ध्वन्यालोक (टीका सहित) · भाग 261280
हंसैश्शारदशोबा काव्यकथा सज्जनैः क्रियते गुर्वी ॥
इति छाया) इत्यादिषूपमागर्भत्वे ऽपि सति वाच्यालङ्कारमुखेनैव चारुत्वं व्यवतिष्ठते न व्यङ्ग्यालङ्कारतात्पर्येण ।
तस्मात्तत्र वाच्यालङ्कारमुखेनैव काव्यव्यपदेशो न्याय्यः ।
यत्र तु व्यङ्ग्यपरत्वेनैव वाच्यस्य व्यवस्थानं तत्र व्यङ्ग्यमुखेनैव व्यपदेशो युक्तः ।
लोचनम् साधुजनता ।
चन्द्रमयूखेश्च निशाया गुरुकीकरणं भास्वरत्वसेव्यत्वादि यत्क्रियते, कमलैर्नलिन्याः शोभापरिमललक्ष्म्यादि, कुसुमगुच्छैर्लताया अभिगम्यत्वमनोहरत्वादि, हंसैः शारदशोभायाः श्रुतिसुखकरत्वमनोहरत्वादि, तत्सर्वं काव्यकथायाः सज्जनैरित्येतावानयमर्थो गुरुः क्र्यित इति दीपकबलाच्चकास्ति ।
कथाशब्द इदमाह---आसतां तावत्काव्यस्य केचन सूक्ष्मा विशेषाः, सज्जनैर्विना काव्यमित्येष शब्दो ऽपि ध्वंसते ।
तेषु तु सत्स्वास्ते सुभगं काव्यशब्दव्यपदेशभागपि शब्दसन्दर्भमात्रम्; तथा तैः क्रियते यथादरणीयतां प्रतिपद्यत इति दीपकस्यैव व्यवच्छेद्यबलेन यो ऽर्थो ऽभिमतो यत्र तत्परत्वं स ध्वनेमार्ग इत्येवंरूपस्तं व्याचष्टे---यत्र त्विति ।
तत्र च वाच्यालङ्कारेण कदाचिद्व्यह्ग्यमलङ्कारान्तरं, यदि वा वाच्यालङ्कारस्य सद्भावमात्रं न व्यञ्जकता, वाच्यालङ्कारस्याभाव बालप्रिया न भवतीत्यर्थः ।
गुरुकीकरणं विवृणोति--चन्द्रमयूखैश्चेत्यादि ।
यत्क्रियते इति ।
तदिति शेषः ।
कमलैरित्यादिवाक्येष्वपि यत्क्रियत इत्यस्यानुषङ्गः ।
तत्सर्वमिति ।
काव्यकथान्वययोग्यं पूर्वोक्तं सेव्यत्वमनोहरत्वादिकमित्यर्थः ।
सज्जनैरिति ।
क्रियत इत्यस्यानुषङ्गः ।
चकास्तीति ।
वाच्यतया प्रतीयत इत्यर्थः ।
कवितेत्यनुक्त्वा काव्यकथेत्युक्तेः फलमाह---कथेत्यादि ।
काव्यकथेत्यस्य कथ्यमानं काव्यमित्यर्थः ।
तत्र कथाशब्दो वक्ष्यमाणं द्योतयतीत्यर्थः ।
सूक्ष्मा विशेषाः ध्वनित्वादयः ।
तेष्विति ।
सज्जनेष्वित्यर्थः ।
शब्दसन्दर्भमात्रमपि काव्यशब्दव्यपदेशभाक् सूभगमास्त इत्यन्वयः ।
कुत इत्यत्राह---तथेत्यादि ।
ऽइति दीपकस्येऽत्यादिना ऽवाच्येत्यादिवृत्तिग्रन्थो विवृतः ।
नोपमाया इति ।
सज्जनेषु हंसादीनां काव्यकथायां निशादीनां च गम्यमानाया उपमाया न प्राधान्यमित्यर्थः ।
व्यवच्छेद्यबलेनेति ।
यत्र भासते तत्परत्वं नेत्याद्युक्तिसामर्थ्येनेत्यर्थः ।
अभिमतः विवक्षितः ।
यत्रेत्यादिना प्रदर्शितस्य विकल्पेन त्रैविध्यं भवतीति दर्शयति---तत्र चेत्यादि ।
कदाचिदित्यस्योत्तरवाक्ययोरपि सम्बन्धः ।
यथा--- प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्या- न्निद्रामप्यस्य पूर्वामनलसमनसो नैव सम्भावयामि ।
सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात- स्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः ॥
यथा वा ममैव--- लावण्यकान्तिपरिपूरितदिङ्मुखे ऽस्मि- न्स्मेरे ऽधुना तव मुखे तरलायताक्षि ।
क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ॥
लोचनम् एव वेति त्रिदा विकल्पः ।
एतच्च यथायोगमुदाहरणेषु योज्यम् ।
उदाहरति---प्राप्तेति ।
कस्मिंश्चिदनन्तबलसमुदायवति नरपतौ समुद्रपरिसरवर्तिनि पूर्णचन्द्रोदयतदीयबलावगाहनादिना निमित्तेन पयोधेस्तावत्कम्पो जातः ।
सो ऽनेन सन्देहेनोत्प्रेक्ष्यत इति ससन्देहोत्प्रेक्षयोः सङ्करात्सङ्करालङ्कारो वाच्यः ।
तेन च वासुदेवरूपता बालप्रिया एषामुदाहरणानि स्फुटीभविष्यन्ति ।
प्राप्तश्रीरिति ।
एषः राजा, प्राप्ता श्रीः सम्पद्रमा च येन सः ।
अतः पुनरपि मयि तमनुभूतम् ।
मन्थखेदं मथनहेतुकं दुःखम् कस्मात् किमिति विदध्यात् कुर्यात् ।
अत्रादौ पुनरपीत्यादि सन्देहः, पश्चान्मथनफलभूतलक्ष्मीप्राप्तिबुद्ध्या कस्मादिति फलान्तरजिज्ञासा ।
एवमुपर्यपि बोध्यम् ।
अनलसमालस्यरहितं मनो यस्य तस्येति हेतुगर्भम् ।
अस्य राज्ञः पूर्वा निद्रामप्यहं नैव सम्भावयामि नैव संशये ।
सेतुमिति ।
एषमयीत्यनुषङ्गः ।
एषः यतः सकलद्वीपनाथैरनुयातः, अतः किमिति मयि भूयः सेतुं बध्नाति ।
त्वयि आयाते स्वसन्निधिमागते सति इति वितर्कान् पूर्वोक्तवाक्यैर्गम्यान् किं मथ्नीयादित्यादिसन्देहान् ।
दधत इव तद्धारणादिव पयोधेः कम्पः जलचाञ्चल्यमथ च वेपथुः आभातीत्यन्वयः ।
अत्र वाच्यं तद्य्वङ्ग्यं चालङ्कारं विवृणोति---कस्मिंश्चिदित्यादि ।
स इति ।
कम्प इत्यर्थः ।
अत्र जलचाञ्चल्यस्य वेपथोश्चाभेदाध्यवसायो बोध्यः ।
अनेन सन्देहेनेति ।
वितर्कान् दधत इति वाक्यप्रतिपादितेन एषः किं मथ्नीयादिति सन्देहेन हेतुनेत्यर्थः ।
उत्प्रेक्ष्यत इति ।
कम्पेन कार्येण निमित्तेन उक्तसन्देहरूपो हेतुः पयोधावुत्प्रेक्ष्यते ।
यद्वा---जलचाञ्चल्यरूपः कम्पः उक्तसन्देहहेतुकवेपथुत्वेनोत्प्रेक्ष्यत इति भावः ।
सङ्करादिति ।
एकवाक्यानुप्रवेशसङ्करादित्यर्थः ।
इत्येवंविधे विषये ऽनुरणनरूपरूपकाश्रयेण काव्यचारुत्वव्यवस्थानाद्रूपकध्वनिरिति व्यपदेशो न्याय्यः ।
द्रपकध्वनिरिति व्यपदेशो न्याय्यः ।
उपमाध्वनिर्यथा----
वीराणं रमै घुसिणरुणम्मि ण तदा पिआथणुच्छङ्गे ।
दिठ्ठी रिउगअकुम्भत्थलम्मि जह बहलसिन्दूरे ॥
लोचनम् तस्य नृपतेर्ध्वन्यते ।
यद्यपि चात्र व्यतिरेको भाति, तथापि स पूर्ववासुदेवस्वरूपात्, नाद्यतनात् ।
अद्यतनत्वे भगवतो ऽपि प्राप्तश्रीकत्वेनानालस्येन सकलद्वीपाधिपति विजयित्वेन च वर्तमानत्वात् ।
न च सन्देहोत्प्रेक्षानुपपत्तिबलाद्रूपकस्याक्षेपः, येन वाच्यालङ्कारोपस्कारकत्वं व्यङ्ग्यस्य भवेत् ।
यो यो ऽसम्प्राप्तलक्ष्मीको निर्व्याजविजिगीषाक्रान्तः स स मां मथ्नीयादित्याद्यर्थसम्भावनात् ।
न च पुनरपीति पूर्वामिति भूय इति च शब्दैरयमाकृष्टो ऽर्थः ।
पुनरर्थस्य भूयोर्थस्य च कर्तृभेदे ऽपि समुद्रैक्यमात्रेणाप्युपपत्तेः ।
यथा पृथ्वी पूर्वं कार्तवीर्येण जिता पुनरपि जामदग्न्येनेति ।
पूर्वा निद्रा च सिद्धा राजपुत्राद्यवस्थायामपीति सिद्धं रूपकध्वनिरेवायमिति ।
शब्दव्यापारं विनैवार्थसौन्दरयबलाद्रूपणाप्रतिपत्तेः ।
बालप्रिया तेने सङ्करेण ।
वासुदेवरूपतेति ।
भगवद्वासुदेवाभेद इत्यर्थः ।
व्यतिरेको भातीति ।
प्राप्तश्रीकत्वादिना राज्ञो वासुदेवाद्व्यतिरेको भातीत्यर्थः ।
तथाच कथमभेदभानं भवतीति भावः ।
सः व्यतिरेकः ।
वूर्ववासुदेवस्वरूपादिति ।
पूर्वं मथनोद्युक्तो निद्रोन्मुखः सेतुबन्धनोद्युक्तश्च यो वासुदेवः तत्स्वरूपादित्यर्थः ।
नाद्यतनादिति ।
स भातीत्यनुषङ्गः ।
अत्र हेतुमाह---अद्यतनत्व इत्यादि ।
वर्तमानत्वादिति विशिष्टत्वादित्यर्थः ।
तथाचैतद्वचनकालीनतथाविधवासुदेवाद्व्यतिरेको न भातीति तदभेदो ऽत्र ध्वन्यत इति भावः ।
नन्वत्र निशि वासुदेवत्वप्रतीति विना पयोधेरुक्तवितर्का न धटन्त इत्यस्तद्व्यङ्ग्यं तदुपपादकतया गुणीभूतमिति शङ्कां परिहरति---न चेत्यादि ।
येनेति ।
अनुपपत्तिमूलकाक्षेपेणेत्यर्थः ।
वाच्यालङ्कारेति ।
ससन्देहोत्प्रेक्षासङ्करेत्यर्थः ।
नाक्षेप इत्यत्र हेतुमाह---यो य इत्यादि ।
वासुदेव इव असम्प्राप्तलक्ष्मीको यो यो जनः, स स मां मथ्नीयात् ।
निर्व्याजविजिगोषाक्रान्तो यो यः, स स मयि सेतुं बध्नीयादित्यादिसंशयसम्भवादित्यर्थः ।
स्वोक्त्या व्यङ्ग्याविष्करणमाशङ्क्य परिहरति---त चेत्यादि ।
अयमर्थ इति ।
राज्ञो वासुदेवत्वमित्यर्थः ।
इतीति हेतौ ।
अयं रूपकध्वनिरेवेति सिद्धमित्यन्वयः ।
अत्र हेतुमाह---शब्देति ।
शब्दव्यापारः अभिधा ।
क्वचित् ग्रन्थे प्राप्तश्रीरित्यस्यानन्तरं यथा वा ऽज्योत्स्नापूरेऽत्यादि पाठो दृश्यते, स लोचनम् यथा च---- ज्योत्स्नापूरप्रसरधवले सैकते ऽस्मिन्सरय्वा वादद्यूतं सुचिरमभवत्सिद्धयूनोः कयोश्चित् ।
एको ऽवादीत्प्रथमनिहतं केशिनं कंसमन्यो मत्वा तत्तवं कथय भवता को हतस्तत्र पूर्वम् ॥
इति केचिदुदाहरणमत्र पठन्ति, तदसत् ; भवतेत्यनेन शब्दबलेनात्र, त्वं वासुदेव इत्यर्थस्य स्फुटीकृतत्वात् ।
लावण्यं संस्थानमुग्धिमा, कान्तिः प्रभा ताभ्यां परिपूरितानि संविभक्तनि हृद्यानि सम्पादितानि दिङ्मुखानि येन ।
अधुना कोपकालुष्यादनन्तरं प्रसादौन्मुख्येन ।
स्मेरेरिषद्विहसनशीले तरलायते प्रसादान्दोलनविकाससुन्दरे अक्षिणी यस्यास्तस्या आमन्त्रणम् ।
अथ चाधुना न एति, वृत्ते तु क्षणान्तरे क्षोभमगमत् ।
कोपकषायपाटलं स्मेरं च तव मुखं सन्ध्यारुणपूर्णशशधरमण्डलमेवेति भाव्यं क्षोभेण चलचित्ततया सहृदयस्य ।
न चैति तत्सुव्यक्तमन्वर्थतायं जलराशिर्जड्यसञ्जयः ।
जलादयः शब्दा भावार्थप्रधाना बालप्रिया त्वपपाठ इत्याह---यथोचेत्यादि ।
तदसदित्यत्र हेतुमाह---भवतेत्यादि ।
स्फुटीकृतत्वादिति ।
भवच्छब्दार्थस्य वर्ण्यस्य राज्ञो हननकर्तृत्वोक्त्या तस्य वासुदेवाभेदो यतः स्फुजीकृतस्तस्मादित्यर्थः ।
तथाचात्र व्यङ्ग्यं गुणीभूतमिति भावः ।
पौनरुक्त्यपरिहाराय लावण्यपदेनात्र विवक्षितमर्थं व्याचष्टे---संस्थानेति ।
आकृतिसौन्दर्यमित्यर्थः ।
ऽसंविभक्तानीऽत्यस्यैव विवरणं हृद्यानीत्यादि ।
दिङ्मुखानीति ।
दिशामारम्भदेशा इत्यर्थः ।
येषु मुखस्य स्वदृष्टिद्वारा सम्बन्धस्तानि दिङ्मुखानीति भावः ।
ऽअधुनेऽत्यस्य ऽस्मेरेऽ इत्यनेन सम्बन्ध इति व्याचष्टे---कोपेत्यादि ।
प्रसादेति ।
प्रसादेन यावान्दोलनविकासौ ताभ्यां सुन्दरे इत्यर्थः ।
व्यङ्ग्यानुगणमर्थान्तरं चाह---अथ चेत्यादि ।
अधुनेत्यस्य न एति इत्यनेनापि सम्बन्ध इति भावः ।
अधुना नैतीत्यनेन गम्यमर्थान्तरं दर्शयति---वृत्ते त्वित्यादि ।
वृत्ते गते ।
क्षणान्तरे क्षणविशेषे, चन्द्रोदयकाले इति यावत् ।
क्षोभमगमदिति ।
पयोधिरिति शेषः ।
पयोधेः क्षोभो दृष्ट इति भावः ।
रूपकध्वनिं दर्शयति---कोपेत्यादि ।
इतीति हेतौ ।
तथाविधस्य मुखस्य तथाविधचन्द्रमण्जलाभिन्नत्वादित्यर्थः ।
तद्दर्शनादिति यावत् ।
भाव्यमित्यादि ।
सहृदयस्य मदनविकारत्मकचित्तचाञ्चल्यरूपेण क्षोभेण भाव्यमित्यर्थः ।
पयोधेस्तु सलिलोल्लासलक्षणः क्षोभः ।
द्वयोः क्षोभयोरत्राभेदाध्यवसायः ।
क्षोभपदस्य चित्तचाञ्चल्यमात्रार्थकत्वे तु मुखस्य सौन्दर्यातिशय एव ध्वनेन्न चन्द्राभेदः ।
अतश्चन्द्रोदयकार्यभूतसलिलोल्लासरूपक्षोभार्थकत्वमपि विवक्षितम् ।
न चैतीति ।
पयोधिः क्षोभमिति शेषः ।
तदिति ।
क्षोभप्राप्त्यभावादित्यर्थः ।
जाड्यसञ्चय लोचनम् इत्युक्तं प्राक् ।
अत्र च क्षोभो मदनविकारात्मा सहृदयस्य त्वन्मुखावलोकनेन भवतीतीयत्यभिधाया विश्रान्ततया रूपकं ध्वन्यमानमेव ।
वाच्यालङ्कारश्चात्र श्लेषः, स च न व्यञ्जकः ।
अनुरणनरूपं यद्रूपकमर्थशक्तिव्यङ्ग्यं तदाश्रयेणेह काव्यस्य चारुत्वं व्यवतिष्ठते ।
ततस्तेनैव व्यपदेश इति सम्बन्धः ।
तुल्योजनत्वादुपमाध्वन्युदाहरणयोर्लक्षणं स्वकण्ठेन न योजितम् ।
वीराणां रमते घुसृणारुणे न तथा प्रियास्तनोत्सङ्गे ।
दृष्टी रिपुगजकुम्भत्थले यथा बहलसिन्दूरे ॥
प्रसाधितप्रियतमाश्वासनपरतया समनन्तरीभूतयुद्धत्वरितमनस्कतया च दोलायमानदृष्टित्वे ऽपि युद्धे त्वरातिशय इति व्यतिरेको वाच्यालङ्कारः ।
तत्र तु येयं ध्वन्यमानोपमा प्रियाकुचकुङ्मलाभ्यां सकलजनत्रासकरेष्वपि शात्रवेषु मर्दनोद्यतेषु राजकुम्भस्थलेषु बालप्रिया इति ।
आश्रयाश्रयिणोरभेदाध्यवसायेनोक्तिः ।
मन्ये इत्यनेनास्य सम्बन्धः ।
निश्चिनोमिति तदर्थः. ।
तथाविधे मुखे प्रकाशमाने क्षोभप्राप्त्यभावात्, जनैरुच्यमानं महज्जाड्यं पयोधेर्निश्चिनोमित्यर्थः ।
अत्रापि जाड्यपदार्थस्यानाभिज्ञत्वस्य जलस्य चैक्याध्यवसायो बोध्यः ।
भावार्थप्रधाना इति ।
प्राधान्येन जाड्याद्यर्थवाचका इत्यर्थः ।
व्यङ्ग्यस्योक्तस्य वाच्यसिद्ध्यङ्गत्वं निराकुर्वन् ध्वनिं व्यवस्थापयति--अत्र चेत्यादि ।
त्वन्मुखावलोकनेनेति ।
सप्तम्यन्ततयापि पाठः ।
इयतीति ।
तथाविधक्षोभप्राप्त्यभावात् पयोनिधिर्जडराशिरिति निश्चिनोमि इत्येतावत्यर्थे इत्यर्थः ।
रूपकमिति ।
नायिकामुखे पूर्णचन्द्राभेद इत्यर्थः ।
श्लेष इति ।
जडशब्दगतश्लेष इत्यर्थः ।
न व्यञ्जक इति तस्योक्तरूपकध्वनावनुपयोगादिति भावः ।
अनुरणनरूपरुपकेत्यादि व्याचष्टे--अनुरणनरूपं यद्रूपकमित्यादि ।
ननु वृत्तौ वीराणामित्युदाहरणयोरुपमाध्वनिः स्वशब्देन कुततो न योजित इत्यत आह--तुल्येत्यादि ।
स्वकएठन स्ववचनेन ।
वीराणामिति ।
विराणां दृष्टिर्यथा बहलसिन्दूरे रिपुगजकुम्भस्थले रमते, तथा घुसृणारुणे प्रियास्तनोत्सङ्गे न समते इत्यन्वयः ।
घुसृणं कुङ्कुमम् ।
विवृणोति---प्रसाधितेत्यादि ।
प्रसाधिता अलङ्कृता ।
समाश्वासनं सम्भोगेनानन्दनम् ।
समनन्तरीभूतेति ।
प्रत्यासन्नेत्यर्थः ।
डोलायमाना चञ्चला ।
इति व्यतिरेको वाच्यालङ्कार इति ।
वीराणां दृष्टेः प्रियातनोत्सङ्गरमणापेक्षया रिपुगजकुम्भस्थलरमणे ऽतिशयस्य प्रतिपादनात् सम्भोगत्वरापेक्षया युद्धे त्वरातिशयो गम्यत इति तस्य वाच्यायमानत्वात् वाच्यलङ्कारता ।
यद्वा---इति व्यतिरेक इत्यस्य इत्यर्थव्यञ्जको व्यतिरेक इत्यर्थः ।
स च पूर्वोक्तः ।
अत्रोपमाध्वनिं विवृणोति --तत्र त्वित्यादि ।
तत्र तद्वचने ।
येयमित्यादि----गजकुम्भस्थलेषु इत्यस्य उपमेत्यनेन सम्बन्धः ।
गजकुम्भस्थलानुयोगिका प्रियाकुचकुङ्मलप्रतियोगिका ध्वन्यमाना येयमुपमेत्यर्थः ।
अस्याः प्राधान्यं विवृणोति---सकलेत्यादि ।
एतानि कुम्भस्थलविशेषणानि वस्तुस्थितिकथनपराणि ।
यथा वा ममैव विषमबाणलीलायामसुरपराक्रमणे कामदेवस्य---
तं ताण सिरिसहोअररअणाहरणम्मि हिअअमेक्करसम् ।
बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेन ॥
(तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् ।
बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥
इति छाया ) आक्षेपध्वनिर्यथा---- स वक्तुमखिलान् शक्तो हयग्रीवाश्रितान् गुणान् ।
यो ऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ॥
लोचनम् तद्वशेन रतिमाददानानामिव बहुमान इति सैव वीरतातिशयचमत्कारं विधत्त इत्युपमायाः प्राधान्यम् ।
असुरपराक्रमण इति ।
त्रैलोक्यविजयो हि तत्रास्य वर्ण्यते ।
तेषामसुराणां पातालवासिनां यैः पुनः पुनरिन्द्रपुरावमर्दनादि किं किं न कृतं तद्धृदयमिति यत्तेभ्यस्तेभ्यो ऽतिदुष्करेभ्यो ऽप्यकम्पनीयव्यवसायं तच्च ।
श्रीसहोदराणामत एवानिर्वाच्योत्कर्षाणामित्यर्थः ।
तेषां रत्नानामा समन्ताद्धरणे एकरसं तत्परं यद्धृदयं तत्कुसुमबाणेन सुकुमारतरोपकरणसम्भारेण प्रियाणां बिम्बाधरे निवेशितम् तदवलोकनपरिचुम्बनदर्शनमात्रकृतकृत्यताभिमानयोगि तेनकामदेवेन कृतम् ।
तेषां हृदयं यदत्यन्तं विजिगीषाज्वलनजाज्वल्यमानमभूदिति यावत् ।
अत्रातिशयोक्तिर्वाच्यालङ्कारः ।
बालप्रिया शात्रवेषु शत्रुभूतेषु, शत्रुमसम्बन्धिषु वा ।
अपिशब्दो रतिबहुमानोत्पत्तौ विरोधं द्योतयति ।
गजकुम्भस्थलेष्वित्यस्य रतिमित्यनेन बहुमान इत्यनेन च सम्बन्धः ।
तद्वशेन उपमावशेन ।
रतिं प्रीतिम् ।
आददानां बिभ्रताम् ।
इवेति प्रतीतौ ।
बहुमान इति ।
प्रियाकुचकुङ्मलसादृश्येन गजकुम्भस्थलेषु प्रीतिं बिभ्रतां वीराणां तेषु बहुमतिरिवेत्यर्थः ।
रतिमाददानामनुरक्तानमिवेत्यर्थ इति वा ।
इतीति हेतौ ।
सैव इक्तोपमैव ।
वीरतेति ।
प्रतीयमानो यो भटानां वीर्यातिशयस्तस्य यश्चमत्कारः चमत्कारकारित्वं तमित्यर्थः ।
विधत्ते सम्पादयति ।
इतीति हेतौ ।
वीररसोपस्कारकत्वेनेत्यर्थः ।
तत्रास्येति ।
विषमबाणलीलायां कामस्येत्यर्थः ।
ऽतेषाऽ मित्यस्यैव विवरणम्---यैरित्यादि ।
तदित्यस्य व्याखायानं यत्तेभ्य इत्यादि ।
अकम्पनीयेति ।
अचालनीयेत्यर्थः ।
गम्यर्थकथनम्---अनिर्वाच्येत्यादि ।
सुकुमारेत्यादि च ।
ऽबिम्बाधरे निवेशितम्ऽ इत्यस्य भावार्थमाह---तदित्यादि ।
तेषां हृदयं यदित्यादिना पूर्वार्धभावार्थकथनं तदिति शेषः ।
तत्तेन कामदेवेन तदवलोकनपरिचुम्बनदर्शनमानकृतकृत्यताभिमानयोगि कृतमिति सम्बन्धः ।
अत्रातिशयोक्तिरिति ।
अत्रातिशयोक्त्या हयग्रीवगुणानामवर्णनीयताप्रतिपादनरूपस्यासाधारणतद्विशेषप्रकाशनपरस्याक्षेपस्य प्रकाशनम् ।
अर्थान्तरन्यासध्वनिः शब्दशक्तिमूलानुरणनरूपव्यङ्ग्यो ऽर्थक्तिमूलानुरणनरूपव्यङ्ग्यश्च सम्भवति ।
तत्राद्यस्योदाहरणम्---
देव्वाएत्तम्मि फले किं कीरै एत्तिअं पुणा भणिमो ।
कङ्किल्लपल्लवाः पल्लवाणं अण्णाण ण सरिच्छा ॥
लोचनम् प्रतीयमाना चोपमा ।
सकलरत्नसारतुल्यो बिम्बाधर इति हि तेषां बहुमानो वास्तव एव ।
अत एव न रूपकध्वनिः ।
रूपकस्यारोप्यमाणत्वेनावास्तवत्वात् ।
तेषामसुराणां वस्तुवृत्त्यैव सादृश्यं स्फुरति ।
तदेव च सादृश्यं चमत्कारहेतुः प्राधान्येन ।
अतिशयोक्त्येति ।
वाच्यालङ्काररूपयेत्यर्थः ।
अवर्णनीयताप्रतिपादनमेवाक्षेपस्य रूपमिष्टप्रतिषेधात्मकत्वात् ।
तस्य प्राधान्यं विशेषणद्वारेणाह---असाधारणेति ।
सम्भवतीत्यनेन प्रसङ्गाच्छब्दशक्तिमूलस्यात्र विचार इति दर्शयति ।
बालप्रिया निमित्ततो वचो यत्तु लोकातिक्रान्तगोचरम् ।
भेदे ऽनन्यत्वमन्यत्र नानात्वं यत्र बध्यते ॥
तथा सम्भाव्यमानार्थनिबन्धे ऽतिशयोक्तिगीः ।
इत्यादिना तल्लक्षणमुक्तमुद्भटादिभिः ।
रत्नाहरणे एकरसं यद्धृदयं तद्बिम्बधरे निवेशितमिति वस्तुतो भिन्नयोरन्तःकरणवृत्तिविशेषात्मकयोः हृदययोरैक्यमत्र प्रतिपादितमिति भेदे अभेदरूपातिशयोक्तिरित्यर्थः ।
निवेशनासम्बन्धे ऽपि तत्सम्बन्धकथनात् सम्बन्धातिशयोक्तिर्वा ।
प्रतीयमानेति ।
ध्वन्यमानेत्यर्थः ।
उक्तं विवृणोति---सकलेत्यादि ।
समुपादेयत्वादिता रत्नासारतुल्यत्वम् ।
अत एव वक्ष्यमाणादेव ।
रूपकस्यारोप्यमाणत्वेनेति ।
रत्नसाररूपोपमानाभेदस्य कल्पितत्वेनेत्यर्थः ।
रूपकस्योपचारत्वेनेति च पाठः ।
सादृश्यमिति ।
बिम्बाधरे रत्नसारसादृश्यमित्यर्थः ।
वृत्तौ ऽअनतिशयोक्त्येऽत्युक्तं तद्विवृणोति---वाच्येत्यादि ।
वाच्यालङ्काररूपयेति ।
ऽयो ऽम्बुकुम्भैरिऽत्यादिना सम्भाव्यमानार्थनिबन्धनादिति भावः ।
अवर्णनीयताप्रतिपादनमेवेत्यत्र हेतुमाह---इष्टेति ।
इष्टमत्र वर्णनीयत्वप्रतिपादनमिति भावः ।
ऽअसाधारणेऽत्यादिकथनस्य फलं दर्शयति--तस्येत्यादिविशेषणद्वारेण तस्य प्राधान्यमाहेत्यन्वयः ।
अत्र ऽयो ऽम्बुकुम्भैरिऽत्याद्यतिशयोक्त्या हयग्रीवगुणानामवणनीयत्वप्रतिपादनरूपाक्षेपो ध्वन्यते, तेन तद्गुणानामसाधारणो विशेषश्चेति भावः ।
वृत्तौ ऽशब्दशक्तीऽत्याद्युक्तौ का सङ्गतिरित्यत आह---सम्भवतीत्यादि ।
अत्रेति ।
पदप्रकाशश्चायं ध्वनिरिति वाक्यस्यार्थान्तरतात्पर्ये ऽपि सति न विरोधः ।
द्वितीयस्योदाहरणं यथा---
हिअअट्टाविअमण्णुं अवरुण्णमुहं हि मं पसाअन्त ।
अवरद्धस्य वि ण हु दे पहुजाणअ रोसिउं सक्कम् ॥
(हृदयस्थापितमन्युमपरोषमुखीमपि मां प्रसादयन् ।
अपराद्धस्यापि न खलु ते बहुज्ञ रोषितुं शक्यम् ॥
इति छाया) लोचनम् दैवायत्ते फले किं क्रियतामेतावत्पुनर्भणामः ।
रक्ताशोकपल्लवाः पल्लवानामन्येषां न सदृशाः ॥
अशोकस्य फलमाम्रादिवन्नास्ति, किं क्रियतां पल्लवास्त्वतीव हृद्या इतीयताभिधा समाप्तैव ।
अत्र फलशब्दस्य शक्तिवशात्समर्थकमस्य वस्तुनः पूर्वमेव प्रतीयते ।
लोकोत्तरजिगीषातदुपायप्रवृत्तस्यापि हि फलं सम्पल्लक्षणं दैवायत्तं कदाचिन्न भवेदपीत्येवंरूपं सामान्यात्मकम् ।
नन्वस्य सर्ववाक्यस्याप्रस्तुतप्रशंसा प्राधान्येन व्यङ्ग्या तत्कथमर्थान्तरन्यासस्य व्यङ्ग्यता, द्वयोर्युगपदेकत्र प्राधान्यायोगादित्याशङ्क्याह---पदप्रकाशेति ।
सर्वो हि ध्वनिप्रपञ्चः पदप्रकाशो वाक्यप्रकाशश्चेति यक्ष्यते ।
तत्र बालप्रिया अर्थशक्तिमूलविचारे इत्यर्थः ।
किं क्रियतामित्यन्तस्य विवरणम्---अशोकस्येत्यादि ।
उत्तरार्धविवरणम्----पल्लवा इत्यादि ।
इयतेति ।
उक्तार्थमात्रेणेत्यर्थः ।
ध्वनिं विवृणोति---अत्रेत्यादि ।
अत्र इत्येवंरूपं सामान्यात्मकं अस्य वस्तुनः समर्थकं फलशब्दस्य शक्तिवशात्पूर्वमेव प्रतीयत इत्यन्वयः ।
दैवायत्ते हि फले किं क्रियतामित्यत्र फलशब्दः प्रकरणवशात् सस्यरूपमर्थमभिधया वक्ति, ततश्चाशोकस्य फलं नास्तीति प्रस्तुतार्थो लभ्यते, पुनश्च फलशब्दश्शक्तिमूलध्वनिना सम्पदात्मकप्रयोजनरूपमर्थं बोधयति, ततश्च सर्वेषां सम्पदो दैवायत्ताः कदाचिन्न भवेयुरपीति सामान्यरूपो ऽर्थः पूर्वोक्तप्रस्तुतार्थस्य समर्थको लभ्यत इत्यर्थः ।
पूर्वमेव प्रतीयते इत्यस्य दैवायत्ते हि फले इत्यस्य श्रवणकाल एव प्रतीयत इत्यर्थः ।
ऽपदप्रकाशऽ इत्यादिग्रन्थमवतारयति---नन्वित्यादि ।
अप्रस्तुतप्रशंसेति ।
उपायप्रवृत्तस्यापि सम्पल्लक्षणं फलमलब्धवतः कस्यचिद्राजादेः गुणप्रशंसारूपः प्रस्तुतार्थ इत्यर्थः ।
प्राधान्येन व्यङ्ग्येति ।
अप्रस्तुतप्रशंसास्थलेप्रस्तुतार्थो व्यङ्ग्यः, स क्वचित् प्रधानञ्चेति प्रथमोद्योते उक्तम् ।
अर्थान्तरन्यासस्य व्यङ्ग्यतेति ।
प्राधान्येनेत्यनुषज्यते ।
कुत इत्यत्राह---द्वयोरित्यादि ।
भावार्थमाह---सर्वो हीत्यादि ।
वाक्ये त्वप्रस्तुतप्रशंसेति ।
प्राधान्येन व्यङ्ग्येति शेषः ।
नन्वेवं सति कथमत्र व्यवहार हत्यत अत्र हि वाच्यविशेषेण सापराघस्यापि बहुज्ञस्य कोपः कर्तुमशक्य इति समर्थकं सामान्यमन्वितमन्यत्तात्पर्येण प्रकाशते ।
लोचनम् फलपदे ऽर्थान्तरन्यासध्वनिः प्राधान्येन ।
वाक्ये त्वप्रस्तुतप्रशंसा ।
तत्रापि पुनः फलपदोपात्तसामर्थ्यसमर्थकभावप्राधान्यमेव भातीत्यर्थान्तरन्यासध्वनिरेवायमिति भावः ।
हृदये स्थापितो न तु बहिः प्रकटतो मन्युर्यया ।
अत एवाप्रदर्शितरोषमुखीमपि मां प्रसादयन् हे बहुज्ञ, अपराद्धस्यापि तव न खलु रोषकरणं शक्यम् ।
अत्र बहुज्ञेत्यामन्त्रणार्थे विशेषे पर्यवसितः ।
अनन्तरं तु तदर्थपर्यालोजनाद्यत्सामान्यरूपं समर्थकं प्रतीयते तदेव चमत्कारकारि ।
सा हि खण्डिता सती वैदग्ध्यानुनीता तं प्रत्यसूयां दर्शयन्तीत्थमाह ।
यः कश्चिद्बहुज्ञो धूर्तः स एवं सापराधो ऽपि स्वापराधावकाशमाच्छादयतीति मा त्वमात्मनि बहुमानं मिथ्या ग्रहीरिति ।
अन्वितमिति ।
विशेषे सामान्यस्य संबद्धत्वादिति भावः ।
बालप्रिया आह---तत्रापीत्यादि ।
फलेति ।
फलपदोपात्तौ यौ समर्थ्यसमर्थकावर्थौ तयोर्भावस्य प्राधान्यमित्यर्थः ।
भाति सहृदयानां स्फुरति ।
अर्थान्तरेत्यादि ।
ऽप्राधान्येन व्यपदेशा भवन्तीऽति न्यायेनार्थान्तरन्यासध्वनिव्यवहार एवात्रेति भावः ।
कस्याश्चिदन्तर्गतरोषाया अनाविष्कृतरोषचिह्नायाः कृतागसा वल्लभेन प्रसाद्यमानायाः तं प्रतिवचनम्--हृदयेत्यादि ।
विवृणोति--हृदये स्थापित इत्यादि ।
प्रसादयन्निति सम्बुद्ध्यन्तम् ।
यद्वा--त्वमसीति शेषः ।
न खलुरोषकरणं शक्यमिति ।
मयेति शेषः ।
हे बहुज्ञ ! यतस्त्वं मां प्रसादयन्नसि, अतो ऽपराद्धमपि त्वां प्रति रोषं कर्तुं न शक्नोमीत्यर्थः ।
ऽबहुज्ञस्येऽति ।
बहुज्ञं प्रतीत्यर्थः ।
ऽअशक्यऽ इति ।
केनाप न शक्य इत्यर्थः ।
स्ववैदुग्ध्येन स्वापराध्स्य तेन प्रच्छादनादिति भावः ।
ऽइतीऽति ।
एवंरूपमित्यर्थः ।
ऽसमर्थकं समानम्ऽ इत्यस्य विशेषणम् ऽअन्वितमन्यदिऽति च ।
ऽतात्पर्येण प्रकाशतऽ इति ।
ध्वनतीत्यर्थः ।
वृत्त्युक्तमेवार्थ विवृणोति---अत्रेत्यादि ।
विशेषे पर्यवसित इति ।
नाहमपराधी नाहमन्यां चिन्तयामि, त्वदेकासक्ते मयि प्रसीदेत्याद्यमेकवचनाभिज्ञेति बहुज्ञपदप्रकृतार्थे इत्यर्थः ।
ध्वनिं दर्शयति---अनन्तरमित्यादि ।
सालाम्यरूपं समर्थकमिति ।
तत्तु य इत्यादिना वक्ष्यते---सेति ।
प्रकृता नायिकेत्यर्थः ।
खण्डितेति ।
"ज्ञाते ऽन्यासङ्गविकृते खण्जितेर्ष्याकषायितेऽति तल्लक्षणम् ।
वैदुग्ध्यानुनीता स्ववैदुग्ध्येन प्रसादिता, नायकेनेति शेषः ।
कथमाहेत्यत्राह---य इत्यादि ।
त्वमात्मनि मिथ्याबहुज्ञानं मा ग्रहीः, यतो बहुज्ञास्तु सापराधा अपि तत्तद्वचनेन स्वापराधावकाशमाच्छादयन्तीत्यर्थः ।
अन्वितमित्यनेन सामान्यविशेषभावरूपसम्बन्धो विवक्षित इति दर्शयति---विशेष इत्यादि ।
"व्यति प्रागिऽत्येतद्विवृणोति-----स्वमित्यादि ।
व्यतिरेकध्वनिरप्युभयरूपः सम्भवति ।
तत्राद्यस्योदाहरणं प्राक्प्रदर्शितमेव ।
द्वितीयस्योदाहरणं यथा---
जाएज्ज वणुद्देसे खुज्ज व्विअ पाअवो गडिअवत्तो ।
मा माणुसम्मि लोए ताएक्वरसो दरिद्दो अ ॥
(जायेय वनोद्देशे कुब्ज एव पादपो गलितपत्रः ।
मा मानुषे लोके त्यागैकरसो दरिद्रश्च ॥
इत छाया) अत्र हि त्यागैकरसस्य दरिद्रस्य जन्मानभिनन्दनं त्रुटितपत्र्रकुब्जपा दपजन्माभिनन्दनं च साक्षाच्छब्दवाच्यम् ।
तथाविधादपि पादपात्तादृशस्य पुंस उपमानोपमेयत्वप्रतीतिपूर्वकं शोच्यतायामाधिक्यं तात्पर्येण प्रकाशयति ।
उत्प्रेक्षाध्वनिर्यथा---- चन्दनासक्तभुजगनिःश्वासानिलमूर्च्छितः ।
मूर्च्छयत्येष पथिकान्मधौ मलयमारुतः ॥
लोचनम् व्यतिरेकध्वनिरपीति ।
अपिशब्देनार्थान्तरन्यासवदेव द्विप्रकारत्वमाह ।
प्रागिति ।
ऽखं ये ऽत्युज्ज्वलयन्तिऽ इति ।
ऽरक्तस्त्वं नवपल्लवैःऽ इति ।
जायेय, वनोद्देश एव वनस्यैकान्ते गहने यत्र स्फुटतरबहुवृक्षसम्पत्त्या प्रेक्षते ऽपि न कश्चित् ।
कुब्ज इत रूपयोटनादावनुपयोगी ।
गलितपत्र्र इति ।
छायामपि न करोति तस्य का पुष्पफलवत्तेत्यभिप्रायः ।
तादृशो ऽपि कदाचिदाङ्गारिकस्योपयोगी भवेदुलूकादीनां वा निवासायेति भावः ।
मानुष इति ।
सुलभार्थिजन इति भावः ।
लोक इति ।
यत्र लोक्यते सो ऽर्थिभिस्तेन चार्थिजनो न च किञ्चिच्छक्यते कर्तुं तन्महद्वैशसमिति भावः ।
अत्र बालप्रिया खं ये ऽत्युज्वलयन्ति इति, इत्यस्यानन्तरं ऽरक्तस्त्वंनवपल्लवैऽरिति इति च पाठः क्वचित् दृश्यते, स प्रामादिकः ।
ऽन तु रक्तस्त्वम्ऽ इत्यादिपाठो वा ।
कुब्ज एवेति छाया ।
वनोद्देश इत्यनेनैवकारस्य सम्बन्ध इत्याह---वनेत्यादि ।
वनोद्देश इत्यस्य विवरणम्----वनस्येत्यादि ।
गम्यमर्थमाह---यत्रेत्यादि ।
एवमुपर्यपि बोध्यम् ।
रूपघटनेति ।
प्रतिमाद्यकृतिनिर्माणेत्यर्थः ।
गलितपत्र इति ।
त्रुटितत्र इति च पाठः ।
आङ्गारिकस्येति ।
अङ्गारोपजीविन इत्यर्थः ।
अहं कुब्जः गलितपत्रः पादपः पनोद्देशे इव जायेय ।
त्यागैकरसो दरिद्रश्च मानुषेलोके माजयेय इत्यन्वयः ।
वृत्तो---ऽशब्दवाच्यऽमित्यस्य ऽप्रकाशयतीऽत्यनेनान्वयः ।
अत्र हि मधौ मलयमारुतस्य पथिकमूर्च्छाकारित्वं मन्मथोन्माथदायित्वेनैव ।
तत्तु चन्दनासक्तभुजगनिःश्वासानिलमूर्च्छितत्वेनोत्प्रेक्षितमित्युत्प्रेक्षा साक्षादनुक्तापि वाक्यार्थसामर्थ्यादनुरणनरूपा लक्ष्यते ।
न चैवंविधे विषये इवादिशब्दप्रयोगमन्तरेणासंबद्धतैवेति शक्यते वक्तुम् ।
गमकत्वादन्यत्रापि लोचनम् वाच्यालङ्कारो न कश्चित् ।
उपमानेत्यनेन व्यतिरेकस्य मार्गपरिशुद्धिं करोति ।
आधिक्यमिति ।
व्यतिरेकमित्यर्थः ।
उत्प्रेक्षितमिति ।
विषवातेन हि मूर्छितो बृंहित उपचितो मोहं करोति ।
एकश्च मूर्च्छितः पथिकमध्ये ऽन्येषामपि धैर्यच्युति विदधन्मूर्च्छां करोतीतित्युभयथोत्प्रेक्षा ।
नन्वत्र विशेषणमधिकीभवद्धेतुतयैव सङ्गच्छते ।
ततः किं? न हि हेतुता परमार्थतः ।
तथापि तु हेतुता उत्प्रेक्ष्यत इति यत्किञ्चिदेतत् ।
बालप्रिया मार्गपरिशुद्धिं करोतीति ।
किञ्चिद्धर्मेण सादृश्यात्मकस्योपमाङ्गोपमेयत्वस्य प्रतीतिर्हि व्यतिरेकप्रतीतेरङ्गमिति भावः ।
वृत्तौ---ऽचन्दनेऽति ।
मलयाद्रिस्थचन्दनवृक्षेत्यर्थः ।
ऽमधौऽ वसन्ते ।
ऽपथिकेऽत्यादि ।
विरहिजनमोहकारित्वमित्यर्थः ।
ऽमन्मथेऽति ।
कामोद्दीपकत्वेनवस्तुदता हेतुनेत्यर्थः ।
ऽतत्त्विऽति ।
पथिकमूर्च्छाकारित्वन्त्वित्यर्थः ।
ऽचन्दनेऽत्यादि ।
चन्दनासक्तभुजगनिश्वासानिलमूर्ञ्छितत्वेन हेतुना उत्प्रेक्षितमित्यर्थः ।
एतद्विवृणोति---विषवातेनेत्यादि ।
विषवातेन विषयुक्तवायुना ।
प्रकृते निःश्वासानिलस्य भुजगसम्बन्धितयाविषसम्पर्को गम्यत इति भावः ।
"मूर्च्छामोहसमुच्छ्राययो"रिति धातुपाठः ।
तत्र समुच्छ्रायार्थाप्रायेणा व्याचष्टे---बृंहित इति अस्यैव विवरणम्---उपचित इति ।
मोहं करोतीति ।
स्वसर्ङ्गेणान्यस्य मोहावस्थां ।
जनयतीत्यर्थः ।
गोपार्थाभिप्रायेण व्याचष्टे---एकश्चेत्यादि ।
एकपदार्थत्वेनात्र पथिकायमानो वायुर्ग्राह्यः ।
धैर्यच्युतिं तद्द्वारेत्यर्थः ।
मूर्च्छामिति ।
मोहमित्यर्थः ।
उभयथोत्प्रेक्षेति विषवातोपचितत्वं मोहावस्थाप्राप्तिश्चेति ये तयोः मलयमारुतस्य पथिकमूर्च्छाकरणेहेतुत्वेनोत्प्रेक्षेत्यर्थः ।
वृत्तौ ऽमूर्च्छितत्वेनोत्प्रेक्षितऽमिति ग्रन्थस्य उक्तहेतूत्प्रेक्षापरत्वं शङ्कासमाधानाभ्यां दर्शयति---नन्वित्यादि ।
विशेषणं चन्दनेत्यादिविशेषणम् ।
हेतुतयैवेति ।
हेतुगर्भत्वेनैवेत्यर्थः ।
समाधत्ते---तत इत्यादि ।
ततः किं हेतुगर्भत्वे सत्यपि किम् ।
कुत इत्यत आह--न हीत्यादि ।
तद्विशेषणस्य पर्थिकमूर्च्छाकारित्वे वस्तुतो हेतुत्वं नास्तीत्यर्थः ।
तथापि त्विति ।
किं त्वित्यर्थः ।
हेतुता उत्प्रेक्ष्यत इति ।
उक्तयोर्द्वयोः हेतुत्वमुत्प्रेक्ष्यते इत्यर्थः ।
हेतुतापि इति च पाठः ।
तत्पक्षे मलयमारुते तयोर्द्वयोरुत्प्रेक्षाया अपिशब्देन समुच्चयः ।
चन्दनासक्तभुजगानां निश्वासानिलैः मूर्च्छितः सम्बद्ध इति स्वरूपकथनमात्रपरं तद्विशेषणमतो वाच्यार्थनिष्पत्तिर्बोध्या ।
वृत्तौ ऽसाक्षादनुक्तापीऽति ।
इवादिपदेनाबोधितापीत्यर्थः ।
तदप्रयोगे तदर्थावगृतिदर्शनात् ।
यथार्---
इसाकलुसस्स वि तुह मुहस्स णं एस पुण्णिमाचन्दो ।
अज्ज सरिसत्तणं पाविऊण अङ्गे विअ ण माइ ॥
र्(इर्ष्याकलुषस्यापि तव मुखस्य नन्वेष पूर्णिमाचन्द्रः ।
अद्य सदृशत्वं प्राप्याङ्ग एव न माति ॥
इति छाया) लोचनम् तदिति ।
तस्येवादेरप्रयोगे ऽपि तस्यार्थस्येत्युत्प्रेक्षारूपस्यावगतेः प्रतीतेर्दर्शनात् ।
एतदेवोदाहरति---यथेतिर् ।
इर्ष्याकलुषस्यापीषदरुणच्छायाकस्य ।
यदि तु प्रसन्नस्य मुखस्य सादृश्यमुद्वहेत्सर्वदा वा तत्किं कुर्यात्त्वन्मुखं त्वेतद्भवतीति मनोरथानामप्यपथमिदमित्यपिशब्दस्याभिप्रायः ।
अङ्गे स्वदेहे न मात्येव दश दिशः पूरयति यतः ।
अद्येयता कालेनैकं दिवसमात्रमित्यर्थः ।
अत्र पूर्णचन्द्रेण दिशां पूरणं स्वरससिद्धमेवमुत्प्रेक्ष्यते ।
ननु ननुशब्देन वितर्कोत्प्रेक्षारूपमाचक्षाणेनासम्बद्धता निराकृतेति सम्भावयमान बालप्रिया ऽअनुरणनरूपाऽ संलक्ष्यक्रमव्यङ्ग्या ।
ऽलक्ष्यतेऽ ज्ञायते ।
शङ्कते ऽन चेऽत्यादि ऽएवंविधे विषयेऽ इति चन्दनासक्तेत्यादिस्थल इत्यर्थः ।
ऽअसम्बद्धतेऽति ।
उत्प्रेक्षायाः वाक्यासम्बद्धतेत्यर्थः ।
वाक्याप्रतिपाद्यतेति यावत् ।
समाधत्ते---ऽगमकत्वादिऽति ।
चन्दनेत्यादिविशेषणस्य प्रतिपत्तृप्रतिभावदिसहकारेण बोधकत्वादित्यर्थः ।
अत्र प्रमाणमाह----ऽअन्यत्रापीऽत्यादि ।
ऽतदप्रयोगऽ इत्यादिग्रन्थं विवृणोति---तस्येत्यादिर् ।
इर्ष्येति ।
कुपितां नायिकां प्रसादयतुमुक्तिर्ः, इर्ष्याकलुषस्येत्यस्य व्याख्यानर्म्----इषदित्यादि ।
अपिशब्दगम्यमाह---यदि त्वित्यादि ।
उद्वहेत् कुर्यादित्युभयत्र चन्द्र इति शेषः ।
अद्येत्यनेन गम्यमाह---सर्वदेति ।
तत्तदा किं कुर्यादिति ।
सन्तोषातिशयेन यद्यत् कुर्यात् तन्न जानामीत्यर्थः ।
एतद्भवतीति ।
चन्द्रीभवतीत्यर्थः ।
अङ्ग एवेति छाया ।
एवकारस्य मातीत्यनेनान्वय इत्याह---नेत्यादि ।
अत्र गम्यं हेतुमाह---दशदिशः पूरयति यत इति ।
अद्येति पदं विवृणोति----इयतेत्यादि ।
ध्वनिं दर्शयति---अत्रेत्यादि ।
दिशां पूरणमिति ।
अङ्गेन भात्येवेत्यनेन लब्धं स्वप्रभया दिशं पूरणमित्यर्थः ।
स्वरससिद्धं अस्वाभाविकम् ।
एवमुत्प्रेक्ष्यते इति ।
तव मुखस्य सदृशत्वं प्राप्येवेति मुखसादृश्यप्राप्तिहेतुकत्वेनोत्प्रेक्ष्यत इत्यर्थः ।
उदाहरणान्तरमवतारयति---नन्वित्यादि ।
ननुशब्देनेति ।
गाथास्थननुशब्देनेत्यर्थः ।
सदृशत्वं प्राप्य नन्विति योजनेति भावः ।
ऽत्रासेऽत्यादि श्लोकं व्याचष्टे---सर्वत इत्यादि ।
निकेतान् परित इति ।
नानुबद्ध इति च सम्बन्धः ।
अनुबद्धः यथा वा---- त्रासाकुलः परिपतन् परितो निकेतान् पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि ।
तस्थौ तथापि न मृगः क्वचिदङ्गनाभि- राकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥
शब्दार्थव्यवहारे च प्रसिद्धिरेव प्रमाणम् ।
श्लेषध्वनिर्यथा--- रम्या इति प्राप्तवतीः पताकाः रागं विविक्ता इति वर्धयन्तीः ।
यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥
अत्र वधूमिः सह वलभीरसेवन्तेति वाक्यार्थप्रतीतेरनन्तरं वध्व इव लोचनम् उदाहरणान्तरमाह--यथा वेति ।
परितः सर्वतो निकेतान् परिपतन्नाक्रमन्न कैश्चिदपि चापपाणिभिरसौ मृगो ऽनुबद्धस्तथापि न क्वचित्तस्थौ त्रासचापलयोगात्स्वाभाविकादेव ।
तत्र चोत्प्रेक्षा ध्वन्यते---अङ्गनाभिराकर्णपूर्णौर्नेत्रशरैर्हतार् इक्षणश्रीः सर्वस्वभूता यस्य यतो ऽतो न तस्थौ ।
नन्वेतदप्यसम्बद्धमस्त्वित्याशङ्क्याह----शब्दार्थेति ।
पताका ध्वजपटान् प्राप्तवन्ती ।
रम्या इति हेतोः ।
पताकाः प्रसिद्धीः प्राप्तवतीः ।
किमाकाराः प्रसिद्धीः रम्या इत्येवमाकाराः विविक्ता जनसङ्कुलत्वाभावादित्यतो हेतो रागं सम्भोगाभिलाषं वर्धयन्तीः ।
अन्ये तु रागं चित्रशोभामिति ।
तथा रागमनुरागं वर्धयन्तीः ।
यतो हेतोः विविक्ता विभक्तङ्ग्यो लटभाः याः ।
नमन्ति वलीकानि छदिपर्यन्तभागा यासु ।
नमन्त्यो वल्लयस्त्रिवलीलक्षणा यासाम् ।
सममिति सहेत्यर्थः ।
ननु समशब्दात्तुल्यार्थो ऽपि प्रतीतः ।
बालप्रिया अनुगतः, ऽन तस्थाविऽत्यत्र वास्तवो हेतुस्त्रासाकुल इत्यनेन दर्शित इत्याह---त्रासेत्यादि ।
आकर्णपूर्णैः कर्णपर्यन्तव्याप्तैः आकर्णकृष्टैश्च नेत्रशरैः नेत्राण्येव शरास्तैः, अतो न तस्थाविति ।
उक्ताद्धेतोरेव न स्थितवानित्यर्थः ।
तथाचात्र हेतूत्प्रेक्षाध्वनिरितिभावः ।
अत्राप्यङ्गनादृष्टिं प्रशंसापरमाकर्णेत्यादिकं स्वरूपकथनमितिवाक्यार्थनिष्पत्तिरवसेया ।
एतदपीति ।
उक्तोदाहरणमपीत्यर्थः ।
असम्बद्धमिति ।
उत्प्रेक्षारूपार्थाबोधकमित्यर्थः ।
वृत्तौ ऽशब्देऽति ।
एवमस्यशब्दस्यार्थ इति व्यवहार इत्यर्थः ।
ऽप्रसिद्धिरेवऽ प्रतिपत्तॄणां प्रतितिरेव ।
तथाचोक्तस्थले इवादिशब्दाभावे ऽप्युत्प्रेक्षारूपार्थस्य सहृदयानां प्रतीतेरसम्बद्धत्वापादानं न युक्तमिति भावः ।
व्याचष्टे----पताका इत्यादि ।
अत्राद्यो ऽर्थो वलभीभिरन्वेति, द्वितीयस्तु वधूभिः ।
व्याख्यानान्तरमाह--अन्य इति ।
लटभा इति सुन्दर्य इत्यर्थः ।
नन्वित्यादि ।
समशब्दादिति ।
लोचनम् सत्यम् ; सो ऽपि श्लेषबलात् ।
श्लेषश्च नाभिधावृत्तेराक्षिप्तः, अपि त्वर्थसौन्दर्यबलादेवेति सर्वथा ध्वन्यमान एव श्लेषः ।
अत एव वध्व इव वलभ्य इत्यभिदधतापि वृत्तिकृतोपमाध्वनिरिति नोक्तम् ।
श्लेषस्यैवात्र मूलत्वात् ।
समा इति हि यदि स्पष्टं भवेत्तदोपमाया एव स्पष्टत्वाच्छ्लेषस्तदाक्षिप्तः स्यात् ।
सममिति निपातो ऽञ्जसा सहार्थवृत्तिर्व्यञ्जकत्वबलेनैव क्रियाविशेषणत्वेन शब्दश्लेषतामेति ।
न च तेन विनाभिदाया अपरिपुष्टता काचित् ।
अत एव समाप्तायामेवाभिधायां सहृदयैरेव स द्वितीयो ऽर्थो ऽपृथक्प्रयत्नेनैवावगम्यः ।
यथोक्तं प्राक्---ऽशब्दार्थशासनज्ञानमात्रेणैवऽ इत्यादि ।
एतच्च सर्वोदाहरणेष्वनुसर्तव्यम् ।
ऽपीनश्चैत्रो दिवा नातिऽ इत्यत्राभिधैवापर्यवसितेति सैव स्वार्थनिर्वाहायार्थान्तरं शब्दान्तरं वाकर्षतीत्यनुमानस्य श्रुतार्थापत्तेर्वा बालप्रिया सममिति शब्दादित्यर्थः ।
तुल्यार्थो ऽपीत ।
अपिशब्देन पूर्वोक्तसहार्थस्य समुच्चयः ।
सो ऽपि तुल्यरूपार्थो ऽपि श्लेषबलादिति ।
वध्वन्वय्यर्थान्तरसामर्थ्यादित्यर्थः ।
श्लेषस्चेति ।
अर्थान्तरं चेत्यर्थः ।
अभिधावृत्तेः अभिधाव्यापाराद्धेतोः ।
नाक्षिप्तः न प्रतीतः ।
पदानां वलभीपदसमानविभक्तिकत्वेनाभिदाया वलभ्यन्वय्यर्थे नियमनादिति भावः ।
अत एवेति ।
वक्ष्यमाणहेतोरेवेत्षथः ।
समा इतीति ।
सममित्यस्य सथान इति शेषः ।
सममित्युक्तौ कुतो न स्पष्टत्वमत आह---सममित्यादि ।
अञ्जसा झटिति ।
सहार्थवृत्तिः साहित्यरूपार्थबोधकः ।
यूनां सवधूकानां सतां वलभीसेवनस्यार्थस्य प्रकृतत्वादिति भावः ।
क्रियाविशेषणत्वेनेति ।
सेवनक्रियायाः वर्तमाना इत्यव्याहृतक्रियाया वा विशेषणतयेत्यर्थः ।
शब्दश्लेषतामेतीति ।
तुल्यमित्यर्थान्तरं बोधयतीत्यर्थः ।
श्लेषध्वनिं स्थापयति--न चेत्यादि ।
अपूथक्प्रयत्नेन प्रयत्नान्तरं विना ।
प्रसङ्गादाह--पीन इत्यादि ।
अप्र्यवसितेति ।
दिवाभोजनमकुर्वतः कुतः पीनत्वमित्याकाङ्क्षासत्त्वेन शान्ताकाङ्क्षस्य बोधस्याजननादिति भावः ।
स्वार्थेति ।
पीनत्वादिघटितस्वविषयार्थेत्यर्थः ।
अर्थान्तरम् रात्रिभोजनम् ।
शब्दान्तरम् रात्रौ भुङ्क्ते इति शब्दम् ।
आकर्षति अनुसन्धापयति ।
अनुमानेत्यादि ।
यतासंख्यमत्र बोध्यम् ।
यथासंख्यध्वनिं विवृणोति वृत्तौ---ऽअत हीऽत्यादि ।
ऽयथोद्देशंऽ उद्देशक्रममनतिलङ्ध्य ।
ऽअनूद्देशेऽ पश्चान्निर्देशे सति ।
ऽयच्चारुत्वम्ऽ चारुत्वकारि यत् ऽअनुरणनरूपंऽ संलक्ष्यक्रमं व्यङ्ग्यम् ।
ऽमदनेऽति ।
मदनविशेषणीभूतो यो ऽङ्कुरितादिशब्दः सञ्जातेषत्प्रादुर्भावादिः तदर्थः तट्गतं तदाश्रितम् ।
ऽतदिऽति ।
चारुत्वकारि यथासंख्यात्मकं व्यङ्ग्यमित्यर्थः ।
तत्तु यताश्रुतक्रमं संख्यासाम्यमेव ।
ऽमदनसहकारयोरिऽति ।
कार्यकारणात्मकयोस्तयोरित्यर्थः ।
ऽतुल्येऽति ।
तुल्ययोगिता तुल्यकालसम्बन्धः तद्रूपो यः समुच्चयस्तल्लक्षणादित्यर्थः ।
ऽवाच्यादिऽति ।
चकाराभ्यां बोध्यादित्यर्थः ।
ऽअतिरिच्यमानम्ऽ इति ।
उत्कृष्टमित्यर्थः ।
ऽआलक्ष्यतेऽज्ञायते ।
बलभ्य इति श्लेषप्रतीतिरशब्दाप्यर्थसामर्थ्यान्मुख्यत्वेन वर्तते ।
यथासङ्ख्यध्वनिर्यथा--- अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च सहकारः ।
अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च हृदि मदनः ॥
अत्र हि यथोद्देशमनूद्देशे यचचारुत्वमनुरणनरूपं मदनाविशेषणभूताङ्कुरितादिशब्दगतं तन्मदनसहकारयोस्तुल्ययोगितासमुच्चयलक्षणाद्वाच्यादतिरिच्यमानमालक्ष्यते ।
एवमन्ये ऽप्यलङ्कारा यथोयोगं लोचनम् तार्किकमीमांसकयोर्न ध्वनिप्रसङ्ग इत्यलं बहुना ।
तदाह--अशब्दापीति ।
एवमन्ये ऽपीति ।
सर्वेषामेवार्थालङ्काराणां ध्वन्यमानता दृश्यते ।
यथा च दीपकध्वनिः-- मा भवन्तमनलः पवनो वा वारणो मदवलः परशुर्वा ।
वज्रमिन्द्रकरविप्रसृतं वा स्वस्ति ते ऽस्तु लतया सह वृक्ष ॥
इत्यत्र बाधिष्टेति गोप्यमानादेव दीपकादत्यन्तस्नेहास्पदत्वप्रतिपत्त्या चारुत्वनिष्पत्तिः ।
अप्रस्तुगतप्रशंसाध्वनिरपि---
ढुण्ढुल्लन्तो मरिहिसि कण्टअकलिआइं केऐवणाइं ।
मालैकुसुमसरिच्छं भमर भमन्तो ण पाविहिसि ॥
प्रियतमेन साकमुद्याने विहरन्ती काचिन्नायिका भ्रमरमेवमाहेति भृङ्गस्याभिधायां बालप्रिया ऽअङ्कुरितेऽ इति सप्तम्यन्तपाठो ऽपि पूर्वार्धे दृश्यते ।
लोचने--यथाचेति ।
तथा च इति च पाठः ।
इत्यत्रेत्यस्य दीपकध्वनिरित्यनेनापि सम्बन्धः ।
दीपकध्वनिं विवृणोति---बाधिष्ठेत्यादि ।
बाधिष्ठेति दीपकादिति ।
माङर्थान्वितलुङन्तबाधत्यर्थरूपादनलाद्यनेकान्वयि धर्मादित्यर्थः ।
अत्यन्तेति ।
लतासहिते वृक्षे वक्तृगतनिरतिशयश्नेहास्पदत्वस्य प्रतीत्येत्यर्थः ।
चारुत्वनिष्पत्तिरिति ।
यतस्ततो दीपकध्वनिरिति सम्बन्धः ।
अत्र "यश्च निम्बं परशुने"त्यादाविव मा भवन्तमनल इत्यत्र धाक्षीदित्यस्य, पवनो वेत्यादौ भाङ्क्षीरित्यस्य, परशुर्वेत्यादौ भैत्सीदित्यस्य चाध्याहारेण वाच्यार्थनिष्पत्तिर्बोध्या ।
अप्रस्तुतप्रशंसाध्वनिरपीति ।
सादृश्यनिमित्तकाप्रस्तुतप्रशंसाध्वनिरपीत्यर्थः ।
डुण्ढु इत्यादि ।
अन्वेषयन्मरिष्यसि कण्टककलितानि केतकीवनानि ।
मालतीकुसुमसदृशं भ्रमर भ्रमन्न प्राप्स्यसि ॥
इति छाया ।
विवृणोति--प्रियतमेनेत्यादि ।
भ्रमरमिति ।
केतक्यभिमुखं चरन्तं कञ्जिन्मधुपमित्यर्थः ।
आहेतीति ।
वक्तीत्यतो हेतोरित्यर्थः ।
भृङ्गस्येति ।
भृङ्गवृत्तान्तस्येत्यर्थः ।
अभिदायामभिधेयत्वे सति ।
लोचनम् प्रस्तुतत्वमेव ।
न चामन्त्रणादप्रस्तुतत्वावगतिः, प्रत्युतामान्त्रणं तस्या मौग्ध्यविजृम्भितमिति अभिधया तावन्नाप्रस्तुतप्रशंसा समाप्या ।
समाप्तायां पुनरभिधायां वाच्यार्थबलादन्यापदेशता ध्वन्यते ।
यत्सौभाग्याभिमानपूर्णा सुकुमारपरिमलमालतीकुसुमसदृशी कुलवधूर्निर्व्याजप्रेमपरतया कृतकवैदग्ध्यलब्धप्रसिद्ध्यतिशयानि शम्भलीकण्टकव्याप्तानि दूरामोदकेतकीवनस्थानीयानि वेश्याकुलानीतश्चेतश्च चञ्चूर्यमाणं प्रियतममुपालभते ।
अपह्नुतध्वनिर्यथास्मदुपाध्यायभट्टेन्दुराजस्य--- यः कालगुरुपत्र्रभङ्गरचनावासैकसारायते गौराङ्गीकुवकुम्भभूरिसुभगाभोगे सुधाधामनि ।
बालप्रिया प्रस्तुतत्वमेवेत्येवकारेणाप्रस्तुतत्वव्यवच्छेदः ।
शङ्केत---न चेत्यादि ।
आमन्त्रणादिति ।
भृङ्गस्येत्यनुषङ्गः ।
अनामन्त्रणीयस्य भ्रमरस्य सम्बोधनादित्यर्थः ।
अप्रस्तुतत्वावगतिः अप्रस्तुतत्वस्य बोधः ।
न चेत्यन्वयः ।
कुत इत्यत आह---प्रत्युतेत्यादि ।
तस्याः नायिकायाःयन्मौगध्यं मुग्धत्वं "मुग्धा नववयःकामे"त्यादि मुग्धालक्षणं, तस्य विजृम्भितं मौग्ध्यहेतुकमिति यावत् ।
इतीति हेतौ ।
अभिधया तावदित्यादि ।
भृङ्गवृत्तान्तस्य यद्यप्रस्तुतत्वं भवेतदा प्रियतमोपालम्भरूपार्थ एव वाक्यस्य विश्रान्त्या तस्याभिधया समाप्यत्वं भवेत्, प्रकृते भृङ्गवृत्तान्तस्यापि प्रस्तुतत्वसम्भवान्मुख्यतया विवक्षितः ।
प्रियतमोपालम्भरूपार्थो ऽभिधया न समाप्य इत्यर्थः ।
समाप्तायामित्यादि ।
प्रकारणवशेन भृङ्गतदन्वय्यभिधेयार्थबोधे निष्पन्ने सतीत्यर्थः ।
वाच्यार्थबलादिति ।
वाच्यार्थसाम्यबलादित्यर्थः ।
अन्यापदेशतेति ।
अर्थान्तरमित्यर्थः ।
तदाह---यदित्यादि ।
सुकुमारः सुन्दरः मुग्धकुलवधूरिति च पाठः ।
प्रेमेति ।
प्रियतमविषयकप्रेमेत्यर्थः ।
परतया हेतुना उपालभते इति सम्बन्धः ।
कृतकेति ।
कृतकवैदग्ध्येन लब्धः प्रसिद्ध्यतिशयो यैः तानि ।
शम्भलीति ।
कण्टकतुल्याभिः कुट्टनीभिर्व्याप्तानीत्यर्थः ।
डाम्भिककण्टकेति च पाठः ।
दूरेति ।
दूरव्याप्तामोदानि यानि केतकीवनानि तत्तुल्यानीत्यर्थः ।
चञ्चूर्यमाणमिति ।
तत्सम्भोगाय मुहुश्चरन्तमित्यर्थः ।
य इति ।
यः गौराङ्गीकुचकुम्भ इव भूरिः सुभगश्चाभोगो यस्य तस्मिन् ।
सुधाधामनि चन्द्रे कालागरुणा या पत्रभङ्गरचना रचितः पत्रभङ्ग इति यावत्, तद्रूपेण यो वासः, यद्वा---रचनाया आवासः आस्पदत्वं तेन एकेन सारायते ।
हे नताङ्गि सुन्दरि ! लोचनम् विच्छेदानलदीपितोत्कवनिताचेतोधिवासोद्भवं सन्तापं विनिनीषुरेष विततैरङ्गैर्नताङ्गि स्मरः ॥
अत्र चन्द्रमण्जलमध्यवर्तिनो लक्ष्मणो वियोगाग्निपरिचितवनिताहृदयोदितप्लोषमलीमसच्छविमन्मथाकारतयापह्नवो ध्वन्यते ।
अत्रेव ससन्देहध्वनिः---यतश्चन्द्रवर्तिनस्तस्य नामापि न गृहीतम् ।
अपि तु गौराङ्गीस्तनाभोगस्थानीये चन्द्रमसि कालागुरुपत्र्रभङ्गविच्छित्त्यास्पदत्वेन यः सारतामुत्कृष्टतामाचरतीति तन्न जानीमः किमेतद्वस्त्विति ससन्देहो ऽपि ध्वन्यते ।
पूर्वमनङ्गीकृतप्रणयामनुतप्तां विरहोत्कण्ठितां वल्लभागमनप्रतीक्षापरत्वेन कृतप्रसाधनादिविधितया वासकसज्जीभूतां पूर्णचन्द्रोदयावसरे दूतीमुखानीतः प्रियतमस्त्वदीयकुचकलशन्यस्तकालागुरुपत्र्रभङ्गरचना मन्मथोद्दीपनकारिणीति चाटुकं कुर्वाणश्चन्द्रवर्तिनी चेयं कुवलयदलश्यामलकान्तिरेवमेव करोतीति प्रतिवस्तूपमाध्वनिरपि ।
सुधाधामनीति चन्द्रपर्यायतयोपात्तमपि पदं सन्तापं विनिनीषुरित्यत्र हेतुतामपि बालप्रिया एष इति ।
य इत्यस्य प्रतिनिर्देशः स इत्यर्थः ।
विच्छेदः प्रियतमविरह एवानलो ऽग्रिः, तेन दीपितानि यानि उत्कानामुत्कण्ठितानां वनितानां चेतांसि तदधिवासेन उद्भवो यस्य तम् ।
सन्तापं विनिनीषुः विनेतुं शमयितुमिच्छुरिति हेतुगर्भम् ।
विततैरिति ।
प्रसारितैरित्यर्थः ।
अङ्गैरुपलक्षितः स्मरः भवतीत्यन्वयः ।
ध्वनिं दर्शयति--अत्रेत्यादिना ।
अपह्नव इति ।
नायमङ्कः, किन्तु तथाविधो मन्मथ इत्यपह्नव इत्यर्थः ।
यत इत्याद्याचरतीत्यन्तं व्याख्यातृवचनम् ।
तस्येति ।
लक्ष्मण इत्यर्थः ।
न गृहीतमिति ।
विशेषतो न निर्दिष्टमित्यर्थः ।
अपि त्वित्यादि ।
गृहीतमित्यनुषज्यते ।
अपि तु इति गृहीतमिति सम्बन्धः ।
एवं निर्दिष्टमित्यर्थः ।
गौराङ्गीत्यादि ।
आभोगविशिष्टगौराङ्गीस्तनतुल्येत्यर्थः ।
रचनावासेत्यस्य विवरणम्---विच्छित्त्यास्पदत्वेनेति ।
आचरतीति ।
आवहतीत्यर्थः ।
फलितार्थकथनमेतत् ।
सारः उत्कृष्ट इवाचरति सारो भवति इति वा विग्रहः ।
तदिति ।
तथा निर्देशादित्यर्थः ।
न जानीम इत्यादि सन्देहाकारकथनम् ।
इतीति ।
उक्तानध्यवसायात्मकवक्तृनायकगतसंशयप्रतीतेरित्यर्थः ।
ससन्देहः ससन्देहालङ्कारः ।
अपीति समुच्चये ।
पूर्वमितियादि ।
प्रणयः प्रियातमस्य प्रार्थना ।
अनुतप्तामिति ।
पश्चात्तापवतीमित्यर्थः ।
भूतामिति ।
नायिकामिति शेषः ।
चाटुकं कुर्वाण इत्यनेनास्य सम्बन्धः ।
त्वदीयेत्यादि ।
चाटुवचनम् ।
एवमेव करोतीति ।
मन्मथोद्दीपनकारिणीत्यर्थः ।
इतिप्रतिवस्तूपमाध्वनिरिति ।
त्वदीयकुचकलशन्यस्तकालागरुपत्रभङ्गरचनामन्मथोद्दीपनकारिणो चन्द्रवर्तिनीयं कुवलयदलश्यामला कान्तिश्चैवमेव करोतीति वक्तृनायकचाटुवाक्यार्थस्य प्रतीत्या प्रतिवस्तूपमाया ध्वनिरित्यर्थः ।
हेतुतामिति ।
सुधाधामत्वरूपयोगार्थस्येति शेषः ।
शोभाभिः सह उद्दीपयति इति च पाठः ।
लोचनम् व्यनक्तीति हेत्वलङ्कारध्वनिरपि ।
त्वदीयकुचशोभा मृगाङ्कशोभा च सह मदनमुद्दीपयत इति सहोक्तिध्वनिरपि ।
ऽत्वत्कुचसदृशश्चन्द्रश्चन्द्रश्चन्द्रसमस्त्वकुवाभोगःऽ इत्यर्थप्रतितेरुपमेयोपमाध्वनिरपि ।
एवमन्ये ऽप्यत्र भेदाः शक्योत्प्रेक्षाः ।
महाकविवाचो ऽस्याः कामधेनुत्वात् ।
यतः--- हेलापि कस्यचिदचिन्त्यफलप्रसूत्यै कस्यापि नालमणवे ऽपि फलाय यत्नः ।
दिग्दन्तिरोमचलनं धरणीं धुनोति खात्सम्पतन्नपि लतां चलयेन्न भृङ्गः ॥
एषां तु भेदानां संसृष्टित्व सङ्करत्वं च यथायोगं चिन्त्यम् ।
अतिशयोक्तिध्वनिर्यथा ममैव--- केलीकन्दलितस्य विभ्रममधोर्धुर्यं वपुस्ते दृशौ भङ्गीभङ्गरकामकार्भुकमिदं भ्रूनर्मकर्मक्रमः ।
आपाते ऽपि विकारकारणमहो वक्त्राम्बुजन्मासवः सत्यं सुन्दरि वेधसस्त्रिजगतीसारस्त्वमेकाकृतिः ॥
अत्र हि मधु मासमदनासवानां त्रैलोक्ये सुभगतान्योन्यं परिपोषकत्वेन ।
ते तु बालप्रिया हेलेति ।
हेला लीला ।
यत्नः बुद्धिपूर्वको व्यापारः ।
वाक्यद्वये भवतीति शेषः ।
उक्तं सामान्यं विशेषेण समर्थयति---दिग्दन्तीत्यादि ।
दिग्दन्तिनो ऽङ्गचलनमिति च पाठः ।
एषां त्वित्यादि ।
अपह्नवेन सहेतरेषां संसृष्टिः, ससन्देहप्रतिवस्तूपमोपमेयोपमानामेकवाक्यानुप्रवेशसङ्कर इत्यादिकं चिन्त्यमित्यर्थः ।
केलीति ।
हे सुन्दरि ! ते तव दृशौ केलीविलासिजनस्य क्रीडा तस्याः कन्दलं नवाङ्कुरः रिषदाविर्भाव इति यावत् ।
तदस्य सञ्जातमिति केलीकन्दलितः, तस्य अचिराविर्भूतस्येत्यर्थः ।
विभ्रमः स्त्रीणां शृह्गारचेष्टा तत्कारी विभ्रमः शोभा, तच्छाली वा यो मधुर्वसन्तः तस्य धुरं कामोद्दीपनादिभारं वहतीति धुर्यम् ।
वपुः स्त इति शेषः ।
त्वदीयं नेत्रद्वितयमचिराविर्भूतस्य वसन्तस्य कामोद्दीपनादिकार्यकारि शरीरं भवतीत्यर्थः ।
तथा ते इदमित्याद्येकं पदम् ।
अयमनुभवैकगोचरो भ्रुवोर्नर्मकर्मणः लीलायाः क्रमः क्रमिकलीलाविशिष्टभ्रूयुग्ममित्यर्थः ।
भङ्की रचनाविशेषः, तया हेतुना भङ्गुरं वक्रं, यद्वा---भङ्गीयुक्तं वक्रं च यत् कामस्य कार्भुकं क्रमिककर्मविशिष्टं धनुः तद्भवति ।
यद्वा---इदमिति भिन्नं पदं कर्मुकविशेषणं, क्रमिककर्मविशिष्टमिति तदर्थः ।
तथा ते वक्त्राम्बुजन्मनि मुखपझे य आसवः मद्यविशेषः ।
अत्रासवत्वेनाधररसस्याध्यवसायः ।
आपाते ऽपि किञ्जिदास्वादे ऽपि ।
किकाराणां सम्मोहानन्दादिरूपचित्तविकाराणां कारणं भवति ।
अहो इदमद्भुतम् ।
अतः त्वमेका वेधसः कृतिः सृष्टिः त्रिजगतीसारः त्रैलोक्यसारभूता भवति ।
सत्यं निश्चितम् ।
अत्र हीत्यस्य ध्वन्यत इत्यादिभिः सम्बन्धः ।
पोषकत्वेनेत्यन्तं हेतुवचनम् ।
ते इत्यादिव्यङ्ग्यकथनम् ।
योजनीयाः ।
एवमलङ्कारध्वनिमार्गं व्युत्पाद्य तस्य प्रयोजनवत्तां ख्यापयितुमिदमुच्यते--
शरीरीकरणं येषां वाच्यत्वे न व्यवस्थितम् ।
मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0