ध्वन्यालोक (टीका सहित) · भाग 401420
इदं काव्यप्रकाशे ऽप्युदाहृतम् ।
वीराः पतितान् स्वदेहानपश्यन्नित सम्बन्धः ।
यथाक्रमं कुतूहलहेतुगर्भमेकं देहानामपरं वीराणां विशेषणम् ।
ऽदीग्धान्ऽ व्याप्तान् ऽवासितेऽति ।
सुरभीकृतेत्यर्थः ।
ऽबाहुमध्यंऽ बक्षः ।
ऽक्रव्यभुजांऽ मांसाशिनाम् ।
चन्दनवारीणां सेको यत्र तादृशैः ।
ऽकल्पलतादुकूलैःऽ कल्पलतोद्भूतपट्टवस्त्रैः, यद्वा--कल्पलता एव दुकूलानि तैः ।
ऽललनाःऽ स्वर्वेश्याः ।
लोचने---विशेषणैरिति ।
भूरेण्वित्यादिदेहविशेषणैरित्यर्थः ।
असम्भावनास्पदम् स्वीयत्वसम्भावनाया अभावस्य निमित्तम् ।
दूरापेतत्वं दूरविप्रकृष्टत्वमत्यन्तवैलक्षण्यमिति यावत् ।
उक्तं व्यञ्जितम् ।
ननु शृङ्गारबीत्भसयोरेकस्मिन्नेकालम्बनकयोरेव विरोधः, एकस्मिन्नेकदैकस्य रतिजुगुप्सयोरनुदयात् ; प्रकृते च भूरेमुदिग्धत्वादविशिष्टवीरदेहालम्बनको बीभत्सो दिव्यत्वविशिष्टवीरदेहालम्बनकश्च शृङ्गार इति तयोः कथमेकालम्बनकत्मरूपैकाश्रयत्वमिति शङ्कां परिहरन्नाह--स्वेत्यादि ।
देहत्वाभिमानादिति ।
वीराणां पतितदेहेषु स्वदेहत्वबुद्धेरित्यर्थः ।
इत्यादौ ।
अत्र हि शृङ्गारबीभत्सयोस्तदङ्गयोर्वा वीररसव्यवधानेन समावेशो न विरोधी ।
विरोधम् अविरोधं च सर्वत्रेत्थं निरूपयेत् ।
विशेषतस् तु शृङ्गारे सुकुमारतमा ह्य् असौ
विरोधमविरोधं च सर्वत्रेत्थं निरूपयेत् ।
विशेषतस्तु शृङ्गारे सुकुमारतमो ह्यसौ ॥ 28 ॥
यथोक्तलक्षणानुसारेण विरोधाविरोधौ सर्वेषु रसेषु प्रबन्धे ऽन्यत्र च निरूपयेत्सहृदयः; विशेषतस्तु शृङ्गारे ।
स हि रतपारिपोषात्मकत्वाद्रतेश्च लोचनम् अन्यथा विभिन्नविषयत्वात्को विरोधः ।
ननु वीर एवात्र रसो न शृङ्गारो न बीभत्सः, किन्तु रतिजुगुपसे हि वीरं प्रति व्यभिचारीभूते ।
भवत्वेवम्, तथापि प्रकृतोदाहरणता तावदुपपन्ना ।
तदाह--तदङ्गयोर्वेति ।
तयोरङ्गे तत्स्थायिभावावित्यर्थः ।
वीररसेति ।
ऽवीराः स्वदेहान्ऽ इत्यादिना तदीयोत्साहाद्यवगत्या कर्तृकर्मणोः समस्तवाक्यार्थानुयायितया प्रतीतिरिति मध्यपाठाभावे ऽपि सुतरां वीरस्य व्यवधायकतेति भावः ॥ 27 ॥
अन्यत्र चेति मुक्तकादौ ।
सहि शृङ्गारः सुकुमारतम इति सम्बन्धः ।
सुकुमारस्तावद्रसजातीयः बालप्रिया एतत्प्रदर्शनार्थं स्वपदोपादानमिति भावः ।
तादात्म्येति ।
प्रतिपत्तुर्द्वयोर्देहयोरैक्यबुद्धिनिष्पत्तेरत्यर्थः ।
तथा च स्वर्ललनागतस्य शृङ्गारस्य बीभत्सस्य च देहद्वयैक्याभिमानी वीर एक एव विषय इति भावः ।
ऽतदङ्गयोर्वेऽति ग्रन्थमवतारयति--नन्वित्यादि ।
वीर एवेति ।
साहसेन रणमध्यनिपातनाद्यनुभावेनाक्षेपलभ्यगर्वादिसञ्चारिणा च वीररस एव प्रतीयत इत्यर्थः ।
तत्स्थायिभावाविति ।
शृङ्गारबीभत्सयोः स्थायिबावौ रतिजुगुप्से इत्यर्थः ।
इत्यादिनेति ।
वीरपदेन देहपाताद्यनुभावेन चेत्यर्थः ।
उत्साहादीत्यादिपदेन गर्वादेः परिग्रहः ।
अवगत्येत्यनन्तरं वीरो रस इति शेषः ।
वीरव्यवधानं विवृणोति--कर्तृकर्मणोरित्यादि ।
कर्तृकर्मणोः वीरस्य कर्तुः पतितदेहरूपकर्मणश्च ।
समस्तेत्यादि ।
अत्र वाक्यं पदसमुदायः भूरोण्वित्यादिवाक्यार्थान्वयितया कर्मणः न वेत्यादिवाक्यार्थान्वयितया कर्तुश्च प्रतीतिरित्यर्थः ।
इतीति हेतौ ।
भाव इति ।
अयमर्थः--ऽभूरेण्विऽत्यादिविशेषणार्थबोधे बीभत्सस्तद्विशेष्यार्थबोधे वीरो, न वेत्यादिविशेषणार्थबोधे शृङ्गारस्तद्विशेष्यार्थबोधे वीरश्चास्वाद्यत इति रीत्या वीरस्य मध्ये मध्ये आस्वादः ।
श्रुतक्रमेण बोधे त्वादौ बीभत्सो, योजन या बोधे त्वादौ शृङ्गार इति ॥ 27 ॥
ऽप्रबन्धे ऽन्यत्र चेऽत्यत्रान्यत्रपदं व्यापष्टे--मुक्तकादाविति ।
ऽसुकुमारतमो हि स्वल्पेनापि निमित्तेन भङ्गसम्भवात्सुकुमारतमः सर्वेभ्यो रसेभ्यो मनागपि विरोधिसमावेशं न सहते ।
अवधानातिशयवान् रसे तत्रैव सत्-कविः ।
भवेत् तस्मिन् प्रमादो हि झटित्य् एवोपलक्ष्यते
अवधानातशयवान्रसे तत्रैव सत्कविः ।
भवेत्तस्मिन् प्रमादो हि झटित्येवोपलक्ष्यते ॥ 29 ॥
तत्रैव च रसे सर्वेभ्यो ऽपि रसेम्यः सौकुमार्यातिशययोगिनि कविरवधानवान् प्रयत्नवान्स्यात् ।
तत्र हि प्रमाद्यतस्तस्य सहृदयमध्ये क्षिप्रमेवावज्ञानविषयता भवति ।
शृङ्गाररसो हि संसारिणां नियमेनानुभवविषयत्वात्सर्वरसेभ्यः कमनीयतया प्रधानभूतः ।
एवं च सति--
विनेयान् उन्मुखी-कर्तुं काव्य-शोभार्थम् एव वा ।
तद्-विरुद्ध-रस-स्पर्शस् तद्-अङ्गानां न दुष्यति
विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा ।
तद्विरुद्धरसस्पर्शस्तदङ्गानां दुष्यत ॥ 30 ॥
लोचनम् ततो ऽपि करुणस्ततो ऽपि शृङ्गार इति तमप्रत्ययः ॥ 28-29 ॥
एवं चेति ।
यतो ऽसौ सर्वसंवादीत्यर्थः ।
तदिति ।
शृङ्गारस्य विरुद्धा ये शान्तादयस्तेष्वपि तदङ्गानां शृङ्गाराङ्गानां सम्बन्धी स्पर्शो न दुष्टः ।
तया भङ्ग्या रसान्तरगता अपि विभावानुभावाद्या वर्णनीया यया शृङ्गाराङ्गभावमुपागमन् ।
यथा ममैव स्तोत्रे--- त्वां चन्द्रचूडं सहसा स्पृशन्ती प्राणैश्वरं गाढवियोगतप्ता ।
सा चन्द्रकान्ताकृतिपुत्रिकेव संविद्विलीयापि विलीयते मे ॥
बालप्रिया सऽ इति कारिकापाठाभिप्रायेण व्याचष्टे---स हीत्यादि ।
रसजातीय इति ।
रसत्वजातिमानित्यर्थः ॥ 28-29 ॥
ऽएवञ्चेऽत्येतत् व्याचष्टे--यत इति ।
शृङ्गारस्य सर्वानुभवविषयत्वादित्यर्थः ।
ऽविनेयानिऽत्याद्यर्थं व्याख्यास्यन्नादौ तद्विरुद्धेत्याद्युत्तरार्धं व्याचष्टे--तदित्यादि ।
भावार्थमाह--तयेत्यादि ।
रसान्तरेति ।
शान्तादीत्यर्थः ।
यया शृङ्गाराङ्गभावमुपागमन्निति ।
यया भङ्ग्या वर्णनया शृङ्गारविभावादित्वं प्राप्नुवन्तो भवन्तीत्यर्थः ।
अत्रोदाहरणमाह--त्वामित्यादि ।
गाढवियोगेन गाढं गाढेन वा त्वदस्पर्शेन तप्ता संसारतापमनुभवन्ती ।
सा विषयान्तरसञ्चारिणी मे संवित् अन्तःकरणं तद्वृत्तिर्वात्वां स्पृशन्ती किञ्चिद्विषयीकुर्वाणा विलीय त्वदाकारतारूपत्वसम्बन्धमवाप्य यत्र ज्ञाने शृङ्गारविरुद्धरसस्पर्शः शृङ्गाराङ्गानां यः स न केवलमविरोधलक्षणयोगे सति न दुष्यति यावद्विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा क्रियमाणो न दुष्यति यावद्विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा क्रियमाणो न दुष्यति ।
शृङ्गाररसाङ्गैरुन्मुखीकृताः सन्तो हि विनेयाः सुखं विनयोपदेशान् गृह्णन्ति ।
सदाचारोपदेशरूपा हि नाटकादिगोष्ठी लोचनम् इत्यत्र शान्तविभावानुभावानामपि शृङ्गारभङ्ग्या निरूपणम् ।
विनेयानुन्मुखीकर्तुं या काव्यशोभा तदर्थं नैव दुष्यतीति सम्बन्धः ।
वाग्रहणेन पक्षान्तरमुच्यते ।
तदेव व्याचष्टे--न केवलमिति ।
वाशब्दस्यैतद्य्वाख्यानम् ।
अविरोधलक्षणं परिपोषपरिहारादि पूर्वोक्तम् ।
विनेयानुन्मुखीकर्तुं या काव्यशोभा तदर्थमपि वा विरुद्धसमावेशः न केवलं पूर्वोक्तैः प्रकारैः, न तु काव्यशोभा विनेयोन्मुखीकरणमन्तरेणास्ते, व्यवधानाव्यवधाने नापि लभ्येते यथान्यैर्व्याख्याते ।
सुखमिति ।
रञ्जनापुरःसरमित्यर्थः ।
ननु काव्यं क्रीडारूपं क्व च वेदादिगोचरा उपदेशकथा इत्याशङ्क्याह--सदाचारेति ।
बालप्रिया ध्यातृध्यानध्येयानि भासन्ते तदनेन दर्शितम् ।
अपिशब्द आपाततो विरोधं द्योतयति ।
विलीयते विलयनं नामान्तःकरणस्य तद्वृत्तेर्वा अभानम् ।
अनेन ध्येयमात्रविषयकज्ञानं दर्शितम् ।
यद्वा--विलीयापि विलीयते द्रवीभूयापि अत्यन्तं द्रुता भवतीत्यर्थः ।
भक्तानां चित्तद्रुतिः प्रसिद्धा पुत्रिकापक्षे तु चन्द्रकरस्पर्शेन किञ्चिदार्द्रीभूय पुनस्सर्वावयवावच्छेदेनार्द्रीभवतीत्यर्थः ।
अत्र संविदादौ विरहतप्तनायिकात्वादिप्रतीत्या शृङ्गारविभावत्वादिप्राप्तिः, तदाह--शृङ्गारभङ्ग्या निरूपणमिति ।
पूर्वार्धं व्याचष्टे--विनेयानित्यादि ।
एवकारस्य नञा सम्बन्ध इति दर्शयति---नैवेति ।
पक्षान्तरमिति ।
अविरोधी विरोधी वेत्यादिकारिकाभिरुक्तेभ्यः पक्षेभ्यो ऽन्य इत्यर्थः, न त्वत्रैव पक्षद्वयद्योतक इति भावः ।
एतद्य्वाख्यानमिति ।
स न केवलमित्यादिव्याख्यानमित्यर्थः ।
अविरोधलक्षणयोग इत्यत्राविरोधलक्षणपदं व्याचष्टे---परिपोषेत्यादि ।
ऽविनेयानिऽत्यादि ऽतदर्थमपि वेऽत्यन्तं ऽविनेयानिऽत्यादिवृत्तेर्विवरणं, ऽस क्रियमाणऽ इत्यस्य विवरणं ऽविरुद्धसमावेशऽ इति ।
फलितमाह--न केवलं पूर्वोक्तैः प्रकारेरिति ।
विरुद्धसमावेशो न दुष्यतीति शेषः ।
किन्त्वेवं क्रियमाणो ऽपि न दुष्यतीति भावः ।
विनेयानुन्मुखीकर्तुं या काव्यशोभेत्युक्तमुपपादनति---न त्वित्यादि ।
नास्ते इत्यन्वयः ।
न भवतीत्यर्थः ।
व्यवधानेति ।
रसान्तरेण यद्व्यववधानमव्यवधानं वा तेनापीत्यर्थः ।
क्वचिल्लभ्यत इति ।
काव्यशोभा नेत्यनयोरनुषङ्गः ।
यथेत्यादि ।
तथेति पूर्वेण सम्बन्धः ।
अन्यव्याख्यानञ्च विनेयानुन्मुखीकर्तुं वा काव्यशोभार्थं वेति विकल्पपरं बोध्यम् ।
वृत्तौ ऽविनेयानिऽत्याद्युक्तस्यैव विवरणम्---ऽशृङ्गारेऽत्यादि ।
विनेयजनहितार्थमेव मुनिभिरवतारिता ।
किं च शृङ्गारस्य सकलजनमनोहराभिरामत्वात्तदङ्गसमावेशः काव्येशोभातिशयं पुष्यतीत्यनेनापि प्रकारेण विरोधिनि रसे शृङ्गाराङ्गसमावेशो न विरोधी ।
ततश्च सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः ।
किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥
इत्यादिषु नास्ति रसविरोधदोषः ।
लोचनम् मुनिभिरिति---भरतादिभिरित्यर्थः ।
एतच्च प्रभुमित्रसम्मितेभ्यः शास्त्रेतिहासेभ्यः प्रीतपूर्वकं जायासम्मितत्वेन नाट्यकाव्यगतं व्युत्पत्तिकारत्वं पूर्वमेव निरूपितमस्माभिरिति न पुनरुक्तभयादिह लिखितम् ।
ननु शृङ्गाराङ्गताभङ्ग्या यद्विभावादिनिरूपणमेतावतैव किं विनोयोन्मुखीकारः ।
न; अस्ति प्रकारान्तरं, तदाह--किं चेति ।
शोभातिशयमिति ।
अलङ्कारविशेषमुपमाप्रभृतिं पुष्यत सुन्दरीकरोतीत्यर्थः ।
यथोक्तम्---ऽकाव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलङ्काराऽ इति ।
मत्ताङ्गनेति ।
अत्र हि शान्तविभावे सर्वस्यानित्यत्वे वर्ण्यमाने न कस्यचिद्विभावस्य शृङ्गारभङ्ग्या निबन्धः कृतः, किं तु सत्यमिति बालप्रिया तत्र सुखमित्येतद्व्याचष्टे--रञ्जनेति ।
एतच्चेत्यादि ।
प्रभुमित्रसम्मितेभ्यः शास्त्रेतिहासेभ्यः तान्यपेक्ष्य ।
नाट्यकाव्यगतमेतद्व्युत्पत्तिकारित्वं जायासम्मितत्वेन प्रीतिपूर्वकमिति पूर्वमेवास्माभिर्निरूपतमिति सम्बन्धः ।
इतीति हेतौ ।
किञ्चेत्यादिकमवतारयति---नन्वित्यादि ।
शृङ्गाराङ्गतेति ।
शृङ्गारविभावानुभावतेत्यर्थः ।
समाधत्ते--नेति ।
तदिति ।
प्रकारान्तरमित्यर्थः ।
शोभाया अतिशयो येनेति व्युत्पत्तिमभिप्रेत्य प्रकृतानुगुणं व्याचष्टे--अलङ्कारेत्यादि ।
ऽसत्यऽमित्यादि ।
सत्यमित्यर्धाङ्कीकारे ।
ऽरामाःऽ रमण्यः कामा इति च पाठः ऽविभूतयःऽ ऐश्वर्याणि ।
ऽमत्तेऽति ।
मत्ता यौवनादिमदयुक्ताया अङ्गना प्रशस्ताङ्गा नारी तस्याः अपाङ्गभङ्गः कटाक्ष- स इव लोलमस्थिरम् ।
ऽहीऽति प्रसिद्धौ ।
रामादीनां मनोरमत्वे ऽपि सत्येव जाविते जनैः स्वोपभोघायोपादेयास्ताः जीवितं चास्थिरमिति किड्कृतं तासामुपादेयत्वमतो रम्यत्वे ऽपि तास्सर्वा निष्फला एवेति भावः ।
उक्तमर्थं लोचने विवृणोति--अत्रेत्यादि ।
सर्वस्यानित्यत्व इति ।
समस्तानित्यत्वे इति च पाठः ।
सर्वजीवितस्यास्थिरत्वे इत्यर्थः ।
न कृत इति सम्बन्धः ।
कस्यचिद्विभावस्य शान्तादिविभावस्य ।
शृङ्गारभङ्ग्या शृङ्गारविभावत्वयोजनेन ।
सत्यमितीति ।
विज्ञायेत्थं रसादीनाम् अविरोध-विरोधयोः ।
विषयं सुकविः काव्यं कुर्वन् मुह्यति न क्वचित्
विज्ञायेत्थं रसादीनामविरोधविरोधयोः ।
विषयं सुकविः काव्यं कुर्वन्मुह्यति न क्वचित् ॥ 31 ॥
इत्थमनेनानन्तरोक्तेन प्रकारेण रसादीनां रसभावतदाभासानां परस्परं विरोधस्याविरोधस्य च विषयं विज्ञाय सुकविः काव्यविषये प्रतिभातिशययुक्तः काव्यं कुर्वत्र क्वचिन्मुह्मति ।
एवं रसादिषु विरोधाविरोधनिरूपणस्योपयोगित्वं प्रतिपाद्य व्यञ्जकवाच्यवाचकनिरूपणस्यापि तद्विषयस्य तत्प्रतिपाद्यते--
वाच्यानां वाचकानां च यद् औचित्येन योजनम् ।
रसादि-विषयेणैतत् कर्म मुख्यं महा-कवेः
वाच्यानां वाचकानां च यदौचित्येन योजनम् ।
रसादिविषयेणैतत्कर्म मुख्यं महाकवेः ॥ 32 ॥
लोचनम् परहृदयानुप्रवेशेनोक्तम्; न खल्वलीकवैराग्यकौतुकरुचिं प्रकटयामः, अपि तु यस्य कृते सर्वमभ्यर्थ्यते तदेवेदं चलमिति; तत्र मत्ताङ्गनापाङ्गभङ्गस्य शृङ्गारं प्रति सम्भाव्यमानविभावानुभावत्वेनाङ्गस्य लोलतायामुपमानतोक्तति प्रियतमाकटाक्षो हि सर्वस्याभिलषणीय इति च तत्प्रीत्या प्रवृत्तिमान् गुडजिह्विकया प्रसक्तानुप्रसक्तवस्तुतत्त्वसंवेदनेन वैराग्ये पर्यवस्यति विनेयः ॥ 3.0 ॥
तदेतदुपसंहरन्नस्योक्तस्य प्रकरणस्य फलमाह--विज्ञायेत्थमिति ॥ 31 ॥
रसादिषु रसादिविषये व्यञ्जकानि यानि वाच्यानि विभावादीनि वाचकानि च सुप्तिङादीनि तेषां यन्निरूपणं तस्येति ।
तद्विषयस्येति ।
रसादिविषयस्य ।
तदिति बालप्रिया इत्यनेनेत्यर्थः ।
परेति ।
पराभिमतार्थाङ्कीकारेणेत्यर्थः ।
अलीकेति ।
अलीका असत्या या वैराग्यकौतुके रुचिस्तामित्यर्थः ।
यस्येति ।
जीवितस्येत्यर्थः ।
तत्र जीविते ।
तत्र लोलतायामुपमानतेति सम्बन्धः ।
तन्निरूपितं लोलतानिमित्तकोपमाप्रतियोगित्वमित्यर्थः ।
सम्भाव्येति ।
सम्भाव्यमानेन नायकविभावत्वेन नायिकानुभावत्वेन च हेतुना शृङ्गाराङ्गस्येत्यर्थः ।
तदुक्तेः फलमाह--प्रियेत्यादि ।
तत्प्रतीत्येति कटाक्षस्योपमानत्वप्रतीत्येत्यर्थः ।
तत्प्रीत्या इति च पाठः ।
विनेय इति ।
व्युत्पाद्यो राजकुमारादिरित्यर्थः ।
तथा च यया कयापि विधया शृङ्गाराङ्गयोजनं काव्यशोभाकरमिति भावः ॥ 3.0 ॥
ऽविज्ञायेऽत्यादिकारिकामवतारयति---तदेतदित्यादि ॥ 3.1 ॥
रसादिष्वित्यस्य विवरणम्---रसादिविषये इति ।
ऽव्यञ्जकवाच्येऽत्यादिग्रन्थं वाच्यानामितिवृत्तविशेषाणां वाचकानां च तद्विषयाणां रसादिविषयेणौचित्येन यद्योजनमेतन्महाकवेर्भुख्यं कर्म ।
अयमेव हि महाकवेर्मुख्यो व्यापारो यद्रसादीनेव मुख्यतया काव्यार्थीकृत्य तद्य्वक्त्यनुगुणत्वेन शब्दानामर्थानां चोपनिबन्धनम् ।
एतच्च रसादितात्पर्येण काव्यनिबन्धनं भरतादावपि सुप्रसिद्धमेवेति प्रतिपादयितुमाह--
रसाद्य्-अनुगुणत्वेन व्यवहारो ऽर्थ-शब्दयोः ।
औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः
रसाद्यनुगुणत्वेन व्यवहारो ऽर्थशब्दयोः ।
औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः ॥ 33 ॥
व्यवहारो हि वृत्तिरित्युच्यते ।
तत्र रसानुगुण औचित्यवान्वाच्याश्रयो यो व्यवहारस्ता एताः कैशिक्याद्या वृत्तयः ।
वाचकाश्रयाश्चोपनागरिकाद्याः ।
वृत्तयो हि रसादितात्पर्येण संनिवेशिताः कामपिनाट्यस्य काव्यस्य च च्छायामावहन्ति ।
रसादयो हि द्वयोरपि तयोर्जीवभूताः ।
इतिवृत्तादि तु शरीरभूतमेव ।
लोचनम् उपयोगित्वम् मुख्यमिति ।
ऽआलोकार्थीऽ इत्यत्र यदुक्तं तदेवोपसंहृतम् ।
महाकवेरिति सिद्धवत्फलनिरूपणम् ।
एवं हि महाकवित्वं नान्यथेत्यर्थः ।
इतिवृत्तविशेषाणामिति ।
इतिवृत्तं हि प्रबन्धवाच्यं तस्य विशेषाः प्रागुक्ताः--ऽविभावभावानुभावसञ्चार्यौचित्यचारुणः ।
विधिः कथाशरीरस्यऽ इत्यादिना ।
काव्यार्थीकृत्येति ।
अन्यथा लौकिकशास्त्रीयवाक्यार्थेभ्यः कः काव्यार्थस्य विशेषः ।
एतच्च निर्णीतमाद्योद्द्योते--ऽकाव्यस्यात्मा स एवार्थःऽ इत्यत्रान्तरे ॥ 3.2 ॥
एतच्चेति ।
यदस्माभिरुक्तमित्यर्थः ।
भरतादावित्यादिग्रहणादलङ्कारशास्त्रेषु परुषाद्या वृत्तय इत्युक्तं भवति ।
द्वयोरपि तयोरिति ।
वृत्तिलक्षणयोर्व्यवहारयोरित्यर्थः ।
जीवभूता इति ।
ऽवृत्तयः काव्यमातृकाःऽ इति ब्रुवाणेन मुनिना रसोचितेतिवृत्तसमाश्रयणोपदेशेन रसस्यैवजीवितत्वमुक्तम् ।
भामहादिभिश्च-- स्वादुकाव्यरसोन्मिश्रं वाक्यार्थमुपभुञ्जते ।
प्रथमालीढमधवः पिबन्ति कटुभेषजम् ॥
बालप्रिया व्याचष्टे--व्यञ्जकानीत्यादि ।
आलोकार्थीत्यादि ।
आलोकार्थीत्यादिकारिकया प्रथमोद्योते यदुक्तं तदेवानया कारिकया उपसंहृतमित्यर्थः ॥ 3.2 ॥
अत्र केचिदाहुः--ऽगुणगुणिव्यवहारो रसादीनामितिवृत्तादिभिः सह युक्तः, न तु जीवशरीरव्यवहारः ।
रसादिमयं हि वाच्यं प्रतिभासते न तु रसादिभिः पृथग्भूतम्ऽ इति ।
अत्रोच्यते--यदि रसादिमयमेव वाय्यं यथा गौरत्वमयं शरीरम् ।
एवं सति यथा शरीरे प्रतिभासमाने नियमेनैव गौरत्वं प्रतिभासते सर्वस्य तथा वाच्येन सहैव रसादयो ऽपि सहृदयस्यासहृदयस्य च प्रतिभासेरन् ।
न चैवम्; तथा चैतत्प्रतिपादितमेव प्रथमोद्द्योते ।
लोचनम् इत्यादिना रसोपयोगजीवितः शब्दवृत्तिलक्षणो व्यवहार उक्तः ।
शरीरभूतमिति ।
ऽइतिवृत्तं हि नाट्यस्य शरीरंऽ इति मुनिः ।
नाट्यं च रस एवेत्युक्तं प्राक् ।
गुणगुणिव्यवहार इति ।
अत्यन्तसम्मिश्रतया प्रतिभासनाद्धर्मधर्मिव्यवहारो युक्तः ।
न त्विति ।
क्रमस्यासंवेदनादिति भावः ।
प्रथमेति ।
ऽशब्दार्थशासनज्ञानमात्रेणैव न वेद्यतेऽ इत्यादिना प्रतिपादितमदः ।
बालप्रिया कारिकायामर्थशब्दयोः रसाद्यनुगुणत्वेन औचित्यवान् व्यवहारो यः, एता वृत्तयः एताः द्विवधाः स्थिताश्चेत्यन्वयः ।
लोचने---रसोपयोगजीवित इति ।
रसोपयोग एव जीवितं यस्य स इत्यर्थः ।
शेषं सर्वं स्पष्टम् ।
ऽगुणगुणिव्यवहारऽ इत्यस्य व्याख्यानम्--धर्मधर्मिव्यवहार इति ।
अत्र हेतुं दर्शयति---अत्यन्तेत्यादि ।
गुणगुणिनोरिव रसादिवाच्ययोरिति शेषः ।
अत्र गुणस्थानीयो रसादिः गुणिस्थानीय इतिवृत्तादिरूपो वाच्यार्थः ।
न तु पृथग्भूतमित्यत्र हेतुमाह--क्रमस्यासंवेदनादिति ।
वाच्यप्रतीतेः रसादिप्रतीतेश्चेति शेषः ।
वृत्तौ---ऽयदीऽत्याद्यनुवादः ।
अत्र दृष्टान्तमाह--ऽयथेऽत्यादि ।
ऽगौरत्वमयं शरीरऽमिति गुणगुणिनोस्तादात्मयेन व्यवहारः ।
ऽएवं सतीऽति ।
वाच्यस्य रसादिमयत्वे सतीत्यर्थः ।
प्रतिभासेरन्नित्यनेनास्य सम्बन्धः ।
दृष्टान्तप्रदर्शनपूर्वकमाह---ऽयथेऽत्यादि ।
ऽनियमेनैव भासतऽ इति ।
द्रव्यप्रत्यक्षस्य तद्गतरूपविषयकत्वनियमादिति भावः ।
ऽतथेऽति ।
नियमेनैवेत्यस्यानुषङ्गः ।
ऽप्रतिभासेरन्निऽति ।
यदि रसादिमयो वाच्यार्थस्तर्हि स नियमतो रसादिभिः सहैव सर्वैः प्रतीयमानस्स्यादित्यर्थः ।
अत्रेष्टापत्तिं परिहरति--ऽन चैवऽमिति ।
ऽस्यान्मतम्ऽ इति शङ्काद्योतकम् ।
जात्यत्वमिवेति योजना ।
जात्यत्वमुत्कृष्टरत्नगतो स्यान्मतम्; रत्नानामिव जात्यत्वं प्रतिपत्तृविशेषतः संवेद्यं वाच्यनां रसादिरूपत्वमिति ।
नैवम्; यतो यथा जात्यत्वेन प्रतिभासमाने रत्ने रत्नस्वरूपानतिरिक्तत्वमेव तस्य लक्ष्यते तथा रसादीनामपि विभावानुभावादिरूपवाच्याव्यतिरिक्तत्वमेव लक्ष्येत ।
न चैवम्; लोचनम् ननु यद्यस्य धर्मरूपं तत्तत्प्रतिभाने सर्वस्य नियमेन भातीत्यनैकान्तिकमेतत् ।
माणिक्यधर्मो हि जात्यत्वलक्षणो विशेषो न तत्प्रतिभासे ऽपि सर्वस्य नियमेन भातीत्याशङ्कते---स्यादिति ।
एतत्परिहरति---नैवमिति ।
एतदुक्तं भवति---अत्यन्तोन्मग्नस्वभावत्वे सति तद्धर्मत्वादिति विशेषणमस्माभिः कृतम् ।
उन्मग्नरूपता च न रूपवज्जात्यत्वस्य, अत्यन्तलीनस्वभावत्वात् ।
रसादीनां चोन्मग्नतास्त्येवेत्येवं केचिदेतं ग्रन्थमनैषुः ।
अस्मद्गुरवस्त्वाहुः---अत्रोच्यत इत्यनेनेदमुच्यते--
यदि रसादयो बालप्रिया जातिविशेषः ।
यता मालत्यां "जात्येन चन्द्रमणिनेव महीधरस्ये"ति ।
ऽप्रतिपत्तृविशेषतःऽ ज्ञातृविशेषेण कर्त्रा ।
स्यादित्यादिग्रन्थमवतारयति लोचने---नन्वित्यादि ।
यदित्यादि ।
यत् गौरत्वादि ।
यस्य शरीरादेः ।
तत् गौरत्वादि ।
तत्प्रतिभाने शरीरादिप्रतिभासे इत्येतदिति सम्बन्धः इति नियम इत्यर्थः ।
यत्र यत्र यद्धर्मत्वं तत्र प्रत्यक्षीयतद्विषयिताव्यापकविषयिताकत्वमिति व्याप्तिरिति यावत् ।
अनैकान्तिकमिति ।
व्यभिचारीत्यर्थः ।
कुत्र व्यभिचार इत्यत आह---माणिक्येत्यादि ।
तत्प्रतिभासे माणिक्यभाने ।
न भातीति ।
तथा च माणिक्यधर्मे जात्यत्वे व्यभिचार इति भावः ।
वृत्तौ---ऽयथेऽत्यादि ।
ऽजात्यत्वेनऽ जात्यत्वप्रकारेण ।
ऽभासमानेऽ प्रतिपत्तृविशेषगतसाक्षात्कारविषये ।
रत्नस्वरूपानतरिक्तत्वं रत्नादभिन्नत्वम् ।
ऽतस्यऽ जात्यत्वस्य ।
ऽलक्ष्यतेऽ ज्ञायते ।
ऽविभावेऽति ।
विभावानुभावादरूपं यद्वाच्यं तस्मादव्यतरिक्तत्वामित्यर्थः ।
ऽन चैवम्ऽ इति ।
एवं न लक्ष्यते इत्यर्थः ।
कुत इत्यत्राह--ऽन हीऽत्यादि ।
न ह्यवगम इति सम्बन्धः ।
यत इत्यादि न चैवमित्यन्तस्य परिहारग्रन्थस्य भावमाह लोचने--एतदुक्तमित्यादि ।
अत्यन्तोन्मग्नस्वभावत्व इति ।
स्वाश्रयाद्भिन्नत्वेन प्रतीयमानत्व इत्यर्थः ।
सतीत ।
इत्येतदिति शेषः ।
तद्धर्मत्वादित्यादि ।
तद्धर्मत्वादित्यस्य विज्ञेषणमित्यर्थः ।
कृतमिति ।
अभिमतमित्यर्थः ।
यत्र यत्र तद्धर्मत्वभित्यत्र अत्यन्तोन्मग्नस्वभावत्वे सतीत्यपि निविष्टमस्तीत्यर्थः ।
इत्थं च जात्यत्वेन व्यभिचार इत्याह---उन्मग्नेति ।
उन्मग्नरूपता यथारूपस्य गौरत्वादेरस्ति तथा जात्यत्वस्य नेत्यर्थः ।
अत्यन्तलीनस्वभावत्वात् अनुन्मग्नस्वभावत्वात् ।
स्वाश्रयाद्भिन्नत्वेनाप्रतीयमानत्वादिति यावत् ।
एतं ग्रन्थमित ।
यत इत्यादि न चैवमित्यन्तं ग्रन्थमित्यर्थः ।
न हि विभावानुभावव्यभिचारिण एव रसा इति कस्याचिदवगमः ।
अत एव च विभावादिप्रतीत्यविनाभाविनी रसादीनां प्रतीतिरिति तत्प्रतीत्योः कार्यकारणभावेन व्यवस्थानात्क्रमो ऽवश्यम्भावी ।
स तु लाघवान्न प्रकाश्यते ऽइत्यलक्ष्यक्रमा एव सन्तो व्यङ्ग्या रसादयःऽ इत्युक्तम् ।
लोचनम् वाच्यानां धर्मास्तथासति द्वौ पक्षौ रूपादिसदृशा वा स्युर्माणिक्यगतजात्यत्वसदृशा वा ।
न तावत्प्रथमः पक्षः, सर्वान् प्रति तथानवभासात् ।
नापि द्वितीयः, जात्यत्ववदनतिरिक्तत्वेनाप्रकाशनात् ।
एष च हेतुराद्ये ऽपि पक्षे सङ्गच्छत एव ।
तदाह---स्यान्मतमित्यादिना न चैवमित्यन्तेन ।
एतदेव समर्थयति---न हीति ।
अत एव चेति ।
यतो न वाच्यधर्मत्वेन रसादीनां प्रतीतिः, यतश्च तत्प्रतीतौ वाच्यप्रतीतिः सर्वथानुपयोगिनी तत एव हेतोः क्रमेणावश्यं भाव्यं, सहभूतयोरुपकारायोगात् ।
स तु सहृदयभावनाभ्यासान्न लक्ष्यते अन्यथा तु लक्ष्येतापीत्युक्तं प्राक् ।
यस्यापि प्रतीतिविशेषात्मैव रस इत्युक्तिः, प्राक्तस्यापि व्यपदेशिवत्त्वाद्रसादीनां प्रतीतरित्येवमन्यत्र ।
ननु भवन्तु वाच्यादतिरिक्ता रसादयस्तत्रापि क्रमो न लक्ष्यत इति तावत्त्वयैवोक्तम् ।
तत्कल्पने च प्रमाणं नास्ति ।
अन्वयव्यतिरेकाभ्यामर्थप्रतीतिमन्तरेण रसप्रतीत्युदयस्य बालप्रिया स्बमतमाह--अस्मादित्यादि ।
तथानवभासादत्यन्तेन ऽप्रतिभासेरन्न चैवम्ऽ इत्यन्तग्रन्थो विवृतः ।
अप्रकाशनादिति ।
अप्रकाशादित्यर्थः ।
आद्ये ऽपि पक्ष इति ।
रूपादिसदृशा वा इति पक्षे ऽपीत्यर्थः ।
रूपादीनामनतिरिक्तत्वेन प्रकाशनादित भावः ।
इत्यन्तेनेति ।
इतीति शेषः ।
आहुरिति पूर्वेण सम्बन्धः ।
वृत्तावत एवेत्येको हेतुः व्यवस्थानादित्यपरश्चेत्याशयेन व्याचष्टे--यतो नेत्यादि ।
तत्प्रतीतौ रसप्रतीतौ ।
सर्वथेति ।
नेत्यस्यानुषङ्गः ।
नानुपयोगिनी उपयोगिन्येव ।
क्रमो ऽवश्यंभावीत्यस्य विवरणम्--क्रमेणावश्यं भाव्यमिति ।
कुत इत्यत्राह---सहेति ।
उपकारायोगादिति ।
उपकार्योपकारकभावायोगादित्यर्थः ।
यस्यापीति ।
उक्तिः प्रागित्यनेन सम्बन्धः ।
तस्यापीति ।
मते इति शेषः ।
व्यपदेशिवत्वादिति ।
राहोश्शिर इत्यादिवद्भेग्रन्थमवतारयति---नन्वित्यादि ।
इत्युक्तमिति ।
तदुक्त्या क्रमो ऽस्तीत्यावेदितमिति भावः ।
तत्कल्पन इति ।
क्रमकल्पन इत्यर्थः ।
रसप्रतीत्युदयस्येत्यस्य दर्शनादित्यनेन सम्बन्धः ।
कुतस्येत्युदयस्येत्यस्य विशेषणम् ।
फलितमाह--ततश्चेत्यादि ।
सहैव युगपदेव ।
वचनेत्यादि ।
वचनवायापारो वाच्यार्थप्रतिपादनम् ।
ननु शब्द एव प्रकारणाद्यवच्छिन्नो वाच्यव्यङ्ग्ययोः सममेव प्रतीतिमुपजनयतीति किं तत्र क्रमकल्पनया ।
न ह शब्दस्य वाच्यप्रतीतिपरामर्श एव व्यञ्जकत्वे निबन्धनम् ।
तथा हि गीतादिशब्देभ्यो ऽपि रसाभिव्यक्तिरस्ति ।
न च तेषामन्तरा वाच्यपरामर्शः ।
अत्रापी ब्रूमः---प्रकरणाद्यवच्छेदेन व्यञ्जकत्वं शब्दानामित्यनुमतमेवैतदस्माकम् ।
किं तु तद्य्वञ्जकत्वं तेषां कदाचित्स्वरूपविशेषनिबन्धनं कदाचिद्वाचकशक्तिनिबन्धनम् ।
तत्र येषां वाचकशक्तिनिबन्धनं तेषां यदि वाच्यप्रतीतिमन्तरेणैव स्वरूपप्रतीत्या निष्पन्नं तद्भवेन्न तर्हि वाचकशक्तिनिबन्धनम् ।
अथ लोचनम् पदविरहितस्वरालापगीतादौ शब्दमात्रोपयोगकृतस्य दर्शनात् ।
ततश्चैकयैव सामग्न्या सहैव वाच्यं व्यङ्ग्याभिमतं च रसादि भातीति वचनव्यञ्जनव्यापारद्वयेन न किञ्चिन्दिति तदाह--नन्विति ।
यत्रापि गीतशब्दानामर्थो ऽस्ति तत्रापि तत्प्रतीतिरनुपयोगिनी ग्रामरागानुसारेणापहस्तितवाच्यानुसारतया रसोदयदर्शनात् ।
न चापि सा सर्वत्र भवन्ती दृश्यते, तदेतदाह---न चेति ।
तेषामिति गीतादिशब्दानाम् ।
आदिशब्देन वाद्यविलपितशब्दादयो निर्दिष्टाः ।
अनुमतमिति ।
ऽयत्रार्थः शब्दो वाऽ इति ह्यवोचामेति भावः ।
न तर्हीति ।
ततश्च गीतवदेवार्थावगमं विनैव रसावभासः स्यात्काव्यशब्देभ्यः, न चैवमिति वाचकशक्तिरपि तत्रापेक्षणीया; सा च वाच्यनिष्टैवेति प्राग्वाच्ये प्रतिपत्तिरित्युपगन्तव्यम् ।
तदाह---अथेति ।
तदिदि वाचकशक्तिः ।
बालप्रिया तदाहेति ।
उक्तामाशङ्कां ऽनन्विऽत्यादिना ऽपरामर्शऽ इत्यन्तेन प्रदर्शयतीत्यर्थः ।
ऽन चेऽत्यादिग्रन्थमवतारयते--यत्रापीत्यादि ।
ऽअनुपयोगिनीऽत्यत्र हेतुमाह--ग्रामेत्यादि ।
अपेति ।
अपहस्तितः अनादृतः वाच्यानुसारः वाच्यर्थप्रतीत्यनुसरणं येन रसोदयेन तस्य भावस्तत्ता तया ।
सेति ।
वाच्यप्रतीतिरित्यर्थः ।
ऽगीतादीनाऽमित्यत्रादिपदार्थमाह---आदीत्यादि ।
विलपितं विलापः "विलापो ऽनर्थकं वचऽ इत्यमरः ।
वृत्तौ ऽतद्व्यञ्जकत्वम्ऽ इति ।
प्रकरणादिसहकृतं व्यञ्जकत्वमित्यर्थः ।
ऽतेषांऽ शब्दानाम् ।
ऽस्वरूपविशेषेऽति ।
शब्दस्वरूपविशेषेत्यर्थः ।
ऽवाचकेऽति ।
वाचकशक्तिरभिधा सैव निबन्धनं प्रयोजकं यस्य तत् ।
व्यक्तेरभिधेयार्थप्रतीतिपूर्वकत्वादिति भावः ।
ऽयेषाम्ऽ इति ।
तद्व्यञ्जकत्वमित्यनुषङ्गः ।
ऽतदिऽति व्यञ्जक्तवमित्यर्थः ।
ऽन तर्हीऽति ।
ततश्च व्यञ्जकत्वस्य वाचकशक्तिनिबन्धनत्वाभावे च ।
गीतवदिति ।
गीतेन तुल्यमित्यर्थः ।
न चैवं एवं न भवति च ।
इतीति हेतौ ।
वाच्यनिष्ठैव वाच्यविषयिकैव ।
प्रागत्यादि ।
तन्निबन्धनं तन्नियमेनैव वाच्यवाचकभावप्रतीत्युत्तरकालत्वं व्यङ्ग्यप्रतीतेः प्राप्तमेव ।
स तु क्रमो यदि लाघवान्न लक्ष्यते तत्किं क्रियते ।
यद च वाच्यप्रतीतिमन्तरेणैव प्रकरणाद्यव्च्छिन्नशब्दमात्रसाध्या रसादप्रतीतिः स्यात्तदनवधारितप्रकरणानां वाच्यवाचकभावे च स्वयमव्युत्पन्नानां प्रतिपत्तॄणां लोचनम् वाच्यवाचकभावेति ।
सैव वाचकशक्तिरत्युच्यते ।
एतदुक्तं भवति--मा भूद्वाच्यं रसादिव्यञ्जकम्; अस्तु शब्दादेव तत्प्रतीतिस्तथापि तेन स्ववाचकशक्तिस्तस्यां कर्तव्यायां सहकारितयावश्यापेक्षणीयेत्यायातं वाच्यप्रतीतेः पूर्वभावित्वमिति ।
ननु गीतशब्दवदेव वाचकशक्तिरत्राप्यनुपयोगिनी, यत्तुक्वचच्छ्रुते ऽपि काव्येरसप्रतीतिर्न भवति तत्रोचितः प्रकरणावगमादिः सहकारी नास्तीत्याशङ्क्याह--यदि चेति ।
प्रकरणावगमो हि क उच्यते? किं वाक्यान्तरसहायत्वम्? अथ वाक्यान्तराणां सम्बन्धिवाच्यम् ।
उभयपरिज्ञाने ऽपि न भवति प्रकृतवाक्यार्थावेदने रसोदयः ।
बालप्रिया वाच्यार्थप्रतीतिः प्राग्भवतीत्यभ्युपगन्तव्यमित्यर्थः ।
वृत्तौ ऽअथेऽति यदीत्यर्थे ।
ऽतन्निबन्धनऽमिति ।
सा निबन्धनं यस्य तदित्यर्थः ।
व्यञ्जकत्वमित्यनुषङ्गः ।
ऽतदिऽति ।
तर्हित्यर्थः ।
ऽस तु क्रमऽ इति ।
वाच्यप्रतीत्युत्तरकालत्वरूपः क्रमस्त्वित्यर्थः ।
व्यङ्ग्यप्रतीतेरित्यनुषङ्गः ।
तन्निबन्धनमित्यत्र तत्प्दं व्याचष्टे लोचने--वाचकशक्तिरिति ।
सैवेति ।
स एवेति ।
च पाठः ।
वाच्यवाचकभाव एवेत्यर्थः ।
भावार्थमाह---एतदित्यादि ।
रसादिव्यञ्जकमिति ।
रसादिव्यक्तिजनकमित्यर्थः ।
तत्प्रतीतिरिति ।
रसादिप्रतीतिरत्यर्थः ।
तेनेति ।
शब्देनेत्यर्थः ।
तस्यां कर्तव्यायामिति ।
रसादिप्रतीताबुत्पादयितव्यायामित्यर्थः ।
इतीति हेतौ ।
नन्वित्यादि ।
गीतशब्दवदिति ।
गीतशब्दे इवेत्यर्थः ।
अत्रापि काव्यशब्दे ऽपि ।
नन्वेवं यत्र शब्दः श्रुतो ऽर्थो नाधिगतश्च तत्र रसप्रतीतिः स्यादित्यत आह--यत्त्वित्यादि ।
यत्तु यत्र ।
इत्याशङ्क्याहेति ।
इति शङ्कापूर्वकं समाधानं भवेदित्यन्तग्रन्थेनाहेत्यर्थः ।
वृत्तौ शब्दमात्रसाध्येत्यत्रत्यमात्रपदार्थविवरणम्---ऽवाच्यप्रतीतिमन्तरेणैवेऽति ।
ऽतदवधारितेऽति ।
तत्तर्हि ।
अवधारितं ज्ञातं प्रकरणं यैस्तेषाम् ।
ऽवाच्येऽत्यादि ।
तत्तद्वाचकशब्दस्य तत्तद्वाच्यार्थं स्वयमजानतामित्यर्थः ।
ऽअसौऽरसादिप्रतीतिः ।
लोचने विवृणोति--प्रकरणेत्यादि ।
प्रकरणावगमः अवगम्यः प्रकरणपदार्थः ।
वाक्येति ।
वाक्यान्तरं सहायः सहकारि यस्य तत्त्वं सहकारि वान्तरमित्यर्थः ।
काव्यमात्रश्रवणादेवासौ भवेत् ।
सहभावे च वाच्यप्रतीतेरनुपयोगः, उपयोगे वा न सहभावः ।
येषामपि स्वरूपविशेषप्रतीतिनिमित्तं व्यञ्जकत्वं यथा गीतादिशब्दानां तेषामपि स्वरूपप्रतीतेर्व्यङ्ग्यप्रतीतेश्च नियमभावी लोचनम् स्वयमिति ।
प्रकरणमात्रमेव परेण केनचिद्येषां व्याख्यातमिति भावः ।
न चान्वयव्यतिरेकवतीं वाच्यप्रतीतिमपह्नुत्यादृष्टसद्भावाभावौ शरणत्वेनाश्रितौ मात्सर्यादधिकं किञ्चित्पुष्णीत इत्यभिप्रायः ।
नन्वस्तु वाच्यप्रतीतेरुपयोगः क्रमाश्रयेण किं प्रयोजनम्, सहभावमात्रमेव ह्युपयोग एकसामग्र्यधीनतालक्षणमित्याशङ्क्याह--सहेति ।
एवं ह्युपयोग इति अनुपकारके सञ्ज्ञाकरणमात्रं वस्तुशून्यं स्यादिति भावः ।
उपकारिणो हि पूर्वभावितेति त्वया प्यङ्गीकृतमित्याह---येषामिति ।
तद्दृष्टान्तेनैव वयं वाच्यप्रतीतेरपि पूर्वभावितां समर्थयिष्याम इति भावः ।
बालप्रिया प्रकृतवाक्यस्येति शेषः ।
अथेति प्रश्ने ।
वाक्यान्तराणामित्यादि ।
वाक्यान्तरतद्वाच्यमित्यर्थः ।
उभयेति ।
वाक्यान्तरतद्वाच्योभयेत्यर्थः ।
प्रकृतवाक्यार्थवेदन इति ।
प्रकृतवाक्यघटकतत्तत्पदार्थनवगम इत्यर्थः ।
वाच्यवाचकभावाव्युत्पत्तिमुपपादयति--प्रकरणमात्रमित्यादि ।
मात्रशब्देन वाच्यस्य व्यवच्छेदः ।
येषामिति ।
केषाञ्चित् प्रतिपत्तॄणामित्यर्थः ।
व्याख्यातमिति ।
बोधितमित्यर्थः ।
ननु वाक्येन रसादिप्रतीतौ कर्तव्यायामदृष्टविशेषो ऽपि सहकारी तदभावादेव वाच्यप्रतीतिविरहकाले रसादेरप्रतीतिरिति शङ्कां परिहरति--न चेत्यादि ।
न च पुष्णित इति सम्बन्धः ।
अन्वयेति ।
वाच्यप्रतीतिसत्त्वे रसादिप्रतीतिस्तदभावे तदभाव इत्यन्वयव्यतिरेकशालिनीमित्यर्थः ।
शरणत्वेनेति ।
प्रयोजकत्वेनेत्यर्थः ।
रसप्रतीतिपदभावयोरिति शेषः ।
नन्वित्यादि ।
उपयोग इति ।
रसादिप्रतीतिं प्रतीति शेषः ।
क्रमाश्रयेणेति ।
वाच्यप्रतीतिरसादिप्रतीत्योः पौर्वापर्यरूपक्रमाश्रयेणेत्यर्थः ।
तर्हि उपयोगः क इत्यत्राह--सहेति ।
तत् कीदृशमित्याङ्क्याह--एकेति ।
वाच्यप्रतीतेः रसादिप्रत्यायकसामग्न्यधीनत्वरूपो रसादिसहभाव इति भावः ।
उपयागाः उपयोगपदार्थः ।
आशङ्क्येति ।
आपाततश्शङ्कित्वेत्यर्थः ।
सहभावे चेत्यादिग्रन्थस्य भावमाह--एवं हीत्यादि ।
अनुपकारके उपयोग इति सञ्ज्ञाकरणमात्रमिति सम्बन्धः ।
मात्रपदार्थं विवृणोति--वस्त्वित्यादि ।
वस्तु उपकारकत्वरूपस्तदर्थः ।
पूर्वभावितेति ।
पूर्वकालवृत्तित्वमित्यर्थः ।
क्रम इत्यन्तग्रन्थस्य भावमाह--त्वद्दृष्टान्तेनेत्यादि ।
त्वद्दृष्टान्तेन गीतादिना तत्त्वित्यादिग्रन्थमवतारयति---नन्वित्यादि ।
शब्दस्येत्यस्य क्रियेत्यनेन सम्बन्धः ।
क्रमः ।
तत्तु शब्दस्य क्रियापौर्वापर्यमनन्यसाध्यतत्फलघटनास्वाशुभावनीषु वाच्येनाविरोधिन्यभिधेयान्तरविलक्षणे रसादौ न प्रतीयते ।
लोचनम् ननु संश्चेत्क्रमः किं न लक्ष्यत इत्याशङ्क्याह--तत्त्विति ।
क्रियापौर्वापर्यमत्यनेन क्रमस्य स्वरूपमाह--क्रियेते इति ।
क्रिये वाच्यव्यङ्ग्यप्रतीति यदि वाभिधाव्यापारो व्यञ्जनापरपर्यायो ध्वननव्यापारश्चेति क्रिये तयोः पौर्वापर्यं न प्रतीयते ।
क्वेत्याग--रसादौ विषये ।
कीदृशि? अभिधेयान्तरात्तदभिधेयविशेषाद्विलक्षणे सर्वथैवानभिधेये अनेन भवितव्यं तावत्कमेणेत्युक्तम् ।
तथा वाच्येनाविरोधिनि, विरोधिनि तु लक्ष्यत एवेत्यर्थः ।
कुतो न लक्ष्यते इति निमित्तसप्तमीनिर्दिष्टं हेत्वन्तरगर्भं हेतुमाह--आशुभाविनीष्विति ।
अनन्यसाध्यतत्फलघटनासु घटनाः पूर्वं माधुर्यादिलक्षणाः प्रतिपादिता गुणानिरूपणावसरे ताश्च तत्फलाः रसादिप्रतीतिः फलं यासाम्, तथा अनन्यत्तदेव साध्यं यासाम्, न ह्योजोघटनायाः करुणादिप्रतीतिः साध्या ।
एतदुक्तं भवति---यतो गुणवति काव्ये ऽसङ्कीर्णविषयतया सङ्घटना प्रयुक्ता ततः क्रमो न लक्ष्यते ।
ननु भवत्वेवं सङ्घटनानां स्थितिः, क्रमस्तु किं न लक्ष्यते अत आह--आशुभाविनीषु वाच्यप्रतीतिकालप्रतीक्षणेन विनैव झटित्येव ता रसादीन् भावयन्ति बालप्रिया शब्दजन्यक्रियेत्यर्थः ।
क्रियापदार्थमाह--क्रियेते इत्यादि ।
ते के इत्यत्राह---वाच्येति ।
शब्दस्य क्रियेत्यस्य शब्दनिष्ठक्रियेत्यभिप्रायेणाह--यदिवेत्यादि ।
अन्वयं दर्शयति--तयोरित्यादि ।
तयोः क्रिययोः ।
अत्र वाच्यव्यङ्ग्यप्रतीतिगतं पौर्वापर्यं तद्य्वापारयोरारोपितं बोध्यम् ।
रसादौ विषये इति ।
तथाच वाच्यप्रतीतेः रसादिरूपव्यङ्ग्यप्रतीतेश्चेत्यर्थः ।
अभिधेयविशेषादिति ।
तत्तद्वाच्यार्थविशेषादित्यर्थः ।
फलितमाह---सर्वथेत्यादि ।
अनभिधेये अभिधेयभिन्ने ।
अनेनेति ।
अनभिधेयत्वकथनेनेत्यर्थः ।
इत्युक्तमिति ।
इति दर्शितमित्यर्थः ।
लक्ष्यत एवेति ।
यथा "भ्रम धार्मिके"त्यादौ ।
इतीति ।
इत्याकाङ्क्षायामित्यर्थः ।
निमित्तसप्तमीति ।
"यस्य च भावेने"ति सूत्रानुशिष्टनिमित्तार्थकसप्तमीत्यर्थः ।
हेत्वन्तरेति ।
अनन्यसाध्यतत्फलत्वरूपहेत्वन्तरेत्यर्थः ।
अनन्येत्यादिकं व्याचष्टे--घटना इत्यादि ।
कर्मधारयाभिप्रायेण विग्रहमाह--ताश्चेत्यादि ।
अनन्यदित्यस्य व्याख्यानम्--तदेवेति ।
तत्तद्धटनया यत्साध्यं तदेवेत्यर्थः ।
उक्तमेव विवृणोति--न हीत्यादि ।
ओजोघटनया करुणादिप्रतीतिर्न हि साध्येत्यन्वयः किन्तु वीरादिप्रतीतिरेवेति भावः ।
उक्तस्य भावमाह--एतदित्यादि ।
असङ्कीर्णविषयतयेति ।
घटनान्तरासङ्कीर्णस्वविषयकत्वेनेत्यर्थः ।
आशुभाविनीष्वित्येतद्व्याचष्टे--वाच्येत्यादि ।
ता इति ।
लोचनम् तदास्वादं विदधतीत्यर्थः ।
एतदुक्तं भवति--सङ्घटनाव्यङ्ग्यत्वाद्रसादीनामनुपयुक्ते ऽप्यर्थविज्ञाने पूर्वामेवोचितसङ्घटनाश्रवण एव यत आसूत्रितो रसास्वादस्तेन वाच्यप्रतीत्युत्तरकालभवेन परिस्फुटास्वादयुक्तो ऽपि पश्चादुत्पन्नत्वेन न भाति ।
अभ्यस्ते हि विषये ऽविनाभावप्रतीतिक्रम इत्थमेव न लक्ष्यते ।
अभ्यासो ह्ययमेव यत्प्रणिधानादिनापि विनैव संस्कारस्य बलवत्त्वात्सदैव प्रबुभुत्सुतया अवस्थापनमित्येवं यत्र धूमस्तत्राग्निरिति हृदयस्थितत्वाद्व्याप्तेः पक्षधर्मज्ञानमात्रमेवोपयोगि भवतीति परामर्शस्थानमाक्रमति, झटित्युत्पन्नेहि धूमज्ञाने तद्व्याप्तिस्मृत्युपकृते तद्विजातीयप्रणिधानानुसरणादिप्रतीत्यन्तरानुप्रवेशविरहादाशुभाविन्यामग्निप्रतीतौ बालप्रिया घटना इत्यर्थः ।
रसादीनित्यादेर्विवरणम्---तदास्वादमित्यादि ।
तत्त्वित्यादिग्रन्थेन लब्धं क्रमस्तु किन्न लक्ष्यत इति चोद्यस्योत्तरं विवृणोति---एतदित्यादि ।
सङ्घटनाव्यङ्ग्यत्वादिति ।
अर्थज्ञानोपयोगं विनापि सङ्घटनया व्यङ्ग्यत्वादत्यर्थः ।
पूर्वमेव वाच्यार्थज्ञानात्प्रागेव ।
उचितेति ।
अभ्यस्तेत्यर्थः ।
आसूत्रितर्ः इषत्स्फुरितः ।
तेनेत्यस्य न भातीत्यनेनान्वयः ।
वाच्येति ।
वाच्यप्रतीत्युत्तरकाले यो भवः जननं तेन हेतुना यः परिस्फुटास्वादः तेन युक्तो ऽपि विशिष्टो ऽपि; परिस्फुटास्वादः युक्तो ऽपीति च पाठः ।
पश्चादुत्पन्नत्वेन वाच्यप्रतीत्युत्तरकालोत्पन्नत्वेन ।
न भातीति ।
सहृदयानामिति शेषः ।
अभ्यास इत्यादि ।
"अभ्यासस्तु समाने विषये ज्ञानानामभ्यावृत्तरि"ति न्यायभाष्ये ।
प्रणिधानेत्यादि ।
"सूस्मूर्षया मनसो धारणं प्रणिधान"मिति न्यायभाष्यम् ।
धारणमेकाग्रीकरणम् ।
प्रणिधानादिनेत्यादिपदेन "प्रणिधाननिबन्धाभ्यासलिङ्गे"त्यादिन्यायसूत्रोक्तलिङ्गादीनां ग्रहणम् ।
विनैवेत्यस्य प्रबुभुत्सुतया स्थापनमित्यनेन सम्बन्धः ।
बलवत्वादिति ।
झटित्युद्बोधकसमवधानरूपदार्ढ्यवत्वादित्यर्थः ।
प्रबुसुत्सुतयेति ।
स्मृतिरूपप्रबोधोपधायकत्वेनेत्यर्थः ।
कूलं पिपतिषतीत्यादिवत् प्रयोगः ।
अभ्यस्त इत्यादिना समान्यत उक्तं विशिष्य दर्शयति--एवमित्यादि ।
इत्येवं व्याप्तेरित्यन्वयः ।
हृदयस्थितत्वादिति ।
संस्काररूपेणान्तः करणे वर्तमानत्वादित्यर्थः ।
पक्षेति धूमादिलिङ्गस्य पर्वतादिपक्षवृत्तित्वज्ञानमात्रमित्यर्थः ।
मात्रमेवेत्यनेन पक्षे साध्यव्याप्तिविशिष्टहेतुमत्ताज्ञानरूपस्य परामर्शस्य व्यवच्छेदः ।
उपयोगीति ।
वह्न्याद्यनुमिताविति शेषः ।
इतीति हेतौ ।
परामर्शेति ।
परामर्शस्थानीयं भवतीस्पष्टमिदं मतम् ।
झटितीत्यस्य व्याप्तिस्मृतीत्यनेन सम्बन्धः ।
तद्य्वाप्तीति ।
धूमादौ वह्न्यादिव्याप्तेः स्मृत्या सहकुते सतीत्यर्थः ।
तदित्यादि ।
ताभ्यां धूमज्ञानव्याप्तिस्मृतिभ्यां विजातीयं यत् प्रणिधानानुकरणादिना प्रणिधानकरणादिना प्रतीत्यन्तरमालोचनरूपं क्वचित्तु लक्ष्यत एव ।
यथानुरणनरूपव्यङ्ग्यप्रतीतिषु ।
तत्रापि कथमिति चेदुच्यते--
अर्थशक्तिमूलानुरणनरूपव्यङ्ग्ये ध्वनौ तावदभिधेयस्य तत्सामर्थ्याक्षिप्तस्य चार्थस्याभिधेयान्तरविलक्षणतयात्यन्तविलक्षणे ये प्रतीति तयोरशक्यनिह्नवो निमित्तनिमित्तिभाव इति स्फुटमेव तत्र पौर्वापर्यम् ।
यथा प्रथमोद्द्योते प्रतीयमानार्थसिद्य्धर्थमुदाहृतामु गाथासु ।
तथाविधे च विषये वाच्यव्यङ्ग्येयोरत्यन्तविलक्षणत्वाद्यैव एकस्य प्रतीतिः सैवेतरस्येति न शक्यते वक्तुम् ।
शब्दशक्तिमूलानुरणनरूपव्यङ्ग्ये तु ध्वनौ--- गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु लोचनम् क्रमो न लक्ष्यते तद्वदिहापि ।
यदि तु वाच्याविरोधी रसो न स्यादुचिता च घटना न भवेत्तल्लक्ष्येतैव क्रम इति ।
चन्द्रिकाकारस्तु पठितमनुपठतीति न्यायेन गजनिमीलिकया व्याचचक्षे--तस्य शब्दस्य फलं तद्वा फलं वाच्यव्यङ्ग्यप्रतीत्यात्मकं तस्य घटना निष्पादना यतो ऽनन्यसाध्या शब्दव्यापारैकजन्येति ।
न चात्रार्थसतत्त्वं व्याख्याने किञ्चिदुत्पश्माम इत्यलं पूर्ववंश्यैः सह विवादेन बहुना ।
यत्र तु सङ्घटनाव्यङ्ग्यत्वे नास्ति तत्र लक्ष्यत एवेत्याह--क्वचित्त्विति ।
तुल्ये व्यङ्ग्यत्वे कुतो भेद इत्याशङ्कते---तत्रापीति ।
स्फुटमेवेति ।
अविवक्षितवाच्यस्य पदवाक्यप्रकाशता ।
तदन्यस्यानुरणनरूपव्यङ्ग्यस्य च ध्वनेः ॥
इति हि पूर्वं वर्णसङ्घटनादिकं नास्य व्यञ्जकत्वेनोक्तमिति भावः ।
गाथास्विति ।
बालप्रिया तस्य यो ऽनुप्रवेशः तस्य विरहादभावादित्यर्थः ।
आशुभाविन्यां झटिति भवन्त्याम् ।
अग्निप्रतीतौ पर्वतादौ वह्रेरनुमित्तौ ।
क्रम इति ।
व्याप्तिस्मृतिसहकृतस्य धूमज्ञानस्येति शेषः ।
उपसंहरति--तद्वदिति ।
अभ्यासनिमित्तकाशुभावित्वेन साम्यं बोध्यम् ।
वाच्याविरोधितेत्याद्युवत्या गम्यमर्थमाह--यदीत्यादि ।
अनन्येत्यादिग्रन्थस्य चन्द्रिकाव्याख्यानमाह--तस्येत्यादि ।
अर्थसतत्त्वमिति ।
अर्थस्य सङ्गतत्वमित्यर्थः ।
स्फुटमेव पौर्वापर्यमित्येतदुपपादयति---अविवक्षितेत्यादि ।
इति हि पूर्वमुक्तं वर्णसङ्घटनादिकमस्य व्यञ्जकत्वेन नोक्तमिति सम्बन्धः ।
इत्यादावर्थद्वयप्रतीतौ शाब्द्यामर्थद्वयस्योपमानोपमेयभावप्रतीतिरुपमावाचङ्कपदविरहे सत्यर्थसामर्थ्यादाक्षिप्तेति, तत्रापि सुलक्षमभिधेयव्यङ्ग्यालङ्कारप्रतीत्यो ।
पौर्वापर्यम् ।
पदप्रकाशशब्दशक्तिमूलानुरणनरूपव्यङ्ग्ये ऽपि ध्वनौ विशेषणपदस्योभयार्थसम्बन्धयोग्यस्य योजकं पदमन्तरेण योजनमशाब्दमप्यर्थादवस्थितमित्यत्रापि पूर्ववदभिदेयतत्सामर्थ्याक्षिप्तालङ्कारमात्रप्रतीत्योः सुस्थितमेव पौर्वापर्यम् ।
लोचमम् ऽभम धम्मिअऽ इत्यादिकासु ।
ताश्च तत्रैव व्याख्याताः ।
शाब्द्यामिति ।
शाब्द्यामपीत्यर्थः ।
उपमावाचकं यथेवादि ।
अर्थसामर्थ्यादिति ।
वाक्यार्थसामर्थ्यादिति यावत् ।
एवं वाक्यप्रकाशशब्दशक्तिमूलं विचार्य पदप्रकाशं विचारयति---पदप्रकाशेति ।
विशेषणपदस्येति ।
जड इत्यस्य ।
योजकमिति ।
कूप इति च अहमिति चोभयसमानाधिकरणतया संवलनम् ।
अभिधेयं च तत्सामर्थ्याक्षिप्तं च तयोरलङ्कारमात्रयोः ।
ये प्रतीति तयोः पौर्वापर्यं क्रमः ।
सुस्थितं सुलक्षितमितयर्थः ।
मात्रग्रहणेन रसप्रतीतिस्तत्राप्यलक्ष्यक्रमैवेति दर्शयति ।
बालप्रिया येन पौर्वापर्यस्यास्फुटत्वं भवेदिति भावः ।
शाब्द्यामपीति ।
अभिधया शब्दजन्यामपीत्यर्थः ।
अपिशब्देनाप्रकृतार्थस्य व्यङ्ग्यत्वपक्षः सूच्यते ।
उपमावाचकपदविरह इत्यत्रोपमावाचकपदं विवृणोति---उपमेत्यादि ।
वृत्तौ ऽआक्षिप्तेऽति ।
उत्पादितेत्यर्थः ।
ऽअभिधेयेऽति ।
अभिधेयस्य व्यङ्ग्यालङ्कारस्य च ये प्रतीती तयोरित्यर्थः ।
द्वितीयार्थो ऽप्यभिधेयः तदुपमामात्रं व्यङ्ग्यमिति मताभिप्रायेणेदम्, अनुपदं वक्ष्यमाणस्थले ऽप्येवं बोध्यम् ।
लोचने वृत्तानुवादपूर्वकमवतारयति---एवमित्यादि ।
पदप्रकाशमिति ।
शब्दशक्तिमूलमित्यनुषङ्गः ।
प्रातुं धनैरित्याद्युक्तमुदाहरणं मनसिकृत्य व्याचष्टे---जड इत्यस्येति ।
योजनशब्दार्थमाह--कूप इत्यादि ।
इति चोभयेति ।
कूपाहम्पदार्थोभयेत्यर्थः ।
संवलनं सम्मिश्रणम् ।
वृत्तौऽअशाब्दमपीऽति ।
योजकशब्दाप्रतिपाद्यमपीत्यर्थः ।
अर्थाद्व्यञ्जनात् ।
ऽअवस्थितम्ऽ प्रतिपत्तिविषयभूतम् ।
अभिधेयेत्यादिकं व्याचष्टे--अभिधेयमित्यादि ।
अत्राभिधेयालङ्कारोदीपकम्, जडत्वस्योभयत्रान्वयात् ।
तत्सामर्थ्यक्षिप्ता चोपमा ।
अभिधेयं च तत्सामर्थ्याक्षिप्तालङ्कारश्च तावेव तन्मात्रे इति च वृत्त्यर्थो बोध्यः ।
अलक्षणीयत्वशङ्काया व्यावर्तनीयतया तदनुरोधेन व्याचष्टे--सुलक्षितमिति ।
मात्रग्रहणेनेति ।
अलङ्कारमात्रेत्यत्रत्यमात्रपदेनेत्यर्थः ।
आर्थ्यपि च प्रतिपत्तिस्यथाविदे विषये उभयार्थसम्बन्धयोग्यशब्दसामर्थ्यप्रसावितेति शब्दशक्तिमूला कल्प्यते ।
अविवक्षितवाच्यस्य तु ध्वनेः प्रसिद्धस्वविषयवैमुख्यप्रतीतिपूर्वकमेवार्थान्तरप्रकाशनमिति नियमभावी क्रमः ।
तत्राविवक्षितवाच्यत्वादेव वाच्येव सह व्यङ्ग्यस्य क्रमप्रतीतिविचारो न कृतः ।
तस्मादभिधानाभिधेयप्रतीत्योरिव लोचनम् नन्वेवमार्थत्वं शब्दशक्तिमूलत्वं चेति विरुद्धमित्याशङ्क्याह---आर्थ्यपीति ।
नात्र विरोधः कश्चिदिति भावः ।
एतच्च वितत्य पूर्वमेव निर्णीतमिति न पुनरुच्यते ।
स्वविषयेति ।
अन्धशब्दादेरुपहतचक्षुष्कादिः स्वो विषयः, तत्र यद्वैमुख्यमनादर इत्यर्थः ।
विचारो न कृत इति ।
नामधेयनिरूपणद्वारेणेति शेषः ।
सहभावस्य शङ्कितुमत्रायुक्तत्वादिति भावः ।
एवं रसादयः कैशिक्यादीनामितिवृत्तभागरूपाणां वृत्तीनां जीवितमुपनागरिकाद्यानां च सर्वस्यास्योभयस्यापि वृत्तिव्यवहारस्य रसादिनियन्त्रितविषयत्वादिति यत्प्रस्तुतं तत्प्रसङ्गेन रसादीनां वाच्यातिरिक्तत्वं समर्थयितुं क्रमो विचारित इत्येतदुपसंहरति--तस्मादिति ।
अभिधानस्य बालप्रिया रसप्रतीतिरिति ।
रसस्य भावस्य वा प्रतीतिरित्यर्थः ।
तत्रापीति ।
उक्तशब्दशक्तिमूलस्थले ऽपीत्यर्थः ।
प्रातुमित्यादौ निर्वेदो व्यङ्ग्यः ।
नात्रेत्यादि ।
उभायर्थोत्यादिविशेषणस्य विद्यमानत्वान्न विरोध इत्यर्थः ।
एवं विवक्षितान्यपरवाच्ये व्यङ्ग्यव्यञ्जकयोः क्रमं प्रतिपाद्य सर्वत्रापि व्यङ्ग्यव्यञ्जकयोः क्रमो ऽस्तीति दर्शयितुमाह--वृत्तौ ऽअविवक्षितेऽत्यादि ।
ऽनिःश्वासान्धऽ इत्यादिपूर्वोक्तोदाहरणनिष्ठतया स्वविषयवैमुख्यमित्येतद्व्याचष्टे---अन्धशब्दादेरित्यादि ।
विषयः वाच्यार्थः ।
अनादर इति ।
वाच्यार्थस्य बाधितत्वात्परित्यागैत्यर्थः ।
वृत्तौ ऽअर्थान्तरेऽति ।
व्यङ्ग्येत्यर्थः ।
ऽक्रमऽ इति ।
वाच्यव्यङ्ग्यप्रतीत्योरिति शेषः ।
ऽतत्राविवक्षितवाच्यत्वादिऽति ।
अविवक्षितवाध्यध्वनिस्थले वाच्यस्याविवक्षतत्वादित्यर्थः ।
ऽक्रमेऽति ।
क्रमेण या प्रतीतिः तद्विचारः वाच्यार्थव्यङ्ग्यार्थप्रतीत्योःक्रमस्य विचार इत्यर्थः ।
न कृत इत्यत्र पूरयति लोचने--नामेत्यादि ।
भावमाह--सहेत्यादि ।
अत्रेति ।
अविवक्षितवाच्यध्वनावित्यर्थः ।
ननु रसादेः वृत्तिजीवितत्वमुपक्रान्तं वाच्यव्यङ्ग्यप्रतीतिक्रमश्च तस्मादित्यादिना उपसंहृतः ।
तदिदमसङ्गमित्यतस्तद्भन्थमवतारयति---एवं रसादय इत्यादि ।
उपनागरकाद्यानां च वृत्तीनामिति सम्बन्धः ।
रसादीनामुभयविधवृत्तिजीवितत्वे हेतुमाह---सर्वस्येत्यादिना ।
प्रस्तुतमुपक्रान्तं तत्प्रसङ्गेन विचारित इत्यन्वयः ।
इत्येतदिति ।
प्रसङ्गागतं क्रमविचारमित्यर्थः ।
वाच्यव्यङ्ग्यप्रतीती क्रमवत्यौ निमित्तनैमित्तिकत्वादभिधानाभिधयप्रतीतिवदिति वाच्यव्यङ्ग्यप्रतीत्योर्निमित्तनिमित्तिभावान्नियमभावी क्रमः ।
स तूक्तयुक्त्या क्वचिल्लक्ष्यते क्वचिन्न लक्ष्यते ।
तदेवं व्यञ्जकमुखेन ध्वनिप्रकारेषु निरूपितेषु कश्चिद्ब्रूयात्---किमिदं व्यञ्जकत्वं नाम व्यङ्ग्यार्थप्रकाशनम्, न हि व्यञ्जकत्वं व्यङ्ग्यत्वं चार्थस्य व्यञ्जकसिद्य्धधीनं व्यङ्ग्यत्वम्, व्यङ्ग्यापेक्षया च व्यञ्जकत्वासिद्धिरित्यन्योन्यसंश्रयादव्यवस्थानम् ।
ननु वाच्यव्यतिरिक्तस्य व्यङ्ग्यस्य लोचनम् शब्दरूपस्य पूर्वं प्रतीतिस्ततो ऽभिधेयस्य ।
यदाह तत्र भवान्--- ऽविषयत्वमनापन्नैः शब्दैर्नार्थः प्रकाश्यतेऽ इत्यादि ।
अतो ऽनिर्ज्ञातरूपत्वात्किमाहेत्यभिधीयतेऽ इत्यत्रापि चाविनाभाववत्समयस्याभ्यस्तत्वात्क्रमो न लक्ष्येतापि ।
उद्योतारम्भे यदुक्तं व्यञ्जनमुखेन ध्वनेः स्वरूपं प्रतिपाद्यत इति तदिदानीमुपसंहरन्व्यञ्जकभावं प्रथमोद्योते समर्थितमपि शिष्याणामेकप्रघट्टकेन हृदि निवेशयितुं पूर्वपक्षमाह--तदेवमिति ।
कश्चिदिति ।
मीमांसकादिः ।
किमिदमिति ।
वक्ष्यमाणश्चोदकस्याभिप्रायः ।
बालप्रिया वृत्त्युक्तानुमाने दृष्टान्तस्य साधनवैकल्यशङ्कां परिहर्तुं व्याचष्टे--अभिधानस्येत्यादि ।
यदाहेति ।
यस्मादाहेत्यर्थः ।
विषयत्वमित्यादि ।
विषयत्वं श्रावणादिज्ञानविषयत्वम् ।
अनापन्नैः अज्ञातैरित्यर्थः ।
न प्रकाश्यते किन्तु ज्ञातैरेवेत्यर्थः ।
इत्यादीत्यादिपदेन सूचितेषु किञ्चित् पद्यार्द्धमपि दर्शयति---अत इत्यादि ।
अत इति ।
यतो निर्ज्ञातस्यैवार्थबोधकत्वं तत इत्यर्थः ।
अनिर्ज्ञातरूपत्वादिति ।
श्रोत्रा सम्यगश्रवणे शब्दस्यानिश्चितस्वरूपत्वादित्यर्थः ।
किमाहेत्यभिधीयत इति ।
भवान् किं वक्तीति पृच्छ्यते इत्यर्थः ।
शब्दस्य तदर्शस्य च जिज्ञासयेति भावः ।
प्रसङ्गादाह---अत्रापीत्यादि ।
अत्रापि अभिधानाभिधेयप्रतीत्योरपि ।
अविनाभाववदविनाभावस्येव ।
समयस्य तत्तदर्थे तत्तत्पदसङ्केतस्य ।
न लक्ष्येतापि क्वचिदलक्ष्यो ऽपि भवति ।
ऽतदेवऽमित्यादिऽनिरूपितेष्विऽत्यन्तमनुपयोगि, कश्चिदित्यादिना व्यञ्जकत्वनिरूपणं पुनरुक्तं चेत्यतस्तत्फलं दर्शयन्नवतारयति---उद्योतारम्भ इत्यादिना ।
प्रघट्टकेन प्रकरणेन ।
किमिदमित्यत्र किंशब्दः आक्षेपे प्रश्ने वा, तत्र हेतुर्नोक्त इत्यत आह--वक्ष्यमाण इति ।
अन्योन्याश्रयादव्यवस्थानमिति वक्ष्यमाण इत्यर्थः ।
चोदकस्य चोद्यवादिनः ।
वृत्तौ ऽव्यङ्ग्याथप्रकाशनऽमिति ।
व्यङ्ग्यार्थप्रतीत्यनुकूलसामर्थ्यमित्यर्थः ।
अस्यानन्तरं चेदिति शेषः ।
निषेधति--ऽन हीऽत्यादि ।
शब्दस्येति शेषः ।
शब्दस्य सिद्धिः प्रागेव प्रतिपादिता तत्सद्य्धधीना च व्यञ्जकसिद्धिरिति कः पर्यनुयोगावसरः ।
सत्यमेवैतत्; प्रागुक्तयुक्तिभिर्वाच्यव्यतिरिक्तस्य वस्तुनः सिद्धिः कृता, स त्वर्थो व्यङ्ग्यतयैव कस्माद्व्यपदिश्यते ।
यत्र च प्राधान्येनानवस्थानं लोचनम् प्रागेवेति ।
प्रथमोद्योते अभाववादनिराकरणे ।
अतश्च न व्यञ्जकसिध्या तत्सिद्धिर्येनान्योन्याश्रयः शङ्क्येत, अपि तु हेत्वन्तरैस्तस्य साधितत्वादिति भावः ।
तदाह--तत्सिद्धीति ।
स त्विति ।
अस्त्वसौ द्वितीयो ऽर्थः, तस्य यदि व्यङ्य इति नाम कृतम्, वाच्य इत्यपि कस्मान्न क्रियते? व्यङ्ग्य इति वा वाच्याभिमतस्यापि कस्मान्न क्रियते? अवगम्यमानत्वेन हि शब्दार्थत्वं तदेव वाचकत्वम् ।
अभिधा बालप्रिया व्यञ्जकत्वमर्थस्य व्यङ्ग्यत्वं च ऽन हिऽस्वतो न भवति हि ।
हीति ।
प्रसिद्धौ ।
मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0