्यर्थः ।
अलौकिक्य एव विप्रतिपत्तय इति ।
लौकिके विप्रतिपत्तीनामदर्शनादलौकिके वस्तुनि तद्दर्शनाच्चान्वयव्यतिरेकाभ्यामलौकिकवस्तुविषयकत्वमेव तासां सिद्धमित्यर्थः ।
अलौकिक इत्यादिवृत्तिग्रन्थो ऽनेन विवृतः ।
वृत्तावृपसंहरति--ऽतथैवेऽत्यादि ।
ऽतथैवऽ तथाभूतमेव, लोकिकमेवेति यावत् ।
ऽकेनापह्नूयतऽ इति ।
सर्वैराद्रियत एवेत्यर्थः ।
यत्सर्बेषामनुभवसिद्धमेव तत्केनापह्नूयते ।
अशब्दमर्थं रमणीयं हि सूचयन्तो व्याहारास्तथा व्यापारा निबद्धाश्चानिबद्धाश्च विदग्घपरिषत्सु विविधा विभाव्यन्ते ।
तानुपहास्यतामात्मनः परिहरन् को ऽतिसन्दधीत सचेताः लोचनम् अशब्दमिति ।
अभिधाव्यापारेणास्पृष्टमित्यर्थः ।
रमणीयमिति ।
यद्गोप्यमानतयैव सुन्दरीभवतीत्यनेन ध्वन्यमानतायामसाधारणप्रतीतिलाभः प्रयोजनमुक्तम् ।
निबद्धाः प्रसिद्धाः तानिति व्यवहारान् ।
कः सवेता अतिसन्दधीत नाद्रियेतेत्यर्थः ।
लक्षणे शत्रादेशः आत्मनः कर्मभूतस्य योपहसनीयता तस्याः परिहारेणेपलक्षितस्तां परिजीहीर्षुरित्यर्थः ।
बालप्रिया अत्र हेतुः--ऽअशब्दम्ऽ इत्यादि ।
नास्ति शब्दो ऽभिधायको यस्येति व्युत्पत्तिमभिप्रत्याशब्दमित्येतद्व्याचष्टे लोचने--अभिधेत्यादि ।
अशब्दत्वं रमणीयत्वे हेतुरिति दर्शयन्विवृणोति--यदित्यादि ।
वस्त्रान्तप्रावृतकामिनीकुचकलशदृष्टान्तसिद्धमेतदिति भावः ।
सुन्दरी भवतीति रमणीयपदव्याख्यानम् ।
इत्यनेनेति ।
अशब्दत्वरमणीयत्वविशेषणद्वयेनेत्यर्थः ।
ध्वन्यमानतायामिति ।
अर्थस्येति शेषः ।
असाधारणेति ।
प्रतीतेरसाधारणत्वमास्वाद्यमानात्मकत्वम् ।
वृत्तौ ऽव्याहाराऽ इति ।
व्यवहारा इति च पाठः ।
ऽतथा व्यापाराऽ इति ।
येनार्थंस्याशब्दत्वं रमणीयत्वञ्च भवति, तथाभूतो व्यापारो व्यञ्जकत्वलक्षणो येषां तथाभूता इत्यर्थः ।
ऽनिबद्धाःऽ मुक्तकादिरूपाः ।
ऽअनिबद्धाःऽ गद्यादरूपाः ।
लोचने--प्रसिद्धा इति ।
मुक्तकादिरूपत्वेन प्रसिद्धा इत्यर्थः ।
अतसन्दधीतेत्येतत्प्रकृतानुगुणं विवृणोति--नाद्रियेतेति ।
सचेता इति विशेष्यानुसारेण परिहरन्नित्येतद्व्याचष्टे--लक्षण इति ।
लक्षणरूपार्थ इत्यर्थः ।
परिहरणस्यादरणफलत्वाल्लक्षणत्वम् ।
शत्रादेश इति ।
परिहरन्नित्यत्रेति शेषः ।
तेन सिद्धमर्थमाह--आत्मन इत्यादि ।
उपसहनीयता विद्वत्परिषत्कर्थृकपरिहासविषयता ।
परिहारेण प्रागभावपरिपालनेन ।
फलितमाह--तामित्यादि ।
वृत्तौ ऽब्रूयादिऽति ।
कश्चिदिति शेषः ।
सम्भाव्यन्तद्वचनमाह--ऽअस्तीऽत्यादि ।
कथमित्यत्राह--ऽव्यञ्जकत्वऽमित्यादि ।
ऽतच्चऽ गमकत्वञ्च ।
ऽलिङ्गत्वंऽ ज्ञापकत्वम् ।
ऽअतऽ इति ।
गमकत्वस्य लिङ्गत्वरूपत्वादित्यर्थः ।
इतीति हेतौ ।
ऽतेषांऽ शब्दानां व्यङ्ग्यव्यञ्जकभावो लिङ्गिलिङ्गभाव एवेति योजना ।
एवकारार्थकथनं ऽनापरः कश्चिदिऽति ।
उक्तं साधयति--ऽअतश्चेत्यादि ।
ऽअतःऽ वक्ष्यमाणद्धेतोः ।
चकारो युक्त्यन्तरसमुच्चायकः ।
ऽएतदिऽति ।
व्यङ्ग्यव्यञ्जकभावस्य लिङ्गिलिङ्गभावदनतिरिक्तत्वमित्यर्थः ।
ऽअवश्यमेवबोद्धव्यऽमिति ।
अतिरिक्तत्वे प्रमाणाभावादिति भावः ।
अत इत्युक्तन्दर्शयति--ऽयस्मादिऽत्यादि ।
ततः किमत आह--ऽवक्त्रभिप्रायश्चेऽत्यादि ।
व्यञ्जकत्वमित्यादिग्रन्थस्य ब्रूयात्, अस्त्यतिसन्धानावसरः व्यञ्जकत्वं शब्दानां गमकत्वं तच्च लिङ्गत्वमतश्च व्यङ्ग्यप्रतीतिर्लिङ्गिप्रतीतिरेवेति लिङ्गिलिङ्गभाव एव तेषां व्यङ्ग्यव्यञ्जकभावो नापरः कश्चित् ।
अतश्चैतदवश्यमेव बोद्धव्यं यस्माद्वक्रभिप्रायापेक्षया व्यञ्जकत्वमिदानीमेव त्वया प्रतिपादितं वक्रभिप्रायश्चानुमेयरूप एव ।
अत्रोच्यते--नन्वेवमपि यदि नाम स्यात्तत्किं नश्छिन्नम् ।
वाचकत्वगुणवृत्तिव्यतिरिक्तो व्यञ्जकत्वलक्षणः शब्दव्यापारो ऽस्तीत्यस्माभिरभ्युपगतम् ।
तस्य चैवमपि न काचित् क्षतिः ।
तद्धि व्यञ्जकत्वं लिङ्गत्वमस्तु अन्यद्वा ।
सर्वथा प्रसिद्धशाब्दप्रकारविलक्षणत्वं शब्दव्यापारविषयत्वं लोचनम् अस्तीति ।
व्यञ्जकत्वं नापह्नूयते तत्त्वतिरिक्तं न भवति अपि तु लिङ्गिलिङ्गभाव एवायम् ।
इदानीमेवेति ।
जैमिनीयमतोपक्षेपे ।
यदि नाम स्यादिति ।
प्रौढवादितयाभ्युपगमे ऽपि स्वपक्षस्तावन्न सिध्यतीति दर्शयति--शब्देति ।
शब्दस्य व्यापारः सन् विषयः शब्दव्यापारविषयः, अन्ये तु बालप्रिया भावमाह लोचने--व्यञ्जकत्वमित्यादि ।
नापह्नूयत इति ।
स्वरूपत इति शेषः ।
तत्तु व्यञ्जकत्वन्तु ।
अतिरिक्तं लिङ्गत्वाद्भिन्नम् ।
लिङ्गिलिङ्गभाव एव लिङ्गिनिरूपितलिङ्गत्वमेव ।
अयं व्यञ्जकत्वम् ।
स्यादितीति ।
इत्यनेनेत्यर्थः ।
प्रौढेति ।
परोक्तं स्वीकृत्यापि स्वसिद्धान्तस्थापनाय यो वादस्स प्रौञवादः तं वदतीति प्रौढवादी, तस्य भावस्तत्त तयेत्यर्थः ।
स्वपक्ष इति ।
व्यञ्जकत्वं लिङ्गत्वादनतिरिक्तमिति पूर्वपक्षिपक्ष इत्यर्थः ।
न सिद्ध्यतीति ।
वक्ष्यमाणयुक्त्येति भावः ।
वृत्तौ ऽतत् किं नः छिन्नम्ऽ इत्युक्तस्यैव विवरणम्--ऽवाचकत्वेऽत्यादि ।
ऽप्रसिद्धेऽति ।
प्रसिद्धो यश्शब्दस्य प्रकारो धर्मो ऽभिधा लक्षणा च तद्विलक्षणत्वमित्यर्थः ।
शब्दव्यापारत्वमिति वक्तव्ये शब्दव्यापारविषयत्वमित्युक्तिरसङ्गतेत्यतो व्याचष्टचे लोचने--शब्देत्यादि ।
विषय इति ।
सचेतोबुद्धिविषय इत्यर्थः ।
तदास्वाद्य इति यावत् ।
व्याख्यानान्तरं दर्शयति--अन्य इति ।
वृत्तौ ऽतस्येऽति ।
व्यञ्जकत्वस्येत्यर्थः ।
व्यञ्जकत्वं लिङ्गत्वमस्त्वित्युक्त्या सिद्धं नस्समीहितमिति मन्यमानं पूर्वपक्षिणं प्रत्याह--ऽन पुनरिऽत्यादि ।
च तस्यास्तीति नास्त्येवावयोर्विवादः ।
न पुनरयं परमार्थो यद्व्यञ्जकत्वं लिङ्गत्वमेव सर्वत्र व्यङ्ग्यप्रतीतिश्च लिङ्गिप्रतीतिरेवेति ।
यदपि स्वपक्षसिद्धये ऽस्मदुक्तमनूदितं त्वया वक्रभिप्रायस्य व्यङ्ग्यत्वेनाभ्युपगमात्तत्प्रकाशने शब्दानां लिङ्गत्वमेवेति तदेतद्यथास्माभिरभिहितं तद्विभज्यं प्रतिपाद्यते श्रूयताम् ।
द्विविधो विषयः शब्दानाम्--अनुमेयः प्रतिपाद्यश्च ।
तत्रानुमेयो विवक्षालक्षणः ।
विवक्षा च शब्दस्वरूपप्रकाशनेच्छा शब्देनार्थप्रकाशनेच्छा चेति द्विप्रकारा ।
तत्राद्या न शाब्दव्यवहाराङ्गम् ।
सा हि प्राणित्वमात्रप्रतिपत्तिफला ।
द्वितीया तु शब्दविशेषावधारणावसितव्यवहितापि शब्दकरणव्यवहारनिबन्धनम् ।
ते तु द्वे अप्यनुमेयो विषयः शब्दानाम् ।
प्रतिपाद्यस्तु प्रयोक्तुरर्थप्रतिपादनसमीहाविषयीकृतो ऽर्थः ।
स च द्विविधः---वाच्यो व्यङ्ग्यश्च ।
प्रयोक्ता हि कदाचित्स्वशब्देनार्थे लोचनम् शब्दस्य यो व्यापारस्तस्य विषयो विशेष इत्याहुः ।
न पुनरिति ।
प्रदीपालोकादौ लिङ्गिलिङ्गभावशून्यो ऽपि हि व्यङ्ग्यञ्जकभावो ऽस्तीति व्यङ्ग्यव्यञ्जकभावस्य लिङ्गिलिङ्गभावो ऽव्यापक इति कथं तादात्म्यम् ।
विषय इति ।
शब्द उच्चरिते यावति बालप्रिया इति यदयं पुनर्न परमार्थं इति सम्बन्धः. अत्राभिप्रायमाह लोचने--प्रदीपेत्यादि ।
लिङ्गीत ।
लिङ्गिलिङ्गभावेन लिङ्गिनिरूपितलिङ्गत्वेन शून्यः विना कृतः तदसमानाधिकरण इति यावत् ।
शून्ये इति पाठे प्रदीपालोकादावित्यस्य विशेषणं तत् ।
व्यङ्ग्यव्यञ्जकभाव इति ।
घटादितत्तद्विषयेण सहेति शेषः ।
इतीति हेतौ ।
लिङ्गिलिङ्गभावो व्यङ्ग्यव्यञ्जकभावस्य व्यापको नेति सम्बन्धः ।
नञ्रहितपाठे त्वव्यापक इति छेदः ।
कथन्तादात्म्यमिति ।
यदि हि व्यङ्ग्यव्यञ्जकभावो लिङ्गिलिङ्गभाव एव स्यान्न तदतिरिक्तः, तर्हि यत्र यत्र व्यङ्ग्यव्यञ्जकभावस्तत्र तत्र लिङ्गिलिङ्गभावो ऽपि भवेत्, न चासावस्ति प्रदीपादौ व्यभिचारदर्शनादतस्तयोरैक्यन्न भवतीत्यर्थः ।
ननु वक्त्रभिप्रायस्य व्यञ्जकत्वन्तु शब्दस्य लिङ्गत्वमेव वक्तृज्ञानानुमापकत्वं शब्दस्येति वदतां प्राभाकराणां मतस्य संवादकत्वादित्याशङ्कायामुक्तं वृत्तौ ऽयदपीऽत्यादि ।
अभिहितमित्यस्यानन्तरं तथेत शेषः ।
विषयशब्दस्यार्थे प्रसिद्धत्वात्तस्य चात्रायोगाद्व्याचष्टे लोचने--शब्द इत्यादि ।
यावतीति ।
यावत्यर्थ इत्यर्थः ।
तावानिति ।
प्रकाशयितुं समीहते कदाचित्स्वशब्दानभिधेयत्वेन प्रयोजनापेक्षया कयाचित् ।
लोचनम् प्रतिपत्तिस्तावान्विषय इत्युक्तः ।
तत्र शब्दप्रयुयुक्षा अर्थप्रतिपिपादयिषा चेत्युभय्यपि विवक्षानुमेया तावत् ।
यस्तु प्रतिपिपादयिषायां कर्मभूतो ऽर्थस्यत्र शब्दः करणत्वेन व्यवस्थितः न त्वसावनुमेयः, तद्विषया हि प्रतिपिपादयिषैव केवलमनुमीयते ।
न च तत्र शब्दस्यकरणत्वे यैव लिङ्गस्येतिकर्तव्यता पक्षधर्मत्वग्रहणादिका सास्ति, अपि बालप्रिया उच्चरितशब्दजन्यप्रतिपत्तिविषय इत्यर्थः ।
वृत्तौ ऽआद्येऽति ।
शब्दस्वरूपप्रकाशनेच्छेत्यर्थः ।
ऽशाब्देऽति ।
शाब्दः शब्दकरणको यो व्यवहारो ऽर्थप्रत्ययस्तस्याङ्गमित्यर्थः ।
ऽप्राणित्वेऽति ।
शब्दस्वरूपप्रकाशनेच्छयोच्चरितेन शब्देनायं प्राणीति श्रोतुर्या प्राणित्वमात्रस्य प्रतिपत्तिः मात्रपदेनार्थस्य व्यवच्छेदः सा फलं यस्यास्सेत्यर्थः ।
ऽद्वितीयेऽति ।
शब्देनार्थप्रकाशनेच्छेत्यर्थः ।
ऽशब्देऽति ।
शब्दविशेषस्य प्रतिपिपादयिषितार्थबोधानुकूलस्य वाक्यस्य यदवधारणं वक्तुरनुसन्धानं तस्मिन्नवसिता पर्यवसिता तदुत्पादनेन कृतार्थेति यावत् ।
अत एव व्यवहितापि शाब्दबोधं प्रति व्यवधानवत्यपि ।
यद्वा--व्यवहितापि शब्दविशेषावधारणावसितेति योजना ।
शब्देनार्थविशेषस्यावधारणे श्रोतुर्बोधे अवसिता परम्परया तदुत्पादिकेति यावत् ।
तथासतीत्यर्थः ।
ऽशब्देऽति ।
शब्दः करणं यस्य तथाभूतो व्यवहारश्शाब्दबोधः, तस्यनिबन्धनं निमित्तमित्यर्थः ।
ते तु द्वे इति पूर्वोक्ताद्द्विप्रकाराविवक्षेत्यर्थः ।
ऽअनुमेयो विषयऽ इति ।
अयमेतद्विवक्षुः एवं विधशब्दप्रयोक्तृत्वादित्याद्यनुमानमत्र बोध्यम् ।
तत्रानुमैय इत्यादिग्रन्थस्यार्थन्दर्शयन्नवतारयति लोचने--तत्रेत्यादि ।
शब्दप्रयुयुक्षां शब्दप्रयोगेच्छा ।
अनुमयेति ।
कार्येण तत्तच्छब्दप्रयोगेणेति ।
शेषः ।
प्रतिपिपादयिषायां कर्मभूत इति ।
प्रतिपिपादयिषित इत्यर्थः ।
तत्रेति ।
प्रतिपिपादयिषितत्वविशिष्टे ऽर्थे विषय इत्यर्थः ।
करणत्वेन व्यवस्थित इति ।
प्रतिपादनं प्रति करणत्वात्तथाविधार्थं प्रति करणत्वं बोध्यम् ।
न लिङ्गत्वेनेति भावः ।
अत एवाह--न त्वित्यादि ।
असौ प्रतिपिपादयिषितो ऽर्थः ।
तद्विषया अर्थविषयिका ।
न त्वसावनुमेय इत्युक्तमेव साधयति--न चेत्यादि ।
तत्र प्रतिपाद्यार्थे विषये ।
पक्षधर्मत्वग्रहणादिका लिङ्गस्येतिकर्तव्यता या सा तत्र शब्दस्य करणत्वेन चास्तीति योजना ।
लिङ्गस्य लिङ्गत्वेनाभिमतस्य धूमादेः ।
इतिकर्तव्यता सहकारिकारणम् ।
लिङ्गेतिकर्तव्यताया अभावं प्रतिपाद्य शब्देतिकर्तव्यतायास्सद्भावमाह--अपि त्वित्यादि ।
अन्यैवेति ।
इतिकर्तव्यतास्तीत्यनुषङ्गः ।
सङ्केतेति ।
तत्तच्छब्दस्य तत्तदर्थे यस्सङ्केतस्तस्य स्फुरणं स्मरणं स तु द्विविधो ऽपि प्रतिपाद्यो विषयः शब्दानां न लिङ्गितया स्वरूपेण प्रकाशते, अपि तु कृत्रिमेणाकृत्रिमेण वा सम्बन्धान्तरेण ।
विवक्षाविषयत्वं हि तस्यार्थस्य शब्दैर्लिङ्गितया प्रतीयते न तु स्वरूपम् ।
यदि हि लिङ्गितया तत्र सब्दानां व्यापारः स्यत्तच्छब्दार्थे लोचनम् त्वन्यैव संकेतस्फुरणादिका तन्न तत्र शब्दो लिङ्गम् ।
इतिकर्तव्यता च द्विधा--एकयाभिधाव्यापारं करोति दितीयया व्यञ्जनाव्यापारम् ।
तदाह--तत्रेत्यादिना ।
कयाचिदिति ।
गोपनकृतसौन्दर्यादिलाभाभिसन्धानादिकयेत्यर्थः ।
मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0