भाषा

ENहिગુ
ग्रंथ पाठ

ध्वन्यालोक (टीका सहित) · भाग 381400

एवं तावद्रसादीनां विरोधिरसादिभिः समावेशासमावेशयोर्विषयविभागो दर्शितः ।
इदानीं तेषामेकप्रबन्धविनिवेशने न्याय्यो यः क्रमस्तं प्रतिपादयितुमुच्यते--
लोचनम् ग्राम्योक्तिरहितयेत्यर्थः ।
अत्रैव दृष्टान्तमाह---यथा अयमिति ।
अत्र भूरिश्रवसः समरभुवि निपतितं बाहुं दृष्ट्वा तत्कान्तानामेतदनुशोचनम् ।
रशनां मेखलां सम्भोगा वसरेषूर्ध्वं कर्षतीति रसनोत्कर्षी ।
अमुना विरोधोद्धरणप्रकारेण बहुतरं लक्ष्यमुपपादितं भवतीत्यभिप्रायेणाह--इत्थं चेति ।
होमाग्निधुमकृतं बाष्पाम्बु यदि वा बन्धुगृहत्यागदुःखोद्भवम् ।
भयं कुमारीजनोचितः साध्वसः ।
एवमियताङ्गभावं प्राप्तानामुक्तिरच्छलेति कारिकाभागोपयोगि निरूपितमित्युपसंहरति---एवमिति ।
तावद्ग्रहणेन वक्तव्यान्तरसप्यस्तीति सूचयति ॥20॥
तदेवावतारयति---इदानीमित्यादिना ।
तेषां रसानां क्रम इति योजना ।
बालप्रिया तदालम्बितं इतिभावं वा उपस्करोतीति भावः ।
तदाहेति ।
उक्ताभिप्रायेणाहेत्यर्थः ।
अग्राम्यतयेत्यस्यैव विवरणम्--विभावेत्यादि ।
अत्र भूरिश्रवस इत्यादि ।
श्लोके ऽस्मिन्नायकगतशृङ्गारो नायिकागतकरुणस्याङ्गमित्यादिकं काव्यप्रदीपोद्योतादौ द्रष्टव्यम् ।
अमुनेति ।
उक्तेनेत्यर्थः ।
विवाहकाले कथं बाष्पोद्गम इत्यत आह--होमेति ।
अयमपि श्लोकः काव्यप्रकाशे उदाहृतः ।
क्षिप्त इत्यादाविवात्रापि सर्वं बोध्यम् ॥20॥
इदानीं तेषामित्यत्र तेषामितिपदं व्याचष्टे---रसानामिति ।
क्रम इत्यादि ।
प्रसिद्धे ऽपि प्रबन्धानां नाना-रस-निबन्धने ।
एको रसो ऽङ्गीकर्तव्यस् तेषाम् उत्कर्षम् इच्छता
प्रसिद्धे ऽपि प्रबन्धानां नानारसनिबन्धने ।
एको रसो ऽङ्गीकर्तव्यस्तेषामुत्कर्षमिच्छता ॥ 21 ॥
प्रबन्धेषु महाकाव्यादिषु नाटकादिषु वा विप्रकीर्णतयाङ्गाङ्गिभावेन बहवो रसा उपनिबध्यन्त इत्यत्र प्रसिद्धौ सत्यामपि यः प्रबन्धानां छायातिशययोगमिच्छति तेन तेषां रसानामन्यतमः कश्चिद्विवक्षितो रसो ऽङ्गित्वेन विनिवेशयितव्य इत्ययं युक्ततरो मार्गः ।
ननु रसान्तरेषु बहुषु प्राप्तपरिपोषेषु सत्सु कथमेकस्याङ्गिता न विरुध्यत इत्याशङ्क्येदमुच्यते--
रसान्तर-समावेशः प्रस्तुतस्य रसस्य यः ।
नोपहन्त्य् अङ्गितां सो ऽस्य स्थायित्वेनावभासिनः
रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः ।
नोपहन्त्यङ्गितां सो ऽस्य स्थायित्वेनावभासिनः ॥ 22॥
प्रबन्धेषु प्रथमतरं प्रस्तुतः सन् पुनः पुनरनुसन्धीयमानत्वेन स्थायी यो रसस्तस्य सकलबन्धव्यापिनो रसान्तरैरन्तरालवर्तिभिः समावेशो यः लोचनम् प्रसिद्धे ऽपिति ।
भरतमुनिप्रभृतिभिर्निरूपिते ऽपीत्यर्थः ।
तेषामिति प्रबन्धानाम् ।
महाकाव्यादिष्वित्यादिशब्दः प्रकारे ।

अनभिनेयान्भेदानाह, द्वितीयस्त्वभिनेयान् ।
विप्रकीर्णतयेति ।
नायकप्रतिनायकपताकाप्रकरीनायकादिनिष्ठतयेत्यर्थः ।
अङ्गाङ्गिभावेनेत्येकनायकनिष्ठत्वेन ।
युक्ततर इति ।
यद्यपि रमवकारादौ पर्यायबन्धादौ च नैकस्याङ्गित्वं तथापि नायुक्तता तस्याप्येवंविधो यः प्रबन्धः तद्यथा नाटकं महाकाव्यं वा तदुत्कृष्टतरमिति तरशब्दस्यार्थः ॥ 21 ॥
नन्विति ।
स्वयं लब्धपरिपोषत्वे कथमङ्गत्वम्? अलब्धपरिपोषत्वे वा कथं रसत्वमिति रसत्वमङ्गत्वं चान्योन्यविरुद्धं तेषां चाङ्गत्वायोगे कथमेकस्याङ्गित्वमुक्तमिति भावः ।
रसान्तरेति ।
प्रस्तुतस्य समस्तेतिवृत्तव्यापिनस्तत एव विततव्याप्तिकत्वेनाङ्गिभावोचितस्य बालप्रिया क्रम इत्येनेन तेषामित्यस्य सम्बन्ध इत्यर्थः ।
ग्रसिद्धे ऽपीत्येतद्विवृणोति--भरतेत्यादि ।
वृत्तिग्रन्धं व्याचष्टे--महेत्यादि ।
ऽयुक्ततरऽ इत्यत्र तरबर्थं दर्शयति---यद्यपित्यादि ।
तथापि च तस्यापि नायुक्तता इति सम्बन्धः ।
तस्यापीति ।
समबकारादेरपीत्यर्थः ।
एवंविध इति ।
नानारसको ऽङ्गिभूतैकरसकश्चेत्यर्थः ॥ 21 ॥
ऽनन्विऽत्यादिशङ्काग्रन्थस्य भावमाह---स्वयमित्यादि ।
लब्धपरिपीषत्वे इति ।
रसान्तराणामिति शेषः ।
नन्वङ्गत्वं मास्त्वित्यत्राह--तेषां चेत्यादि ।
वृत्तौ स नाङ्गितामुपहन्ति ।
एतदेवोपपादयितुमुच्यते--
कार्यम् एकं यथा व्यापि प्रबन्धस्य विधीयते ।
तथा रसस्यापि विधौ विरोधो नैव विद्यते
कार्यमेकं यथा व्यापि प्रबन्धस्य विधीयते ।
तथा रसस्यापि विधौ विरोधो नैव विद्यते ॥ 23 ॥
लोचनम् रसस्य रसान्तरैरितिवृत्तवशायातत्वेन परिमितकथाशकलव्यापिभिर्यः समावेशः समुपबृंहणं स तस्य स्थायित्वेनेतिवृत्तव्यापितया भासमानस्य नाङ्गितामुपहन्ति, अङ्गितां पोषयत्येवेत्यर्थः ।
एतदुक्तं भवति---अङ्गभूतान्यपि रसान्तराणि स्वविभावादिसामग्न्या स्वावस्थायां यद्यपि लब्धपरिपोषाणि चमत्कारगोचरतां प्रतिपद्यन्ते, तथापि स चमत्कारस्तावत्येव न परितुष्य विश्राम्यति किं तु चमत्कारान्तरमनुधावति ।
सर्वत्रैव ह्यङ्गाङ्गिभावे ऽयमेवोदन्तः ।
यथाह तत्रभवान्--- गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते ।
प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥
इति ॥ 22 ॥
उपपादयितुमिति ।
दृष्टान्तस्य समुचितस्य निरूपणेनेति भावः ।
न्यायेन चैतदेवोपपद्यते; कार्यं हि तावदेकमेवाधिकारिकं व्यापकं प्रासङ्गिककार्यान्तरोपक्रियमाणमवश्यमङ्गीकार्यम् ।
तत्पृष्ठवर्तिनीनां नायकचित्तवृत्तीनां तद्बलादेवाङ्गाङ्गिभावः ।
प्रवाहापतित इति किमत्रापूर्वमिति तात्पर्यम् ।
तथेति व्यापितया ।

यदि वा एवकारो भिन्नक्रमः, तथैव तेनैव प्रकारेण कार्याङ्गाङ्गिभावरूपेण रसानामपि बलादेवासावापततीत्यर्थः ।
तथा च वृत्तौ वक्ष्यति ऽतथैवेऽति ।
कार्यमिति ।
ऽस्वल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पतिऽ इति लक्षितं बीजम् ।
बालप्रिया क्वचिद्ग्रन्थे बहुष्विति पाठो न, ऽकथमेकस्याङ्गिता नऽ इत्यस्य स्थाने एकस्याङ्गितेति पाठश्च दृश्यते ।
कारिकां व्याचष्टे--प्रस्तुतस्येत्यादि ।
अस्येत्यस्य विवरणम्---तस्येति ।
कारिकयानया लब्धं नन्वित्यादिशङ्कायाः समाधानं दर्शयति---एतदुक्तमित्यादि ।
गुण इति ।
गुणः अङ्गभूतः ।
अन्येन कृतात्मसंस्कारः सन् तथा कृतात्मसंस्कारः गुणः प्रधानस्य अङ्गिनः भूयसि उपकारे वर्तते भूयसे उपकाराय भवति हि ।
श्लोको ऽयं काव्यप्रकाशे ऽपि दर्शितः ।
निरूपणेनेति ।
प्रदर्शनेनेत्यर्थः ।
एतदेवेति ।
कार्यमित्यादिना वक्ष्यमाणमेवेत्यर्थः ।
तत्पृष्ठवर्तिनीनामिति ।
तत्तत्कार्यानुषक्तानामित्यर्थः ।
नायकचित्तवृत्तीनामिति ।
नायकपदेन नायकोपनायकादयस्सर्वे ऽत्र विवक्षिताः ।
तद्बलादेवेति ।
कार्याणामङ्गाङ्गिभावस्य बलादेवेत्यर्थः ।
कारिकास्थं तथेति पदं व्याचष्टे---व्यापितयेति ।
अन्यथापि व्याचष्टे---यदि वेत्यादि ।
भिन्नक्रम इति ।
नैवेत्येवकारस्तथेत्यनेन सम्बध्नातीत्यर्थः ।
सन्ध्यादिमयस्य प्रबन्धशरीरस्य यथा कार्यमेकमनुयायि व्यापकं कल्प्यते न च तत्कार्यान्तरैर्न सङ्कीर्यते, न च तैः सङ्कीर्यमाणस्यापि तस्य प्राधान्यमपचीयते, तथैव रसस्याप्येकस्य सन्निवेशे क्रियमाणे विरोधो न कश्चित् ।
प्रत्युत प्रत्युदितविवेकानामनुसन्धानवतां सचेतसां तथाविधे विषये प्रह्लादातिशयः प्रवर्तते ।
ननु येषां रसानां परस्पराविरोधः यथा---वीरशृङ्गारयोः शृङ्गारहास्ययो लोचनम् बाजात्प्रभृति प्रयोजनानां विच्छेदे यदविच्छेदकारणं यावत्समाप्तिबन्धं स तु बिन्दुःऽ इति बिन्दुरूपयार्थप्रकृत्या निर्वहणपर्यन्तं व्याप्नोति तदाह---अनुयायीति ।
अनेन बीजं बिन्दुश्चेत्यर्थप्रकृती सङ्गृहीते ।
कार्यान्तरैरिति ।
ऽआगर्भादाविमर्शाद्वा पताकाविनिवर्ततेऽ इति प्रासङ्गिकं यत्पताकालक्षणार्थप्रकृतिनिष्ठं कार्यं यानि च ततो ऽप्यूनव्याप्तितया प्रकरीलक्षणानि कार्याणि तैरित्येवं पञ्चानामर्थप्रकृतीनां वाक्यैकवाक्यतया निवेश उक्तः ।
तथाविध इति ।
यथा तापसवत्सराजे ।
एवमनेन श्लोकेनाङ्गाङ्गितायां दृष्टान्तनिरूपणमितिवृत्तबलापतितत्वं च रसाङ्गाङ्गिभावस्येति द्वयं निरूपितम् ।
वृत्तिग्रन्थो ऽप्युभयाभिप्रायेणैव नेयः ।
शृङ्गारेण वीरस्याविरोधो युद्धनयपराक्रमादिना कन्यारत्नलाभादौ ।
हास्यस्य तु स्पष्टमेव तदङ्गत्वम् ।
हास्यस्य स्वयमपुरुषार्थस्वभावत्वे ऽपि समधिकतररञ्चनोत्पादनेन शृङ्गाराङ्गतयैव तथात्वम् ।
रौद्रस्यापि तेन कथञ्चिदविरोधः ।

यथोक्तम्---ऽशृङ्गारश्च तैः प्रसभं सेव्यतेऽ ।
बालप्रिया असाविति ।
अङ्गाङ्गिभाव इत्यर्थः ।
कार्यपदेन योगव्युत्पत्त्या विवक्षितमर्थं दर्शयन् विवृणोति---स्वल्पमात्रमित्यादि ।
बीजमित्यस्य व्याप्नोतीत्यनेन सम्बन्धः ।
अनेनेति ।
कार्यपदेनेत्यर्थः ।
कार्यान्तरैरित्यनेन विवक्षितं विवृणोति---आगर्भादित्यादि ।
ततो ऽप्यूनव्याप्तीति ।
ततः पताकालक्षणार्थप्रकतेः ।
तैरित्यन्तेन कार्यान्तरैरित्यस्य विवरणम् ।
उपसंहरति---इत्येवमित्यादि ।
उक्त इति ।
कार्यं कार्यान्तरैरित्याभ्यां बोधित इत्यर्थः ।
तथाविधे विषये इत्यस्योदाहरणं दर्शयति---यथा तापसेति ।
सारार्थमाह--एवमित्यादि ।
अनेनेति ।
कार्यमित्यादिनेत्यर्थः ।
अङ्गाङ्गितायां दृष्टान्तनिरूपणं रसाङ्गाङ्गिभावस्य इतिवृत्तबलापतितत्वं चेति द्वयमनेन श्लोकेन निरूपितमिति सम्बन्धः ।
रसानामविरोधमुपपादयति---शृङ्गारेणेत्यादि ।
अविरोध इति ।
एकाश्रयत्वे विरोधाभाव इत्यर्थः ।
तदङ्गत्वं शृङ्गाराङ्गत्वम् ।
समधिकरञ्जनोत्पादनेनेति ।
रौद्रशृङ्गारयोर्वीराद्भुतयोर्वीररौद्रयो रौद्रकरुणयोः शृङ्गाराद्भुतर्योर्वा तत्र भवत्वङ्गाङ्गिभावः ।
तेषां तु स कथं भवेद्येषां परस्परं बाध्यबाधकभावः ।
यथा---शृङ्गारबूभत्सयोर्वीरभयानकयोः शान्तरौद्रयोः शान्तशृङ्गारयोर्वा इत्याशङ्क्येदमुच्यते--
लोचनम् तैरिति रौद्रप्रभृतिभिः रक्षोदानवोद्धतमनुष्यैरित्यर्थः ।
केवलं नायिकाविषयमौग्न्यं तत्र परिहर्तव्यम् ।
असम्भाव्यपृथिवीसम्मार्जनादिजनितविस्मयतया तु वूराद्भुतयोः समावेशः ।
यथाह मुनिः--ऽवीरस्य चैव यत्कर्म सो ऽद्भुतःऽ इति ।
वीररौद्रयोर्धीरोद्धते भीमसेनादौ समावेशः क्रोधोत्साहयोरविरोधात् ।
रौद्रकरुणयोरपि मुनिनैवोक्तः---- ऽरौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसःऽ इति ।
शृङ्गाराद्भुतयोरिति ।
यथा रत्नावल्यामैन्द्रजालिकदर्शने ।
शृङ्गारबीभत्सयोरिति ।
ययोहि परस्परोन्मूलनात्मकतयैवोद्भवस्तत्र को ऽङ्गाङ्गिभावः आलम्बननिमग्नरूपतया च रतिरुत्तिष्ठति ततः पलायमानरूपतया जुगुप्सेति समानाश्रयत्वेन तयोरन्योन्यसंस्कारोन्मूलनत्वम् ।
भयोत्साहावप्येवमेव विरुद्धौ वाच्यौ ।
शान्तस्यापि तत्त्वज्ञानसमुत्थितसमस्तसंसारविषयनिर्वेदप्राणत्वेन सर्वतो निरीहस्वभावस्य विषयासक्तिजीविताभ्यां रतिक्रोधाभ्यां विरोध एव ॥ 23 ॥
बालप्रिया स्मधिकरसोत्पादनेनेति च पाठः ।

शृङ्गाररसनाया आधिक्योत्पादनेनेत्यर्थः ।
तथात्वं पुरुषार्थत्वम् ।
तेन शृङ्गारेण ।
उक्तमिति ।
मुनिनेति शेषः ।
विशेषमाह--केवलमिति ।
असम्भाव्येत्यादि ।
वीरस्य ह्यसम्भाव्यवस्तुलाभेन विस्मयो भवति ।
उक्त इति ।
अविरोध इति शेषः ।
अत्रैकालम्बनकत्वेनाविरोधो बोध्यः ।
रौद्रकरुणयोर्भिन्नाश्रयकत्वस्यैव सम्भावत् ।
ऽशृङ्गाराद्भुतयोरपीऽति अविरोध इति शेषः ।
बाध्यबाधकभावमुक्तं विवृणोति--ययोर्हीत्यादि ।
ययोरिति ।
शृङ्गारबीभत्साद्योरित्यर्थः ।
तत्र तयोः ।
उक्तार्थे हेतु दर्शयति--आलम्बनेत्यादि ।
उत्तिष्ठति प्रादुर्भवति ।
तत इति ।
आलम्बनादित्यर्थः ।
जुगुप्सेति ।
उत्तिष्ठतीत्यनुषङ्गः ।
इतीति हतौ ।
समनाश्रयत्वेनेति ।
एकालम्बनकत्वेनैकाधिकरणकत्वेन चेत्यर्थः ।
तयोरिति ।
रतिजुगुप्सयोरित्यर्थः ।
अन्योन्येति ।
अन्योन्यस्य यः संस्कारः, तदुन्मूलनत्वं तद्विनाशकारित्वमित्यर्थः ।
एवमेवेति ।
एकाश्रयत्वेनेत्यर्थः ॥ 23 ॥
अविरोधी विरोधी वा रसो ऽङ्गिनि रसान्तरे ।
परिपोषं न नेतव्यस् तथा स्याद् अविरोधिता
अविरोधी विरोधी वा रसो ऽङ्गिनि रसान्तरे ।
परिपोषं न नेतव्यस्तथा स्यादविरोधिता ॥ 24 ॥
अङ्गिनि रसान्तरे शृङ्गारादौ प्रबन्धव्यङ्ग्ये सति अविरोधी विरोधी वा रसः परिपोषंन नेतव्यः ।
तत्राविरोधिनो रसस्याङ्गिरसापेक्षयात्यन्तमाधिक्यं न कर्तव्यमित्ययं प्रथमः परिपोषपरिहारः ।
उत्कर्षसाम्ये ऽपि तयोर्विरोधासम्भवात् ।
यथा--- लोचनम् अविरोधी विरोधी वेति ।

वाग्रहणस्यायमभिप्रायः---अङ्गिरसापेक्षया यस्य रसान्तरस्योत्कर्षो निबध्यते तदा तदविरुद्धो ऽपि रसो निबद्धश्चोद्यावहः ।
अथ तु युक्त्या ङ्गिनि रसो ऽङ्गभावतानयेनोपपत्तिर्घटते तद्विरुद्धो ऽपि रसो वक्ष्यमाणेन विषयभेदादियोजनेनोपनिबध्यमानो न दोषावह इति विरोधाविरोधावकिञ्चित्करौ ।
विनिवेशनप्रकार एव त्ववधात्व्यमिति ।
अङ्गिनीति सप्तम्यनादरे ।
अङ्गिनं रसविशेषमनादृत्य परिपोषपरिहारे त्रीन् प्रकारानाह--तत्रेत्यादिना तृतीय इत्यन्तेन ।
ननु न्यूनत्वं कर्तव्यमिति वाच्ये आधिक्यस्य का सम्भावना येनोक्तमाधिक्यंन कर्तव्यमित्याशङ्क्याह--उत्कर्षसाम्य इति ।
एकतो रोदिति प्रिया अन्यतः समरतूर्यनिर्घोषः ।
स्नेहेन रणरसेन च भटस्य दोलायितं हृदयम् ॥
बालप्रिया अयमिति ।
वक्ष्यमाण इत्यर्थः ।
अपेक्षयेत्यस्य उत्कर्ष इत्यनेन सम्बन्धः ।
तदविरुद्धो ऽपीति ।
अङ्गिरसाविरुद्धो ऽपीत्यर्थः ।
अङ्गेति ।
अङ्गत्वप्रापणेनेत्यर्थः ।
तदिति ।
तर्हि इत्यर्थः ।
अङ्गिनीति इति प्रतीकधारणम् ।
सप्तमिति ।
अङ्गिनि रसान्तरे इत्यत्र सप्रमीत्यर्थः ।
अनादर इति ।
"षष्ठी चानादर" इति सूत्रानुशिष्टा सप्तमीत्यर्थः ।
रसान्तरपदविवरणम्--रसविशेषमिति ।
अनादृत्येत्यस्यैव विवरणम्--न्यक्कृत्येनति ।
इति वाच्य इति ।
तत्राविरोधिनो रसस्याङ्गिरसापेक्षया न्यूनत्वं कर्तव्यमिति वक्तव्ये सतीत्यर्थः ।
वृत्तौ ऽतयोरिऽति ।
अङ्गिनो रसस्य तदविरोधिनो रसन्तरस्य चेत्यर्थः ।
कत इति ।
एकतः एकस्मिन् देशे ।
अन्यतः अन्यस्मिन् देशे ।
डोलायितं सन्देहाकुलम् ।
ऽकण्ठदिऽति कण्ठाच्छित्वा ।
हालं कण्ठादुद्धृत्य ।
मेखलाया गुणेनैव विषधरपति नेति रूपकम् ।
ऽसन्ध्येऽति ।
सन्ध्याया नायिकात्वं गम्यते ।
तस्यां या अभ्यसूया तया हेतुना हसितः पशुपत्तिः सन्ध्यां सेवमानः परमेश्वरो यया सा ।
हृष्टा सन्तुष्टा श्लोको ऽथं प्रक्षिप्तः ।
उत्कर्षसाम्यं विवृणोति लोचने---रोदितीत्यादि ।

इत्यत इति ।
एकन्तो रुऐ पिआ अण्णन्तो समरतूरणिग्घोसो ।
णेहेण रणरसेण अ भडस्स दोलाइअं हिअअम् ॥
यथा वा-- कण्ठाच्छित्त्वाक्षमालावलयमिव करे हारमावर्तयन्ती कृत्वा पर्यङ्कबन्धं विषधरपतिना मेखलाया गुणेन ।
मिथ्यामन्त्राभिजापस्फुरदघरपुटव्यञ्जिताव्यक्तहासा देवी सन्ध्याभ्यसूयाहसितपशुपतिस्तत्र दृष्टा तु वो ऽव्यात् ॥
इत्यत्र ।
अङ्गिरसविरुद्धानां व्यभिचारिणां प्राचुर्येणानिवेशनम्, निवेशने वा क्षिप्रमेवाङ्गिरसव्यभिचार्यनुवृत्तिरिति द्वितीयः ।
लोचनम् इति च्छाया ।
रोदिति प्रियेत्यतो रत्युत्कर्षः ।
रसरतूर्येति भटस्येति चोत्साहोत्कर्षः ।
दोलायितमिति तयोरन्यूनाधिकतया साम्यमुक्तम् ।
एतच्च मुक्तकविषयमेव भवति न तु प्रबन्धविषयमिति केचिदाहुस्तच्चासत् ; आधिकारिकेष्वितिवृत्तेषु त्रिवर्गफलसमप्राधान्यस्य सम्भवात् ।
तथाहि---रत्नावल्यां सचिवायत्तसिद्धित्वाभिप्रायेण पृथिवीराज्यलाभ आधिकारिकं फलं कन्यारत्नलाभः प्रासङ्गिकं फलं, नायकभिप्रायेण तु विपर्यय इति स्थिते मन्त्रिबुद्धौ नायकबुद्धौ च स्वाम्यमात्यबुद्ध्येकत्वात्फलमिति नीत्या एकीक्रियमाणायां समप्राधान्यमेव पर्यवस्यति ।
यथोक्तम्---ऽकवेः प्रयत्नान्नेतॄणां युक्तानाम्ऽ इत्मलमवान्तरेण बहुना ।
एवं प्रथमं प्रकारं निरूप्य द्वितीयमाह---अङ्गीति ।
अनिवेशनमिति ।
अङ्गभूते बालप्रिया प्रियाकर्तृकरोदनरूपानुभावोक्त्येत्यर्थः ।
रत्युत्कर्ष इति ।
उक्त इति विपरिणामेन सम्बन्धः ।
उक्तः व्यञ्जितः ।
तयोरिति ।
रत्युत्कर्षस्य उत्साहोत्कर्षस्य चेत्यर्थः ।
साम्यमुक्तमिति ।
अत्र प्रकृतो रसो वीरः भटस्येत्युक्तबलाद्गम्यः समप्राधान्येन वर्णितस्तदविरोधी शृङ्गारः, कण्ठादित्यादौ तु प्रकृतो रसो विप्रलम्भः तदविरोधीहास्यस्समप्राधान्येन दर्शितः ।
एतदिति ।
द्वयोरुत्कर्षसाम्यमित्यर्थः ।
मुक्तकविषयमेवेति ।
मुक्तके एवेत्यर्थः ।
त्रिवर्गेति ।
त्रिवर्गरूपं यत् फलं तस्य समप्राधान्यं यत्तस्येत्यर्थः ।
समप्राधान्यमेवेति ।
वीरशृङ्गारयोरिति शेषः ।
कृत्रानिवेशनमित्यतः पूरयति---अङ्गभूतैति ।
असाविति ।
अङ्गभूतो रस इत्यर्थः ।
अङ्गत्वेन पुनः पुनः प्रत्यवेक्षा परिपोषं नीयमानस्याप्यङ्गभूतस्य रसस्येति तृतीयः ।
अनया दिशान्ये ऽपि प्रकारा उत्प्रेक्षणीयाः ।
विरोधिनस्तु रसस्याङ्गिरसापेक्षया कस्यचिन्न्यूनता सम्पादनीया ।
यथा शान्ते ऽङ्गिनि शृङ्गारस्य शृङ्गारे वा शान्तस्य ।
परिपोषरहितस्य रसस्य कथं रसत्वभिति चेत्--उक्तमत्राङ्गिरसापेक्षयेति ।

अङ्गिनो हि रसस्य लोचनम् रस इति शेषः ।
नन्वेवं नासौ परितुष्टो भवेदित्याशङ्क्य मतान्तरमाह--निवेशने वेति ।
अत एव वाग्रहणमुत्तरपक्षदार्ढ्यं सूचयति न विकल्पम् ।
तथा चैक एवायं प्रकारः ।
अन्यथा तु द्वौ स्याताम् ।
अङ्गिनो रसस्य यो व्यभिचारी तस्यानुवृत्तिरनुसन्धानम् ।
यथा---ऽकोपात्कोमललोलऽ इति श्लोके ऽङ्गिभूतायां रतावङ्गत्वेन यः क्रोध उपनिबद्धस्तत्र बद्ध्वा दृढं इत्यमर्षस्य निवेशितस्य क्षिप्रमेव रुदत्येति हसन्निति च रत्युचितेर्ष्यौत्सुक्यहर्षानुसन्धानम् ।
तृतीयं प्रकारमाह---अङ्गत्वेनेति ।
अत्र च तापसवत्सराजे वत्सराजस्य पझवतीविषयः सम्भोगशृङ्गार उदाहरणोकर्तव्यः ।
अन्ये ऽपीति ।
विभावानुभावानां चापि उत्कर्षो न कर्तव्यो ऽङ्गिरसविरोधिनां निवेशनमेव वा न कार्यम्, कृतमपि चाङ्गिरसविभावानुभावैरुषबृंहणीयम् ।
परिपोषिता अपि विरुद्धरसविभावानुभावा अङ्गत्वं प्रतिजागरयितव्या इत्यादि ।
स्वयं शक्यमुत्प्रेक्षितुम् ।
एवं विरोध्यविरोधिसाधारणं प्रकारमभिधाय विरोधिविषया साधारणदोषपरिहारप्रकारगतत्वेनैव विशेषान्तरमप्याह---विरोधिन बालप्रिया रतावङ्गत्वेनेति ।
उपनिबद्ध इत्यनेनास्य सम्बन्धः ।
अनुभावद्वारा प्रदर्शित इत्यर्थः ।
तत्रेति ।
क्रोधे इत्यर्थः ।
तद्व्यभिचारितयेति यावत् ।
उदाहरणीकर्तव्य इति ।
स तत्राङ्गमिति भावः ।
अन्ये ऽपीत्याद्युक्तं विवृणोति--विभावेत्यादि ।
विभावानुभावानामित्यस्य विशेषणम्--अङ्गिरसविरोधिनामिति ।
निवेशनमेव वेति ।
षष्ठ्यन्तयोरत्रानुषङ्गः ।
कृतमपीति ।
निवेशनमित्यनुषज्यते ।
अङ्गीति ।
अङ्गिरसस्य ये विभावानु भावाः तदेकरूपं सत् तदेकरूपतां सम्पाद्येत्यर्थः ।
बृहंणीयं पोषणीयम् ।
अङ्गत्वं प्रतिजागरयितव्याः अङ्गतां नेतव्याः विरोध्यविरोधिसाधारणं प्रकारमिति ।
सम्भवन्तमिति शेषः ।
विरोधीति ।
विरोधिविषयः असाधारणश्च यो दोषपरिहारप्रकारः तद्गतत्वेन तत्सम्बन्धित्वेनेत्यर्थः ।
सम्भवीति ।
अत्र पूरयति--प्रधानेत्यादि ।
वृत्तौ ऽएतच्चेऽत्यादि ।
बहुरसेषु प्रबन्धेष्वेकस्य रसस्य आपेक्षिकमेतत्प्रकर्ष योगित्वमशक्यप्रतिक्षेपमिति सम्बन्धः ।
केनाशक्यप्रतिक्षेपमित्यत्रोक्तम्--रसानामित्यादि ।
मतमेतद्विवृणोति--उपकार्येत्यादि ।

अन्यथेति ।
स्वचमत्कारविश्रान्तत्वाभाव यावान् परिपोषस्तावांस्तस्य न कर्तव्यः, स्वतस्तु सम्भवी परिपोषः केन वार्यते ।
एतच्चापेक्षिकं प्रकर्षयोगित्वमेकस्य रसस्य वहुरसेषु प्रबन्धेषु रसानामङ्गाङ्गिभावमनभ्युपगच्छताप्यशक्यप्रतिक्षेपमित्यनेन प्रकारेणाविरोधिनां विरोधिनां च रसानामङ्गाङ्गिभावेन समावेशेप्रबन्धेषु स्यादविरोधः ।
एतच्च सर्वं येषां रसो रसान्तरस व्यभिचारीभवति इति दर्शनं लोचनम् इति ।
सम्भवीति ।
प्रधानाविरोधित्वेनेति शेषः ।
एतच्चेति ।
उपकार्योपकारकभावो रसानां नास्ति स्वचमत्कारविश्रान्तत्वात् ; अन्यथा रसत्वायोगात्, तदभावे च कथमङ्गाङ्गितेत्यपि येषां मतं तैरपि कस्यचिद्रसस्य प्रकृष्टत्वं भूयः प्रबन्धव्यापकत्वमन्येषां चाल्पप्रबन्धानुगामित्वमभ्युपगन्तव्यमितिवृत्तसङ्घटनाया एवान्यथानुपपत्तेः, भूयः प्रबन्धव्यापकस्य च रसस्य रसान्तरैर्यदि न काचित्सङ्गतिस्तदितिवृत्तस्यापि न स्यात्सङ्गतिश्चेदयमेवोपकार्योपकारकभावः ।
न च चत्मकारविश्रान्तेर्विरोधः कश्चिदिति समनन्तरमेवोक्तं तदाह--अनभ्युपगच्छतापीति ।
शब्दमात्रेणासौ नाभ्युपगच्छति ।
अकाम एवाभ्युपगमयितव्य इति भावः ।
अन्यस्तु व्याचष्टे--एतच्चापेक्षिकमित्यादिग्रन्थो द्वितीयमतमभिप्रेत्य यत्र रसानामुपकार्योपकारकता नास्ति, तत्रापि हि भूयो वृत्तव्याप्तत्वमेवाङ्गित्वमिति ।
एतच्चासत्; एवं हि एतच्च सर्वमिति सर्वशब्देन य उपसंहार एकपक्षविषयः बालप्रिया इत्यर्थः ।
तदभाव इति ।
रसत्वाभाव इत्यर्थः ।
कथमङ्गाङ्गितेति ।
रसयोहङ्गाङ्गिभावः ।
कथमित्यर्थः ।
तैरपीत्यस्याभ्युपगन्तव्यमित्यनेन सम्बन्धः ।
कस्यचिद्रसस्य प्रकृष्टत्वमित्यनेनैतच्चापेक्षिकमित्यादिग्रन्थो विवृतः ।
प्रकृष्टत्वं विवृणोति--भूय इत्यादि ।
अशक्यप्रतिक्षेपमित्यस्य विवरणम्---अभ्युपगन्तव्यमिति ।
अत्र हेतुमाह--इतिवृत्तेत्यादि ।
इतिवृत्तघटनायाः कथासङ्घटनस्य ।
एवमभ्युपगमे उपकार्योपकारकभावो ऽप्यभ्युपगतो भवेदित्याह---भूय इत्यादि ।
सङ्गतिरिति ।
सम्बन्ध इत्यर्थः ।
तदिति ।
तदेत्यर्थः ।
न स्यादिति ।
सङ्गतिरित्यनुषज्यते ।
न च चमत्कारेति ।
चमत्कारविश्रान्तेः कश्चिद्विरोधो न चेत्यन्वयः ।
तदाहेति ।
तदभिप्रायेणाहेत्यर्थः ।
शब्देति ।
वचनमात्रेणेत्यर्थः ।
अभ्युपगमयितव्य इति ।
युक्त्येति शेषः ।
द्वितीयं मतमिति ।

मतान्तरे त्वित्यादिना वक्ष्यमाणं मतमित्यर्थः ।
रसानामित्यादि ।
किन्तु सास्थायिनामिति भावः ।
तत्रापीति ।
तन्मते ऽपीत्यर्थः ।
भूय इत्यादि ।
तथाच बह्वितिवृत्तव्याप्तत्वमङ्गित्वमल्पेतिवृत्तव्याप्तत्वमङ्गत्वं चेति भावः ।
सर्वशब्देनेति ।
सर्वशब्दं प्रयुज्येत्यर्थः ।
उपसंहार इति ।
तन्मतेनोच्यते इत्युपसंहार इत्यर्थः ।
एकपक्षविषय इति ।
रसो रसान्तरस्येत्युक्तैकपक्षविषयक इत्यर्थः ।
एतत्पक्षविषय लोचनम् मतान्तरे ऽपीत्यादिना च यो द्वितीयपक्षोपक्रमः सो ऽतीव दुःश्लिष्ट इत्यलं पूर्ववंश्यैः सह बहुना संलापेन ।
येषामिति ।
भावाध्यायसमाप्तावस्ति श्लोकः--- बहूनां समवेतानां रूपं यस्य भवेद्बहु ।
स मन्तव्यो रसस्थायी शेषाः सञ्चारिणो मताः ॥
इति ।
तत्रोक्तक्रमेणाधिकारिकेतिवृत्तव्यापिका चित्तवृत्तिरवश्यमेव स्थायित्वेन भाति प्रासङ्गिकवृत्तान्तगामिनी तु व्यभिचारितयेति रस्यमानतासमये स्थायिव्यभिचारिभावस्य न कश्चिद्विरोध इति केचिद्व्याचचक्षिरे ।
तथा च भागुरिरपि किं रसानामपि स्थायिसञ्चारितास्तीत्याक्षिप्याभ्युपगमेनैवोत्तरमवोचद्बाढमस्तीति ।
अन्ये तु स्थायितया पठितस्यापि रसस्य रसान्तरे व्यभिचारित्वमस्ति, यथा क्रोधस्य वीरे व्यभिचारितया पठितस्यापि स्थायित्वमेव रसान्तरे, यथा तत्वज्ञानविभावकस्य निर्वेदस्य शान्ते ; व्यभिचारिणो वा सत एव व्यभिचार्यन्तरापेक्ष्या स्थायित्वमेव, यथा विक्रमोर्वश्यामुन्मादस्य चतुर्थे ऽङ्के इतीयन्तमर्थमवबोधयितुमयं श्लोकः बहुनां चित्तवृत्तिरूपाणां भावानां मध्ये यस्य बहुलं रूपं यथोपलभ्यते स स्थायी भावः, स च रसो ससीकरणयोग्यः; शेषास्तु सञ्चारिण इति व्याचक्षते, न तु रसानां स्थायिसञ्चारिभावेनाङ्गाङ्गितोक्तेति ।
अत एवान्ये रसस्थायीति षष्ठ्या सप्तम्या द्वितीयया वाश्रितादिषु बालप्रिया इति च पाठः ।
स दुःश्लिष्ट इत्यपकर्षः ।
बहुनामिति ।
समवेतानामात्मनिष्ठानाम् बहुनां भावानामिति शेषः ।
चित्तवृत्तिविशेषाणामित्यर्थः ।
मध्ये यस्य भावस्य, रूपं बहु भूयः प्रबन्धव्यापकं भवेत् ।
रस स्थायीति ।
रसः स्थायीति छेदः ।
"खर्परे शरी"ति विसर्गलोपः ।
सः स्थायी रसो मन्तव्य इति योजना ।
शेषा इति ।
रसा इति विपरणामेनानुषङ्गः ।
उक्तमर्थं दर्शयन्नाह--तत्रेत्यादि ।
तत्रोक्तक्रमेण तस्मिन् श्लोके उक्तो यः क्रमस्तेन ।
रस्यमानतासमये इति ।
रस्यमानतायामपीति च पाठः ।
स्थायिव्यभिचारिभावस्येति ।
रसानामिति शेषः ।
तथोचेत्यादि ।

भागुरिरपि बाढमस्तीत्यम्युपगमेनैवावोचदित्यन्वयः ।
ऽमतान्तरऽ इत्यादिग्रन्थं तन्मतस्योपपत्तिं दर्शयन्नवतारयति---अन्ये त्वित्यादि ।
अत्र वीर इत्यन्तमेकं वाक्यं, शान्त इत्यन्तं द्वितीयं, चतुर्थे ऽङ्क इत्यन्तं तृतीयं बोध्यम् ।
उन्मादस्येति ।
वितर्काद्यपेक्षयेति शेषः ।
समवेतानामित्यस्य विवरणं चित्तवृत्तिरूपाणां भावानामिति ।
सः स्थायी रसश्च मन्तव्य इति योजना ।
स्थायीत्यस्य व्याख्यानम्--त्थायिभाव इति ।
रस इत्यस्य रसीकरणयोग्य इति ।
शेषा इति ।
अन्ये भावा इत्यर्थः ।
न त्वित्यादि ।
किन्तु स्थायिनामेवेति भावः ।
युक्तेति ।
उक्तेति च पाठः ।
षष्ठ्येत्यादि ।
रसस्य रसे रसं स्थायीति विग्रह इति भावः ।
तन्मतेनोच्यते ।
मतान्तरे तु रसानां स्थायिनो भावा उपचाराद्रसशब्देनोक्तास्तेषामङ्गत्वं निर्विरोधमेव ।
एवमविरोधिनां विरोधिनां च प्रबन्धस्थेनाङ्गिना रसेन समावेशे साधारणमविरोधोपायं प्रतिपाद्येदानीं विरोधिविषयमेव तं प्रतिपादयितुमिदमुच्यते ।
विरुद्धैकाश्रयो यस् तु विरोधी स्थायिनो भवेत् ।
स विभिन्नाश्रयः कार्यस् तस्य पोषे ऽप्य् अदोषता
विरुद्धैकाश्रयो यस्तु विरोधी स्थायिनो भवेत् ।
स विभिन्नाश्रयः कार्यस्तस्य पोषो ऽप्यदोषता ॥ 25 ॥
। ऐकाधिकरण्यविरोधी नैरन्तर्यविरोधी चेति द्विविधो विरोधी ।
तत्र प्रबन्धस्थेन स्थायिनाङ्गिना रसेनौचित्यापेक्षया विरुद्धैकाश्रयो यो विरोधी यथा वीरेण भयानकः स विभिन्नाश्रयः कार्यः ।
तस्य वीरस्य य आश्रयः कथानायकस्तद्विपक्षविषये सन्निवेशयितव्यः ।
तथा सति च तस्य विरोधिनो ऽपि यः परिपोषः स निर्देषः विपक्षविषये हि भयातिशयवर्णने लोचनम् गमिगाम्यादीनामिति समासं पठन्ति ।
तदाह--मतान्तरे ऽपीति ।
रसशब्देनेति ।
ऽरसान्तरसमावेशः प्रस्तुतस्य रसस्य यःऽ इत्यादिप्राक्तनकारिकानिविष्टेनेत्यर्थः ॥ 24 ॥
अथ साधारणं प्रकारमुपसंहरन्नसाधारणमासूत्रयति---एवमिति ।
तमित्यविरोधोपायम् ।
विरुद्धेति ।
विशेषणं हेतुगर्भम् ।
यस्तु स्थायीं स्थाय्यन्तरेणासंभाव्यमानैकाश्रयत्वाद्विरोधी भवेद्यथोत्साहेन भयं स विभिन्नाश्रयत्वेन नायकविपक्षादिगामित्वेन कार्यः ।
तस्येति ।
तस्य विरोधिनो ऽपि तथाकृतस्य तथानिबद्धस्य बालप्रिया आश्रितादिषु गम्यादीनामिति ।
द्वितीयया वेति सम्बन्धः ।
द्वितीयाश्रितेत्यादिसूत्रे "गम्यादीनामुपसंख्यान" मिति वार्तिकमनेन स्मारितम् ॥ 24 ॥

साधारणं प्रकारमिति ।
विरोध्यविरोधसाधारणं अविरोधोपायप्रकारमित्यर्थः ।
उपसंहरन्निति ।
अनेन प्रतिपाद्येत्यन्तवृकत्त्यर्थो दर्शितः ।
असाधारणं विरोधिमात्रविषयकम् ।
अनेन विरोधिविषयमेवेतिवृत्त्यर्थो दर्शितः ।
विरुद्धेतीति ।
विरुद्धैकाश्रय इतीत्यर्थः ।
विरुद्धपदं विवृणोति--स्थायीत्यादि ।
असम्भाव्यमानः एकाश्रयः यस्य तत्त्वात् ।
सः तथाविधः स्थायी ।
तस्येति ।
तत्पदार्थं विवृण्वन्नाह---तस्य विरोधिनो ऽपीत्यादि ।
तथा कृतस्य विभिन्नाश्रयत्वेन कृतस्य ।
अस्यैव विवरणम्---तथानिबद्धस्येति ।
नायकस्य नयपराक्रमादिसम्पत्सुतरामुद्द्योतिता भवति ।
एतच्च मदीये ऽर्जुनचरिते ऽर्जुनस्य पातालावतरणप्रसङ्गे वैशद्येन प्रदर्शितम् ।
एवमैकाधिकरण्यविरोधिनः प्रबन्धस्थेन सथायिना रसेनाङ्गभावगमने निर्विरोधित्वं यथा तथा तद्दर्शितम् ।
द्वितीयस्य तु तत्प्रतिपादयितुमुच्यते--
एकाश्रयत्वे निर्दोषो नैरन्तर्ये विरोधवान् ।
रसान्तर-व्यवधिना रसो व्यङ्ग्यः सुमेधसा
एकाश्रयत्वे निर्देषो नैरन्तर्ये विरोधवान् ।
रसान्तरव्यवधिना रसो वल्यङ्ग्यः सुमेधसा ॥ 26 ॥
यः पुनरेकाधिकरणत्वे निर्विरोधो नैरन्तर्ये तु विरोधी स रसान्तख्यवधानेन लोचनम् परिपुष्टतायाः प्रत्युत निर्देषता नायकोत्कर्षाधानात् ।
अपरिपोषणन्तु दोष एवेति यावत् ।
अपिशब्दो भिन्नक्रमः ।
एवमेव वृत्तावपि व्याख्यानात् ।
ऐकाधिकरण्यमेकाश्रयेण सन्बन्धमात्रम्, तेन विरोधी यथा---भयनोत्साहः, एकाश्रयत्वे ऽपि सम्भवति कश्चिन्नि रन्तरत्वेन निर्व्यवधानत्वेन विरोधी, यथा रत्या निर्वेदः ।
प्रदर्शितमिति ।
ऽसमुत्थिते धनुर्ध्वनौ भयावहे किरीटिनो महानुप्लवो ऽभवत्पुरे पुरन्दरद्विषाम्ऽ इत्यादिना ॥ 25 ॥
द्वितीयस्येति ।
नैरन्तर्यविरोधिनः ।
तदिति ।
निर्विरोधित्वम् ।
एकाश्रयत्वेन बालप्रिया ऽपोषे अदोषतेऽ त्येतद्विवृणोति---परीत्यादि ।
गम्यमर्थमाह--अपरिपोषणन्त्वित्यादि ।
अपिशब्द इति ।
ऽपोषे ऽप्यदोषतेऽत्यपिशब्द इत्यर्थः ।
व्याख्यानादिति ।
तस्य विरोधिनो ऽवपीति व्याख्यानादित्यर्थः ।

एवं कारिकाव्याख्यानेन ऽतत्रेऽत्यादिवृत्तिग्रन्थस्य विवरणादैकाधिकरण्यविरोधीत्यादिपूर्वभागमात्रं भयेनोत्साह इति ।
ऽनैरन्तर्यविरोधीऽ त्येतद्विवृणोति---एकेत्यादि ।
एकाश्रयत्वे सम्भवत्यपि कश्चिन्निरन्तरत्वेन विरोधीति सम्बन्धः ।
निरन्तरत्वेनेत्यस्य विवरणम्--निर्व्यवधानत्वेनेति ।
समुत्थित इति ।
"श्रवेण तस्य तु ध्वनेर्विलुप्तलबन्धनमशेषदैत्ययोषितां श्लथीबभूव जीवितमि" त्युत्तरार्धम् ।
किरीटिनो ऽर्जुनस्य धनुर्ध्वनाविति सम्बन्धः ।
पुरन्दरद्विषामसुराणाम् ।
उपप्लवस्यैव किञ्चिद्विवरणं श्रवेणेत्यादि ॥ 25 ॥
वृत्तौ ऽऐकाधिकरण्यविरोधिनऽ इत्यस्य ऽअङ्गभावगमने निर्विरोधित्वऽमित्यनेन सम्बन्धः ।
कारिकायाम् ।
ऽएकाश्रयत्वे नैरन्तर्येऽइत्युभयत्र सप्तमी निमित्त इत्याशयेन व्याचष्टे---एकाश्रयत्वेनेत्यादि ।
निर्देष इत्यस्य व्याख्यानम्---न विरोधीति ।
प्रबन्धे निवेशायितव्यः ।
यथा शान्तशृङ्गारौ नागानन्दे निवेशितौ ।
लोचनम् निमित्तेन यो निर्देषः न विरोधी किं तु निरन्तरत्वेन निमित्तेन विरोधमेति स तथाविधविरुद्धरसद्वयावरुद्धेन रसान्तरेण मध्ये निवेशितेन युक्तः कार्य इति कारिकार्थः ।
प्रबन्ध इति बाहुल्यापेक्षं, मुक्तके ऽपि कदाचिदेवं भवेदपि ।
यद्वक्ष्यति---ऽएकवाक्यस्थयोरपिऽ इति ।
यथेति ।
तत्र हि--ऽरागस्यास्पदमित्यवैमि न हि मे ध्वंसीति न प्रत्ययःऽ इत्यादिनोपक्षेपात्प्रभृति परार्थशरीरवितरणात्मकनिर्वहणपर्यन्तः शान्तो रसस्तस्य विरुद्धो मलयवतीविषयः शृङ्गारस्तदुभयाविरुद्धमद्भुतमन्तरीकुत्य क्रमप्रसरसम्भावनाभिप्रायेण कविना निबद्धः ऽअहो गीतमहो वादित्रम्ऽ इति ।
एतदर्थमेव ऽव्यक्तिर्व्यञ्जनधातुनाऽ इत्यादि नीरसप्रायमप्यत्र निबद्धमद्भुतरसपरिपोषकतयात्यन्तरसरसतावहमिति ऽनिर्देषदर्शनाः कन्यकाः पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेनेऽति ।
अनन्तरं च निमित्तनैमित्तिकप्रसङ्गागतो यः शेखरकवृत्तान्तोदितहास्यरसोपकृतः शृङ्गारस्तस्य विरुद्धो यो वैराग्यशमपोषको नागीयकलेबरास्थिजालावलोकनादिवृत्तान्तः स बालप्रिया विरोधवानित्यस्य विवरणम्---विरोधमेतीति ।
उत्तरार्धं व्याचष्टे---स इत्यादि ।
प्रबन्ध इतीति ।
प्रबन्धे निवेशायितव्य इत्यत्र प्रबन्धग्रहणमित्यर्थः ।
यथा शान्तशृङ्गारौ नागानन्दे निवेशितावित्येतद्विवृणोति---तत्रेत्यादि ।
इत्यादिना य उपक्षेपस्त स्मादित्यर्थः ।
परेति ।
परार्थं यच्छरीरवितरणं तदात्मकं यन्निर्वहणं तत्पर्यन्त इत्यर्थः ।
शान्तो रस इति निबद्ध इत्यस्यापकर्षः ।
तस्येत्यादि ।
शृङ्गारः इत्यद्भुमन्तरीकृत्य निबद्ध इत्यन्वयः ।
क्रमेति ।
क्रमेण यः प्रसरः रतिरूपशृङ्गारस्य नायके प्रसरणं तस्य सम्भावनारूपो य अभप्रायस्तेनेत्यर्थः ।
इत्यादिनिबद्धमिति सम्बन्धः ।
इति चेति ।
निर्देषदर्शनाः कन्यका इत्युक्त्या वक्तरि रत्यनाविर्भावप्रकाशनादिति भावः ।
चित्तवृत्तीति ।
चित्तवृत्तीनां रागादीनां ये प्रसरास्तेषु, यद्वा चित्तवृत्तीनां प्रसरो येषु विषयेषु तेषु यत्प्रसंख्यानं दोषदर्शनं, तदेव धनं येषां ते ।
तद्वचनमाह--पुरुषार्थेत्यादि ।

सांख्यकारिकायाः पूर्वार्धमिदम् ।
"प्रकृतेर्विभुत्वयोगान्नटवद्य्ववतिष्ठते लिङम्" इत्युत्तरार्थम् ।
निमित्तं धर्मादिनैमित्तिकं धर्मादिकारणं स्थूलदेहादि तयोः प्रसङ्गेन सम्बन्धेन ।
ऽइदं लिङ्गंऽ सक्ष्मशरीरम् ।
ऽनटवद्व्यवतिष्ठतेऽ यथा नटो विविधं रूपङ्गृहीत्वा व्यवहरति तथा देवादिशरीरं गृहीत्वा व्यवहरति ।
किमर्थम्, तत्राह--ऽपुरुषार्थेऽति ।
पुरुषार्थफलकमित्यर्थः ।
तत्तद्भोगादृष्टबलात्तत्तद्भोगार्थमेव तथा व्यवहरतीति यावत् ।
कुतो ऽस्यैंवविधो महिमेत्यत्राह---ऽप्रकृतेऽरित्यादि ।
इति तद्य्वाख्या ।
शान्तश्च तृष्णाक्षयसुरवस्य यः परिपोषस्तल्लक्षणो रसः प्रतीयत एव ।
तथा चोक्तम्--- यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥
लोचनम् मित्रावसोः प्रविष्टस्य मलयवतीनिर्गमनकारिणः ऽसंसर्पद्भिः समन्तात्ऽ इत्यादि ।
काव्योपनिबद्धक्रोधव्यभिचार्युपकृतवीररसान्तरितो निवेशितः ।
ननु नास्त्येव शान्तो रसः तस्य तु स्थाय्येव नोपदिष्टो मुनिनेत्याशङ्क्याह--शान्तश्चेति ।
तृष्णानां विषयाभिलाषाणां यः क्षयः सर्वतो निवृत्तिरूपो निर्वेदः तदेव सुखं तस्य स्थायिभूतस्य यः परिपोषो रस्यमानताकृतस्तदेव लक्षणं यस्य स शान्तो रसः ।
प्रतीयत एवेति ।
स्वानुभवेनापि निवृत्तभोजनाद्यशेषविषयेच्छाप्रसरत्वकाले सम्भाव्यत एव ।
अन्ये तु सर्वचित्तवृत्तिप्रशम एवास्य स्थायीति मन्यन्ते ।
तृष्णासद्भावस्य प्रसज्यप्रतषेधरूपत्वे चेतोवृत्तित्वाभावेन भावत्वायोगात् ।
पर्युदासे त्वस्मत्पक्ष एवायम् ।
बालप्रिया कामादितत्तत्पुरुषार्थलाभः क्रमेणैव भवतीत्यंशे उपष्टम्भकमिदं वचनमिति बोध्यम् ।
निवेशित इथि ।
नागानन्दनाटकमवलोकयतां सहृदयानां स्पष्टो ऽयं विषयः ।
निवृत्तिरूपो निर्वेद इति ।
निवृत्तिरूपः प्रध्वंसहेतुः ।
निर्वेद इति ।
तत्त्वज्ञानजनितो विषयेषु हेयत्वबुद्धिरित्यर्थः ।
यद्वा---सर्वतो निवृत्तिरूप इति ।
सर्वस्माद्विषयान्मनोनिवृत्तिरूप इत्यर्थः ।
निवृत्तिर्नाम काचिच्चित्तवृत्तिः ।
तस्य स्थायिभूतस्येति ।
सुखस्येत्यन्तस्य विवरणम् ।
रस्यमानताकृतो यः परिपोष इति सम्बन्धः ।
निवृत्तेति ।
निवृत्तः भोजनाद्यशेषविषयाया इच्छायाः प्रसरो यतः पुरुषात्तस्य भावस्तत्वं तस्य काले प्रसरकाले इति वा पाठः ।
सम्भाव्यते ज्ञायते ।
शमः स्थायीति केचित् ।
तन्मतमाह--अन्य इति ।

सर्वेति ।
सर्वासां चित्तवृत्तीनां रत्यादिरूपाणां प्रशमः प्रकर्षेण शम इत्यर्थः ।
तृष्णाक्षयशब्दार्थो ऽप्ययमेवेति भावः ।
अस्येति ।
शान्तस्येत्यर्थः ।
सर्वचित्तवृत्तिप्रशम इत्यनेन सर्वासां चित्तवृत्तीनामभावस्य विवक्षणेदोषं दर्शयन्नाह--तृष्णेत्यादि ।
तृष्णानां सर्वासां चित्तवृत्तीनां सद्भावस्य प्रसरस्य यः प्रसज्यप्रतिषेधो ऽत्यन्ताभावस्तद्रूपत्वे ।
सर्वचित्तवृत्तिप्रशमपदार्थस्येति शेषः ।
चेतोवृत्तित्वाभावेनेति ।
अभावरूपत्वादिति भावः ।
भावत्वायोगादिति ।
भावान्तर्भावासम्भवादित्यर्थः ।
पर्युदास इति ।
विवक्षिते इति शेषः ।
पर्युदासन्यायेनार्थे विवक्षिते सतीत्यर्थः ।
यथा अधर्मादिपदस्य धर्मवरोधिपापादिकमर्थः, तथा तृष्णाक्षयपदस्य सर्वञ्चित्तवृत्तिप्रशमपदस्य वा सर्वचित्तवृत्तिविरोधी लोचनम् अन्ये तु--- स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्तते ।
पुनर्निमित्तापाये तु शान्त एव प्रलीयते ॥
इति भरतवाक्यं दृष्टवन्तः सर्वरससामान्यस्वाभावं शान्तमाचक्षणा अनुपजातविशेषान्तरचित्तवृत्तिरूपं शान्तस्य स्थायिभावं मन्यन्ते ।
एतच्च नातीवास्मत्पक्षाद्दूरम् ।
प्रागभावप्रध्वंसाभावकृतस्तु विशेषः ।
युक्तश्च प्रध्वंस एव तृष्णानाम् ।
यथोक्तम्---ऽवीतरागजन्मादर्शनात्ऽ इति ।
प्रतीयत एवेति ।
मुनिनाप्यङ्गीक्रियत एव ऽक्वचिच्छमःऽ इत्यादि ।
वदता ।
न च तदीया पर्यन्तावस्था वर्णनीया येन सर्वचेष्टोपरमादनुभावाभावेनाप्रतीयमानता स्यात् ।
ऽशृङ्गारादेरपि फलभूमाववर्णनीयतैव पूर्वभूमौ तु ऽतस्य प्रशान्तवाहिता संस्कारात् ।
तच्छिद्रेषु प्रत्ययान्तराण संस्कारेभ्यःऽ बालप्रिया चित्तवृत्तिविशेषो यदि विवक्षितस्तदेति यावत् ।
अस्मत्पक्ष एवायमिति ।
निर्वेदरूपचित्तवृत्तिविशेषे एव पर्यवसानादिति भावः ।
स्वं स्वमिति ।
षष्ठाध्यायान्तिमभागस्थो ऽयं श्लोकः ।
अस्मात्पूर्वो ऽयं श्लोकः--- भावा विकारा रत्याद्याः शान्तस्तु प्रकृतर्मतः ।
विकारः प्रकृतेर्जातः पुनस्तत्रैव लीयते ॥
इति ।
स्वमिति ।
स्वं स्वीयम् ।
निमित्तम् वनितादिरूपम् ।
शान्तान्निर्विकारादन्तः- करणरूपात्प्रकृतेः ।
भावः रत्यादिः ।

अनुपेति ।
अनुपजातविशेषा बाह्यवनितादिविषयविशेषानाश्रया आन्तरी आत्मविषयिका च या चित्तवृत्तिः, तद्रूपमित्यर्थः ।
एतदिति ।
उक्तमतमित्यर्थः ।
नातीवेत्यादि ।
अस्मत्पक्षसन्निकृष्टमित्यर्थः ।
प्रागभावेति ।
पक्षस्यास्य सर्वचित्तवृतितिप्रागभावे पर्यवसानमस्मत्पक्षस्य तु सर्वचित्तवृत्तिप्रध्वंसाभाव इति विशेष इत्यर्थः ।
युक्तश्चेत्यादि ।
तृष्णाप्रध्वंसपक्ष एव युक्त इत्यर्थः ।
यथोक्तमिति ।
सर्वासां तृष्णानां प्रध्वंसो भवतीत्येतदुक्तमित्यर्थः ।
न्यायसूत्रकृतेतिशेषः ।
वीतेति ।
तृतीयाध्यायप्रथमाह्निकस्थमिदं सूत्रम् ।
वीतरागस्य रागादिरहितस्य ।
जन्मनः अदर्शनात् यतो जन्म न भवति, तस्मादित्यर्थः ।
किन्तु सरागस्यैव जन्मेति भावः ।
आत्मनो नित्यत्वसाधकमिदम् ।
प्रतीयत एवेत्येतदन्यथापि व्याचष्टे--मुनिनेत्यादि ।
वदता मुनिनेत्यन्वयः ।
शमपदमत्र योगेन निर्वेदपरमिति भावः ।
चेष्टोपरमादयो हि शान्तस्यानुभावा वक्तव्यास्ते च न प्रयोगयोग्याः ।
अतस्तस्यानुभावैरप्रतीयमानतेति केचिद्वदन्ति, तन्मतन्निराकर्तुमाह---ने चेत्यादि ।
तदीयेति ।
शान्तसम्बन्धिनीत्यर्थः ।
पर्यन्तावस्था निरीहावस्था ।
अप्रतीयमानतेति ।
शान्तस्येति शेषः ।
फलभूमाविति ।
सुरतावस्थायामित्यर्थः ।
पूर्वभूमावित्यादि ।
पूर्वभूमौ तु शान्तस्यापि जनकादेश्चेष्टा दृष्टेवेति सम्बन्धः ।
चित्तस्य क्षिप्ताद्या लोचनम् इत सूत्रद्वयनीत्या चित्राकारा यमनियमादिचेष्टा राज्यधुरोद्वहनादलक्षणा वा शान्तस्यापि जनकादेर्दृष्टैवेत्यनुभावसद्भावाद्यमनियमादिमध्यसम्भाव्यमानभूयोव्यभिचारिसद्भावाच्च प्रतीयत एव ।
ननु न प्रतीयते नास्य विभावाः सन्तीत चेत्--न; प्रतीयत एव तावदसौ ।
तस्य च भवितव्यमेव प्राक्तनकुशलपरिपाकपरमेश्वरानुग्रहध्यात्मरहस्यशास्त्रवीतरागपरिशीलनादिभिर्विभावैरितीयतैव विभावानुभावव्यभिचारिसद्भावः स्थायी च दर्शितः ।
ननु तत्र हृदयसंवादाभावाद्रस्यमानतैव नोपपन्ना ।
क एवमाह स नास्तीति, यतः प्रतीयत एवेत्युक्तम् ।
ननु प्रतीयते सर्वस्य श्लाघास्पदं न भवति ।
तर्हि वीतरागाणं शृङ्गारो न बालप्रिया नानावस्थाः, ता भूमय इत्युच्यन्ते ।

प्रशान्तेत्यादि ।
"तस्य प्रशान्तवाहितासंस्कारात्, तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः" इमे योगसूत्रे ।
अत्राद्यस्येयं भोजवृत्तिः-- "तस्य चेतसः उक्तान्निरोधसंस्कारात् प्रशान्तवाहिता भवति परिहृतविक्षेपतया सदृशप्रवाहपरिणाम चित्तं भवतीत्यर्थः" इति ।
सूत्रमिदं तृतीये पादे, तच्छिद्रेत्यादि चतुर्थे ।
अस्यापीयं भोजवृत्तिः---"तस्मिन् समाधौ स्थितस्य छिद्रेव्यन्तरालेषु यानि प्रत्ययान्तराणि व्युत्थानरूपाणि ज्ञानानि तानि, प्राग्भूतेभ्यो व्युत्थानानुभवजेभ्यः संस्कारेभ्यः अहं ममेत्येवंरूपाणि क्षीयमाणेभ्यो ऽपि भवन्ति" इति ।
चित्राकारेति ।
विस्मयावहेत्यर्थः ।
राज्येत्यादि ।
चेष्टेति शेषः ।
अत्र समाधिकाले यमादिचेष्टा व्यत्थानकाले राज्यधुरोद्वहनादिचेष्टेति विभागः ।
जनकादेरिति ।
जनकमहाराजो महायोगीति प्रसिद्धिः ।
इतीति हेतौ ।
यमेति ।
यमनियमादीनां योगाङ्गानां मध्ये अन्तरे सम्भाव्यमानाः भूयांसश्च ये व्यभिचारिणः मतिधृतिस्मृत्यादयः, तेषां सम्भवादित्यर्थः ।
प्रतीयत एवेति ।
शान्तो रस इति शेषः ।
शङ्कते---नन्वित्यादि ।
नन प्रतीयत इति ।
शान्त इति शेषः ।
कुत इत्यत्राह---नास्येत्यादि ।
समाधत्ते---नेति ।
के वा विमाबा इत्यत्राह---तस्येत्यादि ।
तस्य च विभावैर्भवितव्यमेवेत्यन्वयः ।
तानाह---प्राक्तनेत्यादि ।
प्राक्तनानां कुशलानां सत्कर्मणां परिपाकः तथा परमेश्वरानुग्रहः तथाध्यात्मरहस्यशास्त्रेषु वेदान्तादिषु बीतरागेषु च परिशीलनं तदादिभिरित्यर्थः ।
उपसंहरति---इतीत्यादि ।
इयतैव उक्तप्रकारेणैव ।
शङ्कते--नन्विति ।
तत्र शान्ते ।
हृदयेति ।
प्रतिपत्तॄणामिति शेषः ।
समाधत्तं--क इति ।
सः हृदयसम्वादः उक्तमिति ।
वृत्तिकृतेति शेषः ।
ऽयदि नामेऽत्यादिग्रन्थमवतारयति---नन्वित्यादि ।
प्रतीयत इति शान्त इति शेषः ।
विशेषमाह---सर्वस्येति ।
प्रतिबन्द्या उत्तरमाह---तर्हित्यादि ।
सो ऽपि शृङ्गारो ऽपि तदाहेति ।

तदभिप्रायेणाहेत्यर्थः ।
नन्वित्यादि ।
असौ धर्मप्रधानो यदि नाम सर्वजनानभवगोचरता तस्य नास्ति नैतावतासावलोकसामान्यमहानुभावचित्तवृत्तिविशेषः प्रतिक्षेप्तुं शक्य- ।
न च वीरे तस्यान्तर्भावः कर्तं युक्त- ।
तस्याभिमानमयत्वेन व्यवस्थापनात् ।
अस्य चाहङ्कारप्रशमैकरूपतया स्थितेः ।
तयोश्चैवंविधविशेषसद्भावे ऽपि यद्यैक्यं लोचनम् श्लाध्य इति सो ऽपि रसत्वाच्च्यवतामिति तदाह--यद नामेति ।
ननु धर्मप्रधानो ऽसौ वीर एवेति सम्भावयमान आह--न चेति ।
तस्येति ।
वीरस्य ।
अभिमानमयत्वेनेति ।
उत्साहो ह्यहमेवंविध इत्येवं प्राण इत्यर्थः ।
अस्य चेति शान्तस्य ।
तयोश्चेतिर् ।
इहामयत्वनिरीहत्वाभ्यामत्यन्तविरद्धयोरपीति चशब्दार्थः ।
वीररौद्रयोस्त्वत्यन्तविरोधो ऽपि नास्ति ।
समानं रूपं च धर्मार्थकामार्जनोपयोगित्वम् ।
नन्वेवं दयावीरो धर्मवीरो दानवीरो वा नासौ कश्चित्, शान्तस्यैवेदं नामान्तरकरणम् ।
तथा हि मुनिः-- दानवीरं धर्मवीरं युद्धवीरं तथैव च ।
रसवीरमपि प्राह ब्रह्मा त्रिविधसम्मितम् ॥
बालप्रिया वीर एवेति सम्बन्धः ।
असौ शान्तः धर्मप्रधानो वीरः धर्मवीरः ।
इतीत्यादि ।
इति सम्भावनां कुर्वस्तां परिहर्तुमाहेत्यर्थः ।
वृत्तौ---ऽन चेऽत्यादि ।
ऽवीरेऽ धर्मवीरे ।
ऽतस्यऽ शान्तस्य न च युक्त इति सम्बन्धः ।
ऽतस्येऽति ।
वीरस्येत्यर्थः ।
ऽअभिमानमयत्वेन, गर्वमयत्वेन ।
इममर्थं विवृणोति लोचने--उत्साहो हीत्यादि ।
उत्साहः वीरस्थायी ।
एवंविध इत्यादि सर्वं साधयितुं शक्नोमीत्यादि बुद्धिरेव प्राणा जीवितं यस्य स इत्यर्थः ।
तयोश्चेति चकारार्थमाह--इहेत्यादि ।
तद्वीररौद्रयोरपि तथा प्रसङ्ग इत्युक्तं विवृणोति--वीररौद्रयोरित्यादि ।
धर्मेति ।
धर्मर्थकामानां यदर्जनं तदुपयोगित्वं समानरूपं चास्तीत्यर्थः ।
अतस्तयोरैक्यं स्यादिति भावः ।
दयावीरादीनामित्यादिग्रन्थमवतारयति--नन्वित्यादि ।
एवं वीरशान्तयोरुक्तरीत्या भेदाङ्गीकारे ।

दयावीर इत्यादि ।
दयावीरः धर्मवीरान्तर्गतो दानवीरान्तर्गतो वेत्यर्थः ।
दयावीर इत्यस्यानन्तरं ऽको ऽभिधीयताऽमिति च पाठः ।
प्रतिवक्ति--नासावित्यादि ।
दयावीर इत्यनुषज्यते ।
असौ कश्चिन्नेति ।
धर्मवीरो दानवीरो वा नेत्यर्थः ।
तर्हि किमात्मक इत्यत्राह--शान्तस्यैवेत्यादि ।
इदं दयावीर इत्येतत् ।
शान्तस्यैव नामान्तरकरणं दयावीरश्शान्त एवान्तर्भूत इत्यर्थः ।
कुत मुनवचनं प्रमाणयति--तथेत्यादि ।
तथाहीति ।
दयावीरस्य शान्तान्तर्भावाद्धेतोरित्यर्थः त्रैविध्यमेवाभ्यधादित्यनेनास्य सम्बन्धः ।
दानवीरमिति ।
त्रिविधसम्मितमिति ।
त्रैविध्येन विभक्तमित्यर्थः ।
परिकल्प्यते तद्वीररौद्रयोरपि तथा प्रसङ्गः ।
दयावीरादीनां च चित्तवृत्तिवशेषाणां सर्वाकारमहङ्काररहितत्वेन शान्तरसप्रभेदत्वम्, इतरथा तु वीरप्रभेदत्वमिति व्यवस्थाप्यमाने न कश्चिद्विरोधः ।
तदेवमस्ति शान्तो रसः ।
तस्य चाविरुद्धरसव्यवधाने प्रबन्धे विरोधिरससमावेशे सत्यपि निर्विरोधत्वम् ।
यथा प्रदर्शिते विषये ।
लोचनम् इत्यागमपुरःसरं त्रैविध्यमेवाभ्यधात् ।
तदाह--दयावीरादीनाञ्चेत्यादिग्रहणेन ।
विषयजुगुप्सारूपत्वाद्बीभत्से ऽन्तर्भावः शङ्क्यते ।
सा त्वस्य व्यभिचारिणी भवति न तु स्थायितामेति, पर्यन्तनिर्वाहे तस्या मूलत एव विच्छेदात् ।
आधिकारिकत्वेन तु शान्तो रसो न निबद्धव्यैति चन्द्रिकाकारः ।
तच्चेहास्माभिर्न पर्यालोचितं, प्रसङ्गान्तरात् ।
मोक्षफलत्वेन चायं परमपुरुषार्थनिष्ठत्वात्सर्वरसेभ्यः प्रधानतमः ।
स चायमस्मदुपाध्यायभट्टतौतेन काव्यकौतुके, अस्माभिश्च तद्विवरणे बहुतरकृतनिर्णयपूर्वपक्षसिद्धान्त इत्यलं बहुना ॥ 26 ॥
बालप्रिया आगमपुरस्सरमिति ।
ब्रह्मा प्राहेत्यक्तेरिति भावः ।
त्रैविध्यमेवेत्येवकारेण दयावीरव्यवच्छेदः ।
तदाहेति ।
उक्ताभिप्रायेणाहेत्यर्थः ।
ऽदयावीरादीनां चेऽ तीत्यस्यानन्तरं विषयेत्यादेः पूर्वमादिग्रहणेनेति पाठः सर्वेषु दृष्टग्रन्थेषु दृश्यते, तस्य च विषयेत्यादिना सम्बन्धो न घटते चातो ऽत्र धर्मवीरदानवीरयोर्ग्रहणमिति पूरणीयम् ।
यदि वा तथा ग्रन्थे पठनीयमिति बोध्यम् ।
वृत्तौ ऽचित्तवृत्तिवशेषाणाऽमिति ।
चर्व्यमाणानामिति शेषः ।
दयावीरो नाम परोपचिकीर्षाप्रयत्नरूप उत्साहः ।
ऽसर्वाकारम्ऽ इति क्रियाविशेषणम् ।

सर्वथेत्यर्थः ।
ऽअहङ्काररहितत्वेनेऽति हेतौ तृतीया, रहितत्वे इति च पाठः ।
नायकस्येति शेषः ।
ऽइतरथाऽ अहङ्कारसहितत्वे ।
शान्तस्थायिनो विषयजुगुप्सारूपत्वाच्छान्तस्य बीभत्से ऽन्तर्भाव इति केचित् ।
तन्मतं प्रसङ्गान्निराकरोति लोचने---विषयेत्यादि ।
विषयजुगुप्सारूपत्वादिति ।
शान्तस्येति शेषः ।
अस्येत्यपकर्षो वा ।
शङ्क्यत इति ।
कैश्चिदिति शेषः ।
वस्तुतो नैवमित्याह--सा त्वित्यादि ।
सा जुगुप्सा ।
अस्य शान्तस्य ।
तस्याः जुगुप्सायाः ।
शान्तस्य सर्वरसापेक्षयोत्कर्ष इत्याह--मोक्षेत्यादि ।
स चेति ।
शान्तश्चेत्यर्थः ।
बह्वित्यादि ।
वहुतरं यथा तथा कृतनिर्णयौ कृतविचारौ पूर्वपक्षसिद्धान्तौ यस्य सः ॥ 26 ॥
एतदेव स्थिरीकर्तुमिदमुच्यते--
रसान्तरान्तरितयोर् एक-वाक्य-स्थयोर् अपि ।
निवर्तते हि रसयोः समावेशे विरोधिता
रसान्तरान्तरितयोरेकवाक्यस्थयोरपि ।
निवर्तते हि रसयोः समावेशे विरोधिता ॥ 27 ॥
रसान्तरव्यवहितयोरेकप्रबन्धस्थयोर्विरोधिता निवर्तत इत्यत्र न काचिद्रभ्रान्तिः ।
यस्मादेकवाक्यस्थयोरपि रसयोरुक्तया नीत्या विरुद्धता निवर्तते ।
यथा--- भूरेणुदिग्धान्नवपरिजातमालारजोवासितबाहुमध्याः ।
गाढं शिवाभिः परिरभ्यमाणान्सुराङ्गनाश्लिष्टभुजान्तरालाः ॥
सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः स्वगानामुपवीज्यमानान् ।
संवीजिताश्चन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः ॥
विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् ।
निर्दिश्यमानांल्ललनाङ्गुलीभिर्वीराः स्वदेहान् पतितानपश्यन् ॥
लोचनम् स्थिरीकर्तुमिति ।
शिष्यबुद्धावित्यर्थः ।
अपिशब्देन प्रबन्धविषयतया सिद्धो ऽयमर्थ इति दर्शयति---भूरेण्विति ।
विशेषणैरतीव दूरापेतत्वमसम्भावनास्पदमुक्तम् ।
स्वदेहानित्यनेन देहत्वाभिमानादेव तादात्म्यसम्भावनानिष्पत्तेरेकाश्रयत्वमस्ति, बालप्रिया अपिशब्देनेति ।
ऽएकवाक्यस्थयोरपीऽत्यपिशब्देनेत्यर्थः ।
वृत्तौ---ऽभूरेण्विऽत्यादि ।

मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc