ध्वन्यालोक (टीका सहित) · भाग 341360
महती अव्युत्पत्तिसम्भावना भवतीत्युक्तं विवृणोति---न हीत्यादि ।
तत्रेति ।
स्वयमुत्प्रेक्षिते कथाशरीर इत्यर्थः ।
जात्युत्तरमिति ।
असमीचीनमुत्तरमित्यर्थः ।
तत्र इति जात्युत्तरमपि न सम्भवतीति सम्बन्धः ।
सन्तीत्यादिकं विवृणोति--सिद्ध इत्यादि ।
आस्वादेति ।
आस्वादमात्रं तत्र चाभ्युपायः सम्यग्विभावाद्यौचित्यानुसरणम् ।
तच्च दर्शितमेव ।
किञ्च---- सन्ति सिद्धरसप्रख्या ये च रामायणादयः ।
कथाश्रया न तैर्योज्या स्वेच्छा रसविरोधिनी ॥
तेषु हि कथाश्रयेषु तावत्स्वेच्छैव न योज्य ।
यदुक्तम्---ऽकथामार्गे न चाल्पो ऽप्यतक्रमःऽ ।
स्वेच्छापि यदि योज्या तद्रसविरोधिनी न योज्या ।
इदमपरं प्रबन्धस्य रसाभिव्यञ्जकत्वे निबन्धनम् ।
इतिवृत्तवशायातां कथञ्चिद्रसाननुगुणां स्थितिं त्यक्त्वा पुनरुत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयो विधेयः यता कालिदासप्रबन्धेषु ।
यथा च सर्वसेनविरचिते लोचनम् न हि तत्रेतिहासवशादेव मया निबद्धमिति जात्युत्तरमपि सम्भवति ।
तत्र चेति ।
रसमयत्वसम्पादने ।
सिद्धेति ।
सिद्धः आस्वादमात्रशेषो न तु भावनीयो रसो येषु ।
कथानामाश्रया इतिहासाः, तैरितिहासार्थैः तैस्सह स्वेच्छा न योज्या ।
सहार्तश्चात्र विषयविषयिभाव इति व्याचष्टे---तेष्विति सप्तम्या ।
स्वेच्छा तेषु न योज्या, कथञ्चिद्वा यदि योज्यते तत्तत्प्रसिद्धरसविरुद्धा न योज्या ।
यथा रामस्य धीरललितत्वयोजनेन नाटिकानायकत्वं कश्चित्कुर्यादिति त्वत्यन्तासमञ्जसम् ।
यदुक्तमिति ।
रामाभ्युदये यशोवर्मणा---ऽस्थितमिति यथा शय्याम्ऽ ।
कालिदासेति ।
रघुवंशे ऽजादीनां राज्ञां विवाहादवर्णनं नेतिहासेषु निरूपितम् ।
हरिविजये कान्तानुनयनाङ्गत्वेन पारिजातहरणादिनिरूपितमितिहासेष्वदृष्टचमपि ।
तथार्जुनचरिते ऽर्जुनस्य पातालविजयादि बालप्रिया सहृदयास्वाद एव शेषः शिष्टांशो यस्य सः ।
मात्रपदव्यवच्छेद्यमाह---न त्वित्यादि ।
भावनीयः वर्णनया सम्पादनीयः ।
सिद्धरसाः प्रख्याः प्रख्याताश्च सिद्धरसप्रख्या ये रामायणादयः कथाश्रयास्सन्तीति सम्बन्धः ।
तत्र कथाश्रयपदं व्याचष्टे - कथानामित्यादि ।
तैरित्येतद्व्याचष्टे - इतिसाहासार्थैरिति ।
न तैरित्यादिकं वाक्यद्वये पर्यवसन्नमित्याशयेन तेष्वित्यादि व्याख्यातं वृत्तौ, तत्र तैरित्यनेन तेष्वित्यर्थः ।
कथं लब्धं इत्यतस्तद्ग्रन्थमवतारयति---तैरित्यादि ।
तेष्विति सप्तम्येत ।
सप्तमीयं वैषयिकाधिकरण इति भावः ।
स्वेच्छेति ।
स्वेच्छानिर्मिता अर्था इत्यर्थः ।
तेष्विति ।
सिद्धरसप्रख्येषु कथाश्रयेष्वित्यर्थः ।
यथा रामस्येति ।
रामायणप्रसिद्धस्तदीयो रसो हि वीर इति भावः ।
वृत्तौ---ऽन चाल्पो ऽप्यतिक्रमऽ इति ।
अल्पो ऽप्यतिक्रमो न कार्यं इत्यर्थः ।
ऽइति वृत्तेऽत्यादि ।
कथञ्चिद्रसाननुगुणां कयापि विधया हरिविजये ।
यथा च मदीय एवार्जुनचरिते महाकाव्ये ।
कविना काव्यमुपनिबन्धता सर्वात्मना रसपरतन्त्रेण भवितव्यम् ।
तत्रेतिवृते यदि रसाननुगुणां स्थितिं पश्येत्तदेमां भङ्क्त्वापि स्वतन्त्रतया रसानुगुणं कथान्तरमुत्पादयेत् ।
न हि कवेरितिवृत्तमात्रनिर्वहणेन किञ्चित्प्रयोजनम्, इतिहासादेव तत्सिद्धेः ।
रसादिव्यञ्जकत्वे प्रबन्धस्य चेदमन्यन्मुख्यं निबन्धनं, यत्सन्धीनां मुखप्रतिमुखगर्भावमर्शनिर्वहणाख्यानां तदङ्गानां चोपक्षेपादीनां घटनं लोचनम् वर्णितमिथासाप्रसिद्धम् ।
एतदेव युक्तमित्याह---कविनेति ।
सन्धीनामिति ।
इह प्रभुसम्मितेभ्यः श्रुतिस्मृतिप्रभृतिभ्यः कर्तव्यमिदमित्याज्ञामात्रपरमार्थेभ्यः शास्त्रेभ्यो ये न व्युत्पन्नाः, न चाप्यस्येदं वृत्तममुष्मात्कर्मण इत्येवं युक्तियुक्तकर्मफलसम्बन्धप्रकटनकारिभ्यो मित्र्रसम्मितेभ्य इतिहासशास्त्रेभ्यो लब्धव्युत्पत्तयः, अथ चावश्यं व्युत्पाद्याः प्रजार्थसम्पादनयोग्यताक्रान्ता राजपुत्रप्रायास्तेषां हृदयानुप्रवेशमुखेन चतुर्वर्गोपायव्युत्पत्तिराधेया ।
हृदयानुप्रवेशश्च रसास्वादमय एव ।
स च रसश्चतुर्वर्गोपायव्युत्पत्तिनान्तरीयकविभावादिसंयोगप्रसादोपनत इत्येवं रसोचितविभावाद्युपनिबन्धे रसास्वादवैवश्यमेव स्वरसभाविन्यां व्युत्पत्तौ प्रयोजकमिति प्रीतिरेव व्युत्पत्तेः प्रयोजिका ।
प्रीत्यात्मा च रसस्तदेव नाट्यं नाट्यमेव वेद इत्यस्मदुपाध्यायः ।
न चैते प्रीतिव्युत्पत्ती भिन्नरूपे एव, द्वयोरप्येकविषयत्वात् ।
विभावाद्यौचित्यमेव बालप्रिया रसानुगुण्यरहिताम् ।
ऽउत्प्रेक्ष्यऽ आलोच्य ।
ऽअन्तराऽ मध्ये ।
ऽअभीष्टेऽति ।
अभीष्टस्य रसस्य उचितायाः कथाया उन्नयः घटनम् ।
उक्तमेवार्थंस्फुटं विवृणोति--ऽकविनेऽत्यादि ।
ऽप्रबन्धम्ऽ इति ऽकाव्यम्ऽ इति च पाठः ।
लोचने ऽसन्धीनाम्ऽ इत्यादिग्रन्थार्थं विवृणोति--इह प्रभुसम्मितेभ्य इत्यादि ।
कर्तव्यमिदमिति उपलक्षणमेतदिदं न कर्तव्य मित्यस्य ।
शास्त्रेभ्य इति हेतौ पञ्चमी ।
न चापीति ।
लब्धव्युत्पत्तय इत्यनेनास्य सम्बन्धः ।
अस्येति नायकविशेषस्य निर्देशः ।
इदं वृत्तमिति ।
एतत्फलं जातमित्यर्थः ।
शास्त्रीति ।
शास्त्रमितिहासात्मकानि शास्त्राणि इतिहासशास्त्राणि तेभ्यः ।
अथ चावश्यं व्युत्पाद्या इत्यत्र हेतुमाह---प्रजार्थेति ।
प्रजानामर्थपम्पादने परिपालने या योग्यता राजकुलप्रसूतत्वादिरूपा तया आक्रान्ता आश्रिता इत्यर्थः ।
चतुरिति ।
चतुर्वर्गोपायव्युत्पत्तिः नान्तरीयकमानुषङ्गिकफलं यस्य तथाविधो यो विभावादिसंयोगः तत्प्रसादोपनतः तेनोत्पादित इत्यर्थं ।
इत्येवमिति ।
उक्तप्रकारेणेत्यर्थः ।
प्रीतिरेवेति ।
रसास्वादानन्द एवेत्यर्थः ।
भिन्निरूपे इति ।
विभिन्नविषयके इत्यर्थः ।
लोचनम् सत्यतः प्रीतेर्निदानमित्यसकृदवोचाम ।
विभावादीनां तद्रसोचतानां यथास्वरूपवेदनं फलपर्यन्तीभूततया व्युत्पत्तिरित्युच्यते ।
फलं च नाम यददृष्टवशाद्दवता प्रसादादान्यतो वा जायते ।
न च तदुपदेश्यम्, तत उपाये व्युतत्पत्ययोगात् ।
तेनोपायक्रमेण प्रवृत्तस्य सिद्धिः अनुपायद्वारेण प्रवृत्तस्य नाश इत्येवं नायकप्रतिनायकगतत्वेनार्थानर्थेपायव्युत्पत्तिः कार्या ।
उपायश्च कर्त्राश्रीयमाणः पञ्चवस्था भजते ।
तद्यथास्वरूपं, स्वरूपात्किञ्चिदुच्छूनतां, कार्यसम्पादनयोग्यतां, प्रतबन्धोपनिपातेनाशङ्क्यमानतां, निवृत्तप्रतिपक्षतायां बाधकबाधनेन सुदृढफलपर्यन्तताम् ।
एवमार्तिसहिण्णूनां विप्रलम्भभीरूणां प्रेक्षापूर्वकारिणां तावदेवं कारणोपादानम् ।
ता एवंविधाः पञ्चावस्था ; कारणगता मुनिनोक्तः--- संसाध्ये फलयोगे तु व्यापारः कारणस्य यः ।
बालप्रिया फलपर्यन्तीभूततयेति ।
स्वरूपसंवेदनमित्यनेन सम्बन्धः ।
तदिति ।
अदृष्टादिजन्यं फमित्यर्थः ।
ततः तथाविधफलोपदेशेन ।
उपाये व्युत्पत्त्ययोगादिति ।
तत्तत्फलोपायविषयकव्युत्पत्यनुदयादित्यर्थः ।
तेनेति ।
उक्तहेतुनेत्यर्थः ।
सिद्धिरिति ।
फलसिद्धिरित्यर्थः ।
अनुपायेति ।
अनुपायशब्देनाहेतुरनिष्टहेतुश्च विवक्षितः ।
नाश इति ।
फलासिद्धिरनिष्टसिद्धिश्चेत्यर्थः ।
नायकप्रतिनायकगतत्वेनेति ।
अर्थानर्थेत्यनेन सम्बन्धः ।
यथासङ्ख्यं नायकप्रतिनायकगतौ यावर्थानर्थौ तदुपायस्य व्युत्पत्तिरित्यर्थः ।
कार्येति ।
कविना सम्पादनीयेत्यर्थः ।
कर्त्रेति ।
नायकादिनेत्यर्थः ।
स्वरूपमित्यादिद्वितीयान्तानां पञ्चावस्था इत्यनेन पूर्वस्थेन सम्बन्धः ।
स्वरूपमिति ।
उपायस्यानुष्ठीयमानत्वस्वरूपमित्यर्थः ।
किञ्चिदुच्छूनतामिति ।
किञ्चित्पोषमित्यर्थः ।
तद्रूपां कार्यसम्पादनयोग्यतामिति द्वितीयावस्था ।
प्रतिबन्धकेत्यादि ।
प्रतिबन्धकोपनिपातेनाशङ्क्यमानकार्यसिद्धिकत्वमित्यर्थः ।
निवृत्तप्रतिपक्षतायामिति ।
प्रतिवन्धकनिवृत्तमित्यर्थः ।
प्रतिबन्धकनिवृत्त्या निश्चीयमानकार्यकत्वमिति यावत् ।
प्रतापरुद्रीयव्याख्यायान्तु - प्रथमावस्थास्वरूपात् किञ्चिदुच्छूनत्वं, द्वितीया तु कार्यसम्पादनयोग्यता, तृतीया तु प्रतिबन्धकोपनिपातेन कार्यस्य शङ्क्यमानत्वं, चतुर्थी तु प्रतिबन्धकनिवृत्त्या कार्यस्य निश्चयः, पञ्चमी तु बाधबाधनेन फलपर्यन्ततादार्ढ्यमित्युक्तम्, तदनुरोधे तु स्वरूपात् किञ्चिदुच्छूनतामित्यस्य स्वरूपमित्यनेनान्वयो बोध्यः ।
आर्तिसहिण्णुनामिति ।
श्रमसहिण्णूनमित्यर्थः ।
यथोक्तम्---"विध्नैर्मुहुर्मुहुरपि प्रतिहन्यमाना" इत्यादि ।
विप्रलम्भेति ।
कार्यासिद्धीत्यर्थः ।
संसाध्य इति ।
कारणस्येति ।
नायकादेरित्यर्थः ।
प्रारम्भादीनाम्मुखादिसन्धीनां लोचनम् तस्यानुपूर्व्या विर्ज्ञयाः पञ्चावस्थाः प्रयोक्तृभिः ॥
प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च सम्भवः ।
नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ॥
इति ।
एवं या एताः कारणस्यावस्थास्तत्सम्पादकं यत्कर्तुरितवृत्तं पञ्चधा विभक्तम् ।
त एव मुखप्रतिमुखगर्भावमर्शनिर्वहणाख्या अन्वर्थनामानः पञ्च सन्धय इतिवृत्तखणडाः, लोचनम् सन्धीयन्त इति कृत्वा ।
तेषामपि सन्धीनां स्वनिर्वाह्यं प्रति तथा क्रमदर्शनादवान्तरभिन्ना इतितवृत्तभागाः ।
सन्ध्यङ्गानि--ऽउपक्षेपः परिकरः परिन्यसो विलोभनम्ऽ इत्यदीनि ।
अर्थप्रकृतयो ऽत्रैवान्तर्भूताः ।
तथा हि स्वायत्तसिद्धेर्बीजं बिन्दुः कार्यमिति तिस्रः ।
बीजेन सर्वव्यापाराः बिन्दुनानुसन्धानं कार्येण निर्वाहः सन्दर्शनप्रार्थनाव्यवसायरूपा ह्येतास्तिस्रो ऽर्थसम्पाद्ये कर्तुः प्रकृतयः स्वभाववशेषाः ।
सचिवायत्तसिद्धित्वे तु सचिवस्य तदर्थमेव वा स्वार्थमेव वा स्वार्थमपि वा प्रवृत्त्त्वेन प्रकीर्णपताकाशब्दाभ्यामुक्त इति ।
एवं प्रस्तुतफलनिर्वाहणान्तस्याधिकारिकस्य वृत्तस्य पञ्चसन्धित्वं पूर्णसन्ध्यङ्गता च सर्वजनव्युत्पत्तिदायिनी निबन्धनीया ।
प्रासङ्गिके त्वितिवृत्ते नायं नियम इत्युक्तम्- ऽप्रासङ्गिके पराथत्वान्न ह्येष नियमो भवेत्ऽ इति मुनिना ।
एवं स्थिते रत्नावल्यां धीरललितस्य नायकस्य धर्माविरुद्धसम्भोगसेवायामनौचित्याभावात्प्रत्युत न निस्सुखः स्यादिति श्लाध्यत्वात्पृथ्वीराज्यमहाफलान्तरानुबन्धिकन्यालाभफलोद्देशेन बालप्रिया तदङ्गानामुपक्षेपादीनाञ्च लक्षणानि दशरूपकादिषु द्रष्टव्यानि ।
स्वनिर्वाह्यमिति ।
स्वनिर्वाह्यं फलमित्यर्थः ।
अर्थप्रकृतयो ऽत्रैवेति ।
ताः "बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणा" इत्युक्ता बोध्याः ।
स्वायत्तसिद्धेरिति ।
नायकस्त्रिविधः---स्वायत्तसिद्धिस्सचिवायत्तसिद्धिरुभयायत्तसिद्धिश्चेति ।
बीजेन सर्वव्यापारा इति ।
विवक्षिता इति शेषः ।
एवमुत्तरवाक्ययोरपि बोध्यम् ।
अनुसन्धानमिति ।
अवान्तरार्थैर्मुख्यप्रयोजनस्य विच्छेदे तत्सन्धानकरणमित्यर्थः ।
सन्दर्शनेत्यादि ।
तत्ततप्रयोजनं मनसि कृत्य तात्सिद्धिं सम्प्रार्थ्य तदर्थो व्यवसायो भवतीति सन्दर्शनादिजन्यत्वाद्बीजादयस्तत्स्वरूपा इत्यर्थः ।
अर्थे इत्यादि ।
अनेनार्थप्रकृतय इत्यस्यावयवार्थो दर्शितः ।
अथ प्रकरीपताकापदार्थौ दर्शयिष्यन्नाह---सचिवेत्यादि ।
तदर्थं नायकार्थम् ।
प्रकरीपताकापदाभ्यां व्यपदेशे क्रमेम हेतुः प्रकीर्णत्वप्रसिद्धत्वाभ्यामिति ।
इति मुनिना इत्युक्तमिति सम्बन्धः ।
इतीत्यस्य इति वदता इत्यर्थः ।
लक्ष्यं दर्शयति---एवमित्यादि ।
एवं स्थिते रत्नावल्यां दर्शिता एवेत्यन्वयः ।
इति श्लाध्यत्वादिति ।
इति वचनेन धर्माविरुद्धसम्भोगसेवायाः रसाभिव्यक्त्यपेक्षया, यथा रत्नावल्याम् ; न तु केवलं शास्त्रस्थितिसम्पादनेच्छया ।
यथा वेणीसंहारे विलासाख्यस्य प्रतिमुखसन्ध्यङ्गस्य प्रकृतरसनिबन्धाननुगुणमपि द्वितीये ऽङ्के भरतमतानुसरणमात्रेच्छया घटनम् ।
लोचनम् प्रस्तावनोपक्रमे पञ्चापि सन्धयो ऽवस्थापञ्चकसहिताः समुचितसन्ध्यङ्गपरिपूर्णा अर्थप्रकृतियुक्ता दर्शिता एव ।
ऽप्रारम्भे ऽस्मिन्स्वामिनो वृद्धिहेतौऽ इति हे बीजादेव प्रभृति ऽविश्रान्तविग्रहकथःऽ इति ऽराज्यं निर्जितशत्रुऽ इति च वचोभिः ऽउपभोगसेवावसरो ऽयम्ऽ इत्युपक्षेपात्प्रभृति हि निरूपितम् ।
एतत्तु समस्तसन्ध्यङ्गस्वरूपं तत्पाठपृष्ठे प्रदर्श्यमानमतितमां ग्रन्थगौरवमावहति ।
प्रत्येकेन तु प्रदर्श्यमानं पूर्वापरानुसन्धानवन्ध्यतया केवलं संमोहदायि भवतीति न विततम् ।
अस्यार्थस्य यत्नावधेयत्वेनेष्टत्वात्स्वकण्ठेन यो व्यतिरेक उक्तो ऽन तु केवलयाऽ इति तस्योदाहरणमाह---न त्विति ।
केवलशब्दमिच्छाशब्दं च प्रयुञ्चानस्यायमाशयः---भरतमुनिना सन्ध्यङ्गनां रसाङ्गभूतमितिवृत्तप्राशस्त्योत्पादनमेव प्रयोजनमुक्तम् ।
न तु पूर्वरङ्गाङ्गवददृष्टसम्पादनं विध्नादिवारणं वा ।
यथोक्तम्--- इष्टस्यार्थस्य रचना वृत्तान्तस्यानपक्षयः ।
रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनम् ॥
आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाशनम् ।
अङ्गानां षड्विधं ह्येतद्दृष्टं शास्त्रे प्रयोजनम् ॥
इति ।
ततश्च--- समीहा रतिभोगार्था विलासः परिकीर्तितः ।
बालप्रिया श्लाघनीयत्वादित्यर्थः ।
तत्पाठपृष्ठे प्रदर्श्यमानमिति ।
रत्नालीस्थतत्तद्वाक्यानि सर्वाण्युदाहृत्य प्रदर्श्यमानमित्यर्थः ।
प्रत्येकेनेति ।
पूर्वापरवाक्यं विना उदाहरणमात्रमित्यर्थः ।
न विततमिति ।
सविस्तरं सोदाहरणं वृत्तौ नोक्तमित्यर्थः ।
अस्यार्थस्येति ।
सन्धिसन्ध्यङ्गघटनं रसादिव्यक्त्यपेक्षयेत्युक्तस्यार्थस्येत्यर्थः ।
इति यो व्यतिरेक इति सम्बन्धः ।
न त्वितीति ।
न त्वित्यादिग्रन्धेनेत्यर्थः ।
प्रयुञ्जानस्येति ।
कारिकाकर्तुरिति शेषः ।
अयमिति ।
नाधिगतार्थ इत्यन्तेन ग्रन्थेन वक्ष्यमाण इत्यर्थः ।
सन्ध्यङ्गानामिति प्रयोजनमित्यनेन सम्बध्नाति ।
इष्टस्येति रचनाप्रतिपादनम् ।
प्रयोगस्य रागप्राप्तिः अभिनयरागसमृद्धिः ।
अभिनयदर्शनेन सामाजिकमनोरञ्जनसमृद्धिरिति यावत् ।
आश्चर्यवदिति ।
चमत्कारकारीत्यर्थः ।
ततश्चेति ।
उक्तेन हेतुनेत्यर्थः ।
प्रयुक्त इत्यनेनास्य सम्बन्धः ।
समीहेति ।
इदं चापरं प्रबन्धस्य रसव्यञ्जकत्वे निमित्तं यदुद्दीपनप्रशमने यथावसरमन्तरा लोचनम् इति प्रतिमुखसन्ध्यङ्गविलासलक्षणे ।
रतिभोगशब्द आधिकारिकरसस्थायिभावोपव्यञ्जकविभावाद्युपलक्षणार्थत्वेन प्रयुक्तः, यथा तत्त्वं नाधिगतार्थ इति, प्रकृतो ह्यत्र वीररसः ।
उद्दीपन इति ।
उद्दीपनं विभावादिपरिपूरणया ।
यथा---ऽअयं स राआ उदयणो त्तिऽ इत्यादि सागरिकायाः ।
प्रशमनं वासवदत्तातः पलायने ।
पुनरुद्दीपनं चित्रफलकोल्लेखे ।
प्रशमनं सुसङ्गताप्रवेशे इत्यादि ।
गाढं ह्यनवरतपरिमृदितो रसः सुकुमारमालतीकृसुमवज्झटित्येव म्लानिमवलम्बेत ।
विशेषतस्तु शृङ्गारः ।
यदाह मुनिः--- यद्वामाभिनिवेशित्वं यतश्च विनिवार्यते ।
दुर्लभत्वं यतो नार्या कामिनः सा परा रतिः ॥
इति ।
वीररसादावपि यथावसरमुद्दीपनप्रशमनाभ्यां विना झटित्येवाद्भुतफलकल्पे साध्ये लब्धे प्रकटीचिकीर्षित उपायोपेयभावो न प्रदर्शित एवल स्यात् ।
पुनरिति ।
इतिवृत्तवशादारब्धाशङ्क्यमानप्राया बालप्रिया समीहा इच्छा ।
रतिभोगार्थेति ।
सुरतानुभवविषयिकेत्यर्थः ।
यद्वा---रतेः रत्याख्यस्थायिनः यो भुज्यत इति भोगो विषयः प्रमदादिः तदर्था तत्सम्भोगार्था इत्यर्थः ।
आधिकारिकेति ।
आधिकारिको यो रसो वर्ण्यमानः तस्य यः स्थायीभावस्तदुपव्यञ्जको यो विभावादिः तदुपलक्षमार्थत्वेन तदुपलक्षकत्वेनेत्यर्थः ।
न तु पूर्वेक्तवाच्यार्थमात्रपरत्वेनेति भावः ।
प्रयुक्त इति ।
मुनिनेति शेषः ।
यथेति ।
यथातत्त्वमधिगतो ज्ञातो ऽर्थो मुन्यभिप्रेतार्थे यस्य तथाभूतो न, किन्तु तद्वाच्यार्थ एवाधिगत इति भावः ।
वेणीसंहारकृतेति शेषः ।
इतीत्यस्याशय इत्येननान्वयः ।
ननु वेणीसंहारे क आघिकारिको रस इत्यत्राह---प्रकृत इति ।
न तु शृङ्गार इति भावः ।
अन्यथा दोषं दर्शयति---गाढमित्यादि ।
अनवरतपरिमृदितः अविच्छेदेनास्वादितः ।
मालतीति ।
अनवरतमृदितमालतीत्यर्थः ।
यदिति ।
वामाभिनिवेशित्वं नार्याः प्रतिकूलाचरणाभिलाषः ।
यतश्च यच्च विनिवार्यते नार्या सम्भोग इति शेषः ।
यतः यत् सा एतत्र्रयम्, परा रतिः विध्नितसम्भोगाया नार्यास्सम्भोगः परमप्रीतिहेतुरित्यर्थः ।
न केवलं शृङ्गारे रसान्तरे ऽप्युक्तं ग्राह्यमित्याह---वीरेत्यादि ।
अद्भुतफलेति ।
इन्द्रजालादिदर्शितफलेत्यर्थः ।
प्रकटीचिकीर्षितः कविना प्रकटीकर्तुमभिलषितः ।
उपायेति ।
नायकादितत्तद्य्वापारस्य चतुर्वर्गस्य च हेतुहेतुमद्भाव इत्यर्थः नैवेति योजना ।
आरब्धेत्यनेन प्रकृते विवक्षितमाह--आशङ्क्यमानप्रायेति ।
उपनता जाता ।
विश्रान्तिपदार्थमाह---विच्छेद इति ।
तथाच यत्र यत्रा ङ्गिनो रसस्य विच्छेदः प्राप्नुयात्तत्र रसस्य, यता रत्नावल्यामेव ।
पुमराब्धविश्रान्ते रसस्याङ्गिनो ऽनसन्धिश्च ।
यथा तापसवत्सराजे ।
प्रबन्धविशेषस्य नाटकादे रसव्यक्तिनिमित्तमिदं चापरमवगन्तव्यं यदलङ्कृतीनां शक्तावप्यानुरूप्येण योजनम् ।
शक्तो हि कविः कदाचिदलङ्कारनिबन्धने तदाक्षिप्ततयैवानपेक्षितरसबन्धः प्रबन्धमारभते तदुपदेशार्थमिदमुक्तम् ।
दृश्यन्ते च कवयो ऽलङ्कारनिबन्धनैकरसा अनपेक्षितरसाः प्रबन्धेषु ।
लोचनम् न तु सर्वर्थवोपनता विश्रान्तिर्विच्छेदो यस्य स तथा ।
रसस्येति ।
रसाङ्गाभूतस्य कस्यापीति यावत् ।
तापसवत्सराजे हि वासवदत्ताविषयो जीवतसर्वस्वाभिमानात्मा प्रेमबन्धस्तद्विभावाद्यौचित्यात्करुणविप्रलम्भादिभूमिका गृह्णन्समस्तेतिवृत्तव्यापी ।
राज्यप्रत्यापत्त्या हि सचिवनीतिमहिमोपनतया तदङ्गभूतपझावतीलाभानुगतयानुप्राण्यमानरूपा परमामभिलषणीयतमतां प्राप्ता वासवदत्ताधिगतिरेव तत्र फलम् ।
निर्वहणे हि ऽप्राप्ता देवी भूतधात्री च भूयः संबन्धो ऽभूद्दर्शकेनऽ इत्येवं देवीलाभप्राधान्यं निर्वाहितम् ।
इयति चेतिवृत्तवैचित्र्यचित्रे भित्तिस्थानीयो वासवदत्ताप्रेमबन्धः प्रथममन्त्रारम्भात्प्रमृति पझावतीविवाहादौ, तस्यैव व्यापारात् ।
तेन स एव वासवदत्ताविषयः प्रेमबन्धः कथावशादाशङ्क्यमानविच्छेदो ऽप्यनुसंहितः ।
तथाहि---प्रथमे बालप्रिया तत्र तदनुसन्धानं सम्पादयितव्यमित्यर्थः ।
अङ्गिनो रसस्येत्यत्र रसपदेन विवक्षितमाह - रसाङ्गभूतस्येति ।
कस्यापीति ।
विभावादेरित्यर्थः ।
ऽयथा तापसवत्सराजऽ इत्युक्तं विवृणोति - तापसवत्सराजे हीत्यादि ।
प्रेमबन्ध इति ।
वत्सराजगत इति शेषः ।
समस्तेति ।
वृत्तव्यापीत्यनेनास्य सम्बन्धः ।
करुणेति ।
क्रमो ऽत्र बोध्यः ।
उक्तं दृढीकरोति - राच्येत्यादि ।
प्राप्तेत्यत्र हेतुः--राज्यप्रत्यापत्यानुप्रेयमालरूपेति ।
राज्यप्रत्यापत्तेः विशेषणद्वयम्--रचिवेत्यादि ।
उक्तमुपपादयति---निर्वहण इत्यादि ।
प्रात्पेति ।
दृष्टायूयं निर्जिता विद्विषश्च प्राप्ता देवी भूतधात्री च भूयः ।
सम्बन्धो ऽभूद्दर्शकेनापि सार्धं किं ते दुःखं यत्ततश्शान्तमद्य ॥
इति सम्पूर्णश्लोकः ।
ऽरसस्यारब्धविश्रान्तेरि"त्याद्युक्तं सङ्गमयति-इयतीत्यादि ।
इतिवृत्तवैचित्र्यचित्र इति ।
आलेख्यतल्ये विचित्रेतिवृत्त इत्यर्थः ।
प्रभृतिभितिस्थानीय इत्यन्वयः ।
व्यापारादिति ।
व्यापरणादित्यथः व्याप्तेरिति यावत् इत्यादिनेति ।
"निशापि मन्मथकृतोत्साहैस्तदङ्गार्पणैः तां सम्प्रत्यपि मार्गदत्तनयनां लोचनम् तावदङ्के स्फुटं स एवोपनिवद्धः ऽतद्वक्रेन्दुविलोकनेन दिवसो नीतः प्रदोषस्तथा तद्गोष्ठ्यैवऽ इत्यादिना, ऽबद्धोत्कण्ठमिदं मनः किमथवा प्रेमासमाप्तोत्सवम्ऽ इत्यन्तेन ।
द्वितीये ऽपि ऽदृष्टिर्नामृतवर्षिणी स्मितमधुप्रस्यन्दि वक्त्रं न किम्ऽ इत्यादिना स एव विच्छिन्नो ऽप्यनुसंहितः ।
तृतीये ऽपि सर्वत्र ज्वलितेषु वेश्मसु भयादालीजने विद्गुते श्वासोत्कम्पविहस्तया प्रतिपदं देव्या पतन्त्या तथा ।
हा नाथेति मुहुः प्रलापपरया दग्धं वराक्या तया शान्तेनापि वयं तु तेन दहनेनाद्यापि दह्यामहे ॥
इत्यादिना ।
चतुर्थे ऽपि देवीस्वीकृतमानसस्य नियतं स्वप्नायमानस्य मे तद्गोत्रग्रहणादियं सुवदना यायात्कथं न व्यथाम् ।
इत्थं यन्त्रणया कथङ्कथमपि क्षीणा निशा जाग्रते ।
बालप्रिया प्रष्टुं प्रवृत्तस्य मे" इत्यादिपदेन ग्राह्यम् ।
तद्वक्त्रेति ।
तत्पदेनात्र तत्पदेनात्र सर्वत्र वासवदत्तायाः परामर्शः दिवसः अहस्ममयः ।
तया सह गोष्ठी सम्भाषणादिस्तद्गोष्ठी तया ।
निशापीत्यत्र नीतेति विपरिणामेन सम्बन्धः ।
मन्मथेति ।
मन्मथेन कृतः उत्पादितः उत्साहः येषां तैः किं कुतः बद्धोत्कण्ठं भवति ।
विमृश्याह--अथवेत्यादि ।
असमाप्तः उत्सवः वक्त्रेन्दुविलोकनादिरूपो यत्र ।
यद्वा--असमाप्तः असमापितः उत्सवः येन तत् ।
भवति इत्यन्तेनानुसंहित इति सम्बन्धः ।
दृष्टिरिति ।
नामृतधर्मिणीति च पाठः ।
आदिपदेन "नोर्ध्वार्द्रं हृदयं न चन्दनरसस्पर्शानि चाङ्गानि वा कस्मिन् लब्धपदेन ते कृतमिदं क्रूरेण पाताग्रिना ।
नूनं वज्रमयो ऽन्य एव दहनस्तस्येदमाचेष्टितम् ॥
इत्यस्य सङ्ग्रहः ।
ते दृष्टिः अमृतवर्षिणी न किममृतवर्षिण्येवेत्यर्थः ।
एवमुपर्यपि किशब्दो नञ्पदैर्योज्यः ।
ऊर्ध्वार्द्रमुपरिभागे आर्द्रताविशिष्टम् ।
नो वार्द्रमिति वा पाठः ।
पूर्वार्द्धेन दृष्ट्याद्यङ्गेषु विरोघिसद्भावादग्नेः पदलाभो न भवतीति दर्शितमत एवाह---ऽकस्मिन्निऽत्यादि कस्मिन् कृताङ्गे इदं कृतमित्येतद्विवृणोति---ऽक्रूरेणेऽत्यादि त्वं क्रूरेणाग्निना पीता दग्धा इति यदिदमिति सम्बन्धः ।
शोकावेशवशादाह--ऽनूनम्ऽ इत्यादि ।
दहनः त्वद्दाहको ऽग्निः ।
वज्रमयोन्य एव ।
नूनं सम्भावयामि ।
सर्वत्रेति ।
वराक्या निर्भाग्यया तया देव्या तथा दग्धमिति सम्बन्धः ।
देवीति ।
देवीतायदिहेतुगर्म ।
देवी वासवदत्ता ।
नियतमिति सम्भावनायाम् ।
स्वप्ने सम्भाव्यमानात्तद्गात्रग्रहणादित्यर्थः ।
इयमिति ।
पझावतीत्यर्थः ।
इत्थं यन्त्रणया एवं लोचनम् दाक्षिण्योपहतेन सा प्रियतमा स्वप्ते ऽपि नासादिता ॥
इत्यादिना ।
पञ्चमे ऽपि समागमप्रत्याशया करुणे निवृत्ते विप्रलम्भे ऽङ्कुरिते तथाभूते तस्मिन्मुनिवचसि जातागसि मयि प्रयत्नान्तर्गूढां रुषमुपगता मे प्रियतमा ।
प्रसीदेति प्रोक्ता न खलु कुपितेत्युक्तिमधुरं समुद्भिना पीतैर्नयनसलिलैः स्थास्यति पुनः ॥
इत्यादिना ।
षष्टे ऽपि ऽत्वत्सम्प्राप्तिविलोभितेन सचिवैः प्राणा मया धारिताःऽ इत्यादिना ।
अलङ्कृतीनामिति योजनापेक्षया कर्मणि षष्ठी ।
दृश्यन्ते चेति ।
यथा स्वप्नवासवदत्ताख्ये नाटके--- ऽस्वञ्चितपक्ष्मकपाटं नयनद्वारं स्वरूपताडेन ।
उद्धाट्य सा प्रविष्टा हृदयगृहं मे नृपतनूजा ॥
ऽइति ॥ 14 ॥
बालप्रिया चिन्तनरूपनिद्राप्रतिबन्धकेन जाग्रतो मे निशा क्षीणेति सम्बन्धः ।
निशा निद्रां विनैवातीतेत्यर्थः ।
अत आह--दाक्षिणेयेत्यादि ।
दाक्षिण्यमत्र पझावतीविषयकं बोध्यम् ।
सा वासवदत्ता ।
अङ्कुरित इत्यादिना अनुसंहित इति सम्बन्धः ।
तथा भूत इति ।
मुनिवचसीति निमित्ते सप्तमी ।
स्थास्यतीत्यनेनास्यान्वयः ।
सा प्रियतमा तथा मम पुनःपश्चादपिपुर इतिवा पाठः ।
स्थास्यतीत्याशंसायां ऌट् ।
प्रयत्नान्तर्गूढामिति ।
प्रयत्नैरन्तर्नियमितामित्यर्थः ।
उक्त्या मधुरं मनोहरं यथा तथा ।
समुद्भिन्न संमिश्रा, युक्तेति यावत् पीतैः अन्तःस्तम्भितैः समुद्भिन्नप्रीतिरिति पाठः ।
साधिष्ठः समुद्भिन्न प्रकाशिता प्रीतिः यया सेत्यर्थः ।
नयनसलिलोद्गमो हि कुपितानां स्त्रीणां प्रीतेरनुवः ।
त्वदिति ।
आदिपदेन "तन्मत्वा त्यजतश्सरीरकमिदं नैवास्ति निस्स्नेहता आसन्नो ऽवसरस्तवानुगमने जाता धृतिः किन्त्वयम् ।
खेदो यच्च तवानुगं न हृदयं तस्मिन् क्षणे दारुण ॥
इत्यस्य सङ्ग्रहः ।
सचिवैः प्रयोजकैः मया प्रयोज्येन ।
ऽतदिऽति ।
त्वत्सम्प्राप्तिमित्यर्थः ।
अत्यजत इति च्छेदः ।
इत्यादिनेति तृतीयान्तानामनुसंहित इत्यने नान्वयो बोध्यः ।
योजनापेक्षयेति ।
योजनमिति कृदन्तापेक्षयेत्यर्थः ।
स्वञ्चितेति ।
वत्सराजोक्तिरियम् ।
स्वञ्तिते प्रवेशप्रतिबन्धाय सुष्टु मिथः सम्बद्धे पक्ष्मणी एव कवाटे यस्य तत् ।
नयनद्वारं नयनमेव द्वारम् ।
स्वरूपताडेन स्वस्यरूपमाकृतिः तदेव ताडः ताडनक्रिया साधनमुद्गाढनकरणमिति यावत् तेन ।
स्वरूपतडितैवेति पाठेस्वरूपमेव तडिद्विद्युत्तया करणेनेति तदर्थः ।
सा नृपतनूजा वासवदत्ता ।
अत्र नयनद्वारमित्येतावदेव रूपणं शृङ्गारानुगुणतया सुन्दरं न त्वन्यदपीति भावः ॥14॥
किञ्च----
अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः ।
ध्वनेर् अस्य प्रबन्धेषु भासते सो ऽपि केषुचित्
अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः ।
ध्वनेरस्य प्रबन्धेषु भासते सो ऽपि केषुचित् ॥ 15 ॥
अस्य विवक्षितान्यपरवाच्यस्य ध्वनेरनुरणनरूपव्यङ्ग्यो ऽपि यः प्रभेद उदाहृतो द्विप्रकारः सो ऽपि प्रबन्धेषु केषुचिद्द्योतते ।
तद्यथा मधुमथनविजये पाञ्चजन्योक्तिषु ।
यथा वा ममैव कामदेवस्य सहचरसमागमे लोचनम् न केवलं प्रबन्धेन साक्षाद्व्यङ्ग्यो यावत्पारम्पर्येणापीति दर्शयितुमुपक्रमते--किञ्चेति ।
अनुस्वानोपमः--शब्दशक्तिमूर्ऽथशक्तिमूलश्च, यो ध्वनेः प्रभेद उदाहृतः सः केषुचित्प्रबन्धेषु निमित्तभूतेषु व्यञ्चकेषु सत्सु व्यङ्ग्यतया स्थितः सन् ।
अस्येति रसादिध्वनेःप्रकृतस्य भासते व्यञ्जकतयेति शेषः ।
वृत्तिग्रन्थो ऽप्येवमेव योज्यः ।
अथ वानुस्वानोपमः प्रभेद उदाहृतो यः प्रबन्धेषु भासते अस्यापि ऽद्योत्यो ऽलक्ष्यक्रमः क्वचित्ऽ इत्युत्तरश्लोकेन कारिकावृत्त्योः सङ्गतिः ।
एतदुक्तं भवति---प्रबन्धेन कदाचिदनुरणनरूपव्यङ्ग्यो ध्वनिः साक्षाद्व्यज्यते स तु रसादिध्वनौ पर्यवस्यतीति ।
यदि तु स्पष्टमेव व्याख्यायते तदा ग्रन्धस्य पूर्वोत्तरस्यालक्ष्यक्रमविषयस्य मध्ये ग्रन्थो ऽयमसङ्गतः स्यात् नीरसत्वं च पाञ्चजन्योक्त्यादीनामुक्तं स्यादत्यलम् ।
बालप्रिया स्वव्याख्यास्यमानार्थाभिप्रायेण ऽकिञ्चेऽत्यादिग्रन्थमवतारयति---न केवलमित्यादि ।
पारम्पर्येणापीति ।
व्यङ्ग्यान्तरद्वारेणापीत्यर्थः ।
कारिकां व्याचष्टे---अनुस्वानेत्यादि ।
ध्वनेरित्यस्य प्रभेद इत्यनेन सम्बन्ध इति दर्शयति-ध्वनेः प्रभेद इति ।
पूरयति--व्यञ्चकेष्वित्यादि ।
अस्येत्यस्य व्याख्यानम्--रसादिध्वनेः प्रकृतस्येति ।
अत्रापि पूरयति---व्यञ्जकतयेति ।
भासते इत्यनेन सम्बन्धः ।
प्रकारान्तरेण व्याचष्टे---अथवेत्यादि ।
य उदाहृतः स केषुचित् प्रबन्धेषु भासते इत्यन्त अनुवादः ।
अस्य ध्वनेरपीत्यवशिष्टांशस्य उत्तरकारिकास्थेन द्योत्य इत्यनेनान्वयः ।
अस्य ध्वनेरपीत्यस्यानुस्वानोपमध्वनेरपीत्यर्थश्चेति भावः ।
एवं द्वेधापि व्याख्यानेन लब्धमर्थंमाह--एतदित्यादि ।
यथाश्रुतार्थपरित्यागे बीजमाह--यदीत्यादि ।
ग्रन्थो ऽयमिति ।
अनुस्वानोपमेत्यादिकारिकेत्यर्थः ।
दोषान्तरं चाह---नीरसत्वमित्यादि ।
नीरसत्वमुक्तं स्यादिति ।
नीरसत्वं विषमबाणलीलायाम् ।
यथा च गृध्रगोमायुसंवादादौ महाभारते ।
लोचनम् लीलादाढा शुध्यूड्ढासअलमहिमण्डलसश्चिअ अज्ज ।
कीस्मसुणालाहरतुज्जआइ अङ्गम्मि ॥
इत्यादयः पाञ्चजन्योक्तयो रुक्मिणीविप्रलब्धवासुदेवाशयप्रतिभेदनाभिप्रायमभिव्यञ्जयन्ति ।
सो ऽभिव्यक्तः प्रकृतरसस्वरूपपर्यवसायी ।
सहचराः वसन्तयौवनमलयानिलादयस्तैः सह समागमे ।
मिअवहण्डिअरोरोणिरङ्कुसो अविवेअरहिओ वि ।
सविण वि तुमम्मि पुणोवन्ति अ अतन्ति पंमुसिम्मि ॥
इत्यादयो यौवनस्योक्तयस्तत्तन्निजस्वभावव्यञ्चिकाः, स स्वभावः प्रकृतरसपर्यवसायी ।
यथा चेति ।
श्मशानावतीर्णं पुत्रदाहार्थमुद्योगिनं जनं विप्रलब्धुं गृध्रो दिवा शवशरीरभक्षणार्थी शीघ्रमेवापसरत यूयमित्याह ।
अलं स्थित्वा श्मशाने ऽस्मिन्गृध्रगोमायुसङ्कुले ।
कङ्कालबहले घोरे सर्वप्राणिभयङ्करे ॥
बालप्रिया लीलेति ।
"लीलादाढग्गुद्धरिअस अलमहीमण्डलस्सविअअज्ज ।
कीसमुणालहरणं वितुझगुरु आइ अङ्गम्म ॥
इति पाठः ।
लीलादंष्ट्रग्रोद्धृतसकलमहीमण्डलस्यैवाद्य ।
कस्मान्मृणालाभरणमपि तव गुरु भवत्यङ्गे ॥
इतिच्छाया ।
लीलया दंष्ट्राग्रेण उद्धृतं सकलमहीमण्डलं येन वराहरूपिणा तस्येत्यनेन गुरुतरवस्तुवहने अनायासस्सूच्यते ।
एवकारो विरोधद्योतकः ।
मृणालाभरणमपि अतिलधुमृणालरूपमाभरणमपि ।
कस्माद्गुरु भवतीति सम्बन्धः ।
अनेन भगवतो विरहावस्थातिशयो द्योत्यते ।
एतमर्थं दर्शयति---रुक्मिणीत्यादि ।
रुक्मिणीविप्रलब्धोरुक्मिणीविरही यो वासुदेवस्तस्याशयो रुक्मिण्यामभिलाषः, तस्य प्रतिभेदनमाविष्करणं तदभिप्रायमित्यर्थः ।
प्रकृतरसेति ।
विप्रलम्भशृङ्गारेत्यर्थः ।
सहचरसमागमे इत्येतद्विवृणोति---सहचरा इत्यादि ।
मिश्रवेति ।
हुम्मि अवहत्थिअरे होणिरङ्कुसो अहविवेअरहिओवि ।
सिविणेवि तुमम्मि पुणो भन्तिं णपसुमरामि ।
इति पाठः ।
भवाम्यपहस्तितरेखो निरङ्कुशो ऽथ विवेकरहितो ऽपि ।
स्वप्ने ऽपि तव पुनर्भक्तिं न प्रस्मरामि ॥
इति छाया ।
अपहस्तितरेख इति ।
अतिक्रान्तमर्याद इत्यर्थः ।
तत्तन्निजस्वभावेति ।
कामानुवर्तनादिस्वभावेत्यर्थः ।
अलमित्यादि ।
काव्यप्रकाशे ऽप्युदाहृता इमे श्लोकोः ।
सुप्-तिङ्-वचन-सम्बन्धैस् तथा कारक-शक्तिभिः ।
कृत्-तद् धित-समासैश् च द्योत्यो ऽलक्ष्य-क्रमः क्वचित्
सुप्तिङ्वचनसम्बन्धैस्तथा कारकशक्तिभिः ।
कृत्तद्वितसमासैश्च द्योत्यो ऽलक्ष्यक्रमः क्वचित् ॥ 16 ॥
अलक्ष्यक्रमो ध्वनेरात्मा रसादः सुब्विशेषैस्तिङ्विशेषैर्वचनवशेषैः सम्बन्धविशेषैः कारकशक्तिभिः कृद्विशेषैस्तद्धितविशेषैः समासैश्चेति ।
लोचनम् न चेह जीवितःस कश्चित्कालधर्ममुपागतः ।
बहुविघ्नो मुहूर्तो ऽयं जीवेदपि कदाचन ॥
अमुं कनकवर्णाभं बालमप्राप्तयौवनम् ।
गृध्रवाक्यात्कथं बालस्त्यक्ष्यध्वमविशङ्किताः ॥
इत्यादि ।
स चाभिप्रायो व्यक्तः शान्तरस एव परिनिष्ठततां प्राप्तः ॥ 15 ॥
एवमलक्ष्यक्रमव्यङ्ग्यस्य रसादध्वनेर्यद्यपि वर्णेभ्यः प्रभृति प्रबन्धपर्यन्ते व्यञ्जकवर्गे निरूपिते ननिरूपणीयान्तरमवशिष्यते, तथापि कविसहृदयानां शिभां दातुं पुनरपि सूक्ष्मदृशान्वयव्यतिरेकावाश्रित्य व्यञ्जकवर्गमाह--सुप्तिङ्डित्यादि ।
वयं त्वित्थमेतदनन्तरं सवृत्तिकं वाक्यं बुध्यामहे ।
सुबादिभिः यो ऽनुस्वानोपमो भासते वक्त्रभिप्रायादरूपः अस्यापि सुबादिभिर्व्यक्तस्यानुस्वानोपमस्यालक्ष्यक्रमव्यङ्ग्यो द्योत्यः ।
क्वचिदिति पूर्वकारिकया सह संमील्य सङ्गतिरिति ।
सर्वत्र हि सुबादीनामभिप्रायविशेषाभिव्यञ्जकत्वमेव ।
उदाहरणे स त्वभिव्यक्तो ऽभिप्रायो यथास्वं विभावादिरूपताद्वारेण रसादीन्व्यनक्ति ।
बालप्रिया इत्याहेति ।
इत्यभिप्रायेणाहेत्यर्थः ।
कालधर्ममिति ।
मरणमित्यर्थः ।
जीवेदपीति ।
बालो ऽयमिति शेषः ।
कनकवर्णवदाभातीति कनकवर्णाभः, कनकवर्णस्य हेमकुम्भादेराभा कान्तिरिवाभा यस्य इति वा तम् ।
त्यक्ष्यध्वं पितृपिण्डदमिति च पाठः ।
त्यक्ष्यध्वमित्यार्षः प्रयोगः ।
स चाभिप्राय इति ।
जनविसर्जनाभिप्रायः, भक्षणाभिप्राय इति वा अर्थः ॥ 14॥
एवमित्यादि ।
निरूपिते निरूपिते सति न अवशिष्यत इति सम्बन्धः ।
यथानुस्वानेत्यादिपूर्वग्रन्थो व्याख्यातस्तथा सुबित्यादिग्रन्थं व्याख्यातुमारभते---वयमित्यादि ।
एतदनन्तरं सुप्तिङ्वचनेत्यादिकम् ।
सुबित्यादीनां तृतीयान्तानां पूर्वकारिकास्थेन भासत इत्यनेन तत्स्थस्यास्य ध्वनेरपीत्यस्यात्रत्येन द्योत्य इत्यनेन च सम्बन्ध इति व्याचष्टे--सुबादिभिरित्यादि ।
उक्तमुपपादयति---सर्वत्र हीत्यादि ।
चशब्दान्निपातोपसर्गकालादिभिः प्रयुक्तैरभिव्यज्यमानो दृश्यते ।
यथा---- न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सो ऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ।
धिग्धिक्छक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥
लोचनम् एतदुक्तं भवति--वर्णादिभिः प्रबन्धान्तैः साक्षाद्वा रसो ऽभिव्यज्यते विभावादिप्रतिपादनद्वारेण यदिवा विभावादिव्यञ्जनद्वारेम परम्परयेते तत्र बन्धस्यैतत्परम्परया व्यञ्जकत्वं प्रसङ्गादादावुक्तम् ।
अधुना तु वर्णपदादीनामुच्यत इति ।
तेन वृत्तावपि ऽअभिव्यज्यमानो दृश्यतेऽ इति ।
व्यञ्जकत्वं दृश्यत इत्यादौ च वाक्यशेषो ऽध्याहार्यः विभावादिव्यञ्जनद्वारतया पराम्पर्थेणेत्येर्वरूपः ।
ममारय इति ।
मम शत्रुसद्भावोनोचित इति सम्बन्धानौचित्यं क्रोधविभावं व्यनक्ति अस्य इति बहुवचनम् ।
तपोविद्यते यस्येति पौ षकथाहीनत्वं तद्धितेन मत्वर्थीयेनाभिव्यक्तम् ।
तत्रापिशब्देन निपातसमुदायेनात्यन्तासम्भावनीयत्वम् ।
मत्कर्तृका यदि जीवनक्रया तदा हननक्रिया तावदनुचिता ।
तस्यां च स कर्ता अपिशब्देन मनुष्यमात्रकम् ।
अत्रैवेति--मदधिष्ठितो बालप्रिया तात्पर्यमाह---एतदुक्तमित्यादि ।
विभावादिप्रतिपादनद्वारेण साक्षाद्वा विभावादिव्यञ्जनद्वारेण परम्परया वा रसो ऽभिव्यज्यत इति सम्बन्धः ।
आदाविति ।
पूर्वकारिकायामित्यर्थः ।
व्याख्यातार्थानुरोधेन वृत्तिग्रन्थं योजयति--तेनेत्यादि ।
इत्येवंरूपो वाक्यशेष इत्यन्वयः ।
व्यञ्जनद्वारतयेति ।
रसादिस्सुब्विशेषादिभिर्विभावादिव्यञ्जनद्वारा पारम्पर्येणाभिव्यज्यमानो दृश्यत इत्याद्यर्थ इति भावः ।
ऽन्यक्कारऽ इति ।
इयं श्रीरामेण राक्षसकुलक्षये क्रियमाणे क्रुद्धस्य रावणस्य स्वाधिक्षेपोक्तिः ।
मे अरयस्सन्ति यदयमेव न्यक्कार इत्याद्यन्वयः ।
ऽप्रबोधितवतेऽति ।
णिजन्ताद्भावे क्ते ततो मतुपि बोध्यम् ।
स्वर्ग एव ग्रामटिका स्वल्पग्रामः ।
श्लोको ऽयं काव्यप्रकाशे ऽप्युदाहृतः ।
वृत्युकतं व्यञ्जकत्वं विवृणोति---मे इत्यादि ।
बहुत्वेन शत्रुमत्ता ममानुचितेति सम्बन्धानौचित्यरूपं क्रोधविभावमरय इति बहुवचनं व्यञ्जयतीति बहुवचनमित्यस्यार्थः ।
वृत्तौ ऽसम्बन्धेऽत्यस्य षष्ठ्यर्थसम्बन्धेत्यर्थः ।
अभिव्यक्तमिति ।
अदश्शब्दार्थस्येति ।
शेषः ।
अत्यन्तासम्भावनीयत्वमिति ।
तापसगतशत्रुताया अत्यन्तासम्भाव्यत्वमभिव्यक्तमित्यर्थः ।
अभिव्यक्तपदस्य यथायोगमुत्तरत्रापि सम्बन्धो बोध्यः ।
हननक्रियेति ।
यत्क्रिंञ्चित्कर्तृकापीति शेषः ।
सः तापसः मानुषमात्रकः कुत्सितो मनुष्य एव ।
नीत्युपसर्गार्थविवरणम्--निशशेषेणेति ।
यथा अत्र हि श्लोके भूयसा सर्वेषामप्येषां स्फुटमेव व्यञ्जकत्वं दृश्यते ।
तत्र ऽमे यदरयःऽ इत्यनेन सुप्सम्बन्धवचनानामभिव्यञ्जकत्वम् ।
ऽतत्राप्यसौ तापसऽ इत्यत्र तद्वितनिपातयोः ऽसो ऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणःऽ इत्यत्र तिङ्कारकशक्तीनाम् ।
ऽधिग्धिक्छक्रजितम्ऽ इत्यादौ श्लोकार्धे कृत्तद्धितसमासोपसर्गाणाम् ।
एवंविधस्य व्यञ्चकभूयस्त्वे च घटमाने काव्यस्य सर्वातिशायिनी बन्धच्छाया समुन्मीलति ।
यत्र हि व्यङ्ग्यावभासिनः पदस्यैकस्यैव तावदाविर्भावस्तत्रापि काव्ये कापि बन्धच्छाया किमुत यत्र तेषां बहूनां समवायः ।
यथात्रानन्तरोदतश्लोके ।
अत्र हि रावम इत्यस्मिन् पदे ऽर्थान्तरसंक्रमितवाच्येन ध्वनिप्रभेदेनालङ्कृते ऽपि पुनरनन्तरोक्तानां व्यञ्जकप्रकाराणामुद्भासनम् ।
दृश्यन्ते च महात्मनां प्रतिभाविशेषभाजां बाहुल्येनैवंविधा बन्धप्रकाराः ।
लोचनम् देशो ऽधिकरणम् निःशेषेम हन्यमानतताया राक्षसबलं च कर्मेति तदिदमसंभाव्यमानमुपनतमिति पुरुषकारासम्पत्तिर्ध्वन्यते तिङ्कारकशक्तिप्रतिपादकैश्च शब्दैः ।
रावण इति त्वर्थान्तरसङ्क्रमितवाच्यत्वं पूर्वमेव व्याख्यातम् ।
धिग्धिगिति निपातस्य शक्रं जितवानित्याख्यायिकेयमिति उपपदसमासेन सहकृतः स्वर्गेत्यादिसमासस्य स्वपौरुषानुस्मरणं प्रति व्यञ्जकत्वम् ।
ग्रामटिकेति स्वार्थिकतद्धितप्रयोगस्य स्त्रीप्रत्ययसहितस्याबहुमानास्पदत्वं प्रति, विलुण्ठनशब्दे विशब्दस्य निर्दयावस्कन्दनं प्रति व्यञ्जकत्वम् ।
वृथाशब्दस्य निपातस्य स्वात्मपौरुषनिन्दां प्रति व्यञ्जकता ।
भुजैरिति बहुवचनेन प्रत्युत भारमात्रमेतदिति व्यज्यते ।
तेन तिलशस्तिलशो ऽपि विभज्यमाने ऽत्र श्लोके सर्व एवांशो व्यञ्जकत्वेन भातीति किमन्यत् ।
एतदर्थप्रदशनस्य फलं दर्शयति--एवमिति ।
एकस्य पदस्येति यदुक्तं तदुदाहरति---यथात्रेति ।
बालप्रिया राक्षसकुलनामापि नक्ष्यति तथेत्यर्थः ।
राक्षसबलमिति ।
राक्षसकुलमिति च पाठः ।
सो ऽपीत्यादिवाक्यव्यङ्ग्यं दशयति---तदिदमित्यादि ।
पुरुषकारासम्पत्तिरिति ।
स्वपौरुषप्रकर्षाभाव इत्यर्थः ।
तिङ्कारकशक्तिप्रतिपादकैश्शब्दैर्ध्वन्यत इत्यन्वयः ।
तिङ्च कारकशक्तिप्रतपादकाश्चतैः ।
तिङ्निहन्तीति कारकशक्तयः---अधिकरणत्वकर्तृत्वकर्मत्वरूपाः ।
पूर्वमेव व्याख्यातमिति ।
महेन्द्रपुरीविमर्दनादिकारित्वं रावणपदेन व्यज्यत इति भावः ।
निपातस्येति ।
व्यञ्जकत्वमिति शेषः ।
आख्यायियिकेति ।
कल्पितार्था वागित्यर्थः इतीति ।
इत्यर्थं प्रतीत्यर्थः ।
सहकृत इति षष्ठ्यन्तं निपातस्येत्यस्य विशेषणम् ।
उपसंहरति---तेनेत्यादि ।
विभज्येत्यत्र निर्भज्येति च पाठः ।
यथा महर्षेर्व्यासस्य---- अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः ।
श्वः श्वः पापीयदिवसा पृथिवी गतयौवना ॥
अत्र हि कृत्तद्धितवचनैरलक्ष्यक्रमव्यङ्ग्यः, ऽपृथिवी गतयौवनाऽ लोचनम् अतिक्रान्तं न तु कदाचन वर्तमानतामवलम्बमानं सुखं येषु ते काला इति, सर्व एव न तु सुखं प्रति वर्तमानः स को ऽपि काललेश इत्यर्थः ।
प्रतीपान्युपस्थितानि वृत्तानि प्रत्यावर्तमानानि तथा दूरभावीन्यपि प्रत्युपस्थितानि निकटतया वर्तमानानि भवन्ति दारुणानि दुःखानि येषु ते ।
दुःखं बहुप्रकारमेव प्रतिवर्तमानाः सर्वे कालांशा इत्यनेन कालस्य तावन्निर्वेदमभिव्यञ्जयतः शान्तरसव्यञ्जकत्वम् ।
देशस्याप्याह--पृथिवी श्वः श्वः प्रातः प्रातर्दिनाद्दिनं पापीयदिवसाः पापानां सम्बन्धिनः पापिष्ठजनस्वामिका दिवसा यस्यां सा तथोक्ता ।
स्वाभावत एव तावत्कालो दुःखमयः तत्रापि पापिष्ठजनस्वामिकपृथिवीलक्षयौवना वृद्धस्त्रीवदसंभाव्यमानसंभोगा गतयौवनतया हि यो यो दिवस आगच्छति बालप्रिया अत्र व्यङ्गयत्वेनोक्तानामर्थानां रावणगतक्रोधनिर्वेदातिशयव्यञ्जकत्वं बोध्यम् ।
श्लोकं व्याख्याति--अतिक्रान्तमित्यादि ।
भूतार्थकक्तप्रत्ययेन गम्यमर्थमाह---न त्वित्यादि ।
काला इति बहुवचनार्थविवरणम्--सर्व एवेति ।
तेन गम्यमाह---न त्वित्यादि ।
प्रतीत्यस्य विवरणम्--प्रतीपानीति ।
प्रतिकूलानीन्त्यर्थः ।
वृत्तानि प्रत्यावर्तमानान्युपस्थितानीति सम्बन्धः ।
गतान्यपि प्रत्यावर्तमानत्वेन ज्ञायमानानीत्यर्थः ।
अन्यथापि व्याचष्टे---तथेत्यादि ।
उक्तमेवार्थं स्फुटमाह---दुःखमित्यादि ।
इत्यनेनेत्यादि ।
निर्वेदाभिव्यञ्जनद्वारा प्रकृतशान्तरसव्यञ्जकत्वमित्यर्थः ।
पापीयेति छप्रत्ययान्तमित्याशयेन व्याचष्टे---पापानामित्यादि ।
पापानां सम्बन्धिन इत्यस्यैव विवरणम्---पापिष्ठेत्यादि ।
भूमार्थकाजन्तः पापशब्दो ऽत्रातिशयिततपापविशिष्टार्थक इति भावः ।
पापत्रयतात्पर्यमाह---स्वभावत इत्यादि ।
पापिष्ठेति ।
पापिष्ठजनस्वामिकः पृथिवीलक्षणो यो देशस्तस्य दौरात्म्यादित्यर्थः ।
श्वः श्व इत्यस्य गतयौवनेत्यनेनापि सम्बन्ध इत्याह---श्वःश्व इत्यादि ।
गतयौवनेत्यस्य मुख्यार्थं तस्य प्रकृते बाधल्लक्षणानिमित्तं तत्सारूप्यं च दर्शयति--वृद्धेत्यादि ।
सम्भोगस्मुखानुभवः ।
गतयौवनापदेनात्र सुखानाधायिकेत्यर्थो लक्ष्यते, सुखानुभवस्य सम्भावनापि नास्तीत्यर्थो व्यङ्ग्यश्चेति भावः ।
गतयौवनेति पापीयानित्यत्र हेतुगर्भं पापीयपदमर्थान्तरपरं चेत्यन्यथा व्याचष्टे---गतेत्यादि ।
यदि वेत्यादौ योज्यम् ।
गतेति ।
इत्यनेन चात्यन्ततिरस्कृतवाच्यो ध्वनिः प्रकाशितः ।
एषां च सुबादीनामेकैकशः समुदितानां च व्यञ्जकत्वं महाकवीनां प्रबन्धेषु प्रायेण दृश्यते ।
सुबन्तस्य व्यञ्जकत्वं यथा--- तालैः शिञ्जद्वयसुभगैः कान्तया नर्तितो मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥
तिडन्तस्य यथा---
अवसर रोउं चिअ णिम्मिआइं मा पुंस मे हअच्छीइं ।
दंसंणमेत्तुम्भत्तेहिं जहि हिअअं तुह ण णाअम् ॥
लोचनम् स स पूर्वपूर्वापेक्षया पापीयान् निकृष्टत्वात् ।
यदिवेयसुनन्तो ऽयं शब्दो मुनिनैवं प्रयुक्तो णिजन्तो वा ।
अत्यन्तेति ।
सो ऽपि प्रकारो ऽस्यैवाङ्गतामेतीति भावः ।
सुबन्तस्येति ।
समुदितत्वे तूदाहरणं दत्तं व्यस्तत्वे चोज्यत इति भावः ।
तालैरिति बहुवचनमनेकविधं वैदग्ध्यं ध्वानत् विप्रलम्भोद्दीपकतामेति ।
अपसर रोदितुमेव निर्मिते मा पुंसय हते अक्षिणी मे ।
दर्शनमात्रोन्मत्ताभ्यां याभ्यां तव हृदयमेवंरूपं न ज्ञातम् ॥
अन्मत्तो हि न किञ्चिज्जानातीति न कस्याप्यत्रापराधः दैवेनेत्थमेव निर्माणं बालप्रिया पृथिव्या इति शेषः ।
ननु पापीयानित्युक्तार्थः कथं लभ्यत इत्यत्राह---इतसुनन्त इति ।
नन्वस्मिन् पक्षे पापीयो दिवसेति भाव्यमित्यत आह--मुनिनेत्यादि ।
आर्षो ऽयं प्रयोग इत्यर्थः. अ6 पक्षान्तरमाह---णिजन्तो वेति ।
मुनिना प्रयुक्त इत्यनुषज्यते णिजन्तेयसुनन्तो मुनिनाप्रयुक्तो वेत्यर्थः ।
लोकान् पापीयसः करोतीत्यर्थे पापीयश्शब्दाण्णचि कर्तर्यवि टेर्णिचश्च लोपादकारान्तो ऽयं पापीयशब्द इति भावः ।
अनुस्वानेत्यादिकारिका यथा व्याख्याता, तथा प्रकृते योजयत---सो ऽपीत्यादि ।
सो ऽपि प्रकारः अत्यन्ततिरस्कृवाच्यो ध्वनिः ।
रसस्येति ।
प्रकृतस्य शान्तस्येत्यर्थः ।
दत्तमिति ।
न्यक्कार इत्यादिश्लोकेन दर्शितमित्यर्थः ।
ऽतालै, रित्याद्युत्तरमेघसन्देशस्थम् ।
वैदग्ध्यमिति नर्तनविषयकं वैदगध्यमित्यर्थः ।
अपसरेत्यादिविरहिण्याश्शठं प्रत्युक्तिः ।
मे हताक्षिणी इत् छाया ।
त्वमपसर अपेहि ।
कुत इत्यत्राह--रोदितुमित्यादि ।
रीदितुमेव निर्मिते सृष्टे मे हताक्षिणी कुत्सिते नयने ।
मा पुंसय मा अभिवर्धय, मा त्वदभिमुखं विकासयेति ।
यावत् ।
पुंस अभिवर्धन इति चुरादी ।
हृदयं तव न ज्ञातमित छाया ।
तद्य्वाख्यानम्---तवेत्यादि ।
एवंरूपमिति ।
मथि अनासक्तं भावीत्यर्थः ।
भावार्थमाह---उन्मत्तो हीत्यादि ।
तिङ्न्त इति अपसरेति यथा वा---
मा पन्थं रुन्धीओ अवेहि बालअ अहोसि अहिरीओ ।
अम्हेअ णिरिच्छाओ सुण्णधरं रक्खिदव्वं णो ॥
सम्बन्धस्य यथा---
अणणत्त वच्च बालअ ह्णा अर्न्ति किं मं पुलोएसिएअम् ।
भो जाआभीरुआणं तडं विअण होरि ॥
लोचनम् कृतमिति ।
अपसर मा वृथा प्रयासं कार्षीः दैवस्य विपरिवर्तयितुमशक्यत्वादिति तिङन्तो व्यञ्जकः तदनुगृहीतानि पदान्तराण्यपीति भावः ।
मा पन्थानं रुधः अपेहि बालक अप्रौढ अहो असि अह्नीकः ।
वयं परतन्त्रा यतः शून्यगृहं मामकं रक्षणीयं वर्तते ॥
इत्यत्रापेहीति तिङन्तमिदं ध्वनति--त्वं तावदप्रौढो लोकमध्ये यदेवं प्रकाशयसि ।
अस्ति तु सङ्केतस्थानं शून्यगृहं तत्रैवागन्तव्यमिति ।
ऽअन्यत्र व्रज बालकऽ अप्रौढ बुद्धे स्नान्तीं मां किं प्रकर्षेणालोकयस्येतत् ।
भो इति सोल्लुण्ठमाह्वानम् ।
जायाभीरुकाणां सम्बन्धितडमेव न भवति ।
अत्र जायातो ये भीरवस्तेषामेतत्सथानमिति दुरापेतः बालप्रिया तिङन्तशब्द इत्षथः ।
व्यञ्जक इति ।
रिर्ष्यादिव्यञ्जक इत्यर्थः ।
बालकेत्यस्य विवरणम्---अप्रौढेति ।
णिरिछाओ इत्यस्य छायाविवरणम् ।
वयं परतन्त्रा इति ।
शून्यगृहं रक्षणीयं न इति छाया ।
अस्य व्याख्यानम्--यत इत्यादि ।
प्रकाशयसीति ।
सम्भोगेच्छामिति शेषः ।
अत्र श्लोके शृङ्गारः सम्भोगो व्यङ्य पूर्वश्लोरके तु विप्रलम्भ इति भेदः ।
वृत्तौ--ऽअण्णत्तेऽति अन्यत्र व्रज बालकस्नान्तीं किं मा प्रलोकयस्येतत् ।
भो जायाभीरुकाणां तटमेव न भवति ॥
इति ।
या ।
जलाशये स्नान्तीं कञ्चिदनुरागेण पश्यन्तं कञ्चन गृहस्थं प्रति तं कामयमानायास्तस्या उक्तिरियम् ।
तडमित्यस्य स्थाने तित्थमिति पाठो ऽपि दृश्येति ।
तस्य तीर्थमिति छाया ।
लोचने--सम्बन्धीति षष्ठ्यर्थकथनम् ।
एतत्तटं जायाभीरुकाणां सम्बन्धि न भवत्येवेति योजना ।
उक्तस्यैव विवरणम्---जायात इत्यादि ।
इति सम्बन्धो दूरापेत इत्यन्वयः ।
तथाविधानामत्र स्थाने वर्तनरूपः सम्बन्धो दूरापेत इत्यर्थः ।
अतो व्रजेति ।
अनेन सम्बन्धेनेति ।
षष्ठ्यर्थसम्बन्धेनेत्यर्थर्ः ।
इर्ष्येति ।
कृतकप्रयोगेषु प्राकृतेषु तद्धितविषये व्यञ्जकत्वमावेद्यत एव ।
अवज्ञातिशये कः ।
समासानां च वृत्त्यौचित्येन विनियोजने ।
निपातानां व्यञ्जकत्वं यथा--- अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे ।
नववारिधरोदयादहोभिर्भवितव्यं च निरातपात्वरम्यैः ॥
इत्यत्र चशब्दः ।
यथा वा--- मुहुरङ्गुलिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥
अत्र तुशब्दः ।
निपातानां प्रसिद्धमपीह द्योतकत्वं रसापेक्षयोक्तमिति द्रष्टव्यम् ।
उपसर्गाणां व्यञ्चकत्वं यथा--- नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरुणामधः प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः ।
विश्वासोपगभादभिन्नगतयः शब्दं सहन्ते मृगा- स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दलेखाङ्किताः ॥
लोचनम् सम्बन्ध इत्यनेन समबन्धेनेर्ष्यातिशयः प्रच्छन्नकामिन्याभिव्यक्तः ।
कृतकेति कग्रहणं तद्धितोपलक्षणार्थम् ।
कृतः कप्रत्ययप्रयोगो येषु काव्यवाक्येषु यथा जायाभीरुकाणामिति ।
ये ह्यरसज्ञा धर्मपत्नीषु प्रेमपरतन्त्रास्तेभ्यः को ऽन्यो जगति कुत्सितः स्थादिति कप्रत्ययो ऽवज्ञातिशयद्योतकः ।
समासानां चेति ।
केवलानामेव व्यञ्जकत्वमावेद्यत इति सम्बन्धः ।
चशब्द इति जातावेकवचनम् ।
द्वौ चशब्दावेवमाहतुः काकतालीयन्यायेन गण्डस्योपरि स्फोट इतिवत्तद्वियोगश्च वर्षसमयश्च सममुपनतौ एतदलं प्राणहरणाय ।
अत एव रम्यपदेन सुतरामुद्दीपनविभावत्वमुक्तम् ।
तुशब्द इति ।
पश्चात्तापसूचकस्सन् तावन्मात्रपरिचुम्बनलाभेनापि कृतकृत्यता स्यदिति ध्वनतीति भावः ।
प्रसिद्धमपीति ।
बालप्रिया जायासक्तिनिमित्तकेर्ष्येत्यर्थः ।
कग्रहणं तद्धितोपलक्षणार्थमिति ।
कृतकप्रयोगेष्वित्यत्र कप्रत्ययग्रहणं कादितद्धितोपलक्षकमित्यर्थः ।
व्याचष्टे---कृत इत्यादि ।
केत्यस्य विवरणम्---कप्रत्ययेति ।
ऽअवज्ञातिशये कऽ इत्येतद्विवृणोति---य इत्यादि ।
प्रेमेत्यत्र कामेति च पाठः ।
केवलानामेवेति पूरितम् ।
ऽअयम्ऽ इत्यादिविक्रमोर्वशीयस्थम् ।
द्वौ चशब्दाविति ।
ऽउपनतश्च ऽभवितव्यञ्जेऽति चशब्दावित्यर्थः ।
इत्यादौ द्वित्राणां चोपसर्गाणामेकत्र पदे यः प्रयोगः सो ऽपि रसव्यक्त्यनुगुणतयैव निर्देषः ।
यथा--ऽप्रभ्रश्यत्युत्तरीयत्विषि समासि समुद्वीक्ष्य वीतावृतीन्द्राग्जन्तून्ऽ इत्यादौ ।
यथा वा---ऽमनुप्यवृत्त्या समुपाचरन्तम्ऽ इत्यादौ ।
लोचनम् वैयाकरणादिगृहेषु हि प्राक्प्रयोगस्वातन्त्र्यप्रयोगाभावात्षष्ठ्याद्यश्रवणाल्लिङ्गसंख्यावरहाच्च वाचकवैलक्षण्येन द्योतका निपाता इत्युद्धोष्यत एवेति भावः ।
प्रकर्षेण स्निग्धा इति प्रशब्दः प्रकर्षं द्योतयन्निङ्गुदीफलानां सरसत्वमाचक्षाण आश्रमस्य सौन्दर्यातिशयन्ध्वनति ।
ऽतापसस्य फलविसेषविषयो ऽभिलाषातिरेको ध्वन्यतेऽ इति त्वसत् ; अभिज्ञानशाकुन्तले हि राज्ञ इयमुक्तिर्न तापसस्येत्यलम् ।
द्वित्राणामित्यनेनाधिक्यं निरस्यति ।
सम्यगुच्चैर्विशेषेणेक्षितित्वे भगवतः कृपातिशयो ऽभिव्यक्तः ।
मनुष्यवृत्या समुपाचरन्तं स्वबुद्धिसामान्यकृतानुमानाः ।
योगीश्वरैरप्यसुबोधमीश त्वां बोद्धुमिच्छन्त्यबुधाः स्वतर्कैः ॥
सम्यग्भूतमुपांशुकृत्वा आ समन्ताच्चरन्तमित्यनेन लोकानुजिघृक्षातिशयस्तत्तदाचरतः परमेश्वरस्य ध्वनितः ।
बालप्रिया समयश्चेत्यनन्तरं द्वयमिति शेषः ।
मुहुरित्यादिश्लोकद्वयं शाकृन्तलस्थमस्मदीयशाकुन्तलव्याख्यायां विस्तरेण व्याख्यातम् ।
प्रसिद्धिं विवृणोति--वैयाकरणादीत्यादि ।
गृहेष्वित्यस्योद्धोप्यत इत्यनेन सम्बन्धः ।
वाचकवैलक्षण्ये हेतुचतुष्टयमाह---प्रागित्यादि ।
प्राक्प्रयोगस्वातन्त्र्यप्रयोगाभावादिति ।
प्राक्प्रयोगश्च स्वातन्त्रयेण प्रयोगाभावश्च तस्मात् प्राक्प्रयोगादिति व्यस्ततया पाठः साधीयान् उपसर्गसंज्ञाविशिष्टानां प्रसाक्षादित्यादीनां निपातानां धातोः प्रागेव प्रयोगादिवैवमादीनां प्रतियोग्यादिवाचकपदं विना स्वतन्त्रतया प्रयोगस्याभावाच्चेत्यर्थः ।
षष्ठ्याद्यश्रवणादिति ।
यथा चन्द्रस्य चन्द्रेण वा सदृशं मुखमित्यादौ षष्ठ्यादिकं श्रूयते, तथा चन्द्र इवेत्यादौ षष्ठ्यादिकं न श्रूयते यतस्तस्मादित्यर्थः ।
लिङ्गेति ।
निपातार्थस्येति शेषः ।
समुद्वीक्ष्येऽ त्येतद्व्याचष्टे--सम्यगित्यादि ।
भगवतः सूर्यस्य ।
मनुष्येति ।
कृताभिमानी इतिऽच पाठः ।
समुपाचरन्तमित्येतद्विवृणोति---सम्यगित्यादि ।
ऽये जीवन्तीऽति ।
ऊर्जिते गुणिनि दृष्टे सत, ये जीवन्ति स्म उत्कृष्टजीविता अभूवन् ।
ये प्रीत्या वपुषि न मान्ति स्म, ये प्रस्यन्दिप्रमदाश्रवः पुलकिताः सन्तः प्रनृत्यन्ति स्मेत्याद्यन्वयः ।
ऽसाधुद्धिषऽ असज्जनान् ।
साधुद्विषामिति पाठे कर्मणश्शेषत्वविवक्षया षष्ठी ।
ऽपुष्यताऽ पोषयता ।
ये स्ववपुषीति पाठे तु जीवन्तीत्यादौ निपातानामपि तथैव ।
यथा---ऽअहो बतासि स्पृहणीयवीर्यःऽ इत्यादौ ।
यथा वा--- ये जीवन्ति न मान्ति ये स्म वपुषि प्रीत्या प्रनृत्यन्ति च प्रस्यन्दिप्रमदाश्रवः पुलकिता दृष्टे गुणिन्यूर्जिते ।
हा धिक्कष्टमहो क्व यामि शरणं तेषां जनानां कृते नीतानां प्रलयं शठेन विधिना साधुद्विषः पुष्यता ॥
इत्यादौ ।
पदपौनरुक्त्यं च व्यञ्जकत्वापेक्षयैव कदाचित्प्रयुज्यमानं शोभामावहत ।
यथा--- यद्वञ्जनाहितमतिर्बहुचाटुगर्भं कार्योन्मुखः खलजनः कृतकं ब्रवीति ।
तत्साधवो नन विदन्त विदन्ति किन्तु कर्तु वृथाप्राणयमस्य न पारयन्ति ॥
इत्यादौ ।
लोचनम् तथैवेति ।
रसव्यञ्जकत्वेन द्वित्राणामपि प्रयोगो निर्देष इत्षथः ।
श्लाघातिशयो निर्वेदातिशयश्च अहो बतेति हा धिगिति च ध्वन्यते ।
प्रसङ्गात्पौनरुक्त्यान्तरमपि व्यञ्जकमित्याह---पदपौनरुक्त्यमिति ।
पदग्रहणं वाक्यादेरपि यथासंभवमुपलक्षणम् ।
विदन्तीति ।
त एव हि सर्वं विदन्ति सुतरामिति ध्वन्यते ।
वाक्यपौनरुक्त्यं यथा---ऽपश्य द्वीपादन्यस्मादपिऽ इति वचनानन्तरं ऽकः संदेहः द्वीपादन्यस्मादपऽ इत्यनेनेप्सितप्राप्तिरविध्नितैव ध्वन्यते ।
ऽकिं किम्? स्वस्स्था भवन्ति मयि जीवतिऽ इत्यनेनामर्षातिशयः ।
ऽसर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरीऽ इत्युन्मादातिशयः ।
बालप्रिया वर्तमानसामीप्ये भूते लडिति बोध्यम् ।
लोचने---ध्वन्यत इति ।
अत्र यथासंख्यं बोध्यम् ।
ऽयद्वञ्जनेऽति ।
काव्यप्रकाशे ऽप्युदाहृतम् ।
द्वीपादित्यादिरत्नावलीस्थम् ।
स्वस्था इति ।
वेणीसंहारस्थमिदम् ।
अमर्षातशय इति ।
वक्तुर्भीमसेनस्येति शेषः ।
सर्वेत्यादि विक्रमोर्वशीयस्थम् ।
उन्मादातिशय इति ।
वक्तुः पुरूरवस इति शेषः ।
कालस्य व्यञ्जकत्वं यथा----
मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0