ध्वन्यालोक (टीका सहित) · भाग 321340
नियता सङ्घटना मादुर्यस्याश्रयो वा स्वरूपं वा नेत्यन्वयः ।
अत्र हेतुमाह--तयेत्यादि ।
भावान्माधुर्यादेरिति ।
मादुर्यादेस्सत्वादित्यर्थः ।
भावादित्यन्तेन व्यभिचारः प्रदर्शितः ।
अत एवाह--वाक्येत्यादि ।
रसादावित्यनुषङ्गः ।
सङ्घटनां विहायापि सङ्घटनायास्सहकारित्वमन्तरेणापि ।
तद्रसव्यञ्जकत्वात् तत्तद्रसव्यञ्जकत्वसम्भवात् ।
अप्रयोजिका अनुपयोगिनी ।
वृत्तौ ऽनन्विऽत्यादि ।
ऽएवम्ऽ इति ।
अनियतसङ्घटनशब्दाश्रयत्वमित्यर्थः ।
ऽतत्तदा उच्यतांऽ तथा उच्यताम् ।
ऽपुनऽरिति विशेषे ।
ऽअत्रापि न न ब्रूमऽ इति ।
अस्मिंमश्चोद्ये ऽपि उत्तरं ब्रूम एवेत्यर्थः ।
लोचने--वाक्यव्यङ्ग्येत्यादि ।
इदमिति ।
चोद्यमित्यर्थः ।
मन्तव्यमिति ।
वाक्य एव सङ्धटनायास्सम्भवादिति भावः ।
चाचारुत्वं सहृदयहृदयसंवेद्यमस्ति ।
तस्मादनियतसङ्घटनशब्दाश्रयत्वे गुणानां न काचित्क्षतिः ।
तेषां तु चक्षुरादीनामिव यथास्वं विषयनियमितस्य स्वरूपस्य न कदाचिद्य्वभिचारः ।
तस्मादन्ये गुणा अन्या च सङ्घटना ।
न च सङ्घटनामाश्रिता गुणा इत्येकं दर्शनम् ।
अथवा सङ्घटनारूपा एव गुणाः ।
यत्तूक्तम्---ऽसङ्घटनावद्गुणानामप्यनियतविषयत्वं प्राप्नोति ।
लक्ष्ये व्यभिचारदर्शनात् ।
ऽ इति ।
तत्राप्येतदुच्यते--
यत्र लक्ष्ये परिकल्पितविषय व्यभिचारस्तद्वरूपमेवास्तु ।
कथमचारुत्वं तादृशे विषये सहृदयानां नावभातीति चेत्? कविशक्तितिरोहतत्वात् ।
द्विविधो हि दोषः--कवेरव्युत्पत्तिकृतो ऽशक्तिकृतश्च ।
तत्राव्युत्पत्तिकृतो दोषः शक्तितिरस्कृतत्वात्कदाचिन्न लक्ष्यते ।
यस्त्वशक्तिकृतो दोषः ।
स झटिति प्रतियते ।
परकरश्लोकश्चात्र-- ऽअव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः ।
यस्त्वशक्तिकृतस्तस्य स झटित्यवभासते ॥
ऽ लोचनम् वयं तु ब्रमः--वर्णपदव्यङ्ग्ये ऽप्योजसि रौद्रादिस्वभावे वर्णपदानामेकाकिनां स्वसौन्दर्यमपि न तादृगुन्मीलति ताद्यावत्तानि सङ्घटनाङ्कितानि न कृतानीति सामान्येनैवायं पूर्वपक्ष इति ।
प्रकाशयत इति ऽलक्षणहेत्वोःऽ इति शतृप्रत्ययः ।
रौद्रादिप्रकाशनालक्ष्यमाणमोज इति भावः ।
न चेति ।
चशब्दो हेतौ ।
यस्मात् ऽयोयः शस्त्रंऽ इत्यादौ नाचारुत्वं प्रतिभावति तस्मादित्यर्थः ।
तेषान्त्विति गुणानाम ।
यथास्वमिति ।
ऽशृङ्गार एव परमो मनःप्रह्लादनो रसःऽ इत्यादिना च विषयनियम उक्त एव ।
अथवेति ।
बालप्रिया वर्णेत्यादि ।
ओजसो वर्णपदव्यङ्ग्यत्वे ऽपीत्यर्थः ।
रौद्रादिस्वभावे रौद्रादिरसधर्मे ।
तादृक् सातिशयम् ।
तावन्नोन्मीलतीति सम्बन्धः ।
तानीति ।
वर्णपदानीत्यर्थः ।
सङ्घचनाङ्कितानीति ।
सङ्घटनाविशिष्टनीत्यर्थः ।
सामान्येनैवेति ।
वर्मपदवाक्यव्यङ्ग्यध्वनिसामान्याभिप्रायेणैवेत्यर्थः ।
रौद्रादीति ।
रौद्रादेः प्रकाशनेन आलक्ष्यमाणमनुमीयमानमित्यर्थः ।
नाचारुत्वमिति ।
अचारुत्वं न प्रतिभातीत्यन्वयः ।
वृत्तौ ऽतेषाम्ऽ इति ।
गुणानामित्यर्थः ।
स्वरूपस्येत्यनेन सम्बन्घः ।
तथा हि--महाकवीनामप्युत्तमदेवताविषयप्रसिद्धसंभोगशृङ्गारनिबन्धनाद्यनौचित्यं शक्तितिरस्कृतत्वात् ग्राम्यत्वेन न प्रतिभासते ।
यथा कुमारसम्भवे देवीसम्भोगवर्मनम् ।
एवमादौ च विषये यथौचित्यात्यागस्तथा लोचनम् रसाभिव्यक्तावेतदेव सामर्थ्यं शब्दानां यत्तथा तथा सङ्घटमानत्वमिति भावः ।
शक्तिः प्रतिभानं वर्णनीयवस्तुविषयनूतनोल्लेखशालित्वम् ।
व्युत्पत्तिस्तदुपयोगिसमस्तवस्तुपौर्वापर्यपरामर्शकौशलम् ।
तस्येति कवेः ।
अनौचित्यमिति ।
आस्वादयितॄणां यः चमत्काराविघतस्तदेव रससर्वस्वं आस्वादायत्तत्वात् ।
उत्तमदेवतासंभोगपरामर्शे च पितृसंभोग इव लज्जातङ्कादिना कश्चमत्कारावकाश इत्यर्थः ।
शक्तितिरस्कृतत्वादिति ।
संभोगो ऽपि ह्यसौ वर्णितस्तथा प्रतिभानवता कविना यथा तत्रैव विश्रान्तं हृदयं पौर्वापर्यपरामर्शं कर्तुं न ददाति यथा निर्व्याजपराक्रमस्य पुरुषस्याविषये ऽपि युध्यमानस्य तावत्तस्मिन्नवसरे साधुवादो वितीर्यते न तु पौर्वापर्यपरामर्शे बालप्रिया ऽविषयेऽति ।
चक्षुरादीनां विषया रूपादयः गुणानान्तु रसाः ।
ऽदर्शनम्ऽ इति ।
मतमित्यर्थः ।
अथवेत्यादिग्रन्थस्य भावमाह लोचने--रसेत्यादि ।
तथा तथेति ।
तत्तद्रसानुगुण्येनेत्यर्थः ।
इति भाव इति ।
शब्दगतं माधुर्यादिकं शृङ्गारादि तत्तद्रसाभिव्यञ्जनसामर्थ्यमेव, तच्च तथा तथासङ्घटनाया ।
अतस्सङ्घटनारूपा एव गुणा इति भावार्थ इत्यर्थः ।
वृत्तौ---ऽयत्त्विऽत्यादि ।
इति यत्तूक्तमित्यन्वयः ।
ऽयत्र लक्ष्येऽ इति ।
ऽअनवरतेऽत्यादौ, ऽयो यश्शस्त्रम्ऽ इत्यादौ चेत्यर्थः ।
ऽपरिकल्पितेऽति ।
ऽअसमासेऽत्याद्युक्तविषयस्य व्यभिचार इत्यर्थः ।
शक्तिव्युत्पत्तिपदे विवृणोति लोचने--शक्तिरित्यादि ।
तदुपयोगीत ।
तस्य वर्णनीयस्य उपयोगीनि यानि वस्तूनि तेषां पौर्वापर्येण यः परामर्शस्तत्र कौशलं सामर्थ्यमित्यर्थः ।
उत्तमदेवताविषयसम्भोगशृङ्गारनिबन्धनस्यानौचित्यं विवृणोति--य इत्यादि ।
चमत्काराविधातः चमत्कारविघातकाभावः ।
पितृसम्भोग इति ।
मातापित्रोस्सम्भोगस्य परामर्श इत्यर्थः ।
ऽशक्तितिरस्कृतत्वाऽदित्यादिग्रन्थं विवृणोति---सम्भोगो ऽपीत्यादि ।
असाविति ।
उत्तमदेवताविषय इत्यर्थः ।
तत्रैव वर्णिते सम्भोग एव ।
हृदयं कर्तृ ।
न ददाति स्वात्मानं, सहृदयस्येति शेषः ।
यद्वा--स इति शेषः ।
वर्णितस्सम्भोग इत्षथः ।
हृदयं कर्म ।
अविषये ऽपीति ।
बालगुरुजनादिविषये ऽपीत्यर्थः ।
तस्मिन्नवसर युद्धकाले ।
वितीर्यते पश्यद्भिः दीयते ।
वृत्तौ-ऽयथौचित्यात्यागऽइति ।
यथा येन प्रकारेम वर्णने ।
औचित्यात्यागः अनौचित्याभावः ।
ऽदर्सितामऽति ।
विभावभावेत्यादिग्रन्थजातेन प्रदर्शितमित्यर्थः ।
ऽअग्रेऽ उपरि ।
नन्वेवं दर्शयिष्यत इति वक्तव्यं न तु दर्शितमितीत्यत आह लोचने-- दर्शितमेवाग्रे ।
शक्ततिरस्कृतत्वं चान्वयव्यतिरेकाभ्यामवसीयते ।
तथा हि शक्तिरहतेन कविना एवंविदे विषये शृङ्गार उपनिबध्यमानः स्फुटमेव दोषत्वेन प्रतभासते ।
नन्वस्मिन् पक्षे ऽयो यः शस्त्रं बिभर्तिऽ इत्यादौ किमचारुत्वम्? अप्रतीयमानमेवारोपयामः ।
तस्माद्गुणव्यतिरिक्तत्वे गुणरूपत्वे च सङ्घटनाया अन्यः कश्चिन्नियमहेतुर्वक्तव्य इत्युच्यते ।
. . . . तन्नियमे हेतुर् औचित्यं वक्तृ-वाच्ययोः
तन्नियमे हेतुरौचित्यं वक्तृवाच्ययोः ॥ 6 ॥
तत्र वक्ता कविः कविनिबद्धो वा, कविनिबद्धश्चापिरसभावरहितो रसभावसमन्वितो वा, रसो ऽपि कथानायकाश्रयस्तद्विपक्षाश्रयो वा, कथानायकश्च धीरोदात्तादिभेदभिन्नः पूर्वस्तदनन्तरो वेति विकल्पाः ।
वाच्यं चध्वन्यात्मरसाङ्गं लोचनम् तथात्रापीति भावः ।
दर्शितमेवेति ।
कारिकाकारेणेति भूतप्रत्ययः ।
वक्ष्यते हि--ऽअनौचित्याद्दते नान्यद्रसभङ्गस्य कारणम्ऽ इत्यादि ।
अप्रतीयमानमेवेति ।
पूर्वापरपरामर्शविवेकशालिभिरपीत्यर्थः ।
गुणव्यतिरिक्तत्व इति ।
व्यतिरेकपक्षे हि सङ्घटनाया नियमहेतुरेव नास्ति ऐक्यपक्षे ऽपि न रसो नियमहेतुरित्यन्यो वक्तव्यः ।
तन्नियम इति कारिकावशेषः ।
कथां नयति स्वकर्तव्याङ्गभावमिति कथानायको यो निर्वहणे फलभागी ।
धीरोदात्तादीति ।
धर्मयुद्धवीरप्रधानो धीरोदात्तः वीररौद्रप्रधानो धीरोद्धतः ।
वीरशृङ्गारप्रधानो धीरललितः ।
दानधर्मवीरशान्तप्रधानो धीरप्रशान्त इति चत्वारो नायकाः क्रमेण सात्वत्यारभटीकैशिकीभारतीलक्षणवृत्तिप्रधानाः ।
पूर्वः कथानायकस्तदनन्तर उपनायकः ।
विकल्पा इति ।
वक्तृभेदा इत्यर्थः ।
वाच्यमिति ।
बालप्रिया कारिकाकारेणेति ।
कारिकावचनस्य निष्पन्नत्वात् भूतनिर्देश उपपन्न इति भावः ।
वक्ष्यते हीति ।
वृत्तिकारेण चेति शेषः ।
वृत्तौ नन्वित्यादि ।
ऽअस्मिन् पक्षेऽ इति ।
सङ्घटनारूपा एव गुणा इति पक्ष इत्यर्थःऋ ।
ऽकिमचारुत्वऽमिति चोद्यम् ।
तत्रोत्तरम्--ऽअप्रतीयमानम्ऽ इत्यादि ।
अचारुत्वमित्यनुषङ्गः ।
कैरप्रतीयमानमित्यत्राह लोचने--पूर्वेत्यादि ।
विवृणोति---व्यतरेकपक्षे हीत्यादि ।
नास्तीति ।
गुणानां विषयनियम एवोक्तः सङ्घटनायां नियमहेतुः को ऽपि नोक्त इत्यर्थः ।
न रसो नियमहेतुरिति ।
लक्ष्येषु व्यभिचारादिति भावः ।
वृत्तौ---ऽइत्युच्यतऽ इति ।
इत्यतो हेतोर्नियमहेतुः प्रदर्शत इत्यर्थः ।
कारिकावशेष इति ।
न तु वृत्तिकृता पूरितमिति भावः ।
कथानायकपदं व्याचष्टे--कथामित्यादि ।
स्वकर्तव्येति ।
स्वसाध्येत्यर्थः ।
स्वपदं फलभागिपरम् ।
धर्मेति ।
धर्मवीरयुद्धवीरप्रधान इत्यर्थः ।
धीरोद्धतादीनां क्रमेण रौद्रशृङ्गारशान्तप्राधान्ये ऽपि तेषूत्साहस्याप्यवश्यम्भावित्वादाह--वीरेत्यादि ।
सात्वतीत्यादि ।
रसाभासाङ्गं वा, अभिनेयार्थमनभिनेयार्थं वा, उत्तमप्रकृत्याश्रयं तदितराश्रयं वेति बहुप्रकारम् ।
तत्र यदा कविरपगतरसभावो वक्ता तदा रचनायाः लोचनम् ध्वन्यातामा ध्वनिस्वभावो यो रसस्तस्याङ्गं व्यञ्जकमित्यर्थः ।
अभिनेयो वागङ्गसत्वाहार्यैराभिमुख्यं साक्षात्कारप्रायं नेयो ऽर्थो व्यङ्ग्यरूपो ध्वनिस्वभावो यस्य तदभिनेयार्थं वाच्यं, स एव हि काव्यार्थ इत्युच्यते ।
तस्यैव चाभिनयेन योगः ।
यदाह मुनिः--ऽवागङ्गसत्त्वोपेतात्काव्यार्थान् भावयन्तिऽ इत्यादि तत्र तत्र ।
रसाभिनयनान्तरीयकतया तु तद्विभावादिरूपतया वाच्यो ऽर्थो ऽभिनीयत इति वाच्यमभिनेयार्थमित्येषैव युक्तरा वाचोयुक्तिः ।
न त्वत्र व्यपदेशिवद्भावो व्याख्येयः, यथान्यैः ।
तदितरेति ।
मध्यमप्र त्याश्रयमधमप्रकृत्याश्रयञ्चेत्यर्थः ।
एवं वक्तृभेदान्वाच्यभेदांश्चाभिधाय तद्गतमौचित्यं नियामकमाह--तत्रेति ।
रचनाया इति सङ्घटनायाः ।
रसभावहीनो ऽनाविष्ठस्तापसादिरुदासीनो ऽपीतिवृत्ताङ्गतया यद्यपि प्रधानरसानुयाय्येव, तथापि तावति बालप्रिया सात्वत्यादिवृत्तीनां लक्षणान्यन्यत्र द्रष्टव्यानि ।
ऽवकल्पाऽ इति पदं प्रकृतानुगुण्येन व्याचष्टे--वक्तृभेदा इति ।
ऽवक्तृवाच्ययोऽरित्युक्तवक्त्रवान्तर भेदा इत्यर्थः ।
वाच्यमभिनेयार्थमित्येतद्व्याचष्टे--अभिनेय इत्यादि ।
वागित्यादि ।
चतुर्विधैरित्यर्थः ।
व्यङ्ग्यरूप इत्यस्यैव विवरणम्---ध्वनिस्वभाव इति ।
ध्वन्यात्मेत्यर्थः ।
उक्तमुपपादयति---स एवेत्यादि ।
स एव व्यङ्ग्य एव ।
अभिनयेन योगः अभिनेतव्यत्वम् ।
वागङ्घेति भावयन्तीत्यन्तं भावा इत्यस्य व्युत्पत्तिकथनम् ।
इत्यादि तत्र तत्राहेति सम्बन्धः ।
काव्येनार्थ्य इति व्युत्पत्या काव्यार्थशब्दो व्यङ्ग्यरसादिवाचीति भावः ।
नन्वेवं वाच्यार्थाभिनयः किं नास्तीत्यत्राह--रसाभिनयेत्यादि ।
व्याख्यानमुपसंहरति---इतीत्यादि ।
इतीति हेतौ ।
इत्येषा वाचोयुक्तिरेव युक्ततरेत्यन्वयः ।
उक्तव्याख्यैवातिशयेन युक्तेत्यर्थः ।
न त्वित्यादि ।
यदि वाच्यस्यैवाभिनेयत्वं, तदा वाच्यमभिनेयार्थमित्यत्र अभिनेयः अर्थो यस्येति विग्रहे यत्पदार्थस्य वाच्यस्य अर्थपदार्थस्य चैक्यात् ऽराहोशिशरऽ इत्यादाविव व्यपदेशिवद्भावेन भेदविवक्ष्या षष्ठीति व्याख्यात इति शेषः ।
कविनिबद्धो वक्ता रसभावरहित इत्यस्यार्थ प्रदर्श्य तत्रानुपपत्तिमाशङ्क्य परिहरति---रसभावहीन इत्यादि ।
रसभावहीन इत्यस्य विवरणम्--अनाविष्ट इति ।
रसाद्यावेशरहित इत्यर्थः ।
स क इत्यत्राह---तापसादिरित्यादि ।
अपीति समुच्चये ।
प्रधानरसानुयाय्येवेति ।
तथाच तस्य तत्तच्चित्तवृत्त्यावेशेन कामचारः ।
यदापि कविनिबद्धो वक्ता रसभावरहितस्तदा स एव ; यदा तु कविः कविनिबद्धो वा वक्ता रसभावसमन्वितो रसश्च प्रधानाश्रितत्वाद्ध्वन्यात्मभूतस्तदा नियमेनैव तत्रासमासामध्यसमासे एव सङ्घटने ।
करुणविप्रलम्भशृङ्गारयोस्त्वसमासैव सङ्घटना ।
कथमिति चेत् ;उच्यते--
रसो यदा प्राधान्येन प्रितपाद्यस्तदा तत्प्रतीतौ व्यवधायका विरोधिनश्च सर्वात्मनैव परिहार्याः ।
एवं च दीर्घसमासासङ्घटनासमासानामनेकप्रकारसम्भावनया कदाचिद्रसप्ततीतिं व्यवदधातीति तस्यां नात्यन्तमभिनिवेशः लोचनम् रसादिहीन इत्युक्तम्. स एवेति कामचारः ।
एवं शुद्धवक्त्रौचित्यं विचार्य वाचौचित्येन सह तदेवाह---यदा त्विति ।
कविर्यद्यपि रसाविष्ट एव वक्ता युक्तः ।
अन्यथा ऽस एव वीतरागश्चेत्ऽ इति स्थित्या नीरसमेव काव्यं स्यात् ।
तथापि यदा यमकादिचित्रदर्शनप्रधानो ऽसौ भवति, तदा ऽरसादिहीनऽ इत्युक्तम् ।
नियमेन रसभावसन्वितो वक्ता न तु कथञ्चिदपि तटस्थः ।
रसश्च ध्वन्यात्मभूत एव न तु रसवदलङ्कारप्रायः ।
तदासमासामध्यसमासे एव सघङ्टने, अन्यथा तु दीर्घसमासापीत्येवं योज्यम् ।
तेन नियमशब्दस्य द्वयोश्चैवकारयोः पौनरुक्त्यमनाशङ्क्यम् ।
कथमिति चेदिति ।
किं धर्मसूत्रकारवचनमेतदिति भावः ।
उच्यत इति ।
न्यायोपपत्त्येत्यर्थः ।
तत्प्रतीताविति ।
तदास्वादे ये व्यवधायका अस्वादविघ्नरूपाविरोधिनश्च तद्विपरीतास्वादमया इत्यर्थः ।
सम्भावनयेति ।
अनेकप्रकारः सम्भाव्यते सङ्घटना तु सम्भावनायां प्रयोक्त्रीति बालप्रिया भाव्यमिति भावः ।
तावतीति ।
स्वस्मिन्नित्यर्थः ।
इत्युक्तमिति ।
रसभावरहित इत्यनेन नैसर्गिकं तद्राहित्यं विवक्षितमित्यर्थः ।
शुद्धेति ।
शुद्धमन्येनासम्मिश्रं यद्वक्त्रौचित्यन्तदित्यर्थः ।
यदा तु कविरित्यादिना कदाचिद्रसभावरहितत्वं कवेर्भवतीति गम्यते पूर्वमुक्तञ्ज, तस्यानुपपत्तिमुद्भाव्य परिहरति---कविर्यद्यपीत्यादि ।
स एवेति ।
श्लोको ऽयं प्रदर्शयिष्यते ।
ऽतदा नियमेनैव समासे एवऽ इत्यत्र नियमेनेति पदमेवकारद्वयञ्च यथायथं योजयंस्तत्तद्व्यवच्छेद्यमर्थञ्च दर्शयन्विवृणोति---नियमेनेत्यादि ।
तेनेति ।
उक्तेन योजनेनेत्यर्थः ।
किन्धर्मेत्यादि ।
धर्मसूत्रकारवचनं हि युक्तिरहितमप्यादरणीयमिति भावः ।
आस्वादनविध्नरूपा इति ।
आस्वादनविघ्नाः संशयादयो ऽभिनवभारत्यादौ दर्शिताः ।
तद्विपरीतेति ।
प्रधानरसविपरीतेत्यर्थः ।
सम्भावनयेत्यत्र णिजन्ताण्णजित्याह--अनेकेत्यादि ।
सम्भाव्यत इति ।
प्रतिपत्तृभिरिति शेषः ।
प्रयोक्त्रीति ।
प्रयोजककर्त्रीत्यर्थः ।
वृत्तौ---ऽविशेषतऽ इत्यादि ।
तस्यामित्यादेरनुषङ्गः ।
अभिनेयार्थे काव्ये तस्थामत्यन्तमभिनिवेशो विशेषतो न शोभते ।
विशेषतो ऽभिनेयार्थे काव्ये, ततो ऽन्यत्र च विशेषतः करुणविप्रलम्भशृङ्गारयोः ।
तयोर्हि सुकुमारतरत्वात्स्वल्पायामप्यस्वच्छतायां शब्दार्थयोः ।
प्रतीतिर्मन्थरीभवति ।
रसान्तरे पुनः प्रतिपाद्ये रौद्रादौ मध्यमसमासा सङ्घटना कदाचिद्धीरोद्धतनायकसम्बन्धव्यापाराश्रयेण दीर्घसमासापि वा तदाक्षेपाविनाभाविरसोचितवाच्यापेक्षया न विगुणा भवतीति सापि नात्यन्तं परिहार्या ।
सर्वासु च सङ्घटनासु प्रसादाख्यो गुणो व्यापी ।
लोचनम् द्वौ णिचौ ।
विशेषतो ऽभिनेयार्थेति ।
अत्रुटितेन व्यङ्ग्येन तावत्समासार्थाभिनयो न शक्यः कर्तुम् ।
काक्वादयो ऽन्तरप्रसादगानादयश्च ।
तत्र दुष्प्रयोजा बहुतरसन्देहप्रसरा च तत्र प्रतिपत्तिर्न नाट्ये ऽनुरूपा स्यात् ।
प्रत्यक्षरूपत्वात्तस्या इति भावः ।
अन्यत्र चेति ।
अनभिनेयार्थे ऽपि ।
मन्थरीभवतीति ।
आस्वादो विघ्नितत्वात्प्रतिहन्यत इत्यर्थः ।
तस्या दीर्घसमाससङ्घटनायाः य आक्षेपस्तेन विना यो न भवति व्यङ्ग्याभिव्यञ्जकस्तादृशो रसोचितो रसव्यञ्जकतयोपादीयमानो वाच्यस्तस्य यासावपेक्षा दीर्घसमाससङ्घटनां प्रति सा अवैगुण्ये हेतुः ।
नायकस्याक्षेपो व्यापार इति यद्व्याख्यातं तन्न श्लिष्यतीवेत्यलम् ।
व्यापीति ।
या काचित्सङ्घटना सा तथा कर्तव्या, यथा वाच्ये झटिति भवति प्रतीतिरिति यावत् ।
उक्तमिति ।
ऽसमर्पकत्वं काव्यस्य यत्तुऽ इत्यादिना ।
न व्यनक्तीति ।
बालप्रिया शोभत इत्यन्वयः ।
कुत एतदिति जज्ञासां परिहर्तुं भावमाह---अत्रुटितेनेत्यादि ।
तत्रेति प्रतिवाक्यं योज्यं, दीर्घसमासायां सङ्घटनायां सत्यामिति तदर्थः ।
अत्रुटितेन व्यङ्ग्येन कर्तुं न शक्यः, किन्तु व्यङ्ग्यार्थत्रोटनं कृत्वैव कर्तव्यो भवेदिति भावः ।
दोषान्तराण्यप्याह---काक्वदय इत्यादि ।
अन्तरेति ।
अन्तरे मध्ये प्रसादार्था ये गानादयस्ते ।
दुष्प्रयोजाः दुःखेन प्रयोज्याः ।
तत्र बहुतरसन्देहप्रसरा प्रतिपत्तिश्च स्यात्. सा नाट्ये न अनुरूपा च इति योजना ।
अत्र हेतुमाह---प्रत्यक्षेति ।
संशयादिविध्नरहितसाक्षात्काररूपत्वादित्यर्थः ।
तस्या इति ।
नाट्यप्रतीतेरित्यर्थः ।
नाट्यन्नाम रसचर्वणात्मकप्रतीतिरूपमित्यभिनवभारत्यामुक्तम् ।
वृत्तौ ऽतत्रान्यत्र चेऽति ।
तस्यामित्यादेरनुषङ्गो ऽत्रापि बोध्यः ।
लोचने भावार्थमाह---आस्वाद इत्यादि ।
वृत्तौ ऽरसान्तरऽ इत्यादि ।
रौद्रादौरसान्तरे पुनः प्रतिपाद्ये मध्यमसमासासङ्घटना विगुणा न भवत कदाचिद्दीर्घसमासापि वा सङ्घटना विगुणा न भवतीति सम्बन्धः ।
दीर्घसमासाया अवैगुण्ये हेतुस्तदाक्षेपेत्यादिः ।
एतं ग्रन्धं व्याचष्टे--तस्या इत्यादि ।
सङ्घटनाया इति कर्मणि षष्ठी ।
आक्षेपः स्ववाचकशब्दसमुदाये आकर्षः योजनमिति यावत् ।
तेनाविनाभावीति वाच्यस्य विशेषणमित्याह---तेनेत्यादि ।
स हि सर्वरससाधारणः सर्वसङ्घटनासाधारणश्चेत्युक्तम् ।
प्रसादातिक्रमं ह्यसमासापि सङ्घटना करुणविप्रलम्भशृङ्गारौ न व्यनक्ति ।
तदपरित्यागे च मध्यमसमासापि न न प्रकाशयति ।
तस्मात्सर्वत्र प्रसादो ऽनुसर्तव्यः ।
अत एव च ऽयो यः शस्त्रं बिभर्तिऽ इत्यादौ यद्योजसः स्थितिरनेष्यते तत्प्रसादाख्य एव गुणो न माधुर्यम् ।
न चाचारुत्वम् ; अभिप्रेतरसप्रकाशनात् ।
तस्माद्गुणाव्यतिरिक्तत्वे गुणव्यतिरिक्तत्वे वा सङ्घटनाया यथोक्तादौचित्याद्विषयनियमो ऽस्तीति तस्या अपि रसव्यञ्जकत्वम् ।
तस्याश्च रसाभिव्यक्तिनिमित्तभूताया यो ऽयमनन्तरोक्तो नियमहेतुः स एव गुणानां नियतो विषय इति गुणाश्रयेण व्यवस्थानमप्यविरुद्धम् ।
लोचनम् व्यञ्जकस्य स्ववाच्यस्यैवाप्रत्यायनादिति भावः ।
तदिति ।
प्रसादस्यापरत्यागे अभीष्टत्वादत्रार्थे स्वकण्ठेनान्वयव्यतिरेकावुक्तौ ।
न माधुर्यमिति ।
ओजोमाधुर्ययोर्ह्यन्योन्याभावरूपत्वं प्राङ्निरूपितमिति तयोः सङ्करो ऽत्यन्तं श्रुतिबाह्य इति भावः ।
अभिप्रेतेति ।
प्रसादेनैव स रसः प्रकाशितः न न प्रकाशित इत्यर्थः ।
तस्मादिति ।
यदि गुणाः सङ्घटनैकरूपास्तथापि गुणानियम एव सङ्घटनाया नियमः ।
गुणाधीनसङ्घटनापक्षे ऽप्येवम् ।
सङ्घटनाश्रयगुणपक्षे ऽपि सङ्घटनाया नियामकत्वेन यद्वक्तृवाच्यौचित्यं बालप्रिया यो वाच्यो व्यङ्ग्याभिव्यञ्जको न भवतीति सम्बन्धः ।
स्वस्ववाचकशब्दानां दीर्घसमाससङ्घटनाङ्कितत्वे सत्येव वाच्यार्था व्यञ्जका भवन्तीति भावः ।
अपेक्षयेत्यस्य विगुणा न भवतीत्यनेनान्वय इत्याह--सेत्यादि ।
तदाक्षेपेत्यत्र व्याख्यानान्तरं प्रदर्श्य निराकरोति-नायकस्येत्यादि ।
न श्लिष्यतीति ।
अन्वयानुगुणुया भावादिति भावः ।
प्रसादाख्यो गुणो व्यापीत्युक्तं विवणोति - येत्यादि ।
या काचित्सङ्घटना सेति ।
दीर्घसमादिरूपा सङ्घटनेत्यर्थः ।
अभीष्टत्वादिति ।
प्रसादानुसरणस्याभिप्रेतत्वादित्यर्थः ।
उक्तावित्यनेनास्य सम्बन्धः ।
अत्रार्थैति ।
सर्वत्र प्रसादस्यानुसर्तव्यत्व इत्यर्थः ।
स्वकण्ठेनेत्यादि ।
तदपरित्यागे न न प्रकाशयतीत्यनेनान्वयः, प्रसादातिक्रम इत्यादिना व्यतिरेकश्चोक्त इत्यर्थः ।
भावमाह---ओजो माधुर्ययोरित्यादि ।
अन्योन्येति ।
माधुर्याभावरूपत्वमोजसस्तदभावरूपत्वं माधुर्यस्य चेत्यर्थः ।
सङ्कर इति ।
शृङ्गारादावोजसो रौद्रादौ माधुर्यस्य च समावेश इत्यर्थः ।
श्रुतिबाह्य इति ।
अश्रुत इत्यर्थः ।
तस्मादित्याद्यविरुद्धमित्यन्तग्रन्थस्य तात्पर्यमाह--यदि गुणा इत्यादिना ॥ 5-6 ॥
विषयाश्रयम् अप्य् अन्यद् औचित्यं तां नियच्छति ।
काव्य-प्रभेदाश्रयतः स्थिता भेदवती हि सा
विषयाश्रयमप्यन्यदौचित्यं तां नियच्छति ।
काव्यप्रभेदाश्रयतः स्थिता भेदवती हि सा ॥ 7 ॥
वक्तृवाच्यगतौचित्ये सत्यपि विषयाश्रयमन्यदौचित्यं सङ्घटनां नियच्छति ।
यतः काव्यस्य प्रभेदा मुक्तकं संस्कृतप्राकृतापभ्रंशनिबद्धम् ।
सन्दानितकविशेषककलापककुलकानि ।
पर्यायबन्धः परिकथा खण्डकथा सकलकथे सर्गबन्धो ऽभिनेयार्थमाख्यायिकाकथे इत्येवमादयः ।
तदाश्रयेणापि लोचनम् हेतुत्वेनोक्तं तद्गुणानामपि नियमहेतुरिति पक्षत्रये ऽपि न कश्चिद्वप्लव इति तात्पर्यम् ॥ 5॥
,6 ॥
नियामकान्तरमप्यस्तीत्याह---विषयाश्रयमिति ।
विषयशब्देन सङ्घातविशेष उक्तः ।
यथा हि सेनाद्यात्मकसङ्घातनिवेशी पुरूषः कातरो ऽपि तदौचित्यादनुगुणतयैवास्ते तथा काव्यवाक्यमपि सङ्घातविसेषात्मकसन्दानितकादिमध्यनिविष्टं तदौचित्येन वर्तते ।
मुक्तकं तु विषयशब्देन यदुक्तं तत्सङ्घाताभावेन स्वातन्त्र्यमात्रं प्रदर्शयितुं स्वप्रतिष्ठितमाकाशमिति यथा ।
अपिशब्देनेदमाह---सत्यपि वक्तृवाच्यौचित्ये विषयौचित्यं केवलं तारतम्यभेदमात्रव्याप्तम्, न तु विषयौचित्येन वक्तृवाच्यौचित्यं निवार्यत इति ।
मुक्तमिति ।
मुक्तमन्येनानालिङ्गितं तस्य सञ्ज्ञायां कन् ।
तेन स्वतन्त्रतया परिसमाप्तनिराकाङ्क्षार्थमपि प्रबन्धमध्यवर्ति न मुक्तकमित्युच्यते ।
मुक्तकस्यैव बालप्रिया सदृष्टान्तं विवृणोति---यथेत्यादि ।
सेनेति ।
सेनाद्यात्मको यस्सङ्घातः समुदायः तत्र निवेशी निविष्टः ।
कातरो ऽपीति ।
स्ततः अधीरो ऽपीत्यर्थः ।
कातरादिरपीति च पाठः ।
तदनुगुणतयेति ।
सेनाद्यनुगुणतयेत्यर्थः ।
अकातरत्वेनेति यावत् ।
काव्यवाक्यमिति ।
काव्यरूपं वाक्यमित्यर्थः ।
नन्वेवं मुक्तकस्यैकपद्यात्मकस्य सङ्घातरूपत्वाभावात् वृत्तौ तस्य काव्यप्रभेदत्वेन कथनं किमर्थमित्यत आह---मुक्तकन्त्वित्यादि ।
तत् तद्वचनम् ।
सङ्घाताभावेन सङ्घातरूपत्वाभावेन ।
स्वातन्त्र्येति ।
मुक्तकस्यापि रसस्यन्दित्वात्सङ्घटनानियमने स्वातन्त्र्यमस्तीत्येतावन्मात्रं प्रदर्शयितुं मुक्तकमपि काव्यप्रभेदत्वेनोक्तमित्यर्थः ।
अत्र दृष्टान्तमाह--स्वेत्यादि ।
पृथिव्यादीनाञ्चतुर्णामाकाशे प्रतिष्ठितत्वमित्युक्तावाकाशस्य कुत्र प्रतिष्ठेति प्रश्ने प्रतिवाक्यमिदमाकाशं स्वस्मिन्नाकाशे प्रतिष्ठितमिति ब्रह्म ब्रह्मणीव आकाशमाकाश एव प्रतिष्ठितन्नान्यत्रेत्यर्थः ।
यथैतद्वचनमाकाशस्य स्वातन्त्र्यप्रदर्शकमात्रं तथेत्यर्थः ।
सत्यपीति ।
सत्येवेत्यर्थः ।
तारतम्येति ।
तारतम्यभेदमात्रप्रयोजकमित्यर्थः ।
अन्येनानालिङ्गितमिति ।
निराकाङ्क्षप्रतिपत्तये स्वेतरानपेक्षीत्यर्थः ।
संज्ञायां कननिति ।
अनेन सङ्घटना विशेषवती भवति ।
तत्र मुक्तमेषु रसबन्धाभिनेवेशिनः कवेस्तदाश्रयमौचित्यम् ।
तच्च दर्शितमेव ।
अन्यत्र कामचारः ।
लोचनम् विशेषणं संस्कृतेत्यादि ।
क्रमभावित्वात्तथैव निर्देशः ।
द्वाभ्यां क्रियासमाप्तौ सन्दानितकम् ।
त्रिभिर्विशेषकम् ।
चतुर्भिः कलापकम् ।
पञ्चप्रभृतिभिः कुलकम् ।
इति क्रियासमाप्तिकृता भेदा इति द्वन्द्वेन निर्दिष्टाः अवान्तरक्रियासमाप्तावपि वसन्तवर्णनादरेकर्णनीयोद्देशेन प्रवृत्तः पर्यायबन्धः ।
एकं धर्मादिपुरुषार्थमुद्दिश्य प्रकारवैचित्र्येणानन्तवृत्तान्तवर्णनप्रकारा परिकथा ।
एकदेशवर्णना खण्डकथा ।
समस्तफलान्तेतिवृत्तवर्णना सकलकथा ।
द्वेयोरपि प्राकृतप्रसिद्धत्वाद्द्वन्द्वेन निर्देशः ।
पूर्वेषां तु मुक्तकादीनां भाषायामनियमः ।
महाकाव्यरूपः पुरुषार्थफलः समस्तवस्तुवर्णनाप्रबन्धः सर्गबन्धः संस्कृत एव ।
अभिनेयार्थं दशरूपकं नाटिकात्रोटकरासकप्रकरणिकाद्यवान्तरप्रपञ्चसहितमनेकभाषाव्यामिश्ररूपम् ।
आख्यायिकोच्छ्वासादिना वक्त्रापरवक्त्रादिना च युक्ता ।
कथा तद्विरहता ।
उभयोरपि गद्यबन्धस्वरूपतया द्वन्द्वेन निर्देशः ।
आदिग्रहणाच्चम्पूः ।
यथाह दण्डी - ऽगद्यपद्यमयी चम्पूःऽ इति ।
अन्यत्रेति ।
रसबन्धानभिनिवेशे ।
बालप्रिया रूढिर्दर्शिता ।
तेनेति ।
रूढेरपि सत्वेनेत्यर्थः ।
न मुक्तकमित्युच्यत इति ।
प्रबन्धानन्तर्गत एव रूढिस्वीकारादिति भावः ।
संस्कृतप्राकृतापभ्रंशनिबद्धमित्येकवचनान्तत्वेन निर्देशादाह--मुक्तकस्यैवेत्यादि ।
विशेषणमिति ।
एकवचनान्तत्वेनोक्तेरेति शेषः ।
सन्दानितकेत्यादिना तु विपरिणामेन तत्पदं योज्यमिति भावः ।
एतेन पूर्वेषान्तु मुक्तकादीनां भाषायामनियम इति बक्ष्यमाणस्य नासङ्गतिः ।
हेमचन्द्रेणाप्येवमुक्तं "एतानि सर्वभाषाभिर्भवन्ती"ति ।
संस्कृतादीनां लक्षणानि काव्यादर्शादावुक्तानि ।
क्रमभावित्वादिति ।
संस्कृतात्प्राकृतस्य तस्मादपभ्रंशस्य चोत्पन्नत्वादिति भावः ।
तथैव संस्कृतेत्यादिक्रमेणैव ।
त्रिभिरित्यादौ क्रयासमाप्तिकृतभेदत्वेन समप्राधान्यादित्यर्थः ।
द्वन्द्वेन सन्दानितकेत्यादिना ।
प्रवृत्तः निबद्धः ।
एकं घर्मादीति ।
धर्मादिषु पुरुषार्थेष्वेकमित्यर्थः ।
कदेशेति ।
प्रसिद्धेतिवृत्तैकदेशेत्यर्थः ।
महाकाव्यरूप इति ।
महाकाव्यादीनां लक्षणानि काव्यादर्शादावुक्तानि ।
द्वन्द्वेनेति ।
ऽआख्ययिकेऽत्यादिद्वन्द्वेन ।
कथमपि कृत्वेत्यादिव्याजेनाश्रवणमभिनीत्येत्यर्थः ।
शून्ये सखीशून्ये ।
शलोको ऽयं काव्यालङ्कारसङ्ग्रहव्याख्यायां विवृतः ।
ऽमध्यमसमासादीर्घसमासे मुक्तकेषु प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते ।
यथा ह्यमरुकस्य कवेर्मुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव ।
सन्दानितकादिषु तु विकटनिबन्धनौचित्यान्मध्यमसमासादीर्घसमासे एव रचने ।
प्रबन्धाश्रयेषु यथोक्तप्रबन्धौचित्यमेवानुसर्तव्यम् ।
पर्यायबन्धे पुनरसमासामध्यमसमासे एव सङ्घटने ।
कदाचिदर्थौचित्याश्रयेण दीर्घसमासायामपि सङ्घटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या ।
परिकथायां कामचारः, तत्रेतिवृत्तमात्रोपन्यासेन नात्यन्तंरसबन्धाभिनिवेशात् ।
खण्डकथासकलकथयोस्तु प्रकृतप्रसिद्धयोः कुलकादिनिबन्धनभूयस्त्वाद्दीर्घसमासायामपि न विरोधः ।
वृत्त्यौचित्यं तु यथारसमनुसर्तव्यम् ।
सर्गबन्धेतु लोचनम् ननु मुक्तके विभावादिसङ्घटना कथं येन तदायत्तो रसः स्यादित्याशङ्क्याह---मुक्तकेष्विति ।
अमरुकस्येति ।
कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजप्रकल्पितमश्रुतम् ।
अहनसखीश्रोत्रप्राप्तिं विशङ्क्य समम्भ्रमं विवलितदृशा शून्ये गेहे समुच्छ्वसितं ततः ॥
इत्यत्र हि श्लोके स्फुटैव विभावादसम्पत्प्रतीतिः ।
विकटेति ।
असमासायां हि सङ्घटनायां मन्थररूपा प्रतीतिः साकाङ्क्षा सती चिरेण क्रियापदं दूरवर्त्यनुधावन्ती वाच्यप्रतीतावेव विश्रान्ता सती न रसतत्वचर्वणायोग्या स्यादिति भावः ।
प्रबन्धाश्रयेष्विति ।
बालप्रिया एवेऽत्युक्तमुपपादयति---असमासायामित्यादि ।
सङ्घटनायामिति ।
सत्यामिति शेषः ।
मन्थररूपेति ।
मन्दीभवन्तीत्यर्थः ।
साकाङ्क्षेति ।
क्रियाद्याकाङ्क्षासहितेत्यर्थः ।
वाच्यप्रतीतावेव विश्रान्तेति ।
वाच्यार्थंप्रतीतेश्चिरेणैव जायमानत्वादिति भावः ।
न म्यादिति ।
तथाच वाच्यप्रतीतिमान्थर्यादिपरिहाराय मध्यमसमासा दीर्घसमासा वा सङ्घटना कार्येति भावः ।
प्रबन्धाश्रयेष्वत्यत्र सन्दानितकादिष्वित्यस्यैवानुषङ्गो न तु मुक्तकेष्वित्यस्यापि पूर्वोक्तलक्षणस्य मुक्तकस्य रसतात्पर्ये यथारसमौचित्यमन्यथा तु काभचारः, द्वयोरपि मार्गयोः सर्गबन्धविधायिनां दर्शनाद्रसतात्पर्यं साधीयः ।
अभिनेयार्थे तु सर्वथा रसबन्धे ऽभिनिवेशः कार्यः ।
आख्यायिकाकथयोस्तु गद्यनिबन्धनबाहुल्याद्गद्ये च छन्दोबन्धभिन्नप्रस्थानत्वादिह नियमे हेतुरकृतपूर्वो ऽपि मना विक्रयते ।
एतद् यथोक्तम् औचित्यम् एव तस्या नियामकम् ।
सर्वत्र गद्य-बन्धे ऽपि छन्दो-नियम-वर्जिते
एतद्यथोक्तमौचित्यमेव तस्या नियामकम् ।
सर्वत्र गद्यबन्धे ऽपि छन्दोनियमवर्जिते ॥ 8 ॥
यदेतदौचत्यं वक्तृवाच्यगतं सङ्घटनाया नियामकमुक्तमेतदेव गद्ये छन्दोनियमवर्जिते ऽपि विषयापेक्षं नियमहेतुः ।
तथा ह्यत्रापि यदा कविः कविनिबद्धो वा वक्ता रसभावरहितस्तदा कामचारः ।
रसभावसमन्विते तु वक्तरि पूर्वेक्तमेवानुसर्तव्यम् ।
तत्रापि च विषयौचित्यमेव ।
आख्यायिकायां लोचनम् सन्दानितकादिषु कुलकान्तेषु ।
यदिवा प्रबन्धे ऽपि मुक्तकस्यास्तु सद्भावः, पूर्वापरनिरपेक्षेणापि हि येन रसचर्वणा क्रियते तदेव मुक्तकम् ।
यथा---ऽत्वामालिख्य प्रणयकुपितांऽ इत्यादिश्लेकः ।
कदाचिदिति रौद्रादिविषये ।
नात्यन्तमिति ।
रसबन्धे यो नात्यन्तमभिनिवेशस्तस्मादिति सङ्गतिः ।
वृत्तयौचात्यमिति ।
परुषोपनागरिकाग्राम्याणां वृत्तीनामौचित्यं यथाप्रबन्धं यथारसं च ।
अन्यथेति ।
कथामात्रतात्पर्ये वृत्तिष्वपि कामचारः ।
द्वयोरपीति सप्तमी ।
कथातात्पर्ये सर्गबन्धो यथा भट्टजयन्तकस्य कादम्बरीकथासारम् ।
रसतात्पर्यं यता रघुवंशादि ।
अन्ये तु संस्कृत प्रकृतयोर्द्वयोरिति व्याचक्षते ।
तत्र तु रसतात्पर्यं साधीय इति यदुक्तं तत्किमपेक्षयेति नेयार्थं स्यात् ॥ 7 ॥
बालप्रिया प्रबन्धेष्वसम्भवादित्याह---सन्दानितकादिष्वित्यादि ।
पक्षान्तरमाह---यदि वेत्यादि ।
ननु तर्हि किं मुक्तकलक्षणमित्यत आह--पूर्वेत्यादि ।
नात्यन्तमित्याद्येकं पदम् ।
रसबन्धे ऽभिनिवेशो रसबन्धाभिनिवेशः अत्यन्तं रसबन्धाभिनिवेशो यस्तस्याभावः ।
नात्यन्तंरसबन्धाभिनिवेशस्तस्मादित्यर्थ इत्यभिप्रायेण व्याचष्टे---रसबन्ध इत्यादि ।
अत्यन्तं रसबन्धानभिनिवेशादिति च वृत्तौ पाठः ।
द्वयोरपि मार्गयोरिति सप्तम्यन्ते ।
तात्पर्यस्येति शेषः ।
कथातात्पर्यस्य रसतात्पर्यस्य चेत्यर्थ इत्याह---द्वयोरित्यादि ।
द्वयोरपि मार्गयोरित्यस्य व्याख्यानान्तरमाह---अन्य इत्यादि ।
तद्दूषयति---तत्रेत्यादि ॥ 7 ॥
तु भूम्ना मध्यमसमासादीर्घसमासे एव सङ्घटने ।
गद्यस्य विकटबन्धाश्रयेण छायावत्त्वात् ।
तत्र च तस्य प्रकृष्यमाणत्वात् ।
कथायां तु विकटबन्धप्राचुर्ये ऽपि गद्यस्य रसबन्धोक्तमौचित्यमनुसर्तव्यम् ।
रस-बन्धोक्तम् औचित्यं भाति सर्वत्र संश्रिता ।
रचना विषयापेक्षं तत् तु किंचिद् विभेदवत्
रसबन्धोक्तमौचित्यं भाति सर्वत्र संश्रिता ।
रचना विषयापेक्षं तत्तु किञ्चिद्विभेदवत् ॥ 9 ॥
अथवा पद्यवद्गद्यबन्धे ऽपि रसबन्धोक्तमौचित्यं सर्वत्र संश्रिता रचना लोचनम् विषयापेक्षमिति ।
गद्यबन्धस्य भेदा एव विषयत्वेनानुमन्तव्याः ॥ 8 ॥
स्थितपक्षन्तु दर्शयति---रसबन्धोक्तमिति ।
वृत्तौ च वाशब्दो ऽस्यैव पक्षस्य स्थितिद्योतकः ।
यथा--- स्त्रियो नरपतिर्वह्निर्विषं युक्त्या निषेवितम् ।
स्वार्थाय यदि वा दुःखसम्भारायैव केवलम् ॥
इति ।
रचना सङ्घटना ।
तर्हि विषयौचित्यं सर्वथैव त्यक्तं नेत्याह---तदेन रसौचित्यं विषयं सहकारितयापेक्ष्य किञ्जिद्विभेदो ऽवन्तरवैचित्र्यं विद्यते यस्य सम्पाद्यत्वेन तादृशं बालप्रिया विषयत्वेनेति ।
विषयशब्दार्थत्वेनेत्यर्थः ॥ 8 ॥
ऽरसबन्धेऽति कारिकायां रचना सर्वत्र रसबन्धोक्तमौचित्यं संश्रिता भातीत्यन्वयः ।
वृत्तौ ऽअथवेऽति न विकल्पार्थक इत्याह---वृत्तौ च वाशब्द इति ।
चकारो वाक्यालङ्कारे ।
वाशब्द इति ।
अथवेत्यत्र वाशब्द इत्यर्थः ।
अस्येति ।
पद्यवदित्यादिना वक्ष्यमाणस्येत्यर्थः ।
स्थितिद्योतक इति ।
निश्चितत्वरूपस्थितत्वद्योतक इत्यर्थः ।
सम्मतत्वद्योतक इति यावत् ।
अथवेत्यादिना पक्षान्तरकथने खलु शास्त्रकाराणां निर्भरः ।
उक्तार्थे महाकविप्रयोगमुपष्टम्भकतया दर्शयति - स्त्रिय इति ।
युक्त्या निषेवितं स्त्र्यादिचतुष्टयं स्वार्थस्य स्वप्रयोजनाय भवत ।
इत्थं प्रसिद्ध्यनुरोधेनोक्त्वा स्वमतमाह---यदि वेत्यादि ।
युक्त्यान्यथा वा निषेवितं तच्चतुष्टयं केवलं दुःखसम्भाराय दुःखातिशयायैव भवति ।
अत्र यदिवेति दुःखसम्भारायैवेति सथितपक्षद्योतकम् ।
"विषप्यमृतं क्वचिद्भवेदभृतं वा विषमीश्वरेच्छये"ति रघुवंशश्लोकव्याख्याने "वाशब्दो वाक्यार्थस्य स्थितपक्षतां द्योतयती"त्यरुणाचलनाथाः ।
कारिकां व्यचष्टे--रचनेत्यादि ।
तर्हीति ।
रचनाया रसबन्धोक्तौचित्याश्रयणेन सर्वत्र भवनस्वीकारे सतीत्यर्थः ।
त्युक्तमिति ।
किन्त्यक्तमिति चोद्यम् ।
नेत्याहेति ।
न त्यक्तमिति प्रतिवक्तीत्यर्थः ।
तत्त्वित्यस्य व्याख्यानम्---तदेवेति ।
तत्पदार्थमाह---रसौचित्यमिति ।
रसबन्धोक्तौचित्यमित्यर्थः ।
विषयापेक्षमित्यस्य विवरणम्---विषययमित्यादि ।
भवति ।
तत्तु विषयापेक्षं किञ्जिद्वशेषवद्भवति, न तु सर्वाकारम् ।
तथा हि गद्यवन्धे ऽप्यतिदीर्घसमासा रचना न विप्रलम्भशृङ्गारकरुणयोराख्यायिकायामपि शोभते ।
नाटकादावप्यसमासैव न रौद्रवीरादिवर्णने ।
विषयापेक्षं त्वौचित्यं प्रमाणतो ऽपकृष्यते प्रकृष्यते च ।
तथा ह्याख्यायिकायां नात्यन्तमसमासा स्वविषये ऽपि नाटकादौ नातिदीर्घसमासा चेति सङ्घटनाया दिगनुसर्तव्या ।
इदानीमलक्ष्यक्रमव्यङ्ग्यो ध्वनिः प्रबन्धात्मा रामायणमहाभारतादौ लोचनम् भवति ।
एतद्व्याचष्टे - तत्त्विति ।
सर्वाकारमिति क्रियाविशेषणम् ।
असमासैवेति ।
सर्वत्रैवेति शेषः ।
तथा हि वाक्याभिनयलक्षणे ऽचूर्णपादैः प्रसन्नैःऽ इत्यादि मुनिरभ्यधात् ।
अत्रापवादमाह---न चेति ।
नाटकादाविति ।
स्वविषये ऽपीति सम्बन्धः ॥ 9 ॥
एवं सङ्घटनायां चालक्ष्यक्रमो दीप्यत इति निर्णीतम् ।
प्रबन्धे दीप्यत इति तु निर्विवादसिद्धो ऽयमर्थ इति नात्र वक्तव्यं किञ्चिदस्ति ।
केवलं कविसहृदयान् व्युत्पादयितुं रसव्यञ्जने येतिकर्तव्यता प्रबन्धस्य सा निरूप्येत्याशयेनाह--इदानीमिति ।
इदानीं तत्प्रकारजातं प्रतिपाद्यत इति सम्बन्धः ।
प्रथमं दावदिति प्रबन्धस्य व्यञ्जकत्वे ये प्रकारास्ते क्रमेणौवोपयोगिनः ।
पूर्वं हि कथापरीक्षा ।
तत्रादिकावापः फलपर्यन्ततानयनम्, बालप्रिया किञ्चिद्विभेदवदित्यस्य विवरणम् - किञ्जिदित्यादि ।
यस्य सम्पाद्यत्वेन विद्यत इति सम्बन्धः ।
सर्वत्रैवासमासेत्यत्र मुनिवचनं प्रमाणयति---तथाहीत्यदि ।
वृत्तौ ऽन चेऽत्यत्र असमासैवेत्यस्यानुषङ्गः ।
ऽप्रमाणतऽ इति ।
रसबन्धोक्तौचित्यरूपात्प्रमाणादित्यर्थः ।
ऽआख्यायिकायाऽमित्यादि ।
ऽस्वविषये ऽपीऽति ।
अत्यन्तासमासाया विषये शृङ्गारादावपीत्यर्थः ।
ऽनेऽति ।
शोभत इत्यस्यानुषङ्गः ।
न चारुरित्यर्थः ।
ऽनाटकादाऽविति ।
स्वविषये ऽपीत्यस्यानुषङ्गः ।
अतिदीर्घसमासासङ्घटना न शोभत इत्यर्थः ।
"इतीकाव्यार्थे"त्यादिश्लेकः क्वचिद्ग्रन्थे न दृश्यते, अत एव न व्याख्यातः ॥ 9 ॥
लोचने ऽवतारयति---एवमित्यादि ।
येतिकर्तव्यतेति ।
यः प्रकार इत्यर्थः ।
निरूप्या निरूपणार्हा ।
ऽइदानीऽमित्यस्यान्वयं ऽतत्प्रतिपाद्यतऽ इत्यत्र तत्पदार्थञ्ज दर्शयति---इदानीमित्यादि ।
प्रथमन्तावदितीति प्रतीकधारणम् ।
विभावेत्यादिनिर्देशक्रमस्य बीजन्दर्शयति---प्रबन्धस्येत्यादि ।
फलपर्यन्ततानयनमिति ।
कथाया इति प्रकाशमानः प्रसिद्ध एव ।
तस्य तु यथा प्रकाशनं तत्प्रतिपाद्यते---
विभाव-भावानुभाव-सञ्चार्य्-औचित्य-चारुणः ।
विधिः कथा-शरीरस्य वृत्तस्योत्प्रेक्षितस्य वा
इतिवृत्त-वशायातां त्यक्त्वाननुगुणां स्थितिम् ।
उत्प्रेक्ष्याप्य् अन्तराभीष्ट-रसोचित-कथोन्नयः
सन्धि-सन्ध्य्-अङ्ग-घटनं रसाभिव्यक्त्य्-अपेक्षया ।
न तु केवलया शास्त्र-स्थिति-सम्पादनेच्छया
उद्दीपन-प्रशमने यथावसरम् अन्तरा ।
रसस्यारब्ध-विश्रान्तेर् अनुसन्धानम् अङ्गिनः
अलङ्कृतीनां शक्ताव् अप्य् आनुरूप्येण योजनम् ।
प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम्
विभावभावानुभावसञ्जार्यौचित्यचारुणः ।
विधिः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ॥ 10 ॥
इतिवृत्तवशायातां त्यक्त्वाननुगुणां स्थितिम् ।
उत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयः ॥ 11 ॥
सन्धिसन्ध्यङ्गघटनं रसाभिव्यक्त्यपेक्षया ।
न तु केवलया शास्त्रस्थितिसम्पादनेच्छया ॥ 12 ॥
उद्दीपनप्रशमने यथावसरमन्तरा ।
रसस्यारब्धविश्रान्तेरनुसन्धानमङ्गिनः ॥ 13 ॥
अलङ्कृतीनां शक्तावप्यानुरूप्येण योजनम् ।
प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् ॥ 14 ॥
प्रबन्धो ऽपि रसादीनां व्यञ्जक इत्युक्तं तस्य व्यञ्जकत्वे निबन्धनम् ।
प्रथमं तावद्विभावभावानुभावसञ्चार्योचित्यचारुणः कथाशरीरस्य विधिर्यथायथं प्रतिपिपादयिषितरसभावाद्यपेक्षया य उचतो विभावो भावो ऽनु भावः सञ्जारी वा तदौचित्यचारुणः कथाशरीरस्य विधिर्व्यञ्जकत्वे निबन्धनमेकम् ।
लोचनम् रसं प्रति जागरणम्, तदुचितविभावादिवर्णने ऽलङ्कारौचित्यमिति ।
तत्क्रमेण पञ्जकं व्याचष्टे---विभावेत्यादिना ।
तदौचित्येति ।
शृङ्गारवर्णनेच्छुना तादृशी कथा संश्रयणीया यस्यामृतुमाल्यादेर्विभावस्य लीलादेरनुभावस्य बालप्रिया शेषः ।
तत्पञ्जकमिति ।
आद्यञ्चतुष्टयं श्लोकचतुष्टयेन क्रमान्नर्दिष्टं, पञ्चमन्त्वर्धश्लोकेनेति बोध्यम् ।
विभावाद्यौचित्यचारुणः कथाशरोरस्य विधिरित्येतद्रसविशेषमुपादाय विवृणोति--शृङ्गारवर्णने चुम्बनेत्यादि ।
वृत्तौ ऽप्रकृतिऽरित्यादि ।
प्रकृतिः स्वभावः ।
ऽदिव्येऽत्यादि ।
दिव्या मानुषी दिव्यमानुषी पातालीयेत्यादिर्बहुविधेत्यर्थः ।
तत्र दिव्या प्रकृतिरमर्त्यैकरूपत्वं यथा श्रीमहेश्वरादेः ।
मानुषी मर्त्यैकरूपत्वं यथा माधवादेः ।
दिव्यमानुषी पाण्डवादेरिति बोध्यम् ।
ऽताम्ऽ इति ।
प्रकृतिमित्यर्थः ।
ऽअसङ्कीर्णःऽ स्थाय्यन्तरासङ्कीर्णः ।
ऽऔचित्यभागिति च पाठः ।
क्वचिद्ग्रन्थे भवतीत्यनन्तरं नान्यथेति च पाठः ।
ऽअन्यथेऽत्यादि ।
अन्यथा उक्तप्रकारातिक्रमणेन ।
दिव्यस्य उत्साहादयः केवलमानुषाश्रयेम केवलमानुषस्योत्साहादयः केवलदिव्याश्रयेण वा उपनिबध्यमाना इत्यन्वयः ।
ऽतथाचेऽति ।
तथाहीत्यर्थः ।
लोचने---तद्विषयेति ।
व्यापारविषयकेत्यर्थः ।
एतदिति ।
व्यापारपदमित्यर्थः ।
कुत इत्यत आह--स्थायीत्यादि ।
वृत्तौ ऽभान्तीऽति ऽभवन्तीऽति च पाठः ।
अत एव च भरते प्रख्यातवस्तुविषयत्वं प्रख्यातोदात्तनायकत्वं च नाटकस्यावश्यकर्तव्यतयोपन्यस्तम् ।
तेन हि नायकौचित्यानौचित्यविषये कविर्न व्यामुह्यति ।
यस्तूत्पाद्यवस्तु नाटकादि कुर्यात्तस्याप्रसिद्धानुचितनायकस्वभाववर्णने महान् प्रमादः ।
लोचनम् एतदुक्तं भवति---यत्र विनेयानां प्रतीतिखण्डना न जायते तादृग्वर्णनीयम् ।
तत्र केवलमानुषस्य एकपदे सप्तार्णवलङ्घनमसम्भाव्यमानतयानृतमिति हृदये स्फुरदुपदेश्यस्य चतुर्वर्गोपायस्याप्यलीकतां बुद्धौ निवेशयति ।
रामदेस्तु तथाविधमपि चरितं पूर्वप्रसिद्धिपरम्परोपचितसम्प्रत्ययोपारूढमसत्यतया न चकास्ति ।
अत एव तस्यापि यदा प्रभावान्तरमुत्प्रेक्ष्यते तदा तादृशमेव ।
न त्वसम्भावनापदं वर्णनीयमिति ।
तेन हीति ।
प्रख्यातोदात्तनायकवस्तुत्वेन ।
व्यामुह्यतीति किं वर्णयेयमिति ।
यस्त्विति कवः ।
महान् प्रमाद इति ।
तेनोत्पाद्यवस्तु नाटकादि न बालप्रिया शङ्कते---ऽनन्विऽत्यादि ।
ऽनागलोकेऽति ।
नाकलोकेति च पाठः ।
ऽतदिऽति ।
तस्मादित्यर्थः ।
क्षमाभुजामित्यस्य वर्णने इत्यनेन सम्बन्धः ।
किमिति प्रश्ने निषेधे वा ।
परिहरत---ऽनैतदिऽत्यादि ।
नैतदस्ति एतच्चोद्यं न भवति ।
कुत इत्यत्राह---ऽनेऽत्यादि ।
राज्ञां प्रभावातिशयवर्णनं यद्द्वयं तदनुचितं न ब्रूम इति सम्बन्धः ।
व्यतिरिक्तन्त्वित्यादिग्रन्थस्य सारार्थमाह लोचने---एतदुक्तमित्यादि ।
यत्रेति ।
वर्ण्यमाने यस्मिंश्चरित इत्यर्थः ।
प्रतीतिखण्डना प्रतीतेरप्रतिष्ठा ।
केवलमानुषस्येति ।
वर्ण्यमानमिति शेषः ।
सप्तार्णवलङ्घनं कर्तृ निवेशयतीति सम्बन्धः ।
अनुतमितीति ।
अलीकतामिति ।
असत्यतामित्यर्थः ।
विशेषमाह---रामादेस्त्विति ।
तथाविधमिति ।
अर्णवलघङ्नादिरूपमित्यर्थः ।
पूर्वप्रसिद्धीति ।
पूर्वा पुरातनी या प्रसिद्धिपरम्परा तया उपचितो यः सम्प्रत्ययो विश्वासः तमुपारूढमिति हेतुगर्भम् ।
तस्यापि रामादेरपि ।
उत्प्रेक्ष्यते कल्पनापूर्वकं वर्ण्यते ।
तादृशमेव असत्यतया स्फुरेदेव ।
परमतात्पर्यमाह---न त्वित्यादि ।
असम्भावनापदमिति ।
असम्भाव्यत्वबुद्धिविषयभूतमित्यर्थः ।
व्यामोहाकारमाह--किमित्यादि ।
मुनिना नाटकादेरुत्पाद्यवस्तुत्वस्यानिरूपितत्वादुत्पाद्यवस्तुनाटकादीति यथाश्रुतार्थस्यासङ्गत्या यो नाटकादि उत्पाद्यवस्तु सत् कुर्यात्तस्य महान् प्रमादस्स्यादिति योजनाम्मनसि कृत्य तात्पर्यं विवृणोति---तेनेत्यादि ।
तेन कवेर्महतः प्रमादस्य प्रसङ्गेन हेतुना ।
मुनिना नाटकादि ननु यद्युत्साहादिभाववर्णने कथञ्चिद्दिव्यमानुष्याद्यौचित्यपरीक्षा क्रियते तत्क्रियताम्, रत्यादौ तु किं तया प्रयोजनम्? रतिर्हि भारतवर्षेचितेनैव व्यवहारेम दिव्यानामपि वर्णनीयेति स्थितिः ।
नैवम् ; तत्रौचित्यातिक्रमेण सुरां दोषः ।
तथा ह्यधमप्रकृत्यौचित्येनोत्तमप्रकृतेः शृङ्गारोपनिबन्धने का भवेन्नोपहास्याता ।
त्रिविधं प्रकृत्यौचत्यं भारते वर्षे ऽप्यस्ति शृङ्गारविषयम् ।
यत्तु दिव्यमौचित्यं तत्तत्रानुपकारकमेवेति चेत्---न वयं दिव्यमौचित्यं शृङ्गारनिषयमन्यत्किञ्चिद्ब्रूमः ।
किं तर्हि? भारतवर्षविषये यथोत्तमनायकेषु राजादिषु शृङ्गारोपनिबन्धस्तथा दिव्याश्रयो ऽपि शोभते ।
न च राजादिषु प्रसिद्धिषु प्रसिद्धग्राम्यशृङ्गारोपनिबन्धनं प्रसिद्धं नाटकादौ, तथैव देवेषु तत्परिहर्तव्यम् ।
नाटकादेरमिनेयार्थत्वादभिनयस्य च सम्भोगशृङ्गारविषयस्यासभ्यत्वात्तत्र परिहार इति चेत्- न; यद्यभिनयस्यैवंविषयस्यासभ्यता तत्काव्यस्यैवंविषयस्य सा केन निवार्यते? तस्मादभिनेयार्थे ऽनभिनेयार्थे वा काव्ये यदुत्तमप्रकृते राजादेरुत्तमप्रकृतिभिर्नायिकाभिः सह ग्राम्यसम्भोगवर्णनं तत्पित्रोः सम्भोगवर्णनमिव सुतरामसभ्यम् ।
तथैवोत्तमदेवतादिविषयम् ।
लोचनम् निरूपितं मुनिनेति न कर्तव्यमिति तात्पर्यम् ।
आदिशब्दः प्रकारे, हिमादेः प्रसिद्धदेवचरितस्य सङ्ग्रहार्ऽथः ।
बालप्रिया उत्पाद्यवस्तु सत् न निरूपितमिति सम्बन्धः ।
इतीति हेतौ ।
न कर्तव्यमिति ।
कविना नाटकादि उत्पाद्यवस्तु सन्न निबद्धव्यमित्यर्थः ।
ऽनाटकादीऽत्यत्रादिशब्दं विवृणोति---प्रकार इत्यादि ।
प्रकारे सादृश्ये, तच्च प्रख्यातवस्तुत्वेन बोध्यम् ।
ऽडिमादेऽरित्यादिपदेन व्यायोगो ग्राह्यः ।
"प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चे"त्यादि डिमलक्षणम् ।
व्यायोगस्तु विधिज्ञैः कर्यः प्रख्यातनायकशरीर इत्यादिव्यायोगलक्षणञ्ज नाट्यशास्त्रादावुक्तम् ।
नाटकादीत्यत्र नाटकमादिः यस्येति व्युत्पत्त्या नाटकादिपदेनातद्गुणसंविज्ञानबहुव्रीहिणा प्रकारणं विवक्षितमतो न यथाश्रुतार्थानुपपत्तिरिति कश्चिदाह, तन्मतमाह---अन्यस्त्वित्यादि ।
न च सम्भोगशृङ्गारस्य सुरतलक्षण एवैकः प्रकारः, यावदन्ये ऽपि प्रभेदाः परस्परप्रेमदर्शनादयः सम्भवन्ति, ते कस्मादुत्तमप्रकृतिविषये न वर्ण्यन्ते ? तस्मादुत्साहवद्रतावपि प्रकृत्यौचित्यमनुसर्तव्यम् ।
तथैव विस्मयादिषु ।
यत्त्वेवंविधे विषये महाकवीनाप्यसमीक्ष्यकारिता लक्ष्ये दृश्यते स दोष एव ।
स तु शक्तितिरस्कृतत्वात्तेषां न लक्ष्यत इत्युक्तमेव ।
अनुभावौचित्यं तु भरतादौ प्रसिद्धमेव ।
लोचनम् अन्यस्तु--ऽउपलक्षणमुक्तो बहुव्रीहिरिति प्रकरणमत्रोक्तम्ऽ इत्याह ।
ऽनाटिकादिऽ इति वा पाठः ।
तत्रा दिग्रहणं प्रकारसूचकम्, तेन मुनिनिरूपिते नाटिकालक्षणे ऽप्रकरणनाटकयोगादुत्पाद्यं वस्तु नायको नृपतिःऽ इत्यत्र यथासंख्येन प्रख्यातोदात्तनृपतिनायक्त्वं बोद्धव्यमिति भावः ।
कथं तर्हि सम्भोगशृङ्गारः कविना निबध्यतामित्याशङ्क्याह---न चेति ।
तथैवेति ।
मुनिनाप स्थाने स्थाने प्रकृत्यौचित्यमेव विभावानुभावादिषु बहुतरं प्रमाणीकृतं ऽस्थैर्येणोत्तममध्यमाधमानां नीचानां सम्भ्रमेणऽ इत्यादि वदता ।
बालप्रिया उक्तो बहुव्रीहिरुपलक्षणमिति ।
नाटकादीति बहुव्रीहिरन्योपलक्षक इत्यर्थः ।
इतीति हेतौ ।
प्रकारान्तरेणाह--नाटिकादीत्यादि ।
प्रकारसूचकं सादृश्यबोधकम् ।
सादृश्यमुत्पाद्यवस्तुत्वेन बोध्यम्, प्रकरणादिकमादिपदेन ग्राह्ममिति भावः ।
तेनेति नाटिकादेरुत्पाद्यवस्तुत्वकथनेनेत्यर्थः ।
वस्तुन एवोत्पाद्यत्वोकस्येति यावत् ।
बोद्धव्यमिति ।
नायके उत्पाद्यत्वस्यान्वयो नेति भावः ।
वृत्तौ ऽनन्विऽत्यादि ।
ऽदिव्येऽति ।
दिव्यं मानष्यञ्ज तदादि यदौचित्यं तस्य परीक्षा ।
यदि क्रियत इति सम्बन्धः ।
ऽतत्ऽ तर्हि ।
ऽतयाऽ दिव्यमानुष्याद्यौचित्यपरीक्षया ।
ऽतत्रेऽति ।
रत्यादावित्यर्थः ।
पुनश्शङ्कते---ऽयत्त्विऽत्यादि ।
परिहरति---ऽनेऽत्यादि ।
ऽदिव्याश्रयो ऽपीति ।
शृङ्गारोपनिबन्ध इत्यनुषङ्गः ।
ऽन चेऽति ।
नाटकादौ राजादिषु न च प्रसिद्धमित्यन्वयः ।
ऽप्रसिद्धेऽति ।
अधमपात्रगतत्वेन प्रसिद्धेत्यर्थः ।
ऽतदिऽति ।
ग्राम्यशृङ्गारोपनिबन्धनमित्यर्थः ।
शङ्कते---ऽनाटकादेरिऽति ।
ऽतत्रेऽति ।
नाटकादावत्यर्थः ।
ऽएवं विषयस्यासभ्यतेऽति ।
सम्भोगशृङ्गारविषयस्यासभ्यतेत्यर्थः ।
ऽसेऽति ।
असभ्यतेत्यर्थः ।
न च सम्भोगशृङ्गारस्येत्यादिग्रन्थमवतारयति लोचने---कथन्तर्हीत्यादि ।
तथैव विस्मयादिष्वित्यत्र प्रमाणमाह---मुनिनापीत्यादि ।
स्थैयंणेति ।
इयत्तूच्यते--भरतादिविरचितां स्थितिं चानुवर्तमानेन महाकविप्रबन्धांश्च पर्यालोचयता स्वप्रतिभां चानुसरता कविनावहतचेतसा भूत्वा विभावा द्यौचित्यभ्रंशपरित्यागे परः प्रयत्नो विधेयः ।
औचित्यवतः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ग्रहो व्यञ्जक इत्यनेनैतत्प्रतिपादयति---यदितिहासादिषु कथासु रसवतीषु विविधासु सतीष्वप यत्तत्र विभावाद्यौचित्यवत्कथाशरीरं तदेव ग्राह्यंनेतरत् ।
वृत्तादपि च कथाशरीरादुत्प्रेक्षिते विशेषतः प्रयत्नवता भवितव्यम् ।
तत्र ह्यनवधानात्स्खलतः कवेरव्युत्पत्तिसम्भावना महती भवति ।
परिकरश्लोकश्चात्र--- कथाशरीरमुत्पाद्यवस्तु कार्यं तथातथा ।
यथा रसमयं सर्वमेव तत्प्रतभासते ॥
लोचनम् इत्यत्त्विति ।
लक्ष्णज्ञत्वं लक्ष्यपरिशीलनमदृष्टप्रसादोदितस्वप्रतिभाशालित्वं चानुसर्तव्यमिति संक्षेपः ।
रसवतीष्वित्यनादरे सप्तमी ।
रसवत्त्वं चाविवेचकजनाभिमानाभिप्रायेण मन्तव्यम् ।
विभावाद्यौचित्येन हि विना का रसवत्ता ।
कवेरिति ।
बालप्रिया "स्त्रीनीचप्रकृतिष्विष शोको व्यसनसम्भवः ।
धैर्येणोत्तममध्यानां नीचानां रुदितेन च" ॥
इति भावाध्याये पाठः ।
अत्राभिनेय इत्यस्यानुषङ्गः ।
ऽभरतादिविरचतां स्थितिञ्चानुवर्तमानेनेऽत्यादितृतीयान्तपदत्रयलब्धमर्थमाह---लक्षणज्ञत्वमित्यादि ।
अदृष्टेति ।
अदृष्टं सुकृतं प्रसादो देवतादिप्रसादः ताभ्यामुदिता या स्वप्रतिभा तच्छालित्वमित्यर्थः ।
अनादरे सप्तमीति ।
इतिहासादिषु विविधासु रसवतीषु कथासु सतीष्वपि ताः कथा अनादृत्य तत्र तासाम्मध्ये यत्कथाशरीरमौचित्यवत्तदेव कविना ग्राह्यं, नेतरद्विभावाद्यौचित्यशून्यं कथाशरीरं रसवदपि न ग्राह्यमिति वृत्त्यर्थ इति भावः ।
ननु विभावाद्यौचित्याभावे कथं रसवत्वमित्यत आह--रसवत्वञ्चेति ।
अविवेचकेत्यादि ।
कविवेचकजनानां यो ऽभिमानः रसवत्वाभिमानः तदभिप्रायेण ज्ञातव्यमित्यर्थः ।
अत्र हेतुमाह---विभावाद्यौचित्येनेत्यादि ।
मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0