ध्वन्यालोक (टीका सहित) · भाग 241260
यथा--- ऽअत्रान्तरे कुसुमसमययुगमुपसंहरन्नजृम्भत ग्रीष्माभिधानः फुल्लमल्लिकाधवलाट्टहासो महाकालःऽ ।
यथा च---- उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः ।
पयोधरभरस्तन्व्याः कं न चक्रे ऽभिलाषिणम् ॥
लोचनम् विषयमवस्थाप्य ध्वनेराह---यत्र त्विति ।
कुसुमसमयात्मकं यद्युगं मासद्वयं तदुपसंहरन् ।
धवलानि हृद्यान्यट्टान्यापणा येन तादृक् फुल्लमल्लिकानां हासो विकासः सितिमा यत्र ।
फुल्लमल्लिका एव धवलाट्टहासो ऽस्येति तु व्याख्याने ऽजलदभुजगजंऽ इत्येतत्तुल्यमेतत्स्यात् ।
महांश्चासौ दिनदैर्ध्यदुरतिवाहतायोगात्कालः समयः ।
अत्र ऋतुवर्णनप्रस्तावनियन्त्रिताभिधाशक्तयः, अत एव ऽअवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसीऽ इति न्यायमपाकुर्वन्तो महाकालप्रभृतयः शब्दा एतमेवार्थमभिधाय कृत कृत्या एव ।
तदनन्तरमर्थावगतिर्ध्वननव्यापारादेव शब्दशक्तिमूलात् ।
अत्र केचिन्मन्यन्ते---ऽयेति एतोषां शब्दानां पूर्वमर्थान्तरे ऽभिधान्तरं दृष्टं ततस्तथाविधे ऽर्थान्तरे बालप्रिया हास इत्यस्य व्यख्यानं--विकास इति ।
तस्यैव विवरणं--सितिमेति ।
सितस्य भावः ।
सितिमा ।
यथाश्रुतार्थपरित्यागे बीजमाह--फुल्लेति ।
इत्येतत्तुल्यमेतत्स्यादिति ।
तथाचाभिमतध्वन्युदाहरणं न भवेदिति भावः ।
महत्वोपपादकं--दिनेत्यादि ।
दिनदैर्ध्यं दुरतिवाहता च तयोर्योगादित्यर्थः ।
ऽसामर्थ्याक्षिप्तंऽ सहकारिभूतेनार्थसामर्थ्येन व्यञ्जितं सत् ।
ऽअलङ्कारान्तरंऽ अलङ्कारविशेषः ।
ऽशब्दशक्त्या प्रकाशतेऽ प्राधान्येन शब्दशक्त्या भासत इत्यादिवृत्युक्तमुपपादयति---अत्रेत्यादि ।
ऋतुवर्णनरूपः ऋतुवर्णनस्य वा यः प्रस्तावः तेन नियन्त्रिताः तत्तदर्थेषु नियमिताः अभिधाशक्तयो येषां ते ।
अत एव प्रकरणादेव ।
इति न्यायमिति ।
यथोक्तं "योगाद्रूढेर्बलीयस्त्व"मिति ।
एतमेवार्थमिति ।
पूर्वोक्तार्थमित्यर्थः ।
तदनन्तरमर्थावगतिरिति ।
कृतादियुगसमयमुपसंहरन् मल्लिकाधवलमट्टहासं कुर्वन् भयङ्करो महाकालः महान् जगत्संहर्तृदेवताविशेष इत्याद्यर्थबोध इत्यर्थः ।
अत्र मतभेदान्दशयति---अत्र केचिदित्यादि ।
एतेषामिति ।
महाकालादीनामित्यर्थः ।
लोचनम् दृष्टतदभिधाशक्तेरेव प्रतिपत्तुर्नियन्त्रिताभिधाशक्तिकेभ्य एतेभ्यः प्रतिपत्तिर्ध्वननव्यापारादेवेति शब्दशक्तिमूलत्वं व्यङ्ग्यत्वं चेत्यविरुद्धम्ऽ इति ।
अन्ये तु---ऽसाभिधैव द्वितीया अर्थसामर्थ्यं ग्रीष्मस्य भीषणदेवताविशेषसादृश्यात्मकं सहकारित्वेन यतो ऽवलम्वते ततो ध्वननव्यापाररूपोच्यतेऽ इति ।
एके तु---ऽशब्दश्लेषे तावद्भेदे सति शब्दस्य, अर्थश्लेषे ऽपि शक्तिभेदाच्छब्दभेद इति दर्शने द्वितीयः शब्दस्तत्रानीयते ।
स च कदाचितभिधाव्यापारात् यथोभयोरुत्तरदानाय ऽश्वतो धावतिऽ इति; प्रश्नोत्तरादौ वा तत्र वाच्यलङ्कारता ।
यत्र तु ध्वननव्यापारादेव बालप्रिया अर्थान्तरे जगत्संहर्तृदेवताविशेषाद्यर्थे ।
दृष्टं ज्ञातम् ।
दृष्टेति ।
दृष्टा ज्ञाता तदभिधाशक्तिर्येन तस्येत्यर्थः ।
नियन्त्रितेति ।
प्राकरणिकार्थे प्रकरणादिना नियमितेत्यर्थः ।
एतेभ्यः महाकालादिशब्देभ्यः ।
प्रतिपत्तिः अर्थान्तरप्रतीतिः ।
इतीति हेतौ ।
व्यह्ग्यत्वञ्जेति ।
यतो ऽर्थान्तरे गृहीततत्तच्छब्दाभिधाशक्तिकस्यैव प्रतिपत्तुस्तदर्थान्तरस्य प्रतीतिर्भवति, ततश्शब्दशक्तिमूलत्वं, यतश्च सा प्रतीतिरभिधाया विरम्यव्यापाराभावेन ध्वननव्यापारादेव, ततस्तदर्थस्य व्यङ्ग्यत्वञ्जेत्यर्थः ।
मतमिदं काव्यप्रकाशकाराद्यभ्युपगतम् ।
मतान्तरमाह---अन्य इत्यादि ।
साभिधव द्वितीयेति ।
गृहीतपूर्वा द्वितीयार्थाभिधैवेत्यर्थः ।
ध्वननव्यापाररूपोच्यत इति सम्बन्धः ।
कुत इत्यत्राह---अर्थेत्यादि ।
अर्थसामर्थ्यमिति ।
सामर्थ्यक्षिप्तमिति ग्रन्थेनोक्तमर्थसामर्थ्यमित्यर्थः ।
तत् किमित्यत्राह---ग्रीष्मस्येत्यादि ।
भीषणेति ।
युगोपसंहरणादिना यद्देवताविशेषसाः दृश्यं तदात्मकमित्यर्थः ।
सहकारित्वेनेति ।
तदर्थान्तरबोधन इति शेषः ।
तत इत्यादि ।
अभिधादयो व्यापारा ह्यर्थबोधानुकूलशक्तिविशेषात्मकाः ।
सहकारिभेदेन तेषां भेदः ।
सङ्केतग्रहणमात्रसहकारेण शब्दस्यार्थबोधनशक्तिरभिधा ।
सङ्केतग्रहणातिरिक्तार्थसामर्थ्यादिसहकारेणार्थबोधनशक्तिस्तु ध्वननमतो ऽत्र सा ध्वननरूपोच्यत इति भावः ।
एक इत्यादि ।
तावदिति सम्प्रतिपत्तौ ।
शब्दस्य भेदे सतीति सम्बन्धः ।
भेदस्य सत्वादित्यर्थः ।
शक्तिभेदादिति ।
तत्तदर्थबोधानुकूलक्तिभेदादित्यर्थः ।
अर्थभेदादिति यावत् ।
तत्रेति ।
शब्दश्लेषे ऽर्थश्लेषे चेत्यर्थः ।
आनीयत इति ।
अनुसन्धानेनेति भावः ।
सः द्वितीयश्शब्दः ।
कदाचिदिति ।
यदार्थद्वये ऽपि प्रकरणादिकं तदेत्यर्थः ।
अभिधाव्यापारादिति ।
अर्थद्वयस्याभिधेयत्वावश्यम्भावादिति भावः ।
आनीयत इत्यनुषङ्गः ।
अत्रोदाहरणमाह---यथेत्यादि ।
अभयोरिति ।
क इतो धावति, किङ्गुणविशिष्टश्चेति द्वयोः प्रश्नयोरित्यर्थः ।
श्वेत इति ।
श्वा इतः श्वेतोधवलश्च ।
प्रश्नोत्तरादौ वेति ।
"यत्तु पर्यनुयोगस्य निर्भेदः क्रियते बुधैः ।
विदग्धगोष्ठ्यां वाक्यैर्वा तद्वि प्रश्नोत्तरं विदुः" ॥
इति लक्षणम् ।
लोचनम् शब्द आनीतः, तत्र शब्दान्तरबलादपि तदर्थान्तरं प्रतिन्तरं प्रतिपन्नं प्रतियमानमूलत्वात्प्रतियमामेव युक्तम्ऽ इति ।
इतरेतु--ऽद्वितीयपक्षव्याख्याने यदर्थसामर्थ्यं तेन द्वतीयाभिधैव प्रतिप्रसूयते, ततश्चद्वितीयो ऽर्थो ऽभिधीयत एव न ध्वन्यते, तदनन्तरं तु तस्य द्वितीयार्थस्य प्रतिपन्नस्य प्रथमार्थेन प्रकारणिकेन साकं या रूपणा सा तावद्भात्येव, न चान्यतः शब्दादिति सा ध्वननव्यापारात् ।
तत्राभिधशक्तेः कस्याश्चिदप्यनाशङ्कनीयत्वात् ।
तस्यां च द्वितीया शब्दशक्तिर्मूलम् ।
तथा विना रूपणाया अनुत्थानात् ।
अत एवालङ्कारध्वनिरयमिति युक्तम् ।
वक्ष्यते च ऽअसम्बद्धार्थाभिधायित्वं मा प्रसाङ्क्षीत्ऽ इत्यादि ।
पूर्वत्र तु सलेशपदेनैवासम्बद्धतानिराकृता ।
बालप्रिया यथा---"काहमस्मि गुहा वक्ति प्रश्ने ऽमुष्मिन् किमुत्तरम् ।
कथमुक्तं न जानासि कदर्थयसि यत्सखे" ॥
इति ।
अत्र कदर्थयसीत्येतत् ऽकथऽ वर्णाभ्यामुक्तं दर्यसीत्युत्तरम् ।
आदिपदेन "येन ध्वस्ते"त्यादिसङ्ग्रहः ।
वाच्येति ।
श्लेषादिवाच्यालङ्कार इत्यर्थः ।
द्वयोरर्थयोः प्रकृतत्वादति भावः ।
यत्रेति ।
कुसुमसमयमित्यादावित्यर्थः ।
ध्वननव्यापारादेवेति ।
अभिधायाः प्रकृतार्थेनियमनेन व्यञ्जकत्वादेवेत्यर्थः ।
शब्दान्तरबलादिति ।
शब्दान्तरस्याभिधाशक्तेरित्यर्थः ।
प्रतिपन्नमपीत्यन्वयः प्रतीयेति ।
प्रतीयमानः ध्वननाद्गम्यमानः शब्दः मूलं यस्य तत्वादित्यर्थः ।
ध्वनिव्यापारमूलकत्वादिति यावत् ।
प्रतीयमानमेव व्यङ्ग्यमेव ।
द्वितीयपक्षव्याख्याने इति ।
ऽअन्ये त्विऽत्याद्युक्तव्याख्यान इत्यर्थः ।
तेनेति ।
अर्थसार्थ्येनेत्यर्थः ।
द्वितीयाभिधेति ।
द्वितीयार्थाभिधेत्यर्थः ।
प्रतिपन्नस्य तस्य द्वितीयार्थस्येति सम्बन्धः ।
रूपणेति ।
अभेदारोप इत्यर्थः ।
आरोप्यमाणाभेद इति यावत् ।
इदमुपमादेरुपलक्षणम्. सा तावदिति ।
सा रूपणा ।
न चेत्यादि ।
भातीत्यनुषङ्गः ।
शब्दादन्यस्मान्न भातीत्यर्थः ।
किन्तु शब्दादे वेति भावः ।
तत्रेति ।
रूपणायमित्यर्थः ।
तस्यामिति ।
रूपणायामित्यर्थः ।
अनुत्थानादिति ।
प्रतियोगिभूतस्य द्वितीयार्थस्याप्रतीत्येति भावः ।
अत एव रूपणादिमात्रस्य व्यङ्ग्यत्वादेव ।
अलङ्कारेति ।
रूपकादीत्यर्थः ।
इति युक्तमिति ।
इति वचनं युज्यत इत्यर्थः ।
अन्यथा द्वतीयार्थस्य व्यङ्ग्यत्वेन वस्तुध्वनिव्यवहारो ऽपि स्यादिति भावः ।
वक्ष्यत इति ।
वृत्ताविति शेषः ।
तत्र उपमानोपमेयभावः ।
कल्पयितव्य इत्युक्या तदंशस्यैव व्यङ्ग्यत्वज्ञापनादिति भावः ।
शब्दशक्त्या प्रकाशमाने इति ग्रन्थो ऽप्येतत्पक्षानुकूलः प्रसङ्गादाह---पूर्वत्रेत्यादि ।
पूर्वत्र "दृष्ट्या केशवे"त्यादौ ।
निराकृतेति ।
तत्र हि द्वितीयार्थ एव प्राधान्येन विवक्षितः, प्रथमार्थस्तु यथा वा--- दत्तानन्दाः प्रजानां समुचितसमयाकृष्टसृष्टेः पयोभिः पूर्वाह्णे विप्रकीर्णा दिशि दिशि विरमत्यह्नि संहारभाजः ।
दीप्तांशेर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो गावो वः पावनानां पररमपरिमितां प्रीतिमुत्पादयन्तु ॥
एषूदाहरणेषु शब्दशक्या प्रकाशमाने सत्यप्राकरणिके ऽर्थान्तरे वाक्यस्यासम्बद्धार्थाभिधायित्वं मा प्रसङ्क्षीदित्यप्राकारणिकप्राकरणिकार्थयोरुपमानोपमेयभावः कल्पयितव्यः सामर्थ्यादित्यर्थाक्षिप्तो ऽयं श्लेषो न शब्दोपारूढ इति विभिन्न एव श्लेषादनुस्वानीपमव्यङ्ग्यस्य ध्वनेर्विषयः ।
अन्ये ऽपि लोचनम् शपदेनैवासम्बद्धता निराकृता ।
ऽयेन ध्वस्तऽ इत्यत्रासम्बद्धता नैव भाति ।
ऽतस्याविनापिऽ इत्यत्रापिशब्देन ऽश्लाध्याऽ इत्यत्राधिकशब्देन ऽभ्रमिंऽ इत्यादौ च रूपकेणासम्बद्धता निराकृतेति तात्पर्यम् ।
पयोभिरिति पानीयैः क्षीरैश्च ।
संहारो ध्वंसः, एकत्र ढौकनं च ।
गावो रश्मयः सुरभयश्च ।
असम्बद्धार्थाभिधायित्वमिति ।
असंवेद्यमानमेवेत्यर्थः ।
उपमानोपमेयभाव इति ।
बालप्रिया तद्गोपनार्थतयेति भावः ।
अनेन तत्र रूपणादिकं नास्तीति चावेदितम् ।
नैव भातीति ।
द्वयोरपि स्तुत्यतया प्रकृतत्वादिति भावः ।
ऽतात्पर्यम्ऽ इत्यन्तं ऽइतरे विऽति मतम् ।
एतन्मतानुरोधिनः कुवलयानन्दकारादयः ।
ऽअन्नतऽ इति ।
प्रोल्लसन् हारो यत्र, प्रोल्लसन्ती धारा यत्र च सः ।
कालागरूणा स इव च मलीमसः नीलः पयोधरः स्तनः जलधरश्च ।
तस्याः कामिन्याः प्रावृषश्चा कं युवानं पथिकञ्च ।
ऽदत्तानन्दाऽ इति सूर्यशतकस्थम् ।
समुचितसमये पूर्वमाकृष्टानि पश्चात्सृष्टानि तैः दीप्तांशोः सूर्यस्य पावनानां परमुत्कृष्टं वर्तमानाः ।
लोचने व्याख्येयानिपदानि व्याचष्टे---पयोभिरित्यादि ।
रश्मिपक्षे पानीयैरिति सुरभिपक्षे क्षीररिति ।
वृत्तौ ऽअसम्बद्धार्थाभिधायित्वऽमिति ।
प्रकृतार्थेनासम्बद्धो यो ऽर्थस्तदभिधायित्वमित्यर्थः ।
ऽमा प्रसाङ्क्षीदिऽति ।
प्रसक्तिविषयो मा भूदित्यर्थः ।
अत्रैष्टापत्तिं परिहर्तुं भावमाह---असंवेद्यमानमेवेति ।
असम्बद्धार्थाभिधायित्वं सहृदयैरप्रतीयमानमेवेत्यर्थः ।
चालङ्काराः शब्दशक्तिमूलानुस्वानरूपव्यङ्ग्ये ध्वनौ सम्भवन्त्येव ।
तथा हि विरोधो ऽपि शब्दशक्तिमूलानुस्वानरूपो दृश्यते ।
यथा स्थाण्वीश्वराख्यजनपदवर्णने भट्टबाणस्य--- ऽयत्र च मातङ्गगामिन्यः शीलवत्यश्च गौर्यो विभवरताश्च श्यामाः पझरागिण्यश्च धवलद्विजशुचिवदना मदिरामोदिश्वसनाश्च प्रमदाःऽ ।
अत्र हि वाच्यो विरोधस्तच्छायानुग्राही वा श्लेषो ऽयमिति न शक्यं वक्तुम् ।
साक्षाच्छब्देन विरोधालङ्कारस्याप्रकाशितत्वात् ।
यत्र हि साक्षाच्छब्दावेदितो विरोधालङ्कारस्तत्र हि श्लिष्टोक्तौ वाच्यालङ्कारस्य विरोधस्य लोचनम् तेनोपमारूपेण व्यतिरेचननिह्नवादयो व्यापारमात्ररूपा एवात्रास्वादप्रतीतेः प्रधानं विश्रान्तिस्थानं, न तूपमेयादीति सर्वत्रालङ्कारध्वनौ मन्तव्यम् ।
सामर्थ्यदिति ।
ध्वननव्यापारादित्यर्थः ।
मातङ्गेत ।
मातङ्गवद्गच्छन्ति तान् शबरांश्च गच्छन्तीति विरोधः ।
विभवेषु रताः ।
विगतमहादेवे स्थाने च रताः ।
पझरागरत्नयुक्ताः पझसदृशलौहित्ययुक्ताश्च ।
ध्वलैर्द्विजैर्दन्तैः शुचि निर्मलं वदनं यासां धवलद्विजवदुत्कृष्टविप्रवच्छुचि वदनं च यासास् ।
यत्र हीति ।
यस्यां श्लेषोक्तौ काव्यरूपायां, तत्र यो विरोधः श्लेषो वेति सङ्करः तस्य विषयत्वम् ।
स विषयो भवतीत्यर्थः ।
कस्य? वाच्यालङ्कारस्य वाच्यालङ्कृतेः वाच्यालङ्कृतित्वस्येत्यर्थः ।
बालप्रिया अर्थः भावार्थः ।
तेनेति ।
उपमात्मकोपमानोपमेयभावकल्पनस्य कथनात्तस्य उपलक्षणत्वाच्चेत्यर्थः ।
उपमारूपणेत्यादि ।
उपमारूपकादिध्वनिस्थले उपमितिरूपणादिप्रतीतिक्रिया एवेत्यर्थः ।
मातङ्गवदिति ।
गजवदित्यर्थः ।
शबरांश्चेति ।
चण्डालांश्चेत्यर्थः ।
इति विरोध इति ।
चण्डालगमनरूपार्थस्य सद्वृत्तरूपशीलेन विरोध इत्यर्थः ।
आद्येनार्थेन च तत्परिहारः ।
एवमुपर्यपि बोध्यम् ।
ऽगौर्यःऽ गौरवर्णाः पार्वत्यश्च ।
ऽश्यामाःऽ श्यामवर्णाः यौवनवत्यश्च ।
वृत्तौ--ऽसाक्षाच्छब्देनाप्रकाशितत्वाऽदिति ।
शीलवत्यश्चेत्यादौ चकाराणां समुच्चयार्थकत्वादिति भावः ।
वेति सङ्कर इति ।
विरोधस्य श्लेषस्य वेत्यत्र वाकारस्तत्सङ्करद्योतक इत्यर्थः ।
तस्य विषयत्वमित्यस्यैव विवरणम्---स इत्यादि ।
वाच्यालङ्कारस्येत्यस्य विषयत्वमित्यनेनान्वयमाकाङ्क्षापूर्वकं दर्शयति---कस्येत्यादिना ।
वाच्यालङ्कारस्येत्यस्य यथाश्रुतार्थमाह---वाच्यालङ्कृतेरिति ।
विवक्षितमाह---वाच्यालङ्कृतित्वस्येति ।
श्लेषस्य वा विषयत्वम् ।
यथा तत्रेव--- ऽसयवाय इव विरोधिनां पदार्थानाम् ।
तथाहि---सन्निहितबालान्धकारापि भास्वन्मूर्तिःऽ इत्यादौ ।
यथा वा ममैव--- सर्वैकशरणमक्षयमधीशमीशं धियां हरिं कृष्णम् ।
चतुरात्मानं निष्क्रियमरिमथनं नमत चक्रधरम् ॥
अत्र हि शब्दशक्तिमूलानुस्वानरूपो विरोधः स्फुटमेव प्रतीयते ।
एवंविदो व्यतिरेको ऽपि दृश्यते ।
यथा ममैव--- खं ये ऽत्युज्ज्वलयन्ति लूनतमसो ये वा नखोद्भासिनो लोचनम् तत्रैव विरोधे श्लेषे वा वाच्यालङ्कारत्वं सुवचमिति यावत् ।
वालेषु केशेष्वन्धकारः कार्ष्ण्यं, बालः प्रत्यग्रश्चान्धकारस्तमः ।
ननु मातङ्गेत्यादावपि धर्मद्वये यश्चकारः स विरोधद्योतक एव ।
अन्यथा प्रतधर्मं सर्वधर्मान्ते वा न क्वचिद्वा चकारः स्यात् यदि समुच्चयार्थः स्यादित्यभिप्रायेणोदाहरणान्तरमाह---यथेति ।
शरणं गृहमक्षयरूपमगृहं कथम् ।
यो न धीशः स कथं धियामीशः ।
यो हरिः कपिलः स कथं कृष्णः ।
चतुरः पराक्रमयुक्तो यस्यात्मा स कथं निष्क्रियः ।
अरीणामरयुक्तानां यो नाशयिता स कथं चक्रं वहुमानेन धारयति ।
विरोध इति ।
विरोधनमित्यर्थः ।
प्रतियत इति ।
स्फुटं नोच्यते केनचिदिति भावः ।
बालप्रिया तथा च विरोधश्लेषसङ्करस्य वाच्यालङ्कृतित्वनिरूपितं विषयत्वमिति वाक्यार्थः ।
विषयत्वमत्राश्रयत्वं बोध्यम् ।
फलितमाह---तत्रैवेत्यादि ।
भास्वन्मूर्तिः प्रकाशमानतनुः सूर्यमूर्तिश्च ।
सर्वेत्याद्युदाहरणान्तरभवतारयति---नन्वित्यादि ।
धर्मद्वये यश्चकार इति ।
मातङ्गगामिन्यश्शीलवत्यश्च गौर्यो विभवरताश्चेत्यादौ धर्मद्वयवाचकान्ते यश्चकार इत्यर्थः ।
एवकारेण समुच्चयद्योतकत्वव्यवच्छेदः ।
उक्तार्थे हेतुमाह---अन्यथेत्यादि ।
अन्यथा विरोधद्योतकत्वाभावे तदेति शेषः ।
अन्यथा चकारो यदि समुच्चयार्थस्स्यात्तदा प्रतिधर्मं सर्वधर्मान्ते वा स्यात्, क्वचिद्वा न स्यादित्यन्वयः ।
सर्वधर्मान्त इत्यत्र सर्वशब्दान्त इति च पाठः ।
चकारस्यात्र समुच्चयार्थकत्वे "घटञ्च पठञ्च पुस्तकञ्चानय, घटं पटं पुस्तकञ्चानय, घटं पटं पुस्तकमानय इतिपत्प्रयोगस्स्यादित्यर्थः ।
गृहमगृहमित्यादि विरूद्धार्थकथनम् ।
शरणं रक्षितारम् ।
अक्षयं नाशरहितमित्याद्यविरुद्धार्था बोध्याः विरोधनमिति ।
विरोधनक्रियेत्यर्थः ।
स्फुटमिति ।
निस्सन्देहमित्यर्थः ।
प्रतीयत इत्यस्य ध्वन्यत इत्यर्थ इत्याह--नोच्यते केनचिदिति ।
ये पुष्णान्ति सरोरुहश्रियमपि क्षिप्ताब्जभासश्च ये ।
ये मूर्धस्ववभासिनः क्षितिभृतां ये चामराणां शिरां- स्याक्रामन्त्युभये ऽपि ते दिनपतेः पादाः श्रिये सन्तु वः ॥
एवमन्ये ऽपि शब्दशक्तिमूलानुस्वानरूपव्यङ्ग्यध्वनिप्रकाराः सन्ति ते सहृदयैः स्वयमनुसर्तव्याः ।
इह तु ग्रन्थविस्तरभयान्न तत्प्रपञ्चः कृतः ।
अर्थशक्त्युद्भवस् त्व् अन्यो यत्रार्थः स प्रकाशते ।
यस् तात्पर्येण वस्त्व् अन्यद् व्यनक्त्य् उक्तिं विना स्वतः
अर्थशक्त्युद्भवस्त्वन्यो यत्रार्थः स प्रकाशते ।
यस्तात्पर्येण वस्त्वन्यद्य्वनक्त्युक्तिं विना स्वतः ॥ 22 ॥
लोचनम् नखैरुद्भासन्ते ये ऽवश्यं खे गगने न उद्भासन्त ।
उभये रश्म्यात्मानो ऽङ्गुलीपार्ष्ण्याद्यवयविरूपाश्चेत्यर्थः ॥21॥
एवं शब्दशक्त्युद्भवं ध्वनिमुक्त्वार्थशक्त्युद्भवं दर्शयति---अर्थेति ।
अन्य इति शब्दशक्त्युद्भवात् ।
स्वतस्तात्पर्येणेत्यभिधाव्यापारनिराकरणपरमिदं पदं ध्वननव्यापारमाह न तु तात्पर्यशक्तिम् ।
सा हि वाच्यार्थप्रतीतावेवोपक्षीणेत्युक्तं प्राक् ।
अनेनैवाशयेन बालप्रिया खमिति ।
खमाकाशम् ।
ये किरणाः लूनं विनाशितं तमस्तिभिरं पापञ्च यैस्ते ।
ये वेति ।
ये चरणाः ।
नखोद्भासिन इत्यस्य वाच्यं व्यङ्ग्यञ्चार्थमाह---नखैरित्यादि ।
ये किरणाः, सरोरुहाणां पझानां श्रियं कान्तिं पुष्णन्ति ये चरणाः ।
क्षिप्तेति ।
अधः कृतपझकान्तयः विनाशितपझकान्तयश्च ये किरणाः, क्षितिभृतां पर्वतानाम् मूर्धसुशृङ्गेषु शिरस्सु च ये चरणाः ।
अमराणां देवानाम् शिरांसि आक्रामन्ति प्रणामकाले स्पृशन्ति तेष्वनवभासिनश्च ।
लोचने---अङ्गुलीत्यादि ।
चरणा इत्यार्थः ।
अ6 लूनतमस्त्वादिधर्मैः किरणतुल्यानां दिनपतेश्चरणानां गगनानुद्भासित्वादिभिः किरणेभ्यो व्यतिरेको ध्वनित इति बोध्यम् ॥ 2.1 ॥
ऽअर्थेऽत्यादि कारिकायां ऽअन्यः अर्थशक्त्युद्भवस्तु तत्र भवति, यत्र स अर्थः प्रकाशते, य उक्तिं विना स्वतस्तात्पर्येण अन्यद्वस्तु व्यनक्तीऽत्यन्वयः ।
कस्मादन्य इत्यत्राह लोचने---शब्देति ।
स्वतस्तात्पर्येणेत्येतद्व्याचष्टे--स्वत इत्यादि ।
इतीदमिति सम्बन्धः ।
इदं पदमिति च पाठः ।
सेति ।
तात्पर्यशक्तिरित्यर्थः ।
अनेनेत्यादि ।
स्वतस्तात्पर्येणेत्यस्य विवरणं वृत्तौ--ऽस्वसामर्थ्यादिऽतिति भावः ।
ऽशब्दव्यापारऽमिति ।
अभिधामित्यर्थः ।
वृत्तौऽलीलेऽत्यादि ।
इदमधोमुखत्वस्याप्युपलक्षणम् ।
ऽप्रकाशयतीऽति ।
अनुभाववत्वाद्व्यञ्जयतीत्यर्थः ।
यदि लज्जात्मकव्यभिचारिप्रतीतिस्तर्ह्ययमलक्ष्यक्रमव्यङ्ग्यस्यैव ध्वनेर्विषयो न तु वस्तुध्वनेरिति शङ्कते--ऽन चेऽत्यादि ।
समाधत्तेऽयतऽ इत्यादि ।
नन्वत्र व्यभिचारिणो वाच्यत्वरूपसाक्षाच्छब्दनिवेदितत्वस्य कथनमसङ्गतं, यत्रार्थः स्वसामर्थ्यादर्थान्तरमभिव्यनाक्ति शब्दव्यापारं विनैव सो ऽर्थशक्युद्भवो नामानुस्वानोपमव्यङ्ग्यो ध्वनिः ।
यथा--- एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्र्राणि गणयामास पार्वती ॥
अत्र हि लीलाकमलपत्र्रगणनमुपसर्जनीकृतस्वरूपं शब्दव्यापारं विनैवार्थान्तरं व्यभिचारिभावलक्षणं प्रकाशयति ।
न चायमलक्ष्यक्रमव्यङ्ग्यस्यैव ध्वनेर्विषयः ।
यतो यत्र साक्षाच्छब्दनिवेदितेभ्यो विभावानुभावव्यभिचारिभ्यो रसादीनां प्रतीतिः, स तस्य केवलस्य मार्गः ।
यथा कुमारसम्भवे मधुप्रसङ्गे वसन्तपुष्पाभरणं वहन्त्या देव्या आगमनादिवर्णनं मनोभवशरसन्धानपर्यन्तं शम्भोश्च परिवृत्तधैर्यस्य चेष्टाविशेषवर्णनादि साक्षाच्छब्दनिवेदितम् ।
लोचनम् वृत्तौ व्याचष्टे---यत्रार्थः स्वसामर्थ्यादिति ।
स्वत इति शब्दः स्वशब्देन व्याख्यातः ।
उक्तिं विनेति व्याचष्टे---शब्दव्यापारं विनैवेति ।
उदाहरति---यथा एवमिति ।
अर्थान्तरमिति लज्जात्मकम् ।
साक्षादिति ।
व्यभिचारणां यत्रालक्ष्यक्रमतया व्यवधिवन्ध्यैव प्रतिपत्तिः स्वविभावादबलात्तत्र साक्षाच्छब्दनिवेदितत्वं विवक्षितमिति न पूर्वापरविरोधः ।
पूर्वं ह्युक्तं व्यभिचारिणामपि भावत्वान्न स्वशब्दतः प्रतिपत्तिरित्यादि विस्तरतः ।
एतदुक्तं भवति--यद्यपि रसभावादिरर्थो ध्वन्यमान एव भवति न वाच्यः कदाचिदपि, तथापि न सर्वो ऽलक्ष्यक्रमस्य विषयः ।
यत्र हि विभावानुभावेभ्यः स्थायिगतेभ्यो व्यभिचारिगतेभ्यश्च पूर्णोभ्यो झटित्येव बालप्रिया तस्य तदभावस्य पूर्वमुक्तत्वादित्यतस्साक्षाच्छब्दनिवेदितत्वं विवृणोति लोचने---व्यभिचारिणामित्यादि ।
ऽयत्र व्यभिचारिणां स्वस्वविभावादिबलादलक्ष्यक्रमतया व्यवधिवन्ध्यैव प्रतिपत्तिरिऽत्यन्वयः ।
व्यवधिवन्ध्या अव्यवधाना ।
पूर्वोक्तं स्मारयति---पूर्वमित्यादि ।
इत्यादि विस्तरतः पूर्वमुक्तं हीति सम्बन्धः ।
ऽतस्मादयमन्यो ध्वनेः प्रकारऽ इत्यन्तवृत्तिग्रन्थस्य सारार्थमाह---एतदुक्तमित्यादि ।
सर्वः अलक्ष्यक्रमस्य इतिच्छेदः ।
स्थायिगतेभ्यः स्थायिसम्बन्धिभ्यः ।
ऽनिर्वाणेऽत्यादि कुमारसम्भवतृतीयसर्गस्थम् ।
इत्यादावित्यादिपदेन ऽआवर्जिता किञ्चिदिवेऽत्यादेः इह तु सामर्थ्याक्षिप्तव्यभिचारिमुखेन रसप्रतीतिः तस्मादयमन्यो ध्वनेः प्रकारः ।
लोचनम् रसव्यक्तिस्तत्रास्त्वलक्ष्यक्रमः ।
यथा--- निर्वाणभूयिष्ठमथास्य वीर्यं सन्धुक्षयन्तीव वपुर्गुणेन ।
अनुप्रयाता वनदेवताभिरदृश्यत स्थावरराजकन्या ॥
इत्यादौ सम्पूर्णालम्बनोद्दीपनविभावतायोग्यस्वभाववर्णनम् ।
प्रतिग्रहीतुं प्रणयिप्रियत्वात्र्रिलोचनस्तामुपचक्रमे च ।
संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ।
. इत्यनेन विभावतोपयोग उक्तः ।
हरस्तु किञ्चित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥
अत्र हि भगवत्याः प्रथममेव तत्प्रवणत्वात्तस्य चेदानीं तदुन्मुखीभूतत्वात्प्रणयिप्रियतया च पक्षपातस्य सूचितस्य गाढीभावाद्रत्यात्मनः स्थायिभावस्यौत्सुक्यावेगचापल्यहर्षादेश्च व्यभिचारिणः साधारणीभूतो ऽनुभाववर्गः प्रकाशित इति विभावानुभावचर्वणैव व्यभिचारिचर्वणायां पर्यवस्यति ।
व्यभिचारिणां पारतन्त्र्यादेव स्रक्सूत्रकल्पस्थायिचर्वणाविश्रान्तेरलक्ष्यक्रमत्वम् ।
इह तु पझदलगणनमधोमुखत्वं चान्यथापि कुमारीणां सम्भाव्यत इति झटिति न लज्जायां विश्रमयति हृदयं, अपि तु प्राग्वृत्ततपश्चर्यादिवृत्तान्तानुस्मरणेन बालप्रिया परिग्रहः ।
सम्पूर्णेत्यादि ।
सम्पूर्णेति वर्णनविशेषणम् ।
आलम्बनमत्र देवी, उद्दीपनं सौन्दर्यवसन्तपुष्पाभरणादि ।
विभावतोपयोग इति ।
विभावताया उपयोग इत्यर्थः ।
उक्त इति ।
प्रतिग्रहीतुमित्यादिना सम्मोहनमित्यादिना च दर्शित इत्यर्थः ।
अत्र हीत्यस्यानुभाववर्गः प्रकाशित इत्यनेन सम्बन्धः ।
तत्प्रवणत्वादिति ।
हरासक्तत्वादित्यर्थः ।
तस्येति ।
हरस्येत्यर्थः ।
तदुन्मुखीति ।
भगवत्युन्मुखीत्यर्थः ।
प्रणयिप्रियतयेति तद्धेतुकमालाग्रहणोपक्रमेणेत्यर्थः ।
सूचितस्येत्यनेनास्य सम्बन्धः ।
सूचितो यः पक्षपातः गाढीभावद्रसात्मकस्थायिरूपः तस्य व्यभिचारिणश्च, यो ऽनुभाववर्ग इति सम्बन्धः ।
अनुभावः धैर्यपरिवृत्तिविलोचनव्यापरणादिरूपः ।
इतीति हेतौ ।
विभावानुभावचर्वणैवेत्येवकारेण कारणान्तरव्यवच्छेदः ।
पारतन्त्र्यादिति ।
स्थायिपरतन्त्रत्वादित्यर्थः ।
स्रगिति ।
स्रक्स्थानीया व्यभिचारिणः, सूत्रस्थानीयः स्थयी ।
इह त्विति ।
ऽएवं वादिनीऽत्यादावित्यर्थः ।
अन्यथापीति ।
लज्जातिरिक्तहेतुनापीत्यर्थः ।
हृदयमिति ।
प्रतिपत्तुरिति शेषः ।
तत्रेति ।
लज्जायामित्यर्थः ।
क्रमव्यङ्ग्यतैवेति ।
लज्जाया इति शेषः ।
प्रागिति ।
प्राग्वृत्तो यस्तपश्चर्यादिवृत्तान्तो देव्याः तदनुस्मरणेन तद्द्वारेणेत्यर्थः ।
स्मारणेनेति वा पाठः ।
तत्र लज्जायाम् ।
करोत उत्पादयति ।
प्रतिपत्तुरिति शेषः ।
यत्र च शब्दव्यापारसहायो ऽर्थोन्तरस्य व्यञ्जकत्वेनोपादीयते स नास्य ध्वनेर्विषयः ।
यथा--- सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥
अत्र लीलाकमलनिमीलनस्य व्यञ्जकत्वमुक्त्यैव निवेदितम् ।
लोचनम् तत्र प्रतिपत्तिं करोतीति क्रमव्यङ्ग्यतैव ।
रसस्त्वत्रापि दूरत एव व्यभिचारिस्वरूपे पर्यालोच्यमाने भातीति तदपेक्षयालक्ष्यक्रमतैव ।
लज्जापेक्षया तु तत्र लक्ष्यक्रमत्वम् ।
अमुमेव भावमेवशब्दः केवलशब्दश्च सूचयति ।
ऽउक्तिं विनेऽति यदुक्तं तद्य्वच्छेद्यं दर्शयितुमुपक्रमते---यत्र चेति ।
चशब्दस्तुशब्दस्यार्थे ।
अस्येति ।
अलक्ष्यक्रमस्तु तत्रापि स्यादेवेति भावः ।
उदाहरत--सङ्केतेति ।
व्यञ्जकत्वमिति ।
प्रदोषसमयं प्रतीति शेषः ।
उक्त्यैवेति आद्यपादत्रयेणेत्यर्थः ।
यद्यपि चात्र शब्दान्तरसन्निधाने ऽप प्रदोषार्थं प्रति न कस्यचिदभिधाशक्तिः पदस्येति व्यञ्जकत्वं न विघटितं, तथापि शब्देनैवोक्तमयमर्थो ऽर्थान्तरस्य व्यञ्जक इति ।
बालप्रिया क्रमव्यङ्ग्यतैवेति ।
लज्जायास्संलक्ष्यक्रमव्यङ्ग्यत्वमेवेत्यर्थः ।
रस इति ।
शृङ्गार इत्यर्थः ।
अत्रापि ऽएवंवादिनीऽत्यादावपि ।
दूरत एव विलम्बेनैव ।
पर्यालोच्यमान इत्यनेन सम्बन्धः ।
लज्जारूपव्यभिचारिप्रतीतिर्विलम्बेनैव, तत्प्रतीतौ सत्याञ्च झटिति रसप्रतीतिरित्यर्थः ।
तदपेक्षया रसापेक्षया ।
अलक्ष्यक्रमतैवेत्येवकारेण लक्ष्यक्रमत्वव्यवच्छेदः ।
तर्हि कथमत्र लक्ष्यक्रमत्वमुक्तमित्यत आह--लज्जेति एवशब्दः केवलशब्दश्चेति ।
ऽअलक्ष्यक्रमव्यङ्ग्यस्यैवेऽत्यत्रत्यैवशब्दः ऽस तस्य केवलस्येऽत्यत्रत्यकेवलशब्दश्चेत्यर्थः ।
वृत्तौ ऽअस्यध्वनेऽरित्यस्य संलक्ष्यक्रमध्वनेरित्यर्थः ।
तदुक्तेः फलमाह--अलक्ष्यक्रमस्त्विति ।
सङ्केतेति ।
विटं सङ्केतकाले मनो यस्य तं तज्जिज्ञासुम् ।
अत एव हसद्भ्यां नेत्राभ्यामर्पितं सूचितं आकूतं सङ्केतकालजिज्ञासारूपाभिप्रायो येन तम् ।
ज्ञात्वेति सम्बन्धः ।
लोचने--प्रदोषार्थं प्रति न कस्यचिदभिधाशक्तिः पदस्येति ।
प्रदोषरूपार्थः केनापि पदेनाभिधया नप्रतिपाद्यत इत्यर्थः ।
इतीति हेतौ ।
न विघटितमिति ।
अतश्चात्र ध्वनिविषयत्वमेव युक्तमिति भावः ।
शब्देनेति ।
अयमर्थो ऽर्थान्तरस्य व्यञ्जक इति शब्देनैवोक्तमित्यन्वयः ।
पझनिमीलनस्य प्रदोषसमयव्यञ्जकत्वमाद्यपादत्रयात्मकशब्देनैव प्रदर्शितमित्यर्थः ।
ततश्च तदपहस्तितमिति सम्बन्धः ।
गोप्यति ।
गोप्यमानतया उदितमुत्पन्नं यच्चारुत्वं तदात्मकमित्यर्थः ।
प्राणितं तथा च---
शब्दार्थ-शक्त्या क्षिप्तो ऽपि व्यङ्ग्यो ऽर्थः कविना पुनः ।
यत्राविष्क्रियते स्वोक्त्या सान्यैवालङ्कृतिर् ध्वनेः
शब्दार्थशक्त्या क्षिप्तो ऽपि व्यङ्ग्यो ऽर्थः कविना पुनः ।
यत्राविष्क्रियते स्वोक्त्या सान्यैवालङ्कृतिर्ध्वनेः ॥ 23 ॥
शब्दशक्त्यार्थशक्त्या शब्दार्थशक्त्या वाक्षिप्तो ऽपि व्यङ्ग्यो ऽर्थः कविना पुनर्यत्र स्वोक्त्या प्रकाशीक्रियते सो ऽस्मादनुस्वानोपमव्यङ्ग्याद्ध्वनेरन्य एवालङ्कारः ।
अलक्ष्यक्रमव्यङ्ग्यस्य वा ध्वनेः सति सम्भवे स तादृगन्यो ऽलङ्कारः ।
लोचनम् ततश्च ध्वनेर्यद्गोप्यमानतोदितचारुत्वात्मकं प्राणितं तदपहस्तितम् ।
यथा कश्चिदाह--ऽगम्भीरो ऽहं न मे कृत्यं को ऽपि वेद न सूचितम् ।
किञ्चिद्ब्रवीमिऽ इति ।
तेन गाम्भीर्यसूचनार्थः प्रत्युत आविष्कृत एव ।
अत एवाह---व्यञ्जनकत्वमिति उक्त्यैवेति च ॥ 2.2 ॥
प्रकान्तप्रकारद्वयोपसंहारं तृतीयप्रकारसूचनं चैकेनैव यत्नेन करोमीत्याशयेन साधारणमवतरणपदं प्रक्षिपति वृत्तिकृत्---तथा चेति ।
तेन चोक्तप्रकारद्वयेनायमपि तृतीयः प्रकारो मन्तव्य इत्यर्थः ।
शब्दश्चार्थश्च शब्दार्थौ चेत्येकशेषः ।
सान्यैवेति ।
न ध्वनिरसौ, अपि तु श्लेषादिरलङ्कार इत्यर्थः ।
अथवा ध्वनिशब्देनालक्ष्यक्रमः तस्यालङ्कार्यस्याङ्गिनः बालप्रिया जीवितम् ।
दृष्टान्तमाह--यथेत्यादि ।
गम्भीर इति ।
गम्भीरो जनस्स्वकृत्यं वाचा न वदति, किन्तु कदाचित्सूचयतीति लोकस्थितिमभिप्रेत्य कस्यचिदुक्तिरियम् ।
अहं गम्भीरो न भवामि ।
अतः मे कृत्यं सूचितं सत् को ऽपि न वेद न जानाति ।
अतः किञ्जिद्ब्रवीमीत्यन्वयः ।
तेनेति ।
उक्तेन वाक्येनेत्यर्थः ।
गाम्भीर्यसूचनार्थ इति ।
गाम्भीर्यसूचको वदनविकाराद्यभावरूपो ऽर्थ इत्यर्थः ।
आविष्कृतः प्रकाशितः ।
उक्ताभिप्रायेणैव वृत्तौ ऽव्यञ्जकत्वमुक्त्यैव निवेदितऽ मित्युक्तं, न तु व्यङ्ग्यार्थः शब्दान्तरेण प्रदर्शित इतीत्याह--अत एवेति ॥ 2.2 ॥
ऽतथाचेऽत्यस्य यथाश्रुतार्थे साङ्गत्याभावादवतारयन्विवृणोति---प्रक्रान्तेत्यादि ।
प्रक्रान्तप्रकारद्वयेति ।
शब्दशक्तिमूलार्थशक्तिमूलध्वनिद्वयेत्यर्थः ।
तृतीयप्रकारेति ।
शब्दार्थेभयशक्तिमूलध्वनिप्रकारेत्यर्थः ।
इत्येकशेष इति ।
शब्दश्चार्थश्च शब्दार्थौ शब्दार्थौच शब्दार्थौ च शब्दार्थाः तेषां शक्तेत्यर्थात्र्रिविधो ऽपि भेदस्सङ्गृहीत इति भावः ।
कारिकायां ऽक्षिप्तो ऽपीऽति पाठः ।
आक्षिप्त इतिच्छेदः ।
ऽसेऽति ऽयत्रेऽत्यस्य प्रतिनिर्देशः ।
तत्काव्यमित्यर्थः ।
यद्वा--तत्रेति शेषः ।
सेति व्यङ्ग्यार्थ इत्यर्थः ।
साम्येत्याद्यन्तपादो द्वेधा वृत्तौ विवृतः, तदनुरोधेनाद्यमर्थं विवृणोति लोचने---न ध्वनिरित्यादि ।
तत्र शब्दशक्त्या यथा--- वत्से मा गा विषादं श्वसनमुरुजवं सन्त्यजोर्ध्वप्रवृत्तं कम्पः को वा गुरुस्ते भवतु बलभिदा जृम्भितेनात्र याहि ।
प्रत्याख्यानं सुराणामिति भयशमनच्छझना कारयित्वा यस्मै लक्ष्मीमद्वाद्वः स दहतु दुरितं मन्थमूढां पयोधिः ॥
लोचनम् स व्यङ्ग्यो ऽर्थो ऽन्यो वाच्यमात्रालङ्कारापेक्षया द्वितीयो लोकोत्तरश्चालङ्कार इत्यर्थः ।
एवमेव वृत्तौ द्विधा व्याख्यास्यति ।
विषमत्तीति विषादः ।
ऊर्ध्वप्रवृत्तमग्निमित्यत्र चार्थो मन्तव्यः ।
कम्पो ऽपाम्पतिः को ब्रह्मा वा तव गुरुः ।
बलभिदा इन्द्रेण जृम्भितेन ऐश्वर्यमदमत्तेनेत्यर्थः ।
जृम्भितं च गात्रसंमर्दनात्मकं बलं भिनत्ति आयासकारित्वात् ।
प्रत्याख्यानमिति वचसैवात्र द्वितीयो ऽर्थो ऽभिधीयत इति निवेदितम् ।
कारयित्वेति ।
सा हि कमला पुण्डरीकाक्षमेव हृदये निधायोत्थितेति स्वयमेव देवान्तराणां प्रत्याख्यानं करोति ।
स्वभावसुकुमारतया तु मन्दरान्दोलितजलधितरङ्गभङ्गपर्याकुलीकृतां तेन प्रतिबोधयता तत्समर्थाचरणमन्यत्र दोषोद्घाटनेन अत्र याहीति चाभिनयविशेषेण सकलगुणादरदर्शकेन कृतम् ।
अत एव मन्थमूढामित्याह ।
बालप्रिया असौ व्यङ्ग्यार्थः ।
द्वितीयं व्याचष्टे---अथवेत्यादि ।
पूर्वस्मिन् पक्षे ध्वनेरिति पञ्जम्यन्तं संलक्ष्यक्रमध्वनिपरमस्मिंस्तु षष्ठ्यन्तमसंलक्ष्यक्रमध्वनिपरमित्याह---ध्वनिशब्देनेत्यादि ।
उक्त इति शेषः ।
तादृगन्य इति वृत्यनुरोधेनान्यपदं व्याचष्टे---वाच्येत्यादि ।
तादृगत्यस्य विवरणम्----लोकोत्तर इति ।
वत्से इति ।
हे वत्से त्वं विषादं दुःखं मा गाः ।
ऊर्ध्वप्रवृत्तमुरुजवं श्वसनं दीर्घश्वासं सन्त्यज संवृण्विति च पाठः, गुरुः महानित्यादि यथाश्रुतार्थस्य स्पष्टत्वादर्थान्तरं विवृणोति---विषमित्यादि ।
विषाद इति ।
शिव इत्यर्थः ।
ऊर्ध्वप्रवृत्तमित्यस्य विवरणम्---ऽअग्निम्ऽ इति ।
चार्थो मन्तव्य इति ।
श्वसनमूर्ध्वप्रवृत्तञ्चेति समुच्चयो ज्ञातव्य इत्यर्थः ।
गुरुः पिता ।
बलभिदा जृम्भितेनेत्यस्य वाच्यार्थञ्च प्रसङ्गादाह--जृम्भितञ्चेत्यादि ।
द्वितीयार्थसाय स्वोक्त्याविष्करणं दर्शयति---प्रत्याख्यानमिति ।
वचसैवेति ।
निवेदितमित्यनेनान्वयः ।
द्वितीयो ऽर्थ इति ।
शिवादिपरित्यागरूपार्थ इत्यर्थः ।
कारयत्वेति ।
णिजर्थो ऽत्र तत्समर्थाचरणरूपो न त्वप्रवृत्तप्रवर्त्तनरूपः, तस्य रसाननुगुणत्वादित्यह---सा हीत्यादिना ।
सुकुमारतया पर्याकुलीकृतामिति सम्बन्धः ।
तामिति शेषः ।
प्रतिबोधयता तेने तत्समर्थाचरणं कृतमित्यन्वयः ।
तेन समुद्रेण ।
अन्यत्रेति ।
शिवादिदेवेष्वित्यर्थः ।
दाषोद्घाटनेनेति ।
विषादादिपदैः विषभक्षणादिदोषणां प्रकाशनेनेत्यर्थः ।
अत्रेति ।
लोकोत्तरगुणविशिष्टे श्रीनारायणे इत्यर्थः ।
अर्थशक्त्या यथा---- अम्बा शेते ऽत्र वृद्धा परिणतवयसामग्रणरित्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र ।
अस्मिन् पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ॥
उभयशक्त्या यथा---ऽदृष्ट्या केशवगोपरागहृतयाऽ इत्यादौ ।
लोचनम् इत्युक्तप्रकारेण भयनिवारणव्याजेन सुराणां प्रत्याख्यानं मन्थमूढां लक्ष्मीं कारयित्वा पयोधिर्यस्मै तामदात्स वो युष्माकं दुरितं दहत्विति सम्बन्धः ।
अम्बेति ।
अत्रैकैकस्य पदस्य व्यञ्जक्तवं सहृदयैः सुकल्प्यमिति स्वकण्ठेन नोक्तम् ।
व्याजशब्दो ऽत्र स्वोक्तिः ।
एवमुपसंहारव्याजेन प्रकारद्वयं सोदाहरणं निरूप्यतृतीयं प्रकारमाह---उभयेति ।
शब्दशक्तिस्तावद्गोपरागादि शब्दश्लेषवशात् ।
बालप्रिया सकलेति ।
भगवत्सम्बन्धिषु सकलगुणेषु य आदरः स्वस्य बहुमतिस्तद्दर्शकेनेत्यर्थः ।
अत एवेति ।
समर्थाचरणस्य णिजर्थत्वादेवेत्यर्थः ।
मन्थमूढामिति ।
तज्ज्ञापकमिति भावः ।
उत्तरार्ध व्याचष्टे---इतीत्यादि ।
लक्ष्मीं कारयित्वेति ।
"हृक्रोरन्यतरस्या" मित्यनेन कर्मसंज्ञा ।
सुरूपं कञ्चित्पान्थमवलोक्य प्रवृद्धमदना काचित्स्वैरिणो तमाह---अम्बेति ।
शेते इत्यस्योत्तरत्राप्यनुषङ्ग ।
परिणतवयसां वृद्धानाम् ।
निश्शेषैरगारकर्मभिस्स्वयमनुष्ठितैः गृहकर्मभिः यः श्रमस्तेन शिथिला अस्वस्था तनुर्यस्याः सा ।
ऽअवसरेऽति ।
अवसरस्य तत्तस्स्थले मात्रादिशयनादिरूपस्य प्रस्तावस्य व्याहृतिरुक्तिः तस्य व्याजः सः पूर्वो यत्र तत्तथा ।
अत्रावयोर्यथाकामं रन्तुं शक्यं को ऽपि न जानीयात्, त्वद्दर्शनेन कामार्ता मां रमणेन प्रीणयेति वक्त्री बोधयतीति वक्तृवैशिष्ट्यादिज्ञानवतां सहृदयानां व्यज्यते ।
परन्तु व्यङ्ग्यार्थो यमवसरव्याहृतिव्याजपूर्वमिति व्याजशब्देन कविना आविष्कृतः ।
सुकल्प्यमिति ।
अम्बा तात इत्याभ्यां पित्रोर्नैसर्गिकवात्सल्यशालित्वेन तौ मम सर्वत्राप्यनुकूलावेवेति ।
तद्विसेषणाभ्यां निद्रापरवशत्वं परसाहाय्यं विनाशयनादुत्थानाशक्तत्वमित्यादि, निश्शेषेत्यादिना दास्या गाढनिद्रितत्वम्, उक्तैर्हेतुभिस्तेषामनाशङ्कनीयत्वं, दासीत्यनेन स्वज्ञावर्तित्वं, पापेत्यनेनाद्यावाधेसरससम्भोगानुभवराहित्यम्, एकेत्यनेन पुरुषान्तरानुभोगाभावः, अत एव सम्भोगौत्सुक्यं, कतिपयेत्यादिना पत्युरचिरात्प्रत्यागमनमनाशङ्क्यमिति प्राणनाथैत्यनेन पतिविषयकानुरागाभाव इति च द्योत्यत इत्यूह्यमिति भावः ।
इतीति हेतौ ।
स्वकण्ठेन नोक्तमिति ।
स्वयं व्याख्यानेन न प्रदर्शितमित्यर्थः ।
प्रौढोक्ति-मात्र-निष्पन्न-शरीरः सम्भवी स्वतः ।
अर्थो ऽपि द्विविधो ज्ञेयो वस्तुनो ऽन्यस्य दीपकः
प्रौढोक्तिभात्रनिष्पन्नशरीरः सम्भवी स्वतः ।
अर्थो ऽपि द्विविधो ज्ञेयो वस्तुनो ऽन्यस्य दीपकः ॥ 24 ॥
अर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्ये ध्वनौ यो व्यञ्जको ऽर्थ उक्तस्तस्यापि द्वौ प्रकारौ---कवेः कविनिबद्धस्य वा वक्तुः प्रौढोक्तिमात्रनिष्पन्नशरीर एकः, स्वतस्सम्भवी च द्वितीयः ।
लोचनम् अर्थशक्तिस्तु प्रकरणवशात् ।
यावदत्र राधारमणस्याखिलतरुणीजनच्छन्नानुरागगरिमास्पदत्वं न विदितं तावदर्थान्तरस्याप्रतीतेः, सलेशमिति चात्र स्वोक्तिः ॥ 2.3 ॥
एवमर्थशक्त्युद्भवस्य सामान्यलक्षणं कृतम्. श्लेषाद्यलङ्करेभ्यश्चास्य विभक्तो विषय उक्तः ।
अधुनास्य प्रभेदनिरूपणं करोति---प्रौढोक्तीत्यादिना ।
यो ऽर्थान्तरस्य दीपको व्यञ्जको ऽर्थ उक्तः सो ऽपि द्विविधः ।
न केवलमनुस्वानोपमो द्विविधः, यावत्तद्भेदो यो द्वितीयः सो ऽप व्यञ्जकार्थद्वैविध्यद्वारेण द्विविध इत्यपिशब्दस्यार्थः ।
प्रौढोक्तेरप्यवान्तरभेदमाह---कवेरिति ।
तेनैते त्रयो भेदा भवन्ति ।
प्रकर्षेम ऊडः सम्पादयितव्येन वस्तुना प्राप्तस्तत्कुशलः प्रौढः ।
उक्तिरपि समर्पयितव्यवस्त्वर्पणोचिता प्रौढेत्युच्यते ।
बालप्रिया अर्थशक्तिस्तु प्रकरणवशादित्युक्तमेव विवृणोति---यावदित्यादि ॥ 2.3 ॥
अर्थो ऽपीत्यिपिशब्दार्थमाह---न केवलमित्यादि ।
कवेरित्यादिकमवतारयति---प्रौढोक्तेरिति ।
एते त्रयो भेदा इति ।
कविप्रौढोक्तिमात्रसिद्धः, कविनिबद्धवक्तृप्रौर्ढेक्तिमात्रसिद्धः, स्वतस्सम्भवी चेति त्रयो भेदा इत्यर्थः ।
प्रौढपदव्युत्पत्तिमाह--प्रकर्षेणेत्यादि ।
ऊढ इत्यस्य व्याख्यानं--सम्पादेत्यादि ।
तदिति ।
तस्मादित्यर्थः ।
सम्पादयित्व्यवस्तुप्राप्तेः कुशल एव सम्भवादिति यावत् ।
प्रौढ इति ।
प्रौढ इत्युच्यत इत्यर्थः ।
प्रौढ इति स्थिते "प्रादूहोढे"त्यादिना वृद्धिः ।
समर्पयितव्येति ।
कविप्रौढोक्तिमात्रनिप्पन्नशरीरो यथा---
सज्जेहि सुरहिमासो ण दाव अप्पेइ जुऐजणलक्खमुहे ।
अहिणवसहआरमुहे णवपल्लवपत्तले अणङ्गस्स शरे ॥
कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो यथोदाहृतभेव----ऽशिखरिणिऽ इत्यादि ।
लोचनम् सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यमुखान् ।
अभिनवसहकारमुखान्नवपल्लवपत्र्रलाननङ्गस्य शरान् ॥
अत्र वसन्तश्चेतनो ऽनङ्गस्य सखा सज्जयति केवलं न तावदर्पयतीत्येवंविधया समर्पयितव्यवस्त्वर्पणकुशलयोक्त्या सहकारोद्भेदिनी वसन्तदशा यत उक्ता अतो ध्वन्यमानं मन्मथोन्माथस्यारम्भं क्रमेम गाढगाढीभविष्यन्तं व्यनक्ति ।
अन्यथा वसन्ते सपल्लवसहकारोद्गम इति वस्तुमात्रं न व्यञ्जकं स्यात् ।
एषा च कवेरेवोक्तिः प्रौढा ।
शिखरिणीति ।
अत्र लोहितं बिम्बफलं शुको दशतीति न व्यञ्जकता काचित् ।
यदा तु कविनिबद्धस्य साभिलाषस्य तरुणस्य वक्तुरित्थं प्रौढोक्तिस्तदा व्यञ्जकत्वम् ।
बालप्रिया सहृदयहृदयार्पणयोग्येत्यर्थः ।
वृत्तौ---ऽस्वतस्सम्भवी च द्वितीयऽ इति पाठः क्वाचित्कः ।
सज्जयतीति ।
सुरभिमासः वसन्तसम्बन्धी मासः युवतिजना एव लक्ष्याणि येषां तथाविधानि मुखान्यग्राणि येषां तान् ।
लक्षसहानिति पाठे तानि सहन्ते तेष्वेव प्रयोज्या इति यावत्तानित्यर्थः ।
नवेति ।
नवानि पल्लवाश्च पत्राणि च तानि लान्ति आददते इति तान् ।
अभीति ।
नूतनसहकारपुष्पादीनित्यर्थः ।
तानेव अनङ्गस्य शरान् ।
सज्जयति, न तावदर्ययतीत्यन्वयः ।
सज्जीकरणाद्यन्वयोपपत्यर्थमाह लोचने---वसन्तश्चेतव इति ।
वसन्तश्चेतनत्वेनाध्यस्य इति भावः ।
सहेति सहकारस्योद्भेदः प्रकाशः तद्वतीत्यर्थः ।
सहकारपदं पुष्पान्तरोपलक्षणम् ।
उक्तेति ।
अभिहितेत्यर्थः ।
उक्त्या उक्तेति ।
सम्बन्धः ।
अतो ध्वन्यमानमित्यादि ।
तथाविधाननङ्गस्य शरान् सज्जयति केवलमित्यनेन मन्मथोन्माथनस्यारम्भः, न तावदर्पयतीत्यनेन भविष्यदर्पणव्यञ्जनद्वारा मन्मथोन्माथनस्य भवी गाढगाढी भावस्च द्योत्यत इत्यर्थः ।
अन्यथेति ।
उक्तप्रकारातिरिक्तप्रकारेणेत्यर्थः ।
तत्प्रकारमाह--वसन्त इत्यादि ।
इतीति ।
एतद्वचन्प्रतिपाद्यमित्यर्थः ।
नेत्यादि ।
उक्तार्थव्यञ्जकं न भवेदित्यर्थः ।
अत्रेत्यादि ।
शुक्त इत्यस्य स्थाने अयं शुकपोतक इति च पाठः ।
इतीत्यादि ।
इतिवचनप्रतिपाद्यस्य कापि व्यञ्जकता नेत्यर्थः ।
इत्थमिति ।
शिखरिणीत्यादिरूपेत्यर्थः ।
तदा यथा वा----
साअरविइण्णजोव्बणहत्थालम्बं समुण्णमन्तेहिम् ।
अब्भुट्ठाणं विअ मम्महस्य दिण्णं तुह थणोहिम् ॥
स्वतः सम्भवी य औचत्येन बहिरपि सम्भाव्यमानसद्भावो न केवलं भणितिवशेनैवाभिनिष्पन्नशरिरः ।
यथोदाहृतम् ऽएवंवादिनिऽ इत्यादि ।
यथा वा---
सिहिपिञ्छकण्णपूरा जाआ वाहस्य गव्विरी भमै ।
भुत्ताफलरैअपसाहणाणं मच्झे सवत्तीणम् ॥
लोचनम् सादरवितीर्णयौवनहस्तालम्बं समुन्नमभ्द्याम् ।
अभ्युत्थानमिव मन्मथस्य दत्तं तव स्तनाभ्याम् ॥
स्तनौ तावदिह प्रधानभूतौ ततो ऽपि गौरवितः कामस्ताभ्यामभ्युत्थानेनोपर्च्यते ।
यौवनं चानयोः परिचारकभावेन स्थितमित्येवंविधेनोक्तिवैचित्र्येण त्वदीयस्तनावलोक नप्रवृद्धमन्मथावस्थः को न भवतीति भङ्ग्या स्वाभिप्रायध्वननं कृतम् ।
तव तारुण्येनोन्नतौ स्तनाविति हि वचनेन व्यञ्जकता ।
न केवलमिति ।
उक्तिवैचित्र्यं तावत्सर्वथोपयोगि भवतीति भावः ।
शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति ।
मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम् ॥
शिखिमात्रमारणमेव तदासक्तस्य कृत्यम् ।
अन्यासु त्वासक्तो हस्तिनो ऽप्यमारयदिति हि वचनेनोक्तमुत्तमसौभाग्यम् ।
बालप्रिया व्यञ्जकत्वमिति ।
व्यङ्ग्यार्थाः प्रथमोद्योते प्रदर्शिताः ।
सादरेति ।
कृत्वेति ।
पाठे तत्पूरितम् ।
सादरं वितीर्णो यौवनेन दत्ते यौवनहस्तालम्बो यत्र तद्यथा तथा ।
समुन्नमद्भां तव स्तनाभ्यां मन्मथस्याप्युत्थानं दत्तमिवेत्यन्वयः ।
अत्र यौवनादिषु परिजनादिचेतनवृत्तान्तारोपात्समासोक्तिरुत्प्रेक्षाङ्गमित्याशयेन विवृणोति---स्तनावित्यादि ।
इति हीत्यादि ।
इति वचने सति तत्प्रतिपाद्यस्य व्यञ्जकता न हीत्यर्थः ।
न केवलमिति इदं प्रतीकधारणम् ।
स्वतःसम्भवीत्यनेन लोके सम्भाव्यमानो ऽपीत्यर्थो विवक्षित इत्याशयेन वृत्तौ ऽयऽ इत्यादिना विवृतं, तत्र न केवलमित्यादिना गम्यमर्थं दर्शयति---उक्तिवैचित्र्यमित्यादि ।
उपयोगीति ।
काव्य इति शेषः ।
उक्तिवैचित्र्याभावे भाव्यत्वं न भवतीति भावः ।
शिखीति ।
गाथेयं तृतीयोद्योते वृत्तिकृता उदाहृत्य व्याख्यास्यते ।
जायेति ।
नवपरिणीतेत्यर्थः ।
प्रसाधनं अलङ्कारः ।
सपत्नीनामिति ।
पूर्वपरिणीतानामित्यर्थः ।
शिखीति ।
शिखिनां समीपस्थत्वादिति
अर्थशक्तेर् अलङ्कारो यत्राप्य् अन्यः प्रतीयते ।
अनुस्वानोपम-व्यङ्ग्यः स प्रकारो ऽपरो ध्वनेः
अर्थशक्तेरलङ्कारो यत्राप्यन्यः प्रतीयते ।
अनुस्वानोपमव्यङ्ग्यः स प्रकारो ऽपरो ध्वनेः ॥ 25 ॥
वाच्यालङ्कारव्यतिरिक्तो यत्रान्यो ऽलङ्कारो ऽर्थसामर्थ्यात्प्रतीयमानो ऽवभासते सो ऽर्थशक्त्युद्भवो नामानुस्वानरूपव्यङ्ग्यो ऽन्यो ध्वनिः ।
तस्य प्रविरलविषयत्वमाशङ्क्येदमुच्यते---
लोचनम् रचितानि विविधभङ्गीभिः प्रसाधनानीत तासां सम्भोगव्यग्रिमाभावात्तद्विरचनशिल्पकौशलमेव परमिति दौर्भाग्यातिशय इदानीमिति प्रकाशितम् ।
गर्वश्च बाल्याविवेकादिनापि भवतीति नात्र स्वोक्तिसद्भावः शङ्क्यः ।
एष चार्थो यथा यथा वर्ण्यते आस्तां वा वर्ण्ना, बहिरपि यदि प्रत्यक्षादिनावलोक्यते तथा तथा सौभाग्यातिशयं व्याधवध्वा द्योतयति ॥ 2.4 ॥
एवमर्थशक्त्युद्भवो द्विभेदो वस्तुमात्रस्य व्यञ्जनीयत्वे वस्तुध्वनिरूपतया निरूपितः ।
इदानीं तस्यैवालङ्काररूपे व्यञ्जनीये ऽलङ्कारध्वनित्वमपि भवतीत्याह---अर्थेत्यादि ।
न केवलं शब्दशक्तेरलङ्कारः प्रतीयते पूर्वोक्तनीत्या यावदर्थशक्तेरपि ।
यदि वा न केवलं यत्र वस्तुमात्रं प्रतीयते यावलङ्कारो ऽपीत्यपिशब्दार्थः ।
अन्यशब्दं व्याचष्टे---वाच्येति ॥ 2.5 ॥
आशङ्क्येति ।
शब्दशक्त्या श्लेषाद्यलङ्कारो भासत इति सम्भाव्यमेतत् ।
अर्थशक्त्या बालप्रिया भावः ।
तदासक्तस्येति ।
जायायामत्यासक्तस्य व्याधस्येत्यर्थः ।
कृत्यमिति ।
तद्विरहासहनादिति भावः ।
अन्यास्विति ।
सपत्नीष्वित्यर्थः ।
हस्तिनो ऽपीति ।
दूरस्थानपीति भावः ।
इति हि वचनेनेति ।
उक्तवाक्यार्थेनेत्यर्थः ।
उक्तं व्यञ्जितम् ।
उत्तमसौभाग्यमति ।
जायाया इति शेषः ।
मुक्ताफलेत्यादिव्यङ्ग्यं दर्शयति--रचितानीत्यादि ।
इदानीमिति ।
नवपरिणयनोत्तरकाल इत्यर्थः ।
ननु व्यङ्ग्यो जायायाः सौभाग्यातिशयो हि गर्वहेतुरित्यतस्सो ऽर्थो गर्विणीत्यनेनाविष्कृत इत्यत आह---गर्वश्चेति ।
बाल्यनिमित्तकः अविवेकः बाल्याविवेकः ।
आदिपदेन सम्भवतो हेत्वन्तरस्य परिग्रहः ।
स्वतःसस्भवी य औचित्येन बहिरपि सम्भाव्यमानेत्याद्युक्तं योजयति---एष चार्थ इत्यादि ॥24॥
ऽअर्थेऽत्यादिकारिकामवतारयति---एवमित्यादि ।
तस्यैव अर्थशक्त्युद्भवस्यैव ।
अलङ्कारध्वनित्वमित्यनेनास्य सम्बन्धः ।
व्यञ्जनीये अर्थेन व्यङ्ग्ये सति ।
यत्रापीत्यपिशब्दस्य अर्थशक्तेरपीति अलङ्कारो ऽपीति योजनां विकल्पेन दर्शयन्नाह---न केवलमित्यादि ॥ 2.5 ॥
शङ्काबीजं दर्शयति---शब्दशक्त्येत्यादि ।
पदेनेति ।
कारिकास्थपदेनेत्यर्थः ।
रूपकादिर् अलङ्कार-वर्गो यो वाच्यतां श्रितः ।
स सर्वो गम्यमानत्वं बिभ्रद् भूम्ना प्रदर्शितः
रूपकादिरलङ्कारवर्गो यो वाच्यतां श्रितः ।
स सर्वो गम्यमानत्वं बिभ्रद्भूम्ना प्रदर्शितः ॥ 26 ॥
अन्यत्र वाच्यत्वेन प्रसिद्धो यो रूपकादिरलङ्कारः सो ऽन्यत्र प्रतीयमानतया बाहुल्येन प्रदर्शितस्तत्रभवद्भिर्भट्टोद्भटादिभिः ।
तथा च ससन्देहादिषूपमारूपकातिशयोक्तीनां प्रकाशमानत्वं प्रदर्शितामित्यलङ्कारान्तरस्यालङ्कारान्तरे व्यङ्ग्यत्वं न यत्नप्रतिपाद्यम् ।
लोचनम् तु को ऽलङ्कारो भातीत्याशङ्काबीजम् ।
सर्व इति प्रदर्शित इति च पदेनासम्भावनात्र मिथ्यैवेत्याह ।
उपमानेन तत्त्वं च भेदं च वदतः पुनः ।
ससन्देहं वचः स्तुत्यै समन्देहं विदुर्यथा ॥
इति ।
तस्याः पाणिरयं नु मारुतचलत्पत्र्राङ्गुलिः पल्लवः इत्यादावृपमा रूपकं वा ध्वन्यते ।
अतिशयोक्तेश्च प्रायशः सर्वालङ्कारेषु ध्वन्यमानत्वम् ।
अलङ्कारान्तरस्येति ।
यत्रालङ्कारो ऽप्यलङ्कारान्तरं ध्वनति तत्र वस्तुमात्रेणालङ्कारो ध्वन्यत इति कियदिदमसम्भाव्यमिति तात्पर्योणालङ्कारान्तरशब्दो वृत्तिकृता प्रयुक्तो न तु प्रकृतोपयोगी; न ह्यलङ्कारेणालङ्कारो ध्वन्यत इति प्रकृतभदः, अर्थशक्त्युद्भवे ध्वनौ वस्त्विवालङ्कारो ऽपि व्यङ्ग्य इत्येतावतः प्रकृतत्वात् ।
तथा चोपसंहारग्रन्थे बालप्रिया तथा च ससन्देहादिष्वित्यादिवृत्तिग्रन्धं विवृणोति---उपमानेनेत्यादि ।
लक्षणभिदमुद्भटोक्तम् ।
तत्त्वमिति ।
अभेदमित्यर्थः ।
भेदं वैधर्म्यमुपमेयस्येति शेषः ।
वदतः वर्णयतः कवेः ।
इतीति ।
ऽअलङ्करान्तरच्छायाऽमित्यादिकारिकया भेदानुपनिबन्धनघटितमपि लक्षितं तस्योपलक्षणमिदम् ।
तस्या इति ।
श्लोकस्यास्य सम्पूर्णस्यानवगमाद्यथाभातं व्याख्यायते---अयं तस्याः पाणिः पल्लवः नु इतति योजना ।
नु इति संशये ।
उभयसाधारणम्--मारुतेत्यादि ।
मारुतचलत्पत्राणेयेवाङ्गुलयो यस्य सः ।
अङ्गुलीनां चलत्वमर्थात् सिध्यति ।
ऽउपमारूपकातिशयोक्तीनांऽ इत्यत्रेतरेतरयोगो न विवक्षित इत्याशयेनाह---उपमारूपकं वेति ।
अतिशयोक्तेश्चेति ।
एतत्तृतीयोद्योते वक्ष्यते ।
ऽइत्यलङ्कारान्तरस्येऽत्यादिग्रन्थो यथाश्रुते प्रकृतासङ्गत इत्यतस्तद्भावार्थमाह---यत्रेत्यादि ।
यत्र काव्ये ।
यद्वा---यतः तत्र तत्काव्ये ।
यद्वा---ततः इतीदमित्यन्वयः ।
कियदित्यादि ।
असम्भाव्यं नेत्यर्थः ।
अलङ्कारान्तरशब्दः सप्तम्यन्तालङ्कारान्तरशब्दः ।
ऽन तु प्रकृतोपयोगीऽत्यत्र हेतुमाह---न हीत्यादि ।
तर्हि किं इयत्पुनरुच्यत एव---
अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।
तत्-परत्वं न वाच्यस्य नासौ मार्गो ध्वनेर् मतः
अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।
तत्परत्वं न वाच्यस्य नासौ मार्गो ध्वनेर्मतः ॥ 27 ॥
अलङ्कारान्तरेषु त्वनुरणनरूपालङ्कारप्रतीतौ सत्यामपि यत्र वाच्यस्य व्यङ्ग्यप्रतिपादनौन्मुख्येन चारुत्वं न प्रकाशते नासौ ध्वनेर्मार्गः ।
तथा च दीपकादावलङ्कारे उपमाया गम्यमानत्वे ऽपि तत्परत्वेन चारुत्वस्याव्यवस्थानान्न ध्वनिव्यपदेशः ।
यथा-----
चन्दमऊएहि णिसा णलिनि कमलेहि कुसुमगुच्छेहि लआ ।
लोचनम् ऽते ऽलङ्काराः परां छायां यान्ति ध्वन्यङ्गतां गताःऽ इत्यत्र श्लेके वृत्तिकृत् ऽध्वन्यङ्गता चोभोभ्यां प्राकराभ्यांऽ इत्युपक्रम्य ऽतत्रेह प्रकारणाद्व्यङ्ग्यत्वेनेत्यवगन्तव्यम्ऽ इति वक्ष्यति ।
अन्तरशब्दो वोभयत्रापि विशेषपर्यायः; वैषयिकी सप्तमी, न तु प्राग्व्याख्यायामिव निमित्तसप्तमी ।
तदयमर्थः---वाच्यालङ्कारविशेषविषये व्यङ्ग्यालङ्कारविशेषो भातीत्युद्भटादिभिरुक्तमेवेत्यर्थशक्त्यालङ्कारो व्यज्यत इति तैरुपगतमेव ।
केवलं ते ऽलङ्कारलक्षणकारत्वद्वाच्यलङ्कारविशेषविषयत्वेनाहुरिति भावः ॥ 2.6 ॥
ननु पूर्वैरेव यदीदमुक्तं किमर्थं तव यत्न इत्याशङ्क्याह---इयदिति ।
अस्माभिरिति वाक्यशेषः ।
पुनःशब्दस्तुदुक्ताद्विशेषद्योतकः ।
चन्दमऊ इति ।
चन्द्रमयूखादीनां न निशादिना विना को ऽपि परभागलाभः ।
सज्जनानामपि काव्यकथां विना कीदृशी बालप्रिया प्रकृतमित्यात्राह---अर्थेत्यादि ।
अत्रोपष्टम्भकमाह---तथाचेत्यादि ।
प्रकरणाद्व्यङ्ग्यत्वेनेति ।
ध्वन्यङ्गतेत्यनेनास्य सम्बन्धः ।
अलङ्कारान्तरेण अलङ्कारान्तरस्य व्यह्क्यत्वमित्यस्य एकालह्कारनिमित्तकमन्यलङ्कारस्य व्यङ्ग्यत्वमित्यर्थमभिसन्धाय भावार्थे विवृतः ।
अथरथन्तराभिप्रायेण विवृणोति---अन्तरशब्दो वेति ।
विशेषपर्यायः विशेषवाची ।
वैषयिकी विषयरूपार्थवाचिका ।
सप्तमीति ।
ऽअलङ्कारान्तरऽ इत्यत्रत्यसप्तमीत्यर्थः ।
फलितमाह---तदित्यादि ।
वाच्यति ।
वाच्यालङ्कारविशेषरूपो यो विषयस्तस्मिन्नित्यर्थः ।
वाच्यालङ्कारविशेषशालिनि काव्य इति यावत् ।
भातीति ।
यता ससन्देहादावुपमादिः ॥ 2.6 ॥
चन्द्रेत्यादि ।
अत्र गुर्वीक्रियत इत्यस्य चन्द्रमयूखैर्निशेत्यादिभिः पञ्चभिः प्रत्येकं सम्बन्धः ।
अत्र निशया चन्द्रमयूखाः गुरवः क्रियन्ते इत्यादिविपरिणामेन पदानां सम्बन्धादर्थसामर्थ्याद्वा प्रतीयमानमर्थान्तरं दर्शयति---चन्द्रेत्यादि ।
कीदृशीति ।
हंसेहि सरसोहा कव्वकहा सज्जनेहि करै गरुरि ॥
(चन्द्रमयूखैर्निशा नलिनी कमलैः कुसुमगुच्छैर्लता ।
मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0