ध्वन्यालोक (टीका सहित) · भाग 221240
लक्षणं नाम लक्ष्यतावच्छेदकव्यापकः सद्व्याप्यश्च धर्मः ।
भवेत्सो ऽस्मिन्नलक्ष्यक्रमव्यङ्ग्ये ध्वनावलङ्कारो मतः ।
तस्यैव रसाङ्गत्वं मुख्यमित्यर्थः ।
यथा---- कपोले पत्त्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्यो ऽधररसः ।
मुहुः कण्ठे लग्नस्तरलयति बाष्पस्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥
रसाङ्गत्वे च तस्य लक्षणमपृथग्यत्ननिर्वर्त्यत्वमिति यो रसं बन्धुमध्यवसितस्य कवेरलङ्कारस्तां वासनामत्यूह्य यत्नान्तरमास्थितस्य निष्पद्यते स न रसाङ्गमिति ।
यमके च प्रबन्धेन बुद्धिपूर्वकं क्रियमाणे नियमेनैव यत्नान्तरपरिग्रह आपतति शब्दविशेषान्वेषणरूपः ।
अलङ्कारान्तरेष्वपि तत्तुल्यमिति चेत्---नैवम्; अलङ्कारान्तराणि हि निरूपप्यमाणदुर्घटनान्यपि रससमाहितचेतसः लोचनम् लक्षममिति ।
ब्यापकमित्यर्थः ।
ऽप्रबन्धेन क्रियमाणऽ इत सम्बन्धः ।
अत एव बुद्धिपूर्वकत्वमवश्यम्भावीति बुद्धिपूर्वकशब्द उपात्तः ।
रससमवधानादन्यो यत्नोयत्नान्तरम् ।
निरूप्यमाणानि सन्ति दुर्घटनानि ।
बुद्धिपूर्वं चिकीर्षितान्यपि कर्तुमशक्यानीत्यर्थः ।
तथा निरूप्यमाणे दुर्घटनानि कथमेतानि रचितानीत्येवं विस्मयावहानीत्यर्थः ।
बालप्रिया प्रकृते तत्पदेन व्यापकमात्रं विवक्षितमित्याह---व्यापकमित्यर्थ इति ।
ज्ञापकमित्यर्थ इति पाठेन भाव्यमिति केचित् ।
अपृथग्यत्ननिर्वर्त्यत्वमलङ्कारस्य रसाङ्गत्वव्यापकमिति ऽरसाङ्गत्वऽ इत्यादि वृत्यर्थ इति भावः ।
उक्तमर्थं साधयितुं व्यतिरेकं दर्शयति वृत्तौऽयो रसम्ऽ इत्यादि ।
यो ऽलङ्कारो निष्पद्यत इत्यन्वयः ।
ऽतां वासनाऽमित् ।
रसबन्धाध्यवसायवासनामित्यर्थः ।
ऽअत्यूह्यऽ अतिलङ्ध्य परित्यज्येति यावत् ।
ऽआस्थितस्यऽ आश्रितवतः ।
कवेरित्यनेनास्य सम्बन्धः ।
ऽस न रसाङ्गम्ऽ इति ।
तस्मिन्नलङ्कारे रसाङ्गत्वं नास्तीत्यर्थः ।
यमकादिनिबन्धे यत्नान्तरमावश्यकमित्याह---ऽयमकऽ इत्यादि ।
ऽप्रबन्धेनऽ अविच्छेदेन ।
अस्य ऽबुद्धिपूर्वकम्ऽ इत्यनेनान्वयभ्रमः स्यादतो ऽन्वयं दर्शयति लोचने---क्रियमाण इति ।
यत्नान्तरपरिग्रह इत्यत्र यत्नान्तरपदं विवृणोति---रसेत्यादि ।
रससमवधानात् रसनिष्पादकात् ।
निरूप्यमाणदुर्घटनानीत्येतत्प्रकृतानुगुण्येन द्वेधा व्याचष्टे---निरूप्यमाणानीत्यादि ।
कर्तुमशक्यानीत्यत्र प्रतिभानवतः कवेरहम्पूर्विकया परापतन्ति ।
यथा कादम्बर्यां कादम्बरीदर्शनावसरे ।
यथा च मायारामशिरोदर्शनेन विह्वलायां सीतादेव्यां सेतौ ।
युक्तं चैतत्, यतो रसा वाच्यविशेषैरेवाक्षेप्तव्याः ।
तत्प्रतिपादकैश्च शब्दैस्तत्प्रकाशिनो वाच्यविशेषा एव रूपकादयो ऽलङ्काराः ।
तस्मान्न तेषां बहिरङ्गत्वं रसाभिवयक्तौ ।
यमकदुष्करमार्गेषु तु तत्स्थितमेव ।
यत्तु रसवन्ति कानिचिद्यमकादीनि दृश्यन्ते, तत्र रसादीनामङ्गता यमकादीनां त्वङ्गितैव ।
रसाभासे चाङ्गत्वमप्यविरुद्धम् ।
अङ्गितया तु व्यङ्ग्ये रसे नाङ्गत्वं पृथक्प्रयत्ननिर्वर्त्यत्वाद्यमकादेः ।
अस्यैवार्थस्य सङ्ग्रहश्लोकाः---- रसवन्ति हि वस्तूनि सालङ्काराणि कानिचित् ।
एकेनैव प्रयत्नेन निर्वर्त्यन्ते माहाकवेः ॥
यमकादिनिबन्धे तु पृथग्यत्नो ऽस्य जायते ।
शक्तस्यापि रसे ऽङ्गत्वं तस्मादेषां न विद्यते ॥
रसाभासाङ्गभावस्तु यमकादेर्न वार्यते ।
ध्वन्यात्मभूते शृङ्गारे त्वङ्गता नोपपद्यते ॥
लोचनम् अहम्पूर्वः अग्म्य इत्यर्थः ।
अहमादाहमादौ प्रवर्त इत्यर्थः ।
अहम्पूर्व इत्यस्य भावो ऽहम्पूर्विका ।
अहमिति निपातो विभक्तिप्रतिरूपको ऽस्मदर्थवृत्तिः ।
एतदिति ।
अहंपूर्विकया परापतनमित्यर्थः ।
कानिचदिति ।
कालिदासादिकृतानीत्यर्थः ।
शक्तस्यापि पृथग्यत्नो जायत इति सम्बन्धः ।
एषामिति ।
यमकादीनम् ।
ऽध्वन्यात्मभूते शृङ्गारे इति यदुक्तं तत् प्राधान्यनार्धश्लोकेन सङ्गृहीते ध्वन्यात्मभूत इति ॥ 16 ॥
बालप्रिया कवेरिति, विस्मयावहानीत्यत्र सहृदयस्येति च शेषः ।
अहम्पूर्विकयेत्येतद्व्याचष्टे---अहमित्यादि ।
पूर्व इत्यस्य व्याख्या अग्ष इति ।
पर्यवसितमाह--अहमादावित्यादि ।
वृत्तौ ऽतत्प्रतिपादकैश्च शब्दैऽरिति ।
आक्षेप्तव्या इत्यनेनास्य सम्बन्धः ।
ऽतत्प्रकाशिनऽ इति ।
अत्र तत्पदेन शब्दस्य परामर्शः ।
ऽतेषाम्ऽ इति ।
रूपकादीनामित्यर्थः ।
ऽतदिऽति ।
बहिरङ्गत्वमित्यर्थः ।
ऽरसाभासे चाङ्गत्वऽमिति ।
यमकादीनामित्यनुषङ्गः ।
उक्तानर्थान् वृत्तिकारः श्लोकैः सङ्गृह्णाति---ऽरसवन्तीऽत्यादि ।
ऽमहाकवेरेकेन प्रयत्नेनैव तथाविधानि वस्तूनि निर्वर्त्यन्तेऽ इत्यन्वयः ।
लोचने ऽन्वयं दर्शयति---शक्तस्यापीति ॥ 16 ॥
इदानीं ध्वन्यात्मभूतस्य शृङ्गारस्य व्यञ्जको ऽलङ्कारवर्ग आख्यायते---
ध्वन्य्-आत्म-भूते शृङ्गारे समीक्ष्य विनिवेशितः ।
रूपकादिर् अलङ्कार-वर्ग एति यथार्थताम्
ध्वन्यात्मभूते शृङ्गारे समीक्ष्य विनिवेशितः ।
रूपकादिरलङ्कारवर्ग एति यथार्थताम् ॥ 17 ॥
अलङ्कारो हे बाह्यालङ्कारसाम्यादङ्गिनश्चारुत्वहेतुरुच्यते ।
वाच्यालङ्कारवर्गश्च रूपकादिर्यावानुक्तो वक्ष्यते च कैश्चित्, अलङ्कारामामनन्तत्वात् ।
स सर्वो ऽपि यदि समीक्ष्य विनिवेश्यते तदलक्ष्यक्रमव्यङ्ग्यस्य ध्वनेरङ्गिनः सर्वस्यैव चारुत्वहेतुर्निष्पद्यते ।
एषा चास्य विनिवेशने समीक्षा---
विवक्षा तत्परत्वेन नाङ्गित्वेन कदाचन ।
काले च ग्रहण-त्यागौ नातिनिर्वहणैषिता
निर्व्यूढाव् अपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणम् ।
विवक्षा तत्परत्वेन नाङ्गित्वेन कदाचन ।
काले च ग्रहणत्यागौ नातिनिर्वहणैषिता ॥ 18 ॥
निर्व्यूढावपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणम् ।
लोचनम् इतानीमिति ।
हेयवर्ग उक्तः, उपादेयवर्गस्तु वक्तव्य इति भावः ।
व्यञ्जक इति ।
यश्च यथा चेत्यध्याहाहः ।
यथार्थतामिति ।
चारुत्वहेतुतामित्यर्थः ।
उक्त इति ।
भामहादिभिरलङ्कारलक्षणकारैः ।
वक्ष्यते चेत्यत्र हेतुमाह---अलङ्काराणामनन्तत्वादिति ।
प्रतभानन्त्यात् अन्यैरपि भाविभिः कैश्चिदित्यर्थः ॥ 17 ॥
समीक्ष्येति ।
समीक्ष्येत्यनेन शब्देन कारिकायामुक्तेति भावः ।
श्लोकपादेषु चतुर्षु श्लोकार्धे चाङ्गत्वसाधनमिदम्; रूपकादिरिति प्रत्येकं सम्बन्धः ।
यमलङ्कारं तदङ्गतया विवक्षति नाङ्गित्वेन, यमवसरे गृह्णाति, यमवसरे त्यजति, यं नात्यन्तं निर्वेढुमिच्छति, यं यत्नादङ्गत्वेन प्रत्यवेक्षते, स एवमुपनिबध्यमानो रसाभिव्यक्तिहेतुर्भवतीति विततं महावाक्यम् ।
तन्महावाक्यमध्ये चोदाहरमावकाशमुदाहलरणस्वरूपं तद्योजनं तत्समर्थनं च निरूपयितुं ग्रन्थान्तरमति वृतिग्रन्थस्य सम्बन्धः ।
बालप्रिया यश्चेति ।
यो ऽलङ्कारो यथा व्यञ्जकः, तथा आख्यायत इत्यर्थं इति भावः ।
ऽयथार्थताम्ऽ इत्यस्यान्वर्थतामित्यर्थं दर्शयति---चारुत्वेति ।
अलङ्काराणामनन्तत्वात्कैश्चिदित्यस्य विवरणम्---प्रतिभानन्त्यादन्यैरित्यादि ॥ 17 ॥
ऽएषा समीक्षेऽति वृत्तावुक्तं, समीक्षायाः को ऽत्र प्रस्ताव इत्यत आह लोचने---समीक्ष्येत्यादि ।
समीक्ष्येत्यनेनेति ।
ऽसमीक्ष्य विनिवेशितऽ इत्यत्र समीक्ष्यशब्देनेत्यर्थः ।
कारिकाद्वयसारार्थकथनपूर्वकं पूर्वापरग्रन्थसम्बन्धं दर्शयति---यमलङ्कारमित्यादि ।
रूपकादिर् अलङ्कार-वर्गस्याङ्गत्व-साधनम्
रूपकादिरलङ्कारवर्गस्याङ्गत्वसाधनम् ॥ 19 ॥
रसबन्धेष्वत्यादृतमनाः कविर्यमलङ्कारं तदङ्गतया विवक्षति ।
यथा---- चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हस्तास्त्वं खलु कृती ॥
अत्र हि भ्रमरस्वभावोक्तिरलङ्कारो रसानुगुणः ।
लोचनम् चलापाङ्गामिति ।
हे मधुकर, वयमेवंविधाभिलाषचाटुप्रवणा अपि तत्त्वान्वेषमाद्वस्तुवृत्ते ऽन्विष्यमाणे हता आयासमात्रपात्रीभूता जाताः ।
त्वं खल्विति निपातेनायत्नसिद्धं ततैव चरितार्थत्वमिति शकुन्तलां प्रत्यभिलाषिणो दुष्यन्तस्येयमुक्तिः ।
तथाहिकथमेतदीयकटाक्षगोचरा भूयास्म, कथमेषास्मदभिप्रायव्यञ्जकं रहोवचनमाकर्ण्यात्, कथं नु हठादनिच्छन्तत्या अपि परिचुम्बनं विधेयास्मेति यदस्माकं मनोराज्यपदवीमधिशेते तत्तवायत्नसिद्धम् ।
भ्रमरो हि नीलोत्पलधिया तदाशङ्काकरीं दृष्टिं पुनःपुनः स्पृशति ।
श्रवणावकाशपर्यन्तत्वाच्च नेत्रयोरुत्पलशङ्कानपगमात्तत्रैव दन्ध्वन्यमान आस्ते ।
सहजसौकुमार्यत्रासकातरायाश्च रतिनिधानभूतं विकसितारविन्दकुवलयामोदमधुरमधरं पिबतीति भ्रमरस्वभावोक्तिरलङ्कारो ऽङ्गतामेव प्रकृतरसस्योपगतः ।
अन्ये तु भ्रमरस्वभावे बालप्रिया चलापाङ्गामिति ।
श्लोको ऽयमस्माभिः शाकुन्तलव्याख्यायां सविस्तरं व्याख्यातः ।
वयमित्यनेन गम्यमर्थमाह--एवमित्यादि ।
एवंविधाः वक्ष्यमाणाः अभिलाषा येषां ते ।
चाटौ चाटुवचने प्रवणास्तत्पराश्च ।
अयत्नेत्यादि व्यङ्ग्यार्थकथनम् ।
ऽकथम्ऽ इत्यादि ऽसिद्धम्ऽ इत्यन्तं दुष्यन्तवचनरूपेम निर्दिष्टम् ।
भ्रमरो हीत्यादिव्याख्यातुर्वचनम् ।
तत्रैव श्रवणावकाशे एव ।
दन्ध्वन्यमान इति ।
अतिशयेन ध्वनिं कुर्वन्नित्यर्थः ।
ऽभ्रमरस्वभावोक्तिरिऽत्यादिग्रन्थमर्थतो व्यचष्टे---इति भ्रमरस्वभावोक्तिरित्यादि ।
समासोक्तिव्यतिरेकयोः सत्वे ऽप्यत्र स्वभावोक्तेः पुरस्फूर्तिकत्वात्तन्मात्रमुक्तम् ।
प्रकृतरसस्येति ।
विप्रलम्भस्येत्यरथः ।
अङ्गतामेवोपगत इति ।
ऽनाङ्गित्वेनेऽति न प्राधान्येन ।
कदाचिद्रसादितात्पर्येण विवक्षितो ऽपि ह्मलङ्कारः कश्चिदङ्गित्वेन विवक्षितो दृश्यते ।
यथा---- चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य ।
आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् ॥
अत्र हि पर्यायोक्तस्याङ्गित्वेन विवक्षा रसादितात्पर्ये सत्यपीति ।
लोचनम् उक्तिर्यस्येति भ्रमरस्वभावोक्तिरत्र रूपकव्यातिरेक इत्याहुः ।
चक्राभिघात एव प्रसभाज्ञा अलङ्घनीयो नियोगस्तया यो राहुदयितानां रतोत्सवं चुम्बनमात्रशेषं चकार ।
यत आलिङ्गनमुद्दामं प्रधानं येषु विलासेषु तैर्वन्ध्यः शून्यो ऽसौ रतोत्सवः ।
अत्राह कश्चित्--ऽपर्यायोक्तमेवात्र कवेः प्राधान्येन विवक्षितं, न तु रसादि ।
तत्कथमुच्यते रसादितात्पर्ये सत्यपीऽति ।
मैवम्; वासुदेवप्रतापो ह्यत्र विवक्षितः ।
स चात्र चारुत्वहेतुतया न चकास्ति, अपि तु पर्यायोक्तमेवल ।
यद्यपि चात्र काव्ये न काचिद्दोषाशङ्का, तथापि दृष्टान्तवदेतत्---यत्प्रकृतस्य पोषणीयस्य स्वरूपतिरस्कारको ऽङ्गभूतो ऽप्यलङ्कारः सम्पद्यते ।
ततश्च क्वचिदनौचित्यमागच्छतीत्ययं ग्रन्थकृत आशयः ।
बालप्रिया तथाविधभ्रमरचेष्टायाः कामोद्दीपकत्वादिति भावः ।
रूपकेति ।
रूपकसहितो व्यतिरेको रूपकव्यतिरेकः, भ्रमरे नायकत्वारोपाद्रूपकं, चतुर्थपादे व्यतिरेकश्च ।
वस्तुतो ऽत्र न रूपकं, किन्तु समासोक्तिरित्याशयेनास्वरससूचनाय अन्य इति ।
वृत्तौ ऽअङ्गित्वेनेऽत्यस्य विवरणम्---ऽप्राधान्येनेऽति ।
ऽकदाचिदिऽति ।
क्वचित्काव्ये इत्यर्थः ।
लोचने--चक्रेत्यादि ।
चक्रेणाभिघातः अभितो हननं स एव ।
न तु रसादीति ।
ऽप्राधान्येन विवक्षितम्ऽ इत्यस्यानुषङ्गः ।
रसादितात्पर्ये सत्यपीति वृत्तिग्रन्थानुवादः ।
प्रतिवक्ति--मैवमित्यादि ।
विवक्षित इति ।
प्राधान्येनेति शेषः ।
तथाचात्र वीररसे तात्पर्यमस्तीति भावः ।
विशेषमाह---स चेति ।
अपि तु पर्यायोक्तमेवेति ।
चारुत्वहेतुतया चकास्तीत्यस्यानुषङ्गः ।
शङ्कते---यद्यपीत्यादि ।
न कदादिद्दोषाशङ्केति ।
चमत्कारविघातकं किमपि न शङ्कनीयमित्यर्थः ।
तथा च पर्यायोक्तस्य प्राधान्ये ऽपि न क्षतिरिति भावः ।
समाधत्ते---तथापीत्यादि ।
दृष्टान्तवदिति ।
दृष्टान्तेन तुल्यमित्यर्थः ।
एतदिति ।
चक्रेत्याद्युदाहरणमित्यर्थः ।
भावं विवृणोति---यदित्यादि ।
ऽअङ्गभुतो ऽप्यलङ्कारः पोषमीयस्य प्रकृतस्य स्वरूपतिरस्कारकस्सम्पद्यते यदिऽति सम्बन्धः ।
क्वचिदिति शेषः ।
तत्र दृष्टान्तः प्रकृतश्लोक इति भावः ।
ततः किमत आह--ततश्चेति ।
क्वचिदनौचित्यमिति ।
अस्योदाहरणं "स्रस्तः स्रग्दामशोभा"मित्यादिकं काव्यानुशासनादावुक्तम् ।
उपष्टम्भकमाह---तथा चेति ।
अङ्गत्वेन विवश्रितमप यमवसरे गृह्णाति नानवसरे ।
अवसरे गृहीतिर्यथा----- उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा- दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः ।
अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥
लोचनम् तथा च ग्रन्थकार एवमग्रे दर्शयिष्यति ।
महात्मनां दूषणोद्धोषणमात्मन एव दूषणमिति नेदं दूषणोदाहरणं दत्तम् ।
उद्दामा उद्गताः कलिका यस्याः ।
उत्कलिकाश्च रुहरुहिकाः ।
क्षणात्तस्मिन्नेवावसरे प्रारब्धा जृम्भा विकासो यया ।
जृम्भा च मन्मथकृतो ऽङ्गमर्दः ।
श्वसनोद्गमैर्वसन्तमारुतोल्लासैरात्मनो आयासं हृदयस्थितं सन्तापमातन्वतीं प्रकटीकुर्वाणाम् ।
सह मदनाख्येन वृक्षविशेषेम मदनेन कामेन च ।
अत्रोपमाश्लेषर् इर्ष्याविप्रलम्भस्य भाविनो मार्गपरिशोधक्त्वेन स्थितस्तच्चर्वणाभिमुख्यं कुर्वन्नवसरे रसस्य प्रमुखीभावदशायां पुरःसरायमाणो गृहीत इति भावः ।
अभिनयो ऽप्यत्र प्राकरणिके प्रतिपदम् ।
अप्राकरणिके बालप्रिया कथं दर्शयिष्यतीत्यत्राह---महात्मनामित्यादि दत्तमित्यन्तम् ।
उद्दामेति ।
रत्नावलीनाटिकास्थमिदम् ।
स्वपरिगृहीतां नबमालिकालतां दोहदविशेषेण पुष्पितामवगतवतो वत्सराजस्य नर्मसचिवं प्रति वचनम् ।
ऽअहमद्य इमामुद्यानलतामन्यां नारीमिव पश्यन् देव्या मुखं कोपविपाटलद्युति करिष्यामीऽत्यन्वयः ।
मयि अन्यनारीमिव पुष्पितां मदीयलतां पश्यति, तत्पश्यन्त्या स्वपरिगृहीतमाधवीलतायाः पुष्पोद्गमाभावेन जनितकोपाया वासवदत्ताया मुखमाताम्रद्युपि यथा भविष्यति तथा करिष्यामीत्यर्थः ।
ध्रुवमिति निश्चये ।
उत्तरार्धस्य स्पष्टार्थकत्वं मन्यमानः पूर्वार्धं व्याचष्टे---उद्दामा इत्यादि ।
उद्दामाः उद्भटाः, यद्वा बह्व्यः ।
नारीपक्षे व्याचष्टे--उत्कलिकाश्चेति ।
रुहरुहिकाः उत्कण्ठाः ।
आयासनमित्यस्यैव विवरणम्---आन्दोलनेति ।
वृत्तौ ऽइत्यत्रोपमाश्लेषस्येऽत्युक्तं विवृणोति---अत्रेत्यादि ।
उपमासहितः श्लेष उपमाश्लेषर्ः ।
इर्ष्येपि ।
वासवदत्तागतेर्व्येत्यर्थः ।
भाविन इति ।
द्वितायाङ्कावसाने वर्मयिष्यमामस्येत्यर्थः ।
मार्गेत्यादि ।
व्यञ्जकत्वेनेत्यर्थः ।
तच्चर्वणेति ।
सहृदयानामिति शेषः ।
ऽअवसरऽ इत्यस्य व्याख्यानम्---रसस्येत्यादि ।
रसस्य रसचर्वणायाः ।
पुरःसरायमाणः पुरस्सरतुल्यः ।
नटशिक्षार्थमाह---अभिनय इत्यादि ।
अप्राकरणिक इति ।
नारीरूपाप्रकृतार्थ इत्यर्थः ।
इत्यत्र उपमा श्लेषस्य ।
गृहीतमपि च यमवसरे त्यजति तद्रसानुगुणतयालङ्कारान्तरापेक्षया ।
यथा---- रक्तस्त्वं नवपल्लवैरहमपि श्लाध्यैः प्रियाया गुणै- स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्तास्तथा मामपि ।
कान्तापादतलाहीतस्तव मुदे तद्वन्ममाप्यावयोः सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥
लोचनम् तु वाक्यार्थाभिनयेनोपाङ्गादिना ।
न तु सर्वथा नाभिनय इत्यलभवान्तरेण ।
ध्रुवशब्दश्च भावीर्ष्यावकाशप्रदानजीवितम् ।
रक्तो लोहितः ।
अहमपि रक्तः प्रबुद्धानुरागः ।
तत्र च प्रबोधको विभावस्तदीयषल्लवराग इति मन्तव्यम् ।
एवं प्रतिपादमाद्यो ऽर्थो विभावत्वेन व्याख्येयः ।
अत एव हेतुश्लेषो ऽयम् ।
सहोक्त्त्युपमाहेत्वलङ्काराणां हि भूयसा श्लेषानुग्राहकत्वम् ।
अनेनैवाभिप्रायेण बालप्रिया उपाङ्गादिनेति ।
अभिनय इत्यनुषज्यते ।
प्रबुद्धानुराग इति ।
प्रियाया गुणैरनुरक्तो ऽहमुद्बुद्धानुराग इति तन्त्रादिना अर्थं इति भावः ।
कः प्रबोधक इत्यत्र व्याख्याताह--तत्र चेत्यादि ।
विभाव इति ।
उद्दीपनविभाव इत्यर्थः ।
तदीयेति ।
अशोकसम्बन्धीत्यर्थः ।
प्रतिपादमिति ।
द्वितीये तृतीये च पाद इत्यर्थः ।
विभावत्वेनेति ।
उद्दीपनविभावत्वेनेत्यर्थः ।
व्याख्येय इति ।
यतस्त्वां स्मधनुर्मुक्ताः कामचापान्निर्गताः शिलीमुखाः भ्रमरा आयान्ति, ततो मामपि तथा स्मरधनुर्मुक्ताः कामचापान्निर्गताः शिलीमुखाः शरा आयान्ति ।
ऽकान्तेऽत्यादि ।
यद्यप्यत्र कान्तापादतलेनाहतिः तव मुदे पुष्पविकासाय भवति, तद्वत्तथा कान्तापादतलाहतिः रतबन्धविशेषः मम मुदे सन्तोषाय भवतीति यताश्रुतार्थः, ततापि स्वकान्तापादतलाहननेनाशोकस्य पुष्पविकासे सति नायकस्य सन्तीषो भवतीति यतस्तव मुदे ततो ममापि मुदे इति हेतुत्वेन व्याख्येय इति भावः ।
अत्र हि प्रबन्धप्रवृत्तो ऽपि श्लोषो व्यतिरेकविवक्षया त्यज्यमानो रसविशेषं पुष्णाति ।
नात्रालङ्कारद्वयसन्निपातः, किं तर्हि? अलङ्कारान्तरमेव श्लेषव्यतिरेकलक्षमं नरसिंहवदिति चेत्--न; तस्य प्रकारान्तरेम व्यवस्थापनात् ।
यत्र हि श्लेषविषय एव शब्दे प्राकरान्तरेण व्यतिरेकप्रतीतिर्जायते स तस्य विषयः ।
यथा---ऽस हरिर्नाम्ना देवः सहरिर्वरतुरगनिवहेनऽ इत्यादौ ।
लोचनम् भामहो न्यरूपयत्---ऽतत्सहोक्त्युपमाहेतुनिर्देशात्र्रिविधम्ऽ इत्युक्त्या न त्वन्यालङ्कारानुग्रहनिराचिकीर्षया ।
रसविशेषमिति विप्रलम्भम् ।
सशोकशब्देन व्यतिरेकमानयता शोकसहभूतानां निर्वेदचिन्तादीनां व्यभिचारिणां विप्रलम्भपरिपोषकाणामवकाशो दत्तः ।
किं तर्हीति ।
सङ्कारालङ्कार एक एवायम्; तत्र किं त्यक्तं किं वा गृहीतमिति परस्याभिप्रायः ।
तस्येति सङ्करस्य ।
एकत्र हि विषये ऽलङ्कारद्वयप्रतिभोल्लासः सङ्करः ।
सहरिशब्द एको विषयः ।
सः हरिः, यदि वा सह हरिभिः सहरिरिति ।
बालप्रिया हेतुश्लेष इति ।
हेत्वलङ्कारसहितः श्लेष इत्यर्थः ।
उक्तमुपपादयति---सहोक्तीत्यादि ।
अनेनैवेति ।
भूयसा श्लेषानुग्राहकत्वाभिप्रायेणैवेत्यर्थः ।
इत्युक्त्या न्यरूपयदित्यन्वयः ।
तत्सहोक्तीति ।
तत् श्लिष्टं वचः ।
ऽअनेनैऽवेत्येवकारव्यवच्छेद्यमाह--न त्वित्यादि ।
प्रकृतरसानुगुणालङ्कारान्तरविवक्षया गृहीतपूर्वस्यालङ्कारस्य त्यागः प्रकृतरसाङ्गं भवतीति प्रकृते व्यतिरेकस्य विप्रलम्भपोषकत्वं विवृणोति---सशोकशब्देनेत्यादि ।
व्यतिरेकमानयतेति ।
वक्तुरशोकाद्व्यतिरेकं दर्शयतेत्यर्थः ।
अवकाशो दत्त इति ।
स्थितिर्दर्शितेत्यर्थः ।
वृत्तौ ऽश्लेषऽ इति ।
श्लेषोपमेत्यर्थः ।
ऽनात्रेऽत्यादिः ऽचेदिऽत्यन्तः शङ्काग्रन्थः ।
तत्र किं तहीन्त्यादेः भावमाह---सङ्करेत्यादि ।
सङ्करेति ।
एकवाक्यानुप्रवेशसङ्करेत्यर्थः ।
वृत्तौ समाधत्ते---ऽनेऽत्यादि ।
प्रकारान्तरेण व्यवस्थापनमेव दशंयति--ऽयत्रेऽत्यादि ।
भावं व्याचष्टे-एकत्रेत्यादि ।
अलङ्कारेति ।
अलङ्कारद्वयस्य या प्रतिभा प्रतीतिस्तस्या उल्लासः उदय इत्यर्थः ।
सङ्करः एकवाक्यानुप्रवेशसङ्करः ।
स हरिरिति राजवर्णनम् ।
ऽयद्यप्यनुपमचरितस्तथापि तव नाच्युतस्तुलां लभतेऽइति पूर्वार्धम् ।
अत्रैकविषयकत्वं दर्शयति--स हरीत्यादि ।
विषय इति ।
श्लेषव्यतिरेकयोरिति शेषः ।
सहरिर्नाम्नेत्यत्र स हरिरिति पदद्वयमित्याह--सः हरिरिति ।
सः अच्युतः ।
नाम्ना हरिः हरिनामक इत्यर्थः ।
अश्ववाचिनो हरिशब्दस्य सहशब्देन समास इत्याशयेन द्वितीयं सहरिशब्दं व्याचष्टे--यदि वेत्यादि ।
यदि वेति ।
अथ चेत्यर्थः, अव्ययानामनेकार्थत्वात् ।
यद्वा--यदिवेत्यपपाठः ।
हरिभिः अश्वैः ।
निवहेनेति हेतौ अभेदे वा तृयीया ।
अन्त्यपादे अत्र ह्यन्य एव शब्दः श्लेषस्य विषयो ऽन्यश्च व्यतिरेकस्य ।
यदि चैवंविधे विषये ऽलङ्कारान्तरत्वकल्पना क्रियते तत्संसृष्टेर्विषयापहार एव स्यात् ।
श्लेषमुखैनैवात्र व्यतिरेकस्यात्मलाभ इति नायं संसृष्टेर्विषय इति चेत्--न; व्यतिरेकस्य प्रकारान्तरेणापि दर्शनात् ।
यथा--- चेत्--न; व्यतिरेकस्य प्रकारान्तरेणापि दर्शनात् ।
यथा--- नो कल्पापायवायोरदयरयदलत्क्ष्याधारस्यापि शम्या लोचनम् अत्र हीति ।
हिशब्दस्तुशब्दस्यार्थे, ऽरक्तस्त्वऽमित्यत्रेत्यर्थः ।
अन्य इति रक्त इत्यादिः ।
अन्यश्च अशोकसशोकादिः ।
नन्वेकं वाक्यात्मकं विषयमाश्रित्यैकविषयत्वादस्तु सङ्कर इत्याशङ्क्याह--यदीति ।
एवंविधे वाक्यलक्षणे विषये विषय इत्येकत्वं विवक्षितं बोध्यम् ।
एकवाक्यापेक्षया यद्येकविषयत्वमुच्यते तन्न क्वचित्संसृष्टिः स्यात्, सङ्करेण व्याप्तत्वात् ।
ननूपमागर्भो व्यतिरेकः; उपमा च श्लेषमुखेनैवायातेति श्लेषो ऽत्र व्यतिरेकस्यानुग्राहक इति सङ्करस्यैवैष विषयः ।
यत्र त्वनुग्राह्मानुग्राहकभावोनास्ति तत्रैकवाक्यगामित्वे ऽपि संसृष्टिरेव; तदेतदाह---श्लेषेति ।
श्लेषबलानीतोपमामुखेनेत्यर्थः ।
एतत्परिहरति--नेति ।
अयं भावः---किं सर्वत्रोपमायाः स्वशब्देनाभिधाने व्यतिरेको भवत्युत गम्यमानत्वे ।
तत्राद्यं पक्षं दूषयति-प्रकारान्तरेणेति ।
उपमाभिधानेन विनापीत्यर्थः ।
शम्या शमयितुं शक्येत्यर्थः ।
दीपवर्तिस्तु वायुमात्रेण शमयितुं शक्यते ।
बालप्रिया त्वमिति शेषः ।
देव इति द्वयोर्विशेषणम् ।
यद्यप्यत्र सहरिः सहरिरिति द्वे उपात्ते, तथापि तयोरेकानुपूर्वीङ्कत्वेनैकविषयकत्वमिति भावः ।
वृत्तिगतान्यपदे व्याचष्टे---रक्तेत्यादि ।
वाक्यलक्षणे वाक्यात्मके ।
एकत्वविवक्षायाः फलं दर्शयंस्तदित्यादिवृत्यर्थं विवृणोति---एकवाक्येत्यादि ।
सङ्करस्यैवैष विषय इति ।
सङ्करस्य अनुग्राह्यनुग्राहकभावेन सङ्करस्य ।
संसृष्टेश्व नास्ति विषयापहार इत्याह---यत्रेत्यादि ।
तदेतदाहेति ।
तामिमां शङ्कां दर्शयतीत्यर्थः ।
नेत्यादिपरिहारग्रन्थस्य भावं दर्शयति---अयमित्यादि ।
किमिति प्रश्ने ।
गम्यमानत्वे व्यङ्ग्यत्वे ।
उपमाभिधानेन उपमावाचकेन ।
नोकल्पेति ।
सूर्यशतकस्थम् ।
उष्णात्विषः सूर्यस्यैव ।
निखिलद्वीपदीपस्य दीप्तिरेव अन्यरूपा, सा प्रसिद्धा एव वर्तिः वः सुखयत्विति सम्बन्धः ।
अन्यरूपेत्यनेन दर्शितं दीप्तेर्वैधर्म्यं नो कत्पेत्यादिना कथ्यते ।
अदयरयेन प्रौढवेगेन दलन् क्ष्माधरो यस्य ।
वायोरिति कर्तरि षष्टी गाढमुद्गीर्णा गाढोद्गीर्णोज्ज्वलश्रीरहनि न रहिता नो तमःकज्जलेन ।
प्राप्तोत्पत्तिः पतङ्गान्न पुनरुपगता मोषमुष्णात्विषो वो वर्तिः सैवान्यरूपा सुखयतु निखिलद्वीपदीपस्य दीप्तिः ॥
अत्र हि साम्यप्रपञ्जप्रतिपादनं विनैव व्यतरेको दर्शितः ।
नात्र लोचनम् तम एव कज्जलं तेन ।
न नो रहितां अपि तु रहितैव ।
दीपवर्तिस्तु तमसापि युक्ता भवति ।
अत्यन्तमप्रकटत्वत्कज्जलेन चोपरिचरेम ।
पताङ्गादर्कात् ।
दीपवर्तिः पुनः शलभाद्ध्वंसते नोत्पद्यते ।
साम्येति ।
साम्यस्योपमायाः प्रपञ्चेन प्रबन्धेन यत्प्रतिपादनं स्वश्बदेन तेन विनापीत्यर्थः ।
एतदुक्तं भवति---प्रतीयमानैवोपमा व्यतिरेकस्यानुग्राहिणी भवन्ती नाभिधानं स्वकण्ठेनापेक्षते ।
तस्मानान श्लेषापमा व्यतिरेकस्यानुग्राहित्वेनोपात्ता ।
ननु यद्यप्यन्यत्र नैवं, ततापीह तत्प्रावण्येनैव सोपात्ता; तदप्रावण्ये स्वयं चारुत्वहेतुत्वाभावादिति श्लेषोपमात्र पृथगलङ्कारभावमेव न भजते ।
तदाह--नात्रेति ।
एतदसिद्धं स्वसंवेदनबाधितत्वादिति हृदये गृहीत्वा स्वसंवेदनमपह्नुवानं बालप्रिया आविर्भाविता उज्वला श्रीर्यया सा ।
गम्यं वर्तेः वैधर्म्यं दर्शयति--दीपवर्तिरित्यादि ।
तमश्च कज्जलं च तमःकज्जलमित्यर्थाभिप्रायेणाह---तमसापीत्यादि ।
उपरिचरेम कज्जलेन च युक्तेत्यन्वयः ।
द्वाभ्यां युक्तत्वे ज्ञापकम् ।
आत्यन्तमप्रकटत्वादिति ।
पतह्गात्प्राप्तोत्पत्तिः पतङ्गान्मोषं पुनर्नोपगतेत्यत्र वर्तिगतं वैधर्म्यमाह---शलभादिति ।
ऽपतङ्गौ सूर्यशलभाविऽत्यमरः ।
एवं दीपवर्तिरहनि मन्दश्रीरिति च बोध्यम् ।
स्वशब्देन प्रतिपादनमिति सम्बन्धः ।
भावमाह---एतदित्यादि ।
अनुग्राहिणीति ।
व्यतिरेकस्योपमागर्भत्वादिति भावः ।
स्वकण्ठेन स्वश्ब्देन ।
उपात्ता स्वशब्देनाभिहिता ।
नन्वित्यादि ।
अन्यत्रेति ।
ऽनोकल्पापायेऽत्यादावित्यर्थः ।
इहेति ।
ऽरक्तस्त्वम्ऽ इत्यादावित्यर्थः ।
तत्प्रावण्येन व्यतिरेकपरत्वेन, व्यतिरेकानुग्राहकत्वेनेति यावत् ।
तस्याः स्वयमेवेत्यर्थः ।
इतीति हेतौ ।
अत्र ऽरक्तस्त्वम्ऽ इत्यादौ ।
पृथगित्यादि ।
पृथगलङ्कारभावं न भजत एवेत्यन्वयः ।
किन्तु व्यतिरेकेम सहानुग्रह्यानुग्राहकभावं भजते इति भावः ।
तदाहेति ।
नात्रेत्यादिग्रन्थेन तदाशङ्कां दर्शयतीत्यर्थः ।
वृत्तौ--ऽअत्र श्लेषस्य व्यतिरेकाङ्गत्वेनैव विवक्षितत्वात् श्लेषमात्रच्चारुत्वप्रतीतिर्नास्ति इति न स्वतो ऽलङ्कारता इत्यपि न वाच्यम्ऽ इत्यन्वयः ।
श्लेषस्येत्यस्य न स्वतो ऽलङ्कारतेत्यनेनापि सम्बन्धः ।
स्वत इत्यस्य पृथगित्यर्थः ।
लोचने---एतदित्यादि ।
एतत् शङ्कितम् ।
स्वसंवेदनेति ।
स्वानुभवेत्यर्थः ।
परं पूर्वपक्षिणम् ।
निरुत्तरीकरोतीत्यनेन सम्बन्धः ।
श्लेषमात्राच्चारुत्वप्रतीतिरस्तीति श्लेषस्य व्यतिरेकाङ्गत्वेनैव विवक्षितत्वात् न स्वतो ऽलङ्कारतेत्यपि न वाच्यम् ।
यत एवंविदे विषये साम्यमात्रादपि सुप्रतिपादिताच्चारुत्वं दृश्यत एव ।
यथा--- आक्रन्दाः स्तनितैर्विलोचनजलान्यश्रान्तधाराम्बुभि- स्तद्विच्छेदभुवश्च शोकशिखिनस्तुल्यास्तडिद्विभ्रमैः ।
अन्तर्मे दयितामुखं तव शशी वृत्तिः समैवावयो- स्तत्किं मामनिशं सखे जलधर त्वं दग्धमेवोद्यतः ॥
इत्यादौ ।
लोचनम् परं श्लेषं विनोपमामात्रेम चारुत्वसम्पन्नमुदाहरणान्तरं दर्शयन्निरुत्तरीकरोति--यत इत्यादिना ।
उदाहरणश्लोके तृतीयान्तपदेषु तुल्यशब्दो ऽभिसम्बन्धनीयः ।
अन्यत्सर्वं ऽरक्तस्त्वंऽ इतिवद्योज्यम् ।
बालप्रिया कथमित्यत्राह--श्लेषमित्यादि ।
श्लेषं विना उपमामात्रेणेति ।
मात्रपदार्थविवरणं श्लेषं विनेति ।
श्लेषरहितोप्रमागर्भव्यतिरेकेमेति यावत् ।
वृत्तौ--ऽएवम्ऽ इत्यादि ।
ऽएवंविदे विषयेऽ व्यतिरेकविषये ।
ऽसाम्यमात्रादिऽति ।
मात्रशब्देन श्लेषव्यवच्छेदः साम्यशब्दस्योपमागर्भव्यतिरेको ऽर्थः ।
ऽआक्रन्दाऽ इत्यादिस्थले श्लेषं विना उपमागर्भव्यतिरेकेणैव चारुत्वस्य दर्शनाऽद्रक्तस्त्वऽमित्यादावपि श्लेषस्य व्यतिरेकानुग्राहकत्वं विना पृथगलङ्कारत्वं भवत्येवेति परिहारग्रन्थाभिप्रायः ।
अनेन प्रबन्धप्रवृत्तो ऽपीत्यादि पूर्वोक्तं निर्व्यूढम् ।
तुल्यशब्द इत् ।
मे आक्रन्दाः तव स्तनितैतैस्तुल्या इत्यादि सम्बन्धनीयमित्यर्थः ।
श्रोतृजनमनःक्षोभकारित्वादिना तुल्यत्वम् ।
तस्याविच्छेदो विरहः तस्माद्भवन्तीति तथा ।
शोका एव शिखिनो ऽग्नयः ।
ऽअन्तरिऽत्यादि ।
अत्र मुखशशिनोस्तुल्यत्वं गम्यम् ।
ऽवृत्तिरिऽत्यादि ।
उक्तप्रकारेणावयोर्धर्मौ तुल्यावेवेत्यर्थः ।
ऽतदिऽति ।
अस्मद्धर्मयोस्तुल्यत्वेनावयोस्तुल्यत्वादित्यर्थः ।
अत एवाह---ऽसखेऽ इति ।
अनेन दहनमनुचितमनुकूलाचरणमेव युक्तमिति, ऽजलधरेऽत्यनेन सन्तापहरणसामर्थ्यं च द्योत्यते ।
अनिशं दग्धुं पीडयितुमेव, न तु कदाचित्सुखयितुमपि ।
ऽकिंऽ कुतः ।
ऽउद्यतःऽ अयमुद्यमो न युक्तः, अहन्तु नैवंविध इति भावः ।
अत्र बन्धुजनपीडाकारित्वेन जलधरस्य स्वस्माद्व्यतिरेक उक्तः, साम्यं चादावुक्तम् ।
श्लेषश्च नास्तीति बोध्यम् ।
योजयमिति ।
स्तनितादिकमाक्रन्दनादिहेतुतयापि योजनीयमित्यर्थः ।
वृत्तौ---ऽआक्षिप्तम्ऽ इति ।
उक्तमित्यर्थः ।
ऽरसपुष्टये परमनिर्व्यूढञ्चेत्यन्वयः ।
रसनिर्वहणैकतानहृदयो यं च नात्यन्तं निर्वोढुमिच्छति ।
यथा--- कोपात्कोमललोबाहुलतिकापाशेन बद्ध्वा दृढं नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः ।
भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निन्हुतिपरः प्रेयान्रुदत्या हसन् ॥
अत्र हे रूपकमाक्षिप्तमनिर्व्यूढं च परं रसपुष्टये ।
निर्वोढुमिष्टमपि यं यत्नादङ्गत्वेन प्रत्यवेक्षते यथा--- श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं लोचनम् एवं ग्रहणत्यागौ समर्थ्य ऽनातिनिर्वहणैषिताऽ इति भागं व्याचष्टे--रसेति ।
चकारः समीक्षाप्रकारसमुच्चार्थः ।
बाहुलतिकायाः बन्धनीयपाशत्वेन रूपणं यदि निर्वाहयेत्, दयिता व्याधवधूः वासगृहं कारागारपञ्जरादीति परमनौचित्यं स्यात् ।
सखीनां पुर इति ।
भवत्यो ऽनवरतं ब्रुवते नायमेवं करोतीति तत्पश्यन्त्विदानीमिति भावः ।
स्खलन्ती कोपावेशेन कला मधुरा च गीर्यस्याः सा ।
कासौ गीरित्याह--भूयो नैवमित्येवंरूपा ।
एवमिति यदुक्तं तत्किमित्याह--दुश्चेष्टितं नखपदाद संसूच्य अङ्गुल्यादिनिर्देशेन ।
इन्यत एवेति ।
न तु सख्यादिकृतो ऽनुनयो ऽनुरुध्यते ।
यतो ऽसौ हसनं निमित्तीकृत्य निह्नुतिपरः प्रियतमश्च तदीयं व्यलीलं का सोढुं समर्थेति ।
निर्वोढुमिति ।
निःशेषेण परिसमापयितुमित्यर्थः ।
श्यामासु सुगन्धिप्रियङ्गुलतासु बालप्रिया एतद्विवृणोति लोचने---बाह्वित्यादि ।
इति निर्वाहयेद्यदीति सम्बन्धः ।
दयितादीनां व्याधवधूत्वादिरूपणस्य कथनेन बाहुलतिकायाः पाशत्वरूपणं कविर्निर्वाहयेद्यदीत्यर्थः ।
तदेति शेषः ।
परमनौचित्यं स्यादिति ।
तथा च रसभङ्गः स्यादिति भावः ।
न करोतीति ब्रुवत इत्यनेन सम्बन्धः ।
इति भाव इति ।
सखीनां पुरोनयने नायिकाभिप्राय इत्यर्थः ।
सखीनां पुरो नीत्वेत्यनेनोक्ताभिप्रायो गम्यत इत्यर्थः ।
दुश्चेष्टितमित्यस्य व्याख्यानम्---नखपदादीति ।
ऽनिर्देशेन संसूच्येऽत्यन्वयः ।
एवकारार्थमाह---न त्वित्यादि ।
निह्नुतीत्यादिकमुक्तार्थे हेतुगर्भमित्याशयेन व्याचष्टे---यत इत्यादि ।
भावार्थमाह---तदीयमित्यादि तदीयं प्रयतमसम्बन्धि ।
अतो हन्यत एवेति भावः ।
श्लोको ऽयममरुशतकस्थः ।
ऽश्यामाखिऽत्यादिश्लोको मेघसन्देशस्थः ।
श्यामानां विशिष्योक्तौ बीजभूतमङ्गसाथधर्म्यं गण्डच्छायां शशिनि शिखिनां बर्हभारेषु केशान् ।
अत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्थं क्वचिदपि न ते भीरु सादृश्यमस्ति ॥
इत्यादौ ।
स एवमुपनिबध्यमानो ऽलङ्कारो रसाभिव्यक्तिहेतुः कवेर्भवति ।
उक्तप्रकारातिक्रमे तु नियमेनैव रसभङ्गहेतुः सम्पद्यते ।
लक्ष्यं च तथाविधं महाकविप्रबन्धेष्वपि दृश्यते बहुशः ।
तत्तु सूक्तितसहस्रद्योतितात्मानां महात्मनां दोषोद्धोषणमात्मन एव दूषणं भवतीति न विभज्य दर्शितम् ।
किं तु रूपकादेरलङ्कारवर्गस्य येयं व्यञ्जकत्वे रसादिविषये लक्षणदिग्दर्शिता तामनुसरन् स्वयं चान्यल्लक्षणमुत्प्रेक्षमाणो यद्यलक्ष्यक्रमप्रतिभमनन्तरोक्तमेनं लोचनम् पाण्डम्ना तनिम्ना कण्टकितत्वेन च योगात् ।
शशिनीति पाण्डुरत्वात् ।
उत्पश्यामीति यत्नेनोत्प्रेक्षे ।
जीवितसन्धारणायेत्यर्थः ।
हन्तेति कष्टम्, एकस्थसादृश्याभावे ह दोलायमानो ऽहं सर्वत्र स्थितो न कुत्रचिदेकस्य धृतिं लभ इति भाव ।
भीर्विति ।
यो हि कातरहृदयो भवतिनासौ सर्वस्वमेकस्थं धारयतीत्यर्थः ।
अत्र ह्युत्प्रेक्षायास्तद्भावाध्यारोपरूपाया अनुप्राणकं सादृश्यं यथोपक्रान्तं, तथा निर्वाहितमपि विप्रलम्भरसपोषकमेव जातम् ।
तत्तु लक्ष्यं न दर्शितमिति सम्बन्धः ।
प्रत्युदाहरणे ह्यदर्शिते ऽप्युदाहरणानुशीलनदिशा कृतकृत्यतेति दर्शयति--किं त्विति ।
अन्यल्लक्षणमिति ।
परीक्षाप्रकारमित्यर्थः ।
तद्यथावसरे त्यक्तस्यापि पुनर्ग्रहणमित्यादि ।
यथा ममैव--शीतांशोरमृतच्छटा यद कराः कस्मान्मनो मे मृशं बालप्रिया गम्यं दर्शयति---पाण्डिम्नेत्यादि ।
कण्टकित्वं तीक्ष्णाग्रावयवविशेषवत्वं रोमहर्षवत्वं च ।
हन्तेति ।
विषादार्थकमित्याह--कष्टमेकस्थेत्यादि ।
ऽभीरुऽ इति सम्बुध्या द्योत्यमर्थमाह---यो हीत्यादि ।
न धारयति नावक्थापयत अन्यापहरणशङ्कयेति भावः ।
तद्भावेति ।
अतस्मिंस्तत्तादात्म्याहार्यसम्भावनारूपाया इत्यर्थः ।
अत्र च श्यामादावङ्गादितादात्म्यसम्भावना बोध्या ।
अनुप्राणकमिति ।
अङ्गमित्यर्थः ।
सादृश्यमिति ।
गम्यमिति शेषः ।
तथेति ।
अङ्गसादृश्यस्य उपक्रान्तस्य उपसंहारादिति भावः ।
निर्वाहितमिति ।
उत्प्रेक्षानिर्वहणद्वारा निर्वाहितमित्यर्थः ।
वृत्तावुपसंहरति---ऽस एवऽ मित्यादि ।
ऽतथाविधम्ऽ इति ।
उक्तप्रकारातिक्रान्तमित्यर्थः ।
शीतांशोरिति ।
विरहिण उक्तिः ।
ऽशीतांशोः कराःऽ किरणाः अमृतच्छटाः, यदीति सिद्धानुवादे ।
यथा--"स्रगियं यदि जीवितापहे"त्यादौ ।
ऽकस्मात्ऽ कुतः ।
मे मनः ध्वनेरात्मानमुपनिबध्नाति सुकविः समाहितचेतास्तादा तस्यात्मलाभो भवति महीयानिति ।
क्रमेण प्रतिभात्य् आत्मा यो ऽस्यानुस्वान-सन्निभः ।
शब्दार्थ-शक्ति-मूलत्वात् सो ऽपि द्वेधा व्यवस्थितः
क्रमेण प्रतिभात्यात्मा यो ऽस्यानुस्वानसन्निभः ।
शब्दार्थंशक्तिमूलत्वात्सो ऽपि द्वेधा व्यवस्थितः ॥ 20 ॥
लोचनम् संप्लुष्यन्त्यथ कालकूटपटलीसंवाससन्दूषिताः ।
किं प्राणान्न हरन्त्युत प्रियतमासञ्जल्पमन्त्राक्षरै- रक्ष्यन्ते किमु मोहमेमि हहहा नो वेझि केयं गतिः ॥
इत्यत्र हि रूपकसन्देहनिदर्शनास्त्यक्त्वा पुनरुपात्ता रसपरिपोषायेत्यलम् ॥ 18॥
,19 ॥
एवं विवक्षितान्यपरवाच्यध्वनेः प्रथमं भेदमलक्ष्यक्रमं विचार्यं द्वितीयं भेदं विभक्तुमाह---क्रमेणेत्यादि ।
बालप्रिया भृशं सम्प्लुष्यन्तिसन्तापयन्ति ।
अमृतच्छटात्मकत्वेन सम्पलोषकत्वायोगादिति भावः ।
अस्योपपत्तिं सन्दिहान आह--अथेत्यादि ।
अथेति विकल्पे ।
करा इत्यनुषज्यते ।
कालकूटानां पटल्या समूहेन यः संवासः द्वयोरेकोत्पन्नत्वात्सहवासः संसर्गं इति यावत्, तेन सन्दूषिताः सन्तापकत्वादिस्वीयदोषविशिष्टाः कृताः ।
तर्हि ते किं कुतः प्राणान्न हरन्ति? प्राणापहारकत्वस्यापि तत्स्वभावत्वादिति भावः ।
प्राणहरणाभावे हेतुमाशङ्कमान आह--उतेत्यादि ।
उतेति विकल्पे ।
प्रियतमायाः सञ्जल्पेषु यानि मन्त्राक्षराणि विषापहारीणि तैः ।
रक्ष्यन्ते प्राणा इति विपरिणामेनानुषङ्गः ।
अत्राप्यनुपपत्तिं मन्यमान आह--किं त्वित्यादि ।
किमु कुतः ।
रूपकेति ।
करा अमृतच्छटा इति रूपकं, कालकूटेत्यादौ सन्देहः, प्रियतमासञ्जल्पेषु मन्त्राक्षरारोपान्निदर्शना ।
त्यागः ।
अथेत्यादिना पुनरुपादानं, तथा सन्दूषितत्वसन्देहस्य ऽकिं प्राणानिऽत्यादिना त्यागः ।
उतेत्यादिना पुनरुपादनमेवं प्रियतमेत्यादि निदर्शनायाः, मोहं मूर्च्छामेमि प्राप्नोमीत्यनेन त्यागः ।
इयं गतिरवस्था पदार्थस्वभावः ।
का नो वेझि न जानामीत्यनेन पुनरुपादानं च प्रत्याय्यत इति भावः ।
यद्वा सम्प्लुष्यन्तीत्यन्तेन रूपकस्याहरन्तीत्यन्तेन सन्देहस्य, एमीत्यन्तेन निदर्शनायाश्च त्यागः ।
नो वेद्मीत्यादिना तेषामुपादानं चेति बोध्यम् ॥ 18॥
-19 ॥
हेतुत्वेनोपात्त इति ।
यतः क्रमेण भाति, अतो ऽनुस्वानसन्निभ इत्यर्थ इति भावः ।
अस्य विवक्षितान्यपरवाच्यस्य ध्वनेः संलक्ष्यक्रमव्यङ्ग्यत्वादनुरणन- प्रख्यो य आत्मा सो ऽपि शूब्दशक्तिमूलो ऽर्थशक्तिमूलश्चेति द्विप्रकारः ।
ननु शब्दशक्त्या यत्रार्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते तदिदानीं श्लेषस्य विषय एवापहृतः स्यात्, नापहृत इत्याह---
आक्षिप्त एवालङ्कारः शब्द-शक्त्या प्रकाशते ।
यस्मिन्न् अनुक्तः शब्देन शब्द-शक्त्य्-उद्भवो हि सः
आक्षिप्त एवालङ्कारः शब्दशक्त्या प्रकाशते ।
यस्मिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः ॥ 21 ॥
यस्मादलङ्कारो न वस्तुमात्रं यस्मिन् काव्ये शब्दशक्त्या प्रकाशते स शब्दशक्त्युदभवो ध्वनिरत्यस्माकं विवक्षितम् ।
वस्तुद्वये च शब्दशक्त्या प्रकाशमाने श्लेषः ।
यथा--- येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चेद्वृत्तभुजङ्गहारवलयो गङ्गां च यो ऽधारयत् ।
लोचनम् प्रथमपादो ऽनुवादभागो हेतुत्वेनोपात्तः ।
घण्टाया अनुरणनमभिघातजशब्दापेक्षया क्रमेमैव भाति ।
सो ऽपीति ।
न केवलं मूलतो ध्वनिर्द्विविधः ।
नापि केवलं विवक्षितान्यपरवाच्यो द्विविधः ।
अयमपि द्विविध एवेत्यपिशब्दार्थः ॥20॥
कारिकागतं हिशब्दं व्याचष्टे--यस्मादिति ।
अलङ्कारशब्दस्य व्यवच्छेद्यं दर्शयति--न वस्तुमात्रमिति ।
वस्तुद्वये चेति ।
चशब्दस्तुशब्दस्यार्थे ।
येनेति ।
येन ध्वस्तं बालक्रीडायामनः शकटम् ।
अभवेनाजेन सता ।
बलिनो दानवान्यो जयति तादृग्येन कायो वपुः पुरामृतहरणकाले स्त्रीत्वं प्रापितः ।
यश्चेद्वृत्तं समदं कालियाख्यं भुजङ्गं हतवान् ।
रवे शब्दे लयो यस्य ।
ऽअकारो विष्णुःऽ इत्युक्तेः ।
यश्चागं गोवर्धनपर्वतं गां च भूमिं पातालगतामधारयत् ।
यस्य च नाम स्तुत्यमृषय आहुः किं तत्? शशिनं मथ्नातीति क्विप् राहुः, तस्य शिरोहरो बालप्रिया अनुस्वानपदार्थंविवृण्वंस्तद्भानस्य क्रमिकत्वं दर्शयन्ति---घण्टाया इत्यादि ।
विवक्षितान्यपरवाच्य इत्यस्य स्थाने ऽअविवक्षितवाच्यऽ इति च पाठः ।
अपिशब्दार्थः ऽसो ऽपीऽत्यपि शब्दगम्यः ॥ 2.0 ॥
ऽन वस्तुमात्रऽमिति कारिकास्थैवकारव्यवच्छेद्यमिति भ्रमः स्यादतो व्याचष्टे---अलङ्कारशब्दस्येति ।
एवकारव्यवच्छेद्यमुपरि वक्ष्यति ।
येनेत्यत्रादौ विष्णुपक्षे व्याचष्टे---बालक्रीडायामित्यादि ।
ऽतादृक्कायो येन स्त्रीत्वं प्रापितऽ इत्याद्यन्वयः ।
लय इति ।
तादात्म्यमित्यर्थः ।
शब्दात्मक इति यावत् ।
तत्र प्रमाणमाह---अकार इति ।
यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥
नन्वलङ्कारान्तरप्रतिभायामपि श्लेषव्यपदेशो भवतीति दर्शितं भट्टोद्भटेन, तत्पुनरपि शब्दशक्तिमूलो ध्वनिर्निरवकाश इत्याशङ्क्येदमुक्तं ऽआक्षिप्तःऽ इति ।
तदयमर्थः--यत्र शब्दशक्त्या साक्षादलङ्कारान्तरं वाच्यं सत्प्रतिभासते स सर्वः श्लेषविषयः ।
यत्र तु शब्दशक्त्या सामर्थ्याक्षिप्तं वाच्यव्यतिरिक्तं व्यङ्ग्यमेवालङ्कारान्तरं प्रकाशते स ध्वनेर्विषयः ।
शब्दशक्त्या साक्षादलङ्कारान्तरप्रतिभा यथा--- तस्या विनापि हारेण निसर्गादेव हारिणौ ।
जनयामासतुः कस्य विस्मयं न पयोधरौ ॥
अत्र शृङ्गारव्यभिचारी विस्मयाख्यो भावः साक्षाद्विरोधालङ्कारश्च प्रतिभासत इति विरोधच्छायानुग्राहिणः श्लेषस्यायं विषयः, न त्वनुस्वानोपमव्यङ्ग्यस्य ध्वेनेः ।
लोचनम् मूधापहारक इति ।
स त्वां माधवो विष्णुः सर्वदः पायात् ।
कीदृक्? अन्धकनाम्नां जनानां येन क्षयो निवासो द्वारकायां कृतः ।
यदि वा मौसले इषीकाभिस्तेषां क्षयोविनाशो येन कृतः ।
द्वितीयो ऽर्थः--येन ध्वस्तकामेन सता बलिजितो विध्णोः सम्बन्धी कायः पुरा त्रिपुरनिर्दहनावसरे ऽस्त्रीकृतः शरत्वं नीतः ।
उद्वृत्ता भुजङ्गा एव हारा वलयाश्च यस्य, मन्दाकिनीं च यो ऽधारयत्, यस्य च ॠषयः शशिमच्चन्द्रयुक्तं शिर आहुः, हर इति च यस्य नाम स्तुत्यमाहुः, स भगवान्स्वयमेवान्धकासुरस्य विनाशकारी त्वां सर्वदा कल्वकालमुमाया धवो वल्लभः पायादति ।
अत्र वस्तुमात्रं द्वितीयं प्रतीतं नालङ्कार इति श्लेषस्यैव विषयः ।
आक्षिप्तशब्दस्य कारिकागतस्य व्यवच्छेद्यं दर्शयितुं चोद्योनोपक्रमते---नन्वलङ्कारेत्यादिना ।
तस्या विनापीति ।
अपिशब्दो ऽयं विरोधमाचक्षाणो ऽर्थद्वये ऽप्यभिधाशक्तिं बालप्रिया शेषं स्पष्टम् ।
वस्तुमात्रमित्यादि ।
माधवस्योमाधवस्य च स्तोतव्यत्वेन प्रकृतत्वात्तयोः साम्यं न विवक्षितमिति भावः ।
वृत्तौ ऽसाक्षादलङ्कारान्तरं वाच्यऽमिति ।
अलङ्कारान्तरमलङ्कारविशेषः ।
वाच्यमभिधेयमिति तदर्थः ।
अपिशब्दो ऽयमिति ।
हारेम विनापीत्यपिशब्द इत्यर्थः ।
विरोधं हारतदभावयोरेकत्र वृत्तित्वरूपम् ।
आचक्षाणः बोधयन् ।
अर्थद्वये वक्ष्यमाणे ।
अभिधाशक्तिं हारिन्शब्दस्याभिधात्मिकां शक्तिम् ।
अलक्ष्यक्रमव्यङ्ग्यस्य तु ध्वनेर्वाच्येन श्लेषेण विरोधेन वा व्यञ्जितस्य विषय एव ।
यथा ममैव-- श्लाध्याशेषतनुं सुदर्शनकरः सर्वाङ्गलीलाजत- त्रैलोक्यां चरमारविन्दललितेनाक्रान्तलोको हरिः ।
बिभ्रामां मुखभिन्दुरूपमखिलं चन्द्रात्मचक्षुर्दध- त्स्थाने यां स्वतनोरपश्यदधिकां सा रुक्मिणी वो ऽवतात् ॥
अत्र वाच्यतयैव व्यतिरेकच्छायानुग्राही श्लोषः प्रतीयते ।
यथा च--- भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छां तमः शरीरसादम् ।
मरणं च जलदभुजगजं प्रसह्यं कुरुते विषं वियोगिनीनाम् ॥
लोचनम् नियच्छति हरतो हृदयमवश्यमिति हारिणौ ।
हारो विद्यते ययोस्तौ हारिणाविति ।
अत एव विस्मयशब्दो ऽस्यैवार्थस्योपोद्बलकः ।
अपिशब्दाभावे तु न तत एवार्थद्वयस्याभिधा स्यात्, स्वसौन्दर्यादेव स्तनयोर्विस्मयहेतुत्वोपपत्तेः ।
विस्मयाख्यो भाव इति दृष्टन्ताभिप्रायेणोपात्तम् ।
यथा विस्मयः शब्देन प्रतिभाति विस्मय इत्यनेन शब्देन तथा विरोधो ऽपि प्रतिभात्यपीत्यनेन शब्देन ।
ननु किं सर्वथात्र धनिर्नास्तीत्याशङ्क्याह--अलक्ष्येति ।
विरोधेन वेति ।
वाग्रहणेन श्लेषविरोधसङ्करालङ्कारो ऽयमिति दर्शयति, अनुग्रहयोगादेकतरत्यागग्रहणनिमित्ताभावो हे वाशब्देन सूच्यते ।
सुदर्शनं चक्रं करे यस्य ।
व्यतिरेकपक्षे सुदर्शनौ श्लाध्यौ करावेव यस्य ।
चरणरविन्दस्य ललितं त्रिभुवनाक्रमणक्रीजनम् ।
चन्द्ररूपं चक्षुर्धारयन् ।
वाच्यतयैवेति ।
स्वतनोरधिकामिति शब्देन व्यतिरेकस्योक्तत्वात् ।
बालप्रिया अर्थद्वयमाह-हरत इत्यादि ।
ऽइत्यार्थद्वयेऽ इति सम्बन्धः ।
अत एव अपिशब्दप्रयोगादेव ।
विस्मयशब्दः द्वितीयान्तविस्मयशब्दः ।
उपोद्बलकः बोधे सहकारी ।
एकत्र विरुद्धार्थबोधे हि विस्मयः ।
उक्तमुपपादयति--अपिशब्दाभावे त्विति ।
तत एवार्थद्वयस्याभिधा न स्यादित्यन्वयः ।
तत एव विस्मयशब्दादेव ।
अभिधा अभिधानम् ।
कुत इत्यत्राह---स्वेति ।
वृत्तौ---ऽविस्मयाख्यो भावः प्रतिभासतऽ इति किमर्थमुक्तमित्यत्राह--दृष्टान्तेति ।
शब्देन प्रतिभातीत्युक्तस्यैव विवरणम्--विस्मय इत्यादि ।
प्रतिभातीत्यस्यानुषङ्गः ।
दर्शयतीत्यत्र हेतुमाह--अनुग्रहयोगादिति ।
विरोधश्लेषयोरनुग्राह्यनुग्राहकभावादित्यर्थः ।
एकेति ।
एकतरस्य त्यागे ग्रहणे वा यन्निमित्तं तदभाव इत्यर्थः ।
वाच्यतयैवेत्यस्य व्यतिरेक इत्यनेनापि सम्बन्धो विवक्षित इत्याह---स्वतनोरधिकामितीति यथा वा---
चमहिअमाणसकञ्चणपङ्कअणिम्महिअपरिमला जस्य ।
अखण्डिअदाणपसारा बाहुप्पलिहा व्विअ गैन्दा ॥
( खण्डितमानसकाञ्चनपङ्कजनिर्मथितपरिमला यस्य ।
अखण्डितदानप्रसरा बाहुपरिधा इव गजेन्द्राः ॥
इति छाया ) अत्र रूपकच्छायानुग्राही श्लेषो वाच्यतयैवावभासते ।
स चाक्षिप्ते ऽलङ्कारो यत्र पुनः शब्दान्तरेणाभिहितस्वरूपस्त न लोचनम् भुजगशब्दार्थपर्यालोचनाबलादेव विषशब्दो जलमभिधायापि न विरन्तुमुत्सहते, अपि तु द्वितीयमर्थं हालाहललक्षणमाह ।
तदभिधानेन विनाभिधाया एवासमाप्तत्वात् ।
भ्रमिप्रभृतीनां तु मरणान्तानां साधारण एवार्थः ।
निराशीकृतत्वेन खण्डितानि यानि मानसानि शत्रुहृदयानि तान्येव काञ्चनपङ्कजानि ।
ससारत्वात् तैर्हेतुभूतैः ।
णिम्महिअपरिमला इति ।
गजेन्द्रशब्दवशाच्चमहिमशब्दः परिमलशब्दो दानशब्दश्च त्रोटनसौरभमदलक्षणानर्थान्प्रतिपाद्यापि न परिसमाप्ताभिधाव्यापारा भवन्तीत्युक्तरूपं द्वीतीयमप्यर्थमभिदधत्येव ।
एवमाक्षिप्तशब्दस्य व्यवच्छेद्यं प्रदर्श्यैवकारस्य व्यवच्छेद्यं दर्शयितुमाह--स चेति ।
अभयार्थप्रतिपादनशक्तशब्दप्रयोगे, यत्र तावदेकतरविषयनियमनकारणमभिधाया बालप्रिया श्लेषमुपपादयति---भुजगेत्यादि ।
बलादेवेत्यस्य न विरन्तुमुत्सहते, अपि त्वहेत्यनेन सम्बन्धः ।
कुत इत्यत्राह--तदभीति ।
साधारण एवेति ।
तथा च तदंशे ऽर्थश्लेष इति भावः ।
निराशीकृतत्वेनेति ।
आशात्र जयविषयिका बोध्या ।
काञ्चनपझत्वरूपणे गम्यं हेतुं दर्शयति---ससारत्वादिति ।
यथा कुमारसम्भवे " ध्रुवं वपुः काञ्चनपझनिर्मित"मित्यादि ।
ऽनिर्मथितपरिमलाऽ इत्यनेन लक्ष्यस्यार्थस्य विवरणम्--प्रसृतेत्यादि ।
प्रसृतः दिक्षु व्याप्तः प्रतापसारो येषां ते ।
एवंभूताः यस्य बाहुपरिधाः गजेन्द्रा एवेति सम्बन्धः ।
गजेन्द्रे विशेषणानि योजयति--गजेत्यादि ।
शब्दश्चेति ।
क्रमेणोति शेषः ।
उक्तरूपमिति ।
पूर्वोक्तमित्यर्थः ।
अभिदधत्येवेति ।
तस्यार्थस्यापि प्राकरणिकत्वादिति भावः ।
वृत्तौ ऽअत्र रूपकेऽति ।
अत्रेत्यस्य उक्तयोः श्लोकर्थोरित्यर्थः ।
प्रतिपत्तिसौकर्यायोक्तवक्ष्यमामग्रन्थभावार्थं दर्शयति---उभयार्थेत्यादि ।
इति तात्पर्यमित्यन्तेन ।
उभयोरर्थयोः प्रतिपादने अभिधाने शक्तः समर्थो यः शब्दः तस्य प्रयोगे सति ।
एकेति ।
द्वयोरर्थयोरेकतरस्मिन् विषये यन्नियमनं नियन्त्रणमभिधायाः शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यध्वनिव्यवहारः ।
तत्र वक्रोक्त्यादिवाच्यालङ्कारव्यवहार एव ।
यथा--- लोचनम् नास्ति, यथा--ऽयेन ध्वस्तमनोभवेनऽ इति ।
यत्र वा प्रत्युत द्वितीयाभिधाव्यापारसद्भावावेदकं प्रमाणमस्ति, यथा--ऽतस्या विनाऽ इत्यादौ, तत्र तावत्सर्वथा ऽचमहिअऽ इत्यन्ते ।
सो ऽर्थो ऽभिधेय एवेति स्फुटमदः ।
यत्राप्यभिधाया एकत्र नियमहेतुः प्रकरणादिर्विद्यते तेन द्वितीयस्मिन्नर्थे नाभिधा सङ्क्रामति, तत्र द्वितीयो ऽर्थो ऽसावाक्षिप्त इत्युच्यते; तत्रापि यदि पुनस्तादृक्छब्दो विद्यते येनासौ नियामकः प्रकरणादिरफतशक्तिकः सम्पाद्यते ।
अत एव साभिधाशक्तिर्बाधितापि सती प्रतिप्रसूतेव तत्रापि न ध्वनेर्विषय इति तात्पर्यम् ।
चशब्दो ऽपिशब्दार्थे भिन्नक्रमः आक्षिप्तो ऽप्याक्षिप्ततया झटिति सम्भावयितुमारब्धो ऽपीत्यर्थः ।
न त्वसावाक्षित्पः, किं तु शब्दान्तरेणान्येनाभिधायाः प्रतिप्रसवनादभिहितस्वरूपः सम्पन्नः ।
पुनर्ग्रहणेन प्रतिप्रसवं व्याख्यातं सूचयति ।
तेनैवकार आक्षिप्ताभाऽ निराकरोतीत्यर्थः ।
बालप्रिया इत्यस्यानेन सम्बन्धः, तस्य कारणं संयोगादि ।
इतीति ।
इत्यादावित्यर्थः ।
.यत्रेत्यनेन सम्बन्धः ।
द्वितीयाभिधेति ।
द्वितीयार्थभिधेत्यर्थः ।
तम्या विना इत्यादौ चमहिअ इत्यन्त इति ।
तस्या विनापीत्याद्युदाहरणचतुष्टय इत्यर्थः ।
तत्रेति ।
येनेत्यादौ तस्या इत्यादिचतुष्टयेचेत्यर्थः ।
तावदिति समप्रतिपत्तौ ।
सो ऽर्थ इति द्वितीयो ऽर्थ इत्यर्थः ।
तत्रापीत्यादि ।
ताद्गगिति येनेत्यस्य प्रतिनिर्देशः ।
येनेति ।
येन शब्देनेत्यर्थः ।
अपहतशक्तिकः प्रतिहतनियमनसामर्थ्यकः ।
साभिधाशक्तिः द्वितीयार्थाभिधानशक्तिः बाधितापि बोधाननुकूलाकृतापि प्रतिप्रसूता पुनर्बोधानुकूला कृता ।
एवेति ।
इवेति च पाठः ।
च शब्द इति ।
स चेत्यत्रत्यचशब्द इत्यर्थः. भिन्नक्रम इति ।
आक्षिप्तपदोत्तरं योज्य इत्यर्थः ।
आक्षिप्तो ऽपीत्यस्य विवरणम्---आक्षिप्ततयेत्यादि ।
सम्भावनार्थकापिशब्देन गम्यमर्थमाह--न त्वित्यादि ।
वृत्तौ ऽसो ऽलङ्कारऽ इत्यस्य श्लेष इत्यर्थः ।
द्वितीयो ऽर्थ इति यावत् ।
ऽशब्दान्तरेणेऽत्यादेर्विवरणम्--शब्देत्यादि ।
शब्दान्तरेण शब्दविशेषेण ।
ननु श्लेषस्य शब्दान्तरेण सलेशादिपदेनाभिधानं न सम्भवति इत्यत आह--अभिधाया इत्यादि ।
अभिधायाः द्वितीयार्थाभिधायाः ।
पुनर्ग्रहणेनेति ।
ऽयत्र पुनऽरित्यत्रत्यपुनःशब्देनेत्यर्थः ।
व्याख्यातमिति ।
पूर्वोक्तमित्यर्थः ।
फलितमाह--तेनेति ।
ऽवक्रोक्त्याऽदीति ।
इमामेव वक्रोक्तिं विवृतोक्तिरिति कुवलयानन्दकाराः प्राहुः ।
दृष्ट्या केशव गोपरागहृतया किञ्चिन्न दृष्टं मया तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे ।
एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिर्- गोप्यैवं गदितः सलेशमवताद्गोष्ठे हरिर्वश्चिरम् ॥
लोचनम् हे केशव, गोधूलिहृतया दृष्ट्या न किञ्चिद्दृष्टं मया तेन कारणेन स्खलितास्मिमार्गे ।
तां पतितां सतीं मां किं नाम कः खलु हेतुर्यन्नलम्बसे हस्तेन ।
यतस्त्वमेवैको ऽतिशयेन बलवान्निम्नोन्नतेषु सर्वेषामबलानां बालवृद्धाङ्गनादीनां खिन्नमनसां गन्तुमशक्नुवतां गतिरालम्बनाभ्युपाय इत्येवंविधे ऽर्थे यदप्येते प्रकरणेन नियन्त्रिताभिधाशक्तयः शब्दास्तथापि द्वितीये ऽर्थे व्याख्यास्यमाने ऽभिधाशक्तिर्निरुद्धा सती सलेशमित्यनेन प्रत्युज्जीविता ।
अत्र सलेशं ससूचनमित्यर्थः, अल्पीभवनं हि सूचनमेव ।
हे केशव ! गोप स्वामिन् ! रागहृतयादृष्ट्येति ।
केशवगेन उपरागेण हृतया दृष्ट्येति वा सम्बन्धः ।
स्खलितास्मि खण्डितचरित्रा जातास्मि ।
पतितामिति भर्तृभावं मां प्रति ।
एक इत्यसाधारणसौभाग्यशाली त्वमेव ।
यतः सर्वासामबलानां मदनविधुरमनसामीर्ष्याकालुष्यनिरासेन सेव्यमानः सन् गतिः जीवितरक्षोपाय इत्यर्थः ।
एवं श्लेषालङ्कारस्य बालप्रिया परागपदव्याख्यानं--धूलीति ।
मार्गे स्खलितास्मीति सम्बन्धः ।
एकशब्दो मुख्यार्थक इत्याशयेनाह--अतिशयेन बलवानिति ।
विषमेष्वित्यस्य व्याख्यानम्--निम्नोन्नतेष्विति ।
खिन्नमनसामित्यस्य भावार्थविवरणम्--गन्तुमित्यादि ।
ऽएते शब्दाऽ इति सम्बन्धः ।
केशवगोपरागादिशब्दा इत्यर्थः ।
ऽप्रकरणेनेऽत्यस्य ऽनियन्त्रितेऽत्यनेन निरुद्धेऽत्यनेन च सम्बन्धः ।
अभिधाशक्तिरिति ।
एतेषामिति शेषः ।
प्रत्युज्जीविता प्रतिप्रसाविता ।
प्रत्युज्जीवनं विवृणोति--अत्रेत्यादि ।
सलेशमित्यस्य ससूचनमित्यर्थः ।
कथं लभ्यत इत्यत्राह--अल्पीति ।
द्वितीयमर्थं व्याचष्टे---हे केशवेत्यादि ।
केशव गोप इति सम्बोधनद्वयमिति भावः ।
स्वामिन्निति ऽनाथेऽत्यस्य विवरणम् ।
प्रकारान्तरेण आह--केशवगेनेत्यादि ।
केशवगेन केशवविषयकेण उपरागेण अनुरागेण ।
पत्युर्भावः पतिता तामित्याह---भर्तृभावमिति ।
ऽअत्रान्तरऽ इत्वादिगद्यं ह र्षचरिते द्वितीयोच्छ्वासे स्थितम् ।
मासद्बयमिति ।
चैत्रवैशाखात्मकमासद्वयमित्यर्थः ।
धवलान्यट्टानि येन स चासौ हासश्च धवलाट्टहासः, फुल्लाः विकसिताः मल्लिकाः फुल्लमल्लिकाः फुल्लमल्लिकानां धवलाट्टहासो यत्र स इति व्यधिकरणो बहुव्रीहिरिति व्याच्ष्टे---धवलानीत्यादि ।
एवञ्जातीयकः सर्व एव भवतु कामं वाच्यश्लेषस्य विषयः ।
यत्र तु सामर्थ्याक्षिप्तं सदलङ्कारान्तरं शब्दशक्त्या प्रकाशते स सर्व एव ध्वनेर्विषयः ।
मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0