भाषा

ENहिગુ
ग्रंथ पाठ

ध्वन्यालोक (टीका सहित) · भाग 301320

महाप्रलय इति ।
महस्य उत्सवस्य आसमन्तात्प्रलयो यत्र तादृशि शोककारणभूते वृत्ते धरण्या राज्यधुराया धारणायाश्वासनाय त्वं शेषः शिष्यमाणः ।
इतीयता पूर्णे वाक्यार्थे कल्पावसाने भूपीठभारोद्वहनक्षम् एको बालप्रिया इत्यनेन गम्यमर्थमाह--अन्यो हीत्यादि ।
लोकोपयोगीति ।
लोकैरित्यादि ।
च गम्यार्थविवरणम् ।
ऽआत्मसमानाधिकरणतयेऽति प्रतीकधारणमादावस्मदर्थान्वयी जडपदार्थो विवरिष्यत इति ज्ञापनाय ।
तमर्थमाह--किङ्कर्तव्यतामूढ इति ।
कूपान्वयिनं व्यङ्ग्यमर्थमाह--अथ चेत्यादि ।
अत्रार्थान्तरञ्चाह---अत एवेत्यादि ।
अत एव विवेकाभावादेव ।
शीतल इति ।
"शिशिरो जड" इत्यमरः ।
अनेन गम्यमर्थमाह---निर्वेदेति ।
लडयोरभेदाज्जडपदं जलमयार्थकञ्चेत्याह---तथेत्यादि ।
वृत्तौ ऽकूपसमानाधिकरणतां प्रतिपद्यतऽ इत्यनेन जडपदस्य कूपपदसामानाधिकरण्यमेवोक्तन्न तु तटाकपदसामानाधिकरण्यमपि, तत्कुत इति शङ्कां परिहरंस्तद्ग्रन्थमवतारयति---अनेनेत्यादि ।
अनेन तृतीयार्थेनेति ।
कूपान्वयित्वेनोक्तेष्वर्थेषु तृतीयेन शीतजलवाहितयेत्याद्युक्तेनार्थेन हेतुनेत्यर्थः ।
तटाकार्थेनेति ।
तेन सहेत्यर्थः ।
पुनरुक्तेति ।
ऽप्रसन्नाम्बुधरऽ इति विशेषणार्थस्यैवोक्त्या पुनरुक्तार्थसम्बन्धस्स्यादित्यर्थः ।
ऽस्वशक्त्येऽत्यत्रान्यथाप्रतिपत्तिनिरासायाह---शब्देत्यादि ।
वाच्यार्थमाह--महस्येत्यादि ।
अस्मिन्नित्यस्य विवरणम्---शोकेत्यादि ।
वृत्ते जाते ।
व्यङ्ग्यमर्थान्तरन्दर्शयति---कल्पेत्यादि ।
अस्यैव कविप्रौढोक्तिमात्रनिष्पन्नशरीरस्यार्थशक्त्युद्भवे प्रभेदे प्रदप्रकाशता यथा हरिवजये---
चृअङ्कुरावअंसं छणमप्यसरमहध्घणमणहरसुरामोअम् ।
असमप्पिअं पि गहिअं कुसुमसरेण महुमासलच्छिमुहम् ॥
अत्र ह्यसमर्पितमपि कुसुमशरेण मधुमासलक्ष्म्या मुखं गृहीतमित्यसमर्पितमपीत्येतदवस्थाभिधायिपदमर्थशक्त्या कुसुमशरस्य बलात्कारं प्रकाशयति ।
अत्रैव प्रभेदे वाक्यप्रकाशता यथोदाहृतं प्राक् ऽसज्जेहि सुरहिमासोऽ इत्यादि ।
अत्र सज्जयति सुरभिमासो न तावदर्पयत्यनङ्गाय शरानित्ययं वाक्यार्थः कविप्रौढोक्तिमात्रनिष्पन्नशरीरो मन्मथोन्माथकदनावस्थां वसन्तसमयस्य सूचयति ।
लोचनम् नागराज एव दिग्दन्तिप्रभृतिष्वपि प्रलीनेष्वित्यर्थान्तरम् ।
चूताङ्कुरावतंसं क्षणप्रसरमहार्घमनोहरसुरामोदम् ।
महार्घण उत्सवप्रसरेण मनोहरसुरस्य मन्मथदेवस्य आमोदश्चमत्कारो यत्र तत् ।
अत्र महार्घशब्दस्य परनिपातः, प्राकृते नियमाभावात् ।
छण इत्युत्सवः ।
असमर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्मीमुखम् ॥
मुखं प्रारम्भो वक्क्रं च ।

तच्च सुरामोदयुक्तं भवति ।
मध्वारम्भे कामश्चित्तमाक्षिपतीत्येतावानयमर्थः कविप्रौढोक्त्यार्थान्तरव्यञ्जकः सम्पादितः ।
अत्र कविनिबद्धवक्तृप्रौढोक्तिशरीरार्थशक्त्युद्भवे पदवाक्यप्रकाशतायामुदाहरणद्वयं न दत्तम् ।
ऽप्रौढोक्तिमात्रनिष्पन्नशरीरः सम्भवी स्वतःऽ इति प्राच्यकारिकाया इयतैवोदाहृतत्वं भवेदित्यभिप्रायेण ।
तत्र पदप्रकाशता यथा--- सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः ।
किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥
बालप्रिया ऽमहाप्रलयऽ इत्यस्य कल्पावसान इति, ऽधरणीधारणायेऽत्यस्य भूभारेत्यादि, शेषऽ इत्यस्य नागराज इति च विवरणम् ।
दिग्दन्तीत्यादि ।
भावार्थकथनम् ।
अत्रोपमा व्यङ्ग्या बोध्या ।
मधुमासलक्ष्म्या नायिकात्वप्रतीत्या तदनुगुणमर्थमाह---वक्त्रञ्चेति ।
सुरा मद्यम् ।
अर्थान्तरव्यञ्जक इति ।
अर्थान्तरं वृत्तावुक्तम् ।
अत्रेत्यादि ।
इत्यभिप्रायेण न दत्तमिति सम्बन्धः ।
सत्यमिति ।
काव्यप्रकाशे ऽप्युदाहृतो ऽयं श्लोकः ।
स्वतःसम्भविशरीरार्थशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा---
वाणिअअ हत्तिदन्ता कुत्तो अह्याण बाधकित्ती अ ।
जाव लुलिआलपअमुही धरम्मि परिसक्कए सुह्णा ॥
अत्र लुलितालकमुखीत्येतत्पदं व्याधवध्वाः स्वतःसम्भावितशरीरार्थशक्त्या सुरतक्रीडासक्तिं सूचयंस्तदीयस्य भर्तुः सततसम्भोगक्षामतां प्रकाशयति ।
लोचनम् इत्यत्र कविना यो विरागी वक्ता निबद्धस्तत्प्रौढोक्त्या जीवितशब्दो ऽर्थशक्तिमूलतयेदं ध्वनयति---सर्व एवामी कामा विभूतयश्च स्वजीवितमात्रोपयोगिनः, तदभावे हि सद्भिरपि तैरसद्रूपताप्यते, तदेव च जीवितं प्राणधारणरूपत्वात्प्राणवृत्तेश्च चाञ्चल्यादनास्थापदमिति विषयेषु वराकेषु किं दोषोद्धोषणदौर्जन्येन निजमेव जीवितमुपालभ्यम्, तदपि च निसर्गचञ्चलमिति न सापराधमित्येतावता गाढं वैराग्यमिति ।
वाक्यप्रकाशता यथा--ऽशिखरिणिऽ इत्यादौ ।
वाणिजक हस्तिदन्ताः कुतो ऽस्माकं व्याघ्रकृत्तयश्च ।
यावल्लुलितालकमुखी गृहे परिष्वक्कते स्नुषा ॥
इति छाया ।
सविभ्रमं चङ्क्रम्यते ।
अत्र लुलितेति सवरूपमात्रेण विशेषणमवलिप्ततया चहस्तिदन्ताद्यपाहरणं सम्भाव्यमिति वाक्यार्थस्य तावत्येव न काचिदनुपपत्तिः ।
बालप्रिया कामाः काम्यमाना वनितादयः तदभावे जीविताभावे ।
जीवितमनास्थापदमिति सम्बन्धः ।
अत्र हेतुः--प्राणेत्यादि ।
इतीति हेतौ ।
निसर्गचञ्चलमितीति ।
निसर्गचञ्चलत्वाद्धेतोरित्यर्थः ।
स्वभावस्यापरिहार्यत्वादिति भावः ।
वाणिजकेति ।
अस्माकं गृहे कुतस्सन्ति? न सन्तीत्यर्थः ।
अत्र कार्यान्तरव्यग्रतां हेतुत्वेन दर्शयन्नाह---यावदित्यादि ।
यावत् यतः ।

लुलितेति ।
लुलिताः इतस्ततो विकीर्णा अलका यत्र तथाविधं मुखं यस्यास्सा ।
स्नुषा पुत्रभार्या ।
परिष्वक्कत इति ।
अतस्तत्परिपालनव्यग्रा वयमिति भावः ।
स्वत इत्यादि ।
स्वतस्सम्भावितं लोके ऽप्यौचित्यात्सम्भाव्यमानं शरीरं य्सय तथाविधस्यार्थस्य शक्त्या सामर्थ्येनेत्यर्थः ।
लोचने ऽपरिष्वक्कतऽ इत्यस्य व्याख्यानम्---सविभ्रमं चङ्क्रम्यत इति ।
व्यङ्ग्यस्य वाच्यसिद्ध्यङ्गत्वशङ्का परिहरति--अत्रेत्यादि ।
लुलितेतीति ।
इत्यादिकमित्यर्थः ।
स्वरूपेत्यादि ।
स्वरूपकथनमित्यर्थः ।
अवलप्ततयेति ।
धनित्वाद्यभिमानेनेत्यर्थः ।
चकारस्सम्भवतो हेत्वन्तरस्य समुच्चायकः ।
हस्तीत्यादि ।
तस्यैव वाक्यप्रकाशता यथा---
सिहिपिञ्छकण्णऊरा बहुआ वाहस्स गव्विरी भमै ।
मुत्ताफलरैअपसाहणाणं मज्झे सवत्तीणम् ॥
अनेनापि वाक्येन व्याधवध्वा शिखिपिच्छकर्णपूराया नवपरिणीतायाः कस्याश्चित्सौभाग्यातिशयः प्रकाश्यते ।
तत्सम्भोगैकरथो मयूरमात्रमारणसमर्थः पतिर्जातं इत्यर्थप्रकाशनात् तदन्यासां चिरपरिणीतानां मुक्ताफलरचितप्रसाधनानां दौर्भाग्यातिशयः ख्याप्यते ।
तत्सम्भोगकाले स एव व्याधः करिवरवधव्यापारसमर्थ आसीदित्यर्थप्रकाशनात् ।
ननु ध्वनिः काव्यविशेष इत्युक्तं कत्कथं तस्य पदप्रकाशता ।
काव्यविशेषो हि विशिष्टार्थप्रतिपत्तिहेतुः शब्दसन्दर्भविशेषः ।
तद्भावश्च पदप्रकाशत्वे नोपपद्यते ।
पदानां स्मारकत्वेनावाचकत्वात् ।
उच्यते--
स्यादेष दोषः लोचनम् सिहिपिच्छेति ।
पूर्वमेव योजिता गाथा ।
नन्विति ।
समुदाय एव ध्वनिरित्यत्र पक्षे चोद्यमेतत् ।
तद्भावश्चेति ।
काव्यविशेषत्वमित्यर्थः ।
अवाचकत्वादिति यदुक्तं सो ऽयमप्रयोजको हेतुरिति छलेन तावद्दर्शयति--स्यादेष दोष इति ।
एवं छलेन परिहृत्य बालप्रिया हस्तिदन्तादेरपाहरणमनाहरणं दन्ताद्यनाहरणमिति च पाठः ।
स्नुषाभर्तुरिति शेषः ।
समुदाय इति ।
वाचकवाच्यव्यङ्ग्यादिसमुदाय इत्यर्थः ।
इत्यत्र पक्ष इति ।

ऽअववक्षितवाच्यस्येऽत्यादिकारिकायां समुदायस्यैव ध्वनिपदार्थवादत्र पक्ष एव चोद्यस्योपपत्तेश्चेति भावः ।
वृत्तौ ऽनन्विऽत्यादि ।
ऽइत्युक्तम्ऽ इति ।
ऽयत्रार्थश्शब्दो वेऽत्यादिनेति भावः ।
ऽतत्ऽ तस्मात् ।
चोद्यमुपपादयति---ऽकाव्यविशेषो हीऽत्यादि ।
ऽविशिष्टेऽति ।
वाच्यव्यङ्ग्यभेदेन द्विविधो यो विशिष्टार्थः तत्प्रतिपत्तिहेतुरित्यर्थः ।
ऽशब्देऽत्यादि ।
सङ्घटितपदविशेष इत्यर्थः ।
विशिष्टार्थस्तत्प्रतिपादको वाक्यविशेषश्चेति यावत् ।
ततः किमत आह--ऽतद्भावश्चेऽत्यादि ।
ऽपदप्रकाशत्वेऽ पदप्रकाश्यत्वे सति ।
ऽनोपपद्यतेऽ न सङ्गच्छते ।
तद्भावः पदप्रकाशत्वेन सह विरुद्ध इत्यर्थः ।
कुत इत्यत्राह---ऽपदानाम्ऽ इत्यादि ।
ऽअवाचकत्वात्ऽ अनुभावक्तवाभावात् ।
तदैस्तत्तदर्थाः स्मार्यन्ते, स्मृतास्ते त्वाकाङ्गक्षादसहकृता वाक्यार्थमनुभावयन्तीति मते पदस्मारितत्वरूपं पदप्रकाशत्वं तत्तदर्थ एव वर्तते ।
तत्र च काव्यविशेषत्वरूपं ध्वनित्वन्नास्तीत्यतो ध्वनेः न पदप्रकाशत्वं, किन्तु वाक्यप्रकाशत्वमेव सम्भवतीति भावः ।
अनेन ग्रन्थेन पदन्न ध्वनिप्रकाशकमवाचकत्वादित्यर्थः फलित इत्यभिप्रेत्य ऽस्यादेषदोषऽ इत्यादिसमाधानग्रन्थमवतारयति लोचने---अवाचकत्वादित्यादि ।
अप्रयोजक इति ।
यदि वाचकत्वं प्रयोजकं ध्वनिव्यवहारे स्यात् ।
न त्वेवम् ; तस्य व्यञ्जकत्वेन व्यवस्थानात् ।
किं च काव्यानां शरीराणामिव संस्थानवशेषावच्छिन्नसमुदायसाध्यापि चारुत्वप्रतीतिरन्वयव्यतिरेकाभ्यां भागेषु कल्प्यत इति पदानामपि व्यञ्जकत्वमुखेन व्यवस्थितो ध्वनिव्यवहारो न विरोधि ।
लोचनम् वस्तुवृत्तेनापि परिहरति---किं चेति ।
यदि परो ब्रूयात्---न मया अवाचकत्वं ध्वन्यभावे हेतूकृतं किं तूक्तं काव्यं ध्वनिः ।
काव्यं चानाकाङ्क्षप्रतिपत्तिकारि वाक्यं न पदमिति तत्राह--सत्यमेवं, तथापि पदं न ध्वनिरित्यस्माभिरुक्तम् ।
अपि तु समुदाय एव ; तथा च पदप्रकाशो ध्वनिरिति प्रकाशपदेनोक्तम्. ननु पदस्य तत्र तथाविथं सामर्थ्यमिति कुतो ऽखण्ड एव प्रतीतिक्रम इत्याशङ्क्याह--काव्यानामिति ।
उक्तं हि प्राग्विवेककाले विभागोपदेश इति ।
ननु भागेषु पदरूपेषु कथं सा चारुत्वप्रतीतिरारोपयितुं शक्या? तानि हि स्मारकाण्येव ।
ततः किम्? मनोहारिव्यङ्ग्यार्थस्मारकत्वाद्धि चारुत्वप्रतीतिनिबन्धनत्वं केन बालप्रिया असाधक इत्यर्थः ।
छलेन व्याजेन वक्ष्यमाणाभिप्रायाप्रकटनेनेति यावत् ।
तावत् आदौ ।
वस्तुवृत्तेनापीति ।
पारमार्थिकाभिप्रेतार्थप्रकटनेनापीत्यर्थः ।
ननु वस्तुवृत्तेन परिहारः किमर्थ इत्यतः काव्यानामित्यादिग्रन्थमवतारयिष्यन् भूमिकामाह--यदि पर इत्यादि ।
ध्वन्यभावे ध्वनिप्रकाशकत्वाभावे ।
पदानामिति शेषः ।
हेतूकृतं हेतुत्वेनोक्तम् ।
किन्त्वित्यादि ।

काव्यविशेषो ध्वनिः काव्यञ्च तथाविधं वाक्यमिति वाक्यमेव ध्वनिः, पदन्तु न ध्वनिरित्यर्थः ।
तथाच पदे ध्वन्यभावे अवाक्यत्वं हेतुरिति भावः ।
इति ब्रूयादिति सम्बन्धः ।
आहेति ।
सिद्धान्तीति शेषः ।
तथापीत्यन्तमभ्युपगमे ।
न उक्तमिति सम्बन्धः ।
समुदाय एवेति ।
ध्वनिरित्युक्तमित्यनुषङ्गः ।
अत्रोपष्टम्भकमाह---तथाचेत्यादि ।
तत्रेति ।
वाक्य इत्यर्थः ।
तथाविधं ध्वनिप्रकाशनानुकूलम् ।
इति कुत इत्येतत्कथं घटते ।
अत्र हेतुः--
अखएड इत्यादि ।
भागेषु कल्प्यत इत्यत्रोपष्टम्भकमाह---उक्तं हीत्यादि ।
वृत्तौ ऽकाव्यानाम्ऽ इत्यस्य ऽचारुत्वेऽत्यनेन सम्बन्धः ।
ऽसंस्थानेऽति ।
संस्थानविशेषैः शब्दसन्दर्भविशेषैः मुखाद्यवयवसंयोगविशेषैश्च अवच्छिन्नो विशिष्टो यस्समुदायस्तत्साध्यापीत्यर्थः ।
तथाच प्रतीयमानं चारुत्वं समुदायनिष्ठमिति भावः ।
ऽभागेषुऽ पदेषुमुखादिषु च ।
ऽकल्प्यतऽ इति ।
प्राधान्यादिति भावः ।
इतीति हेतौ ।
ऽव्यञ्जकत्वमुखेनऽ व्यञ्जकत्वप्राधान्येन ।
ऽध्वनिव्यवहारःऽ पदप्रकाशो ध्वनिरिति व्यवहारः ।
ऽअनिष्टस्येऽत्यादिग्रन्थमवतारयति लोचने--नन्वित्यादि ।
स्मारकाण्येवेत्यन्तः ऽअनिष्टस्य श्रुतिर्यद्वदापादयति दुष्टताम् ।
श्रुतिदुष्टाविषु व्यक्तं तद्वादिष्टस्मृतिर्गुणम् ॥
पदानां स्मारकत्वे ऽपि पदमात्रावभासिनः ।
तेन ध्वनेः प्रभेदेषु सर्वष्वेवास्ति रम्यता ॥
विच्छित्तिशोभिनैकेन भूषणेनेव कामिनी ।
पदद्योत्येन सुकवेर्ध्वनिनी भाति भारती ॥
ऽ इति परिकरश्लोकाः
यस् त्व् अलक्ष्य-क्रम-व्यङ्ग्यो ध्वनिर् वर्ण-पदादिषु ।
वाक्ये सङ्घटनायां च स प्रबन्धे ऽपि दीप्यते
यस्त्वलक्ष्यक्रमव्यङ्ग्यो ध्वनिर्वर्णपदादिषु ।
वाक्ये सङ्घटनायां च स प्रबन्धे ऽपि दीप्यते ॥ 2 ॥
लोचनम् वार्यते ।

यथा श्रुतिदुष्टानां पेलवादिपदानामसभ्यपेलाद्यर्थं प्रति न वाचकत्वम् ।
अपि तु स्मारकत्वम् ।
तद्वशाच्च चारुस्वरूपं काव्यं श्रुतिदुष्टम् ।
तच्च श्रुतिदुष्टत्वमन्वयव्यतिरेकाभ्यां भागेषु व्यवस्थाप्यते तथा प्रकृते ऽपीति तदाह--अनिष्टस्येति ।
अनिष्टार्थस्मारकस्येत्यर्थः ।
दुष्टतामित्यचारुत्वम् ।
गुणमिति चारुत्वम् ।
एवं दृष्टान्तमभिधाय पादत्रयेण तुर्येण दार्ष्टान्तिकार्थ उक्तः ।
अधुनोपसंहरति---पदानामिति ।
यत एव मिष्टस्मृतिश्चारुत्वमावैति तेन हेतुना सर्वेषु प्रकारेषु निरूपितस्य पदमात्रावभासिनो ऽपि पदप्रकाशस्यापि ध्वने रम्यतास्ति स्मारकत्वे ऽपि पदानामिति समन्वयः ।
अपिशब्दः काकाक्षिन्यायेनोभयत्रापि सम्बध्यते ।
अधुना चारुत्वप्रतीतौ पदस्यान्वयव्यतिरेकौ दर्शयति---विच्छित्तीति ॥ 1 ॥
एवं कारिकां व्याख्याय तदसङ्गृहीतमलक्ष्यक्रमव्यङ्ग्यं प्रपञ्चयितुमाह--यस्त्विति ।
तुशब्दः पूर्वभेदेभ्यो ऽस्य विशेषद्योतकः ।
वर्णसमुदायश्च पदम् ।
तत्समुदायो वाक्यम् ।
सङ्घटना पदगता वाक्यगता च ।
सङ्घटितवाक्यसमुदायः प्रबन्धः बालप्रिया शङ्काग्रन्थः ।
ततः किमित्मादिर्वक्ष्यमाणार्थकः परिहारग्रन्थः ।
पेलवादिपदानामिति ।
ऽअतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शठऽ इत्यादौ पेलवादिशब्दानामित्यर्थः ।
असभ्येति ।
असभ्यो यः पेलाद्यर्थः पेलादिशब्दार्थस्तं प्रतीत्यर्थः ।
पेलशब्दो हि लाटभाषायां वृषणवाचकः ।
नवाचकत्वमिति ।
तदर्थस्य तद्वाक्यार्थघटकत्वाभावादिति भावः ।
पादत्रयेणाभिधायेति सम्बन्धः ।
ऽतेनेऽत पदस्य विवरणम्---यत इत्यादि ।
निरूपितस्येति पूरितम् ।
अपिशब्दः स्मारकत्वे ऽपीत्यपिशब्दः ॥ 2 ॥
तत्र वर्णानामनर्थकत्वाद्द्योतकत्वमसम्भवीत्याशङ्क्येदमुच्यते--
शषौ सरेफ-संयोगो ढकारश् चापि भूयसा ।
विरोधिनः स्युः शृङ्गारे ते न वर्णा रस-च्युतः
त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा ।
तदा तं दीपयन्त्य् एव ते न वर्णा रस-च्युतः
शषौ सरेफसंयोगो ढकारश्चापि भूयसा ।
विरोधिनः स्युः शृङ्गारे तेन वर्णा रसच्युतः ॥ 3 ॥
त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा ।
तदा तं दीपयन्त्येव तेन वर्णा रसच्युतः ॥ 4 ॥
श्लोकद्वयेनान्वयव्यतिरेकाभ्यां वर्णानां द्योतकत्वं दर्शितं भवति ।

लोचनम् इत्यभिप्रायेण वर्णादीनां यथाक्रममुपादानम् ।
आदिशब्देन पदैकदेशपदद्वितयादीनां ग्रहणम् ।
सप्तम्या निमित्तत्वमुक्तम् ।
दोप्यते ऽवभासते सकलकाव्यावभासकतयेति पूर्ववत्काव्यविशेषत्वं समर्थितम् ॥ 2 ॥
भूयसेति प्रत्येकमभिसम्बध्यते ।
तेन शकारो भूयसेत्यादि व्याख्यातव्यम् ।
रेफप्रधानस्संयोगर्ः कर्ह्रर्द्र इत्यादि ।
विरोधिन इति ।
परुषा वृत्तिविरोधिनी शृङ्गारस्य ।
यतस्ते वर्णा भूयसा प्रयुज्यमाना न रसांश्च्योतन्ति स्रवन्ति ।
यदि वा तेन शृङ्गारविरोधित्वेन हेतुनावर्णाः शषादयो रसाच्छृङ्गाराच्च्यवन्ते तं न व्यञ्जयन्तीति व्यतिरेक उक्तः ।
अन्वयमाह--त एवत्विति ।
शादयः ।
तमिति बीभत्सादिकं रसम् ।
दीपयन्ति द्योतयन्ति ।
कारिकाद्वयं तात्पर्येण व्याचष्टे---श्लोकद्वयेनेति ।
यथासंख्यप्रसङ्गपरहारार्थं बालप्रिया आदिशब्देनेति ।
ऽपदादिष्विऽत्यादिपदेनेत्यर्थः ।
सप्तम्येति ।
पदादिष्वित्यादिस्थया सप्तम्येत्यर्थः ।
निमित्तत्वमुक्तमिति ।
न त्वधिकरणत्वमिति भावः ।
दीप्यत इत्यस्य विवरणम्---सकलकाव्यावभासकतयावभासत इति ।
अलक्ष्यक्रमस्तु यो ध्वनिः समुदायत्मकः काव्यविशेषः ।
सः वर्णादनिमित्तको दीप्यत इत्यर्थादयमर्थस्सिध्यतीति भावः ।
काव्यविशेषत्वमिति ।
ध्वनेरिति शेषः ॥ 2 ॥
प्रत्येकमिति ।
शषावित्यादिना प्रत्येकमित्यर्थः ।
भूयसेति ।
प्रयुज्यमानो विरोधीति शेषः ।
सारार्थमाह--परुषेति ।
तल्लक्षणमुक्तं भट्टेद्भटेन---"शषाभ्यां रेफसंयोगैः टवर्गेण च योजिता ।
परुषा नाम वृत्तिस्स्यादि"ति ।
रसश्च्युत इति पाठे ते न इति पदद्वयमित्याशयेन व्याचष्टे---ते वर्णा इत्यादि ।
ते वर्णाः शषादयः ।
रसं शृङ्गारम् ।
स्रवन्ति स्रावयन्ति ।
रसच्युत इति पाठे तु तेनेत्येकं पदमित्याह--यदि वेत्यादि ।
तेनेत्यस्य व्याख्यानम्---शृङ्गारेत्यादि, रसाच्च्यवन्त इत्यस्य तं न व्यञ्जयन्तीति च ।

इतीत्यादि ।
शषावित्यादिश्लोकेन शकारादिवर्णसत्वे शृङ्गाराव्यक्त्यभावरूपो व्यतरेकः प्रदर्शित इत्यर्थः ।
अन्वयमिति ।
शषादिसत्वे बीभत्सादिव्यक्तरूपमन्वयमित्यर्थः ।
ऽत एवेऽत्यादिकारिकायाश्चतुर्थपादे रसश्च्युत इति पदे चालक्ष्यक्रमव्यङ्ग्यस्य द्योतनं यथा--- उत्कम्पिनी भयपरस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती ।
क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि ॥
लोचनम् श्लोकाभ्यामिति न कृतम् ।
पूर्वश्लोकेन हि व्यतिरेक उक्तो द्वितीयेनान्वयः ।
अस्मिन्विषये शृङ्गारलक्षणे शषादिप्रयोगः सुकवित्वमभिवाञ्छता न कर्तव्य इत्येवंफलत्वादुपदेशस्य कारकाकारेण पूर्वं व्यतिरेक उक्तः ।
न च सर्वथा न कर्तव्यो ऽपि तु बीभत्सादौ कर्तव्य एवेति पश्चादन्वयः ।
वृत्तिकारेण त्वन्वयपूर्वको व्यतिरेक इति शैलीमनुसर्तुमन्वयः पूर्वमुपात्तः ।
एतदुक्तं भवति---यद्यपि विभावानुभावव्यभिचारिप्रतीतिसम्पदेव रसाखादे निबन्धनम् ।
तथापि विशिष्टक्षुतिकशब्दसमर्थ्यमाणास्ते विभावादयस्तथा भवन्तीति स्वसंवित्सिद्धमदः ।
तेन वर्णानामपि श्रुतिसमयोपलक्ष्यमाणार्थानपेक्ष्यपि श्रोत्रैकग्राह्यो मृदुपरुषात्मा बालप्रिया पाठे तेनेत्येकं पदं, रसच्युत इति पाठे तु ते नेति तदद्वयमिति बोध्यम् ।
यथा संख्येत्यादि ।
श्लोकाभायामिति निर्देशे द्वाभ्यां श्लोकाभ्यां प्रतपादितौ यावन्वयव्यतिरेकौ ताभ्यामित्यर्थस्य प्रतीत्या यथासङ्ख्यमन्वयस्य प्रसक्तिर्भवती, श्लोकद्वयेनेति निर्देशे तु श्लोकात्मकद्व्यवयवघटितसमुदायेन प्रतिपादितौ यावन्वयव्यतिरेकौ ताभ्यामित्यर्थस्य प्रतीत्या यथासङ्ख्यमन्वयस्य प्रसक्तिर्भवति, श्लेकद्वयेनेति निर्देशे तु श्लोकात्मकद्व्यवयवघटितसमुदायेन प्रतिपादितौ यावन्वयव्यतिरेकौ ताभ्यामित्यर्थस्य प्रतीत्यान तत्प्रसक्तिरिति भावः ।
नन्वत्र यथासङ्ख्यमस्त्वित्यत्राह--पूर्वेत्यादि ।
कारिकायामादौ व्यतिरेकप्रदर्शनस्य बूजमाह---अस्मिन्नित्यादि ।
तर्हि वृत्तावन्यथा कथने किं बीजमित्यत्राह---वृत्तीत्यादि ।
विभावादीनामेव रस्वयञ्जकत्वाद्वर्णादीनान्तात् कथमित्यशङ्कां प्रदर्श्य परिहरति---एतदित्यादि ।
विशिष्टेति ।
विशिष्टा उपनागरकादिवृत्तिविशिष्टा तद्विषयिकेति यावत् ।
श्रुतिः श्रवणं येषान्तैः शब्दैः समर्प्यमाणा इत्यर्थः ।
तथेति ।
रसास्वादनिबन्धनानीत्यर्थः ।
वर्णानामपीति ।
ऽस्वभावऽ इत्यनेनास्य सम्बन्धः ।
श्रुतीति ।
अत्र हि ते इत्येतत्पदं रसमयत्वेन स्फुटमेवावभासते सहृदयानाम् ।
पदावयवेन द्योतनं यथा--- व्रिडायोगान्नतवदनया सन्नधाने गुरूणां बद्धोत्कम्पं कुचकलशयोर्मन्युमन्तर्निगृह्य ।
लोचनम् स्वभावो रसास्वादे सहकार्येव ।
अत एव च सहकारतामेवाभिधातुं निमित्तसप्तमी कृता वर्णपदादिष्विति ।
न तु वर्णरेव रसाभिव्यक्तिः, विभावादिसंयोगाद्धि रसनिष्पत्तिरित्युक्तं बहुशः ।
श्रोत्रैकग्राह्यो ऽपि च स्वभावो रसनिष्यन्दे व्याप्रियत एव, अपदगीतध्वनिवत् पुष्करवाद्यनियमितविशिष्टजातिकरणघ्राद्यनुकरणशब्दवच्च ।
पदे चेति ।
पदे च सतीत्यर्थः ।
तेन रसप्रतीतर्विभावादेरेव ।
ते विभवादयो यदा विशिष्टेन केनापि पदेनार्प्यमामा रसचमत्कारविधायिनो भवन्ति तदा पदस्यैवासौ महिमा समर्प्यत इति भावः ।
अत्र हीति ।
वासवदत्तादाहाकर्णनप्रबुद्धशोकनिभरस्य वत्सराजस्येदं परिदेवितवचनम् ।

तत्र च शोको नामेष्टजनविनाशप्रभव इति तस्य जनस्य ये भ्रूक्षेपकटाक्षप्रभृतयः पूर्वं रतिविभावतामवलम्बन्ते स्म त एवात्यन्तविनष्टाः सन्त इदानीं स्मृतिगोचरतया निरपेक्षभावत्वप्राणं करुणमुद्दीपयन्तीति स्थितम् ।
ते लोचने इति तच्छब्दस्यल्लोचनगतस्वसंवेद्याव्यपदेश्यानन्तगुणगणस्मरणाकारद्योतको रसस्यासाधारणनिमित्ततां प्राप्तः ।
तेन यत्केनचिच्चोदितं परिहृतं च तन्मिथ्यैव ।
तथाहि चोद्यम्--प्रकान्तपरामर्शकस्य तच्छब्दस्य कथमियति सामर्थ्यमिति ।
उत्तरं च---रसाविष्टो ऽत्र पराम्रष्टेति ।
बालप्रिया श्रुतिसमये उपलक्ष्यमाणो ज्ञायमानो यो ऽर्थस्तदनपेक्ष्यपीत्यर्थः ।
मृदुपुरुषात्मेति ।
मृदुत्वपरुषत्वरूप इत्यर्थः ।
रसनिष्यन्दे व्याप्रियत इति ।
रसास्वादे सहकारीत्यर्थः ।
दृष्टान्तमाह--अपदेत्यादि ।
पदरहितगानशब्दवदित्यर्थः ।
घ्रद्यनुहारेति च पाठः ।
पदे च सतीति ।
पदविशेषसत्वनिमि कञ्चेत्यर्थः ।
अस्य भावमाह---तेनेत्यादि ।
ते रसास्वादहेतवः ।
तस्य जनस्येति ।
वासवदत्तात्मकेष्टजनस्येत्यर्थः ।
इति स्थितमिति ।
इति वस्तुस्थितिरित्यर्थः ।
तच्छब्द इति अनुभूतार्थक इति भावः ।
स्पष्टमिदं काव्यप्रकाशादौ ।
तदित्यादि ।
वक्तृनायकगतं तथाविधगुणगणस्मरणं स्मरणविषयगुणगणं वा द्योतयतीत्यर्थः ।
प्राप्त इति ।
तत्स्मरणस्य शोकोद्दीपकत्वादिति भावः ।
तेनेत ।
यतो ऽत्र तच्छब्दो ऽनुभूतार्थकः स्मरणाकारद्योतकश्च तत इत्यर्थः ।
अनुत्थानोपहितमित्यनेनास्य सम्बन्धः ।
मथ्यैव परिहृतमित्यन्वयः ।
इयतीति उक्तार्थबोदन इत्यर्थः ।
रसाविष्ट इत्यादि ।
तल्लोचनगततथाविधगुणगणं बुद्धौ कृत्वा रसाविष्टेन वक्त्रा ते इत्युक्तम्, स एवार्थः प्रतिपत्त्रापि परामृश्यत इति भावः ।
पराम्रष्टा लोचनम् तदुभयमनुत्थानोपहतम् ।
यत्र ह्यनुद्दिश्यमानधर्मान्तरसाहित्ययोग्यधर्मयोगित्वं वस्तुनो यच्छब्देनाभिधाय तद्बुद्धिस्थधर्मान्तरसाहित्यं तच्छब्देन निर्वाच्यते ।
तत्रोच्यते--ऽयत्तदोर्नित्यसम्बन्धत्वंऽ इति, तत्र पूर्वप्रक्रान्तपरामर्शकत्वं तच्छब्दस्य ।
यत्र पुनर्निमित्तोपनतस्मरणविशेषाकारसूचकत्वं तच्छब्दस्य ऽस घटऽ इत्यादौ यथा, तत्र का परामर्शकत्वकथेत्यास्तामलीकपरामर्शकैः पण्डितम्मन्यैः सह विवादेन ।
उत्कम्पिनीत्यादिना तदीयभयानुभावोत्प्रेक्षणम् ।
मयानिर्वाहितप्रतीकारमिति शोकावेशस्य विभावः ।

ते इति सातिशयविभ्रमैकायतनरूपे अप लोचने विधुरे कान्दिशीकतया निर्लक्षे क्षिपन्ती कस्त्राता क्वासावार्यपुत्र इति तयोर्लोचनयोस्तादृशीचावस्थेति सुतरां शोकोद्दीपनम् ।
क्रूरेणेति ।
तस्यायं स्वभाव एव ।
किं कुरुतां तथापि च धूमेनान्धीकृतो द्रष्टुमसमर्थ इति न तु सविवेकस्येदृशानुचितकारित्वं सम्भाव्यते, इति स्मर्यमाणं तदीयं सौन्दर्यमिदानीं सातिशयशोकावेशविभावतां प्राप्तमिति ।
ते शब्दे सति सर्वो ऽयमर्थो निर्वयूढः ।
एवं तत्र तत्र व्याख्यातव्यम् ।
बालप्रिया परामर्शकर्ता ।
यत्र हीत्यादि ।
यत्र यो विद्वान् स पूज्य इत्यादौ ।
अनूद्दिश्यमानेति अनूदेक्ष्यमाणेति च पाठः ।
तथाविधं यद्धर्मान्तरं पूज्यत्वादिकं तत्साहित्यस्य योग्यः प्रयोजको यो धर्मो विद्वत्त्वादिः तद्योगित्वं तत्सम्बन्ध इत्यर्थः ।
यच्छब्देन यच्छब्दघटितवाक्येन ।
तदिति ।
तद्बुद्धिस्थञ्च यद्धर्मान्तरं विद्धत्त्वादकं तस्य साहित्यं सम्बन्ध इत्यर्थः ।
निर्वाच्यते बोध्यते ।
तत्र पूर्वप्रक्रान्तपरामर्शकत्वमिति सम्बन्धः ।
मध्ये संवादकथनम्---यत्रोच्यत इत्यादि ।
तत्रेति ।
यो विद्वान् स पूज्य इत्यादावित्यर्थः ।
पूर्वेति ।
पूर्वोक्तविद्वत्त्वादिधर्मविशष्टोपस्थापकत्वरूपं पूर्वपक्रान्तपरामर्शकत्वमित्यर्थः ।
इदमुपलक्षणं ऽतदन्वये शुद्धिमतीऽ त्यादावपि तद्बोध्यम्. यत्रेति ।
ऽते लोचनेऽ इत्यादावित्यर्थः ।
स इत्यादिदृष्टन्तकथनम् ।
का परामर्शकत्वकथेति ।
पूर्वप्रकान्तपरामर्शकत्वप्रसङ्ग एव नास्तीत्यर्थः ।
उत्कम्पिनीत्यादिनेति ।
तदुक्त्या गम्यमिति भावः ।
तदीयेति ।
तदीयानां वासवदत्तासम्बन्धिनां भयानुभावानामुत्कम्पादीनामुत्प्रेक्षणमनुमानमित्यर्थः ।
ऽविभावऽ इत्यनेनास्य सम्बन्धः ।
शोकावेशप्रकारकथनम्--मयेत्यादि ।
अनिर्वाहितः अकृतः प्रतीकारो यस्य तत् ।
भयमिति शेषः ।
इति इतिमत्या ।
विभावः उद्दीपनम् ।
तच्छब्दद्योत्यार्थकथनं सातिशयेत्यादि ।
कान्दिशीकतया भयातशयेन ।
इति इति बुद्ध्या ।
क्षिपन्तीति सम्बन्धः ।

क्रूरेणेति तीक्ष्णेनेति च पाठः ।
तस्यायं स्वभाव इति ।
दाहकत्वादिः क्रूरस्वभाव इत्यर्थः ।
क्रूरत्वे ऽपि न तन्मात्रेण दग्धा,किन्तु हेत्वन्तरेणापीत्याह--तथेत्यादि ।
धूमान्धितेनेति दहनस्य विशेषणं, तच्च हेतुगर्भमिति भावः ।
उपसंहरति---इतीत्यादि ।
ते शब्दे सतीत्यादि ।
ते इति तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं मथ्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः ॥
इत्यत्र त्रिभागशब्दः ।
वाक्यरूपश्चालक्ष्यक्रमव्यङ्ग्यो ध्वनिः शुद्धो ऽलङ्कारसङ्कीर्णश्चेति द्विधा मतः ।
तत्र शुद्धस्योदाहरमं यथा रामाभ्युदये---ऽकृतककुपितैःऽ इत्यादि लोचनम् त्रिभागशब्द इति ।
गुरुजनमवधीर्यापि सा मां यता तथापि साभिलाषमन्युदैन्यगर्वमन्थरं विलोकितवतीत्येवं स्मरणेन परस्परहेतुकत्वप्राणप्रवासविप्रलम्भोद्दीपनं त्रिभागशब्दसन्निधौ स्फुटं भातीति ।
वाक्यरूपश्चेति ।
प्रथमानिर्देशेनाव्यतिरेकनिर्देशस्यायमभिप्रायः ।
वर्णपदतद्भागादिषु सत्स्वेवालक्ष्यक्रमो व्यङ्ग्यो निर्भासमानो ऽपि समस्तकाव्यव्यापक एव निर्भासते, विभावादिसंयोगप्राणत्वात् ।
तेन वर्णादीनां निमित्तत्वमात्रमेव, वाक्यं तु ध्वनेरलक्ष्यक्रमस्य न निमित्ततामात्रेण वर्णादिवदुपकारि, किं तु समग्रविभावादप्रतिपत्तिव्यापृतत्वाद्रसादिमयमेव तन्निर्भासत इति ऽवाक्यऽ इत्येतत्कारिकायां बालप्रिया पदस्यैवात्र प्राधान्यमिति भावः ।
वृत्तौ ऽझटिति कनकेऽत्याद्युदाहरणान्तरं प्रक्षिप्तमत एव न विवृतं लोचने ।
प्रवासोद्यतमात्मानं गुरुजनसन्निधाने दृष्टवत्याः प्रयाया दर्शनप्रकारं कश्चित् स्ययं परामृशति ; यद्वा--स्निग्धं प्रति कथयति--व्रीजायोगादिति ।
गुरूणां पित्रादीनाम् ।
कुचकलशयोः बद्धः कृत उत्कम्पः येन तम् ।
मन्युं प्रवासनिरोधे ऽपि तदुद्यमाज्जतं कोपम् ।
त्वं तिष्टेति मां प्रति न उक्तं किमिव, उक्तमेव ।
यद्यतः तया बाष्पं समुत्सृज्य चकितहरिणोव चकितहरिणीनेत्रमिव हारि, यद्वा--चकितहरिण्या हारि यन्नेत्रं तस्य त्रिभागः तृतीयो भागः ।
चकितहरिणीहारीति भिन्नं पदमासञ्जनक्रयावशेषणमिति वा ।
मयि आसक्त आसञ्जिन इत्यन्वयः ।
त्रिभागशब्दस्य व्यञ्जकत्वं विवृणोति--गुरुजनमित्यादि ।
साभिलाषेति ।
अभिलाषादयो भावा नेत्रे प्रकाशिता इतिभावः ।
स्मरणेनेति ।
स्मरणमात्रगम्यम् ।
परस्परहेतुकत्वेति ।
परस्परास्थाबन्धहेतुकत्वेत्यर्थः ।
प्रथमेति ।
वाक्यरूपो ध्वनिरिति प्रथमान्तनिर्देशेनेत्यर्थः ।
अव्यतिरेकनिर्देशस्य अभेदबोधनस्य ।
अयं वाक्यन्त्वित्यादिना वक्ष्यमाणः ।
सत्स्वेव निर्भासमानो ऽपीति सम्बन्धः ।
यद्यपि वर्णपदादप्रयुक्तमेव निर्भासनन्तथापीत्यर्थः ।
तेनेति ।
विभावादिसंयोगप्राणत्वेन निर्भासनादित्यर्थः ।

वर्णादिवदिति वैधर्येण दृष्टान्तः ।
समग्रेति ।
समग्रविभावादिप्रतिपादकत्वादित्यर्थः ।
तत् वाक्यम् ।
इतीति हेतौ ।
वाक्य इत्यादि ।
कारिकास्थं वाक्ये इत्येतदत्यर्थः ।
शलोकः ।
एतद्धि वाक्यं परस्परानुरागं परिपोषप्राप्तं प्रदर्शयत्सर्वत एव परं रसतत्त्वं प्रकाशयति ।
अलङ्कारान्तरसङ्कीर्णो यथा---ऽस्मरनवनदीपूरेणोढाःऽ इत्यादिश्लोकः ।
लोचनम् रिकायां न निमित्तसप्तमीमात्रम्, अपि त्वनन्यत्र भावविषयार्थमपीति ।
शुद्ध इत्यर्थालङ्कारेण केनाप्यसंमिश्रः ।
कृतककुपितैबाष्पाम्भोभिः सदैन्यविलोकितैर्- वनमपि गता यस्य प्रीत्या धृतापि तथाम्बया ।
नवजलधरश्यामाः पश्यन्दिशो भवतीं विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः ॥
अत्र तथा तैस्तैः प्रकारैर्मात्रा धृतापीत्यनुरागपरवशत्वेन गुरुवचनोल्लङ्घनमपि त्वया कृतमिति ।
प्रिये प्रिय इति परस्परजीवितसर्वस्वाभिमानात्मको रतिस्थायिभाव उक्तः ।
नवजलधरेत्यसोढपूर्वप्रावृषेण्यजलदालोकनं विप्रलम्भोद्दीपनविभावत्वेनोक्तम् ।
जीवत्येवेति सापेक्षभावता एवकारेण करुणावकाशनिराकरणायोक्ता ।
सर्वत एवेति ।
नात्रान्यतमस्य पदस्याधिकं क्रिञ्चद्रसव्यक्तिहेतुत्वमित्यर्थः ।
रसतत्त्वमिति ।
विप्रलम्भशृङ्गारात्मतत्वम् ।
स्मरनवनदीपूरेणोढाः पुनर्गुरुसेतुभिर्- यदपि विधृताः तिष्ठन्त्यारादपूर्णमनोरथाः ।
तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥
बालप्रिया नेत्यादी ।
तत्सप्तम्यर्थो निमित्तमात्रं नेति यावात् ।
अनन्यत्रेति ।
अनन्यत्रभावः तदन्यत्र सम्भवाभावः, तद्रूपो यो विषयस्य अर्थो यस्य तत् ।
वाक्य इति सप्तम्यर्थो विषयश्चेत्यर्थः ।
कृतकेति ।
तृतीयान्तानां धृतातीत्यनेनान्वयः ।
यस्य प्रीत्या यस्मिन् मयि प्रेम्णा ।
धृता उपरुद्धा ।
व्याचष्टे--अत्रेत्यादि ।
कृतमितीति ।
व्यज्यत इति शेषः ।
प्रिये प्रिय इतीति ।
इत्याभ्यामित्यर्थः ।
उक्तः व्यञ्जितः ।
नवजलधरतीति ।

इत्यनेनेत्यर्थः ।
जीवत्येवेत्येवकारेण सापेक्षभावतोक्तेत्यन्वयः ।
स्मरेति ।
विधृतास्तिष्ठन्त्यारादपूर्णेति च पाठः ।
प्रावृषेण्यः प्रावृषिभवः ।
प्रवाहत्वारोपे गम्यं साधर्म्यमाह---सरभसेत्यादि ।
ऊढा इत्यनेनात्र विवक्षित माह---परस्परेत्यादि ।
पुनरित्यस्य विवरणमनन्तरमिति, गुरुपदेनार्थान्तरञ्ज अत्र हि रूपकेण यथोक्तव्यञ्जकलक्षणानुगतेन प्रसाधितो रसः सुतरामभिव्यज्यते ।
अलक्ष्यक्रमव्यङ्ग्यः सङ्घटनायां भासते ध्वनिरित्युक्तं तत्र सङ्घटनास्वरूपमेव तावन्निरूप्येते---
असमासा समासेन मध्यमेन च भूषिता ।
तथा दीर्घ-समासेति त्रिधा सङ्घटनोदिता
असमासा समासेन मध्यमेन च भूषिता ।
तथा दीर्घसमासेति त्रिधा सङ्घटनोदिता ॥ 5 ॥
कैश्चित् ।
लोचनम् रूपकेणेति ।
स्मर एव नवनदीपूरः प्रावृषेण्यप्रवाहः सरभसमेव प्रवृद्धत्वात् तेनोढाः परस्परसांमुख्यमबुद्धिपूर्वमेव नीताः ।
अनन्तरं गुरवः श्वश्रूप्रभृतय एव सेतवः, इच्छाप्रसररोधकत्वात् ।
अत च गुरवो ऽलङ्ध्याः सेतवस्तैः विधृताः प्रतिहतेच्छाः ।
अत एवापूर्णमनोरथास्तिष्ठन्ति ।
तथापि परस्परोन्मुखतालक्षणेनान्योन्यतादात्म्येन स्वदेहे सकलवृत्तिनिरोधाल्लिखितप्रायैरङ्गैर्नयनान्येव नलिनीनालानि तैरानीतं रसं परस्पराभिलाषलक्षणमास्वादयन्ति परस्पराभिलाषात्मकदृष्टिच्छटामिश्रीकारयुक्त्यापि कालमतिवाहयन्तीति ।
ननु नात्र रूपकं निर्वयूढं हंसचक्रवाकादिरूपेण नायकयुगलस्यारूपितत्वात् ।
ते हि हंसाद्या एकनलिनीनालानीतसलिलपानक्रीडादिषूचिता इत्याशङ्क्याह---यथोक्तव्यञ्जकेति ।
उक्तं हि पूर्वम्--ऽविवक्षातत्परत्वेनऽ इत्यादौ ऽनातिनिर्वहणैषिताऽ इति ।
प्रसाधित इति ।
विभावादिभूषणद्वारेण रसो ऽपि प्रसाधित इत्यर्थः ॥ 3.॥
,4 ॥
सङ्घटनायामिति बावे प्रत्ययः, वर्णादिवच्च निमित्तमात्रे सप्तमी ।
उक्तमिति ।
कारिकायाम् ।
निरूप्यत इति ।
गुणेभ्यो विविक्ततया विचार्यत इति यावत् ।
रसानिति बालप्रिया विवक्षितमित्याह---अथ चेत्यादि ।
तदपीत्यस्य विवरणम्--तथापीति ।
परस्परमुन्मुखा इत्येतल्लिखितप्रख्यैरित्यस्योपपादकमित्याह---परस्परेत्यादि ।
गम्यं साधर्म्यं दर्शयति--स्वदेह इत्यादि ।
वृत्तीति ।
चेष्टेत्यर्थः ।
अङ्गैरित्युपलक्षणे तृतीया ।
रसमित्यादि ।
परस्पराभिलाषरूपं जलमित्यर्थः ।

तात्पर्यमाह---परस्परेति ।
परस्पराभिलाषात्मकानां परस्पराभिलाषं प्रकाशयन्तीनां दृष्टिच्छटानां यो मिश्रीकारस्तस्य युक्त्या योजनयेत्यर्थः ।
प्रिया इत्यत्र हंसचक्रवाकेत्यत्राप्येकशेषो बोध्यः ।
अरूपितत्वादिति ।
अरूपणादित्यर्थः ।
तथा रूपणे युक्तिमाह--तेहीत्यादि ।
नन्वत्र कथं रूपकेण रसस्यालङ्कृतत्वमित्यत आह--विभावादीत्यादि ॥ 3.॥
,4 ॥
भावे प्रत्यय इति ।
भावरूपार्थे युच् प्रत्यय इत्यर्थः ।
सप्ततमीति ।
सङ्घटनायामित्यत्र सप्तमीत्यर्थः ।
तां केवलमनद्येदमुच्यते--
गुणान् आश्रित्य तिष्ठन्ती माधुर्यादीन् व्यनक्ति सा ।
रसान् . . . . . . . . . . . . . . .
गुणानाश्रित्य तिष्ठन्ती मादुर्यादीन्व्यनक्ति सा ।
रसान्--- सा सङ्घटना रसादीन् व्यनक्ति गुणानाश्रित्य तिष्ठन्तीति ।
अत्र च विकल्प्यं गुणानां सङ्घटनायाश्चैक्यं व्यतिरेको वा ।
व्यतिरेके ऽपि द्वयीगतिः ।
गुणाश्रया सङ्घटना, सङ्घटनाश्रया वा गुणा इति ।
तत्रैक्यपक्षे सङ्घटनाश्रयगुणपक्षे च गुणानात्मभूतानादेयभूतान्वाश्रित्यतिष्ठन्ती सङ्घटना लोचनम् कारिकायां द्वितीयार्धस्याद्यं पदम्. ऽरसांस्तन्नियमे हेतुरौचित्यं वक्तृवाच्ययोःऽ इति कारिकार्धम् ।
बहुवचनेनाद्यर्थः सङ्गृहीत इति दर्शयति--रसादीनित ।
अत्र चेति ।
अस्मिन्नेव कारिकार्धे ।
विकल्पेनेदमर्थजातं कल्पयितुं व्याख्यातुं शक्यम् किं तदित्याह--गुणानामिति ।
त्रयः पक्षा ये सम्भाव्यन्ते ते व्याख्यातुं शक्याः ।
कथमित्याह--तत्रैक्यपक्ष इति ।
आत्मभूतानिति ।
स्वभावस्य कल्पनया प्रतपादनार्थं प्रदर्शितबेदस्य स्वाश्रयवाचोयुक्तिर्दृश्यते शिशपाश्रयं वृक्षत्वमिति ।
आधेयभूतानिति ।
सङ्घटनाया धर्मा गुणा इति भट्टोद्भटादयः, धर्माश्च धर्म्याश्रिता इति बालप्रिया कुत्रोक्तमित्यत आह---कारिकायामिति ।
सङ्घटनो दितेत्यत्र कर्तृपदं पूरयति वृत्तौ---ऽकैश्चिदिऽति ।
तामित्याद्यवतारिका ।
ऽरसानिऽत्यन्तः कारिकापाठ इति दर्शयति लोचने---रसानित्यादि ।
रसादीनित्यर्थः ।
कथं लब्ध इत्यत आह---बह्वित्यादि ।
बहुवचनेन रसानिति बहुवचनेन ।
अत्रेत्यस्य व्याख्यानम्---अस्मिन्नित्यादि ।
ऽविकल्प्यम्ऽ इत्येतत्प्रकृतानुरोधेन व्याचष्टे---विकल्पेनेत्यादि ।
इदं वक्ष्यमाणम् ।

शक्यमिति ।
विकल्प्यमित्यस्य विकल्पेन कल्प्यमिति विग्रह इति भावः ।
भावमाह--त्रय इत्यादि ।
वृत्तौ---ऽव्यतिरेको वेऽति ।
भेदो वेत्यर्थः ।
ऽद्वयी गतिऽरिति ।
द्वैविध्यमित्यर्थः ।
कथं द्वैविध्यमित्यत्राह--ऽगुणाश्रयेऽ त्यादि ।
सप्तम्यन्तपक्षपदयोरर्थ इत्यनेन सम्बन्धः ।
ऽआत्मभूतानिऽति ।
स्वाभिन्नानित्यर्थः ।
ऽआधेयभूतानिऽति ।
स्वनिष्ठानित्यर्थः ।
ऽइत्ययमर्थऽ इति ।
कारिकाया इति शेषः ।
गुमसङ्घटनयोरैक्यपक्षे "गुणानाश्रित्य तिष्ठन्ती"त्याधाराधेयभावेन निर्देशस्योपपत्तिन्दर्शयति लोचने---स्वभावस्येत्यादि ।
स्वभावस्य प्रतिपादनार्थं वस्तुस्वभावं प्रतिपादयितुम् ।
कल्पनया प्रदर्शितो भेदो यत्र तस्य ।
स्वाभिन्नस्यापि वस्तुनस्स्वस्माद्भेदं परिकल्प्येत्यर्थः ।
स्वाश्रयेति ।
स्वाश्रयत्वेन कथनमित्यर्थः ।
जातिव्यक्त्योरैक्यमतानुरोधेन दृष्टान्तमाह---शिंशपेत्यादि ।
इतीति ।
इत्यादीत्यर्थः ।
रसादीन् व्यनक्तीत्ययमर्थः ।
यदा तु नानात्वपक्षे गुमाश्रयसङ्घटनापक्षः तदा गुमानाश्रित्य तिष्ठन्ती गुमपरतन्त्रस्वभावा न तु गुणरूपैवेत्यर्थः ।
किं पुनरेवं विकल्पनस्य प्रयोजनमिति? अभिधीयते---यदि गुमाः सङ्घटाना चेत्येकं तत्त्वं सङ्घटनाश्रया वा गुणाः, तदा सङ्घटनाया इव गुमानामनियतविषयत्वप्रसङ्गः ।
गुणानां हि माधुर्यप्रसादप्रकर्षः करुणविप्रलम्भशृङ्गारविषय एव ।
रौद्राद्भुतादिविषयमोजः ।
माधुर्यप्रसादौ रसभावतदाभासविषयावेवेति विषयनियमो लोचनम् प्रसिद्धो मार्गः ।
गुमपरतन्त्रेति ।
अत्र नादाराधेयभाव आश्रयार्थः ।
न हि गुणेषु सङ्घटना तिष्ठतीति ।
तेन राजाश्रयः प्रकृतिवर्ग इत्यत्र यथा राजाश्रयौचित्येनामात्यादिप्रकृतय इत्ययमर्थः, एवं गुणेषु परतन्त्रस्वभावा तदायत्ता तन्मुखप्रेक्षिणी सङ्घटनेत्ययमर्थो लभ्यतैति भावः ।
सङ्घटनाया इवेति ।
प्रथमपक्षे तादात्म्येन समानयोगक्षेमत्वादितरत्र तु धर्मत्वेनेति भावः ।
भवत्वनियतविषयतेत्याशङ्क्याह---गुणानां हीति ।
हिशब्दस्तुशब्दार्थे ।
न त्वेवमुपपद्यते, आपद्यते तु न्यायबलादित्यर्थः ।
स बालप्रिया दृश्यत इत्यनेन सम्बन्धः, वृक्षत्वशिंशपयोरैक्ये ऽपि भेदकल्पनया शिंशपाया वृक्षत्वाश्रयत्वकथनं यथा, तथा प्रकृते ऽपीति भावः ।

आधेयभूतानित्यत्रोपष्टम्भकमाह---सङ्घटनाया इत्यादि ।
गुणपरतन्त्रस्वभावेति व्याख्याने बीजमाह---अत्रेत्यादि ।
आश्रयार्थः आश्रयशब्दार्थः ।
नेत्यत्र हेतुमाह---न हीत्यादि ।
तेनेति ।
आश्रयपदमुख्यार्थस्य बाधेनेत्यर्थः ।
लभ्यत इत्यनेनास्य सम्बन्धः ।
राजाश्रयौचित्येनेति ।
राजाश्रयशब्दार्थस्यान्वययोग्यत्वायेत्यर्थः ।
फलरूपहेतौ तृतीया ।
अस्यानन्तरं "राजपरतन्त्रा अमात्यादिप्रकृतय" इति पठनीयं , राजपरतन्त्रा इति पाठाभावे तत्पदमध्याहार्यम् ।
एवमिति ।
तथेत्यर्थः. गुणेषु परतन्त्रेत्यादेरेव विवरणम्--तदायत्तेति ।
वृत्तौ ऽकिम्ऽ इत्यादि चोद्यम् ।
ऽअभिधीयतऽ इत्याद्युत्तरम् ।
ऽएकं तत्वम्ऽ इति ।
एकः पदार्थ इत्यर्थः ।
सङ्घटनाया इवेत्यादिग्रन्थस्य भावमाह लोचने--प्रथमपक्ष इत्यादि ।
प्रथमपक्षे एकं तत्वमिति पक्षे ।
गुणसङ्घटनयोरिति शेषः ।
समानयोगक्षेमत्वात् तुल्यस्वभावत्वात् ।
इतरत्र सङ्घटनाश्रया गुणा इति पक्षे ।
धर्मत्वेन सङ्घटनाधर्मत्वेन ।
तुल्ययोगक्षेमत्वादित्यनुषङ्गः ।
अनियतविषयत्वप्रसङ्ग इत्येतद्विवृणोति---न त्वेवमित्यादि ।
एवमिति ।
अनियतविषयत्वमित्यर्थः ।
न तु उपपद्यत इति ।
गुणानां नियतविषयत्वस्य व्यवस्थितत्वादिति भावः ।
आपद्यते प्रसज्यते ।
इत्याशङ्क्याहेति ।
इतीष्टापत्तिं वारयतीत्यर्थः ।
तुशब्दार्थे अवधारणार्थे ।
व्यवस्थितः, सङ्घटनायास्तु स विघटते ।
तथा हि शृङ्गारे ऽपि दीर्घसमासा दृश्यते रौद्रादिष्वसमासा चेति ।
तत्र शृङ्गारे दीर्घसमासा यथा---ऽमन्दारकुसुमरेणुपिञ्जरितालकाऽ इति ।
यथा वा--- अनवरतनयनजललवनिपतनपरिमुषितपत्त्रलेखं ते ।
करतलनिषण्णमबले वदनमिदं कं न तापयति ॥
इत्यादौ ।
तथा रौद्रादिष्वप्यसमासा दृश्यते ।

यथा--ऽयो यः शस्त्रं बिभर्ति स्वभुजगुरुमतदःऽ इत्यादौ ।
तस्मान्न सङ्घटनास्वरूपाः, न च सङ्घटनाश्रया गुणाः ।
ननु यदि सङ्घटना गुणानां नाश्रयस्तत्किमालम्बना एते परिकल्प्यन्ताम् ।
उच्यते--
प्रतिपादितमेवैषामालम्बनम् ।
लोचनम् इति ।
यो ऽयं गुणेषु नियम उक्तो ऽसाविर्थः ।
तथात्वे लक्ष्यदर्शनमेव हेतुत्वेनाह---तथा हीति ।
दृश्यत इत्युक्तं दर्शनस्थानमुदाहरणमासूत्रयति---तत्रेति ।
नात्र शृङ्गारः कश्चिदित्याशङ्क्य द्वितीयमुदाहरणमाह---यथा वेति ।
एषा हि प्रमयकुपितनायिकाप्रसादनायोक्तर्नायकस्येति ।
तस्मादिति ।
नैतद्व्याख्यानद्वयं कारिकायां युक्तमिति यावत् ।
किमालम्बना इति ।
शब्दार्थालम्बनत्वे हि तदलङ्कारेभ्यः को विशेष इत्युक्तं चिरन्तनैरिति भावः ।
प्रतिपादितमेवेति ।
अस्मन्मूलग्रन्थकृतेत्यर्थः ।
बालप्रिया स विघटत इत्यत्र तत्पदं व्याचष्टे--यो ऽयमित्यादि ।
नियम उक्त इति ।
शृङ्गारादावसमासैव सङ्घटना, रौद्रादौ दीर्घसमासैवेति नियम इति भावः ।
विघटत इत्यस्य व्यभिचरतीत्यर्थः ।
तथात्व इति ।
नियमविघटन इत्यर्थः ।
आसूत्रयति प्रदर्शयति ।
उदाहरणान्तरमवतारयति--नात्रेत्यादि ।
अनुभावादेरप्रतीत्येति भावः ।
अनवरतेति ।
अनवरतं यन्नयनजललवनिपतनं तेन परिमुषिता अपहृता पत्रलेखा यस्मिंस्तत् ।
ते तव ।
इदं वदनमिति सम्बन्धः ।
भावमाह--नैतदित्यादि ।
ऽकिमालम्बनेऽति चोद्याशयमाह--शब्देत्यादि ।
गुणानामिति शेषः ।
को विशेष इति ।
विशेषो न भवेदित्यर्थः ।
मूलग्रन्थेति ।
कारिकेत्यर्थः ।
न चैषामित्यादिग्रन्वस्य तात्पर्ये विवृणोति---न हीत्यादि ।
ऐक्यमिति ।
वस्तुनोरिति शेषः ।

गुणालङ्कारयोरिति यावत् ।
तमर्थमवलम्बन्ते ये ऽङ्गिनं ते गुणाः स्मृताः ।
अङ्गाश्रितास्त्वलङ्कारा मन्तव्याः कटकादिवत् ॥
इति ।
अथवा भवन्तु शब्दाश्रया एव गुणाः, न चैषामनुप्रासादितुल्यत्वम् ।
यस्मादनुप्रासादयो ऽनपेक्षितार्थशब्दधर्मा एव प्रतपादिताः ।
गुणास्तु व्यङ्ग्यविशेषावभासिवाच्यप्रतिपादनसमर्थशब्दधर्मा एव ।
शब्दधर्मत्वं चैषामन्याश्रयत्वे ऽपि शरीराश्रयत्वमिव शौर्यादीनाम् ।
ननु यदि शब्दाश्रया गुणास्तत्सङ्घटनारूपत्वं तदाश्रयत्वं वा तेषां प्राप्तमेव ।
न ह्यसङ्घटिताः शब्दा अर्थविशेषप्रतिपाद्यरसाद्याश्रितानां गुणानामवाचकत्वादाश्रया भवन्ति ।
लोचनम् अथवेति ।
न ह्येकश्रितत्वादेवैक्यं, रूपस्य संयोगस्य चैक्यप्रसङ्गात् ।
संयोगे द्वितीयमपेक्ष्यमिति चेत्---इहापि व्यङ्ग्योपकारकवाच्यापेक्षास्त्येवेति समानम् ।
न चायं मम स्थितः पक्षः, अपि तु भवत्वेषामविवेकिनामभिप्रायेणापि शब्दधर्मत्वं शौर्यादीनामिव शरीरधर्मत्वम् ।
अविवेकी हि औपचारिकत्वविभागं विवेक्तुमसमर्थः ।
तथापि न कश्चिद्दोष इत्येवम्परमेतदुक्तमित्येतदाह---शब्दधर्मत्वमिति ।
अन्याश्रयत्वे ऽपीति ।
आत्मनिष्ठत्वे ऽपीत्यर्थः ।
शब्दाश्रया इति ।
उपचारेण यदि शब्देषु गुणास्तदेदं तात्पर्यम्--शृङ्गारादिरसाभिव्यञ्जकवाच्यप्रतिपादनसामर्थ्यमेव शब्दस्य माधुर्यम् ।
तच्च शब्दगतं विशिष्टघटनयैव लभ्यते ।
अथ सङ्घटना न व्यतिरिक्ता काचित्, अपि तु सङ्घटिता एव बालप्रिया ऐक्यप्रसङ्गादिति ।
घटाद्येकद्रव्याद्याश्रितत्वादिति भावः ।
ऐक्यप्रसङ्ग परिहरति--संयोग इत्यादि ।
द्वितीयमपेक्ष्यमिति ।
संयोगरूपकार्यस्य द्वयोरुत्पत्या स्वस्मिन् यस्य संयोगो जायते तं प्रति तस्यापेक्षास्तीत्यर्थः ।
रूपस्य त्वेकस्मिन्नेवोत्पत्त्या न द्वितीयापेक्षेति भावः ।
परिहारप्रकारस्तुल्य इत्याह--ऽइहेऽत्यादि ।
इहापि गुणेष्वपि ।
व्यङ्ग्येति ।
अनेन ऽगुणास्तु व्यङ्ग्येऽत्यादिग्रन्थो विवृतः ।
शब्दधर्मत्वञ्चेत्यादिग्रन्थमवतारयति---न चेत्यादि ।
अयं स्थितः मम पक्षो नेति योजना ।
एषामिति ।
गुणानामित्यर्थः ।
शब्दधर्मत्वं भवत्वित सम्बन्धः ।
औपचारिकत्वविभागमिति ।
औपचारिकत्वस्य मुख्यत्वाद्भेदमित्यर्थः ।
विवेक्तुं ज्ञातुम् ।
एतदुक्तमथवेत्याद्युक्तम् ।

इत्येतदिति ।
उक्तमित्यर्थः ।
आत्मनिष्ठत्वे ऽपीति ।
आत्मपदेन रसः जीवात्मा च ग्राह्यः ।
ऽयदि शब्दाश्रयाऽ इत्यादि ऽप्राप्तमेवेऽत्यन्तग्रन्थस्य तात्पर्यमाह---उपचारेणेत्यादि ।
ऽगुणाऽइत्यन्तस्य विवरणम्---उपचारेणेत्यादि ।
इदमिति ।
अनुपदं नैवम् ; वर्णपदव्यङ्ग्यत्वस्य रसादीनां प्रतिपादितत्वात् ।
लोचनम् शब्दाः, तदाश्रितं तत्सामथ्यमिति सङ्घटनाश्रितमेवेत्युक्तं भवतीत तात्पर्यम् ।
ननु शब्दधर्मत्वं शब्दैकात्मकत्वं वा तावतास्तु, किमयं मध्ये सङ्घटनानुप्रवेश इत्याशङ्क्य स एव पूर्वपक्षवाद्याह---न हीति ।
अर्थविशेषैर्न तु पदान्तरनिरपेक्षशुद्धपदवाच्यैः सामान्यैः प्रतिपाद्या व्यङ्ग्या ये रसभावतदाभासतत्प्रशमास्तदाश्रितानां मुख्यतया तन्निष्ठानां गुणानामसङ्घटिताः शब्दा आश्रया न भवन्त्युपचारेणापीति भावः ।
अत्र हेतुः--अवाचकत्वादिति ।
न ह्यसङ्घटिताः व्यङ्ग्योपयोगिनिराकाङ्क्षरूपं वाच्यमाहरित्यर्थः ।
एतत्परिहरति---नैवमिति ।
वर्णव्यङ्ग्यो हि यावद्रस उक्तस्तावदवाचकस्यापि पदस्य श्रवणमात्रावसेयेन स्वसौभाग्येन वर्णवदेव यद्रसाभिव्यक्तिहेतुत्वं स्फुटमेव लक्ष्यत इति तदेव माधुर्यादीति किं सङ्घटनया? तथा च पदव्यङ्ग्यो यावद्ध्वनिरुक्तस्तावच्छुद्धस्यापि पदस्य स्वार्थस्मारकत्वेनापि रसाभिव्यक्तियोग्यार्थवभासकत्वमेव माधुर्यादीति तत्रापि कः सङ्घटनाया उपयोगः ।
बालप्रिया वक्ष्यमाणमित्यर्थः ।
तच्च शब्दगतमिति ।
उक्तसामर्थ्यरूपं शब्दाश्रितं सामर्थ्यञ्चेत्यः ।
विशिष्टेति ।
विशिष्टा या शब्दान्तरसङ्घटना तथैव लभ्यत इत्यर्थः ।
ततः किमत आह--अथेत्यादि ।
अथ अथ च ।
न व्यतिरिक्ता न शब्दाद्भिन्ना ।
तदाश्रितं सङ्घटितशब्दाश्रितम् ।
तत् पूर्वोक्तम् ।
इतीति हेतौ ।
सङ्घटनाश्रितमिति ।
सङ्घटनारूपत्वमप्युक्तरीत्या बोध्यम् ।
नन्विति ।
गुणानामिति शेषः. तावतेति ।
उपचारेणेत्यर्थः ।
स एवाहेत्यनेन ऽतच्च शब्दगतं विशिष्टघटनयैवेऽति ग्रन्थेनायमर्थः ।
स्वयं प्रदर्शिति इति प्रकाश्यते ।
अर्थविशेषैरिति ।
परस्परसाकाङ्क्षक्षपदसमुदायप्रतिपाद्यैर्विबावादिरूपैरित्यर्थः ।
अनेन लब्धं व्यावर्त्यमाह---न त्वित्यादि ।
सामान्यैरिति ।
सामान्यरूपा अर्थाः पदवाच्या इत्युक्तं प्राक् ।
अवाचकत्वादित्यस्याननुभावकत्वादित्यर्थमभिप्रेत्य व्याचष्टे---न हीत्यादि ।
शब्दा इति शेषः ।

वाच्यमाहुः वाक्यार्थमनुभावयन्ति ।
वर्णेत्यादिग्रन्थस्य भावं विवृणोति---वर्मव्यङ्ग्यो हीत्यादि ।
यावत् यतः ।
उक्तः ऽयस्त्वलक्ष्यक्रमव्यङ्ग्यऽ इत्यादिना प्रदर्शितः ।
तावत् ततः ।
अवाचकस्यापि स्वार्थास्मारकस्यापि ।
पदस्य वर्णसमुदायरूपस्य ।
वर्णवत् वर्णस्येव ।
स्फुटमेव लभ्यत इति ।
कैमुत्यन्यायेनेति भावः ।
तथाचेति ।
स्वार्थास्मारकस्यापि पदस्य रसाभिव्यक्तितहेतुत्वे सिद्धे चेत्यर्थः ।
शुद्धस्यापीति ।
असङ्घटितस्यापीत्यर्थः ।
अभ्युपगते वा वाक्यव्यङ्ग्यत्वे रसादीनां न नियता काचित्सङ्घटना तेषामाश्रयत्वं प्रतिपद्यत इत्यनियतसङ्घटनाः शब्दा एवं गुणानां व्यङ्ग्यविशेषानुगता आश्रयाः ।
ननु माधुर्ये यदि नामैवमुच्यते तदुच्यताम् ; ओजसः पुनः कथमनियतसङ्घटनशब्दाश्रयत्वम् ।
न ह्यसमासा सङ्घटना कदाचिदोजस आश्रयतां प्रतपद्यते ।
उच्यते--
यदि न प्रसिद्धिमात्रग्रहदूषितं चेतस्तदत्रापि न न ब्रूमः ।
ओजसः कथमसमासा सङ्घटना नाश्रयः ।
यतो रौद्रादीन् हि प्रकाशयतः काव्यस्य दीप्तिरोज इति प्राक्प्रतिपादतम् ।
तच्चौजो यद्यसमासायामपि सङ्घटनायां स्यात्तत्को दोषो भवेत् ।
न लोचनम् ननु वाक्यव्यङ्ग्ये ध्वनौ तर्ह्यवश्यमनुप्रवेष्टव्यं सङ्घटनया स्वसौन्दर्य वाच्यसौन्दर्यं व्, तया विना कुत इत्याशङ्क्याह---अभ्युपगत इति ।
वाशब्दो ऽपिशब्दार्थे, वाक्यव्यङ्ग्यत्वे ऽपीत्यत्र योज्यः ।
एतदुक्तं भवति--अनुप्रविश तत्र सङ्घटना, न हि तस्याः सन्निधानंप्रत्याचक्ष्महे ।
किं तु माधुर्यस्य न नियता सङ्घटना आश्रयो वा स्वरूपं वा तया विना वर्णपदव्यङ्ग्ये रसादौ भाव्रान्माधुर्यादेः वाक्यव्यङ्ग्ये ऽपि तादृशीं सङ्घटनां विहायापि वाक्यस्य तद्रसव्यञ्जकत्वात्सङ्घटना सन्निहितापि रसव्यक्तावप्रयोजिकेति ।
तस्मादौपचारिकत्वे ऽपि शब्दाश्रया एव गुणा इत्युपसंहरति--शब्दा एवेति ।
नन्विति ।
वाक्यव्यङ्ग्यध्वन्यभिप्रायेणेदं मन्तव्यमिति केचित् ।
बालप्रिया नन्वित्यादि ।
सङ्घटनया सङ्घटनाविशेषेण ।
स्वेति ।
वाक्यसौन्दर्यमित्यर्थः ।
वृत्तौ ऽतेषाम्ऽ इति ।
गुणानामित्यर्थः ।
ऽव्यङ्ग्यविशेषानुगताऽ इति ।
व्यङ्ग्यविशेषावभासिन इत्यर्थः ।
ऽअभ्युपगतऽ इत्यादिग्रन्थस्य भावमाह लोचने--एतदित्यादि ।
मादुर्यस्येति ।
माधुर्यादेरित्यर्थः ।

मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc