ध्वन्यालोक (टीका सहित) · भाग 421440
अत इति शेषः ।
अतः परिशेषादित्यर्थः ।
व्यङ्ग्यत्वं व्यञ्जकसिद्ध्यधीनं व्यङ्ग्यापेक्षया व्यञ्जकत्वसिद्धिश्च ।
ऽइतीऽति ।
इत्यतो हेतोरित्यर्थः ।
ऽअव्यवस्थानं, न व्यवस्थितिः ।
यद्वा--न हीत्यस्य पूर्वेण सम्बन्धः ।
व्यञ्जकत्वं शब्दस्यैवेति सूचयतुं व्यङ्ग्यत्वं चार्थस्येत्युक्तम् ।
तथा च यतो ऽर्थस्य व्यङ्ग्यत्वमतो व्यञ्जकत्वं शब्दस्यैव तच्च व्यङ्ग्यार्थप्रकाशनं न हीति सम्बन्धः ।
अत्र हेतुमाह--ऽव्यञ्जकत्वेऽत्यादि ।
व्यञ्जकत्वसिद्ध्यधीनमित्यस्यानन्तरं व्यङ्ग्यत्वमिति पाठाभावे त्वेवं योजना--व्यञ्जकत्वं व्यङ्ग्यार्थप्रकाशनं न हि ।
कुत इत्यत्राह ऽव्यङ्ग्यत्वम्ऽ इत्यादिति ।
ऽनन्विऽत्यादि सिद्धान्तिनः समाधानग्रन्थः ।
विस्मरणमाशङ्क्य तत्रत्यं प्रागिति पदं व्याचष्टे लोचने---प्रथमेत्यादि ।
फलितमाह--अतश्चेत्यादि ।
चकारो ऽवधारणे अत इत्यनेन परामृष्टं हेतुमाह--हेत्वन्तरैरिति ।
तदाहेति ।
तस्मादाहेत्यर्थः ।
वृत्तौ--ऽतत्सिद्ध्यधीनेऽति ।
व्यङ्ग्यसिध्यधीनेत्यर्थः ।
ऽसत्यम्ऽ इत्यादिना सिद्धान्त्युक्तमनूद्य पूर्वपक्षी ऽस त्विऽत्यादिना दूषणमभिहितवांस्तं ग्रन्थं व्याचष्टे--अस्त्वसावित्यादिना ।
स त्वर्थ इत्यस्य व्याख्यानम्--असौ द्वितीयो ऽर्थ इति ।
व्यङ्ग्यतयैवेत्येवकारं द्विधा योजयनू व्याचष्टे--तस्येत्यादिना ।
न क्रियत इति ।
अतश्च नियमार्थं व्यङ्ग्यशब्दप्रवृत्तिनिमित्तं वक्तव्यं, तथाचान्योन्याश्रय एव पर्यवस्येदिति भावः ।
यत्र चेत्यादिना व्यङ्ग्यत्वविशिष्टार्थस्याभिमतस्यासिद्धिरूपं दूषणान्तरमुच्यते तद्भन्थमवतारयति--अवगम्यमानत्वेनेत्यादिना ।
अवगम्यमानत्वेन शब्दावगम्यमानत्वेन ।
शब्दार्थत्वमिति ।
तथा च शब्दावगम्यत्वं वाच्यत्वमित्यर्थः ।
तदेवेति ।
यदेवार्थगतावगम्यत्वप्रतियोगि तदेवेत्यर्थः ।
अर्थावगमकत्वमेवेति यावत् ।
अस्त्वेवं ततः किमत आह--अभिधा हीत्यादि ।
अभिधा वाचकत्वान्तर्गता वचनलक्षणा ।
यत्पर्यन्तेति ।
यो ऽर्थः पर्यन्तो यस्याः तत्र वाच्यतयैवासौ व्यपदेष्टुं युक्तः, तत्परत्वाद्वाक्यस्य ।
अतश्च तत्प्रकाशिनो वाक्यस्य वाचकत्वमेव व्यापारः ।
किं तस्य व्यापारान्तरकल्पनया? तस्मात्तात्पर्यविषयो यो ऽर्थः स तावन्मुख्यतया वाच्यः ।
या त्वन्तरा तथाविधे विषये वाच्यान्तरप्रतीतिः सा तत्प्रतीतेरुपायमात्रं पदार्थप्रतीतिरिव वाक्यार्थप्रतीतेः ।
लोचनम् हि यत्पर्यन्ता तत्रैवाभिधायकत्वमुचितम्, तत्पर्यन्तता च प्रधानीभूते तस्मिन्नर्थ इति मूर्धाभिषिक्तं ध्वनेर्यद्रूपं निरूपितं, तत्रैवाभिधाव्यापारेण भवितुं युक्तम् ।
तदाह--यत्र चेति ।
तत्प्रकाशिन इति ।
तद्व्यङ्ग्याभिमतं प्रकाशयत्यवश्यं यद्वाक्यं तस्येति ।
उपायमात्रमित्यनेन साधारण्योक्त्या भाट्टं प्राभाकरं वैयाकरणं च पूर्वपक्षं सूचयति ।
भाट्टमते हि--- वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् ।
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ॥
बालप्रिया सेत्यर्थः ।
तत्रैव पर्यन्तीभूततदर्थ एव ।
नन्वस्तु पर्यन्तीभूतार्थं प्रति वाचकत्वं, ततः किमत आह--तत्पर्यन्तत्यादि ।
तत्पर्यन्तता तामभिधां प्रति पर्यन्तता अवधिता तात्पर्यविषयतेति यावत् ।
तस्मिन्निति ।
व्यङ्ग्यभूते त्वदभिलषित इत्यर्थः ।
उक्तस्य दूषणात्व प्रकटयन् फलितमाह--इतीत्यादि ।
इतीति हेतौ ।
मूर्धाभिषिक्तं प्रधानं रसादिलक्षणम् ।
रूवं स्वरूपम् ।
तत्रैवेति ।
एवकारो ऽभिधाव्यापारेणेत्यनेन सम्बन्धाति ।
भवितुं युक्तमिति ।
अतो व्यञ्जकत्वं नाममात्रमिति भावः ।
वृत्तौ ऽयत्र चेऽत्यादि ।
यत्र काव्यादौ ।
ऽप्राधान्येनावस्थानऽमिति ।
तात्पर्यविषयतया अर्थस्यावस्थानमित्यर्थः ।
ऽतत्रऽ काव्यादौ ।
ऽअसौऽ प्राधान्येनावस्थितो ऽर्थः ।
लोचने--तदित्यादि ।
अवश्यमिति ।
अन्यथा काव्यचारुत्वं न सिध्येदिति भावः ।
इत्यनेन साधारणयोक्त्येति ।
सा तत्प्रतीतेरुपायमात्रं पदार्थप्रतीतिरिव वाक्यार्थप्रतीतेरिति मतत्रयसाधारणवचनेनेत्यर्थः ।
तन्मतत्रयं क्रमेणोपन्यस्यति--भाट्टमते हीत्यादि ।
वाक्यार्थमितये इत्यादि ।
तेषां पदानां वाक्यजननद्वारेण वाक्यार्थमितये एव प्रवृत्तिः, तस्यां सत्याम् स्वार्थप्रतिपादनं नान्तरीयकमविनाभावबलादायातम् ।
यथान्नपाकार्थं अत्रोच्यते---यत्र शब्दः स्वार्थमभिदधानो ऽर्थान्तरमवगमयति तत्र यत्तस्य स्वार्थाभिधायित्वं यच्च तदर्थान्तरावगमहेतुत्वं तयोरविशेषो विशेषो वा ।
न तावदविशेषः; यस्मात्तौ द्वौ व्यापारौ भिन्नविषयौ भिन्नरूपौ च प्रतीयेते एव ।
तथाहि वाचकत्वलक्षणो व्यापारः शब्दस्य स्वार्थविषयः गमकत्वलक्षणस्त्वर्थान्तरविषयः ।
लोचनम् इति शब्दावगतैः पदार्थैस्तात्पर्येण यो ऽर्थ उत्थाप्यते स एव वाक्यार्थः, स एव च वाच्य इति ।
प्राभाकरदर्शने ऽपि दीर्घदीर्धो व्यापारो निमित्तिनि वाक्यार्थे, पदार्थानां तु निमित्तभावः पारमार्थिक एव ।
वैयाकरणानां तु सो ऽपारमार्थिक इति विशेषः ।
एतच्चास्माभिः प्रथमोद्द्योत एव वितत्य निर्णीतमिति न पुनरायस्यते ग्रन्थयोजनैव तु क्रियते ।
तदेतन्मत्रयं पूर्वपक्षे योज्यम् ।
अत्रेति पूर्वपक्षे ।
उच्यत इति सिद्धान्तः ।
वाचकत्वं गमकत्वं चेति स्वरूपतो भेदः स्वार्थे ऽर्थान्तरे च क्रमेणेति विषयतः ।
ननु तस्माच्चदसौ गम्यते ऽर्थः कथं तर्ह्युच्यते ऽर्थान्तरमिति ।
नो चेत्स तस्य न कश्चिदिति को विषयार्थं बालप्रिया प्रवृत्तानां काष्ठानां ज्वलनम् ।
अतः पदानां वाक्यार्थमितिपर्यन्त एवाभिधाव्यापारो यथा काष्ठव्यापारः पाकान्त इत्यर्थः ।
इतीति ।
इत्युक्तनयेनेत्यर्थः ।
शब्दावगतैरत ।
वाक्यगतपदावगतैरत्यर्थः ।
स एवेति ।
एवकारेण पदार्थव्यावृत्तिः पदार्थप्रतीतेरुपायमात्रत्वेन तस्यातात्पर्यविषयत्वात् ।
व्यापार इति ।
वाक्यात्मकपदानामिति शेषः ।
निमित्तिनीति ।
नैमित्तिके कार्यरूपे इत्यर्थः ।
वाक्यार्थस्य नैमित्तिकत्वोक्त्यैव पदार्थानां निमित्तत्वे सिद्धे ऽपि वैयाकरणमताद्विशेषं दर्शयितुमाह--पदार्थानान्त्विति ।
उत्पत्त्यपेक्ष्या पदार्थवाक्यार्थयोर्निमित्तनिमित्तिभावोक्तिः, प्रतीतिस्तु प्रथमं वाक्यार्थस्य प्राभाकरमते कार्यान्विताभिधानादिति बोध्यम् ।
सो ऽपारमार्थिक इति ।
अविद्यात्मकत्वादपारमार्थिक इत्यर्थः ।
सङ्क्षिप्य मतत्रयोपन्या सस्य फलमाह---तदेतदिदि ।
योज्यमिति ।
अन्यथा निर्मूलत्वप्रसङ्गादिति भावः ।
ऽउच्यतेऽ इत्यत्र पूरयति--सिद्धान्त इति ।
यत्रेत्यादिवृत्तिग्रन्थेनाभिहितौ स्वरूपविषयभेदौ स्फुटयति--वाचकत्वमित्यादि ।
विषयत इति ।
भेद इत्यनुषज्यते ।
समयापेक्षत्वात्स्वार्थे अभिधा तदनपेक्षत्वादन्यत्रार्थे अवगमनव्यापार इति भावः ।
ऽन च स्वपरेऽत्यादिग्रन्थमवतारयति--नन्वित्यादि ।
तस्मादिति ।
यस्मादभिधेयस्यार्थस्य प्रतीतिः तस्माच्छब्दादित्यर्थः ।
असौ व्यङ्ग्यत्वेनाभिमतः ।
ननु न गम्यते तस्माच्छब्दात्किन्तु तत्सम्बन्धिवशादित्यत आह--नो चेदित्यादि ।
सः सशब्दः ।
न च स्वपरव्यवहारो वाच्यव्यङ्ग्ययोरपह्णोतुं शक्यः, एकस्य सम्बन्धित्वेन प्रतीतेरपरस्य सम्बन्धिसम्बन्धित्वेन ।
वाच्योह्यर्थः साक्षाच्छब्दस्य सम्बन्धी तदितरस्त्वभिधेयसामर्थ्याक्षिप्तः सम्बन्धिसम्बन्धी ।
यदि च स्वसम्बन्धित्वं साक्षात्तस्य स्यात्तदार्थान्तररत्वव्यवहार एव न स्यात् ।
तस्माद्विषयभेदस्तावत्तयोर्व्यापारयोः सुप्रसिद्धः ।
रूपभेदो ऽपि प्रसिद्ध एव ।
न हि यैवाबिधानशक्तिः सैवावगमनशक्तिः ।
अवाचकस्यापि गीतशब्दादे रसादिलक्षणार्थावगमदर्शनात् ।
अशब्दस्यापि चेष्टादेरर्थविशेषप्रकाशनप्रसिद्धेः ।
तथाहि ऽव्रीडायोगान्नतवदनयाऽ लोचनम् इत्याशङ्क्याह-न चेति ।
न स्यादिति ।
एवकारो भिन्नक्रमः, नैव स्यादित्यर्थः ।
यावता न साक्षात्सम्बन्धित्वं तेन युक्त एवार्थान्तरव्यवहार इति विषयभेद उक्तः ।
ननु भिन्ने ऽपि विषये अक्षशब्दादेर्बह्वर्थस्य एक एवाभिधालक्षणो व्यापार इत्याशङ्क्य रूपभेदमुपपादयति--रूपभेदो ऽपीति ।
प्रसिद्धिमेव दर्शयति---न हीति ।
विप्रतिपन्नं प्रति हेतुमाह--आवचकस्यापीति ।
यदेव वाचकत्वं तदेव गमकत्वं यदि स्यादवाचकस्य गमकत्वमपि न स्यात्, गमकत्वे नैव वाचकत्वमपि न स्यात् ।
न चैतदुभयमपि गीतशब्दे शब्दव्यतिरिक्ते चाधोवक्त्रत्वकुचकम्पनबाष्पावेशादौ बालप्रिया तस्य अर्थान्तरस्य ।
न कश्चिदिति ।
गमको ऽभिधायकश्च कश्चिन्नेत्यर्थः ।
ततः किमित्यत आह--इतीत्यादि ।
विषयार्थः विषरूपो ऽर्थः ।
यद्वा--विषयशब्दस्यार्थः ।
क इति ।
अर्थान्तरं शब्दस्य विषयो न भवेदित्यर्थः ।
इत्याशङ्क्याहेति ।
न चेत्यादिना न स्यादित्यन्तेनाहेत्यर्थः ।
एवकार इति ।
व्यवहार एवेत्येवकार इत्यर्थः ।
भावं विवृणोति--यावतेत्यादि ।
यावता येन हेतुना ।
ननु भिन्नविषयत्वसमर्थनेनैवेष्टसिद्धौ रूपभेदसमर्थनं किमर्थमित्यतस्तद्व्रन्थमवतारयत---नन्वित्यादि ।
अक्षशब्दादेरित्यादिपदेन हर्यादशब्दो गृह्यते ।
बह्वर्थस्येति ।
इन्द्रियाद्यनेकार्थकस्येत्यर्थः ।
एक एवेति ।
आवृत्त्यपेक्षत्वे ऽपि तत्र तत्रार्थे अभिधैव व्यापार इति भावः ।
स्वरूपभेदे प्रसिद्धिं हेतुमुक्त्वा पुनर्हेत्वन्तरोक्तौ बीजं दर्शयति--विप्रतिपन्नं प्रतीति ।
विप्रतिपन्नं वाचकत्वमेव गमकत्वं नान्यदनुभूयत इति वदन्तम् ।
भावं व्याचष्टे---यदेवेत्यादिना ।
न स्यादित्यत्र हेतुमाह---गमकत्व इत्यादि ।
गमकत्वे सति वाचकत्वमपि नैव न स्यादिति योजना ।
स्यादेवेत्यर्थः ।
यत इति शेषः ।
न चेति ।
इत्यादिश्लोके चेष्टाविशेषः सुकविनार्थप्रकाशनहेतुः प्रदर्शित एव ।
तस्माद्भिन्नविषयत्वाद्भिन्नरूपत्वाच्च स्वार्थाभिधायित्वमर्थान्तरावगमहेतुत्वं च शब्दस्य यत्तयोः स्पष्ट एव भेदः ।
विशेषश्चेन्न तर्हिदानीमवगमनस्या भिधेयसामर्थ्याक्षिप्तस्यार्थान्तरस्य वाच्यत्वव्यपदेश्यता ।
शब्दव्यापारगोचरत्वं तु तस्यास्माभिरिष्यत एव, तत्तु व्यङ्ग्यत्वेनैव न वाच्यत्वेन ।
प्रसिद्धाभिधानान्तरसम्बन्धयोग्यत्वेन लोचनम् तस्यावाचकस्याप्यवगमकारित्वदर्शंनादवगमकारिणो ऽप्यवाचकत्वेन प्रसिद्धत्वादिति तात्पर्यम् ।
एतदुपसंहरति--तस्माद्भिन्नेति ।
न तर्हीति ।
वाच्यत्वं ह्यभिधाव्यापारविषयता न तु व्यापारमात्रविषयता, तथात्वे तु सिद्धसाधनमित्येतदाह--शब्दव्यापारेति ।
ननु गीतादौ मा भूद्वाचकत्वमिह त्वर्थान्तरे ऽप शब्दस्य वाचकत्वमेवोच्यते, किं हि तद्वाचकत्वं सङ्कोच्यत इत्याशङ्क्याह--प्रसिद्धेति ।
शब्दान्तरेण तस्यार्थान्तरस्य बालप्रिया एतदुभयं वाचकत्वगमकत्वोभयम् ।
गीतशब्दे बाष्पावेशादौ च नास्तीत्यन्वयः, किन्तु अवगमकत्वमेवास्तीति भावः ।
अधोवक्त्रत्वेत्यादिना व्रीडायोगादिति श्लोकप्रतिपादितार्था दर्शिताः ।
कुत इत्यत्राह---तस्येत्यादि ।
तस्य गीतशब्दादेः ।
इति तात्पर्यमिति ।
अवाचकस्येत्यादेः प्रदर्शित एवेत्यन्तवृत्तिग्रन्थस्य तात्पर्यमित्यर्थः ।
एतदिति ।
वाचकत्वव्यञ्जकत्वयोर्भेदसमर्थनेन अविशेषपक्षनिराकरणामित्यर्थः ।
वृत्तौ ऽविशेषश्चेऽदिति ।
तयोरित्यनुषङ्गः ।
ऽअवगमनस्येऽति ।
अवगमनव्यापारसम्बन्धि यदर्थान्तरमिति सम्बन्धः ।
अवगमनीयस्येति च पाठः ।
अवगमनसम्बन्धित्वे हेतुमाह--ऽअभिधेयेऽत्यादि ।
न वाच्यत्वव्यपदेश्यतेत्युक्तं विवृणोति---वाच्यत्वं ह्यभिधाव्यापारविषयतेति ।
साक्षात्तद्विषयतेत्यर्थः ।
व्यापारमात्रेति ।
व्यापारसामान्येत्यर्थः ।
तथात्व इति व्यापारमात्रगोचरत्वे सतीत्यर्थः ।
सिद्धसाधनमिति ।
तस्यार्थस्य ।
व्यञ्जनाव्यापारविषयताया अस्मन्मतसिद्धायास्साधनात् सिद्धसाधनं नाम दोष इत्यर्थः ।
ऽप्रसिद्धेऽत्यादिग्रन्थं शङ्केत्तरत्वेनावतारयति---नन्वित्यादि ।
माभूद्वाचकत्वमिति ।
वाच्यस्याभावादिति भावः ।
इह तु शब्दस्येति सम्बन्धः ।
इह काव्ये ।
तु शब्दो विशेषे ।
शब्दस्य वाचकस्य ।
अर्थान्तरे व्यङ्यत्वेनाभिमते ।
अपीति समुच्चये ।
किं हीत्यादि ।
अर्थान्तरत्वस्य न तत्सङ्कोचकत्वमिति भावः ।
अन्वयं प्रदर्शयन् प्रकाशनोक्तिरेव युक्तेत्येवकारार्थं व्याचष्टे---शब्दान्तरेणेत्यादि ।
शब्दान्तरेण ऽगङ्गायां घोषऽ इत्यादौ गङ्गादिशब्देन ।
तस्यार्थान्तरस्य शैत्यपावनत्वादेः ।
तत्र च तस्यार्थान्तरस्य प्रतीतेः शब्दान्तरेण स्वार्थाभिधायिना यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता ।
न च पदार्थवाक्यार्थन्यायो वाच्यव्यङ्ग्योः ।
यतः पदार्थप्रतीतिरसत्यैवेति लोचनम् यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता न वाचकत्वोक्तिः शब्दस्य, नापि वाच्यत्वोक्तिरर्थस्य तत्र युक्ता, वाचकत्वं हि समयवशादव्यवधानेन प्रतिपादकत्वं, यथा तस्यैव शब्दस्य स्वार्थे; तदाह--स्वार्थाभिधायिनेति ।
वाच्यत्वं हि समयबलेन निर्व्यवधानं प्रतिपाद्यत्वं यथा तस्यैवार्थस्य शब्दान्तरं प्रति पदाह--प्रसिद्धेति ।
प्रसिद्धेन वाचकतयाभिधानान्तरेण यः सम्बन्धो वाच्यत्वं तदेव तत्र वा यद्योग्यत्वं तेनोपलक्षितस्य ।
न चैवविधं वाचकत्वमर्थं प्रति शब्दस्येहास्ति, नापि तं शब्दं प्रति तस्यार्थस्योक्तरूपं वाच्यत्वम् ।
यदि नास्ति तर्हि कथं तस्य विषयीकरणमुक्तमित्याशङ्क्याह--प्रतीतेरिति ।
अथ च प्रतीयते सो ऽर्थो न च वाच्यवाचकत्वव्यापारेमेति विलक्षण एवासौ व्यापार इति यावत् ।
नन्वेवं मा भूद्वाचकशक्तिस्तथापि तात्पर्यशक्तिर्भविष्यतीत्याशङ्क्याह--न चेति ।
बालप्रिया तस्मिन्नर्थे ।
प्रकाशनोक्तिः अवगमकत्वेक्तिः ।
शब्दस्य गङ्गादिशब्दस्य ।
न वाचकत्वोक्तिर्युक्तेत्यत्र हेतुत्वेन स्वार्थाभिधायिनेति पदं वाचकत्वनिर्वचनपूर्वकमवतारयति---वाचकत्वं हीत्यादि ।
तस्यैव शब्दस्य गङ्गादिशब्दस्य ।
स्वार्थे प्रवाहादौ ।
तदाह तदभिप्रायेणाह ।
न वाच्यत्वोक्तिर्युक्तेत्यत्र हेतुत्वेन प्रसिद्धेत्यादिग्रन्थं वाच्यत्वलक्षणोक्तिपुरस्सरभवतारयति---वाच्यत्वं हीत्यादि ।
अर्थस्य शैत्यपावनत्वादेः ।
शब्दान्तरं शैत्यपावनत्वादिशब्दम् ।
प्रकृतानुगुणं व्याचष्टे---प्रसिद्धेनेत्यादि ।
वाचकतयेति पूरितम् ।
अभिधानान्तरेण शब्दान्तरेण शैत्यपावनत्वादिशब्देन ।
तत्र वेति ।
तत्र वाच्यत्वे तन्निरूपितमित्यर्थः ।
योग्यत्वमर्हत्वम् ।
तेनोपलक्षितस्येत्यर्थान्तरस्येत्यस्य विशेषणं योग्यत्वेनेत्युपलक्षणे तृतीयेति भावः ।
निगमयति---न चैवमित्यादि ।
अर्थं शैत्यपावनत्वाद्यर्थम् ।
शब्दस्य गङ्गादिशब्दस्य ।
योग्यत्वेनेत्युपलक्षणे तृतीयेति व्याख्यानात्प्रतीतेरत्यनेन तदन्वयस्य निरस्तत्वात्तत्पदमवतारयति--यदीत्यादि ।
यदि नास्तीन्यनेन न चैवंविधमित्याद्युक्तस्यानुवादः ।
तस्य शैत्यपावनत्वाद्यर्थस्य ।
विषयीकरणमिति ।
गङ्गादिशब्देनेति शेषः ।
अथ चेति वृत्तिस्थचकारार्थविवरणम् ।
सो ऽर्थः शैत्यपावनत्वाद्यर्थः ।
व्यापारेणेत्यनन्तरं किन्तु व्यापारान्तरेणेति शेषः ।
तथा च फलितमाह--इतीत्यादि ।
प्रकृतसन्दर्भानुगुणमवतारयति---नन्वित्यादि ।
तात्पर्यशक्तिर्भविष्यतीति ।
कैश्चिद्विद्वद्भिरास्थितम् ।
यैरप्यसत्यत्वमस्या नाभ्युपेयते तैर्वाक्यार्थपदार्थयोर्घटतदुपादानकारणन्यायो ऽभ्युपगन्तव्यः ।
यथाहि घटे निष्पन्ने तदुपादानकारणानां न पृथगुपलम्भस्तथैव वाक्ये तदर्थे वा प्रतीते पदतदर्थानां तेषां तदा विभक्ततयोपलम्भे वाक्यार्थबुद्धिरेव दूरीभवेत् ।
न त्वेष वाच्यव्यङ्ग्ययोर्न्यायः, न हि व्यङ्ग्ये प्रतीयमाने वाच्यबुद्धिर्दूरीभवति, लोचनम् कैश्चिदिति वैयाकरणैः. यैरपीति ।
भट्टप्रभृतिभिः ।
तमेव न्यायं व्याचष्टे--यथाहीति ।
तदुपादानकारणानामिति ।
समवायिकारणानि कपालानि अनयोक्त्या निरूपितानि ।
सौगतकापिलमते तु यद्यप्युपादातव्य घटकाले उपादानानां न सत्ता एकत्र क्षणक्षयित्वेन परत्र तिरोभूतत्वेन तथापि पृथक्तया नास्त्युपलम्भ इतीयत्यंशे दृष्टन्तः ।
दूरीभवेदिति ।
अरथैकत्वस्याभावादिति भावः ।
बालप्रिया अर्थान्तर इति शेषः ।
अर्थान्तरप्रतीत्यनुकूला वाक्यस्य या शक्तिस्सा तात्पर्यशक्तिरेव न त्वदभिमतेति भावः ।
वृत्तौ ऽन चेऽत्यादि ।
यथा पदार्थे प्रतीते तात्पर्यशक्त्या वाक्यार्थो गम्यते, तथा वाक्यार्थे प्रतीते ऽर्थान्तरञ्चेति न युक्तमित्यर्थः ।
अर्थान्तरं तात्पर्यशक्तिगम्यं पदसमुदायगम्यत्वात्, वाक्यार्थवदित्यनुमानमत्र शङ्कितुरभिप्रेतम् ।
न चेत्यत्र हेतुमाह--ऽयतऽ इत्यादि ।
अनेन दृष्टान्तवैषम्यादिति हेतुर्दर्शितः ।
ऽअसत्यैवेऽति ।
स्फोटरूपवाक्यार्थस्यैव सत्यत्वादिति भावः ।
लोचने--भट्टप्रभृतिभिरिति ।
प्रभृतिपदेन नैयायिकादीनां ग्रहणम् ।
समवायीति ।
उत्पद्यमानं वस्तु यत्र समवैत तत्समवायकारणम् ।
कपालानि शकलानि ।
अनयोक्त्या उपादानकरणशब्देन ।
निरूपितानि दर्शितानि ।
ननु यैरपीति सामान्येनोक्तिर्नं घटते सौतगकापिलमतयोरुपादेयकाले उपादानाभावादिति शङ्कते--सौगतेत्यादि ।
न सत्तेत्यत्र हेतुमाह--एकत्रेत्यादि ।
एकत्र सौगतमते ।
क्षणोति ।
उपादानानामित्यनुषज्यते ।
यत्सत्तत्क्षणिकमिति हि तन्मतम् ।
अपरत्र कापिलमते ।
पिरोभूतत्वेन उपादानानां तिरोभावेन ।
समाधत्ते--तथापीत्यादि ।
वृत्तौ ऽवाक्यऽ इत्यादि ।
यद्यपि पदार्थवाक्यार्थयोरेव प्रकृतत्वं, तथापि पदवाक्यग्रहणं दृष्टान्तार्थम् ।
ऽपदतदर्थानाऽमिति ।
न पृथगुपलम्भ इत्यनुषङ्गः ।
वाक्ये प्रतीते तस्मात्पदानां वाक्यार्थे प्रतीते तस्मात्पदार्थनाञ्च पृथक्तया उपलम्भो नास्तीत्यर्थः ।
पृथगुपलम्भे दोषं दर्शयति--ऽतेषाम्ऽ इत्यादि ।
ऽतेषांऽ पदतदर्थानाम ।
ऽतदाऽ तत्प्रतीतिकाले ।
ऽविभक्ततयाऽ वाक्याद्वाक्यार्थाच्च विभागेन ।
ऽदूरीभवेदिऽति ।
पदार्थप्रतीतेर्दूरे भवेदित्यर्थः ।
अत्र गम्यं हेतुं दर्शयति लोचने--अर्थैकत्वस्याभावादिति पदार्थवाक्यार्थप्रतीत्योः वाच्यावभासाविनाभावेन तस्य प्रकाशनात् ।
तस्माद्घटप्रदीपन्यायस्तयोः, यथैव हि प्रदीपद्वारेम घटप्रतीतावुत्पन्नायां न प्रदीपप्रकाशो निवर्तते तद्वद्य्वङ्ग्यप्रतीतौ वाच्यावभासः ।
यत्तु प्रथमोद्द्योते ऽयथा पदार्थद्वारेणऽ इत्याद्युक्तं तदुपायत्वमात्रात्साम्यविवक्षया ।
नन्वेवं युगपदर्थद्वययोगित्वं वाक्यस्य प्राप्तं तद्भावे च तस्य वाक्यतैव विघटते, तस्या एकार्थ्यलक्षणत्वात्; नैष दोषः; गुणप्रधानभावेन तर्योर्व्यवस्थानात् ।
व्यङ्ग्यस्य हि क्वचित्प्राधान्यं वाच्यस्योपसर्जनभावः लोचनम् एवं पदार्थवाक्यार्थन्यायं तात्पर्यशक्तिसाधकं प्रकृते विषये निराकृत्याभिमतां प्रकाशशक्ति साधयितुं तदुचितं प्रदीपघटन्यायं प्रकृते योजयन्नाह---तस्मादिति ।
यतो ऽसौ पदार्थवाक्याथन्यायो नेह युक्तस्तस्मात् प्रकृतं न्यायं व्याकरमपूर्वकं दार्ष्टान्तिके योजयति--यथैव हीति ।
ननु पूर्वमुक्तम्--- यथा पदार्थद्वारेण वाक्यार्थः स प्रतीयते ।
वाक्यार्थपूर्विका तद्वत्प्रतिपत्तस्य वस्तुनः ॥
इति तत्कथं स एव न्याय इह यत्नेन निराकृत इत्याशङ्क्याह--यत्त्विति ।
तदिति ।
न तु सर्वता साम्येनेत्यर्थः ।
एवमिति ।
प्रदीपघटवद्युगपदुभयावभासप्रकारेणेत्यर्थः ।
तस्या इति वाक्यतायाः ।
एकार्थ्यलक्षणमर्थैकत्वाद्धि वाक्यमेकमित्युक्तम् ।
सकृत् बालप्रिया प्रयोजनैक्यस्याभावादित्यर्थः ।
दूरीभावश्च नेषृ इत्यतस्तयोः पृथगुपलम्भोनाभ्युपेय इति भावः ।
प्रकृते विशेषमाह--ऽन त्वेषऽ इत्यादि ।
कुत इत्यत आह--ऽन हीऽत्यादि ।
न हि दूरीभवतीति शम्बन्धः ।
अत्र हेतुमाह--ऽवाच्येऽत्यादि ।
वाच्येन सह व्यङ्यस्य पृथक्प्रतीतेरित्यर्थः ।
लोचने ऽतस्मादिऽत्यादिग्रन्थमवतारयति--एवमित्यादि ।
प्रकृतन्यायं घटप्रदीपन्यायम् ।
व्याकरणपूर्वकं विवरणपूर्वकम् ।
तदुपायत्वमात्रात्साम्येत्यत्रत्यमात्रपदव्यावर्त्य दर्शयति--न त्वित्यादि ।
ऐकार्थ्यलक्षणमिति ।
एकः अर्थो यस्य तस्य भावः ऐकार्थ्यम् ।
अस्य लक्षणत्वे प्रमाणमाह--अर्थैकत्वादिति ।
नन्वेकार्थत्वं न लक्षणं श्लेषालङ्कारविषयस्यानेकार्थस्यापि वाक्यत्वादिति शङ्कामभिप्रायप्रदर्शनेन परिहरति--सकृदित्यादि ।
यत्रैव यदर्थ क्वचिद्वाच्यस्य प्राधान्यमपरस्य गुणभावः ।
तत्र व्यङ्ग्यप्राधान्ये ध्वनिरित्युक्तमेव; वाच्यप्राधान्ये तु प्रकारान्तरं निर्देक्ष्यते ।
तस्मात्स्थितमेतत्--व्यङ्ग्यपरत्वे ऽपि काव्यस्य न व्यङ्ग्यस्याविदेयत्वमपि तु व्यङ्ग्यत्वमेव ।
किं च व्यङ्ग्यस्य प्राधान्येनाविवक्षायां वाच्यत्वं तावद्भवद्भिर्नाभ्युपगन्तव्यमतत्परत्वाच्छब्दस्य ।
तदस्ति तावद्य्वङ्ग्यः शब्दानां कश्चिद्विषय इति ।
यत्रापि तस्य प्राधान्यं तत्रापि किमिति तस्य स्वरूपमपह्नूयते ।
लोचनम् श्रुतो हि शब्दो यत्रैव समयस्मृतिं करोति स चेदनेनैवागमितः तद्विरम्यव्यापाराभावात्समयस्मरणानां बहूनां युगपदयोगात्को ऽर्थभेदस्यावसरः ।
पुनः श्रुतस्तु स्मृतो वापि नासाविति भावः ।
तयोरिति वाच्यव्यङ्ग्ययोः ।
तत्रेति ।
उभयोः प्रकारयोर्मध्याद्यदा प्रथमः प्रकार इत्यर्थः ।
प्रकारान्तरमिति ।
गुणीभूतव्यङ्ग्यसञ्ज्ञितम् ।
व्यङ्ग्यत्वमेवेति प्रकाश्यत्वमेवेत्यर्थः ।
ननु यत्परः शब्दः स शब्दार्थ इति व्यङ्ग्यस्य प्राघान्ये वाच्यत्वमेव न्याय्यम्, तर्ह्यप्राधान्ये किं युक्तं व्यङ्ग्यत्वमिति चेत्सिद्धो नः पक्षः, एतदाह--किञ्चेति ।
ननु प्राधान्ये मा भूद्व्यङ्ग्यत्वमित्याशङ्क्याह--यत्रापीति ।
अर्थान्तरत्वं सम्बन्धिसम्बन्धित्वमनुपयुक्तसमयत्वमिति बालप्रिया एव ।
समयस्मृतिं सङ्केतस्मरणम् ।
करोति उद्बोधकत्वाज्जनयति ।
सः सो ऽर्थः ।
अनेनैव सकृच्छ्रतेन शब्देनैव ।
अवगमितश्चेत् प्रकरणादिसहकारेम बोधितो यदि ।
तत् तर्हि को ऽर्थभेदस्यावसर इत्यनेनास्य सम्बन्धः ।
ननु समयस्मरणञ्चेदर्थावगमे कारणं, तर्हि तान्यपि बहूनि भवन्तित्याशङ्कायां तानि क्रमेण युगपद्वेति विकल्पाद्यं निराकरोति--विरम्यव्यापाराभावादिति ।
द्वितीयं निराकरोति--समयेत्यादि ।
ननु श्लेषविषये वह्वर्थत्वं दृश्यत इत्यत आह--पुनरित्यादि ।
श्रुतस्तु स्मृतो वापीत्युभयत्र शब्द इति शेषः ।
यद्वा श्रुतः अनुसंहितः शब्द इति शेषः ।
स्मृतः अर्थ इति शेषः ।
नासाविति ।
पूर्वः शब्दो ऽर्थो वा नेत्यर्थः ।
तथाच श्लेषस्थले आवृत्या बोधाद्वाक्यतदर्थो भिन्नौ पयोरेकत्वञ्चौपचारिकमिति भावः ।
वृत्तौ ऽनैष दोषऽ इति ।
न वाक्यभेदरूपदोष इत्यर्थः ।
ऽगुणेऽति ।
तथाच वाच्योपसर्जनको व्यङ्ग्यो व्यङ्ग्योपसर्जनकवाच्यो वैक एवार्थो वाक्ये न प्रतिपाद्यत इति भावः ।
किञ्चेत्यादिग्रन्थमवतारयति लोचने--नन्वित्यादि ।
न्याय्यमित्यन्तः पूर्वपक्षः ।
तह्यप्राधान्ये किं युक्तमिति सिद्धान्ती पृष्ट्वा पूर्वपक्षिण उत्तरमनुवदन्नाह--व्यङ्ग्यत्वमिति चेदित्यादि ।
अनेनास्तितावदित्यादिवृत्तिग्रन्थो विवृतः ।
भावमाह--अर्थान्तरत्वमित्यादि ।
अर्थान्तरत्वं मुखार्थभिन्नार्थत्वम् ।
सम्बन्धिसम्बन्धित्वमिति ।
एवं तावद्वाचकत्वादन्यदेव व्यञ्जकत्वम्; इतश्च वाचकत्वाद्य्वञ्जकत्वस्यान्यत्वं यद्वाचकत्वं शब्दैकाश्रयमितरत्तु शब्दाश्रयमर्थाश्रयं च शब्दार्थयोर्द्वयोरपि व्यञ्जकत्वस्य प्रतिपादितत्वात् ।
गुणवृत्तिस्तूपचारेण लक्षणया चोभयाश्रयापि भवति ।
किन्तु ततो ऽपि व्यञ्जकत्वं स्वरूपतो विषयतश्च भिद्यते ।
रूपभेदस्तावदयम्--यदमुख्यतया लोचनम् व्यङ्ग्यतायां निबन्धनं, तच्च प्राधान्ये ऽपि विद्यत इति स्वरूपमहेयमेवेति भावः ।
एतदुपसंहरति--एवमिति ।
विषयभेदेन स्वरूपभेदेन चेतयर्थः ।
तावदिति वक्तव्यान्तरमासूत्रयति ।
तदेवाह--इतश्चेति ।
अनेन सामग्रीभेदात्कारणभेदो ऽप्यस्तीति दर्शयति ।
एतच्च वितत्य ध्वनिलक्षणे ऽयत्रार्थः शब्दो वाऽ इति वाग्रहणं, ऽव्यङ्क्तःऽ इति द्विर्वचनं च व्याचक्षाणैरस्माभिः प्रथमोद्द्योत एव दर्शितमिति पुनर्न विस्तार्यते ।
एवं विषयभेदात्स्वरूपभेदात्कारणभेदाच्च वाचकत्वान्मुख्यात्प्रकाशकत्वस्य भेदं प्रतिपाद्योभयाश्रयत्वाविशेषात्तर्हि व्यञ्जकत्वगौणत्वयोः को भेद इत्याशङ्क्यामुख्यादपि प्रतिपादयितुमाह--गुणवृत्तिरिति ।
उभयाश्रयापीति शब्दार्थाश्रया ।
बालप्रिया शब्दस्य सम्बन्धी वाच्यो लक्ष्यो वार्थः तत्सम्बन्धित्वमित्यर्थः ।
अनेन शब्दगम्यत्वं दर्शितम् ।
अर्थान्तरत्वे हेतुमाह--अनुपयुक्तसमयत्वमिति ।
सङ्केतग्रहानपेक्षप्रतीतिविषयत्वमित्यर्थः ।
इतीति ।
एतन्त्रयमित्यर्थः ।
नन्वेतदस्तु ततः प्रकृते किमित्यत आह--तच्चेत्यादि ।
प्राधान्ये ऽपीति ।
व्यङ्ग्यस्येति शेषः ।
वक्तव्यान्तरमासूत्रयतीति ।
प्राथम्यार्थकत्वात्तावच्छब्दस्येति भावः ।
तदेवेति ।
वक्तव्यान्तरमेवेत्यर्थः ।
वृत्तावित इत्यनेन यदित्यादिवक्ष्यमाणः आश्रयभेदरूपो हेतुः परामृश्यत इत्यक्षिप्रेत्य व्याचष्टे--अनेनेत्यादि ।
सामग्रीभेदादिति ।
सहकारिवर्गभेदादित्यर्थः ।
वृत्तावाश्रयशब्देन कारणमुच्यत इत्याह--कारणभेदो ऽदिति ।
सहकारिवर्गभेदादित्यर्थः ।
वृत्तावाश्रयशब्देन कारणमुच्यत इत्याह-कारणभेदो ऽपीति ।
अर्थस्य वयञ्जकत्वाश्रयत्वं शब्दायत्तमेवेति यद्यपि शब्द एव वाचकत्वस्येव व्यञ्जकत्वस्यापि मुख्य आश्रय इति कारणैक्यमस्ति, तथापि सहकारिभेदात्कारणरूपस्य शब्दस्य भेदो ऽपीत्यर्थः ।
शब्दार्थयोरित्यादेर्विवरणम्---एतच्चेत्यादि ।
ऽगुणवृत्तिस्त्विऽत्यादिग्रन्थं वृत्तानुवादपूर्वकमवतारयति--एवमित्यादिना ।
एवं मुख्याद्वाचकत्वादभेदं प्रतिपाद्य अमुख्यादपि प्रतिपादयितुमाहेति सम्बन्धः ।
किमिदानीं तत्प्रतिपादनमित्यत उक्तः उभयाश्रयत्वाविशेषादित्यारभ्याशङ्कयेत्यन्तग्रन्थः ।
तर्हीति ।
यदि वाचकत्वव्यञ्जकत्वयोर्भेदः, तर्हित्यर्थः ।
क इति ।
नेत्यर्थः ।
उपचारलक्षणारूपोभयेत्यर्थभ्रमः स्यादय उभयाश्रयेत्येतद्व्याचष्टे--शब्देत्यादि ।
उपचारेण लक्षणया व्यापारो गुणवृत्तिः प्रसिद्धा ।
व्यञ्जकत्वं तु मुख्यतयैव शब्दस्य व्यापारः ।
न ह्यर्थाद्य्वङ्ग्यत्रयप्रतीतिर्या तस्या अमुख्यत्वं मनागपि लक्ष्यते ।
अयं चान्यः स्वरूपभेदः---यद्गुणवृत्तिग्मुख्यत्वेन व्यवस्थितं वाचकत्वमेवोच्यते ।
व्यञ्जकत्वं तु वाचकत्वादत्यन्तं विभिन्नमेव ।
एतच्च प्रतिपादितम् ।
अयं चापरो रूपभेदो यद्गुणवृत्तौ यदार्थो ऽर्थान्तरमुपलक्षयति ।
तदोपलक्षणीयार्थात्मना परिणत एवसौ सम्पद्यते ।
यथा ऽगङ्गायां घोषःऽ इत्यादौ ।
व्यञ्जकत्वमार्गे तु यदार्थो ऽर्थान्तरं द्योतयति तदा स्वरूपं प्रकाशयन्नेवासावन्यस्य प्रकाशकः प्रतीयते प्रदीपवत् ।
यथा--ऽलीलाकमलपत्राणि गणयामास पार्वतीऽ इत्यादौ ।
यदि च यत्रातिरस्कृतस्वप्रतीतिरर्थो ऽर्थान्तरं लक्षयति तत्र लक्षणाव्यवहारः क्रियते, तदेवं सति लक्षणैव मुख्यः शब्दव्यापार इति प्राप्तम् ।
यस्मात्प्रायेण वाक्यानां वाच्यव्यतिरिक्ततात्पर्यविषयार्थावभासित्वम् ।
लोचनम् उपचारलक्षणयोः प्रथमोद्द्योत एव विभज्य निर्णीतं स्वरूपमिति न पुनर्लिख्यते ।
मुख्यतयैवेति ।
अस्खलद्गतित्वेनेत्यर्थः ।
व्यङ्ग्यत्रयमिति ।
वस्त्वलङ्काररसात्मकम् ।
वाचकत्वमेवेति ।
तत्रापि हि तथैव समयोपयोगो ऽस्त्येवेत्यर्थः ।
प्रतिपादितमिति ।
इदानीमेव ।
परिणत इति ।
स्वेन रूपेणानिर्भासमान इत्यर्थः ।
बालप्रिया च या गुणवृत्तिः सा उभयाश्रयापीति वृत्तौ योजनेति भावः ।
पूर्वमुक्तं स्मारयति--उपचारलक्षणयोरिति ।
मुख्यतयैवेत्यत्र मुख्यतेवं प्रकृतानुरोधेन व्याचष्टे--अस्खलवद्गतित्वेनेति वाचकत्वमेव गुणवृत्तिरित्येतद्विवणोति--तत्रापीत्यादि ।
तत्रापि गुणवृत्तावपि ।
तथैव यथावाचकत्वे तथैव ।
समयोपयोगः सङ्केतग्रहणोपयोगः ।
अस्त्येवेत्यर्थ इति ।
गुणवृत्तेरभिधेयाविनाभूतप्रतीतित्वादिति भावः ।
वृत्तौ ऽयदार्थो ऽर्थान्तरम्ऽ इति ।
ऽअर्थःऽ प्रवाहादिः ।
ऽअर्थान्तरंऽ तीरादिकम् ।
परिणामो नाम पूर्वरूपपरित्यागेन रूपान्तरापत्तिः ।
परिणतपदं प्रकृतानुरोधेन व्याचष्टे लोचने--स्वेनेत्यादि ।
वृत्तौ ऽअसाऽविति ।
प्रवाहाद्यर्थ इत्यर्थः ।
ऽयदार्थऽ इति ।
ऽअर्थःऽ लीलाकमलपत्रगणनादिः ।
ऽअर्थान्तरंऽ लज्जादिकम् ।
ऽस्वरूपं प्रकाशयन्नेवेऽ त्यादौदृष्टान्तमाह--ऽप्रदीपवदिऽति ।
अर्थो ऽर्थान्तरं द्योतयतीत्युक्तस्योदाहरणमाह--ऽयथालीलेऽत्यादि ।
माभूदत्यन्ततिरस्कृतवाच्यस्थले गुणवृत्तिवल्यञ्जकत्वयोः स्वरूपाभेदः, तदन्यस्थले ननु त्वत्पक्षे ऽपि यदार्थो व्यङ्ग्यत्रयं प्रकाशयति तदा शब्दस्य कीदृशो व्यापारः ।
उच्यते--
प्रकारणाद्यवच्छिन्नशब्दवशेनैवार्थस्य तथाविधं व्यञ्जकत्वमिति शब्दस्य तत्रोपयोगः कथमपह्नूयते ।
विषयभेदो ऽपि गुणवृत्तिव्यञ्जकत्वयोः स्पष्ट एव ।
यतो व्यञ्जकत्वस्य रसादयो ऽलङ्कारविशेषा व्यङ्ग्यरूपावच्छिन्नं वस्तु चेति त्रयं विषयः ।
तत्र रसादिप्रतीतिर्गुणवृत्तिरिति लोचनम् कीदृश इति मुख्यो वा न वा प्रकारान्तराभावात् ।
मख्यत्वे वाचकत्वमन्यथा गुणवृत्तिः, गुणोनिमित्तं सादृश्यादि तद्द्वारिका वृत्तिः शब्दस्य व्यापारो गुणवृत्तिरिति भावः ।
मुख्य एवासौ व्यापारः सामग्रोभेदाच्च वाचकत्वाद्य्वतिरिच्यत इत्यभिप्रयेणाह--उच्यत इति ।
एवमस्खलद्गतित्वात् कथञ्चिदपि ।
समयानुपयोगात्पृथगाभासमानत्वाच्चेति त्रिभिः प्रकारैः प्रकाशकत्वस्यैतद्विपरीतरूपत्रयायाश्च गुणवृत्तेः स्वरूपभेदं व्याख्याय विषयभेदमप्याह--विषयभेदो ऽपीति ।
वस्तुमात्रं गुणवृत्तेरपि विषय इत्यभिप्रायेण विशेषयति--व्यङ्ग्यरूपावच्छिन्नमिति ।
बालप्रिया तु स्यादित्याशङ्क्य परिहरति--ऽयदि चेऽ त्यादि ।
ऽलक्षणाव्यवहारऽ इति ।
न व्यञ्जकत्वव्यवहार इति शेषः ।
मुख्यः शब्दव्यापारो लक्षणैवेति सम्बन्धः ।
ऽइति प्राप्तम्ऽ इति ।
स्यादिति शेषः ।
अत्र हेतुमाह--ऽयस्मादिऽत्यादि ।
उक्तमसहमानस्य प्रतिबन्द्या प्रत्यवस्थानम्--ऽनन्विऽत्यादि ।
तदभिप्रायं व्याचष्टे लोचने--मुख्यां वेत्यादि ।
कल्पान्तराकरणे हेतुमाह--प्रकारान्तराभावादिति ।
तस्मिन्सति किं स्यादित्यतः क्रमेण दूषणमाह--मुख्यत्व इत्यादि ।
अमुख्यत्वे गुणवृत्तित्वं गुणवृत्तिशब्दार्थविवरणेन साधयति--गुणो निमित्तमित्यादि ।
उच्यत इत्यादिग्रन्थस्य भावमाह--मुख्य इत्यादि ।
असौ व्यापारः शब्दव्यापारः ।
ननु मुख्यत्वे वाचकत्वादभेदस्स्यादित्यत आह--सामग्रीभेदादिति ।
वृत्तौ ऽप्रकारणेऽ त्यादिना सामग्रीभेदः प्रदर्शितः. ऽतत्रेऽति ।
अर्थेन व्यङ्ग्यत्रयप्रकाशनस्थल इत्यर्थः ।
ऽउपयोगऽ इति ।
व्यञ्जकत्वलक्षणोपयोग इत्यर्थः ।
गुणवृत्तिव्यञ्जकत्वयोः स्वरूपभेदहेतून् बहुग्रन्थोक्तान् सुग्रहत्वायैकग्रन्थेन वृत्यभिप्रायतया उपसंहरन्नुत्तरग्रन्थं तात्पर्योक्त्यावतारयति--एवमित्यादि ।
अस्खलद्गतित्वादिति ।
स्खलद्गतित्वाभावादित्यर्थः ।
कथञ्चिदपीत्यादि ।
असङ्केतितार्थप्रतिपादकत्वादित्यर्थः ।
पृथगिति ।
वाच्यार्थात्पृथगित्यर्थः ।
त्रिभिः प्रकारैरित्यस्य गुणवृत्तेस्स्वरूपभेदमित्यनेन सम्बन्धः ।
एतदिति ।
एतद्विपरीतं रूपत्रयं स्खलद्गतित्वादिकं यस्यास्तस्या इत्यर्थः ।
गुणवृत्तेः गुणवृत्तितः ।
व्यङ्ग्येत्यादिविशेषणस्य फलमाह--वस्तुमात्रमिति ।
एवं विशेषणे ऽपि कथं गुणवृत्तिविषयव्यावृत्तिरित्यतस्तात्पर्यमाह--व्यञ्जकत्वस्येत्यादि ।
न केनचिदुच्यते न च शक्यते वक्तुम् ।
व्यङ्ग्यालङ्कारप्रतीतिरपि तथैव ।
वस्तुचारुत्वप्रतीतये स्वशब्दानभिधेयत्वेन यत्प्रतिपिपादयितुमिष्यते तद्व्यङ्ग्यम् ।
तच्च न सर्वं गुणवृत्तेर्विषयः प्रसिद्य्धनुरोघाभ्यामपि गौणानां शब्दानां प्रयोगदर्शनात् ।
तथोक्तं प्राक् ।
यदपि च गुणवृत्तेर्विषयस्तदपि च व्यञ्जकत्वानुप्रवेशेन ।
तस्माद्गुणवृत्तेरपि व्यञ्जकत्वस्यात्यन्तविलक्षणत्वम् ।
लोचनम् व्यञ्जकत्वस्य यो विषयः स गुणवृत्तेर्न विषयः अन्यश्च तस्या विषयभेदो योज्यः तत्र प्रथमं प्रकारमाह--तत्रेति ।
न च शक्यत इति ।
लक्षणासामग्न्यास्तत्राविद्यमानत्वादिति हि पूर्वमेवोक्तम् ।
तथैवेति ।
न तत्र गुणवृत्तिर्युक्तेत्यर्थः ।
वस्तुनो यत्पूर्वं विशेषणं कृतं तद्य्वाचष्टे--चारुत्वप्रतीतय इति ।
न सर्वमिति ।
किञ्चित्तु भवति ।
यथा--ऽनिःश्वासान्ध इवादर्शःऽ इति ।
यदुक्तम्---ऽकस्यचिद्ध्वनिभेदस्य सा तु स्यादुपलक्षणम्ऽ इति ।
प्रसिद्धितो लावण्यादयः शब्दाः, वृत्तानुरोधव्यवहारानुरोधादेः ऽवदति बिसिनीपत्र्रशयनम्ऽ इत्येवमादयः ।
प्रगिति ।
प्रथमोद्द्योते ऽरूढा ये विषये ऽन्यत्रऽ इत्यत्रान्तरे ।
न सर्वमिति यथास्माभिर्व्याख्यातं तथा स्फुटयति--यदपि चेति ।
गुणवृत्तेरिति पञ्चमी ।
अधुनेतररूपोपजीवकत्वेन तदितरस्मात्तदितररूपोपजीवकत्वेन च तदितरस्मादित्यनेन पर्यायेण वाचकत्वाद्गुणवृत्तेश्च बालप्रिया वस्तुमात्रं भवतु गुणवृत्तेर्विषयः व्यङ्ग्यत्वावच्छिन्नन्तु न तद्विषयः, यतो व्यङ्ग्यत्वं व्यञ्जनाव्यापारविषयत्वमित्यर्थः ।
अन्यश्चेति ।
प्रथमोद्योतोक्तश्चेत्यर्थः ।
तस्याः गुणवृत्तितः ।
योज्यः अत्रानुसन्धातव्यः ।
न च शक्यते वक्तुमित्यत्र गम्यं हेतुमाह--लक्षणेत्यादि ।
तथैवेत्येतत्तात्पर्यतो व्याचष्टे--नेत्यादि ।
विशेषणमिति ।
व्यङ्ग्यरूपावच्छिन्नमिति विशेषणमित्यर्थः ।
वृत्तौ ऽरसादिप्रतीतिऽ रिति ।
रसादिप्रतीतिहेतुरित्यर्थः ।
ऽवस्त्विऽत्यादि ।
यद्वस्त्विति सम्बन्धः ।
ऽचारुत्वेऽति ।
काव्यचारुत्वेत्यर्थः ।
ऽतद्व्यङ्ग्यम्ऽ इति ।
तथाविधं व्यङ्ग्यं व्यङ्ग्यरूपावच्छिन्नमित्यनेन विवक्षितमित्यर्थः ।
सर्वमित्यनेन गम्यमाह लोचने--किञ्चित्त्विति ।
यदुक्तमिति ।
यस्मादुक्तमित्यर्थः ।
प्रसिध्यनुरोधाभ्यामित्येतद्विवृणोति--प्रसिद्धित इत्यादि ।
प्रसिद्धितः रूढितः ।
यथा व्याख्यातमिति ।
किञ्चित्तु भवतीति व्याख्यातम् ।
स्फुटयतीति ।
स्वयमिति शेषः ।
गुणवृत्तेरपीत्यत्र षष्ठीभ्रमस्स्यादत आह--पञ्चमीति ।
वाचकत्वेत्यादिग्रन्थं भेदप्रदर्शनपरतया व्याख्यास्यन्नवतारयति---अधुनेत्यादि ।
इतरेति ।
इतररूपं गुणवृत्तिस्तदुपजीवकत्वेन तत्समाश्रयत्वेनेत्यर्थः ।
तदितरस्मादिति ।
वाचकत्वादित्यर्थः ।
तदितरेत्यादि ।
तदितररूपं वाचकत्वं तदुपजीवकत्वेनेत्यर्थः ।
वाचकत्वगुणवृत्तिविलक्षणस्यापि च तस्य तदुभयाश्रयत्वेन व्यवस्थानम् ।
व्यञ्जकत्वं हि क्वचिद्वाचकत्वाश्रयेण व्यवतिष्ठते, यथा विवक्षितान्यपरवाच्ये ध्वनौ ।
क्वचित्तु गुणवृत्त्याश्रयेण यथा अविवक्षितवाच्ये ध्वनौ ।
तदुभयाश्रयत्वप्रतिपादनायैव च ध्वनेः प्रथमतरं द्वौ प्रभेदावुपन्यस्तौ ।
तदुभयाश्रितत्वाच्च तदेकरूपत्वं तस्य न शक्यते वक्तुम् ।
यस्मान्न तद्वाचकत्वैकरूपमेव, क्वचिल्लक्षणाश्रयेण वृत्तेः ।
न च लक्षणैकरूपमेवान्यत्र लोचनम् द्वितयादपि भिन्नं व्यञ्जकत्वमित्युपपादयति--वाचकत्वेति ।
चो ऽवधारणे भिन्नक्रमः, अपिशब्दो ऽपि न केवलं पूर्वोक्तो हेतुकलापो यावत्तदुभयाश्रयत्वेन मुख्योपचाराश्रयत्वेन यद्व्यवस्थानं तदपि वाचकगुणवृत्तिविलक्षणस्यैवेति व्याप्तिघटनम् ।
तेनायं तात्पर्यार्थः--तदुभयाश्रयत्वेन व्यवस्थानात्तदुभयवैलक्षण्यमिति ।
एवदेव विभज्यते--व्यञ्जकत्वं इति ।
प्रथमतरमिति ।
प्रथमोद्द्योते ऽस चऽ इत्यादिना ग्रन्थेन ।
हेत्वन्तरमपि सूचयति---न चेति ।
वाचकत्वगौणत्वोभयवृत्तान्तवैलक्षण्यादिति बालप्रिया तदितरस्मादिति ।
गुमवृत्तिप्रकारादित्यर्थः ।
उभयन्न भिन्नमिति शेषः ।
पर्यायेण क्रमेण ।
च इति ।
ऽविलक्षणस्यापि चेऽत्यत्रत्यचकार इत्यर्थः ।
भिन्नक्रम इति ।
विलक्षणस्येत्यनेन योज्य इत्यर्थः ।
अपिशब्दो ऽपीति ।
भिन्नक्रम इत्यनुषज्यते ।
क्वचिद्ग्रन्थे तथा पाठश्च ।
अपिशब्दस्य व्यवस्थानमित्यनेन सम्बन्ध इति भावः ।
अपिशब्दगम्यमर्थमाह--न केवलमित्यादि ।
तदुभयाश्रयत्वेनेत्यस्य विवरणम्--मुख्येत्यादि ।
वाचकत्वगुणवृत्युभयाश्रयत्वेनेत्यर्थः ।
इति व्याप्तिघटनमिति ।
यद्यदाश्रयत्वेनावतिष्ठते तत्तद्विलक्षणमिति व्याप्तिर्दर्शितेत्यर्थः ।
तदुभयाश्रयत्वेनेति ।
व्यञ्जकतवस्येति शेषः ।
व्यञ्जकत्वं वाचकत्वाद्गुणवृत्तेश्च विलक्षणं तदुभयाश्रयत्वेनावस्थानादित्यर्थः ।
एतदेवेति ।
उक्तमेवेत्यर्थः ।
विभजते विभज्य दर्शयति ।
प्रथमतरमिति ।
द्वितीयोद्योतापेक्षया तरपः प्रयोग इति व्याचष्टे---प्रथमेति ।
वृत्तौ ऽन चेऽत्यादि ।
तदित्यनुषज्यते ।
व्यञ्जकत्वमित्यर्थः ।
ऽउभयधर्मत्वेनैवऽ वाचकत्वगुणवृत्युभयाश्रयत्वेन हेतुनैव ।
ऽतदेकैकरूपं न भवतिऽ वाचकत्वादिभिन्नं भवति ।
इति म चेति सम्बन्धः ।
ऽयावदिऽत्यादि ।
यावत् किन्तु ।
ऽवाचकत्वेऽति ।
वाचकत्वलक्षणादिरूपैः रहिता ये शब्दाः तद्धर्मत्वेनापीत्यर्थः ।
तत्तदेकैकरूपं न भवतीत्यस्यानुषङ्गः ।
न चोभयेत्यादिग्रन्थमवतारयति लोचने--हेत्वन्तरमित्यादि ।
उक्ते साध्ये इति वाचकत्वाश्रयेण व्यवस्थानात् ।
न चोभयधर्मत्वेनैव तदेकैकरूपं न भवति ।
यावद्वाचकत्वलक्षणादिरूपरहितशब्दधर्मत्वेनापि ।
तथाहि गीतध्वनीनामपि व्यञ्जकत्वमस्ति रसादिविषयम् ।
न च तेषां वाचकत्वं लक्षणा वा कथञ्चिल्लक्ष्यते ।
शब्दादन्यत्रापि विषये व्यञ्जकत्वस्य दर्शनाद्वाचकत्वादिशब्दधर्मप्रकारत्वमयुक्तं वक्तुम् ।
यदि च वाचकत्वलक्षणादीनां शब्दप्रकाराणां प्रसिद्धप्रकारविलक्षणत्वे ऽपि व्यञ्जकत्वस्य दर्शनाद्वाचकत्वादिशब्दधर्मप्रकारत्वमयुक्तं वक्तुम् ।
यदि च वाचकत्वलक्षणादीनां शब्दप्रकाराणां प्रसिद्धप्रकारविलक्षणत्वे ऽपि व्यञ्जकत्वं प्रकारत्वेन परिकल्प्यते तच्छब्दस्यैव प्रकारत्वेन कस्मान्न परिकल्प्यते ।
लोचनम् सूचितो हेतुः ।
तमेव ।
प्रकाशयति--तथाहीत्यादिना ।
तेषामिति ।
गीतादिशब्दानाम् ।
हेत्वन्तरमपि सूचयति--शब्दादन्यत्रेति ।
वाचकत्वगौणत्वाभ्यामन्यद्व्यञ्जकत्वं शब्दादन्यत्रापि वर्तमानत्वात्प्रमेयत्वादिवदिति हेतुः सूचितः ।
नन्वन्यत्रावाचके यद्व्यञ्जकत्वं तद्भवतु वाचकत्वादेर्विलक्षणम्, वाचके तु यद्व्यञ्जकत्वं तदविलक्षणमेवास्त्वित्याशङ्क्याह---यदीति ।
आदिपदेन गौणं गृह्यते ।
शब्दस्यैवेति ।
बालप्रिया शेषः ।
तमेव हेतुं स्फुटयति--वाचकत्वेत्यादि ।
वाचकत्वगौणत्वोभयस्य यो वृत्तान्तः तद्वैलक्षण्यात्तदुभयरहितवृत्तित्वादित्यर्थः ।
गौणत्वेति ।
लाक्षणिकत्वस्याप्युपलक्षणम् ।
शब्दादित्यादिदर्शनादित्यन्तग्रन्थो न पूर्वान्वयी, किन्तु उत्तरान्वयीत्याशयेनावतारयति--हेत्वन्तरमिति ।
तमेव हेत्वन्तरमवयवान्तरेण सह दर्शयति--वाचकत्वेत्यादि ।
भिन्नमित्यन्तं वाचकत्वादिशब्दधर्मप्रकारत्वमशक्यं वक्तुमित्यस्य विवरणम् ।
नन्वित्यादि ।
अवाचक इति ।
गीतध्वन्यादावित्यर्थः ।
अविलक्षणमिति ।
वाचकत्वादेरित्यनुषङ्गः ।
गौणमिति ।
गौणीवृत्तिरित्यर्थः ।
वृत्तौ ऽशब्दप्रकाराणाम्ऽ इति निर्धारणे षष्ठी, प्रकारत्वेनेत्यनेनास्य सम्बन्धः ।
शब्दप्रकाराणां मध्ये यः प्रकारस्तत्वेनेत्यर्थः ।
ऽप्रसिद्धप्रकारविलणत्वे ऽपीऽति ।
व्यञ्जकत्वस्य प्रसिद्धप्रकारेभ्यो वाचकत्वादिभ्यो वैलक्षण्ये वस्तुतस्सत्यपीत्यर्थः ।
ऽतदिऽति ।
तर्हित्यर्थः ।
ऽशब्दस्यैव प्रकारत्वेनेऽति शब्दावान्तरभेदत्वेनेत्यर्थः ।
ऽकस्मान्न परिकल्प्यऽ इति ।
परिकल्पनं तदेवं शाब्दे व्यवहारे त्रयः प्रकाराः---वाचकत्वं गुणवृत्तिर्व्यञ्जकत्वं च ।
तत्र व्यञ्जकत्वे यदा व्यङ्ग्यप्राधान्यं तदा ध्वनिः, तस्य चाविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति द्वौ प्रभेदावनुक्रान्तौ प्रथमतरं तौ सविस्तरं निर्णीतौ ।
अन्यो ब्रूयात्--ननु विवक्षितान्यपरवाच्ये ध्वनौ गुणवृत्तिता लोचनम् व्यञ्जकत्वं वाचकत्वामिति यदि पर्यायौ कल्प्येते तर्हि व्यञ्जकत्वं शब्द इत्यप पर्यायता कस्मान्न कल्प्यते, इच्छाया अव्याहतत्वात् ।
व्यञ्जकत्वस्य तु विविक्तं स्वरूपं दर्शितं तद्विषयान्तरे कथं विपर्यस्तताम् ।
एवं हि पर्वतगतो धूमो ऽनग्निजो ऽपि स्यादिति भावः ।
अधुनोपपादितं विभागमुपसंहरति--तदेवमिति ।
व्यवहारग्रहणेन समुद्रघोषादीन् व्युदस्यति ।
ननु वाचक्त्वरूपोपजीवकत्वाद्गुणवृत्त्यनुजीवकत्वादिति च हेतुद्वयं यदुक्तं तदविवक्षितवाच्यभागे सिद्धं न भवति तस्य लक्षणैकशरीरत्वादित्यभिप्रायेणोपक्रमते--अन्योब्रूयादिति ।
यद्यपि च तस्य तदुभयाश्रयत्वेन व्यवस्थानादिति ब्रूवता निर्णीतचरमेवैतत्, तथापि गुणवृत्तेरविवक्षितवाच्यस्य च दुर्निरूपं वैलक्षण्यं यः पश्यति तं प्रत्याशङ्कानिवारणार्थो ऽयमुपक्रमः ।
बालप्रिया स्यादित्यर्थः ।
विवृणोति लोचने--व्यञ्जकत्वमित्यादि ।
इतीति ।
इतिशब्दावित्यर्थः ।
पर्यायौ एकार्थकौ ।
इत्यपीति ।
इत्यनयोरपीत्यर्थः ।
अस्तु पर्यायतेत्यत आह--व्यञ्जकत्वस्येत्यादि ।
विविक्तं वाचकत्वादेर्विविक्तम् ।
दर्शितमिति ।
गीतध्वन्यादाविति भावः ।
अतश्च वाचकत्वादिरूपेण परिकल्पनमयुक्तमित्याह--तदित्यादि ।
तद्विषयान्तर इति ।
वाचकगतं व्यञ्जकत्वमित्यर्थः ।
कथं विपर्यस्यतामिति ।
वाचकत्वादिरूपेणेति शेषः ।
एवं हीत्यादि ।
वाचकाश्रयं व्यञ्जकत्वं वाचकत्वादिमूलं न चेत्पर्वतगतो धूमो ऽनग्निजश्च स्यादतो विपर्यासो न युक्त इति भावः ।
विभागमुपसंहरतीति ।
वाचकत्वगुणवृत्तिभ्यां विभक्ततया व्यञ्जकत्वस्य प्रतिपादितत्वात्प्रकारत्रयमुपपादतमेवेति ।
भावः ।
व्युदस्यतीति ।
समुद्रघोषादेरभिधायकत्वाभावादति भावः ।
तात्पर्यन्तो ऽवतारयति नन्वित्यादि ।
उपजीवत्यपेक्षत इत्युपजीवकमनुसन्निधौ जीवतीत्यनुजीवकम् ।
वाचकत्वेत्यादि नावाचकत्वगुणवृत्युभयाश्रयत्वमेवांशे दूषणदानायानूदितम् ।
यथोक्तार्थोभयाश्रयत्वहेतुनैवास्य चोद्यस्य परिहृतत्वात्पुनस्तदुद्भावनपरिहारावनर्थकावित्याशङ्क्य परिहरति--यद्यपीत्यादि ।
ल अविवक्षितवाच्यस्येति ध्वनेशेष रितिः यो वैलक्षण्यं दुर्निरूपं पश्यति, तं प्रतीति सम्बन्धः ।
शाशङ्केति ।
वैलक्षण्यदुर्निरूपत्वाशङ्केत्यर्थः ।
नास्तीति यदुच्यते तद्युक्तम् ।
यस्माद्वाच्यवाचकप्रतीतिपूर्विका यत्रार्थान्तरप्रतिपत्तिस्तत्र कथं गुणवृत्तिव्यवहारः, न हि गुणवृत्तौ यदा निमित्तेन केनचिद्विषयान्तरे शब्द आरोप्यते अत्यन्ततिरस्कृतस्वार्थः यथा--ऽअग्निर्माणवकःऽ इत्यादौ, यदा वा स्वार्थमंशेनापरित्यजंस्तत्सम्बन्धद्वारेण विषयान्तरमाक्रामति, लोचनम् अत एवाद्यभेदस्याङ्गीकरणपूर्वकमयं द्वितीयभेदाक्षेपः ।
विवक्षितान्यपरवाच्य इत्यादिना पराभ्युपगमस्य स्वाङ्गीकारी दर्श्यते ।
गुणवृत्तिव्यवहाराभावे हेतुं दर्शयितुं तस्या एव गुणवृत्तेस्तावद्वृत्तान्तं दर्शयति--न हीति ।
गुणतया वृत्तिर्व्यापारो गुणवृत्तिः गुणेन निमित्तेन सादृश्यादिना च वृत्तिः अर्थान्तरविषये ऽपि शब्दस्य सामानाधिकरण्यमिति गौमं दर्शयति ।
यदा वा स्वार्थमिति बालप्रिया अयमुपक्रमः वृत्तिकारोपक्रमः ।
अत्रोपष्टम्भकमाह--अत एवेत्यादि ।
आद्यभेदस्य विवक्षितान्यपरवाच्यस्य ।
द्वितीयभेदेति ।
अविवक्षितवाच्येत्यर्थः ।
अत्र हेतुं दर्शयति--विवक्षितेत्यादि ।
न हीत्यादिग्रन्थस्य फलं दर्शयन्नवतारयति--गुणवृत्तीत्यादि ।
हेतुं दर्शयितुमिति ।
विवक्षितान्यपरवाच्य इति शेषः ।
गौमलाक्षणिकोभयसाधारणं गुणवृत्तिशब्दार्थमाह--गुणतयेत्यादि ।
गुणतया अप्रधानतया ।
अभिधावृत्तिर्हि प्रधानभूता ।
व्यापार इति ।
शब्दस्येति ।
शेषः ।
अनेन गौणस्य लाक्षणिकस्य च संग्रहः ।
गौणे गुणवृत्तिशब्दस्यार्थान्तरञ्चाह--गुणेनेत्यादि ।
गुणेनेत्यस्य विवरणम्--सादृश्यादिनेति ।
निमित्तेनेति तृतीयार्थकथनम् ।
उक्तस्यैव विवरणम्--अर्थान्तरविषये ऽपीत्यादि ।
अर्थान्तरमेव विषयस्तस्मिन् ।
इति गौणं यथा--ऽगङ्गायां घोषःऽ इत्यादौ ।
तदाविवक्षितवाच्यत्वमुपपाद्यते ।
अत एव च विवक्षितान्यपरवाच्ये ध्वनौ वाच्यवाचकयोद्वयोरपि स्वरूपप्रतीतिरर्थावगमनं दृश्यत इति व्यञ्जकत्वव्यवहारो युक्त्यनुरोधी ।
स्वरूपं प्रकाशयन्नेप परावभासको व्यञ्जक इत्युच्यते, तथाविधे विषये वाचकत्वस्यैव व्यञ्जकत्वमिति गुणवृत्तिव्यवहारो नियमेनैव न शक्यते कर्तुम् ।
लोचनम् लक्षणां दर्शयति ।
अनेन भेदद्वयेन न च स्वीकृतमविवक्षितवाच्यभेदद्वयात्मकमिति सूचयति ।
अत एव अत्यन्ततिरस्कृतस्वार्थशब्देन विषयान्तरमाक्रामति चेत्यनेन शब्देन तदेव भेदद्वयं दर्शयति--अत एव चेति ।
यत एव न तत्रोक्ततहेतुबलाद्गुणवृत्तव्यवहारो न्याय्यस्तत इत्यर्थः ।
युक्ति लोकप्रसिद्धिरूपामबाधितां दर्शयति--स्वरूपमिति ।
उच्यत इति प्रदीपादिः, इन्द्रियादेस्तु करणत्वान्न व्यञ्जकत्वं प्रतीत्युत्पत्तौ ।
बालप्रिया दर्शयतीत्यादि ।
उक्तगुणवृत्तिशब्दार्थाभिप्रायेण ऽयदा निमित्तेनेऽ त्यादिग्रन्थेन गौणीं ऽयदा वा स्वार्थमिऽ त्यादग्रन्थेन लक्षणाञ्च दर्शयतीत्यर्थः ।
ननु गुणवृत्तेर्बहुरूपत्वे ऽपि किमितीदं भेदद्वयं सोदाहरणं दर्शितमित्यत आह--अनेनेत्यादि ।
अनेन दर्शितेन ।
सूचयतीत्यत्र गमकमाह--अत एवेत्यादि ।
तदेव भेदद्वयमिति ।
अविवक्षितवाच्यभेदद्वयमेवेत्यर्थः ।
वृत्तौ ऽन हीऽ त्यादि ।
विवक्षितवाच्यत्वं तदा न ह्युपपद्यत इति सम्बन्धः ।
ऽविषयान्तरेऽ गङ्गादिशब्दमुख्यार्थमित्यर्थः ।
ऽअशेनापरित्यजन्निऽति ।
गङ्गादिशब्दो हि गङ्गातीरत्वादिना केवलतीरत्वादिना वा गङ्गायास्तीरमेव लक्षयतीत्यतोंऽशेन स्वार्थापरित्यागः ।
ऽतत्सम्बन्धद्वारेणेऽति ।
सामीप्यरूपस्वार्थसम्बन्घेन निमित्तेनेत्यर्थः ।
ऽविषयान्तरंऽ तीरादिकम् ।
ऽआक्रामतिऽ स्वविषयमापादयति ।
शब्द इत्यनुषङ्गः, गङ्गादिशब्द इत्यर्थः ।
लोचने--युक्तिमिति ।
युक्त्यनुरोधीत्यत्रोक्तां युक्तिमित्यर्थः ।
पूरयति--प्रदीपादिरिति ।
ननु व्यञ्जकत्वं ज्ञापकत्वं, तत्तु मुख्यमिन्द्रियादेस्ततः किं सहकारिभूतप्रदीपादिग्रहणमित्यत आह--इन्द्रियादेस्त्विति ।
आदिपदेन लिङ्गादेर्ग्रंहणम् ।
प्रतीत्युत्पत्तौ करणत्वाद्व्यञ्जकत्वं नेति सम्बन्धः ।
वृत्तौ ऽतथाविधे विषयऽ इति ।
वाच्यवाचकप्रतीतिपूर्वकप्रतीतिवषये ऽर्थान्तर इत्यर्थः ।
ऽवाचकत्वस्यैवेऽति वाचकत्वाश्रय्येवेत्यर्थः ।
ऽकथं भिद्यतऽ इति ।
न भिद्यत इत्यर्थः ।
अत्र हेतुमाह--ऽतस्येऽ त्यादि ।
अविवक्षितवाच्यस्तु ध्वनिर्गुणवृत्तेः कथं भिद्यते ।
तस्य प्रभेदद्वये गुणवृत्तिप्रभेदद्वयरूपता लक्ष्यत एव यतः ।
अयमपि न दोषः. यस्मादविवक्षितवाच्यो ध्वनिर्गुमवृत्तिमार्गाश्रयो ऽपि भवति न तु गुणवृत्तिरूप एव ।
गुणवत्तिर्हि व्यञ्जकत्वाशून्यापि दृश्यते ।
व्यञ्जकत्वं च यथोक्तचारुत्वहेतुं लोचनम् एवमभ्युपगमं प्रदर्शक्षेपं दर्शयति---अविवक्षितेति ।
तुशब्दः पूर्वस्माद्विशेषं द्योतयति ।
तस्येति ।
अविवक्षितवाच्यस्य यत्प्रभेदद्वयं तस्मिन् गौमलाक्षणिकत्वात्मकं प्रकारद्वयं लक्ष्यते निर्भास्यत इत्यर्थः ।
एतत्परिहरति--अयमपीति ।
गुमवृत्तेर्योमार्गः प्रभेदद्वयं स आश्रयो निमित्ततया प्राक्कक्ष्यानिवेशी यस्येत्यर्थः ।
एतच्च पूर्वमेव निर्णीतम् ।
ताद्रूप्याभावे हेतुमाह--गुणवृत्तिरिति ।
गौणलाक्षणिकरूपोभयी अपीत्यर्थः ।
ननु व्यञ्जक्त्वेन कथं शून्या गुणावृत्तिर्भवति, यतः पूर्वमेवोक्तम्-- मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् ।
यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ॥
इति ।
न हि प्रयोजनशून्य उपचारः प्रयोजनांशनिवेशी च व्यञ्जनव्यापार इति भवद्भिरेवाभ्याधायीत्याशङ्क्याभिमतं व्यञ्जकत्वं विश्रान्तिस्थानरूपं तत्र नास्तीत्याह--व्यञ्जकत्वं चेति ।
बालप्रिया लोचने---दर्शयतीति ।
पूर्वपक्षीति शेषः ।
गुणवृत्तीत्यादेर्विवरणम्--गौणेत्यादि ।
लक्ष्यत इत्यस्यार्थान्तरभ्रमनोदनाय विवृणोति--निर्भास्यत इति ।
न हीत्यादिनोक्तप्रकारेणोति शेषः. प्राक्कक्ष्येति ।
व्यञ्जनातः पूर्वकक्ष्येत्यर्थः ।
पूर्वमेवेति ।
न हीत्यादिग्रन्थे ऽभ्रम धार्मिकेऽ त्यादिगाथाव्याख्यानावसरे वेत्यर्थः ।
ताद्रूप्याभाव इति ।
गुणवृत्तिरूपत्वाभाव इत्यर्थः ।
ननु गुणवृत्तिर्हि व्यञ्जकत्वशून्यापि दृश्यत इत्यनेनैवाविविक्षितवाच्यस्य गुणवृत्तिरूपत्वाभावे सिद्धे व्यञ्जकत्वञ्चेत्यादिग्रन्थः किमर्थं इत्यतस्तद्ग्रन्थमवतारयत--नन्वित्यादि ।
ननु पूर्वोक्तिरन्यपरैवास्त्वित्यत आह--न हीत्यादि ।
इतीत्यादि ।
अन्यवाक्यं तिष्ठतु इति भवद्भिरेवाभ्यधायि चेत्यर्थः ।
अभिमतमित्यस्यैव विवरणम्--विश्रान्तिस्थानरूपमिति ।
तत्रेति ।
गुणवृत्तिमात्र इत्यर्थः ।
नास्तीति ।
व्यञ्जकत्वं न व्यञ्जनकरणत्वमात्रमत्र विवक्षितं, किन्तु विश्रान्तिस्थानभूतव्यञ्जनकरणत्वम् ।
तत्तु चारुत्वहेतुव्यङ्ग्यव्यञ्जनं विना न भवतीत्यर्थः ।
व्यञ्जकत्वशून्यापि दृश्यत इत्युक्तस्यैव विवरणं वृत्तौ ऽगुणवृत्तिस्त्विऽत्यादि ।
गुणवृत्तिस्तु वाच्यधर्माश्रयेणैव व्यङ्ग्यमात्राश्रयेण च सम्भवत ।
सा अबेदोपचाररूपा यथेत्याद्यन्वयो यापीत्यादिवाक्ये वाच्येत्यादेर्व्यङ्ग्येत्यादेश्चानुषङ्गश्च बोध्यः ।
तत्र वाच्यधर्माश्रयेणेत्येतत्प्रकृतानुगुणं विवृणोति लोचने---वाच्यविषयो यो धर्म इति ।
व्यङ्ग्यं विना न व्यवतिष्ठते ।
गुणवृत्तिस्तु वाच्यधर्माश्रयेणैव व्यङ्ग्यमात्राश्रयेण चाभेदोपचाररूपा सम्भवति, यता--तीक्ष्णत्वादग्निर्माणवकः, आह्लादकत्वाच्चन्द्र एवास्या मुखमित्यादौ ।
यथा च ऽप्रिये जने नास्ति पुनरुक्तम्ऽ इत्यादौ ।
यापि लक्षणरूपा गुणवृत्तिः साप्युपलक्षणीयार्थसंबन्धमात्राश्रयेण चारुरूपव्यङ्ग्यप्रतीतिं विनापि सम्भवत्येव, यथा--मञ्चाः क्रोशन्तीत्यादौ विषये ।
लोचनम् वाच्यधर्मेति ।
वाच्यविषयो यो धर्मो ऽभिधाव्यापारस्तस्याश्रयेण तदुपबृंहणायेत्यर्थः ।
श्रुतार्थपत्ताविवार्थान्तररस्याभिधेयार्थोंन्तरस्याभिधेयार्थोपपादान एव पर्यंवसानादिति भावः ।
तत्र गौमस्योदाहरणमाह--यथेति ।
द्वितीयमपि प्रकारं व्यञ्जकत्वशून्यं निदर्शयितुमुपक्रमते--यापीति ।
चारुरूपं विश्रान्तिस्थानं, तदभावे स व्यञ्जकत्वव्यापारो नैवोन्मीलति, प्रत्यावृत्त्य वाच्य एव विश्रान्तेः, क्षणदृष्टनष्टदिव्यविभवप्राकृतपुरुषवत् ।
बालप्रिया वाचकस्येति शेषः ।
भावार्थविवरणम्--तदुपबृंहणायेति ।
अभिधेयार्थोपबृंहणायेत्यः ।
कथं गुणवृत्तेस्तदुपबृंहणार्थत्वमित्यतस्सदृष्टान्तमाह--श्रुतेत्यादि ।
मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0