ध्वन्यालोक (टीका सहित) · भाग 2140
इत्याशयेनाहेत्यर्थः ।
न चास्य ऽयस्मिन्निऽत्यादिश्लोकस्य श्रुतत्वेन ऽजगदुऽरिति लिङ्बोध्यस्य पारोक्ष्यस्य समर्थनाय ऽन चास्माभिरभाववादिनां विकल्पाः श्रुताःऽ इति प्रागुक्तं कथं सङ्गच्छत इति वाच्यम् ।
यथाश्रुतार्थकस्यास्य श्लोकस्य श्रुतत्वे ऽपि पूर्वोपदर्शितानां बहूनामभाववादप्रकाराणां विशिष्याश्रुतत्वेन तद्वचनस्य तत्परत्वात् ।
ग्रन्थकृदित्यादिना मत्सरं तदुक्तेर्हेतुत्वेन व्युत्पन्नै रचितं च नैव वचनैर्वक्रोक्तिशून्यं च यत् ।
काव्यं तद्ध्वनिना समन्वितमिति प्रीत्या प्रशंसञ्जडो नो विद्मो ऽभिदधाति किं सुमतिना पृष्टः स्वरूपं ध्वनेः ॥
लोचन.म् मनोरथनाम्ना कविना ।
यतो न सालङ्कृति, अतो न मनःप्रह्लादि ।
अनेनार्थालङ्काराणामभाव उक्तः ।
व्युत्पन्नै रचितं च नैव वचनैरिति शब्दालङ्काराणाम् ।
वक्रोक्तिः उत्कृष्टा संघटना, तच्छून्यमिति शब्दर्थगुणानाम् ।
वक्रोक्तिशून्यशब्देन सामान्यलक्षणाभावेन सर्वालङ्काराभावौक्त इति केचित् ।
तैः पुनरुक्तत्वं न परिहृतमेवेत्यलम् ।
प्रीत्येति ।
गतानुगतिकानुरागेणेत्यर्थः ।
सुमतिनेति ।
जडेन पृष्टो भ्रूभङ्गकटाक्षादिभिरेवोत्तरं ददत्तत्स्वरूपं काममाचक्षीतेति भावः ।
एवमेते ऽभावविकल्पाः शृङ्खलाक्रमेमागताः, न त्वन्योन्यासम्बद्धा एव ।
तथा हि तृतीयाभावप्रकारनिरूपणोपक्रमे पुनःशब्दस्यायमेवाबिप्रायः, उपसंहारैक्यं च सङ्गच्छते ।
अभाववादस्य सम्भावनाप्रामत्वेन भूतत्वमुक्तम् ।
भाक्तवादस्त्वविच्छिन्नः बालप्रिया सूचयति--ऽयस्मिन्निऽति ।
ऽयस्मिन्ऽ काव्ये ।
ऽसालङ्कृतिऽ अत एव ऽमनःप्रह्लादिऽ ।
ऽकिञ्चन वस्तुऽ वर्ण्यमानः कश्चिदर्थो ऽनास्तिऽ ।
ऽव्युत्पन्नैऽरिति ।
नैवेति पाठे यदित्यास्यापकर्षः ।
यन्नेति च पाठः ।
ऽयत्ऽ काव्यम् ।
व्युत्पन्नैः अनुप्रासादियोगाद्विचित्रतयोत्पन्नैः ऽवचनैःऽ शब्दैः ।
ऽनैव रचितञ्चऽ, तथा यत् ऽवक्रोक्तिशून्यञ्जऽ भवति, तत् तथाविधमर्थालङ्कारादिशून्यं ऽकाव्यं ध्वनिना समन्वितमिति प्रीत्या प्रशंसन् जडः ध्वलनेस्स्वरूपं सुमतिना पृष्टस्सन् किमभिदधाति ।
वयं नो विझऽ इत्यन्वयः ।
भावार्थ व्याचष्टे--यत इत्यादि ।
अनेनेति ।
प्रथमवाक्येनेत्यर्थः ।
उक्त इति ।
काव्य इति शेषः ।
अभाव उक्त इत्यस्य शब्दालङ्काराणां शब्दार्थगुणानामित्यनयोरपि सम्बन्धो बोध्यः ।
सङ्घटनेति ।
शब्दार्थयोरिति शेषः ।
व्याख्यानान्तरमनुवदति-वक्रोक्तीत्यादि ।
वक्रोक्तिस्सुन्दरतरोक्तिः सौन्दर्यञ्च वैचित्र्यमेव ।
तत्खलु सामान्यलक्षणमलङ्काराणामिति सर्वालङ्काराभाव उक्तो भवतीत्यर्थः ।
दूषयति-तैरिति ।
गतेति ।
गतस्यानुगतिः गतानुगतिका ।
कुत्सायां कः ।
तस्यामनुरागेण ।
यद्वा-गते अन्यगमने गतमनुगमनं गतानुगतं तदेषामस्तीति गतानुकतिकाः ।
स्वयं विचारमकृत्वा परोक्तिमेवानुसरन्त इति यावत् ।
तेषां सम्भवतानुरागेण ।
ऽसुमतिनेऽति पदस्य प्रयोजनं व्याचष्टे-जडेनेत्त्यादि ।
किमित्येते विकल्पाः प्ररस्परसम्बद्धा व्याख्याता इति शङ्कायां वृत्तिग्रन्थानुगुण्यादित्याह--एवमित्यादि ।
शृङ्खलाक्रमेमागताः परस्परसम्बद्धाः ।
कुत इत्यत्राह--तथाहीति ।
पुनश्शब्दस्यायमेवाभिप्राय इति ।
ऽपुनरपरऽ इत्यत्र पुनश्शब्दः भाक्तमाहुस्तमन्ये ।
अन्ये तं ध्वनिसंज्ञितं काव्यात्मानं गुणवृत्तिरित्याहुः ।
लोचनम् पुस्तकेष्वित्यभिप्रायेम भाक्तमाहुरिति नित्याप्रवृत्तवर्तमानापेक्षयाभिधानम् ।
भज्यते सेव्यते तदार्थेन प्रसिद्धतयोत्प्रेक्ष्यत इति भक्तिर्धर्मो ऽभिधेयेन सामीप्यादिः, तत आगतो भाक्तो लाक्षणिको ऽर्थः ।
यदाहुः-- अभिधेयेन सामीप्यात्सारूप्यात्समवायतः ।
वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता ॥
इति ॥
बालप्रिया उक्तभिप्रायक एवेत्यर्थः ।
यदि पुनशशब्दस्य विशेषार्थकत्वं, तदा अपरे पुनरिति वक्तव्यं, तदपहाय पुनश्शब्दस्यादौ पाठः ।
प्रगुक्तप्रकारापेक्षमुत्तरस्यानन्तर्यन्दर्शयन् सम्बन्धमवगमयतीति भावः ।
सम्बन्धश्चावतारिकया दर्शितपूर्वः ।
ज्ञापकान्तररञ्चाह-उपेति ।
अन्योन्यासम्बद्धत्वे सति उपसंहारभेदेन भाव्यमिति भावः ।
ऽजगदुरित्याहुऽरिति च प्रयुक्तं तद्भावमाह-अभावेत्यादि ।
उक्तमिति ।
जगदुरित्यनेनेति शेषः ।
पुस्तकेषु अलङ्कारग्रन्थेषु ।
नित्येतिर् इश्वरो ऽस्तीत्यादिवदत्र नित्यप्रवृत्ते वर्तमाने लडित्यर्थः ।
ऽनित्यप्रवृत्तऽ इति भोजसूत्रम् ।
भाक्तशब्दस्यर्थं व्याख्यातुम्भक्तिशब्दस्य कर्मव्युत्पत्त्यार्तमाह--भज्यत इत्यादि ।
भञ्जव्यावृत्तये ऽर्थमाह--सेव्यत इति ।
केनेत्यत्राह--पदार्थेनेति ।
गङ्गादिपदलक्ष्यतीराद्यर्थेनेत्यर्थः. नन्वत्र पदार्थकर्तृकं सेवनन्नाम किमित्यत आह-उत्प्रेक्ष्यत इति ।
पदार्थेन प्रतीक्ष्यत इत्यर्थः ।
स्वबोधनिमित्तत्वेनाश्रीयत इति यावत् ।
अत्र हेतुः--प्रसिद्धतयेति ।
सामीप्यादेर्निमित्तत्वेन प्रसिद्ध्येत्यर्थः ।
यद्वा-पदार्थेन सेव्यत इत्युपचारेणोक्तम् ।
तेन च वक्तुः प्रतिपत्तुर्वा तीरादेर्गङ्गदिपदेन प्रतिपादने सामीप्यादेर्निमित्तत्वेन पर्यालोचनरूपं यदुत्प्रेक्षणन्तदत्र विवक्षितमित्याह-प्रसिद्धतयोत्प्रेक्ष्यत इति ।
वक्त्रा प्रतिपत्रा वेति शेषः ।
अभिधेयेन सामीप्यादिर्धर्म इति सम्बन्धः ।
तत आगतः सामीप्यादिनिमित्तात्प्रतीतः ।
स क इत्यत्राह--लाक्षणिक इति ।
लक्ष्य इत्यर्थः ।
अत्र संवादमाह-यदाहुरभिधेयेन सामीप्यादित्यादि ।
अस्यार्थः स्वयमेव वक्ष्यते ।
लोचनम् गुणसमुदायवृत्तेः शब्दस्यार्थभागस्तैक्ष्ण्यादिर्भक्तिः, तत आगतो गौणो ऽर्थो भाक्तः ।
भक्तिः प्रतिपाद्ये सामीप्यतैक्ष्ण्यादौ श्रद्धातिसयः, तां प्रयोजनत्वेनोद्दिश्य तत बालप्रिया गौणार्थस्याप्युक्तरीत्यैव लाभे ऽपि तल्लाभः प्रकारान्तरेणापि वक्तव्य इत्याशयेनाहगुणेति ।
गुणसमुदाये वृत्तिर्यस्य, तस्य गुणसमुदायं प्रतिपादयत इत्यर्थः ।
शब्दस्येति ।
सिंहादिशब्दस्येत्यर्थः ।
सिंहादिशब्दा हि सिंहत्वादिजातिं तद्विशिष्टव्यक्ति वा अभिदधाना अपि स्वार्थाविनाभूतान् शौर्यादिगुणानप्याक्षेपात्प्रतिपादयन्तीति भावः ।
अर्थभागः गुणसमुदायात्मकार्थैकदेशः ।
तैक्ष्ण्यादिः शौर्यादिः ।
सिंहो माणवकैत्यादौ शौर्यादेर्गुणैकदेशस्यैव प्रतीतिरिति भावः ।
केचित्तु-गुणसमुदायवृत्तेरित्यास्य गुणाद्वारा समुदाये गुणिनि मामवकादौ वृत्तिर्यस्य तस्येत्यर्थमाहुः ।
तत इति ।
तैक्ष्ण्यादेरित्यर्थः ।
सारूप्यान्निमिततादिति यावत् ।
अथ भक्तिशब्दस्य भावव्युत्पत्त्याप्यर्थमाह-भक्तिरित्यादि ।
प्रतिपाद्ये बोधनीये ।
सामीप्यतैक्ष्ण्यादाविति ।
ननु गङ्गायां घोष इत्यादिस्तले लक्ष्यतीरादौ गङ्गागतपावनत्वादिकमेव प्रतिपाद्यं, न तु सामीप्यादि ।
एवं सिंहो माणवक इत्यादौ माणवकादौ सिंहादिताद्रूप्यं पराक्रमातिशयादिकं वा ।
स्पष्टमिदं काव्यप्रकाशादौ ।
वक्ष्यते चैवमुपरि लोचने ।
तथा च सामीप्यतैक्षण्यादावित्युक्तिः कथं सङ्गच्छत इति चेत्; अत्र केचित्-पाठो ऽयं लेखकप्रमादागतः पावनत्वादावित्येव पठनीयमिति ।
परे तु-सामीप्यादेः परम्परया प्रयोजनसाधनत्वत्सामीप्यपदेन पावनत्वादिकं तैक्ष्ण्यपदेन सिंहताद्रूप्यादिकञ्च लक्षणयाविवक्षितमतो नासङ्गतिरित्याहुः ।
अद्धातिशय इति ।
श्रद्धा वक्तुर्मनसा भजनमनुसन्धानात्मकं, तस्या अतिशय इत्यर्थः ।
तामिति ।
तद्विषयभूतं पावनत्वादिकमित्यार्थः ।
यद्वा-अद्धातिशयः प्रतिपत्तुः प्रतीतिविशेषः ।
तामिति ।
श्रद्धातिशयरूपभक्तेरित्यर्थः ।
आगतः प्रयुक्तः ।
लाक्षणिकश्चेति ।
शब्द इति शेषः ।
व्युत्पत्तेरभेदे ऽपि प्रकृतिभेदेनार्थान्तरमाह मुख्यस्य चेति ।
भङ्गो भक्तिरिति ।
भञ्जिदातोः क्तिन्निति भावः ।
इतीत्यनन्तरं तत आगतो भाक्त इत्यानुषङ्गः ।
आगतः प्रतीतः ।
कथितव्याख्याप्रकारस्य फलमाह-एवमित्यादि ।
लोचनम् आगतो भाक्त इति गौणो लाक्षणिकश्च ।
मुख्यस्य चार्थस्य भङ्गो भक्तिरित्येवं मुख्यार्थबाधा, निमित्तं, प्रयोजनमिति त्रयसद्भाव उपचारबीजमित्युक्तं भवति ।
काव्यात्मानं गुणवृत्तिरिति ।
सामानाधिकरण्यस्यायं भावः--यद्यप्यविवक्षितवाच्ये ध्वनिभेदे ऽनिःश्वासान्ध इवादर्शःऽइत्यादावुपचारो ऽस्ति, तथापि न तात्मैव ध्वनिः, तह्यतिरेकेणापि भावत्, विवक्षितान्यपरवाच्यप्रभेदादौ अविवक्षितवाच्ये ऽप्युपचार एव, न ध्वनिरिति वक्ष्यामः ।
तथा च वक्ष्यति--
भक्त्या बिभर्ति नैकत्वं रूपभेदादयं ध्वनिः ।
अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तथा ॥
इति ।
. ।
कस्यचिद्ध्वनिभेदस्य सा तु स्यादुपलक्षणम् ।
इति च ।
बालप्रिया भङ्गर्थव्याख्यानस्य मुख्यार्थबाधारूपबीजसिद्धिः, सेवनरूपार्थव्याख्यानस्य निमित्तसिद्धिः, श्रद्धातिशयार्थव्याख्यानस्य प्रयोजनसिद्धिश्च फलमिति भावः ।
त्रयशब्देन सम्भूयैव बीजत्वमिति दर्शयति-उपचारबीजमिति ।
उपचारो नाम लक्षणा गौणी च ।
लक्षणया गौण्या च व्यवहारः ।
लक्ष्यगौणार्थबोधो वा ।
उपचारो नामान्यत्र अन्यावाप इति केचित् ।
ननु ध्वनिर्नाम गुणवृत्तिव्यातिरेकी नास्तीति वक्तव्ये सामानाधिकरण्येन निर्देशस्य को ऽभिप्राय इत्यत आह-सामानाधिकरण्यस्येति ।
ऽतं भाक्तम्ऽ इति मूले ऽध्वनिसंज्ञितम्ऽ इत्यादिना वृत्तौ च सामानाधिकरण्येन निर्देशस्येत्यर्थः ।
अस्मिन् पक्षे काव्यात्मानमित्यादिप्रतीकधारणन्नेति बोध्यम् ।
पदयोस्सामानाधिकरण्यन्नामैकधर्मिबोधकत्वम् ।
अयं भाव इति ।
ध्वनिगुणवृत्त्योस्तादात्मयमेव ध्वनिवादिभिर्न्निरसनीयं, न तु ध्वनेरसर्वथोपचारस्पर्शित्वमपीत्यमुमर्थन्द्योतयितुं सिद्धान्तविरुद्धतादात्म्यपक्षोपक्षेपार्थो ऽयं सामानादिकरण्येन निर्देश इति भाव इत्यर्थः ।
तमेव भावं विवृणोति-यद्यपीत्यादि ।
उपचार इति ।
गुणवृत्तिरित्यर्थः ।
तदात्मा उपचारात्मा ।
तद्व्यतिरेकेणापि उपचारं विनापि ।
भावात् ध्वनेस्सत्वात् ।
कुत्रेत्यत आह-विवक्षितान्यपर वाच्यप्रभेदादाविति ।
अविवक्षितवाच्य इति ।
अविवक्षितवाच्यध्वनावित्यर्थः ।
वक्ष्याम इति ।
रामो ऽस्मीत्यादाविति भावः ।
वक्ष्यतीति ।
मूलकार इति शेषः. वृत्तौ ऽगुमवृत्तिरिऽति भाक्तशब्दस्य व्याख्यानं तत्पदेन प्रकृते विवक्षितानर्थान्विवृणोति--गुणा इत्यादिना ।
उपायैः निमित्तैः ।
यद्यपि च ध्वनिशब्दसंकीर्तनेन काव्यलक्षणविधायिभिर्गुणवृत्तिरन्यो वा न कश्चित्प्रकारः प्रकाशितः, तथापि अमुख्यवृत्त्या काव्येषु व्यावहारं लोचनम् गुणाः सामीप्यादयो धर्मास्तैक्ष्ण्यादयश्च ।
तैरुपायैर्वृत्तिरर्थोन्तरे यस्य, तैरुपायेर्वृत्तिर्वा शब्दस्य यत्र स गुणवृत्ति- शब्दो ऽर्थो वा ।
गुमद्वारेम वा वर्तनं गुणवृत्तिरमुख्यो ऽभिदाव्यापारः ।
एतदुक्तं भवति--ध्वनतीति वा, ध्वन्यत इति वा, ध्वननमिति वा यदि ध्वनिः, तथाप्युपचरितशब्दार्थव्यापारातिरिक्तो नासौ कश्चित् ।
मुख्यार्थे ह्यभिधैवेति पारिशेष्यादमुख्य एव ध्वनः, तृतीयराश्यभावात् ।
ननु केनैतदुक्तं द्वनिर्गुणवृत्तिरित्यासङ्क्याह--यद्यपि चेति ।
अन्यो वेति ।
बालप्रिया अर्थान्तरे तीरादौ माणवकादौ च ।
यस्य गङ्गादिसिंहादिशब्दस्य ।
यत्रेति ।
तीराद्यर्थे इत्यर्थः ।
गुणद्वारेणा सामीप्यतैक्ष्ण्यादिद्वारेण ।
वर्तनमिति वृत्तिशब्दार्थविवरणम् ।
पर्यवसितमाह--अमुख्य इति ।
अमुख्य इत्यनेन लक्षणागौण्यर्द्वयोर्ग्रहणम् ।
किं तत इत्यत आह--एतदित्यादि ।
उपचरितेति ।
गुणवृत्तिशब्दप्रतिपाद्येभ्यः शब्दार्थव्यापारेभ्यो ऽतिरिक्त इत्यर्थः ।
असौ कश्चित् ध्वनिर्नाम कश्चित् ।
ननु यदि ध्वन्यभावाभिप्रायेण ध्वनेर्गुणवृत्यभेदः साध्यते, तर्ह्यभिधाया अभेदो ऽपि साध्यतामित्यात्राह-मुख्यार्थ इति ।
एवकारेण नात्र ध्वननस्य सम्भावनापीति दर्शयति ।
फलितमाह-इतीति ।
पारिशेष्यादिति ।
शिष्यमाणे संप्रत्ययः परिशेषः, स एव पारिशेष्यम्, तस्मादित्यर्थः ।
अमुख्य एव गुणवृत्तिरेव ।
अत्र हेतुः-तृतीयेति ।
वाचकवाच्याभिधारूपः प्रथमो राशिः, लक्षकलक्ष्यलक्षणारूपो द्वितीयः, व्यञ्जकव्यङ्ग्यव्यञ्जानरूपस्तृतीयो भवदभिमतः, तस्याभावादित्यर्थः ।
तथा च ध्वनिर्नाम गुणवृत्तिरेव, अमुख्यत्वादिति फलितम् ।
नन्वित्यादि ।
इति शब्दस्योभयत्र सम्बन्धः ।
इति केनोक्तं इत्याशङ्क्याहेति ।
ऽयद्यपीऽत्यादिना शङ्कां कृत्वा ऽततापीऽत्यादिना समाधानमाह इत्यर्थः ।
वृत्तौ ऽअन्यो वेऽत्यात्र गुणवृत्तेर्न्यो मुख्य इत्यर्थभ्रमः स्यादतो व्याचष्ट-गुणोति ।
वाशब्दो दृष्टान्तार्थः ।
यथा अभाववादिभिर्ध्वनिर्गुणालङ्कारप्रकार इति नोक्तं, तथा भाक्तवादिभिरिपि ध्वनिर्गुणवृत्तिरिति कण्ठतो नोक्तमित्यर्थः ।
दर्शयता ध्वनिमार्गौ मनाक्स्पृष्टो ऽपि न लक्षित इति परिक्ल्प्यैवमुक्तम्-ऽभाक्तमाहुस्तमन्येऽ इति ।
लोचनम् गुणालङ्कारप्रकार इति यावत् ।
दर्शयतेति ।
भट्टोट्भटवामनादिना ।
भामहेनोक्तं--ऽशब्दाश्छन्दोभिदानार्थाःऽ इति अभिधानस्य शब्दाद्भेदं व्याख्यातुं भट्टोद्भटो बभाषे--ऽशब्दानाभिधानमभिधाव्यापारो मुख्यो गुणवृतिश्चऽ इति ।
वामनो ऽपि ऽसाद्दश्याल्लक्षणा वक्रोक्तिःऽ इति ।
मनाक्स्पृष्ट इति ।
तैस्तावद्ध्वनिदिगुन्मीलिता, यथालिशितपाठकैस्तु बालप्रिया दर्शयतेऽति मनाक् स्पर्शे हेतुः ।
अत्रैकवचनं सामान्यामिप्रायकम् ।
अनेन काव्यलक्षणविधायिन एव विवक्षिता इत्याशयेन पूरयति-भट्टेत्यादि ।
क्रमेण तद्वचने दर्शयति-भामहेनेत्यादि "इतिहासाश्रयाः कथाः ।
लोकोयुक्तिः कलाश्चेति मन्तव्याः काव्यहेतवः" इति शिष्टं पादत्रयम् ।
इत्युक्तमित्यन्वयः ।
ततः किमित्यत आह-अभिधानस्येति ।
अत्रेति शेषः ।
वामनो ऽपीति बभाषे इत्यानुषङ्गः ।
सादृश्यादिति ।
वक्रोक्तिः तन्नामालङ्कारः ।
तथा चाऽभिधानम्ऽ इति वचनेन भामहो ऽगुणवृत्तिऽरिति वचनेन भट्टोट्भटो ऽलक्षणेऽति वचनेन वामनश्च काव्येषु गुणवृत्या व्यवहारं दर्शितवन्त इति फलितार्थः ।
ऽध्वनिमार्गो मनाक् स्पृष्टो ऽपि न लक्षितः ऽइत्यमुं भागं पूर्वंपक्षोपक्षेपानुगुण्येन व्याचष्टे-तैस्तावदित्यादि ।
सम्प्रतिपत्तौ तावच्छब्दः ।
ऽध्वनिमार्गो मनाक्स्पृष्टऽ इत्यस्य विवरणं-ध्वनिदिगुन्मीलितेति ।
गुणवृत्तेः प्रयोजनाविनाभावात्प्रयोजनस्य च वक्ष्यमाणविधया व्यञ्जनव्यापारैकगोचरत्वच्च गुणवृत्या व्यचवहारं दर्शयद्भिरेव भामहभट्टोद्भटादिभिः ध्वनेर्गमकं प्रदर्शितमित्यर्थः ।
तैर्ध्वनिमार्गस्य स्पर्शे ऽपि लक्षणकरणेन पृथक् तत्स्वरूपस्यानिरूपणाद्गुणवृत्तिरेव ध्वनिः, न तदतिरिक्त इति तदुक्तिमर्थसिद्धामुपजीव्येदं भाक्तवादप्रस्थानं प्रवृत्तमित्याह- यथालिखितेत्यादि ।
तु शब्दः परन्त्वित्यर्थे . न लक्षित इत्यास्य व्याख्यानम्--तत्स्वरूपविवेको न कृत इति ।
केचित्पुनर्लक्षणकरणशालीनबुद्धयो ध्वनेस्तत्त्वं गिरामगोचरं सहृदयहृदयसंवेद्यमेव समाक्यातवन्तः ।
तेनेवंविधासु विमतिषु स्थितासु सहृदयमनःप्रीतये लोचनम् स्वरूपविवेकं कर्तुमशक्नुवद्भिस्तत्स्वरूपविवेको न कृतः, प्रत्युतोपालभ्यते, अभग्रनारिकेलवत् यथाश्रुततद्ग्रन्थोद्ग्रहणमात्रेणेति ।
अत एवाह--परिकल्प्यैवमुक्तमिति ।
यद्येवं न योज्यते तदा ध्वनिमार्गः स्पृष्ट इति पूर्वपक्षाभिधानं विरुध्यते ।
शालीनबुद्धय इति ।
अप्रगल्भमतय इत्यर्थः ।
एते च त्रय उत्तरोत्तरं भव्यबुद्धयः ।
बालप्रिया अत्र हेतुः-स्वरूपविवेकं कर्तुमसक्नुवद्भिरिति ।
तैरित्यनुषङ्गः ।
अशक्तौ हेतुर्यर्थत्यादि ।
लेखनानतिक्रमेण लक्ष्यभूतानि ध्वनिकाव्ययानि पठितवद्भिरित्यर्थः ।
यद्वा-यथेत्युपमायां लिखितपाठकैरिवेत्यर्थः ।
अविशेषज्ञैरित यावत् ।
न केवलं ध्वनिस्वरूपविवेकाकरणमेव, विवेचनर्हतत्स्वरूपापलापश्चेत्याह-प्रत्युतेत्यादि ।
उपालभ्यते प्रतिक्षिप्यते ।
तैरित्यनुषङ्गः ।
ध्वनिरिति शेषः ।
उपालम्भो ऽयं भामहादीनामनुमेयो, भट्टोटभग्रन्थटीकाकारादीनां तु प्रत्यक्षः ।
अभग्नानारिकेलवदिति ।
षष्ट्यन्ताद्वतिः ।
उद्ग्रहणमित्यनेनास्य सम्बन्धः ।
उपालम्भे हेतुं दर्शयति-यथाश्रुतेति ।
यथाश्रुतं विचारं विना यत्तद्ग्रन्थानां लक्ष्यभूतानां ध्नियुक्तकाव्यग्रन्थानामुद्ग्रहणं धारणं तन्मात्रेणेत्यर्थः ।
ऽअभग्ननारिकेलकल्पयथाश्रुतेऽति च पाठः ।
अत एवेति ।
उक्तार्थाभिप्रायादेवेत्यर्थः ।
वृत्तौ ऽइतीऽति हेतौ ।
ऽइति परिकल्प्येऽत्यादेरयमर्थः--यतो भट्टोट्भटादिभिर्ध्वनिमार्गस्पर्शमात्रं कृतं, न तु ध्वनिस्वरूपविवेचनं, प्रत्युत तदुपालम्भश्च, ततो हेतोर्भक्तिरेव ध्वनिर्न तदतिरिक्त इति तदभिप्रायमुक्तिपर्यन्तं कल्पयित्वा ऽभाक्तमाहुस्तमन्येऽ इत्युक्तमिति ।
ननु ऽध्वनमार्गऽ इत्यादिग्रन्थः किमर्थमेवं व्याख्यातः? ध्वनेर्मार्गः-मृग्यते ऽन्विष्यते विचार्यते इति मार्गः अविवक्षितवाच्यलक्षणो भेदः स्पृष्टः ज्ञात इति कुतो न व्याख्यात इत्यत आह--यद्येवमित्यादि ।
विरुध्यत इति ।
ध्वन्यवान्तरभेदस्य ज्ञाने सति गुणवृत्तिरेव ध्वनिर्न तदतिरिक्त इति वचनमसङ्गतं भवेदित्यर्थः ।
यद्वा-ननु ऽन लक्षितऽ इति ग्रन्थो न दृष्ट इति यथाश्रुतार्थपरतया कुतो न व्याख्यात इत्यत आह--यद्येवमित्यादि ।
ऽन लक्षितऽ इति ग्रन्थ इति शेषः ।
विरुध्यत इति ।
ध्वनेः स्पृष्टत्वस्याद्दष्टत्वस्य च वचनं विरुद्धं स्यादित्यर्थः ।
विप्रतिपत्तिप्रकाराणामेषामुक्तौ क्रमो विवक्षित इत्याह--एत इत्यादि ।
अभाववादित्रयमेकीकृत्य त्रय इत्युक्तिः ।
भव्यबुद्धयः सद्बुद्धयः ।
भव्यबुद्धित्वं विविच्य दर्शयति--प्राच्या इत्यादि ।
प्रच्याः अभाववादिनः ।
सर्वथा प्रकारत्रयेणापि ।
तत्स्वरूपं ब्रूमः ।
लोचनम् प्राच्या हि विपर्यस्ता एव सर्वथा ।
मध्यमास्तु तद्रूपं जानाना अपि सन्दहेनापह्नुवते ।
अन्त्यास्त्वनपह्नुवाना अपि लक्षयितुं न जानत इति क्रमेण विषर्याससन्देहाज्ञानाप्राधान्यमेतेषाम् ।
तेनेति ।
एकैको ऽप्ययं विप्रतिपत्तिरूपो वाक्यार्थो निरूपणे हेतुत्वं प्रतिपद्यत इत्येकवचनम् ।
एवंविधासु विमतिष्विति निर्धारणे सप्तमी ।
आसु मध्ये एको ऽपि यो विमतिप्रकारस्तेनैव हेतुनातत्स्वरूपंब्रूम इति, ध्वनिस्वरूपमभिधेयम्, अभिदानाभिधेयलक्षणो बालप्रिया विपर्यस्ताः देहात्मवादिचार्वाका इव विपर्ययज्ञानयुक्ताः ।
मध्यमाः भाक्तवादिनः ।
तुशब्दः पूर्वेभ्यो विशेषं द्योतयति, तमाह--तद्रूपं जानाना अपीति ।
सम्मुग्धतया यत्किञ्जिदस्ति वाच्यातिरिक्तमिति तद्रूपं जानन्तो ऽपीत्यर्थः ।
सन्दहेन मुख्यगुणवृत्तिव्यतिरिक्तव्यापारस्य अस्तित्वनास्तित्वाभ्यां सन्देहेन अपह्नुवते ।
ऽनिह्नुवतऽ इति च पाठः ।
अनपह्नुवाना इति ।
तद्रूपमित्यनुषङ्गः ।
ऽअनिह्नुवानाऽ इति च पाठः ।
लक्षयितुमिति ।
ध्वनिमिति शेषः ।
फलितमाह--इतीति ।
विपर्यासस्या ध्वनिस्वरूपजिज्ञासां प्रति प्रतिबन्धकत्वं, सन्देहस्य त्वनुकूलत्वलमतस्तद्वतोः पूर्वापेक्षयोत्तरस्योत्कर्षः ।
अन्त्यस्य तु लक्षणकरणमात्रविषयकाज्ञानम् ।
तस्य सुखोच्छेद्यत्वादुभयापेक्षयाप्युत्कर्ष इति भावः ।
एकैको ऽपीति ।
किमुत त्रय इत्यपिशब्दार्थः ।
इत्येकवचनमिति ।
ऽतेनेऽत्यत्र तत्पदेन पूर्ववाक्यत्रयार्थाः परामृश्यन्ते ।
तृतीयया तेषां ध्वनिस्वरूपवचने हेतुत्वमुच्यते ।
एकवचनेन तु तेषां प्रत्येकं हेतुत्वमस्तीति बोध्यत इति भावः ।
उक्तर्थानुगुणं वृत्तिं विवृणाति-एवमित्यादि ।
निर्धारणे सप्तमीति ।
न तु भावलक्षणे सप्तमीति भावः ।
निर्धारणं प्रकटयन्नाह-आस्वित्यादि ।
वृत्तौ ऽतेनेऽत्यस्य व्याख्यानं ऽएवम्ऽ इत्यादि ऽस्थितास्विऽत्यन्तम् ।
तत्र एकेनापीति पूरणीयमित्याशयेनाह-एको ऽपीत्यादि ।
ऽतस्याभावं जगदुःऽ ऽतेन तत्स्वरूपं ब्रूमः ऽभाक्तमाहुःऽ तस्यहि ध्वनेः स्वरूपं सकलसत्कविकाव्योपनिषद्भूतमतिरमणीयमणीयसीभिरपि चिरन्तनकाव्यलक्षणविधायिनां बुद्धिभिरनुन्मीलितपूर्वम्, लोचनम् ध्वनिशास्त्रयोर्वक्तृश्रोत्रोर्व्युत्पाद्यव्युत्पादकभावः सम्बन्धः, विमितिनिवृत्त्या तत्स्वरूपज्ञानं प्रयोजनम्, शास्त्रप्रयोजनयोः साध्यसाधनभावस्सम्बन्ध इत्युक्तम् ।
अथ श्रोतृगतप्रयोजनप्रयोजनप्रतिपादकं ऽसहृदयमनःप्रीतयेऽ इति भागं व्याख्यातुमाह-तस्य हीति ।
विमतिपदपतितस्येत्यर्थः ।
ध्वनेः स्वरूपं लक्षयतां सम्बन्धिनि बालप्रिया ऽतेन ब्रूमःऽ ऽकेचिदूचुःऽ तेन ब्रूमःऽ इति पृथक् पृतक् योजना लभ्यत इति भावः ।
अवतारिकोक्तरीत्या ऽतेन तत्स्वरूपं ब्रूमऽ इत्यनेन प्रदर्शितमभिधेयादिकं श्रोतृप्रवृत्त्यङ्गं प्रसङ्गाद्दर्शयति-ध्वनिस्वरूपमित्यादि ।
अभिधानाभिधेयलक्षण इति ।
अभिधायकाभिधेयभावस्वरूप इत्यार्थः ।
अत्र व्युत्क्रमेम निर्देशः ।
एवमुपर्यपि बोध्यम् ।
प्रतिपाद्यप्रतिपादकभाव इत् यावत् ।
सम्बन्ध इत्यनेनान्वयः ।
व्युत्पाद्येति ।
व्युत्पादकव्युत्पाद्यभाव इत्यर्थः ।
विमतिनिवृत्त्येति ।
ध्वनिस्वरूपविषयकविमतिनिवृत्त्या सहितमित्यर्थः ।
विप्रतिपत्त्युपन्यासपूर्वकं ऽतेन ब्रूमऽ इत्युक्त्या विमतिनिवृत्तेः प्रयोजनत्वं लभ्यत इति भावः ।
प्रयोजनमिति ।
तत्स्वरूपवचनस्य प्रयोजनमित्यर्थः ।
साध्येति ।
साधनसाद्यबाव इत्यर्थः ।
इत्युक्तमिति ।
तेन ऽतत्स्वरूपं ब्रूमऽ इत्यनेनोक्तार्थाः प्रदर्शिता इत्यार्थः ।
अथेत्यादि ।
ओतृगतेति ।
श्रोतृगतं प्रयोजनं पूर्वेक्तं विमतिनिवृत्त्या सह ध्वनिस्वरूपज्ञानं. तस्य यत्प्रयोजनं प्रीतिरूपं तत्प्रतिपादकमित्यर्थः ।
ऽलक्षयताऽमित्यादिभागस्यैव ऽसहृदयेऽत्याद्यंशव्याख्यारूपत्वादवशिष्टस्य तच्छेषत्वाच्च व्याख्यातुमाहे त्युक्तं, न तु व्याचष्ट इति ।
तच्छब्दस्य प्रकरणसिद्धमर्थमाह-विमतीति ।
व्यवहितत्वेनान्वयं दर्शयन् व्याचष्टे-ध्वनेरित्यादि ।
वृत्तौ ऽआनन्दऽ इति प्रीतिपदार्थकथनम् ।
लोचनम् मनसि आनन्दो निर्वृत्यात्मा चमत्कारापरपर्यायः, प्रतिष्टां परैर्विपर्यासाद्युपहतैरनुन्मूल्यमानत्वेन स्थेमानं, लभतामिति प्रयोजनं सम्पादयितुं तत्स्वरूपं प्रकाश्यत इति बालप्रिया तेनात्र विवक्षितमाह--निर्वृत्त्यात्मेति ।
ननु हेत्वन्तरप्रापिताप्रतिष्टत्व एव ऽप्रतिष्टां लभताम्ऽ इत्युक्तेः प्रसक्तिरित्यत आह-परैरित्यादि ।
परैः अभाववाद्यादिभिः ।
विपर्यासादीत्यादिपदेन सन्देहलक्षणकरणाज्ञानयोः सङ्ग्रहः ।
अनुन्मल्यमानत्वेन अनुच्छिद्यमानत्वेन ।
यथा परैरुच्छिद्यमानो न भवति तथेत्यर्थः ।
प्रतिष्टापदविवरणम्--स्थेमानमिति ।
स्थिरतया वर्तमानमित्यर्थः ।
ऽलभतामितीऽति वृत्तिस्थेनेतिपदेन गम्यमानमर्थमाग--इति प्रयोजनं सम्पादयितुमिति ।
कारिकायां ऽप्रीतयेऽ इत्यत्रप्रीतिं सम्पादयितुमित्यर्थे ऽक्रियार्थेऽ त्यादिसूत्रेण चतुर्थीति भावः ।
ऽध्वनेः स्वरूपऽमित्यस्य ऽलक्षयताऽमित्येतत्कर्मतया, ऽप्रकाश्यतऽ इत्यत्र प्रथमान्ततया तदनुषङ्गं दर्शयन्नाह--तत्स्वरूपमिति ।
सङ्गतिरिति ।
सम्बन्ध इत्यर्थः ।
अत्र ऽतेन तत्त्वरूपं ब्रूमऽ इत्युक्त्या विमितिनिवृत्तेस्तत्स्वरूपवचनप्रयोजनत्वं यद्यपि लभ्यते, तथापि तस्याः न मुख्यप्रयोजनत्वम्, किन्तु प्रीतेरेव ।
सा तु प्रीतेरङ्गमित्येतत्परऽस्तेनेऽत्यादिचतुर्थपाद लोचनम् सङ्गतिः ।
प्रयोजनं च नाम तत्सम्पादकवस्तुप्रयोक्तृतापाराणतयैव तथा भवतीत्याशयेन ऽप्रीतये तत्स्वरूपं ब्रूमऽ इत्येकवाक्यतया व्याख्येयम् ।
तत्स्वरूपशब्दं व्याचक्षाणः संक्षेपेण तावत्पूर्वोदीरितविकल्पपञ्चकोद्धरणं सूचयति-सकलेत्यादिना ।
सकलशब्देन सत्कविशब्देन च प्रकारलेसे कस्मिंश्चिदिति निराकरोति ।
अतिरमणीयमिति भाक्ताद्व्यतिरेकमाह ।
न हि ऽसिंहो बटुःऽ ऽगङ्गायां घोषःऽ इत्यत्र रम्यता काचित् ।
उपनिषद्भूतशब्देन तु अपूर्वसमाख्यामात्रकरण इत्यादि निराकृतम् ।
अणीयसीभिरित्यादिना गुणालङ्कारानन्तर्भूतत्वं सूचयति ।
अथ चेत्यादिना ऽतत्समयान्तःपातिनऽ बालप्रिया इत्यमुमर्थ प्रयोजनपदार्थनिर्वचनपूर्वकं प्रदर्शयति-प्रयोजनञ्चेत्यादि ।
तदिति ।
तस्य प्रयोजनस्य सम्पादकं यद्वस्तु तस्य, तत्प्रतीति यावत् ।
या प्रयोक्तृता प्रयोजकता, सा प्राणो यस्य तद्भावेनैव तत्प्रेरकत्वस्वभावशालितयैवेति यावत् ।
तथा प्रयोजनम् ।
भवतीति ।
ऽभातीऽति च पाठः ।
नामेति प्रसिद्धौ ।
अनेन प्रयुङ्क्ते प्रेरयतीति प्रयोजनपदव्युत्पत्तिर्दर्शिता ।
इत्याशयेनेति ।
अत्र विमतिनिवृत्तेः न ध्वनिस्वरूपवचनप्रयोजकता, तज्ज्ञानवत्तस्याः स्वयमपुरुषार्थत्वात् ।
किन्तु प्रीतेरेवेति सैव तस्य मुख्यं प्रयोजनम् ।
विमतिनिवृत्तिस्तु तदङ्गमेवेत्यभिप्रायेणेत्यर्थः ।
इत्येकवक्यतयेति ।
इत्येवंविधविशिष्टैकार्थप्रतिपादकतयेत्यर्थः ।
व्याख्येयमिति ।
व्याख्यातव्यमित्यर्थः ।
अतस्तथा तन्मूलं वृत्तिकृता व्याख्यातमिति विमतिनिवृत्तेरपि मुख्यप्रयोजनत्वसम्भवे ऽतेन तत्स्वरूपं ब्रूमःऽ ऽसहृदयमनःप्रीतये ततत्स्वरूपं मूःऽ इति च व्याख्येयतया वाक्यभेदः स्यादिति च भावः ।
यद्वा-व्याख्येयमित्यत्र व्याख्या इयमिति छेदः ।
इयं व्याख्या वृत्तिकृतो व्याख्या ।
इत्येकवाक्यतया इत्यस्य या एकवाक्यता तत्प्रदर्शिकेत्यर्थः ॥
ऽसकलेऽत्यादिध्वनिस्वरूपविशेषणप्रयोजन.ं दर्शयति--तत्स्वरूपशब्दमित्यादिना ।
संक्षेपेणेति ।
उत्तरत्र विस्तरेण करिष्यति ।
संक्षेपेण विस्तरेण च प्रतिक्षेपम् ।
इति निराकरोतीति ।
यतः सकलशब्देन निखिलविषयव्याप्तत्वं सत्कविशब्देन प्रमाणसिद्धत्वात्प्राधान्यं चोक्तं, तस्मादखिलकाव्यविषयव्याप्त्यमावकृतमप्राधान्यकृतं वा प्रकारलेशत्वं निराकृतमित्यर्थ ।
व्यतिरेकं वैलक्षण्यम् ।
नहीति ।
पराक्रमातिशयादिव्यङ्ग्यसद्भावे ऽपि तयोर्वाक्ययोर्गुणालङ्कारोपस्कृतशब्दार्थत्मककाव्यत्वाभावान्नात्यन्तरमणीयतेत्यर्थः ।
उपनिषद्भूतेति ।
काव्यतत्त्वानभिज्ञैर्दुर्ज्ञेयत्वादतिरहस्यभूतेत्यर्थः ।
अनेन सर्वोत्कृष्टत्वप्रदर्शनात्समाख्यामात्रत्वस्य निरासः सूचित इत्यह--उपनिषदित्यादि ।
सूचयतीति ।
वृत्तौ ऽअणीयसीभिरपीऽति ।
सूक्ष्मतराभिरतिनिशिताभिरपीत्यर्थः ।
ताद्दशीभिर्बुद्धिभिरप्रकाशितपूर्वस्य कथं स्थूलबुद्धिसंवेद्यगुणाद्यन्तर्भूतत्वमिति भावः ।
अथ च रामायणमहाभारतप्रभृतिनि लक्ष्ये सर्वत्र प्रसिद्धव्यवहारं लक्षयतां सहृदयानामानन्दो मनसि लभतां प्रतिष्ठामिति प्रकाश्यते
लोचनम् इत्यादिना यस्सामयिकत्वं शङ्कितं तन्निरवकाशीकरोति ।
रामायणमहाभारतशब्देनादिकवेः प्रभृति सर्वैरेव सूरिभिरस्यादरः कृत इति दर्शयति ।
लक्षयतामित्यनेन वाचां स्थितमविषय इति परास्यति ।
लक्ष्यते ऽनेनेति लक्षो लक्षणम् ।
लक्षेम विरूपयन्ति लक्षयन्ति, तेषां लक्षणद्वारेण निरूपयतामितयर्थः ।
सहृदयानामिति ।
येषां काव्यानुशीलनाभ्यासवशाद्विशदीभूते मनोमुकुरे वर्णनीयतन्मयीभवनयोग्यता ते स्वहृदयसंवादभाजः बालप्रिया अनेनाद्याभाववादो निराकृतः ।
इति परास्यतीति ।
ऽतत्स्वरूपं ब्रूमऽ इत्यस्य लक्षणप्रदर्शनेन ध्वनिस्वरूपं प्रकाशयाम इति स्वल्वर्थः ॥
ततश्चेह प्रदर्शितलक्षणद्वारा सहृदयानां ध्वनेर्निरूपणं भवति ।
एवं चोक्तनिरासः सिध्यतीति भावः ।
निर्वचनपूर्वकमुक्तभूपपादयति-लक्ष्यत इत्यादि ।
इति लक्षो लक्षणमिति ।
लक्षशब्दः करणघञन्त इति भावः ।
लक्षेणेति ।
लक्षशब्दात् "प्रातिपदिकाद्धात्वर्थऽ इत्यनेन निरूपणार्थे णिजिति भावः ।
अप्रसिद्धार्थकत्वात्सहृदयपदं व्याचष्टे-येषामित्यादि ।
काव्यानामुनुशीलनं शब्दपाठो ऽर्थानुसन्धानं च ।
तस्य अभ्यासः पौनःपुन्यं तद्वशात् ।
विशादीति ।
विशदीभावो रसावेशैन्मुख्यम् ।
मनसौ मुकुररूपणेन स्वतो वैशद्ये ऽपि संस्कारवशादतिरेकः प्रकाश्यते ।
वर्णनीयेति ।
वर्णनीयं नायकादिविभावादि ।
तन्मयीभवनस्य तत्तादात्म्यापत्तिरूपस्य योग्यता सामर्थ्यमित्यरथः ।
ऽते सहृदयाऽ इति सम्बन्धः ।
उच्यन्त इति शेषः ।
अनेन रूढिर्दर्सिता ।
योगमप्याह-स्वेति ।
स्वहृदयमेव संवादः संवादकप्रमाणं, तद्भाजः विमलतरेण हृदयेन सहवर्तन्त इत्यवयवार्थः ।
यद्वा-स्वस्मिन् कविहृदयं संवादकत्वेन भजन्तीति तथा ।
अस्मन् पक्षे समानं हृदयं येषामिति बहुव्रीहिरिति भावः ।
लोचनम् सहृदयाः ।
यथोक्तम्-- यो ऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः ।
शरीरं व्याप्यते तेन शुष्कं काष्टमिवाग्रिना ॥
इति ॥
आनन्द इति ।
रसचर्वणात्मनः प्राधान्यं दर्सयन् रसध्वनेरेव सर्वत्र मुख्यभूतमात्मत्वमिति दर्शयति ।
तेन यदुक्तम्--- धनिर्नामापरो यो ऽपि व्यापारो व्यञ्जनात्मकः ।
तस्य सिद्धे ऽपि भेदे स्यात्कर्व्ये ऽशतेवं न रूपता ॥
इत्.इ पदपहस्तितं भवति ।
तथा ह्यभिधाभावनारसचर्वणात्मके ऽपि त्र्यंशे काव्ये रसचर्वणा तावज्जीवितभूतेति भवतो ऽप्यविवादो ऽस्ति ।
यथोक्तं त्वयैव-- काव्ये रसयिता सर्वो न बोद्धा न नियोगभाक्त् ।
इति ।
बालप्रिया उक्तार्थे प्रमाणमाह-यथोक्तमिति ।
यो ऽर्थ इति ।
यः हृदयसंवादी स्वहृदयेन तन्मयीभवनलक्षणसंवादशीलः, तद्विषयः सहृदयश्लाध्यो विभावादिलक्षणो ऽर्थः ।
तस्य भावः ।
भावना निरन्तरचर्वणा ।
रसोद्भवः चर्वणाप्राणस्य रकस्याभिव्यक्तिहेतुः ।
शरीरमित्यादि ।
तेनार्थेन हृदयव्याप्तिपूर्वकं सहृदयशरीरमपि व्याप्यते ।
अत एव पुलकाद्याविर्भावः ।
शुष्कं काष्टं न शिलादि ।
अनेन दृष्टान्तेन दार्ष्टान्तिके रत्यादिवासनासत्वमप्यासूत्रितम् ।
शुष्कमित्यनेन काव्यानुशीलनकृतमनोवैशद्यञ्च ।
आनन्दपदोपादानफलमाह-रसेत्यादि ।
रसचर्वणैवात्मा स्वरूपं यस्य स आनन्दः तस्य ।
प्राधान्यं वस्त्वलङ्कारध्वनिभ्यां प्रधान्यम् ।
दर्सयतीति ।
वस्त्वलङ्काररसेषु रसध्वनेरेव प्राधान्यमितरयोस्तु तत्पर्यवसायितया गैंणमिति दर्शयितुमेतदुक्तमित्यर्थः ।
एतत्परदर्शनेन परपक्षो ऽपि निराकृत इत्याह-तेनेत्यादि ।
तेन रसध्वनेर्मुख्यत्वप्रदर्शनेन ।
यदुक्तमिति ।
भट्टनायकेनेति शेषः ।
तदपहस्तितं निराकृतमिति सम्बन्धः ।
ध्वनिरिति ।
नामेत्यनेन पारोक्ष्यं दर्शयन् स्वानभिमतत्वं सूचयति ।
अपरः अभिधाभावनाभ्यां भिन्नः ।
यो ऽपीति ।
अयुक्तस्याङ्गीकारद्येतको ऽपिशब्दः ।
तस्येति ।
तस्य अभिधाभावनाभ्यां भेदे सिद्धे ऽपि ।
वस्तुतो निरूप्यमाणे भेदो न सिध्यतीति भावः ।
स्यादिति ।
तस्य काव्ये अंशत्वं स्यात् रूपता आत्मत्वरूपमंशित्वम् ।
न स्यादित्यर्थः ।
ध्वनिः काव्यांशभूतः शब्दवायापारत्वादभिधावदिति प्रयोगः ।
रसध्वनेरात्मत्वप्रदर्शनमात्रेम कश्चमेतदपहस्ति तमित्यत उपपादयति-तथाहीत्यादि ।
अभिधा मुख्या अमुख्या च ।
भावना भावकत्वम् ।
रसचर्वणा भोगकृत्वम् ।
एतदुपरि वक्ष्यते ।
त्र्यंशे ऽपीत्यन्वयः ।
त्वयेति भट्टनायकेनेत्यर्थः ।
काव्य इति ।
रसयिता रसचर्वणाशीलः ।
सर्वः काव्ये अधिकारीति शेषः ।
न बोद्धा इतिहासादाविव बोद्धा सर्वो न, तथा न नियोगभाक् वेदादाविव नियोज्यः लोचनम् तद्वस्त्वलङ्कारध्वन्यभिप्रायेणांशमात्रत्वमिति सिद्धसाधनम् ।
रसध्वन्यभिप्रायेण तु स्वाभ्युपगमप्रसिद्धिसंवेदनविरुद्धमिति ।
तत्र कवेस्तावत्कीर्त्यापि प्रीतिरेव सम्पाद्या ।
यदाह-ऽकीर्ति स्वर्गफलामाहुःऽ इत्यादि ।
श्रोतॄणां च व्युत्पत्तिप्रीती यद्यपि स्तः,यथोक्तम्-- धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
करोति कीर्ति प्रीतिं च साधुकाव्यनिषेवणम् ॥
इत्.इ ॥
तथापि तत्र प्रीतिरेव प्रधानम् ।
अन्यथा प्रभुसंमितेभ्यो वेदादिभ्यो मित्त्रसंमितेभ्यश्चेतिहासादिभ्यो व्युत्पत्तिहेतुभ्य- को ऽस्य काव्यरूपस्य व्युत्पत्तिहेतोर्जायासंमितित्वलक्षणो बालप्रिया सर्वः न अधिकारीति शेषः ।
किन्तु रसयितैवेत्यर्थः ।
अनेन रसचर्वणाया अधिकारसम्पादकत्ववचनेन तस्याः प्राधान्येम जीवितत्वमुक्तमेवेति भावः ।
केचित्तु काव्येसर्वः सर्वो व्यापारः ।
रसयिता कान्तेव रसचर्वणाहृत् ।
न बोद्धा बन्धुरिव न बोधयिता ।
न नियोगभाक् प्रभुरिव न नियोगकर्तेत्यर्थ इति व्याचक्षते ।
तदिति ।
तस्मादित्यर्थः ।
यद्वा-त्वदुक्तमित्यर्थः ।
अंशमात्रत्वमित्येतद्वस्त्वलङ्कारध्वन्यभिप्रायेण चेत्तदा सिद्धसाधनम् ।
रसध्वनेरेवांशित्वेनेतरध्वन्योरंशत्वस्य ध्वनिवादिनः सिद्धस्य साधनमित्यर्थः ।
रसेति ।
अंशमात्रत्वमितीत्यनुषज्यते ।
स्वाभ्युपगमेति ।
स्वसिद्धान्तलक्ष्यप्रसिद्धिसहृदयानुभवैर्विरुद्धमित्यर्थः ।
ननु कीर्त्यादिफलान्तराणामपि सत्त्वात् ऽसहृदयमनःप्रीतयेऽ इत्यस्योपलक्षणत्वमभ्युपेत्य तान्यपि कुतो नोक्तानीत्यत्राह--तेत्रेत्यादि ।
तत्र इति प्राधान्येनानन्द एवोक्त इति सम्बन्धः ।
तत्र काव्ये ।
स्वर्गेति ।
स्वर्गः निरतिशयानन्दः फलं यस्यास्ताम् ।
शङ्कते-श्रोतॄणामिति ।
व्युत्पत्तिम् ।
काव्यनिषेवणमिति ऽनिबन्धनम्ऽ इति च पाठः ।
समाधत्तेतथापि तत्रेति ।
तत्र व्युत्पत्तिप्रीत्योर्मध्ये ।
प्रधानं प्रधानफलम् ।
विपक्षे बाधकप्रदर्शननेनोक्तं द्रढयति--अन्यथेत्यादि ।
अन्यथा प्रीतिरूप्रधानफलकत्वाभावे ।
अस्य काव्यरूपस्य वेदादिभ्यः इतिहासादिभ्यश्च को विशेषः? व्युत्पत्तिहेतुत्वस्य समानत्वेन विशेषो व स्यादित्यर्थः ।
व्युत्पत्तिहेतुत्वं त्रिष्वपि साधारणमिति दर्शयितुमुभयत्रोक्तिः ।
लोचनम् वेशेषः इति प्राधान्येनानन्द एवोक्तः ।
चतुर्वर्गव्युत्पत्तेरपि चानन्द एव पार्यन्तिकं मुख्यं फलम् ।
आनन्द इति च ग्रन्थृतो नाम ।
तेन स आनन्दवर्धनाचार्य एतच्छास्त्रद्वारेम सहृदयहृदयेषु प्रतिष्टां देवतायतनादिवदनश्वरीं स्थितिं गच्छत्विति भावः ।
यथोक्तम्- उपेयुषामपि दिवं सन्निबन्धविधायिनाम ।
आस्त एव निरातङ्कं कान्तं काव्यमयं वपुः ॥
इत्.इ ॥
यथा मनसि प्रतिष्टा एवंविधमस्य मनः, सहृदयचक्रवर्ती खत्वयं ग्रन्थकृदिति यावत् ।
यथा--ऽयुद्धे प्रतिष्टा परमार्जुनस्यऽ इति ।
स्वनामप्रकजीकरणं श्रोतॄणां प्रवृत्त्यङ्गमेव बालप्रिया वदादिप्रभृतीनां प्रभ्वदिसम्मितत्वं काव्यप्रदीपादौ विवृतम् ।
उक्त इति ।
कारिकायां फलत्वेनोक्त इत्यर्थः ।
भामहवनचनं तु धर्मादिव्युत्पत्तेः कीर्तेश्चाङ्गतया फलत्वाभिप्रायकं, न तु मुख्यतयेत्याह-चतुर्वर्गेति ।
चतुर्वर्गव्युत्पत्तेरपि च पार्यन्तिकं फलमानन्द एवेति सम्बन्धः ।
अपि चेत्यनेन कीर्तेः समुच्चयः ।
ऽसहृदयानामानन्दऽ इत्यदिग्रन्थमन्यथापि व्याचष्टे-आनन्द इति ।
ऽनाम चेऽति सम्बन्धः ।
यथा भीमसेनादेः भीमादिनाम, तथेति भावः ।
तेनेति ।
नामत्वेन हेतुनेत्यर्थः ।
इति भाव इत्यनेनास्य सम्बन्धः ।
सः मूलग्रन्थकारः ।
एतच्छास्त्रं ध्वनिग्रन्थः ।
हितशासनरूपत्वादेतस्य शास्त्रत्वम् ।
प्रतिष्टाशब्दो हि देवतानां तत्समुचितायतने स्थितौ प्रसिद्ध इत्यतो देवतेत्यादिद्दष्टान्तकथनम् ।
देवतायतनादिवत् देवः देवतायतनादिष्विव ।
आदिपदेन भक्तजनहृदयपरिग्रहः ।
ऽप्रतिष्टां लभताऽमित्यस्य विवरणम्-अनश्वरीं स्थितिं गच्छत्विति ।
शास्त्रद्वारेण वर्तनं नाम शास्त्रस्यैव वर्तनमित्यभिप्रायेण भामहवचनं संवादयति-यथोक्तमिति ।
अनश्वरीं स्थितिं गच्छत्विति प्रार्थिता स्थितिरवश्यंभाविनीत्यभिप्रायेणाह-यथेति ।
यथा मनसि सहृदयमनसि प्रतिष्टा भवति, एवंविधं तथाविधम् ।
अस्य आचार्यस्य मनः वैदुष्यमेतच्छास्त्रं वा ।
उक्तमुपपादयति-सहृदयेति ।
खल्विति प्रसिद्धौ ।
यावदित्यवधारणे ।
प्रार्थिते ऽस्मिन्नर्थे न संशय इत्यर्थः ।
अनेन ग्रन्थकृतो ऽपि कीर्तिद्वारा प्रीतिरूपं फलं भवतीति दर्शतम् ।
प्रतिष्टाशब्दस्योक्तार्थकत्वे प्रयोगं संवादयति--यथेति ।
प्रतिष्टा बहुमानात्मिका स्थितिः ।
तत्र ध्वनेरेव लक्षयितुमारब्धस्य भूमिकां रचयितुमिदमुच्यते--
यो ऽर्थः सहृदय-श्लाघ्यः काव्यात्मेति व्यवस्थितः ।
(ध्व्क्_1.2अ)
यो ऽर्थः सहृदयश्लाध्यः काव्यात्मेति व्यवस्थितः ।
लोचनम् सम्भावनाप्रत्ययोत्पादनमुखेनेति ग्रन्थान्ते वक्ष्यामः ।
एवं ग्रन्थकृतः कवेः श्रोतुश्च मुख्यं प्रयोजनमुक्तम् ॥ 1 ॥
ननु ऽध्वनिस्वरूपं ब्रूमऽ इति प्रतिज्ञाय वाच्यप्रतीयमानाख्यौ द्वौ भेदावर्थस्येति वाच्याभिधाने का सङ्गतिः कारकाया इत्याशङ्क्य सङ्गतिं कर्तुमवतरणिकां करोति--तत्रेति ।
एवंविधे ऽभिधेये प्रयोजने च स्थित इत्यर्थः ।
भूमिरिव भूमिका ।
यथा अपूर्वनिर्माणे चिकीर्षिते पूर्वं भूमिर्विरच्यते, तथा ध्वनिस्वरूपे प्रतीयमानाख्ये निरूपयितव्ये निर्विवादसिद्धवाच्याभिधानं भूमिः ।
तत्पृष्टे ऽधिकप्रतीयमानांशोल्लिङ्गनात् ।
वाच्येन बालप्रिया किमर्थमेवं स्वनामप्रकटीकरणत्वेन व्याख्यानमित्यत आह--स्वेति ।
प्रवृत्त्यङ्गमेवेति ।
न ख्यात्यादिलाभायेत्येवकारार्थः ।
सम्भावनाप्रत्ययोत्पादनमुखेनेति ।
सम्भावना बहुमानः, प्रत्ययः तद्धेतुराप्तत्वबुद्धिः, तदुभयोत्पादनद्वारेणेत्यर्थः ।
किमेतत् ग्रन्थकाराभिप्रेतमित्यत्राह-इतीति ।
ग्रन्थान्ते वक्ष्यामः "आनन्दवर्धन इति प्रथिताभिधान" इत्यस्य व्याख्यावसरे प्रकाशयिष्यामः ।
उपसंहरति--एवमिति ।
ग्रन्थकृतः ध्वनिग्रन्थकृतः ।
मुख्यं प्रयोजनं प्रीतिरूपम् ।
मुख्यम्ऽ इत्यनेन धनादीन्यवान्तरप्रयोजनानि दर्शतानीत्यलम् ॥ 1 ॥
ऽतत्र ध्वनेरेव लक्षयितुम्ऽ इत्यादिग्रन्थमवतारयति-निन्वित्यादि ।
वाच्याभिधाने का सङ्गतिरिति ।
अप्रकृतत्वात्तभिधानमसङ्गतमित्यर्थः ।
ऽतत्रेऽति भावलक्षणसप्तमीद्विवचनान्तात्त्रल् ।
तत्पदेनाभिधेयप्रयोजनयोः पूर्वोक्तयोः परामर्शः ।
स्थितयोरिति शेषश्चेत्याशयेन व्याचष्टे-एवंभूत इत्यादि ।
ऽएवंविधऽ इति च पाठः ।
ध्वनिस्वरूपे प्रीतिरूपे चेति तदर्थः ।
यद्वा-अभिधेयमात्रविशेषणमिदम् ।
विमतिपदपतित इति तदर्थः ।
भूमिरिव भूमिकेति ।
अवतरणमिवावतरणिका, पीठमिव पीठिका ।
इमानि पदानि "इवेप्रतिकृतावि"ति कन्प्रत्ययान्तानि ।
यथापूर्वेति ।
अपूर्वं यन्निर्मीयत इति अपूर्वनिर्माणं प्रासादादि तस्मिन् ।
निर्विवादसिद्धेति ।
ध्वनिवादिनां तत्प्रतिक्षेपकाणां च सम्प्रतिपन्नेत्यर्थः ।
भूमिः अधिष्टानं उपाय इति यावत् ।
वाच्यस्य भूमित्वे तदभिधानस्यापि भूमित्वम्, वाच्यप्रतीयमानार्थयोरधिष्टानाधिष्टेयभावेन प्रतीतेः ।
प्रतीयमानार्थेपयोगितया इह वाच्यार्थाभिधानं सङ्गतमेवेति भावः ।
कथं तस्य भूमिसाद्दश्यमित्यत आह--तदिति ।
तस्य वाच्यस्य पृष्टे पश्चात् ।
वाच्यप्रतीत्युत्तरकाल इति यावत् ।
अधिकस्यध
वाच्य-प्रतीयमानाख्यौ तस्य भेदाव् उभौ स्मृतौ
वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ ॥ 2 ॥
लोचनम् समशीर्षिकया गणनं तस्याप्यनपह्नवनीयत्वं प्रतिपादयितुम् ।
स्मृतावित्यनेन ऽयः समाम्नातपूर्वऽ इति द्रढयति ।
ऽशब्दर्थशरीरं काव्यम्ऽ इति यदुक्तं, तत्र शरीरग्रहमादेव केनचिदात्मना तदनुप्राणकेन भाव्यमेव ।
तत्र शब्दस्तावच्छरीरभाग एव सन्निविशते सर्वजनसंवेद्यधर्मत्वात्स्थूलकृसादिवत् ।
अर्थः पुनः सकलजनसंवेद्यो न भवति ।
न बालप्रिया वाच्यव्यतिरिक्तस्य ।
प्रतीयमानस्य व्यङ्ग्यस्य ।
अल्लिङ्गनादुल्लेखनात् ।
ऽतत्पृष्टोत्थितेऽति पठित्वा, तत्पृष्टे पक्षभूते तस्मिन्नुत्थिततया व्यतिरिक्ततया प्रतीयमानांशस्य उल्लिङ्गनादनुमानादिति केचित् ।
समशीर्षिकया समप्रधानतया ।
गणनं ऽवाच्यप्रतीयमानाक्याविऽति निर्देशः ।
तस्यापि प्रतीयमानस्यापि ।
अपिर्दृष्टान्तार्थः ।
अनेन प्रतीयमानमस्ति अर्थांशत्वात्, वाच्यवदिति प्रमाणमरि सूचितमित्युक्तम्, प्रमाणोक्त्यैवान पह्नवनीयत्वसिद्धेः ।
स्थिताविति वक्तव्ये ऽस्मुताऽवित्युक्तेः फलं व्याचष्टे-स्मृतावितीत्यादि ।
यद्बुधैः समाम्नातं तत् स्मृतिरूपं च, यथा मन्वादिभिर्धर्मादिसमाम्नानं तच्च प्रमाणान्तरमूलं, तद्वदिदमपीति द्रढयितुं स्मृतावित्युक्तमिति भावः ।
ऽयो ऽर्थः सहृदयश्लाध्यः काव्यात्मेति व्यवस्थितऽ इत्यनेन कारिकापूर्वार्धेनोक्तं सहृदयश्लाध्यत्वविशिष्टार्थस्य काव्यात्मत्वं सोपपत्तिकं दर्सयन् वृत्त्यनुसारेम तदर्धं विवृणोति--शब्दत्यादिना ।
शब्दार्थावेव शरीरं यस्य तत् ।
उक्तमिति ।
पूर्वपक्षवादिभिरुक्तमित्यर्थ ।
तत्र शरीरग्रहणादेव शब्दार्थयोः काव्यशरीरत्वखीकारादेव ।
यद्वा--तत्र तस्मिन्नुक्ते सति ।
शरीरेति ।
काव्यस्य शरीरखीकारादेवेत्यर्थः ।
एवकारेण प्रमाणान्तरानपेक्ष्त्वं सूचितम् ।
केनचित् शब्दार्थयोरन्यतरेण ।
किमर्थमिति चेदाह--तदिति ।
तत् काव्यमनुप्राणयति जीवयति सहृदयाह्लादकं करोतीति तदनुप्राणवं, तेन ।
भाव्यमेवेत्येवकारेणान्यथाशरीराभासत्वप्रसक्तिं दर्शयति ।
विमतं शरीरमात्मवत्, शरीरत्वादस्मदाद्शरीरवदिति प्रयोगः ।
तत्रेत्यादि ।
तत्र आत्मावश्यंभावित्वे सति ।
यद्वा-शब्दार्थयोर्मध्ये शरीरभाग एवेत्येवकारेण आत्मकोजिनिवेशे योग्यता निरस्यते ।
सर्वोति ।
सर्वजनसंवेद्या धर्माः तीव्रत्वमन्दत्वादयो मधुरत्वपरुषत्वादयो वा यस्य तत्त्वात् ।
द्दष्टान्ते तु स्थूलत्वादयो धर्माः तीव्रत्वमन्दत्वादयो मधुरत्वपरुषत्वादयो वा यस्य तत्त्वात् ।
द्दष्टान्ते तु स्थूलत्वादयो धर्माः ।
यद्वा--संवेद्यशब्दो भाववचनः सर्वजनसंवेद्यत्वरूपधर्मकत्वादित्यर्थः ।
विमतश्शब्दो नात्मा, सर्वजनसंवेद्यधर्मत्वात्, स्थूलादिशरीरवदिति प्रयोगः ।
सर्वेत्यादिना बाह्येन्द्रियग्राह्यत्वरूपो हेतुर्दर्शित इति केचित् ।
तर्ह्यर्थस्यात्मत्वमस्त्वत आह-अर्थः पुनरित्यादि ।
पुनश्शब्दो ऽर्थस्यात्मत्वयोग्यतारूपविशेषद्योतकः ।
सकलेति ।
काव्यार्थस्य सहृदयैकवेद्यत्वात्तदितरवाक्यार्थस्य व्युत्पन्नजनमात्रवेद्यत्वाच्चार्थत्वावच्छिन्नस्सर्वजनवेद्यो न भवतीत्यर्थः ।
लोचनम् ह्यर्थमात्रेण काव्यव्यपदेशः, लौकिकवैदिकवाक्येषु तदभावात् ।
तदाह-सहृदयश्लाध्य इति ।
स एक एवार्थो द्विशाखतया विवेकिभिर्विभागबुद्ध्या विभज्यते ।
तथाहि-तुल्ये ऽर्थरूपत्वे किमिति कस्मैचिदेव सहृदयाः श्लाघन्ते ।
तद्भवितव्यं तत्र केनचिद्विशेषेण ।
यो विशेषः, स प्रतीयमानभागो विवेकिभिर्विशेषहेतुत्वादात्मेति व्यवस्थाप्यते ।
बालप्रिया अनेन शब्दस्यानात्मत्वसाधकं यदुक्तं, तदत्र नास्तीति दर्शितम् ।
तर्हि किमर्थसामान्यस्य काव्यात्मत्वम्? नेत्याह--न हीत्यादि ।
अर्थमात्रेण व्युत्पन्नजनवेद्येन कृत्स्नेनार्थेन व्यवहारं प्रति व्यवहर्तव्यस्य हेतुत्वाभिप्रायेण, हेतौ तृतीया ।
काव्यव्यपदेशः काव्यव्यवहारः ।
वाक्येष्विति ।
वाक्यविषयक इत्यर्थः ।
तदभावात् काव्यव्यपदेशाभावात् ।
अन्यथा तद्वाक्येष्वपि काव्यव्यपदेशः स्यादिति भावः ।
तदाहेत्यादि ।
शब्दस्य काव्येतरवाक्यार्थस्य च काव्यात्मत्वाभावात्तह्यावृत्यर्थं ऽअर्थस्सहृदयश्लाध्यऽ इत्याहेत्यर्थः ।
अथ सहृदयश्लाध्यत्वरूपविशेषणगम्यार्थप्रदर्शनेन काव्यार्थस्यात्मत्वमुपपादयन्नुत्तरार्धस्य भावं विवृणोति--स एक इत्यादि ।
एक एव एकत्वेनैव भासमानः ।
सः अर्थः सहृदयश्लाध्यो ऽर्थः ।
द्विशाखतया द्व्यंशत्वेन ।
विवेकिभिः विवेचनशीलैः ।
विभागबुद्ध्या विरुद्धावन्योन्यव्यावृत्तधर्माणौ भागावंशावस्येति विभागः, तद्बुद्ध्या हेतुना ।
उक्तमुपपादयति---तथाहीत्यादि ।
तुल्ये ऽर्थरूपत्व इति ।
काव्यार्थस्य लौकिकाद्यर्थस्य चार्थरूपत्वे तुल्ये सतीत्यर्थः ।
द्वयोरर्थयोररथत्वेन साम्ये ऽपीति यावत् ।
किमिति ।
कस्मात् कारणात् ।
अस्मद्विवक्षितान्नान्यस्मादिति भावः ।
कस्मैचिदेव काव्यार्थायैव ।
तत् तस्मात् ।
तत्र काव्यार्थे ।
विशेषेण श्लाघाहेतुभूतेन विशेषेण ।
अतिशयाधायको धर्मो विशेषः ।
काव्यार्थो विशेषवान्, सहृदयश्लाध्यत्वात्, यन्नैवं तन्नैवम्, यथा लौकिकादिवाक्यार्थ इति प्रयोगः ।
य इत्यादि ।
विशेषः विशेषाधायकः ।
स प्रतीयमानभाग इति ।
इत्युच्यत इति शेषः ।
अनेनान्यो भागो वाच्य इति दर्शितम् ।
विवेकिभिरित्यादि ।
स इत्यनुषज्यते ।
यथा ह्यात्मा स्वसान्निध्यविशेषमात्रेण जडात्मकघटादिविलक्षणतया सशिरस्कदेहपिण्डे स्वचैतन्यारोपणमुखेनात्मभावप्रतीतिहेतुः, अत एव तच्छ्लाध्यतासम्पादकश्च, तथा प्रतीयमानभागो ऽपि इतरवाक्यार्थापेक्षया सहृदयश्लाघालक्षणं कमप्यतिशयं काव्यार्थं सम्पादयतीति तस्य विशेषहेतुत्वरूपात्मगुणयोगादात्मत्वं काव्यस्य हि ललितोचितसन्निवेशचारुणः शरीरस्येवात्मा साररूपतया लोचनम् वाच्यसंवलनाविमोहितहृदयैस्तु तत्पृथग्भावे विप्रतिपद्यते, चार्वाकैरिवात्मपृथग्भावे ।
अत एव अर्थ इत्येकतयोपक्रस्य सहृदयश्लाध्य इति विशेषणद्वारा हेतुमभिधायापोद्धारद्दशा तस्य द्वौ भेदावंशावित्युक्तम्, न तु द्वावप्यात्मानौ काव्यस्येति ।
कारिकाभागगतं काव्यशब्दं व्याकर्तुमाह---काव्यस्य हीति ।
ललितशब्देन गुणालङ्कारानुग्रहमाह ।
अचितशब्देन रसविषयमेवौचित्यं भवतीति दर्शयन् रसध्वनेर्जीवितत्वं सूचयति ।
तदभावे हि किमपेक्षयेदमौचित्यं नाम सर्वत्रौद्धोष्यत इति भावः ।
बालप्रिया विवेकिभिरुपपत्त्या निर्धार्यत इत्यर्थः ।
कुतस्तर्हि सर्वोषां तथा न प्रतीतिः, प्रत्युत विमतिश्चेत्यत आह--वाच्येत्यादि ।
प्रतीयमानस्य या वाच्यसवलना वाच्यार्थमिश्रमा, तया निरूढनिबिडतरताद्रूप्यभावनावासनाधिरूढया विमोहितं विवेकसामर्थ्यरहितं कृतं हृदयं योषा- तैः ।
तत्पृथग्भावे तस्य प्रतीयमानस्य वाच्याच्छरीरभूतात्पृथग्भावे ।
द्दष्टान्तमाह--चार्वाकैरिति ।
शरीरादिति शेषः ।
व्याख्यातमर्थं कारिकारूढं करोति--अत एवेत्यादि काव्यस्येत्यनेतन ।
अत एव यतो देहात्मन्यायेन वाच्यव्यङ्ग्ययोरवस्थानं विवेचकाविवेचकद्दष्टिद्वयानुरोधिनी चतत्पृथग्भावापृथग्भावपरिच्छित्तिस्तत एव ।
एकतयेति ।
एकवचनान्ततयेत्यर्थः ।
उपक्रम्य वचनोपक्रमं कृत्वा ।
अविवेचकद्दष्ट्यनुरोध्यविभागबुद्ध्योपस्थापितं यद्वाच्यव्यङ्ग्ययोरर्थयोरेकत्वं, तद्बोधकैकवचनान्तत्वेनार्थ इत्यनुवादभागे निर्दिश्येत्यर्थः ।
विशेषणद्वारा विशेषणनुखेन ।
हेतुमिति ।
सहृदयश्लाघाहेतुभूतो द्व्यंशत्वसाधकश्च यो ऽर्थविशेषस्तमित्यार्थः ।
तद्भवितव्यं तत्र केनचिद्विसेषेणेत्युक्तं प्राक् ।
अभिधायेति ।
प्रदर्श्येत्यर्थः ।
अपोद्धारदृशा विभागबुद्ध्या ।
भेदावित्यस्य व्याख्यानं--अंशाविति ।
श्लाघनक्रियायाः कर्मभूत एकों ।
आशो वाच्यो यस्तस्या हेतुभूतः, स प्रतीयमानांश इत्यर्थः ।
न त्वित्यादि ।
किन्तु प्रतीयमान एवात्मा, वाच्यस्त्वंशः शरीरभूत इति भावः ।
अत्राविभागबुद्धिगम्याकारेणार्थस्य पूर्वार्धे काव्यात्मत्वनिर्देशः, उत्तरार्धे तु विभागबुद्धिगम्याकारेण द्व्यंशत्वविधानमिति सारार्थः ।
ऽअर्थस्सहृदयश्लाध्यः काव्यात्मा यो व्यवस्थितऽ इति च कारिकापाठः ।
काव्यशब्दमिति ।
ऽकाव्यात्मेऽत्यत्र काव्यशब्दमित्यर्थः ।
ऽललितोचितऽ शब्दाभ्यां काव्यसम्बन्धिनस्सर्वे सङ्गृहीता इत्याह-ललितेत्यादि ।
गुणालङ्कारानुग्रहमाहेति ।
गुणालङ्कारकर्तृकमनुग्रहं साहायकं चारुत्वकरणमिति यावत् ।
रसविषयमेवेति ।
इतिवृत्तादीनामुपादेयानां रसशेषत्वात्तद्विषयमपि रसविषयमेवेति भावः ।
सूचयतीति ।
स्थितः सहृदयश्लाध्यो यो ऽर्थस्तस्य वाच्यः प्रतीयमानश्चेति द्वौ भेदौ ।
लोचनम् यो ऽर्थ इति यदानुवदन् परेणाप्येतत्तावदभ्युपगतमिति दर्शयति ।
तस्येत्यादिना तदभ्युपगम एव द्व्यंशत्वे सत्युपपद्यत इति दर्शयति ।
तेन यदुक्तम्-ऽचारुत्वहेतुत्वाद्गुमालङ्कारव्यतिरिक्तो न ध्वनिःऽ इति, तत्र ध्वनेरात्मस्वरूपत्वाद्धेतुरसिद्ध इति दर्शितम् ।
न ह्यात्मा चारुत्वहेतुर्देहस्येति भवति ।
अथाप्येवं स्यात्तथापि वाच्ये ऽनैकान्तिको बालप्रिया रसविषयमौचित्यं रसस्य प्राधान्यं विना न घटते, तस्मिंश्च सति तस्यात्मत्वं सिद्धमिति भावः ।
एतदेव विपक्षे बाधकमुखेन साधयति-तदभाव इत्यादि ।
तस्य जीवितभूतस्य रसस्याभावे ।
उद्धाप्यत इति ।
अबाववादिभिरपीति शेषः ।
वृत्तौ ऽसन्निवेशेऽ त्यस्य शब्दार्थयोः संस्थानेत्यर्थः ।
ऽयऽ इत्यादिनिर्देशस्य फलमाह--यो ऽर्थ इत्यादि ।
यदा यच्छब्देन ।
यच्छब्द वटितवाक्येनेति यावत् ।
परेणापि पूर्वपक्षिणापि ।
एतत् प्रतीयमानं वस्तु ।
तावत् आदौ संप्रतिपत्तौ वा ।
अभ्युपगतमिति ।
प्रतीयमानस्य काव्यार्थान्तर्भावादिति भावः ।
तदित्यादि ।
तदभ्युपगमः प्रतीयमानाभ्युपगमः ।
ह्यंशत्वे सति उपपद्यत एवेति सम्बन्धः ।
एकांशाङ्गीकारे अंशान्तरस्यावारणीयत्वादिति भावः ।
तदभ्युपगम एवोपपद्यते, नानभ्युपगम इति वा ।
यद्वा--एतत् काव्यार्थस्य सहृदयश्लाध्यत्वम् ।
तदभ्युपगमः सहृद्यश्लाध्यत्वाभ्युपगम इति ।
एवञ्च पूर्वपक्षोक्तानुमानमपि परास्तमित्याह--तेनेत्यादि ।
तेन उक्तभङ्ग्या ध्वनेरात्मत्वप्रतिपादनेन ।
इति दर्शितमित्यनेनान्वयः ।
तत्रेति ।
तदनुमान इत्यर्थः ।
असिद्ध इति ।
स्वरूपासिद्ध इत्यर्थः ।
ननु ध्वनेरात्मत्वे ऽपि चारुत्वहेतुत्वं किं न स्यादत्यतो दृष्टान्तगर्भंमाह-न हीति ।
ऽइति न भवति हीऽति सम्बन्धः ।
लोक इति शेषः ।
ननु प्रतीयमानस्य वाच्यार्थश्लाघालक्षणातिशयहेतुत्वेन चारुत्वहेतुत्वमस्त्येवेति कथमसिद्धः ।
लोके ऽप्यात्मा चारुत्वहेतुः, शवशरीरे सर्वाभरणभूषिते ऽपि चारुत्वादर्शनादित्यत्राह--अथाप्येवमिति ।
अथापि यद्यपि ।
एवमिति ।
आत्मनश्चारुत्वहेतुत्वमित्यर्थः ।
स्यादित्यभ्युपगमे ।
तथापीति ।
तथापीह दोषो ऽस्तीत्यर्थः ।
तमाह--वाच्य इति ।
अनैकान्तिकः व्यभिचारी ।
प्रतीयमानसंवलनोपाधिकस्य चारुत्वहेतुत्वस्य वाच्यार्ते ऽपि सत्त्वात्तस्य गुणालङ्कारव्यतिरिक्तत्वच्च तत्र व्यभिचार इत्यर्थः ।
तत्र वाच्यः प्रसिद्धो यः प्रकारैर् उपमादिभिः ।
बहुधा व्याकृतः सो ऽन्यैः काव्यलक्ष्म-विधायिभिः
तत्र वाच्यः प्रसिद्धो यः प्रकारैरुपमादिभिः ।
बहुधा व्याकृतः सो ऽन्यैः काव्यलक्ष्मविधायिभिः ॥ 3 ॥
ततो नेह प्रतन्यते ॥ 3 ॥
केवलमनूद्यते पुनर्यथोपयोगमिति ॥ 3 ॥
लोचनम् हेतुः ।
न ह्यलङ्कार्य एवालङ्कारः, गुणी एव गुणः ।
एतदर्थमपि वाच्यांशोपक्षेपः ।
अत एव वक्ष्यति--ऽवाच्यः प्रसिद्धःऽ इति ॥ 2 ॥
तत्रेति ।
ह्यंशत्वे सत्यपीत्यर्थः ।
प्रसिद्ध इति ।
वनितावदनोद्यानेन्दूदयादर्लौकिक एवेत्यर्थः ।
ऽउपमादिभिः प्रकारैः स व्याकृतो बहुधेऽति सङ्गतिः ।
अन्यैरिति कारिकाभागं काव्येत्यादिना व्याचष्टे ।
ऽततो नेह प्रतन्यतऽ इति विशेषप्रतिषेधेन शेषाभ्यनुज्ञेति दर्शयति--केवलमित्यादिना ॥ .3 ॥ ॥ .॥
बालप्रिया तह्यतिरिक्तत्वं दर्शयति-न हीत्यादिना ।
एतदर्थमपीति ।
न केवलं भूमिकार्थम्, अनैकान्तिकत्वप्रदर्शनार्थमपीत्यर्थः ।
उत्तरकारिकायां वाच्यस्य प्रसिद्धत्वकथनमप्येतदभिप्रायकमित्याह--अत एवेति ।
प्रसिद्धे हि वस्तुनि व्यभिचारोद्भावनम् ॥ .2 ॥ ॥ .॥
कारिकायां तत्रेति भावलक्षणसप्तमी ।
तत्पदेन वाच्यप्रतीयमानयोः परामर्शः ।
मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0