ध्वन्यालोक (टीका सहित) · भाग 281300
ते ऽलङ्काराः परां छायां यान्ति ध्वन्यङ्गतां गतः
शरीरीकरणं येषां वाच्यत्वे न व्यवस्थितम् ।
ते ऽलङ्काराः परां छायां यान्ति ध्वन्यङ्गतां गतः ॥ 28 ॥
ध्वन्यङ्गता चोभाभ्यां प्रकाराभ्यां व्यञ्जकत्वेन व्यङ्ग्यत्वेन च ।
तत्रेह प्रकरणाद्य्वङ्ग्यत्वेनेत्यवगन्तव्यम् ।
व्यङ्ग्यत्वे ऽप्यलङ्काराणां प्रधान्यविवक्षायामेव लोचनम् त्वयि लोकोत्तरेण वपुषा सम्भूय स्थिता इत्यतिशयोक्तिर्ध्वन्यते ।
आपाते ऽपि विकारकारणमित्यास्वादपरम्पराक्रिययापि विना विकारात्मनः फलस्य सम्पत्तिरिति विभावनाध्वनिरपि ।
विभ्रममधोर्धुर्यमिति तुल्ययोगिताध्वनिरपि ।
एवं सर्वालङ्काराणां ध्वन्यमानत्वमस्तीति मन्तव्यम् ।
न तु यथा कैश्चिन्नियतविषयीकृतम् ।
यथायोगमिति ।
क्वचिदलङ्कारः क्वचिद्वस्तु व्यञ्जकमित्यर्थो योजनीय इति ॥ 2.7 ॥
ननुक्तास्तावच्चिरन्तनैरलङ्कारास्तेषां तु भवता यदि व्यङ्ग्यत्वं प्रदर्शितं किमियतेत्याशङ्क्याह--एवमित्यादि ।
येषामलङ्काराणां वाच्यत्वेन शरीरीकरणं शरीरभूतात्प्रस्तुतादर्थान्तरभूततया अशरीराणां कटकादिस्थानीयानां शरीरतापादनं व्यवस्थितं बालप्रिया ते मधुमदनासवाः ।
लोकात्तरेण वपुषेति ।
नेत्ररूपेण भ्रूरूपेणाधररसरूपेण च शरीरेणेत्यर्थः ।
मदनधनुषो भ्रूरूपेण स्थित्या मदनस्य स्थितिः सिध्यतीति बोध्यम् ।
इतीति ।
इतिवक्तृकामुकवाक्यार्थप्रतीत्येत्यर्थः ।
अतिशयोक्तिरिति ।
नेत्रादौ ।
वसन्ताद्यभेदप्रतीत्या भेदे अभेदरूपातिशयोक्तिरित्यर्थः ।
तुल्ययोगितेति ।
दृग्द्वयस्य मधोश्च साम्यविवक्षया दृशौ विभ्रममधोर्धुर्यं वपुरित्युक्त्या "न्यूनस्यापि विशिष्टेने"त्यादिना भामहादिलक्षिता तुल्ययोगितेत्यर्थः ।
ऽएवमन्ये ऽप्यलङ्काराऽ इति बहुवचनलब्धमर्थमाह---एवमित्यादि ।
गम्यं व्यवच्छेद्यमाह---न त्वित्यादि ।
न त्विति ।
तथेति शेषः ।
नियतेति ।
नियतः नियमितः विषयः अलङ्कारविशेषरूपाश्रयो यस्य तत्कृतमित्यर्थः ।
ध्वन्यमानत्वमित्यनुषज्यते ॥ 2.7 ॥
किमियतेति ।
अलङ्काराणां व्यङ्ग्यत्वप्रदर्शनेन किं फलमित्यर्थः ।
आहेति ।
शरीरीत्यादिना तत्फलं दर्शयतीत्यर्थः ।
कारिकां व्याचष्टे--येषामित्यादि ।
वाच्यत्वेनेति हेतौ तृतीया ।
च्विप्रत्ययार्थं दर्शयन् व्याचष्टे---शरीरभूतादित्यादि ।
शरीरतापादनमिति ।
शरीरत्वसम्पादनमित्यर्थः ।
व्यवस्थितत्वे गम्यं हेतुमाह---सुकविनामयत्नसम्पाद्यतया ।
सत्यां ध्वनावन्तःपातः ।
इतरथा तु गुणीभूतव्यङ्ग्यत्वं प्रतिपादयिष्यते ।
आङ्गित्वेन व्यङ्ग्यतायामपि ।
अलङ्काराणां द्वयी गतिः--कदाचिद्वस्तुमात्रेण व्यज्यन्ते, कदाचिदलङ्कारेण ।
तत्र--- व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तया ।
ध्रुवं ध्वन्यङ्गता तासां
अत्र हेतुः-
. . . . . . . . काव्य-वृत्तिस् तद्-आश्रया
अत्र हेतुः---- काव्यवृत्तिस्तदाश्रया ॥ 29 ॥
लोचनम् यदि वा वाच्यत्वे सति येषां शरीरतापादनमपि न व्यवस्थितं दुर्घटमिति यावत् ।
ते ऽलङ्कारा ध्वनेर्व्यापारस्य काव्यस्य वाङ्गतां व्यङ्ग्यरूपतया गताः सन्तः परां दुर्लभां छायां कान्तिमात्मरूपतां यान्ति ।
एतदुक्तं भवति---सुकविर्विदग्धपुरन्धीवद्भूषणं यद्यपि श्लिष्टं योजयति, तथापि शरीरतापत्तिरेवास्य कष्टसम्पाद्या कुङ्कुमपीतिकाया इव ।
आत्मतायास्तु का सम्भावनापि ।
एवम्भूता चेयं व्यङ्ग्यता या अप्रधानभूतापि वाच्यमात्रालङ्कारेभ्य उत्कर्षमलङ्काराणां वितरति ।
बालक्रीडायामपि राजत्वमिवेत्यमुमर्थं मनसि कृत्वाह---इतरथा त्विति ॥ 2.8 ॥
तत्रेति ।
द्वय्यां गतौ सत्याम् ।
अत्र हेतुरित्ययं वृत्तिग्रन्धः ।
काव्यस्य कविव्यापारस्य बालप्रिया सुकवीनामित्यादि ।
वाच्यत्वे इति सप्तम्यन्तम् ।
नेति पृथक् पदमित्यन्यथापि व्याचष्टे---यदि वेत्यादि ।
ऽध्वन्यङ्गताम्ऽ इत्यत्र ध्वनिशब्दं द्वेधा व्याचष्टे---व्यापारस्येत्यादि ।
कथमङ्गत्वमित्यत्राह----व्यङ्ग्यतयेति ।
यदि वेत्युक्तव्याख्यानानुरोधेन भावार्थमाह---अतदुक्तमित्यादि ।
भूषणमिति ।
उपमादिकं कुङ्कुमादिकं चेत्यर्थः ।
श्लिष्टमिति ।
सक्तमित्यर्थः ।
अतिश्लिष्टमिति च पाठः ।
शररीतापत्तिः शरीरत्वसम्पादनम् ।
अस्येति ।
उपमादेर्भूषणस्येत्यर्थः ।
कुङ्कुमेति ।
कुङ्कुमयुक्तानुलेपनविशेषः कुङ्कुमपीतिका तस्या इवेत्यर्थः ।
आत्मताया इति ।
आत्मत्वसम्पादनस्येत्यर्थः ।
अस्येत्यनुषङ्गः ।
का सम्भावनापीति ।
आत्मत्वसम्पादनमतिकष्टसम्पाद्यमित्यर्थः ।
इतरथेत्यादिग्रन्थमवतारयति---एवंभूतेत्यादि ।
इयं व्यङ्ग्यता एवम्भूता चेत्यन्वयः ।
कथम्भूतेत्यत्राह---येत्यादि ।
राजत्वमिवेति ।
बालान्तरेभ्यो राजबालस्येति ।
शेषः ॥ 2.8 ॥
वृत्तिग्रन्थ इति ।
न तु कारिकांश इति भावः ।
"काव्ववृत्तिस्तदाश्रये"ति यस्मात्तत्र तथाविधव्यङ्ग्यालङ्कारपरत्वेनैव काव्यं प्रवृत्तम् ।
अन्यथा तु तद्वाक्यमात्रमेव स्यात् ।
तासामेवालङ्कृतीनाम्--- अलङ्कारान्तरव्यङ्ग्यभावे
पुनः,
. . . . . . . . ध्वन्य्-अङ्गता भवेत् ।
चारुत्वोत्कर्षतो व्यङ्ग्य-प्राधान्यं यदि लक्ष्यते
पुनः, ध्वन्यङ्गता भवेत् ।
चारुत्वोत्कर्षतो व्यङ्ग्यप्राधान्यं यदि लक्ष्यते ॥ 30 ॥
उक्तं ह्येतत्--ऽचारुत्वोत्कर्षनिबन्धना वाच्यव्यङ्ग्ययोः प्राधान्यविवक्षाऽ इति ।
वस्तुमात्रव्यङ्ग्यत्वे चालङ्काराणामनन्तरोपदर्शितेभ्य एवोदाहरणेभ्यो विषय उन्नेयः ।
तदेवमर्थमात्रेणालङ्कारविशेषरूपेण वार्थेनार्थान्तरस्यालङ्कारस्य लोचनम् वृत्तिस्तदाश्रयालङ्कारप्रवणा यतः ।
अन्यथेति ।
यदि न तत्परत्वमित्यर्थः ।
तेन तत्र गुणीभूतव्यङ्ग्यता नैव शङ्क्येति ।
तात्पर्यम् ।
तासामेवालङ्कृतीनामित्ययं पठिष्यमाणकारिकोपस्कारः ।
पुनरिति कारिकामध्य उपस्कारः ।
ध्वन्यङ्गतेति ।
ध्वनिभेदत्वमित्यर्थः ।
व्यङ्ग्यप्राधान्यमिति ।
अत्र हेतुः---चारुत्वोत्कर्षत इति ।
यदीति ।
तदप्राधान्ये तु वाच्यालङ्कार एव प्रधानमिति गुणीभूतव्यङ्ग्यतेति भावः ।
नन्वलङ्कारो वस्तुना व्यज्यते अलङ्कारान्तरेण च व्यज्यत इत्यत्रोदाहरणानि किमिति न दर्शितानीत्याशङ्क्याह---वस्त्विति ।
एतत्संक्षिप्योपसंहरति---तदेवमिति ।
व्यङ्ग्यस्य बालप्रिया कारिकापाठाभिप्रायेण व्याचष्टे---काव्यस्येत्यादि ।
कविव्यापारस्येति ।
शब्दार्थरूपस्येत्यर्थः ।
वृत्तिरिति ।
स्थितिरित्यर्थः ।
सा अलङ्कृतिराश्रयो यस्या इत्यभिप्रायेण व्याचष्टे---अलङ्कारेत्यादि ।
यदि न तत्परत्वमिति ।
व्यङ्ग्यालङ्कारपरत्वं न भवति यदीत्यर्थः ।
वृत्तौ ऽतद्वाक्यमात्रमेव स्यादिऽति ।
ऽतत्ऽ काव्यत्वेनाभिमतम् ।
ऽवाक्यमात्रमेवऽ न तु काव्यात्मकमित्यर्थः ।
अतः तत्परत्वेन भाव्यं, तथाच ध्वन्यङ्गत्वमेवेति भावः ।
एतद्भावार्थं दर्शयति लोचने--तेनेत्यादि ।
तासामित्यस्यालङ्कारान्तरव्यङ्ग्यभाव इत्यनेनापि सम्बन्धः ।
तासामित्यस्यालङ्कृतीनामित्यर्थश्चेत्याशयेन वृत्तौ ऽतासामेवालङ्कृतीनांऽ इत्युक्तमित्याह--तासामेवेत्यादि ।
पठिष्येत्यादि ।
वक्ष्यमाणकारिकयापि सम्बन्धमासाद्य कासामित्याकङ्कक्षानिवर्तकत्वेनोपकारकारीत्यर्थः ।
प्रकृतानुगुण्येन व्याचष्टे--ध्वनिभेदत्वमिति ।
ध्वन्यवान्तरप्रकारत्वमित्यर्थः ।
वाच्यालङ्कार एवेति ।
दीपकादिरेवेत्यर्थः ।
कारिकायामलङ्कारान्तरव्यङ्ग्यभावे इत्यस्य अलङ्कारान्तरेण व्यङ्ग्यत्वे सतीत्यर्थः ।
तदेवमित्यादिग्रन्थस्य सारार्थमाह---व्यङ्ग्यस्येत्यादि ।
वा प्रकाशने चारुत्वोत्कर्षनिबन्धने सति प्राधान्ये ऽर्थशक्तुद्भवानुरणरूपव्यङ्ग्यो ध्वनिरवगन्तव्यः ।
एवं ध्वनेः प्रभेदान् प्रतिपाद्य तदाभासविवेकं कर्तुमुच्यते--
यत्र प्रतीयमानो ऽर्थः प्रम्लिष्टत्वेन भासते ।
वाच्यस्याङ्गतया वापि नास्यासौ गोचरो ध्वनेः
यत्र प्रतीयमानो ऽर्थः प्रम्लिष्टत्वेन भासते ।
वाच्यस्याङ्गतया वापि नास्यासौ गोचरो ध्वनेः ॥ 31 ॥
द्विविधो ऽपि प्रतियमानः स्फुटो ऽस्फुटश्च ।
तत्र य एव स्फुटः शब्दशक्त्यार्थशक्त्या वा प्रकाशते स एव ध्वनेर्मार्गो नेतरः ।
स्फुटो ऽपि यो ऽभिधेयस्याङ्गत्वेन प्रतियमानो ऽवभासते सो ऽस्यानुरणनरूपव्यङ्ग्यस्य ध्वनेरगोचरः ।
यथा----
कमलाअरा णं मलिआ हंसा उड्डाविआ ण अ पिउच्छा ।
लोचनम् व्यञ्जकस्य च प्रत्येकं वस्त्वलङ्काररूपतया द्विप्रकारत्वाच्चतुर्विधो ऽयमथशक्त्युद्भव इति तात्पर्यम् ॥29॥
,30 ॥
एवमिति ।
अविवक्षितवाच्यो विवक्षितान्यपरवाच्य इति द्वौ मूलभेदौ ।
आद्यस्य द्वौ भेदौ---अत्यन्ततिरस्कृतवाच्यर्ऽथान्तरसंक्रमितवाच्यश्च ।
द्वितीयस्य द्वौ भेदौ अलक्ष्यक्रमो ऽनुरणनरूपश्च ।
प्रथमो ऽनन्तभेदः ।
द्वितीयो द्विविधः---शब्दशक्तिमूलो ऽर्थशक्तिमूलश्च ।
पश्चिमस्त्रिविधः---कविप्रौढोक्तिकृतशरीरः कविनिबद्धवक्तृप्रौढोक्तिकृतशरीरः स्वतस्सम्भवी च ।
ते च प्रत्येकं व्यङ्ग्यव्यञ्जकयोरुक्तभेदनयेन चतुर्धेति द्वादशविधो ऽर्थशक्तिमूलः ।
आद्याश्चत्वारो भेदा इति षोडश मुख्यभेदाः ।
ते च पदवाक्यप्रकाशत्वेन प्रत्येकं द्विविधा वक्ष्यन्ते ।
अलक्ष्यक्रमस्य तु वर्णपदवाक्यसङ्घटनाप्रबन्धप्रकाश्यत्वेन पञ्चत्रिंशद्भेदाः ।
तदाभासेभ्यो ध्वन्याभासेभ्यो विवेको विभागः ।
बालप्रिया सुबोधायोक्तान् वक्ष्यमाणांश्च ध्वनिप्रभेदान् सङ्कलय्याह---अविवक्षितवाच्यैत्यादिना पञ्जत्रिंशद्भेदा इत्यन्तेन ।
उक्तभेदेति ।
वस्त्वलङ्कारभेदेत्यर्थः ।
आद्याश्चत्वार इति ।
अत्यन्ततिरस्कृतवाच्यो ऽर्थान्तरसङ्क्रमितवाच्यो ऽलक्ष्यक्रमव्यङ्ग्यः शब्दशक्तिमूलानुरणनरूपश्चेति चत्वार इत्यर्थः ।
द्विविधा वक्ष्यन्त इति ।
तथाच द्वात्रिंशदित्यर्थः ।
वर्णोत्यादि ।
अत्र पदवाक्यप्रकाशत्वेन भेदस्योक्तत्वादनेन वर्णसङ्घटनाप्रबन्धप्रकाशयत्वेन यद्भेदत्रयं तदेव विवक्षितं, तथाच पञ्चत्रिंशद्भेदाः ।
तदाभासेभ्य इत्यादि ।
ध्वनेरित्यस्यात्रापि सम्बन्धो बोध्यः ।
यत्रेत्यादिपूर्वाधस्य विवरणम् ।
वृत्तौऽद्विविधो ऽपीऽत्यादि ।
प्रतियमानःस्फुटः अस्फुटश्च द्विविधो ऽप भवतीत्यन्वयः ।
केण वि गामतडाए अब्भं उत्ताणअं फलिहम् ॥
अत्र हि प्रतियमानस्य मुग्धवध्वा जलधरप्रतिबिम्बदर्शनस्य वाच्याङ्गत्वमेव ।
एवंविधे विषये ऽन्यत्रापि यत्र व्यङ्ग्यापेक्षया वाच्यस्य चारुत्वोत्कर्षप्रतीत्या प्राधान्यमवसीयते, तत्र व्यङ्ग्यापेक्षया वाच्यस्य चारुत्वोत्कर्षप्रतीत्या प्राधान्यमवसीयते, तत्र व्यङ्ग्यस्याङ्गत्वेन प्रतीतेर्ध्वनेरविषयत्वम् ।
यथा----
वाणीरकुडङ्गोड्डीणसौणिकोलाहलं सुणन्तीए ।
घरकम्मवावडाए बहुए सीअन्ति अङ्गाइं ॥
एवंविधो हि विषयः प्रायेण गुणीभूतव्यङ्ग्यस्योदाहरणत्वेन निर्दक्ष्यते ।
लोचनम् अस्येत्यात्मभूतस्य ध्वनेरसौ काव्यविशेषो न गोचरः ।
कमलाकरा न मलिता हंसा उड्डायिता न च सहसा ।
न विषय इत्यर्थः ।
केनापि ग्रामतडागे ऽभ्रमुत्तानितं क्षिप्तम् ॥
इति च्छाया ।
अन्ये तु पि उच्छा पितृष्वसः इत्थमामन्त्र्यते ।
केनापि अतिनिपुणेन ।
वाच्याङ्गत्वमेवेति ।
वाच्येनैव हि विस्मयविभावरूपेण मुग्धिमातिशयः प्रतीयत इति वाच्यादेव चारुत्वसम्पत् ।
वाच्यं तु स्वात्मोपपत्तये ऽर्थान्तरं स्वोपकारवाञ्छया व्यनक्ति ।
वेतसलतागहनोड्डीनशकुनिकोलाहलं शृण्वत्याः ।
गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ॥
इति च्छाया ।
बालप्रिया ऽअपीऽति समुच्चये ।
ऽस्फुटऽ इति ।
अस्फुटभिन्न इत्यर्थः ।
ऽअस्फुटऽ इति ऽयः प्रम्लिष्टत्वेन भासतऽ इत्यस्य विवरणम् ।
वाच्येत्याद्युत्तरार्धस्य विवरणम्---ऽस्फुटो ऽपीऽत्यादि ।
ऽनास्यासाऽवित्यादिचतुर्थपादस्य वृत्तिग्रन्थेनाप्रकाशितमर्थमाह लोचने-अस्येत्यादि ।
कस्याश्चिन्मुग्धायास्तटाके प्रतिबिम्बितमभ्रं दृष्ट्वा विस्मितायाः सखीजनं पितृष्वसारं वा प्रति कमलेत्यादिवचनम् ।
केनापि ग्रामतटाके अभ्रं मेधमण्डलम् उत्तानितमुत्तानं कृतं सत् अन्यथा यथोपरि तथा जलान्तर्दर्शनं न भवेत् क्षिप्तं परन्तु ।
कमलाकराः न मलिनाः सञ्जातमलाः मलिना इति वा छाया ।
हंसाः सहसा उड्डायिताः उर्ध्वङ्गताः ।
न च इदमद्भुतमिति भावः ।
सहसेत्यस्य स्थाने पितृष्वस इति छायां केचित् पठन्तीत्याह---अन्य इत्यादि ।
केनापीत्यस्यविवरणम्---अतिनिपुणेनेति ।
वाच्याङ्गत्वं विवृणोति---वाच्यैनैवेत्यादि ।
स्वात्मोपपत्तये स्वबोधविश्रान्तये ।
अर्थान्तरमिति ।
व्यङ्ग्यं मुग्धवध्वा जलधरप्रतिबिम्बस्य दर्शनमित्यर्थः ।
स्वोपकारवाञ्छया स्वोपकारं करोतीति वाञ्छयेव ।
वेतसेति ।
काव्यप्रकाशे ऽप्युदाहृतेयं गाथा ।
गुणीभूतव्यङ्ग्यत्वमत्र विवृणोति---अत्रेत्यादि ।
यत्र तु प्रकरणादिप्रतिपत्त्या निर्धारतविशेषो वाच्यो ऽर्थः पुनः प्रतीयमानाङ्गत्वेनैवावभासते सो ऽस्यैवानुरणनरूपव्यङ्ग्यस्य ध्वनेर्मार्गः ।
यथा---
उच्चिणसु पडिअ कुसुमं मा धुण सेहालिअं हलिअसुह्णे ।
अह दे विसमविरावो समुरेण सुओ वलअसद्दो ॥
लोचनम् अत्र दत्तसङ्केतचौर्यकामुकरतसमुचितस्थानप्राप्तिर्ध्वन्यमाना वाच्यमेवोपस्कुरुते ।
तथा हि गृहकर्मव्यापृताया इत्यन्यपराया अपि, वाध्वा इति सातिशयलज्जापारतन्त्र्यबद्धाया अपि, अङ्गानीत्येकमपि न तादृगङ्गं यद्गाम्भीर्यावहित्थवशेन संवरीतुं पारितम्, सदिन्तीत्यास्तां गृहकर्मसम्पादनं स्वात्मानमपि धर्तुं न प्रभवन्तीति ।
गृहकर्मयोगेन स्फुटं तथा लक्ष्यमाणानीति ।
अस्मादेव वाच्यात्सातिशयमदनपरवशताप्रतीतेश्चारुत्वसम्पत्तिः ।
यत्र त्विति ।
प्रकरणमादिर्यस्य शब्दान्तरसन्निधानसामर्थ्यलिङ्गादेस्तदवगमादेव यत्रार्थो निश्चितसमस्तस्वभावः ।
पुनर्वाच्यः पुनरपि स्वशब्देनोक्तो ऽत एव स्वात्मावगतेः सम्पन्नपूर्वत्वादेन तावन्मात्रपर्यवसायी न भवति बालप्रिया दत्तेति ।
दत्तसङ्केतो यश्चौर्यकामुको जारः तस्य रतसमुचितस्थाने वेतसलतागहने प्राप्तिः ।
ध्वन्यमानेति ।
शकुनिकोलाहलोक्त्या व्यज्यमानेत्यर्थः ।
अन्येत्यादि ।
सातिशयेत्यादि च गम्यार्थकथनम् ।
ताभ्यां सर्वाङ्गसादोत्पत्तेः प्रतिबन्धकसद्भावो दर्शितः ।
गाम्भीर्येण यदवहित्थमाकारगोपनं तद्वशेन ।
न प्रभवन्तीति ।
अङ्गानीत्यस्यानुषङ्गः गृहकर्मव्यापृताया इत्यनेन गम्यमाह---गृहेत्यादि ।
तथेति ।
सादातिशयवत्त्वेनेत्यर्थः ।
गृहकर्मयोगे स्फुटं तथा न लक्ष्यमाणानीति सम्बन्धः ।
अतः कोलाहलश्रवणमेव सादातिशयजनकमिति भावः ।
योगे चेति पाठे ऽलक्ष्यमाणानीति छेदः ।
अस्मादेव वाच्यादिति ।
तथाविधायास्तस्याः कोलाहलश्रवणकाल एव सन्तन्यमानताविशिष्टसर्वाङ्गसादरूपवाच्यार्थदेवेत्यर्थः ।
ऽप्रकरणादीऽत्यादिपदेन "संयोगो विप्रयोगश्चे"त्यादिना अभिधानियामकतया निर्दिष्टानां ग्रहणमित्याशयेन व्याचष्टे---प्रकरणमादिर्यस्येति ।
शब्दान्तरेत्यादि ।
तद्धटितसमुदायस्येत्यर्थः ।
तदवगमादेवेति ।
तदज्ञानादेवेत्यर्थः ।
यत्रेत्यस्य सम्बन्धं दर्शयन्निर्धारितेत्यादिकं व्याचष्टे---यत्रार्थ इत्यादि ।
निश्चितेति ।
निश्चयो ऽत्र ।
बोधयितव्यजनगतो वाक्यजन्यो ग्राह्यः ।
वाक्यजन्यबोधं प्रत्येव प्रकरणादिज्ञानस्य हेतुत्वात् उपलक्षणं चेदमनुमानादजन्यनिश्चयस्य ।
ऽउच्चिन्विऽत्यादौ शेफालिकाधूननं न कर्तव्यं श्वशुरकोपाद्यनिष्टजनकत्वादिति वचनादिजन्यो बोधयितव्यनायिकादिगतो निश्चयो ग्राह्यः ।
समस्तस्वभाव इति विशेषपदविवरणम् ।
पुनर्वाच्य इति हेतुगर्भमित्याह--अत एवेत्यादि ।
अत अत्र ह्यविनयपतिना सह रममाणा सखी बहिःश्रुतवलयकलकलया लोचनम् तथाविधश्च प्रतीयमानस्याङ्गतामेतीति सो ऽस्य ध्वनेर्विषय इत्यनेन व्यङ्ग्यतात्पर्यनिबन्धनं स्फुटं वदता व्यङ्ग्यगुणीभावे त्वेतद्विपरीतमेव निबन्धनं मन्तव्यमित्युक्तं भवति ।
उच्चिनु पतितं कुसुमं मा धुनीहि शेफालिकां हालकस्नुषे ।
एष ते विषमविपाकः श्वशुरेण श्रुतो वलयशब्दः ॥
इति च्छाया ।
यतः श्वशुरः शोफालिकालतिकां प्रयत्नै रक्षंस्तस्या आकर्षणधूननादिना कुप्यति ।
तेनात्र विषमपरिपाकत्वं मन्तव्यम् ।
अन्यथा स्वोक्त्यैव व्यङ्ग्याक्षेपः स्यात् ।
अत्र च ऽकस्स वा ण होइ रोसोऽ इत्येतदनुसारेण व्याख्या कर्तव्या ।
वाच्यार्थस्य प्रतिपत्तये लाभाय एतद्य्वमपेक्षणीयम् ।
अन्यथा वाच्यो ऽर्थो न लभ्यते ।
स्वतस्सिद्धतया अवचनीय एव सो ऽर्थः स्यादिति यावत् ।
नन्वेवं व्यङ्ग्यस्योपस्कारता प्रत्युतोक्ता बालप्रिया एवेत्यस्य विवरणम्---स्वामेत्यादि ।
तावन्मात्रेति ।
वाच्यार्थमात्रेत्यर्थः ।
प्रतीयमानाङ्गत्वेनेत्यादेर्ववरणम्---प्रतीयमानस्येत्यादि ।
स इति ।
तत्काव्यमित्यर्थः ।
भावार्थमाह---अनेनेत्यादि ।
उच्चिन्विति ।
शेफालिकामिति ।
"शोफालिका तु सुवहे"त्यमरः ।
हालिको हलकर्षकः तस्व स्नुषा पुत्रभार्या ।
धूनननिषेधे हेतुमाह---एष इत्यादि ।
एषः मया श्रूयमाणः ।
ते वलयशब्दः ।
श्वशुरेण श्रुतः सन् विषमविपाकः विषमो ऽनिष्टजनको विपाकः परिणामो यस्य सः ।
भवेदिति शेषः ।
विषमविपाक इत्युक्तेर्वक्ष्यमाणव्यङ्ग्याक्षेपकत्वशङ्कां परिहरति---यत इत्यादिना ।
व्याख्या कर्तव्येति ।
विषयभेदेन नानाविधं व्यङ्ग्यमवधातव्यमिति भावः ।
अत्र यत्किञ्चिद्व्यङ्ग्यस्य वाच्याङ्गत्वे ऽपि व्यङ्ग्यान्तरमादाय ध्वनित्वमिति दर्शयति वृत्तौ--ऽअत्रेऽत्यादिना ।
ऽअविनयपतिनाऽ जारेण ।
ऽसखीऽति ।
नायिकेत्यर्थः ।
एतदपेक्षणीयं ऽवाच्यार्थप्रतिपत्तयेऽ इति ग्रन्थं विवृणोति---वाच्यार्थस्येत्यादि ।
वाच्यार्थस्य उच्चिन्वत्यादिगाथावाच्यार्थस्य ।
लाभायेति ।
निराकाङ्क्षाकबोधनिष्पत्तये ।
सफलबोधाय वेत्यर्थः ।
एतदित्यस्य विवरणम्---एतद्य्वङ्ग्यमिति ।
सखीकतृकनायिकाप्रतिबोधनरूपं व्यङ्ग्यमित्यर्थः ।
अपेक्षणीयमिति ।
सहकारितयापेक्षणीयमित्यर्थः ।
बोधयितव्यनायिकायाः सखी मां प्रतिबोधयतीति, सहृदयानां तु रममाणनायिकायै सखी प्रतिबोधयतीति च ज्ञानं ज्ञायमानं तद्य्वङ्ग्यं वा वाच्यार्थलाभं प्रति सहकारीति यावत् ।
उक्तं व्यवस्थापयति----अन्यथेत्यादि ।
अन्यथा व्यङ्ग्यापेक्षाभावे ।
न लभ्येतेति ।
कुत इत्यत आह---स्वत इत्यादि ।
स्वतस्सिद्धतया नायिकादिभिः स्वतो ज्ञातत्वेन ।
अवचनीय एवेति ।
निष्फलत्वेनेति भावः ।
सो ऽर्थ इति ।
शेफलिकां मा धुनीरित्याद्यर्थ इत्यर्थः ।
व्य य्स्येति उक्तव्यङ्ग्यस्येत्यर्थः ।
पुनर्वाच्य इति ग्रन्थो यथाव्याख्यातस्तथा सख्या प्रतिबोध्यते ।
एतदपेक्षणीयं वाच्यार्थप्रतिपत्तये ।
प्रतिपन्ने च वाच्ये ऽर्थे तस्यावनयप्रच्छादनतात्पर्येणाभिधीयमानत्वात्पुनर्व्यङ्ग्याङ्गत्वमेवेत्यस्मिन्ननुरणनरूपव्यङ्ग्यध्वनावन्तर्भावः ।
एवं विवक्षितवाच्यस्य ध्वनेस्तदाभासविवेके प्रस्तुते सत्यविवक्षितवाच्यस्यापि तं कर्तुमाह---
अव्युत्पत्तेर् अशक्तेर् वा निबन्धो यः स्खलद्-गतेः ।
शब्दस्य स च न ज्ञेयः सूरिभिर् विषयो ध्वनेः
अव्युत्पत्तेरशक्तेर्वा निबन्धो यः स्खलद्गतेः ।
शब्दस्य स च न ज्ञेयः सूरिभिर्विषयो ध्वनेः ॥ 32 ॥
लोचनम् भवेदत्याशङ्क्याह--प्रतिपन्ने चेति ।
शब्देनोक्त इति यावत् ॥ 31 ॥
तदाभासविवेके प्रस्तुत इति सप्तमी हेतौ ।
तदाभासविवेकप्रस्तावलक्षणात्प्रसङ्गादिति यावत् ।
कस्य तदाभास इत्यपेक्षायामाह---विवक्षितवाच्यस्येति ।
स्पष्टे तु व्याख्याने प्रस्तुत इत्यसङ्गतम् ।
परिसमाप्तौ हि विवक्षिताभिधेयस्य तदाभासविवेकः ।
न त्वधुना प्रस्तुतः ।
नाप्युत्तरकालमनुबध्नात ।
स्खलद्गतेरिति ।
गौणस्य लाक्षणिकस्य वा शब्दस्येत्यर्थः ।
अव्युत्पत्तिरनुप्रासादिनिबन्धनतात्पर्यप्रवृत्तिः ।
यथा---- प्रेङ्खत्प्रेमप्रबन्धप्रचुरपरिचये प्रौढसीमन्तिनीनां चित्ताकाशावकाशे विहरति सततं यः स सौभाग्यभूमिः ।
अत्रानुप्रासरसिकतया प्रेङ्खदिति लाक्षणिकः, चित्ताकाश इति गौणः प्रयोगः कविना कृतो ऽपि न ध्वन्यमानरूपसुन्दरप्रयोजनांशपर्यवसायी ।
अशक्तिर्वृत्तपरिपूरणाद्यसामर्थ्यम् ।
बालप्रिया प्रतिपन्ने इत्येतद्व्याचष्टे---शब्देनोक्ते इति ।
वृत्तौ ऽतस्येऽति ।
वाच्यार्थस्येत्यर्थः ।
ऽअविनयेऽत्यादि ।
अविनयस्य चौर्यसुरतस्य प्रच्छादनं बलयशब्दादिना प्रकाशनाभावः ।
तत्तात्पर्येणेत्यर्थः ।
ऽव्यङ्ग्याङ्गत्वम्ऽ इति ।
वलयशब्दं मा कार्षीरित्यादिव्यङ्ग्याङ्गत्वमित्यर्थः ॥ 31 ॥
तदाभास इति ।
तदाभासविवेक इत्यर्थः ।
स्पष्टे तु व्याख्यान इत्याद ।
प्रस्तुते इत्यस्य आरब्धे प्रकृते इति वा व्याख्याने सति तत्पदमसङ्गतं स्यादित्यर्थः ।
कुत इत्यत्राह--परसमाप्तौ हीत्यादि ।
अव्युत्पत्तिपदेन तत्कार्यं विवक्षितमिति दर्शयति---अनुप्रासादीति ।
अनुप्रासादिनिबन्धने यत्तात्पर्यं तेन काव्यप्रवृत्तिरित्यर्थः ।
प्रेङ्खदिति ।
प्रेङ्खतश्चञ्जलस्य यथोक्तं "स्त्रीणां प्रेम यदुत्तरोत्तरगुणग्रामस्पृहाचञ्चलम्ऽ इति ।
प्रेम्णः प्रबन्धः प्रकर्षेण बन्धः स्थिरीकरणं तेन सह प्रचुरः परिचयो यस्य तस्मिन् ।
लाक्षणिक इति ।
अस्थिर इत्यर्थे इति शेषः ।
गौण इति ।
अप्रत्यक्षत्वादिनां आकाशतुल्ये चित्ते इत्यर्थादिति भावः ।
अशक्तिपदं व्याचष्टे---वृत्तेत्यादि ।
स्खलद्गतेरुपचरितस्य शब्दस्याव्युत्पत्तेरशक्तेर्वा निबन्धो यः स च न ध्वनेर्विषयः ।
यतः---
सर्वेष्व् एव प्रभेदेषु स्फुटत्वेनावभासनम् ।
यद् व्यङ्ग्यस्याङ्गि-भूतस्य तत् पूर्णं ध्वनि-लक्षणम्
सर्वेष्वेव प्रभेदेषु स्फुटत्वेनावभासनम् ।
यद्व्यङ्ग्यस्याङ्गिभूतस्य तत्पूर्णे ध्वनिलक्षणम् ॥ 33 ॥
लोचनम् यथा---- विषमकाण्डकुटुम्बकसञ्चयप्रवर वारिनिधौ पतता त्वया ।
चलतरङ्गविघूर्णितभाजने विचलतात्मनि कुड्यमये कृता ॥
अत्र प्रवरान्तमाद्यपदं चन्द्रमस्युपचरितम् ।
भाजनमित्याशये, कुड्यमय इति च विचले ।
अत्रैतत् कामपि कान्तिं न पुष्यत, ऋते वृत्तपूरणात् ।
स चेति ।
प्रथमोद्द्योते यः प्रसिद्ध्यनुरोधप्रवर्तितव्यवहाराः कवय इत्यत्र ऽवदति बिसिनीपत्र्रशयनम्ऽ इत्यादि भाक्त उक्तः ।
स न केवलं ध्वनेर्न विषयो यावदयमन्यो ऽपीति चशब्दस्यार्थः ।
उक्तमेव ध्वनिस्वरूपं तदाभासविवेकहेतुतया कारिकाकारो ऽनुवदतीत्यभिप्रायेण वृत्तिकृदुपस्कारं ददाति--यत इति ।
अवभासनमिति ।
भावानयने द्रव्यानयनमिति न्यायादवभासमानं व्यङ्ग्यम् ।
ध्वनिलक्षणं ध्वनेः स्वरूपं पूर्णम्, अवभासनं वा ज्ञानं तद्ध्वनेर्लक्षणं प्रमाणं, तच्च पूर्णं, पूर्णध्वनिस्वरूपनिवेदकत्वात् ।
अत वा ज्ञानमेव बालप्रिया विषमेति ।
विषमः विषमसंख्याकः काण्डश्शरो यस्य तस्य कामदेवस्य, यः कुडुम्बकसञ्जयः तस्य प्रवरमुख्य हे चन्द्रेत्यर्थः ।
वारिनिधौ पतता पतितेन त्वया ।
कुरङ्गेति पाठे च लताकुरङ्गेण मृगेण विधूर्णितं भाजनं मध्यभागो यस्य तस्मिन्नित्यात्मविशेषणम् ।
तरङ्गेति पाठे वारिनिधिविशेषणम् ।
कुड्यमये अचढ्चले ।
आत्मनिस्वशरीरे ।
विचलतेति ।
स चच्चलतेत्यर्थः ।
कृता उत्पादिता ।
उपचरितमित्यस्य उत्तरवाक्यायोरपि सम्बन्धः ।
स चेति चकारः प्रथमोद्योतोक्तसमुच्चायक इत्याह--प्रथमद्योतो इत्यादि ।
स नेत्यादि ।
तन्मात्रं ध्वनेरविषयो नेत्यर्थः ।
अन्यो ऽपीति ।
अव्युत्पत्तेरित्याद्युक्तप्रकारो ऽपीत्यर्थः ।
अवभासनमित्यादिकं व्याचष्टे---भावेत्यादि ।
अवभासनपदेन अवभासमानं व्यङ्ग्यं लक्ष्यत इति भावः ।
पूर्णं स्वरूपमिति सम्बन्धः ।
नन्वेवं व्यङ्ग्यस्याङ्गीभूतस्येत्यस्यान्वयो दुर्घट इत्यत आह---अवभासनमित्यादि ।
तत् स्फुटत्वेन ज्ञानम् ।
लक्ष्यते ज्ञायते अनेनेति व्युत्पत्यनुरोधेनाह---प्रमाणमिति ।
लक्षणपदस्य प्रमाणार्थकत्वं न स्वरसं, तत्पदमसाधारणधर्मार्थकमेवेत्याशयेनाह--अथवेत्यादि ।
लक्षणज्ञानयोः परिच्छेद्यपरिच्छेदकभावात्तयोरैक्यारोपेणात्र निर्देश इत्याह---ज्ञानमेवेत्यादि ।
तञ्चोदाहृतविषयमेव ॥
इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके द्वितीय उद्द्योतः ॥
लोचनम् ध्वनिलक्षणम्, लक्षणस्य ज्ञानपरच्छेद्यत्वात् ।
वृत्तावेवकारेण ततो ऽन्यस्य चाभासरूपत्वमेवेति सूचयता तदाभासविवेकहेतुभावोयः प्रक्रन्तः स एव निर्वाहित इति शिवम् ॥
प्राज्यं प्रोल्लासमात्रं सद्भेदेनासूत्र्यते यया ।
वन्दे ऽभिनवगुप्तो ऽहं पश्यन्तीं तामिदं जगत् ॥
इति श्रीमहामाहेश्वराचार्यवर्याभिनवगुप्तोन्मीलिते सहृदयालोक लोचने ध्वनिसङ्केते द्वितीय उद्द्योतः ॥
बालप्रिया ज्ञानपरिच्छेद्यत्वादिति ।
लक्ष्यज्ञानेन निर्णेतव्यत्वादित्यर्थः ।
गवादिज्ञानेन हि गवादिलक्षणं परिच्छिद्यते ।
एवकारेणेति ।
उदाहृतविषयमेवेत्येवकारेणेत्यर्थः ।
प्राज्यमिति ।
यया मायारूपया परमेश्वर्या प्राज्यं प्रभूतम् इदं जगदति प्रथमान्ततया ।
डपकृष्यते ।
प्रोल्लासः प्रतीतिस्तन्मात्रम् सत् न तु वस्तुसदिति भावः ।
भेदेन ब्रह्मभिन्नत्वेन ।
यद्वा---सद्भेदेनेत्येकं पदम् सतो ब्रह्मणो भिन्नत्वेनत्यर्थः ।
आसूत्र्यते प्रकाश्यते ।
इदं जगत्पश्यन्तीं तामभिनवगुप्तो ऽहं वन्दे इति सम्बन्धः ।
इति सर्वं शिवम् ।
इति श्रीसहृदयतिलकपण्डितराजरामशारकविरचितायां ध्वन्यालोकटिप्पण्यां बालप्रियायां द्वितीयोद्द्योतः समाप्तः ॥
तृतीय उद्द्योतः
तृतीय उद्द्योतः - - - एवं व्यङ्ग्यमुखेनैव ध्वनेः प्रदर्शिते सप्रभेदे स्वरूपे पुनर्व्यञ्जकमुखेनैतत्प्रकाश्यते--- लोचनम् तृतीय उद्द्योतः स्मरामि स्मरसंहारलीलापाटवशालिनः ।
प्रसह्य शम्भोर्देहार्धे हरन्तीं परमेश्वरीम् ॥
उद्योतान्तरसङ्गतिं कर्तुमाह वृत्तिकारः---एवमित्यादि ।
तत्र वाच्यमुखेन तावदविवक्षितवाच्यादयो भेदाः, वाच्यश्च यद्यपि व्यञ्जक एव ।
यथोक्तम्--ऽयत्रार्थः शब्दो वाऽ इति ।
ततश्च व्यञ्जकमुखेनापि भेद उक्तः, तथापि स वाच्यो ऽर्थो व्यङ्ग्यमुखेनैव भिद्यते ।
तथा ह्यविवक्षितो वाच्यो व्यङ्ग्येन न्यग्भावितः, विवक्षितान्यपरो वाच्य इति व्यङ्ग्यार्थप्रवण एवोच्यते इत्येवं मूलभेदयोरेव यथास्वमवान्तरभेदसहितयोर्व्यञ्जकरूपो बालप्रिया अथ तृतीयोद्योतटिप्पणी प्रारभ्यते अथाहं प्रौढमुद्योतं तृतीयञ्च यथामति ।
किमपि व्याकरिष्यामि प्रसीदन्त्वत्र मे बुधाः ॥
स्मरामीति ।
स्मरस्य कामस्य संहार एव लीला, तत्र यत्पाटवं सामर्थ्यं तच्छालिनः ।
शम्भोः देहार्धं प्रसह्य हरन्तीमित्यनेन परमेश्वर्याः तथाविधात् परमेश्वरादप्यतिशयितं पाटवं द्योत्यते ।
उद्योतेति ।
अन्य उद्योतः उद्द्योतान्तरं तृतीयोद्योतः, तस्य सङ्गात द्वितीयोयोतेन सह प्रसङ्गरूपां सङ्गतिमित्यर्थः ।
कर्तुं सम्पादयितुम् ।
व्यङ्ग्यमुखेन प्रदर्शित इत्युक्त्या व्यञ्जकमुखेनाप्रदर्शनं लभ्यते, तदनुपपन्नमित्याशङ्कामुद्भाव्य तदुक्तेरभिप्रायं दर्शयन्नवतारयति---तत्रेत्यादि ।
यद्यपीत्यादौ योज्यम् ।
तत्र ध्वनौ ।
वाच्यमुखेनेत्यादि ।
अविवक्षितत्वादिविशिष्टवाच्यं भेदकमवलम्ब्यैव ध्वनेरविवक्षितवाच्यत्वादयः प्रभेदास्सम्भवन्तीत्यर्थः ।
ततः किमत आह--वाच्यश्चेत्यादि ।
यथोक्तमिति ।
वाच्यस्य व्यञ्जकत्वमस्तीत्युक्तमित्यर्थः ।
एतावतापि किमायातमित्यत आह---ततश्चेत्यादि ।
स इति ।
व्यञ्जक इत्यर्थः ।
व्यङ्ग्येन न्यग्भावित इति ।
वाच्यस्याविवक्षितत्वोक्त्या व्यङ्ग्येनाप्रधानीकृतत्वं सिद्ध्यतीति भावः ।
व्यङ्ग्यार्थप्रवणः व्यङ्ग्यपरतन्त्रः ।
उपसंहरति---इतीत्यादि ।
मूलभेदयोरिति ।
अविवक्षितवाच्यविवक्षितान्यपरवाच्ययोरित्यर्थः ।
व्यङ्ग्यमुखत्यादि ।
व्यङ्ग्यपारतन्त्र्येणैवेत्यर्थः ।
अत एव उक्ताभिप्रायादेव ।
किञ्चेति ।
व्यङ्ग्यमुखेन
अविवक्षित-वाच्यस्य पद-वाक्य-प्रकाशता ।
तद्-अन्यस्यानुरणन-रूप-व्यङ्ग्यस्य च ध्वनेः
अविवक्षितवाच्यस्य पदवाक्यप्रकाशता ।
तदन्यस्यानुरणनरूपव्यङ्ग्यस्य च ध्वनेः ॥ 1 ॥
अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे पदप्रकाशता यथा महर्षेर्व्यासस्य---ऽसप्तैताः समिधः श्रियःऽ, यथा वा कालिदासस्य---ऽकः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम्ऽ, यथा वा--ऽकिमिव हि मधुराणां मण्डनं नाकृतीनाम्ऽ, एतेषूदाहरणेषु ऽसमिधऽ इति सन्नद्धऽ इति ऽमधुराणाऽमिति च पदानि व्यञ्जकत्वाभिप्रायेणैव कृतानि ।
लोचनम् यो ऽर्थः स व्यङ्ग्यमुखप्रेक्षिताशरणतयैव भेदमासादयति ।
अत एवाह---व्यङ्ग्यमुखेनेति ।
किं च यद्यप्यर्थो व्यञ्जकस्तथापि व्यङ्ग्यतायोग्यो ऽप्यसौ भवतीति, शब्दस्तु न कदाचिद्य्वङ्ग्यः अपि तु व्यञ्जक एवेति ।
तदाह---व्यञ्जकमुखेनेति ।
न च वाच्यस्याविवक्षितादिरूपेण यो भेदस्तत्र सर्वथैव न न प्रकाशितः किन्तु प्रकाशितो ऽप्यधुना पुनः शुद्धव्यञ्जकमुखेन ।
तथाहि व्यङ्ग्यमुखप्रेक्षितया विना पदं वाक्यं वर्णाः पदभागः सङ्घटना महावाक्यमिति स्वरूपत एव व्.यञ्जकानां भेदः, न चैषामर्थवत्कदाचिदपि व्यङ्ग्यता सम्भवतीति व्यञ्जकैकनियतं स्वरूपं यत्तन्मुखेन भेदः प्रकाश्यत इति तात्पर्यम् ।
यस्तु व्याचष्टे---ऽव्यङ्ग्यानां वस्त्वलङ्काररसानां मुखेनऽ इति, स एवं प्रष्टव्यः---एतत्तावत्र्रिभेदत्वं न कारिकाकारेण कृतम् ।
वृत्तिकारेण तु दर्शितम् ।
न चेदानीं वृत्तिकारोभेदप्रकटनं करोति बालप्रिया प्रदर्शित इत्युक्तेरभिप्रायान्तरञ्चास्तीत्यर्थः ।
तदाह---यद्यपीत्यादि ।
अर्थः वाच्यः ।
व्यङ्ग्येत्यादि ।
कदाचिद्व्यङ्ग्यो ऽपि भवतीत्यर्थः ।
तदाहेति ।
तदभिप्रायादाहेत्यर्थः ।
नन्वेवं पुनर्व्यञ्जकमुखेनेत्यत्र भवतीत्यर्थः तदाहेति ।
तदभिप्रायादाहेत्यर्थः ।
नन्वेवं पुनर्व्यञ्जकमुखेनेत्यत्र पुनशश्ब्दो ऽनुपपन्न इत्यतस्तात्पर्यं विवृणोति---न चेत्यादि ।
तत्रेति ।
अविवक्षितत्वादिबेदविशिष्टवाच्य इत्यर्थः ।
व्यञ्जकत्वन्न च नास्तीत्यन्वयः ।
ऽव्यञ्जकमुखत्वम्ऽ इति पाठे वाच्यस्येत्यादेः वाच्यसम्बन्धियदविवक्षितादिरूपं अविवक्षितत्वादिकन्तेन हेतुना यो भेदः ध्वनेरवान्तरभेदः ।
तत्र ध्वनिभेद इत्यर्थः ।
न च नास्तीत्युक्तमेवार्थं विवृणोति---व्यञ्जकमुखेनापीत्यादि ।
तथाच व्यञ्जकमुखेनेत्यस्य फलितमर्थमाह---शुद्धेत्यादि ।
केवलव्यञ्जकमुखेनेत्यर्थः ।
एषामिति ।
पदादीनामित्यर्थः ।
सम्भवतीति ।
सम्भाव्यत इतिच पाठः ।
इतीति हेतौ ।
लोचनम् ततश्चेदं कृतमिदं क्रियत इति कर्तृभेदे का सङ्गतिः? न चैतावता सकलप्राक्तनग्रन्थसङ्गतिः कृता भवति ।
अविवक्षितवाच्यादीनामपि प्रकाराणां दर्शितत्वादित्यलं निजपूज्यजनसगोत्रैः साकं विवादेन ।
चकारः कारिकायां यथासङ्ख्यशङ्कानिवृत्त्यर्थः ।
तेनाविवक्षितवाच्यो द्विप्रभेदो ऽपि प्रत्येकं पदवाक्यप्रकाश इति द्विधा ।
तदन्यस्य विवक्षिताभिधेयस्य सम्बन्धी यो भेदः क्रमद्योत्यो नाम स्वभेदसहितः सो ऽपि प्रत्येकं द्विधैव ।
अनुरणनेन रूपं रूपणसादृश्यं यस्य तादृग्व्यङ्ग्यं यत्तस्येत्यर्थः ।
महर्षेरित्यनेन तदनुसन्धत्ते यत्प्रागुक्तम्, अथ च रामायणमहाभारत प्रभृतिनि लक्ष्ये दृश्यत इति ।
धृतिः क्षमा दया शौचं कारुण्यं वागनिष्ठुरा ।
मित्राणां चानभिद्रोहः सप्तताः समिधः श्रियः ॥
समिच्छब्दार्थस्यात्र सर्वथा तिरस्कारः, असम्भवात् ।
समिच्छब्देन च व्यङ्ग्यो ऽर्थो ऽनन्यापेक्षलक्ष्म्युद्दीपनक्षमत्वं सप्तानां वक्रभिप्रेतं ध्वनितम् ।
यद्यप---ऽनिःश्वासान्ध इवादर्शःऽ इत्याद्युदाहरणादप्ययमर्थो लक्ष्यते, तथापि प्रसङ्गाद्बहुलक्ष्यव्यापित्वन्दर्शयितुमुदाहरणान्तराण्युक्तनि ।
अत्र च वाच्यस्यात्यन्ततिरस्कारः पूर्वोक्तमनुसृत्य बालप्रिया स्वरूपमिति ।
पददिस्वरूपमित्यर्थः ।
इति कर्तृभेदे का सङ्गतिरिति ।
इत्यस्य कर्तृभेदे सति सङ्गतत्वं न सम्भवतीत्यर्थः ।
ऽव्यङ्ग्यमुखेन प्रदर्शिते पुनर्व्यञ्जकमुखेनैतत्प्रकाश्यतऽ इत्यनेन प्रदर्शनप्रकाशनयोरेककर्तृकत्वं स्वरसतः प्रतीयते, तदसङ्गतं भवेदिति यावत् ।
ऽका सङ्गतिः एवं प्रष्टव्यऽ इति सम्बन्धः ।
दोषान्तरञ्जाह---न चेत्यादि ।
चकार इत्यादि ।
चकारस्याभावे अविवक्षितवाच्यस्य प्रदप्रकाशता, तदन्यस्य वाक्यप्रकाशतेति यथासङ्ख्येनार्थभ्रमस्स्यादिति भावः ।
तेनेति ।
समुच्चयार्थकचकारेणेत्यर्थः ।
ऽतदन्यस्येऽति व्यधिकरणविशेषणमित्याशयेन व्याचष्टे---विवक्षितेत्यादि ।
ऽअनुरणनेऽत्यादेर्विवरणं--क्रमेत्यादि ।
ऽरूपम्ऽ इत्यस्य विवरणम्--रूपणोति ।
फलितमाह---सादृश्यमिति ।
इति ।
यत्प्रागुक्तमिति सम्बन्धः ।
समिच्छब्दार्थस्य इध्मत्वविशिष्टस्य ।
समिच्छब्देनेति ।
उद्दीपकत्वं लक्ष्यतेति शेषः ।
समिच्छब्दो ऽत्र वाच्यलक्ष्योभयानुगतोद्दीपकत्वप्रकारेण लक्षयति ।
एवमुद्यतत्वं लक्षयतेत्यादेरुद्यतत्वाद्युभयानुगतधर्मप्रकारेण लक्षयतेत्यर्थो बोध्यः ।
ऽशब्देन चेऽत्यनन्तरं तस्यैवार्थान्तरसङ्क्रमितवाच्ये यथा---ऽरामेण प्रियजीवितेन तु कृतं लोचनम् योजनीयः किं पुनरुक्तेन ।
सन्नद्धपदेन चात्रासम्भवत्स्वार्थोनोद्यतत्वं लक्षयता वक्रभिप्रेता निष्करुणकत्वाप्रतिकार्यत्वाप्रेक्षापूर्वकारित्वादयो ध्वन्यन्ते ।
तथैव मधुरशब्देन सर्वविषयरञ्जकत्वतर्पकत्वादिकं लक्षयता सातिशयामिलाषविषयत्वं नात्राश्चर्यमिति वक्रभिप्रेतं ध्वन्यते ।
तस्यैवेति ।
अविवक्षितवाच्यस्य यो द्वितीयो भेदस्तस्येत्यर्थः ।
ऽप्रत्याख्यानरुषः कृतं समुचितं क्रूरेण ते रक्षसा सोढं तच्च तथा त्वया कुलजनो धत्ते यथोच्चैः शिरः ।
व्यर्थ सम्प्रति बिभ्रता धनुरिदं त्वद्य्वापदः साक्षिणाऽ इति ।
रक्षःस्वभावादेव यः क्रूरो ऽनतिलङ्घ्यशासनत्वदुर्मदतया च प्रसह्य निराक्रियमाणः कोधान्धः तस्यैतत्तावत्स्वचित्तवृत्तिसमुचितमनुष्ठानं यन्मूर्धकर्तनं नाम, मान्यो ऽपि बालप्रिया व्यङ्ग्यो ऽर्थ इति पाठो दृश्यते तत्सत्वे ध्वनितमित्यस्य बोधितमित्यर्थः ।
असम्भवत्स्वार्थेनेति ।
स्वार्थः वर्मितः ।
ऽसन्नद्धो वर्मितऽ इत्यमरः ।
ध्वन्यन्त इति ।
त्वत्पदार्थस्य मेघस्येति शेषः ।
मधुरशब्देनेति ।
माधुर्यरसविशिष्टवाचिनेति भावः ।
सर्वेति ।
सर्वविषयरञ्जकत्वतर्पकत्वादीनाम्मध्ये एकन्धर्ममित्यर्थः ।
अत्रेति ।
आकृतिष्वित्यर्थः ।
प्रत्याख्यानेति श्रीरामचन्द्रस्य देवीं सीतामुद्दिश्येदं वचनम् ।
विवृणोति--रक्ष इत्यादि ।
यः रावणः ।
प्रत्याख्यानरुडित्यस्य विवरणम्---अनतीत्यादि क्रोधान्ध इत्यन्तम् ।
अनतिलङ्ध्यं शासनं यस्य तत्वेन या दुर्मदता अहमनतिलङ्ध्यशासन इति दुरभिमानः तयेति क्रोधान्धत्वे हेतुः ।
निराक्रियमाणः त्वया निराकृतः ।
ऽएतदनुष्ठानं स्वचित्तवृत्ति समुचितम्ऽ इति सम्बन्धः ।
एतदिस्येतद्विवृणोति---यन्मूर्धकर्तनं नामेति प्रेम्णः प्रिये नोचितम्ऽ ।
अत्र रामेणेत्येतत्पदं साहसैकरसत्वादिव्यङ्ग्याभिसङ्क्रमितवाच्यं व्यञ्जकम् ।
लोचनम् कश्चिन्ममाज्ञां लङ्घयिष्यतीति ।
तैति यथा तादृगपि तया न गणितस्तस्यास्तवेत्यर्थः ।
तदपि तथा अविकारेणोत्सवापत्तिबुद्ध्या नेत्रविस्फारतामुखप्रसादादिलक्ष्यमाणया सोढम् ।
यथा येन प्रकारेण कुलजन इति यः कश्चित्पामरप्रायो ऽपि कुलवधूशब्दवाच्यः ।
उच्चैः शिरो धत्तै एवंविधाः किल वयं कुलवध्वो भवाम इति ।
अथ च शिलःकर्तनावसरे त्वया शीघ्रं कृत्यतामिति तथा सोढं तथोच्चैः शिरो धृतं यथान्यो ऽपि कुलस्त्रीजन उच्चैः शिरो धत्ते नेत्यप्रवृत्ततया ।
एवं रावणस्य तव च समुचितकारित्वं निर्व्यूढम् ।
मम पुनः सर्वमेवानुचितं पर्यवसितम् ।
तथाहिराज्यनिर्वासनादिनिरवकाशीकृतधनुर्व्यापारस्यापि कलत्रमात्ररक्षणप्रयोजनमपि यच्चापमभूत्तत्संप्रति त्वय्यरक्षितव्यापन्नायामेव निष्प्रयोजनम्, तथापि च तद्धारयामि ।
तन्नूनं निजजीवितरक्षैवास्य प्रयोजनत्वेन संभाव्यते ।
न चैतद्युक्तम् ।
रामाणेति ।
असमसाहसरसत्वसत्यसंधत्वोचितकारित्वादिव्यङ्ग्यधर्मान्तरपरिणतेनेत्यर्थः ।
ऽकापुरुषादिधर्मपरिग्रहस्त्वादिशब्दात्ऽ इति यद्व्याख्यातम्, तदसत् ; कापुरुषस्य ह्येतदेव प्रत्युतोचितं स्यात् ।
प्रिय इति शब्दमामेवैतदिदानीं संवृत्तम् ।
प्रियशब्दस्य प्रवृत्तिनिमित्तं यत्प्रेमनाम तदप्यनौचित्यकलङ्कितमिति बालप्रिया रावणेन हि श्रीरामस्य पुरतो मायासीताशिरश्छेदः कृतः ।
इतीति ।
इति बुद्ध्येत्यर्थः ।
ते इत्यस्य प्रत्याख्यानेत्यनेन, कृतमित्यनेन च सम्बन्धः ।
भावार्थमाह---यथेत्यादि ।
तादृगपि निरतिशयैश्वर्यादिविशिष्टो ऽपि सः गणितः आदृतः ।
तदपि शिरःकर्तनमपि ।
बुद्ध्येत्यस्य विशेषणं---नेत्रेत्यादि ।
विस्फारता विकासः ।
सोढमनुभूतम् ।
इत्युच्छैदिशरो धत्त इति सम्बन्धः ।
इत्यभिमानेन शिर उन्नतं करोतीत्यर्थः ।
अन्यथापि व्याचष्टे--अथ चेत्यादि ।
तच्चेत्यस्य विवरणं--शिरःकर्तनावसर इति ।
तथा सोढमित्यस्य व्याख्यानं--तथोञ्चैरित्यादि ।
उच्चैशिशरो धत्त इति प्रार्थनाप्रत्याख्यानेन क्रोधान्धे कस्मिंश्चित् कामिनि शिरःकर्तनायोद्युक्ते सति शिर उन्नतं करोतीत्यर्थः ।
नित्यप्रवृत्ततयेति लडर्थविवरणम् ।
उत्तरार्धं व्याख्यास्यन्नाह--एवमित्यादि ।
पुनरिति तुशब्दविवरणम् ।
ऽव्यर्थऽ मित्यादेर्व्याख्यानम्---राज्येत्यादि ।
ऽप्रियजीवितेनेऽत्यस्य तन्नूनमित्यादि ।
च ।
अस्येति ।
धनुर्धारणस्येत्यर्थः ।
एतदिति ।
निजजीवितरक्षाप्रयोजनकत्वेन धनुर्धारणमित्यर्थः ।
ऽरामेणेऽत्यादिवृत्तिग्रन्थं व्याचष्टे--रामेणेत्यादि ।
साहसैकरसत्वमित्यस्य विवरणम्--असमेत्यादि ।
आदिपदार्थकथनं--सत्येत्यादि ।
अत्र रामपदलक्ष्यतावच्छेदकं कातरत्वमिति प्रदीपकारः, कैतवस्नेहवत्वमिति चक्रवर्ती, पुरुषकारपराङ्मुखत्वमिति भट्टगोपालः ।
यथा वा---
एमेअ जणो तिस्सा देउ कवोलोपमाइ ससिबिम्बम् ।
परमत्थविआरे उण चन्दो चन्दो विअ वराओ ॥
अत्र द्वितीयश्चन्द्रशब्दो ऽर्थान्तरसङ्क्रमितवाच्यः ।
अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे वाक्यप्रकाशता यथा---- या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥
लोचनम् शोकालम्बनोद्दीपनविभावयोगात्करुणरसो रामस्य स्फुटीकृत इति ।
एमेअ इति ।
एवमेव जनस्तस्या ददाति कपोलोपमायां शशिबिम्बम् ।
परमार्थविचारे पुनश्चन्द्रश्चन्द्र इव वराकः (इति छाया) ।
एवमेवेति स्वयमविवेकान्धतया ।
जन इति लोकप्रसिद्धगतानुगतिकतामात्रशरणः ।
तस्या इत्यसाधारणगुणगणमहार्धवपुषः ।
कपोलोपमायामिति निर्व्याजलावण्यसर्वस्वभूतमुखमध्यवर्तिप्रधानभूतकपोलतलस्यापमायां प्रत्युत तदधिकवस्तुकर्तव्यं ततो दूरनिकृष्टं शशिबिम्बं कलङ्कव्याजजिह्मीकृतम् ।
एवं यद्यपि गङ्डरिकाप्रवाहपतितो लोकः, तथापि यदि परीक्षकाः परीक्षन्ते तद्वराकः कृपैकभाजनं यश्चन्द्र इति प्रसिद्धः स चन्द्र एव क्षयित्वविलासशून्यत्वमलिनत्वधर्मान्तरसंक्रान्तो यो ऽर्थः ।
अत्र च यथा व्यङ्ग्यधर्मान्तरसङ्क्रान्तिस्तता पूर्वोक्तमनुसन्धेयम् ।
एवमुत्तरत्रापि ।
एवं प्रथमभेदस्य द्वावपि प्रकारौ पदप्रकाशकत्वेनोदाहृत्य वाक्यप्रकाशकत्वेनोदाहरति---या निशेति ।
विवक्षित इति ।
तेन ह्युक्तेन न कश्चिदुपदेश्यं प्रत्युपदेशः सिद्ध्यति ।
बालप्रिया शोकेत्यादि ।
सम्भावितप्रियामरणमालम्बनविभावः ।
प्रियासम्बन्ध्यसाधारमकर्मादिस्मरणमुद्दीपनविभावः ।
एवमेवेत्यादेर्भावार्थं व्याचष्टे---स्वयमित्यादि ।
तदधिकमिति ।
कपोलादुत्कृष्टमित्यर्थः ।
उपमायां कर्तव्यमित्यन्वयः ।
उपमानत्वेन वक्तव्यमित्यर्थः ।
तत इति ।
कपोलादित्यर्थः ।
शशिपदविवरणम्--कलङ्केत्यादि ।
कलङ्कव्याजो यः शशः तेन जिह्मीकृतं मलिनीकृतम् ।
विअ इत्यवधारणार्थकमित्याशयेनाह---चन्द्र एवेति ।
द्वितीयचन्द्रपदस्य चन्द्रपदवाच्यत्वेन गुणशून्यत्वेन वा रूपेण लक्षणात्र बोध्या ।
व्यङ्ग्यधर्मानाह---क्षयित्वेत्यादि ।
सङ्क्रान्तो यो ऽर्थ इति ।
अर्थः चन्द्रपदार्थः ।
अत्रेति ।
उक्तयोरुदाहरणयोरित्यर्थः ।
पूर्वोक्तमिति ।
द्वितीयोद्योतस्यादावुक्तमित्यर्थः ।
तेन ह्युक्तेनेति ।
निशादिपदवाच्येन रात्र्याद्यर्थेनेत्यर्थः ।
अनेन हि वाक्येन निशार्थो न च जागरणार्थः कश्चिद्विवक्षितः ।
किं तर्हि? तत्त्वज्ञानावहितत्वमतत्त्वपराङ्मुखत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृतवाच्यस्यास्य व्यञ्जकत्वम् ।
तस्यैवार्थान्तरसङ्क्रमितवाच्यस्य वाक्यप्रकाशता यथा--- विसमैओ काण वि काण वि वालेइ अभिअणिम्माओ ।
काण वि विसामिअमओ काण वि अविसामओ कालो ॥
(विषमयितः केषामपि केषामपि प्रयात्यमृतनिर्माणः ।
केषामपि विषामृतमयः केषामप्यविषामृतः कालः ॥
इति छाया ) लोचनम् निशायां जागरतव्यमन्यत्र रात्रिवदासितव्यमिति किमनेनोक्तेन ।
तस्माद्बाधितस्वार्थमेतद्वाक्यं संयमिनो लोकोत्तरतालक्षणेन निमित्तेन तत्वदृष्टाववधानं मिथ्यादृष्टो च पराङ्मुखत्वं ध्वनति ।
सर्वशब्दार्थस्य चापेक्षिकतयाप्युपपद्यमानतेति न सर्वशब्दार्तान्यथानुपपत्यायामर्थ आक्षिप्तो मन्तव्यः ।
सर्वोषां ब्रह्मादिस्थावरान्तानां चतुर्दशानामपि भूतानां या निशा व्यामोहजननीतत्त्वदृष्टिः तस्यां संयमी जागर्ति कथं प्राप्येतेति ।
बालप्रिया न कश्चिदिति ।
कश्चिदुपदेशो न सिद्ध्यतीत्यन्वयः ।
भगवद्गीतागतस्यास्योपदेशपरत्वमावश्यकमिति भावः ।
कुतो न सिद्ध्यतीत्यत्राह--निशायामित्यादि ।
अन्यत्र रात्रिवदिति ।
अहनि रात्राविवेत्यर्थः ।
बाधितेति ।
अनुपयोगबाधितेत्यर्थः ।
वाक्यमिति ।
निशा जागर्तीत्यादिपदसमुदाय इत्यर्थः ।
तत्तत्पदलक्ष्यार्थाः प्रदर्शयिष्यन्ते ।
लोकोत्तरेत्यादि ।
लोकोत्तरत्वेन हेतुनेत्यर्थः ।
नन्वत्र निद्राकालरूपनिशापदार्थे सर्वभूतसम्बन्धान्वये सर्वपदार्थघटकतया संयमिनो ऽपि तदन्वयः प्राप्तः, स च जागर्तीत्येतदर्थान्वयिनो ऽनुपपन्नस्तस्मादनेनोक्तव्यङ्ग्यस्याविष्कृतत्वान्न ध्वनित्वमिति शङ्कां परिहरति---सर्वशब्दार्थस्येत्यादि ।
आपेक्षिकतयेति ।
सर्वशब्दो ऽत्र संयमिव्यतिरिक्ताशेषत्वावच्छिन्नवाचक इत्यतः किञ्जिदपेक्षयेत्यर्थः ।
सर्वशब्दार्थेति ।
सर्वशब्दार्थान्वयेत्यर्थः ।
अयमर्थः पूर्वोक्तव्यङ्ग्यार्थः ।
आक्षिप्तः आविष्कृतः ।
श्लोकं व्यचष्टे---सर्वषामित्यादि ।
चतुर्दशानामपि भूतानामिति ।
ब्रह्माप्राजापत्यैन्द्रपित्र्यगान्धर्वयाक्षराक्षसपैशाचभेदादष्टविधन्दैवं मानुषमेकविधं पशुपक्षिसर्पकीटस्थावरभेदात्पञ्चविधं तैर्यग्योनं भूतमिति चतुर्दशविधानामपि देहिनामित्यर्थः ।
यथोक्तं साङ्ख्यकारिकायां "अष्टविकल्पो दैव" इत्यादि ।
व्यामोहजननीति निशापदलक्ष्यार्थकथनम् ।
सा केत्यत्राह--तेत्वेति ।
ऽजागर्तिऽ पदलक्ष्यार्थमाह---कथमित्यादि ।
लोचनम् न तु विषयवर्जनमात्रादेव संयमीति यावत् ।
यदि वा सर्वभूतनिशायां मोहिन्यां जागर्ति कथमियं हेयेति ।
यस्यां तु मिथ्यादृष्टौ सर्वाणि भूतानि जाग्रति अतिशयेन सुप्रबुद्धरूपाणि सा तस्य रात्रिरप्रबोधविषयः ।
तस्या हि चेष्टायां नासौ प्रबुद्धः ।
एवमेव लोकोत्तराचारव्यवस्थितः पश्यति मन्यते च ।
तस्यैवान्तर्बहष्करणवृत्तिश्चरितार्था ।
अन्यस्तु न पश्यत न च मन्यत इति ।
तत्वदृष्टिपरेण भाव्यमिति तात्पर्यम् ।
एवं च पश्यत इत्यपि मुनेरित्यपि च न स्वार्थमात्रविभ्रान्तम् ।
अपि तु व्यङ्ग्य एव विश्राम्यति ।
यत्तच्छब्दयोश्च न स्वतन्त्रार्थतेति सर्व एवायमाख्यातसहायः पदसमूहो व्यङ्ग्यपरः ।
तदाह---अनेन हि वाक्येनेति ।
प्रतिपाद्यत इति ध्वन्यत इत्यर्थः ।
विषमयितो विषमयतां प्राप्तः ।
केषाञ्चिद्दुष्कृतिनामतिविवेकिनां वा ।
केषाञ्चित्सुकृतनामत्यन्तमविवेकिनां वा अतिक्रामत्यमृतनिर्माणः ।
केषाञ्चिन्मिश्रकर्मणां विवेकाविवेकवतां वा, विषाभृतमयः ।
केषामपि मूढप्रायाणां धाराप्राप्तयोगभूमिकारूढानां वा अविषाभृतमयः कालो ऽतिक्रामतीति सम्बन्धः ।
विषामृतपदे च लावण्यादिशब्दवन्निरूढलक्षणारूपतया सुखदुःखसाधनयोर्वर्तते, यथा---विषं निम्बममृतं कपित्थमिति ।
न चात्र सुशदुःखसाधने तन्मात्रविश्रान्ते, अपि तु स्वकर्तव्यसुखदुःखपर्यवसिते ।
न च ते साधने सर्वथा बालप्रिया इयं कथं प्राप्येतेति मत्या तत्प्राप्त्युपायमनुतिष्ठतीत्यर्थः ।
भावमाह---न त्वित्यादि ।
संयमी संयमिपदवाच्यः ।
तत्वदृष्टेर्मोहजनकत्वमप्रसिद्धमित्यतो ऽन्यथा विवृणोति---यदि वेत्यादि ।
मोहिन्यामिति ।
अविद्यायामित्यर्थः ।
मिथ्यादृष्टाविति ।
अविद्यायां तत्कार्ये द्वैतप्रपञ्चे वेत्यर्थः ।
तस्येति ।
संयमिन इत्यर्थः ।
अप्रबोधविषय इत्यस्यैव विवरणम्---तस्या हीत्यादि ।
असाविति ।
संयमीत्यर्थः ।
लोकोत्तराचारव्यवस्थिति इति संयमिपदस्यैव लक्ष्यार्थकथनम् ।
ऽपश्यतो मुनेऽ रित्यस्य विवणम्---पश्यति मन्यते चेति ।
अत्र पश्यतीत्येतच्चरितार्थबहिष्करणवृत्तित्वेन मन्यत इत्येतच्चरितार्थान्तःकरणवृत्तित्वेन च रूपेण लक्षकमित्याह---तस्यैवेत्यादि ।
अनेन गम्यमर्थमाह---अन्य इत्यादि ।
फलितं व्यङ्ग्यमाह---तत्वेति ।
व्यङ्ग्य एवेति ।
पूर्वोक्तमुख्यव्यङ्ग्य एवेत्यर्थः ।
तदाहेति ।
उक्ताभिप्रायादाहेत्यर्थः ।
ऽकेषामपीऽत्यादेर्विवरणम्---केषाञ्चिदित्यादि ।
"प्रयातीऽत्यस्य अतिक्रमतीति ।
ऽअमिअणिम्माओऽइति गाथापाठाभिप्रायेण छायामाह---अमृतनिर्माण इति ।
अमृतस्येव निर्माणं यस्य स इत्यर्थः ।
विषामृतपदयोः दुःखसुखसङ्क्रमितवाच्यत्वं वृत्तावुक्तं व्यवस्थापयिष्यन्नाह---विषामृतपदे इत्यादि ।
सुखदुःखेति व्युत्क्रमेण निर्देशः दुःखसुखसाधनयोरित्यर्थः ।
तथा पाठो वा ।
एवमुपर्यपि बोध्यम् ।
अत्र दृष्टान्तमाह---यथेत्यादि ।
इतीत्यस्य इत्यादावित्यर्थः ।
प्रकृतोदाहरणे विशेषमाह--ने चेत्यादि ।
अत्रेति ।
प्रकृतोदाहरण इत्यर्थः ।
तन्मात्रेति ।
सुखदुःखसाधनमात्रेत्यर्थः ।
तन्मात्रविश्रान्तेन अत्र हि वाक्ये विषामृतशब्दाभ्यां दुःखसुखरूपसङ्क्रमितवाच्याभ्यां व्यवहार इत्यर्थान्तरसङ्क्रमितवाच्यस्या व्यञ्जकत्वम् ।
विवक्षिताभिधेयस्यानुरणनरूपव्यङ्ग्यस्य शब्दशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा--- लोचनम् न विवक्षिते ।
निस्साधनयोस्तयोरभावात् ।
तदाह---सङ्क्रमितवाच्याभ्यामिति ।
केषाञ्चिदिति चास्य विशेषे सङ्क्रान्ति ।
अतक्रामतीत्यस्य च क्रियामात्रसङ्क्रान्तिः ।
काल इत्यस्य च सर्वव्यवहारसङ्क्रान्तिः ।
उपलक्षणार्थं तु विषामृतग्रहणमात्रसङ्क्रमणं वृत्तिकृता व्याख्यातम् ।
तदाह--वाक्यैति ।
एवं कारिकाप्रथमार्धलक्षितांश्चतुरः प्रकारानुदाहृत्य द्वितीयकारिकार्धस्वीकृतान् षडन्यान् प्रकारान् क्रमेणोदाहरति--विवक्षिताभिधेयस्येत्यादिना ।
प्रातुमिति पूरयितुम् ।
धनैरिति बहुवचनं यो येनार्थी तस्य तेनेति सूचनार्थम् ।
अत एवार्थग्रहणम् ।
जनस्येति बाहुल्येन हि लोको धनार्थी, न तु गुणैरुपकारार्थी ।
दैवेनेति ।
अशक्यपर्यनुयोगेनेत्यर्थः ।
बालप्रिया चेति सम्बन्धः ।
विवक्षिते इत्यपकृष्यते ।
स्वकर्तव्येति ।
स्वसाध्येत्यर्थः ।
स्वपदं साधनपरम् ।
न च न विवक्षिते विवक्षिते एव ।
कुत इत्यतत्राह--निस्साधनेत्यादि ।
तदाहेति ।
उक्ताभिप्रायेण सुखदुःखरूपसङ्क्रमितवाच्यत्वमाहेत्यर्थः ।
ऽविषंनिम्बममृतं कपित्थम्ऽ इत्यादौ निरूढलक्षणया दुःखसाधनं निम्बं सुखसाधनं कपित्थमित्येवार्थे विवक्षितः, प्रकृते तु कालः केषाञ्चिद्दुःखमयः केषाञ्चित्सुखमयश्चातिक्रामतीत्यर्थस्य विवक्षिततया विषपदस्य किञ्चित्साधनकदुःखे अमृतपदस्य किञ्चित्साधनकसुखे च लक्षणा दुःखसुखयोर्विशेषो व्यङ्ग्यः, साधनत्वेन विषामृतयोर्भानादर्थान्तरसङ्क्रमितवाच्यता चेति भावः ।
केषाञ्चिदिति चास्य विशेषे सङ्क्रान्तिरति ।
अज्ञातविशेषधर्मावच्छिन्नवाचकस्य केषामपीति शब्दस्य च दुष्कृतिनामित्याद्युक्तार्थविशेषे सङ्क्रान्तिरित्यर्थः ।
दुष्कृत्यादीनामज्ञातत्वादिकं व्यङ्ग्यम् ।
क्रियामात्रे भवत्यर्थे ।
सर्वव्यवहारेति ।
व्यवहारगोचरवस्तुजातेत्यर्थः ।
द्वितीयेति ।
द्वितीयं यत्कारिकार्धं तत्स्वीकृतांस्तदुक्तानित्यर्थः ।
ऽप्रातुम्ऽ इति ।
ऽअस्मीऽत्यव्ययमहमर्थे ।
धनैरर्थिजनस्य वाञ्छां प्रातुं दैवेन न सृष्टो यदि नामेत्यभ्युपगमे ।
तर्हिति शेषः ।
जडो ऽहं पथि प्रसन्नाम्बुधरस्तटाकः अथवा कूपः किं कस्मात् ।
न कृतः दैवेन न सृष्टः ।
तटाकस्य कूपादुत्कृष्टत्वादादावुक्तिः ।
लोचने--यो येनार्थाति ।
यो जनो गोसुवर्णादीनाम्मध्ये येन धनेनार्थीत्यर्थः ।
अत एवेति ।
उक्ताभिप्रायादेवेत्यर्थः ।
भावार्थकथनम्---अशक्येत्यादि ।
दैवस्यादृश्यत्वादिति भावः ।
ऽअस्मि न सृष्टऽ प्रातुं धनैरर्थिजनस्य वाञ्छां दैवेन सृष्टो यदि नाम नास्मि ।
पथि प्रसन्नाम्बुधरस्तडागः कूपो ऽथवा किं न जडः कृतो ऽहम् ॥ 1 ॥
अत्र हि जड इति पदं निर्विण्णेन वक्रात्मसमानाधिकरणतया प्रयुक्तमनुरणनरूपतया कूपसमानाधिकरणतां स्वशक्त्या प्रतिपद्यते ।
तस्यैव वाक्यप्रकाशता यता हर्षचरिते सिंहनादवाक्येषु--ऽवृत्ते ऽस्मिन्महाप्रलये धरणीधारणायाधुना त्वं शेषःऽ ।
एतद्धि वाक्यमनुरणनरूपमर्थान्तरं शब्दशक्त्या स्फुटमेव प्रकाशयति ।
लोचनम् अस्मीति ।
अन्यो हि तावदवश्यं कश्चित्सृष्टो न त्वहमिति निर्वेदः ।
प्रसन्नं लोकोपयोगि अम्बु धारयतीति ।
कूपो ऽथवेति ।
लोकैरप्यलक्ष्यमाण इत्यर्थः ।
आत्मसमामाधिकरणतयेति ।
जडः किङ्कर्तव्यतामूढ इत्यर्थः, अथ च कूपो जडो ऽर्थिता कस्य कीदृशीत्यसम्भवद्विवेक इति ।
अत एव जडः शीतलो निर्वेदसन्तापरहितः ।
तथा जडः शीतजलयोगितया परोपकारसमर्थः ।
अनेन तृतीयार्थेनायं जडशब्दस्तटाकार्थेन पुनरुक्तार्थसम्बन्ध इत्यभिप्रायेणाह--कूपसमानाधिकरणतामिति ।
स्वशक्त्येति शब्दशक्त्युद्भवत्वं योजयति ।
मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0