ध्वन्यालोक (टीका सहित) · भाग 361380
समविसमणिव्विसेसा समन्तओ मन्दमन्दसंआरा ।
ऐरा होहिन्ति पहा मणोरहाणं पि दुल्लङ्घा ॥
(समविषमनिर्विशेषाः समन्ततो मन्दमन्दसञ्जाराः ।
अचिराद्भविष्यन्ति पन्थानो मनोरथानामपि दुर्लङ्घ्याः ॥
इति छाया) अत्र ह्यचिराद्भविष्यन्ति पन्थान इत्यत्र भविष्यन्तीत्यस्मिन् पदे प्रत्ययः कालविशेषाभिधायी रसपरिपोषहेतुः प्रकाशते ।
अयं हि गाथार्थः प्रवासविप्रलम्भशृङ्गारविभावतया विभाव्यमानो रसवान् ।
यथात्र प्रत्ययांशो व्यञ्जकस्तथा क्वचित्प्रकृत्यंशो ऽपि दृश्यते ।
यथा---तद्गेहं नतमिति मन्दिरमिदं लब्धावगाहं दिवः सा धेनुर्जरती चरन्ति करिणामेता धनाभा धटाः ।
स क्षुदो मुसलध्वनिः कलमिदं सङ्गीतकं योषिता- माश्चर्यं दिवसौर्द्विजो ऽयमियतीं भूमिं समारोपितः ॥
लोचनम् कालस्येति ।
तिङन्तपदानुप्रवष्टस्याप्यर्थकलापस्य कारककालसंख्योपग्रहरूपस्य मध्ये ऽन्वयव्यतरेकाभ्यां सूक्ष्मदृशा भागगतमपि व्यञ्जकत्वं विचार्यमिति भावः ।
रसपरिपोषेति ।
उत्प्रेक्ष्यमाणो वर्षासमयः कम्पकारी किमुत वर्तमान इति ध्वन्यते ।
अंशांशिकप्रसङ्गादेवाह---यथात्रेति ।
बालप्रिया ध्वन्यते इत्यस्यानुषङ्गः ।
भावमाह---तिङन्तेत्यादि ।
तिङ्न्तपदानुप्रविष्टस्य तिङ्न्तपदबोध्यस्य ।
कारकेत्यादि ।
कारकादिचतुष्टयरूपस्येत्यथः ।
उपग्रहः, आत्मनेपदपरस्मैपदे तद्योत्यः कर्त्रभिप्रायक्रियाफलादिरिति यावत् ।
भागगतमिति ।
कारकादिचतुष्टयैकदेशभूतकालगतमपीत्यर्थः ।
वृत्तौ ऽसमेऽति ।
समविषमाः समाः विषमाश्च देशाः निर्विशेषाः जलप्रवाहनिमग्नतया एकरूपाः येषु ते ।
ऽमनोरथानामऽपीति ।
किमुत जनानामित्यपिशब्दार्थः ।
ऽरसपरिपोषहेतुः प्रकाशतऽ इत्युक्तं विवृणोति--उत्प्रेक्ष्यमाणः इत्यादि ।
उत्प्रेक्ष्यमाणः अचिराद्भावित्वेनोह्यमानः ।
कम्पेति ।
विरहिजनानामिति शेषः ।
ऽतद्गेहम्ऽ इति ।
काव्यप्रकाशे ऽप्युदाहृतो ऽयं श्लोकः ।
ऽइयतीं भूमिऽ मिति ।
समृद्धिसीमामित्यर्थः ।
भूतिमिति च पाठः ।
अत्र श्लोके दिवसैरित्यस्मिन् पदे प्रकृत्यंशो ऽपि द्योतकः ।
सर्वनाम्नां च व्यञ्जकत्वं यथानन्तरोक्ते श्लोके ।
अत्र च सर्वनाम्नामेव व्यञ्जकत्वं हृदि व्यवस्थाप्य कविना क्वेत्यादिशब्दप्रयोगो न कृतः ।
अनया दिशा लोचनम् दिवसार्थे ह्यत्रात्यन्तासम्भाव्यमानतामस्यार्थस्य ध्वनि ।
सर्वनाम्नां चेति ।
प्रकृत्यंशस्य चेत्यर्थः ।
तेन प्रकृत्यंशेन सम्भूत सर्वनामव्यञ्जकं दृश्यत इत्युक्तं भवतीति न पौनरुक्त्यम् ।
तथा हि तदिति पदं नतभित्तीत्येतत्प्रकृत्यंशसहायं समस्तामङ्गलनिधानभूतां मूषकाद्याकीर्णतां ध्वनति ।
तदिति हि केवलमुच्यमाने समुत्कर्षातिशयो ऽपि संभाव्येत ।
न च नतभित्तिशब्देनाप्येते दौर्भाग्यायतनत्वसूचका विशेषा उक्ताः ।
एवं सा धेनुरित्यादावपि योज्यम् ।
एवंविदे च विषये स्मरणाकारद्योतकता तच्छब्दस्य ।
न तु यच्छब्दसंबद्धतेत्युक्तं प्राक् ।
अत एवात्र तदिदंशब्दादिना स्मृत्यनुभवयोरत्यन्तविरुद्धविषयतासूचनेनाश्चर्यविभावता योजिता ।
तदिदंशब्दाद्यभावे तु सर्वमसङ्गतं स्यदिति तदिदमंशयोरेव प्राणत्वं योज्यम् ।
एतच्च द्विशः सामस्त्यं त्रिशः सामस्त्यमिति व्यञ्जकमित्युपलक्षणपरम् ।
तेन लोष्टप्रस्तारन्यायेनानन्तवैचत्र्यमुक्तम् ।
बालप्रिया दिवसैरित्याद्युक्तं विवृणोति - दिवसार्थो हीत्यादि ।
दिवसार्थः दिवसरूपप्रकृत्यर्थः ।
अस्यार्थस्य सम्पत्समृद्धिप्राप्तिरूपार्थस्य ।
ननु प्रकृत्यंशो द्योतक इत्युकत्यैव सर्वनाम्नामपि व्यञ्जकत्वे प्राप्ते पुनस्तद्वचनं पुनरुक्तमित्यत आह---प्रकृत्यंशस्य चेति ।
सर्वनाम्नाञ्चेति चकारेणोक्तार्थस्य लाभ इति भावः ।
एवं व्याख्यानेन लब्धमाह---तेनत्यादि ।
तदिति पदमिति ।
ऽतद्गेहऽ मित्यत्र तत्पदमित्यर्थः ।
ध्वनतीति ।
गेहस्येति शेषः ।
द्वयोः सम्भूय व्यञ्जकत्वमुक्तमुपपादयति---तदित्यादि ।
सम्भाव्यतेति ।
व्यङ्ग्यत्वेनेति शेषः ।
नतभित्तिशब्देनापीति ।
केवलेनेति विपरिणामेनानुषङ्गः ।
एते विशेषा इति ।
मूषकाद्याकीर्णतारूपा विशेषा इत्यर्थः ।
न च उक्ता इति सम्बन्धः ।
भवेयुरिति शेषः ।
केवलयोस्तयोरुक्तार्थव्यञ्जकत्वं न भवेदित्यर्थः ।
ते लोचने इत्यत्र पूर्वमुक्तं स्मारयति---एवंविध इत्यादि ।
अत एवेति ।
तच्छब्दानां स्मरणाकारद्योतकत्वादेवेत्यर्थः ।
स्मृत्यनुभवयोरिति ।
तच्छब्दगम्यायाः स्मृतेरिदमेतच्छब्दगम्यस्यानुभवस्य चेत्यर्थः ।
अत्यन्तेति ।
अत्यन्तविरुद्धौ विषयौ ययोस्तत्तायास्सूचनेनेत्यर्थः ।
अत्र गेहस्य नतभित्तित्वमूषकाद्याकीर्णत्वादिधर्मप्रकारेण स्मृतिः दिवो लब्धावकाशमित्याद्युक्तधर्मप्रकारेणानुभवश्चेति बोध्यम् ।
तदिदं शब्दादिना योजितेत्यन्वयः ।
तदिदमंशयोरेवेति ।
तदित्यादेरिदमित्यादेश्चैवेत्यर्थः ।
प्रामत्वमिति ।
चमत्कारकारित्वमित्यर्थः ।
एवेच्चेत्यादि ।
द्वयोः सम्भूय तथा त्रयाणां सम्भूय व्यञ्जकत्वमित्येतदुपलक्षणमित्यर्थः ।
उक्तमिति ।
दर्शितमित्यर्थः ।
सहृदयैरन्ये ऽपि व्यञ्जकविशेषाः स्वयमुत्प्रेक्षणीयाः ।
एतच्च सर्वं पदवाक्यरचनाद्योतनोक्त्यैव गतार्थमपि वैचित्र्येण व्युत्पत्तये पुनरुक्तम् ।
ननु चार्थसामर्थ्याक्षेप्या रसादय इत्युक्तम्, तथा च सुबादीनां व्यञ्जकत्ववैचित्र्यकथनमनन्वितमेव ।
उक्तमत्र पदानां व्यञ्जकत्वोकत्यवसरे ।
किञ्जार्थविशेषाक्षेप्यत्वे ऽपि रसादीनां तेषामर्थविशेषाणां व्यञ्जकशब्दाविनाभावित्वाद्यथाप्रदर्शितं व्यञ्जकस्वरूपपरिज्ञानं विभज्योपयुज्यत एव ।
शब्दविशेषाणां चान्यत्र च चारुत्वं यद्विभागेनोपदर्शितं तदपि तेषां व्यञ्जकत्वेनैवावस्थितमित्यवगन्तव्यम् ।
यत्रापि तत्सम्प्रति न प्रतिभासते तत्रापि व्यञ्जके रचनान्तरे यद्दृष्टं सौष्ठवं तेषां प्रवाहपतितानां तदेवाभ्यासादपोद्धृतानामप्यवभासत इत्यवसातव्यम् ।
लोचनम् ।
यद्वक्ष्यत्यन्ये ऽपीति ।
अतिविक्षिप्ततया शिष्यबुद्धिसमाधानं न भवेदित्यभिप्रायेण संक्षिपति---एतच्चेति ।
वितत्याभिधाने ऽपि प्रयोजनं स्मारयति---वैचित्र्येणेति ।
नन्विति ।
पूर्वं निर्णीतमप्येतदविस्मरणार्थमधिकाभिधानार्थं चाक्षिप्तम् ।
उक्तमत्रेति ।
न वाचकत्वं ध्वनिव्यवहारोपयोगि येनावाचकस्य व्यञ्जकत्वं न स्यात् इति प्रागेवोक्तम् ।
ननु न गीतादिवद्रसाभिव्यञ्जकत्वे ऽपि शब्दस्य तत्र व्यापारो ऽस्त्येव ; स च व्यञ्जनात्मैवेति भावः ।
एतच्चास्माभिः प्रथमोद्द्योते निर्णीतचरम् ।
न चेदमस्माभिरपूर्वमुक्तमित्याह---शब्दविशेषाणां चेति ।
अन्यत्रेति ।
भामहविवरणे ।
विभागेनेति ।
स्रक्चन्दनादयः शब्दाः शृङ्गारे चारवो बीभत्से त्वचारव इति रसकृत एव विभागः ।
रसं प्रति च शब्दस्य व्यञ्जकत्वमेवेत्युक्तं प्राक् ।
यत्रापीति ।
स्रक्चन्दनादिशब्दानां तदानीं शृङ्गारादिव्यञ्जकत्वाभावे ऽपि व्यञ्जकत्वशक्तेर्भूयसा बालप्रिया अत्रोपष्टम्भकमाह - यद्वत्त्यत्यन्ये ऽपीति ।
इत्यभिप्रायेण वक्ष्यतीति सम्बन्धः ।
ऽनन्विऽत्याद्याक्षेपस्य फलं दर्शयति--पूर्वमित्यादि ।
अधिकाभिधानार्थे चाक्षिप्तमिति ।
वृत्तावनुपदं वक्ष्यमाणस्याधिकांशस्य बोधनार्थं चाक्षेपः कृत इत्यर्थः ।
वृत्तौ ऽअनन्वितऽमिति ।
असङ्गतमित्यर्थः ।
समाधते--ऽउक्तम्ऽ इत्यादि ।
ऽउक्तमत्रेऽति ।
अत्र प्रत्यक्तमित्यर्थः ।
एतद्विवृणोति---न वाचकत्वमित्यादि ।
येनेति ।
वाचकत्वस्य ध्वनिव्यवहारोपयोगित्वेनेत्यर्थः ।
न तु नेत्यस्य व्यापारो ऽस्तीत्यनेनान्वयः ।
भावमाह---स्रक्चन्दनादय इत्यादि ।
ऽयत्रापीऽत्यादेः ऽअवसातव्यऽ मित्यन्तग्रन्थस्य तात्पर्यं विवृणोति---स्रक्चन्दनादिशब्दानामित्यादि ।
को ऽन्यथा तुल्ये वाचकत्वे शब्दानां चारुत्वविषयो विशेषः स्यत् ।
अन्य एवासौ सहृदयसंवेद्य इति चेत् किमिदं सहृदयत्वं नाम? किं रसभावानपेक्षकाव्याश्रितसमयविशेषाभिज्ञत्वम्, उत रसभावादिमयकाव्यस्वरूपपरिज्ञाननैपुण्यम् ।
पूर्वस्मिन् पक्षे तथाविधसहृदयव्यवस्थापितानां शब्दविशेषाणां चारुत्वनियमो न स्यात् ।
पुनः समयान्तरेणान्यथापि व्यवस्थापनसम्भवात् ।
द्वितीयस्मिंस्तु पक्षे रसज्ञतैव सहृदयत्वमिति ।
तथाविधैः सहृदयैः संवेद्यो रसादिसमर्पणसामर्थ्यमेव नैसर्गिकं शब्दानां विशेष इति व्यञ्जकत्वाश्रय्येव तेषां मुख्यं चारुत्वम् ।
वाचकत्वाश्रयाणांतु लोचनम् दर्शनात्तदधिवाससुन्दरीभूतमर्थं प्रतपादयितुं सामर्थ्यमस्ति ।
तथाहि-ऽतटी तारं ताम्यतिऽ इत्यत्र तटशब्दस्य पुण्टशब्दस्य पुंस्त्वनपुंसकत्वे अनादृत्य स्त्रीत्वमेवाश्रितं सहृदयैः ऽस्त्रीति नामापि मधुरंऽ इति कृत्वा ।
यथा वास्मदुपाध्यायस्य विद्वत्कविसहृदयचक्रवर्तिनो भट्टेन्दुराजस्य--- इन्दीवरद्युति यदा बिभृयान्न लक्ष्म स्युर्विस्मयैकसुहृदो ऽस्य यदा विलासाः ।
स्यान्नाम पुण्यपरिणामवशात्तथापि किं किं कपोलतलकोमलकान्तिरिन्दुः ॥
अत्र हीन्दीवरलक्ष्मविस्मयसुहृद्विलासनामपरिणामकोमलादयः शब्दाः शृङ्गाराभिव्यञ्जनदृष्टशक्तयो ऽत्र परं सौन्दर्यमावहन्ति ।
अवश्यं चैतदभ्युपगन्तव्यमित्याह---को ऽन्यथेति ।
असंवेद्यस्तावदसौ न युक्त इत्याशयेनाह--सहृदयेति ।
पुनरिति ।
बालप्रिया तदानीमिति ।
प्रकृतप्रयोगकाल इत्यर्थः ।
शृङ्गारातिरिक्तवर्णनस्थल इति यावत् ।
पुंस्त्वनपुंसकत्वे इति ।
ऽतटं त्रिष्विऽ त्यनुशासनप्राप्ते ते इत्यर्थः ।
इन्दीवरेति ।
पुण्यपरिणामवशादिन्दुः इन्दीवरद्युति लक्ष्य न बिमृयाद्यदा, अस्य विलासाः विस्मयैकसुहृदः स्युः यदा, तथापि कपोलतलकोमलकान्तिः किं किं स्यान्नामेति सम्बन्धः ।
यदेति यदीत्यर्थे ।
कपोलेति ।
सुन्दरीकपोलतल इव कोमलकान्तिरित्यर्थः ।
केरीकपोलेति पाठे केरीशब्दः स्त्रीविशेषवाची बोध्यः ।
किं किं स्यान्नामेति ।
नैव स्यादित्यर्थः ।
अत्रेति ।
चन्द्रं विलोक्य मध्यस्थस्य कस्यचिद्रसिकस्य वचन इत्यर्थः ।
ऽअन्यऽ इत्यादिशङ्काग्रन्थमवतारयति--असंवेद्य इत्यादि ।
असाविति प्रसाद एवार्थापेक्षायां तेषां विशेषः ।
अर्थानपेक्षायां त्वनुप्रासादिरेव ।
एवं रसादीनां व्यञ्जकस्वरूपमभिधाय तेषामेव विरोधिरूपं लक्षयितुमिदमुपक्रम्यते---
प्रबन्धे मुक्तके वापि रसादीन् बन्धुम् इच्छता ।
यत्नः कार्यः सुमतिना परिहारे विरोधिनाम्
प्रबन्धे मुक्तके वापि रसादीन्बन्द्धुमिच्छता ।
यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् ॥ 17 ॥
प्रबन्धे मुक्तके वापि रसभावनिबन्धनं प्रत्यादृतमनाः कविर्विरोधिपहिहारे परं यत्नमादधीत ।
अन्यथा त्वस्य रसमयः श्लोक एको ऽपि सम्यङ्न समप्द्यते ।
लोचनम् अनियन्त्रीतपुरुषेच्छायत्तो हि समयः कथं नियतः स्यात् ।
मुख्यं चारुत्वमिति ।
विशेष इति पूर्वेण सम्बन्धः ।
अर्थापेक्षायामिति ।
वाच्यापेक्षायामित्यर्थः ।
अनुप्रासादिरेवेति ।
शब्दान्तरेण सह या रचना तदपेक्षो ऽसौ विशेष इत्यर्थः ।
आदिग्रहणाच्छब्दगुणालङ्काराणां सङ्ग्रहः ।
अत एव रचनया प्रसादेन चारुत्वेन चोपबृंहिता एव शब्दाः काव्ये योज्या इति तात्पर्यम् ॥ 15॥
,16 ॥
रसादीनां यद्व्यञ्जकं वर्णपदादिप्रबन्धान्तं तस्य स्वरूपमभिधायेति सम्बन्धः ।
उपक्रम्यत इति ।
विरोधिनामपि लक्षणकरणे प्रयोजनमुच्यते शक्यहानत्वं नाम अनया कारिकया ।
लक्षणं तु विरोधिरससम्बन्धीत्यादिना भविष्यतीत्यर्थः ॥ 17 ॥
ननु ऽविभावभावानुभावसञ्चार्यौचित्यचारुणःऽ इति यदुक्तं तत एव व्यतिरेकमुखेनैतदप्यवगंस्यते ।
मैवम् ;व्यतिरेकेण हि तदभावमात्रं प्रतीयते न तु तद्विरुद्धम् ।
तदभावमात्रं च न तथा दूषकं यथा तद्विरुद्धम् ।
पथ्यानुपयोगो हि न तथा व्याधिं बालप्रिया शब्दगतो विशेष इत्यर्थः ।
अनियन्त्रितेत्यादिना ऽपुनऽरित्यादिग्रन्थस्य भावार्थ उक्तः ।
अनुप्रासपदार्थं व्याचष्टे--शब्दान्तरेणेत्यादि ।
फलितमाह---अत एव रचनयेत्यादि ।
उपबृंहिताः विशिष्टाः ॥ 15॥
,16 ॥
भावमाह--विरोधिनामपीत्यादि ।
शक्यहानत्वं नाम प्रयोजनमनया कारकया उच्यत इति सम्बन्धः ।
विरोधिनां लक्षणे ज्ञाते तेषां परिहारः शक्य इति तदेव प्रयोजनमित्यर्थः ॥ 17 ॥
एतदपीति ।
विरोधिनां परिहरणमपीत्यर्थः ।
तदभावमात्रमिति ।
विभावाद्यौचित्यशालिनः कथाशरीरस्य विधिरित्यादिना तदौचित्यविरहिणो विधिर्न कार्य इत्याद्यथमात्रमित्यर्थः ।
यत्नत इतीति ।
यत्नत इत्यादिनेत्यर्थः ।
वृत्तौ ऽशान्ताऽदीति कानि पुनस्तानि विरोधीनि यानि यत्नतः कवेः परिहर्तव्यानीत्युच्यते--
विरोधि-रस-सम्बन्धि-विभावादि-परिग्रहः ।
विस्तरेणान्वितस्यापि वस्तुनो ऽन्यस्य वर्णनम् ॥ ध्व्क्_3.18-19 ॥
अकाण्ड एव विच्छित्तिर् अकाण्डे च प्रकाशनम् ।
परिपोषं गतस्यापि पौनःपुन्येन दीपनम् ।
रसस्य स्याद् विरोधाय वृत्त्य्-अनौचित्यम् एव च
विरोधिरससम्बन्धिविभावादिपरिग्रहः ।
विस्तरेणान्वितस्यापि वस्तुनो ऽन्यस्य वर्णनम् ॥ 18 ॥
अकाण्ड एव विच्छित्तिरकाण्डे च प्रकाशनम् ।
परिपोषं गतस्यापि पौनःपुन्येन दीपनम् ।
रसस्य स्याद्विरोधाय वृत्त्यनौचित्यमेव च ॥ 19 ॥
प्रस्तुतरसापेक्षया विरोधी यो रसस्तस्य सम्बन्धिनां विभावभावानुभावानां परिग्रहो रसविरोधहेतुकः सम्भवनीयः ।
तत्र विरोधिरसविभावपरिग्रहो यथा शान्तरसविभावेषु तद्विभावतयैव निरूपितेष्वनन्तरमेव शृङ्गारादिविभाववर्णने ।
विरोधिरसभावपरिग्रहो यथा प्रियं प्रति प्रणयकलहकुपितासु कामिनीषु वैराग्यकथाभिरनुनये ।
विरोधिरसानुभावपरिग्रहो यथा प्रणयकुपितायां प्रियायामप्रसीदन्त्यां नायकस्य कोपावेशविवशस्य रौद्रानुभाववर्णने ।
लोचनम् जनयति यद्वदपथ्योपयोगः तदाह---यत्नत इति ।
ऽविभावेऽत्यादिना श्लोकेन यदुक्तं तद्विरुद्धं विरोधीत्यादिनार्धश्लोकेनाह ।
ऽइतवृत्तेऽत्यादिना श्लोकद्वयेन यदुक्तं तद्विरुद्धं विस्तरेणेत्यर्धश्लोकेनाह ।
ऽउद्दीपनेऽत्यर्धश्लोकोक्तस्य विरुद्धं अकाएड इत्यर्धश्लोकेन ।
ऽरसस्येऽत्यर्धश्लोकोक्तस्य विरुद्धं परिपोषं गतस्येत्यर्धश्लोकेन ।
ऽअलङ्कृतीनाम्ऽ इत्यनेन यदुक्तं तद्विरुद्धमन्यदपि च विरुद्धं वृत्यनौचित्यमित्यनेन ।
एतत्क्रमेण व्याचष्टे---प्रस्तुतरसापेक्षयेत्यादिना ।
हास्यशृङ्गारयोर्वीराद्भुतयो रौद्रकरुणयोर्भयानकबीभत्सयोर्न विभावविरोध इत्यभिप्रायेण शान्तशृङ्गारावुपन्यस्तौ, प्रशमरागयोर्विरोधात् ।
विरोधिनी रसस्य यो भावो व्यभिचारी तस्य परिग्रहः, विरोधिनस्तु यः स्थायी स्थायितया बालप्रिया ऽशृङ्गारादीऽचि च निर्देशे बीजमाह---हास्यशृङ्गारयारित्यादि ।
भयानकबीभत्सयोरित्यस्यानन्तरं "शान्तबीभत्सयो"रिति च क्वचित् ग्रन्थे पाठः ।
शान्तशृङ्गारयोर्विरोधे हेतुमाह---प्रशमेति ।
विरोधादिति ।
सहानवस्थानादत्यर्थः ।
प्रतिपत्तर्येकस्मिन् शमे उद्बुद्धे तदव्यवधानेन रागोद्बोधासम्भवादिति भावः ।
अतः शान्तविभावे वर्णिते तदनन्तरमेव शृङ्गारादिविभाववर्णनं न कायम् ।
विरोधिरसस्येत्यादिग्रन्थं अयं चान्यो रसभङ्गहेतुर्यत्प्रस्तुतरसापेक्षया वस्तुनो ऽन्यस्य कथञ्चिदन्वितस्यापि विस्तरेण कथनम् ।
यथा विप्रलम्भशृङ्गारे नायकस्य कस्यचद्वर्णयितुमुपक्रान्ते कवेर्यमकाद्यलङ्कारनिबन्धनरसिकतया महता प्रबन्धेन पर्वतादिवर्णने ।
अयं चापरो रसभङ्गहेतुरवगन्तव्यो यदकाण्ड लोचनम् तत्परिग्रहो ऽसम्भवनीय एव तदनुत्थानप्रसङ्गात् ।
व्यभिचारितया तु परग्रहो भवत्येव ।
अत एव सामान्येन भावग्रहणम् ।
वैराग्यकथामिरित वैराग्यशब्देन निर्वेदः शान्तस्य यः स्थायी स उक्तः ।
यथा---ऽप्रसादे वर्तस्व प्रकटय मुदं सन्त्यज रुषम्ऽ इत्याद्युपक्रम्यार्थान्तरन्यासो ऽन मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणःऽ इति ।
मनागप निर्वेदानुप्रवेशे सति रतेर्विच्छेदः ।
ज्ञातविषयसतत्त्वो हि जीवितसर्वस्वाभिमानं कथं भजेत ।
न हि ज्ञातशुक्तिकारजततत्त्वस्तदुपादेयधियं भजते ऋते संवृतिमात्रात् ।
कथाभिरिति बहुवचनं शान्तरसस्य व्यभिचारिणो धृतिं मतिप्रभृतीन् सङ्गृह्णात ।
नन्वन्यदनुन्मत्तः कथं वर्णयेत्, किमुत विस्तरत इत्याह---कथञ्जिदन्वितस्येति बालप्रिया विवृणोति---विरोधिन इत्यादि ।
तदनुत्थानप्रसङ्गादिति ।
तस्य स्थायित्वेनोत्थाने प्रसङ्गस्याभावादित्यर्थः ।
तदुत्थाने प्रकृतस्थायिनो विच्छेदः स्यादिति भावः ।
सामान्येनेत्यादि ।
स्वत एव व्यभिचारिणः व्यभिचारत्वेन स्थायिनश्च बोधनाय भाव इति सामान्यत उक्तमित्यथः ।
प्रसाद इति ।
काव्यप्रकाशे ऽप्युदाहृतो ऽयं श्लोकः ।
ऽप्रिये शुष्यन्त्यङ्गान्यभृतमिव ते सिञ्चितु वचः ।
निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखम्ऽ इति द्वितीयतृतीयपादौ ।
हे मुग्धे विवेकरहिते, गतः काल एव हरिणः अस्थिरत्वात् प्रत्येतुं प्रत्यागन्तुम् न प्रभवति स पुनर्नागच्छतीत्यर्थः ।
अत्र शान्तस्य विभावः कालानित्यत्वलक्षणो निबन्धः तत्प्रकाशितो निर्वेदो व्यभिचारी चेत्यतो ऽत्र विरोधिरसविभावभावयोः परिग्रहः स च प्रकृतरसप्रतिकूल इत्याह---मनागपीत्यादि ।
निर्वेदानुवेधे इति च पाठः ।
विच्छद इति ।
भवेदिति शेषः ।
अत्र हेतुमाह---ज्ञातेत्यादि ।
ज्ञातं विषयाणां सतत्वं दुःखमिश्रितत्वपरिणामविरसत्वादिना हेयत्वरूपं तत्त्वं येन सः ।
जीवितसर्वस्वाभिमानमिति ।
वनितादौ विषय इति शेषः ।
भजेतेत्यत्र करोत्विति च पाठः ।
दृष्टान्तमाह--न हीत्यादि ।
शुक्तौ भासमानं रजतं शुक्तिकारजतमित्युच्यते, ज्ञातं शुक्तिकारजततत्वं येन सः ।
तदिति ।
तद्विशेष्यकोपादेयत्वबुद्धिमित्यर्थः ।
संवृतिमात्रादृत इति ।
संवृत्त्यैव तत्रोपादेयत्वबुद्धिं भजत इति भावः ।
संवृतिरविद्या भ्रमरूपा तद्वृत्तिर्वा वृत्तौ ऽकथञ्चिदन्वितस्येऽति ।
यया कयापि विधया प्रकृतेन सम्बद्धस्येत्यर्थः ।
एतद्ग्रन्थमवतारयति---नन्वित्यादि ।
अपि तावदिति शब्दाभ्यामिति ।
एव विच्छित्तिः रसस्याकाण्ड एव च प्रकाशनम् ।
तत्रानवसरे विरामो रसस्य यथा नायकस्य कस्यचित्स्पृहणीयसमागमया नायिकया कयाचित्परां परिपोषपदर्वी प्राप्ते शृङ्गारे विदिते च परम्परानुरागे समागमोपायचिन्तोचितं व्यवहारमुत्सृज्य स्वतन्त्रतया व्यापारान्तरवर्णने ।
अनवसरे च प्रकाशनं रसस्य यथा प्रवृत्ते प्रवृत्तविविधवीरसङ्क्षये कल्पसङ्क्षयकल्पे सङ्ग्रमे रामदेवप्रायस्यापि तावन्नायकस्यानुपक्रान्तविप्रलम्भशृङ्गारस्य निमित्तमुचितमन्तरेणैव शृङ्गारकथायामवतारवर्णने ।
न चैवंविधे विषये दैवव्यामोहितत्वं कथापुरुषस्य परिहारो यतो रसबन्ध एव कवेः प्राधान्येन प्रवृत्तिनिबन्धनं युक्तम् ।
इतिवृत्तवर्णनं तदुपाय एवेत्युक्तं प्राक् ऽआलोकार्थी यथा दीपशिखायां यत्नवाञ्जनःऽ इत्यादिना ।
अत एव चेतिवृत्तमात्रवर्णनप्राधान्ये ऽङ्गाङ्गिभावरहितरसभावनिबन्धेन च कवीनामेवंविधानि स्खलितानि भवन्तीति रसादिरूपव्यङ्ग्यतात्पर्यमेवैषां लोचनम् व्यापारान्तरेति ।
यथावत्सराजचरिते चतुर्थे ऽङ्के--रत्नावलीनामधेयमप्यगृङ्णतो विजयवर्मवृत्तान्तवर्णने ।
अपि तावदिति शब्दाभ्यां दुर्योधनादेस्तद्वर्णनं दूरापास्तमिति वेणीसंहारे द्वितीयाङ्कमेवोदाहरणत्वेन ध्वनति ।
अत एव वक्ष्यति--ऽदैवव्यामोहितत्वम्ऽ इति ।
पूर्वं तु सन्ध्यङ्गाभिप्रायेण प्रत्युदाहरणमुक्तम् ।
कथापुरुषस्येति प्रतिनायकस्येति यावत् ।
अत एव चेति ।
यतो रसबन्ध एव मुख्यः कविव्यापारविषयः इतिवृत्तमात्रवर्णनप्राधान्ये बालप्रिया रामदेवप्रायस्यापि तावदित्यत्रत्याभ्यां ताम्यामित्यर्थः ।
ध्वनतीत्यनेनास्य सम्बन्धः ।
तद्वर्णनमिति ।
सङ्ग्रामे प्रवृत्ते निमित्तमुचितमन्तरेणैव शृङ्गारवर्णनमित्यर्थः ।
अत एवेति ।
द्वितीयाङ्कस्य उदाहरणत्वेन ध्वननादेवेत्यर्थः ।
दैवव्यामोहितत्वमिति ।
दैवेन व्यामोहितः कृत्याकृत्यविवेकराहित्यं प्रापितस्तत्वमित्यर्थः ।
वेणीसंहारे दुर्योधनस्य तद्गम्यत इति भावः ।
यथा वेणीसंहारे इति पूर्वमुक्तमन्याभिप्रायेणेति स्मारयति--पूर्वमित्यादि ।
कथापुरुषस्येत्यनेन विवक्षितमाह--प्रतिनायकस्येति ।
न तु प्रधाननायकस्येत्यर्थः ।
तस्य तथात्वेनौचित्यापातादिति भावः ।
वृत्तौ ऽरसबन्धऽ इति प्रथमान्तं रसानुकूलशब्दार्थनिबन्ध इत्यर्थः ।
प्रवृत्तिनिबन्धनमिति ।
प्रवृत्तिविषय इत्यर्थः ।
यद्वा रसबन्धे इति सप्तम्यन्तम् ।
ऽप्रवृत्तिनिबन्धनंऽ प्रवृत्तेः सम्बन्धो विषयतेत्यर्थः ।
ऽअत एवेऽत्यस्यारब्ध इत्यनेन सम्बन्धः ।
लोचने व्याचष्टे---यत इत्यादि ।
वृत्तौ प्राधान्ये सति यदिबन्धनं तस्मिन्निति सम्बन्धः ।
युक्तमिति यत्नो ऽस्माभिरारब्धो न ध्वनिप्रतिपादनमात्राभिनिवेशेन ।
पुनश्चायमन्यो रसभङ्गहेतुरवधारणीयो यत्परिपोषं गतस्यापि रसस्य पौनः--पुन्येन दीपनम् ।
उभयुक्तो हि रसः स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृश्यमाणः परिम्लानकुसुमकल्पः कल्पते ।
तथा वृत्तेर्व्यवहारस्य यदनौचित्यं तदपि रसभङ्गहेतुरेव ।
यथा नायकं प्रति नायिकायाः कस्याश्चिदुचितां भङ्गिमन्तरेण स्वयं सम्भोगाभिलाषकथने ।
यदि वा वृत्तीनां भरतप्रसिद्धानां कैशिक्यादीनां काव्यालङ्कारान्तरप्रसिद्धानामुपनागरिकाद्यानां वा यदनौचित्यमविषये निबन्धनं तदपि रसभङ्गहेतुः ।
एवमेषां रसविरोधिनामन्येषां चानया दिशा स्वयमुत्प्रेक्षितानां परिहारे सत्कविभिरवहितैर्भवितव्यम् ।
परिकरश्लोकाश्चात्र--- मुख्या व्यापारविषयाः सुकवीनां रसादयः ।
तेषां निबन्धने भाव्य तैः सदैवाप्रमादिभिः ॥
नीरसस्तु प्रबन्धो यः सो ऽपशब्दो महान् कवेः ।
स तेनाकविरेव स्यादन्येनास्मृतलक्षणः ॥
लोचनम् सति यदङ्गाङ्गिभावरहितानामविचारितगुणप्रधानभावानां रसभावानां निबन्धनं तन्निमित्तानि स्खलितानि सर्वे दोषा इत्यर्थः ।
न ध्वनिप्रतिपादनमात्रेति ।
व्यङ्ग्यो ऽर्थो भवतु मा वा भूत् कस्तत्राभिनिवेशः? काकदन्तपरीक्षाप्रायमेव तत्स्यादिति भावः ।
वृत्त्यनौचित्यमेव चेतिबहुदा व्याचष्टे तदपीत्यनेन चशब्दं कारिकागतं व्याचष्टे ।
रसभङ्गहेतुरेव इत्यनेनैवकारस्य कारिकागतस्य भिन्नक्रमत्वमुक्तम् ।
रसस्य विरोधायैवेत्यर्थः ।
नायकं प्रतीति ।
नायकस्य हि धीरोदात्तादिभेदभिन्नस्य सर्वथा वीररसानुवेधेन भवितव्यमिति तं प्रति कातरपुरुषोचितमधैर्ययोजनं दुष्टमेव ।
तेषामिति रसादीनाम् ।
तैरिति सुकविभिः ।
सो ऽपशब्द इति दुर्यश इत्यर्थः ।
ननु कालिदासः बालप्रिया चकारौ वाक्यालङ्कारे इत्याशयेन व्याचष्टे---इतिवृत्तेत्यादि ।
बहुधा व्याचष्ट इति ।
वृत्तेर्व्यवहारस्येत्यादिना रसभङ्गहेतुरित्यन्तग्रन्थेन त्रेधा व्याचष्ट इत्यर्थः ।
तदपीत्यनेनेति ।
तत्पदोत्तरापिशब्देनेत्यर्थः ।
नायकं प्रति नायकया स्वयं सम्भोगाभिलाषस्य कथने निबद्धे नायकस्याधैर्ययोजनमापतति, तच्च दुष्टमिति भावं विवृणोति---नायकस्येत्यादि ।
भावितव्यमिति ।
सर्वेषां वीरशब्देन व्यवहारादिति भावः ।
कातरपुरुषेति ।
अधीरपुरुषेत्यर्थः ।
वृत्तौ ऽउचितां भङ्गिमन्तरेणेऽ पूर्वे विशृङ्खलगिरः कवयः प्राप्तकीर्तयः ।
तान्समाश्रित्य न त्याज्या नीतिरेषा मनीषिणा ॥
वाल्मीकिव्यासमुख्याश्च ये प्रख्याताः कवीश्वराः ।
तदभिप्रायबाह्यो ऽयं नास्माभिर्दर्शितो नयः ॥
इति ।
विवक्षिते रसे लब्ध-प्रतिष्ठे तु विरोधिनाम् ।
बाध्यानाम् अङ्ग-भावं वा प्राप्तानाम् उक्तिर् अच्छला
विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनाम् ।
बाध्यानामङ्गभावं वा प्राप्तानामुक्तिरच्छला ॥ 20 ॥
स्वसामग्न्या लब्धपरिपोषे तु विवक्षिते रसे विरोधिनां विरोधिरसाङ्गानां बाध्यानामङ्गभावं वा प्राप्तनां सतामुक्तिरदोषा ।
बाध्यत्वं हि विरोधिनां शक्याभिभवत्वे सति नान्यथा ।
तथाच तेषामुक्तिः प्रस्तुतरसपरिपोषायैव सम्पद्यते ।
अङ्गभावं प्राप्तानां च तेषां विरोधित्वमेव निवर्तते ।
अङ्गभावप्राप्तिर्हि तेषां स्वाभाविकी समारोपकृता वा ।
तत्र येषां नैसर्गिकी तेषां तावदुक्तावविरोध एव ।
यथा विप्रलम्भशृङ्गारे तदङ्गानां लोचनम् परिपोषं गतस्यापि करुणस्य रतिविलासेषु पौनःपुन्येन दीपनमकार्षीत्, तत्को ऽयं रसविरोधिनां परिहारनिर्बन्ध इत्याशङ्क्याह--पूर्व इति ।
न हि वसिष्ठादिभिः कथञ्चिद्यदि स्मृतिमार्गस्त्यक्तस्तद्वयमपि तथा त्यजामः ।
अचिन्त्यहेतुकत्वादुपरिचरितानामिति भावः ।
इति शब्देन परिकरश्लोकसमाप्तिं सूचयति ॥ 19 ॥
एवं विरोधिनां परिहारे सामान्येनोक्ते प्रतिप्रसवं वियतविषयमाह---विवक्षित इती ।
बाध्यानामिति ।
बाध्यत्वाभिप्रायेणाङ्गत्वाभिप्रायेण वेत्यर्थः ।
अच्छला निर्देषेत्यर्थः ।
बाध्यत्वाभिप्रायं व्याचष्टे--बाध्यत्वं हीति ।
आङ्गभावाभिप्रायमुभयथा व्याचष्टे, बालप्रिया त्येनेन भङ्ग्या तत्कथनं दुष्यन्तादेर्नायकस्येव नायिकाया अपि न दोष इति दर्शितम् ।
भावार्थमाह--न हीत्यादि ।
न हि त्यजाम इति सम्बन्धः ।
वसिष्ठादीनां तत्त्यागे ऽपि न दोष इत्याह---अचिन्त्येत्यादि ।
अचिन्त्यहेतुकत्वादुपरचरितानामिति च पाठः ।
उपरिचरितानामित्यस्योत्कृष्टचरितानामित्यर्थः ॥ 19 ॥
ऽबाध्यानाम्ऽ इत्यादिकारिकाभागं व्याचष्टे---बाध्यत्वेत्यादि ।
उक्तिरित्यनेनास्य सम्बन्धः ।
उभयथा व्याचष्ट इति ।
ऽअङ्गभावप्राप्तिर्हिऽत्यादिग्रन्थेन द्वेधा व्याख्यातवानित्यर्थः ।
वृत्तौ ऽतदङ्गानां व्याध्यादीनाम्ऽ इति ।
उक्तावविरोध इत्यस्यानुषङ्गः ।
उपरि वाक्ये उक्तावित्यस्यैवानुषङ्गः ।
तत्पदेनात्र विप्रलम्भपरामर्शः ।
व्याध्यादीनां व्याध्यादीनां तेषाञ्च तदङ्गानामेवादोषो नातदङ्गानाम् ।
तदङ्गत्वे च सम्भवत्यपि मरणस्योपन्यासो न ज्यायान् ।
आश्रयविच्छेदे रसस्यात्यन्तविच्छेदप्राप्तेः ।
करुणसय तु तथाविदे विषये परिपोषो भविष्यतीति चेत्-न; तस्याप्रस्तुतत्वात् प्रस्तुतस्य च विच्छेदात् ।
यत्रतु करुणरसस्यैव काव्यार्थत्वं तत्राविरोधः ।
शृङ्गारे वा मरणस्यादीर्घकालप्रत्यापत्तिसम्भवे कदाचिदुपनिबन्धो नात्यन्तविरोधी ।
दीर्घकालप्रत्यापत्तौ तु तस्यान्तरा प्रवाहविच्छेद एवेत्येवंविधेतिवृत्तोपनिबन्धनं रसबन्धप्रधानेन कविना लोचनम् तत्र प्रथमं स्वाभाविकप्रकारं निरूपयति---तदङ्गानामिति ।
निरपेक्षभावतया सापेक्षभाववप्रलम्भशृङ्गारविरोधिन्यपि करुणे ये व्याध्यादयस्सर्वथाङ्गत्वेन दृष्टाः तेषामिति ।
ते हि करुणे भवन्त्येव त एव च भवन्तीति ।
शृङ्गारे तु भवन्त्येव नापि त एवेति ।
अतदङ्गानामिति ।
यथालस्यौग्रजुगुप्सानामित्यर्थः ।
तदङ्गत्वे चेति ।
ऽसर्व एव शृङ्गारे व्यभिचारिण इत्युक्तत्वादिऽति भावः ।
आश्रयस्य स्त्रीपुरुषान्यतरस्याधिष्ठानस्यापाये रतिरेवोच्छिद्येत तस्या जीवितसर्वस्वाभिमानरूपत्वेनोभयाधिष्ठानत्वात् ।
प्रस्तुतस्येति ।
विप्रलम्भस्येत्यर्थः ।
काव्यार्थत्वमिति ।
प्रस्तुतत्वमित्यर्थः ।
नन्वेवं सर्व एव व्यभिचारिण इति विघटितमित्याशङ्क्याह---शृङ्गारे वेति ।
अदीर्घकाले यत्रमरणे विश्रान्तिपदबन्ध एव नोत्पद्यते तत्रास्य व्यभिचारित्वम् ।
कदाचिदिति ।
यदि तादृशीं भङ्गिं घटयितुं सुकवेः कौशलं भवति ।
यथा--- तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोर्देहन्यासादमरगणनालेख्यमासाद्य सद्यः ।
बालप्रिया विरोधिरसाङ्गत्वं प्रकृतरसाङ्गत्वं च दर्शयति--निरपेक्षभावतयेत्यादि ।
ते हीति ।
व्याध्यादयो हीत्यर्थः ।
करुणे इत्यादि ।
करुणे भवन्त्येव ते एव भवन्तीति द्वेधा नियम इत्यर्थः ।
नापीत्यादि ।
ते एवेति नियमो ऽपि नेत्यर्थः ।
मरणस्य विप्रलम्भाङ्गत्वसम्भवे मानमाह--सर्व इत्यादि ।
आलस्यौग्न्यजुगुप्सावर्जास्सर्वं एव व्यभिचारिण इति मुनिना उक्तत्वादित्यर्थः ।
आश्रयविच्छेद इत्यादिग्रन्थं व्याचष्टे---आश्रयस्येत्यादि ।
वृत्तौ--ऽशृङ्गारे वेऽत्यादि ।
ऽमरणस्येऽति ।
नायकयोरेकस्य यन्मरणं तस्येत्यर्थः ।
अस्य उपनिबन्ध इत्यनेन सम्बन्धः ।
ऽअदीरघेऽति ।
मरणादूर्ध्वमदीर्घो यः कालस्तस्मिंस्तेन वा प्रत्यापत्तिः नायकयोः समागमस्तत्सम्भवे सतीत्यर्थः ।
लोचने भावमाह--यत्रेत्यादि ।
विश्रान्तिपदबन्धः प्रतीतिविश्रान्तेः प्रतिष्ठा ।
तत्र तथाविधस्थले ।
अस्य मरणस्य ।
काव्यानुशासने ऽप्येवमुक्तम्--"शृङ्गारे तु मरणाध्यवसायो तत्र लब्धप्रतिष्ठे तु विवक्षिते रसे विरोधिरसाङ्गानां बाध्यत्वेनोक्तावदोषो यथा--- क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयो ऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपे ऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्ने ऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्यो ऽधरं पास्यति ॥
लोचनम् पूर्वाकाराधिकचतुरया सङ्गतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥
अत्र स्फुटैव रत्यङ्गता मरणस्य ।
अत एव सुकविना मरणे पदबन्धमात्रं न कृतम्, अनूद्यमानत्वेनैवोपनिबन्धनात् ।
पदबन्धनिवेशे तु सर्वथा शोकोदय एवातिपरिमितकालप्रत्यापत्तिलाभे ऽपि अथ दूरपरामर्शकसहृदयसामाजिकाभिप्रायेण मरणस्यादीर्घकालप्रत्यापत्तेरङ्गतोच्यते, हन्त तापसवत्सराजे ऽपि यौगन्धरायणादिनीतिमार्गाकर्णनसंस्कृतमतीनां वासवदत्तामरणबुद्धेरेवाभावात्करुणस्य नामापि न स्यादित्यलमवान्तरेण बहुना ।
तस्माद्दीर्घकालतात्र पदबन्धलाभ एवेति मन्तव्यम् ।
एवं नैसर्गिकाङ्गता व्याख्याता ।
समारोपितत्वे तद्विपरीतेत्यर्थलब्धत्वात्स्वकण्ठेन न व्याख्याता ।
एवं प्रकारत्रयं व्याख्याय क्रमेणोदाहरति---तत्रेत्यादिना ।
क्वाकार्यमिति ।
बालप्रिया मरणादूर्ध्वं झटिति पुनर्योगो वा निबध्यतऽइति ।
तीर्थ इति रघुवंशस्थम् ।
देहत्यागादिति च पाठः ।
कान्तया इन्दुमत्या ।
असौ अजः ।
रत्यङ्गतेति ।
रमणाङ्गतेत्यर्थः ।
मरणस्येति ।
देहत्यागादित्यनेन दर्शितस्य मरणस्येत्यर्थः ।
प्रपूर्वश्लोकेन सङ्गमाशाया वर्णितत्वादत्र मरणस्य विप्रलम्भाङ्गत्वं स्फुटमिति भावः ।
पदबन्धः प्रतीतविश्रान्तेः पदबन्धः ।
अनूद्यमानत्वेनेति ।
देहत्यागादित्यनेनेति भावः ।
अतीति ।
अतिपरिमितो ऽल्यल्पः कालस्तेन प्रत्यापत्तेः सङ्गमस्य लाभः सम्भवः प्रतीतिर्वा तस्मिन्नपीत्यर्थः ।
शोकोदय एवेत्यनेनास्य सम्बन्धः ।
सहृदयानां शोकचर्वणैव भवेदिति तदर्थः ।
केचिददीर्घकालेत्यादिग्रन्थस्य भावमन्यथा व्याचक्षये, तदनुवदन्नाह--अथेत्यादि ।
अथेति प्रश्ने ।
प्रतिवक्ति--हन्तेत्यादि ।
अयुक्तकथनहेतुको विषादो विस्मयो वा हन्तेत्यनेन प्रकाश्यते ।
स्वमतेनोपसंहरति---तस्मादित्यादि ।
दीघति ।
दीर्घकालतापदार्थो ऽत्र मरणे सहृदयप्रतीतिविश्रान्तेः पदबन्ध एवेत्यर्थः ।
समारापिता त्विति ।
अङ्गतेति शेषः ।
एतद्विपरीतेति ।
वास्तवाङ्गत्वाभावान्नैसर्गिकाङ्गता विपरीतेत्यर्थः ।
व्याख्यातेति ।
पदर्शितेत्यर्थः ।
वृत्तौ ऽतस्येऽत्यादि ।
ऽतस्यऽशृङ्गारस्य ।
यथा वा पुण्डरीकस्य महाश्वेतां प्रति प्रवृत्तनिर्भरानुरागस्य द्वितीयमुनिकुमारोपदेशवर्णने ।
स्वाभाविक्यामङ्गभावप्राप्तावदोषो यथा--- भ्रमिमरतिमलसहृदयतां प्रलयं मूर्च्छां तमः शरीरसादम् ।
मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥
इत्यादौ ।
समारोपितायामप्यविरोधो यथा---ऽपाण्डुक्षामम्ऽ इत्यादौ ।
यथा वा---ऽकोपात्कोमललोलबाहुलतिकापाशेनऽ इत्यादौ ।
इयं लोचनम् वितर्क औत्सुक्येन मतिः स्मृत्या शङ्का दैन्येन धृतिश्चिन्तया च बाध्यते ।
एतच्च द्वितीयोद्द्योतारम्भ एवोक्तमस्माभिः ।
द्वितीयेति ।
विपक्षीभूतवैराग्यविभावाद्यवधारणे ऽपि ह्यशक्यविच्छेदत्वेन दार्ढ्यमेवानुरागस्योक्तं भवतीति भावः ।
समारोपितायामिति ।
अङ्गभावप्राप्ताविति शेषः ।
पाण्डुक्षामं वक्त्रं हदयं सरसं तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ॥
अत्र करुणोचितो व्याधिः श्लेषभङ्ग्या स्थापितः कोपादिति बध्वेति हन्यत इति च रौद्रानुभावनां रूपकबलादारोपितानां तदनिर्वाहादेवाङ्गत्वम् ।
तच्च पूर्वमेवोक्तं ऽनातिनिर्वहणैषिताऽ इत्यत्रान्तरे ।
बालप्रिया ऽअन्तराऽ मध्ये ।
ऽप्रवाहविच्छेदःऽ अनुसन्धानधाराया विच्छेद इत्यर्थः ।
लोचने---विपज्ञीभूतेति ।
अनुरागस्य विरोधिभूतेत्यर्थः ।
अनुरागस्येति ।
पुण्डरीकगतानुरागस्येत्यर्थः ।
वृत्तौ ऽभ्रमिम्ऽ इति ।
इदं पाण्डिवत्यादि च काव्यप्रकाशे ऽप्युदाहृतम् ।
भ्रमिर्नाम दिशां भ्रमणमिव दर्शयन्नान्तरः कश्चिद्विकारः ।
प्रलयोनष्टचेष्टता, मूर्छा बाह्याभ्यन्तरेन्द्रयवृत्तिनिरोधः ।
तमः आन्ध्यम् ।
जलद एव भुजगस्तज्जम् ।
विषं जलमेव गरलम् ।
अत्र करुणोचतव्याधेरनुभावानां भ्रम्यादीनां विप्रलम्भे ऽपि सम्भवान्नैसर्गिकी अङ्गता ।
पाण्डुक्षाममिति ।
हृदयं उरः ।
सरसं अन्नरससहितं, यद्वा--चन्दनादिरससहितम् ।
अलसं बाह्यक्रियायामक्षमम् ।
क्षेत्रियो देहान्तरे चिकित्स्यो ऽसाध्य इति यावत् ।
रोगः गदः ।
क्षेत्रियो रोगः क्षयरोग इति केचित् तम् ।
आवेदयतीति ।
वक्त्रादीनां प्रत्येकमन्वयाभिप्रायेणैकवचनान्ततया निर्देशः ।
अत्र करुणोचितव्याधेः विप्रलम्भे समारोपादङ्गतेत्याह लोचने - अत्रेत्यादि ।
श्लेषभङ्ग्येत ।
उभयसाधारणानुभावप्रदर्शनेनेत्यर्थः ।
स्थापित इति ।
आरोपेणाङ्गतया प्रदर्शित इत्यर्थः ।
बध्वेतीत्यादि ।
बन्धनादीनामित्यर्थः ।
तदनिर्वाहादिति ।
रूपकानिर्वादित्यर्थः ।
अङ्गत्वमिति ।
शृङ्गाराङ्गत्वमित्यर्थः ।
वृत्तौ अङ्गभावगमनं यदियं चाङ्गभावप्राप्तिरन्या यदाधिकारिकत्वात्प्रधान एकस्मिन्वाक्यार्थे रसयोर्भावयोर्वा परस्परविरोधिनोर्द्वयोरङ्गभावगमनं तस्यामपि न दोषः ।
यथोक्तं ऽक्षिप्तो हस्तावलग्नःऽ इत्यादौ ।
कथं तत्राविरोध इति चेत्, द्वयोरपि तयोरन्यपरत्वेन व्यवस्थानात् ।
अन्यपरत्वे ऽपि विरोधिनोः कथं विरोधनिवृत्तिरिति चेत्, उच्यते--
विधौ विरुद्धसमावेशस्य लोचनम् अन्येति ।
चतुर्थो ऽयं प्रकार इत्यर्थः ।
पूर्वं हि विरोधिनः प्रस्तुतरसान्तरे ऽङ्गतोक्ता, अधुना तु द्वयोर्विरोधिनोर्वस्त्वन्तरे ऽङ्गभाव इति शेषः ।
क्षिप्त इति ।
व्याख्यातमेतत् ऽप्रधाने ऽन्यत्र वाक्यार्थेऽ इत्यत्र ।
नन्वन्यपरत्वे ऽपि स्वभावो न निवर्तते, स्वभावकृत एव च विरोध इत्यभप्रायेणाह--अन्यपरत्वे ऽपीति ।
विरोधिनोरति ।
तत्स्वभावयोरिति हेतुत्वाभिप्रायेम विशेषणम् ।
उच्यत इति ।
अयं भावः---सामग्रीविशेषपतितत्वेन भावानां विरोधाविरोधौ न स्वभावमात्रनिबन्धनौ शीतोष्णयोरपि विरोधाभावात् ।
विधाविति ।
तदेव कुरु मा कार्षीरिति बालप्रिया चान्या अङ्गभावप्राप्तिरिति सम्बन्धः ।
ऽतस्यामपोऽति ।
तथाविधाङ्गभावप्राप्तावपीत्यर्थः ।
अन्येत्यस्य विवरणं लोचने---चतुर्थ इति ।
पूर्वोक्ताद्विशेषं दर्शयति---पूर्वमित्यादि ।
विरोधिन इति ।
विरोधिरसाङ्गास्येत्यर्थः ।
रसान्तरे रसविशेषे वस्त्वन्तर इति ।
प्रस्तुते इत्यनुषज्यते ।
अन्यपरत्वे ऽपीति ।
अन्याङ्गत्वे ऽपीत्यर्थः ।
आहेति ।
पृच्छतीत्यर्थः ।
विशेषणमिति ।
अनुषज्यमानयोर्द्वयोरित्यस्य विशेषणमित्यर्थः ।
अयं भावः विधावित्यादिग्रन्धस्यायं भावार्थः ।
क इत्यत्राह--सामग्रीत्यादि ।
अयमर्थः---पदार्थानां मध्ये कस्यचित्केनचित्सह विरोधश्चाविरोधश्च स्वभावमात्रकृतौ न, किन्तु सामग्रीविशेषानुप्रवेशेनापि सम्भवतः ।
अत्र तद्विरोधो नाम तदसामानाधिकरण्यं तदुत्पत्तिप्रतिबन्धश्च घटत्वादीनां पटत्वादिभिश्शीतस्पर्शदीनामुण्णस्पर्शादिभिश्च सहासामानाधिकरण्यरूपो विरोधः स्वभावकृतः ।
एवं तेषां द्रव्यत्वादिभिः रूपादिगुणैश्च सह सामानाधिकरण्यरूपाविरोधश्च बोध्यः ।
शीतस्पर्शासौरभगन्धादीनां स्वाश्रयारब्धद्रव्ये उण्णस्पर्शासौरभगन्धाद्युत्पत्तिप्रतिबन्धरूपस्तद्विरोधस्सामग्रीविशेषानुप्रवेशकृतः, एवं शीतोण्णस्पर्शयोरविरोधः कोमलभक्तोत्पत्तिसामग्रीविशेषानुप्रवेशकृतोबोध्यः ।
विथिस्थले प्रवृत्तिसामग्रीं निषेधस्थले निवृत्तिसामग्रीं चादाय तदनुप्रवेशेन विरोधाविरोधौ ग्राह्याविति ।
शीतोण्णयोरिति ।
शीतोण्णस्पर्शयोरित्यर्थः ।
विरोधाभावादिति ।
सामग्रीविशेषानुप्रवेशेनेति शेषः ।
विधावत्यदेर्दृष्टन्तमाह--तदेवेत्यादि ।
तदित्यनेनैकं कर्म विवक्षितम् ।
एकदेति शेषः ।
इति यथेति ।
इति विधौदुष्टत्वं यथा तथेत्यर्थः ।
करणाकरणयोरेकेनैकदानुष्ठातुमशक्यत्वादिति भावः ।
उपष्टम्भकमाह - अत एवेत्यादि ।
दुष्टत्वं वानुवादे ।
लोचनम् यथा ।
विधिशब्देनात्रैकदा प्राधान्यमुच्यते ।
अत एवातिरात्रे षोडशिनं गृह्णन्तीति विरुद्धविधिर्विकल्पपर्यवसायीति वाक्यविदः ।
अनुवाद इति ।
अन्याङ्गतायामित्यर्थः ।
बालप्रिया अत एव विरुद्धायोरेकत्रैकदा प्राधान्यस्य दुष्टत्वादेव ।
अतिरात्र इत्यादि ।
अतिरात्रे अतिरात्रयागे षोडशिनं सोमपात्रविशेषम् गृह्णन्ति यथा---- एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनो ऽर्थिभिः ॥
इत्यादौ ।
अत्र हि विधिप्रतिषेधयोरनूद्यमानत्वेन समावेशे न विरोधस्तथेहापि भविष्यति ।
श्लोके ह्यस्मिन्नीर्ष्याविप्रलम्भशृङ्गारकरुणवस्तुनोर्न विधीयमानत्वम् ।
त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वात्तदङ्गत्वेन च तयोर्व्यवस्थानात् ।
लोचनम् क्रीडाङ्गत्वे न ह्यत्र विरुद्धानामर्थानामभिधानमिति राजनिकटव्यवस्थिताततायिद्वयन्यायेन विरुद्धानामप्यन्यमुखप्रेक्षितापरतन्त्रीकृतानां येन विरोधः स्यात् ।
केवलं विरुद्धत्वादरुणाधिकरणस्थित्या बालप्रिया गृह्णीयुः इति षोडशिग्रहणं विहितम् ।
पुनश्च "नातिरात्रे षोडशिनं गृह्णाती"त्यनेन तन्निषिद्धञ्चेति यद्यपि ग्रहणाग्रहणयोर्विरुद्धयोर्विधिः, तथापि स विधिः षोडशिनं गृह्णीयान्न गृह्णीयाद्वा इति विकल्पे पर्यवस्यतीत्यर्थः ।
वृत्तौ---ऽएहीऽति ।
हे अर्थिन् त्वमेहि आगच्छ ।
ऽएवऽमिति ।
उक्तप्रकारेणेत्यर्थः ।
ऽआशेऽति ।
आशारुपैर्ग्रहैर्ग्रस्तास्तैरित्यर्थः ।
ऽअर्थिभिःऽ याचकैः धनिनः क्रीडन्तीति सम्बन्धः ।
अत्र एहीति क्रीडन्ति गच्छेति क्रीडन्तीत्यादिरीत्या भावाभावरूपयोरपि गमनागमनाद्योः प्रधानभूतक्रीडायां प्रकारतयान्वयेन तदङ्गत्वान्न दुष्टत्वमिति दर्शयन्नाह लोचने--क्रीडाङ्गत्वेनेत्यादि ।
अत्रेति ।
एहीत्यादिश्लोक इत्यर्थः ।
विरुद्धानामर्थानामिति ।
एकदैकत्र विरुद्धयोः गमनागमनयोः पतनोत्थानयोर्वचनमौनयोश्चार्थानामित्यर्थः ।
इतीति हेतौ ।
राजेति ।
राजनिकटव्यवस्थितौ राजाश्रयत्वेन स्थितौ यावातताथिनौ मिथो वैरेण वधोद्यतौ पुरुषौ तयोर्द्वेयं तन्न्यायेनेत्यर्थः ।
अन्येति ।
अन्यमुखप्रेक्षिता अन्यायत्तता तया परतन्त्रीकृतानामुपसर्जनीकृतानामित्यर्थः ।
औतेन क्रमेण एहि गच्छेत्यादिश्रुतिक्रमेम यः स्वात्मनां परामर्शः प्रतीतः तस्मिन् सत्यपि ।
अविश्राम्यतामिति ।
स्वात्मनि प्रतीतिविश्रान्तिमलभमानानामित्यर्थः ।
क्रीडायामङ्गत्वेनान्वयादिति भावः ।
परस्पररूपेति ।
परस्परस्य यद्रूपं स्वभावः तच्चिन्तायां का कथा तच्चिन्ता नोदेत्येवेत्यर्थः ।
विशेषमाह--केवलमित्यादि ।
अरुणेति ।
अरुणाधिकरणन्यायेनेत्यर्थः ।
सम्भाव्यत इत्यनेनास्य सम्बन्धः ।
अरुणयेत्यादिविधिवाक्ये कारकाणां भावनान्वयनियमान्मिथो ऽनन्वितानामेवारुण्यपिङ्गाक्षीत्वादीनां करणविभक्त्यन्तपदार्थानां सोमक्रयणभावनायां करणत्वेनादावन्वयः, पश्चात् परस्परान्वयः--- न च रसेषु विध्यनुवादव्यवहारो नास्तीति शक्यं वक्तुम्, तेषां वाक्यार्थत्वेनाभ्युपगमात् ।
वाक्यार्थस्य वाच्यस्य च यौ विध्यनुवादौ तौ लोचनम् यो वाक्यीय एषां पाश्चात्यः सम्बन्धः सम्भाव्यते स विघटताम् ।
ननु प्रधानतया यद्वाच्यं तत्र विधिः ।
अप्रधानत्वेन तु वाच्ये ऽनुवादः ।
न च रसस्य वाच्यत्वं त्वयैव सोढमित्याशङ्कमानः परिहरति---न चेति ।
प्रधानाप्रधानत्वमात्रकृतौ विध्यनुवादौ, तौ च व्यङ्ग्यतायामपि भवत एवेति भावः ।
मुख्यतया च रस एव काव्यवाक्यार्थ इत्युक्तम् ।
तेनामुख्यतया यत्र सो ऽर्थस्तत्रानूद्यमानत्वं रसस्यापि युक्तम् ।
यदि वानूद्यमानविभावादिसमाक्षिप्तत्वाद्रसस्यानूद्यमानता तदाह---वाक्यार्थस्येति ।
बलप्रिया या गौस्सा अरुणा पिङ्गाक्षीत्यादि ।
स्पष्टमिदं मीमांसापरिभाषादौ ।
वाक्यीय इति ।
वाक्यप्रतिपाद्य इत्यर्थः ।
एषामित्यादि ।
य आगच्छति स गच्छतीत्यादिपार्ष्ठिकान्वय इत्यर्थः ।
विरुद्धत्वात्स केवलं विघटतामिति सम्बन्धः ।
वृत्तौ ऽविधिप्रतिषेधयोऽरिति ।
गमनागमनाद्योरत्यर्थः ।
ऽअनूद्यमानत्वेनेऽति ।
क्रीजाविधाने इति शेषः ।
तथेत्याद्युक्तमेव विवृणोति---ऽश्लोकऽ इत्यादि ।
ऽविधीयमानत्वऽमिति ।
प्राधान्यमित्यर्थः ।
ऽन चेऽत्याद्यभ्युपगमादित्यन्तं ग्रन्थमवतारयति लोचने---नन्वित्यादि ।
यद्वाच्यमिति ।
यो वाच्यार्थ इत्यर्थः ।
तत्र विधिरिति ।
तस्य विधिरनुवादश्चेति भावः ।
तेषामित्यादिपरिहारग्रन्थस्य भावमाह--प्रधानेत्यादि ।
युक्तमित्यन्तेन ।
विध्यनुवादाविति ।
अर्थस्येति शेषः ।
व्यङ्गयतायामपि व्यङ्ग्यत्वे सत्यपि ।
कुत्रानूद्यमानत्वं रसस्येत्यत्राह---मुख्यतयेत्यादि ।
सो ऽर्थः व्यङ्ग्यार्थः ।
यदिवेति पक्षान्तरद्योतकम् ।
तदाक्षिप्तानां रसानां केन वार्येते ।
यैर्वा साक्षात्काव्यार्थता रसादीनां नाभ्युपगम्यते, तैस्तेषां तन्निभित्तता तावदवश्यमभ्युपगन्तव्या ।
तथाप्यत्र श्लोके न विरोधः ।
यस्मादनूद्यमानाङ्गनिमित्तोभयरसवस्तुसहकारिणो विधीयमानांशाद्भावविशेषप्रतीतिरुत्पद्यते ततश्च न कश्चिद्विरोधः ।
दृश्यते विरुद्धोभयसहकारिणः कारणात्कार्यविशेषोत्पत्तिः विरुद्धफलोत्पादनहेतुत्वं हि युगपदेकस्य कारणस्य विरुद्धं न तु विरुद्धोभयसहकारित्वम् ।
लोचनम् यदि वा मा भूदनूद्यमानतया विरुद्धयो रसयोः समावेशः, सहकारितया तु भविष्यतीति सर्वथाविरुद्धयोर्युक्तियुक्तो ऽङ्गाङ्गिभावो नात्र प्रयासः कश्चिदिति दर्शयति--यैवति ।
तन्निमित्ततेति ।
काव्यार्थो विभावादिर्निमित्तं येषां रसादीनां ते तथा तेषां भावस्तत्ता ।
अनूद्यमाना ये हस्तक्षेपादयो रसाङ्गभूता विभावादयस्तन्निमित्तं यदुभयं करुणविप्रलम्भात्मकं रसवस्तु रससजातीयं तत्सहकारि यसेय विधीयमानस्य शाम्भवशरवह्निजनितदुरित्दाहलक्षणस्य तस्माद्भावविशेषेप्रेयोलङ्कारविषये भगवत्प्रभावातिशयलक्षणे प्रतीतिरिति सङ्गतिः ।
विरुद्धं यदुभयं वारितेजोगतं शीतोष्णं तत्सहकारि यस्य तण्डुलादेः कारणस्य तस्मात्कार्यविशेषस्य कोमलभक्तकरणलक्षणस्योत्पत्तिर्दृश्यते ।
सर्वत्र हीत्थमेव कार्यकारणभावो बीजाङ्कुरादौ नान्यथा ।
ननु विरोधस्तर्हि सर्वत्राकिञ्चित्करः स्यादित्याशङ्क्याह---विरुद्धफलेति ।
तथा चाहुः---ऽनोपादानं विरुद्धस्यऽ इति ।
नन्वभिनेयार्थे काव्ये यदीदृशं वाक्यं भवेत्तदा बालप्रिया अन्वित्यादि ।
अनूद्यमानैर्विभावादिभिः समाक्षिप्तत्वाद्य्वञ्चितत्वादित्यर्थः ।
तदाह तदभिप्रायेणाह ।
ऽतन्निमित्ततेऽत्येतद्य्वाचष्टे---काव्येत्यादि ।
अनूद्यमानाङ्गेत्यादिकं क्षिप्त इत्यादिश्लोके योजयन् व्याचष्टे---अनूद्यमाना इत्यादि ।
हस्तक्षेपादयो विभावादय इत्यत्र यथासंख्येनान्वयो न विवक्षितः ।
हस्तक्षेपस्यानुभावत्वात् अनुभावादय इति वा पाठः ।
तन्निमित्तमिति ।
ते निमित्तानि यस्य तदित्यर्थः ।
रससजातीयमिति ।
रसात्मकं स्थाय्यात्मकं वेत्यर्थः ।
यस्य विधीयमानांशस्येत्यस्यैव विवरणम्---शाम्भवेत्यादि ।
विधीयमानांशादिति विशेष्यसन्निधानेन यस्य विधीयमानांशस्येति व्याख्यातं, तदेतद्दर्शयितुमाह---तस्मादिति ।
भावविशेषप्रतीतिरित्येतद्य्वाचष्टे---भावेत्यादि ।
भावविशेषे इत्यस्य विवरणम्---प्रेयो ऽलङ्कारविषय इति ।
स क इत्यत्राह---भगवदित्यादि ।
सर्वत्रेत्यादि ।
तेजोजलाद्यात्मकविरुद्धोभयसहकारिण एव बीजादेरङ्कुरादिकार्योत्पत्तिरिति भावः ।
नोपादानमिति ।
नोत्पादनमिति पाठेन भाव्यमिति प्रतिभाति ।
एवंविधव्रिदेधपदार्थविषयः कथमभिनयः प्रयोक्तव्य इति चेत्, अनूद्यमानैवंविधवाच्यविषये या वार्ता सात्रापि भविष्यति ।
एवं विध्यनुवादनयाश्रयेणात्र श्लोके परिहृतस्तावद्विरोधः ।
किं च नायकस्याभिनन्दनीयोदयस्य कस्यचित्प्रभावातिशयवर्णने तत्प्रतिपक्षाणां यः करुणो रसः स परीक्षकाणां न वैक्लव्यमादधाति लोचनम् यदि समस्ताभिनयः क्रियते तदा विरुद्धार्थविषयः कथं युगपदभिनयः कर्तुं शक्य इत्याशयेनाशङ्कमान आह--एवमिति ।
एतत्परिहरति---अनूद्यमानेति ।
अनूद्यमानमेवंविधं विरुद्धाकारं वाच्यं यत्र तादृशो यो विषयः ऽएहि गच्छ पतोत्तिष्ठऽ इत्यादिस्तत्र या वार्ता सात्रापीति ।
एतदुक्तं भवति---ऽक्षिप्तो हस्तावलग्नऽ इत्यादौ प्राधान्येन भीतविप्लुतादिदृष्ट्युपपादनक्रमेण प्राकरिणकस्तावदर्थः प्रदर्शयितव्यः ।
यद्यप्यत्र करुणो ऽपि पराङ्गमेव तथापि विप्रलम्भापेक्षया तस्य तावन्निकटं प्राकरणिकत्वं महेश्वरप्रभावं प्रति सोपयोगत्वात् ।
विप्रलम्भस्य तु कामीवेत्युत्प्रेक्षोपमाबलेनायातस्य दूरत्वात् ।
एवं च सास्रनेत्रोत्पलाभिरत्यन्तं प्राधान्येन करुणोपयोगाभिनयक्रमेण लेशतस्तु विप्रलम्भस्य करुणेन सादृश्यात्सूचनां कृत्वा ।
कामीवेत्यत्र यद्यपि प्रणयकोपोचितो ऽभिनयः कृतस्तथापि ततः प्रतीयमानो ऽप्यसौ विप्रलम्भः समनन्तराभिनीयमाने स दहतु दुरितमित्यादौ साटोपाभिनयसमर्पितो यो भगवत्प्रभावस्तत्राङ्गतायां पर्यवस्यतीति न कश्चिद्विरोधः ।
एतं विरोधपरिहारमुपसंहरति---एवमिति ।
विषयान्तरे तु प्रकारान्तरेण विरोधपरिहारमाह---किञ्चेति ।
परीक्षकामामिति सामाजिकानां विवेकशालिनाम् ।
न वैक्लव्यमिति ।
न तादृशे विषये चित्तद्रुतिरितेपद्यते करुणास्वादविश्रान्त्यभावात् ।
किन्तु वीरस्य यो ऽसौ क्रोधो व्यभिचारतां प्रतिपद्यते तत्फलरूपो ऽसौ करुणरसः ।
स्वकारणाभिव्यञ्जनद्वारेण वीरास्वादातिशय एव पर्यवस्यति ।
बालप्रिया नटशिक्षार्थं विवृणोति---एतदुक्तमित्यादि ।
प्रदर्शयितव्यः अभिनेतव्यः ।
उत्प्रेक्षापमाबलेनेति ।
उत्प्रेक्षाया उपमाया वा बलेनेत्यर्थः ।
कृत्वा अभिनय इति सम्बन्धः ।
शङ्कते---कामीत्यादि ।
समाधत्ते---तथापीत्यादि ।
कृत इति ।
कृतिविषय इत्यर्थः ।
भवेदिति शेषः ।
किञ्चेत्यादिग्रन्थमवतारयति---विषयान्तरे ऽपीत्यादि ।
विषयान्तरे स्थलान्तरे कुरवकेत्यादौ ।
प्रकारान्तरेणेति ।
पञ्चमेन प्रकारेणेत्यर्थः ।
आहेति ।
प्रसङ्गादाहेत्यर्थः ।
तादृशे विषय इति ।
कुरवकेत्यादद्युदाहरणादावित्यर्थः ।
वैक्लव्यमित्यस्य प्रत्युत प्रीत्यतिशयनिमित्ततां प्रतिपद्यत इत्यतस्तस्य कुण्ठशक्तिकत्वात्तद्विरोधविधायिनो न कश्चिद्दोषः ।
तस्माद्वाक्यार्थीभूतस्य रसस्य भावस्य वा विरोधी रसविरोधीति वक्तुं न्याय्यः, न त्वङ्गभूतस्य कस्यचित् ।
लोचनम् यथोक्तम्--ऽरौद्रस्य चैव यत्कर्म स ज्ञेयः करुणो रसःऽ इति ।
तदाह---प्रीत्यतिशयेति ।
अत्रोदाहरणम्--- कुरबक कुचाघातक्रीडासुखेन वियुज्यसे बकुलविटपिन् स्मर्तव्यं ते मुखासवसेवनम् ।
चरणघटनाशून्यो यास्यस्यशोक सशोकता- मिति निजपुरत्यागे यस्य द्विषां जगदुः स्त्रयः ॥
भावस्य वेति ।
तस्मिन् रसे स्थायिनः प्रधानभूतस्य व्यभिचारिणो वा यथा विप्रलम्भशृङ्गार औत्सुक्यस्य ।
बालप्रिया विवरणम्---चित्तद्रुतिरिति ।
कुरवकेति ।
मुखासवसेवनमित्यपि पाठः ।
स पादाघातादशोकस्तिलककुरवकौ वीक्षणालङ्गनाभ्याम् स्त्रीणां स्पर्शात्प्रियङ्गुर्विकसति बकुलश्शीधुगण्डूषसेकात् ॥
इति वचनमत्रानुसन्धेयम् ।
वृत्तौ ऽकरुणो रसऽइति ।
निबध्यमान इति शेषः ।
ऽप्रीत्यतिशयेऽति ।
वीररसास्वादेत्यर्थः ।
ऽतस्येऽति ।
करुणस्येत्यर्थः ।
ऽकुण्ठशक्तिकत्वादिऽति ।
अन्याङ्गत्वेन शक्तेः कुण्ठीभावादित्यर्थः ।
न दोष इत्यनेनास्य सम्बन्धः ।
ऽतद्विरोधविधायिनऽ इति तस्येत्यस्य विशेषणम् ।
वीररसास्वादातिशयविरोधविधायिन इत्यर्थः ।
अकुण्ठशक्तिकत्वादिति पाठे तस्येत्यस्य वीरास्वादस्येत्यर्थः ।
तद्विरोधविधायिन इति पञ्जम्यन्तं करुणादिति शेषः ।
निगमयति ऽतस्मादिऽत्यादि ।
ऽवाक्यार्थीभूतस्येऽति ।
प्रधानस्य प्रस्तुतस्येत्यर्थः ।
ऽरसविरोधीति वक्तुम्ऽ इति ।
"विरोधिरसे"त्यादौ विरोधिपदेन वक्तुमित्यर्थः ।
तथाच वाक्यार्थभूतरसादिविरोधिरससम्बन्धिपरिग्रहो दोष इति भावः ।
ऽन त्विऽत्यादि ।
अङ्गभूतस्य कस्यचिद्रसस्य भावस्य वा विरोधी रसविरोधीति वक्तुं न न्याय्य इत्यर्थः ।
तथाचाङ्गभूतस्य कस्यचिद्विरोधी यो लसः तत्सम्बन्धिपरिग्रहो न दोष इति भावः ।
यथाक्षिप्तेत्यादौ शृङ्गारविरोधी यः करुणस्तत्सम्बन्धिपरिग्रहः ।
भावस्य वेत्यत्र भावपदेन स्थायी व्यभिचारी च विवक्षित इत्याह लोचने---तस्मिन्नित्यादि ।
तस्मिन् रसे प्रकृतरसे ।
वाक्यार्थभूतस्येत्यस्य विवरणम्---प्रधानभूतस्येति ।
अथवा वाक्यार्थीभूतस्यापि कस्यचित्करुणरसविषयस्य तादृशेन शृङ्गारवस्तुना भङ्गिविशेषाश्रयेण संयोजनं रसपरिपोषायैव जायते ।
यतः प्रकृतिमधुराः पदार्थाः शोचनियतां प्राप्ताः प्रगवस्थाभाविभिः संस्मर्यमाणैर्विलासैरधिकतरं शोकावेशमुपजनयन्ति ।
यथा--- लोचनम् अधुना पूर्वस्मिन्नेव श्लोके क्षिप्त इत्यादौ प्रकारान्तरेण विरोधं परिहरति---अथवेति ।
अयं चात्र भावः--पूर्वं विप्रलम्भकरुणयोरन्यत्राङ्गभावगमनान्निर्विरोधत्वमुक्तम् ।
अधुना तु स विप्रलम्भः करुणस्यैवाङ्गतां प्रतिपन्नः कथं विरोधीति व्यवस्थाप्यते---तथा हि करुणो रसो नामेष्टजनविनिपातादेर्विभावादित्युक्तम् ।
इष्टता च नाम रमणीयतामूला ।
ततश्च कामीवार्द्रापराघ इत्युत्प्रेक्षयेदमुक्तम् ।
शांभवशरवह्निचेष्टितावलोकने प्राक्तनप्रणयकलहवृत्तान्तः स्मर्यमाण इदानीं विध्वस्ततया शोकविभावतां प्रतिपद्यते ।
तदाह---भङ्गिविशेषेति ।
अग्राम्यतया विभावानुभावादिरूपताप्रापणया बालप्रिया अथ वेत्यादिग्रन्थस्यार्थान्तरभ्रमनिवारणाय तद्रग्रन्थमवतारयति---अधुनेत्यादि ।
अथ वेति इत्यस्य स्थाने अथवेत्यादिना दोषाभाव इत्यन्तेनेति च पाठः ।
वृत्तौ ऽअथवेऽत्यादि ।
ऽवाक्यार्थभूतस्येऽति ।
वाच्यस्येत्यर्थः ।
अपिशब्दः अनन्तरोक्तनीत्या रसपरपोषणे आपाततो विरोधं द्योतयति ऽकस्यचिदिऽति ।
विभावादिरूपस्य कस्यचिदित्यर्थः ।
ऽकरुणरसविषयस्यऽ कुणाङ्गस्य ।
ऽतादृशेनऽ वाच्यतया तत्तुल्येन ।
यद्वा--विरोधिना शृङ्गारवस्तुना शृङ्गाराङ्गेन ।
उक्तस्योदाहरणमाह---ऽअयम्ऽ इत्यादि ।
काव्यप्रकाशेऽप्युदाहृतो ऽयं श्लोकः ।
प्रकृते क्षिप्त इत्यादावुक्तं योजयन्नाह---ऽतदत्रेऽत्यादि ।
ऽव्यवहरति स्मेऽति ।
करग्रहणादिकमकरोदिति तदर्थः ।
वृत्तिग्रन्थेन विवक्षिता स्यास्पष्टत्वाद्भावमाह लोचने - अयञ्चात्रेत्यादि ।
अन्यत्र त्रिपुररिपुप्रभावातिशये ।
अधुना तु इत्यस्य इति व्यवस्थाप्यत इत्यनेन सम्बन्धः ।
कथं विरोधीति ।
करुणस्य विरोधी नेत्यर्थः ।
विभावादित्युक्तमिति ।
मुनिनेति शेषः ।
रमणीयतामूलेति बहुव्रीहिः ।
इत्युत्प्रेक्षयेति ।
इदं चात्रोत्प्रेक्षालङ्कार इति पक्षाभिप्रायेणोक्तम् ।
इदमुक्तमिति ।
वक्ष्यमाणार्थः प्रकाशित इत्यर्थः ।
शाम्भवेति ।
शाम्भववह्नेश्चेष्टितानामवलोकनेनेत्यर्थः ।
अवलोकने इत्यपि पाठः, स्मर्यमाण इत्यनेनास्य सम्बन्धः ।
प्राक्तनेति ।
प्राक्तनः पूर्वानुभूतः प्रणयकलहवृत्तान्तः करग्रगणासहनादिरित्तयर्थः ।
स्मर्यमाण इति ।
त्रिपुरयुवतिभिरिति शेषः ।
विध्वस्ततयेति ।
नष्टतयेत्यर्थः शोकविभावतामित्यस्यानन्तरं प्रकृष्टामिति च क्वचित् पाठः ।
प्रतिपद्यत इति ।
तथाचात्र विशिष्टवैशिष्ट्यन्यायेन विप्रलम्भोपस्कृतः करुणः त्रिपुररिपुप्रभावातिशयं अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।
नाभ्यूरुजघनस्पर्शि नीवीविस्रंसनः करः ॥
इत्यादौ ।
तदत्र त्रिपुरयुवतीनां शाम्भवः शराग्निरार्द्रापराधः कामी यथा व्यवहरति सम तथा व्यवहृतवानित्यनेनापि प्रकारेणास्त्येव निर्विरोधत्वम् ।
तस्माद्यथा यथा निरूप्यते तता तथात्र दोषाभावः ।
इत्यं च---- क्रामन्त्यः क्षयकोमलाङ्गुलिवलद्रक्तैः सदर्भाः स्थलीः पादैः पातितयावकैरिव पतद्बाष्पाम्बुधौताननाः ।
भीता भर्तृकरावलम्बितकरास्त्वद्वैरिनार्थाधुना दावाग्निं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ॥
इत्येवमादीनां सर्वेषामेव निर्विरोधत्वमवगन्तव्यम् ।
मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0