भाषा

ENहिગુ
ग्रंथ पाठ

ध्वन्यालोक (टीका सहित) · भाग 201220

यत इत्यर्थः ।
तत इति शेष ।
ऽआविद्धंऽ कुटिलम् ।
यद्वा यथाविद्धमित्येकं पदम् ।
कौटिल्यमनतिक्रम्येत्यर्थः ।
ऽस्खलितमभिसन्धायेऽति नदीपक्षे शिलादिस्खलनं प्राप्येत्यर्थः ।
लोचने--तरङ्गा इत्यादि ।
एवं क्षुभितविहागश्रेणिरेव रशना यस्या इति बोध्यम् ।
अपराधा इति ।
ममेति शेषः ।
मानिनीति ।
कोपवतीत्यर्थः ।
असहिष्णुरिति ।
असहिष्णुत्वादिवेत्यर्थः ।
तन्वीति ।
अस्मात्पूर्वमियमिति वर्तते ।
ऽइयं, लता ।
ऽचण्डीऽ आतिकोपना ।
अत एव पादपतितं मामवधूय तिरस्कृत्य स्थिता ।
अत एव जातानुतापा ।
ऽसाऽ उर्वशी इव लक्ष्यते ।
एतदङ्गमुत्प्रेक्षात्रयं तन्वीत्यादिनोच्यते ।
तन्वीत्युभयसाधारणम् ।
इयं लता ।
मेघजालैरार्द्राः पल्लवा यस्यां तस्य भावः तत्ता, तया हेतुना अश्रुभिः धौतः अधरो यस्याः सा इव ।
स्वकालविरहाद्विश्रान्तपुष्पोद्गमा इयमाभरणैः शून्येव ।
नायिकाया आभरणत्यागमुपपादयति---वियोगेति ।
वियोगकार्श्यादनुतापाटच्चेत्यर्थः ।
चिन्ता मौनमिवाश्रिता मधुकृतां शब्दैर्विना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव स ॥
यथा वा---- तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां क्षेमं भद्र कलिन्दशैलतनयातीरे लतावेश्मनाम् ।
विच्छिन्ने स्मरतल्पकल्पनमृदुच्छेदोपयोगे ऽधुना ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः ॥
लोचनम् उपायचिन्तनार्थं मौवं, किमिति पादपतितमपि दयितमवधूतवत्यहमिति च चिन्तया मौनम् ।
चण्डी कोपना ।
एतौ श्लोकौ नदीलतावर्णनपरौ तात्पर्येण पुरूरवस उन्मादाक्रान्तस्योक्तिरूपौ ।
तेषामिति ।
हे भद्र ! तेषमिति ये ममैव हृदये स्थितास्तेषाम् ।
गोपवधूनां गोपीनां ये विलाससुहृदो नर्मसचिवास्तेषाम् ।
प्रच्छन्नानुरागिणीनां हि नान्यो नर्मसुहृद्भवति ।
राधायाश्च सातिशयं प्रेमस्थानमित्याह---राधास्भोगानां ये साक्षाद्द्रष्टारः, कलिन्दशैलतनया यमुना तस्यास्तीरे लतागृहाणां क्षेमं कुशलमिति काक्वा प्रश्नः ।
एवं तं पृष्ट्वा गोपदर्शनप्रबुद्धसंस्कार आलम्बनोद्दीपनविभावस्मरमात्प्रबुद्धरतिभावमात्मगतमौत्सुक्यगर्भंमाह द्वारकागतो भगवान् कृष्णः---स्मरतल्पस्य मदनशय्यायाः कल्पनार्थं मृदु सुकुमारं कृत्वा यश्छेदस्त्रोटनं स एवोपयोगः साफल्यम् ।

अथ च स्मरतल्पे यत्कल्पनं क्लॄप्तिः स एव मृदुः सुकुमार उत्कृष्टश्छेदोपयोगस्त्रोटनफलं तस्मिन्विच्छिन्ने ।
मय्यनासीने का स्मरतल्पकल्पनेति ।
भावः ।
अत एव परस्परानुरागनिश्चयगर्भमेवाह---ते जान इति ।
वाक्यार्थस्यात्र कर्मत्वम् ।
अधुना बालप्रिया ऽमधुकृतांऽ मृङ्गनां ऽशब्दैर्विनाऽ शब्दानामभावेन ।
इयं चिन्ता मौनमाश्रितेवेति ।
अत्र नायिकाया मौनं द्वेधा व्याचष्टे---उपायेत्यादि ।
उपायस्सङ्गमोपायः ।
तेषामिति ।
तेषामित्यनुभूताथकमित्याह----य इत्यादि ।
गोपेति गोपदर्शनेन प्रबुद्धा उद्बुद्धाः संस्काराः लतावेश्माद्यनुभवजनिताः संस्कारा यस्य सः ।
प्रबुद्द्येत्यादित्रयमाहेतिक्रियाविशेषणम् ।
ऽप्रबुद्धरतिभावऽ इत् च पाठः ।
रतिभावः गोपीविषयकः ।
कल्पनार्थमिति ।
निर्माणार्थमित्यर्थः ।
मृदुकृत्वेति ।
मृदुत्वाद्धेतोरित्यर्थः ।
अर्थान्तरं चाह---अथ चेति ।
स्मरतत्प इति ।
उत्तरीयादिकृत इति भावः ।
कॢप्तिरिति ।
विकिरणमित्यर्थः ।
सुकुमार इत्यस्यैव विवरणम्---उत्कृष्ट इति ।
विच्छिन्नत्वमुपपादयति----मयीति ।
अत एव कथितोपयोगविच्छेदादेव ।
परस्परेति ।
स्वस्य गोपीनां च यः इत्येवमादौ विषये ऽचेतनानां वाक्यार्थीभावे ऽपि चेतनवस्तुवृत्तान्तयोजनास्त्येव ।
अथ यत्र चेतनवस्तुवृत्तान्तयोजनास्ति तत्र रसादिरलङ्कारः ।
तदेवं सत्युपमादयो निर्विषयाः प्रविरलविषया वा स्युः ।
यस्मान्नास्त्येवासावचेतनवस्तुत्तान्तो यत्र चेतनवस्तुवृत्तान्तयोजनानास्त्यन्ततो विभावत्वेन ।
लोचनम् जरठीभवन्तीति ।
मयि तु सन्निहिते ऽनवरतकथितोपयोगान्नेमे जराजीर्णताखिलीकारं कदाचिदवाप्नुवन्तीति भावः ।
विगलन्ती नीला त्विड्येषामित्यनेन कतिपयकालप्रोषितस्याप्यौत्सुक्यनिर्भरत्वं ध्वनितम् ।
एवमात्मगतेयमुक्तिर्यदि वा गोपं प्रत्येव संप्रधारणोक्तिः ।
बहुभिरुदाहरणेर्महतो भूयसः प्रबन्धस्येति यदुक्तं तत्सूचितम् ।
अथेत्यादि ।
नीरसत्वमत्र मा भूदित्यभिप्रायेणेति शेषः ।
ननु यत्र चेतनवृत्तस्य सर्वथा नानुप्रवेशः स उपमादेर्विषयो भविष्यतीत्याशङ्क्याह--यस्मादित्यादि ।

अन्तत इति ।
स्तम्भपुललकाद्यचेतनमपि वर्ण्यमानमनुभावत्वाच्चेतनमाक्षिपत्येव तावत्, किमत्रोच्यते ।
अतिजडो ऽपि चन्द्रोद्यानप्रभृतिः स्वविश्रान्तो ऽपि वर्ण्यमानो ऽवश्यं चित्तवृत्तिविभावतां त्यक्त्वा बालप्रिया परस्परालम्बनो ऽनुरागः तन्निश्चयगर्भमेवेत्यर्थः ।
तन्निश्चयाभावे वक्ष्यमाणमनुपंपन्नं भवेत् गोपीनां पुरुषान्तररमणे तदुपयोगसम्भवादिति ।
भावः ।
ते इत्यस्य लतावेश्मसम्बन्धिन इत्यर्थः ।
जरठीभवन्ति जीर्णीभवन्तीत्यनेन गम्यमाह---मयीत्यादि ।
अनवरतेति ।
अनवरतो यः कथितोपयोगः पूर्वोक्तोपयोगः तस्य योगात् ।
नेम इति ।
इमे पल्लवाः ।
जरेति ।
जराजीर्मतया यः खिलीकारः वैवर्ण्यदिरूपस्तम् ।
विगलदिति शतृप्रत्ययेन गम्यमाह---कतिपयेति ।
प्रोषितस्येति ।
भगवत इति शेषः ।
औत्सुक्येति ।
औत्सुक्यमुत्कण्ठा दिदृक्षा वा ।
उदाहरमत्रयप्रदर्शनफलमाह---बहुभिरित्यादि ।
बहुभिः त्रिभिः ।
उदाहरणैः तत्सूचितमिति सम्बन्धः ।
महत इति वृत्तिस्थस्यानुवादः ।
तस्य व्याख्यानम्---भूयस इति ।
वृत्तावथेत्यस्य यदीत्यर्थः ।
तत्र रसादिरलङ्कारो यदीति योजना ।
अत्राभिप्रायं पूरणेन दर्शयति---नीरसत्वमिति ।
यस्मादित्यादिग्रन्थमवतारयति---नन्विति ।
ऽयत्रान्ततो विभावत्वेन चेतनवस्तुवृत्तान्तयोजना नास्ति असावचेतनवस्तुवृत्तान्तो नास्तीऽति वृत्तान्वयः ।
अन्ततो विबावत्वेन योजनेति वृत्ताबुक्तं, तदभिप्रायमाह---स्तम्भेत्यादि ।
वर्ण्यमानमचेतनमपि स्तम्भपुलकादीति योजना ।
चेतनमाक्षिपत्येव चित्तवृत्तिविशेषगमकत्वेन चेतनगमकं भवत्येव ।
तावदिति सम्प्रतिपत्तौ ।
किमत्रोच्यत इति ।
अनुभावस्य भावगमकतायाः प्रसिद्धत्वादत्र न किञ्जिद्वक्तव्यमित्यर्थः ।
विभावत्वेन योजनां विवृणोति----अतिजड इत्यादि ।
ऽवर्ण्यमानः स्वविश्रान्तो ऽपि चन्द्रोद्यानप्रभृतिरिऽति सम्बन्धः ।
स्वविश्रान्तः वाच्यार्थबोधेन स्वस्मिन् पर्यवसितः ।
चितेति ।
चित्तवृत्तिविशेषस्य तस्मादङ्गत्वेन च रसादीनामलङ्कारता ।
यः पुनरङ्गी रसो भावो वा सर्वाकारमलङ्कार्यः स ध्वनेरात्मेति ।

किञ्चि---
तम् अर्थम् अवलम्बन्ते ये ऽङ्गिनं ते गुणाः स्मृताः ।
अङ्गाश्रितास् त्व् अलङ्कारा मन्तव्याः कटकादिवत्
तमर्थमवलम्बन्ते ये ऽङ्गिनं ते गुणाः स्मृताः ।
अङ्गाश्रितास्त्वलङ्कारा मन्तव्याः कटकादिवत् ॥ 6 ॥
येतमर्थं रसादिलक्षणमङ्गिनं सन्तमवलम्बन्ते ते गुमाः शौर्यादिवत् ।
वाच्यवाचकलक्षणान्यङ्गानि ये पुनस्तदाश्रितास्ते ऽलङ्कारा मन्तव्याः कटकादिवत् ।
लोचनम् काव्ये ऽनाख्येय एव स्यात्; शास्त्रेतिहासयोरपि वा ।
एवं परमतं दूषयित्वा स्वमतमेव प्रत्याम्नायेनोपसंहरति--तस्मादिति ।
यतः परोक्तो विषयविभागो न युक्त इत्यर्थः ।
भावो वेति वाग्रहणात्तदाभासतत्प्रशमादयः ।
सर्वाकारमिति क्रियाविशेषणम् ।
तेन सर्वप्रकारमित्यर्थः ।
अलङ्कार्य इति ।
अत एव नालङ्कार इति भावः ॥ 5 ॥
अलङ्कार्यव्यतिरिक्तश्चालङ्कारो ऽभ्युपगन्तव्यः, लोके तथा सिद्धत्वात्, यथा गुणिव्यतिरिक्तो गुणः ।
गुणालङ्कारव्यवहारश्च गुणिन्यलङ्कार्ये च सति युक्तः ।
स चारस्मत्पक्ष एवोपपन्न इत्यभिप्रायद्वयेनाह---किञ्चेत्यादि ।
न केवलमेतावद्युक्तिजातं रसस्याङ्गित्वे, यावदन्यदपीति समुच्चयार्थः ।
कारिकाप्यभिप्रायद्वयेनैव योज्या ।
केवलं प्रथमाभिप्राये प्रथमं कारिकार्धं दृष्टान्ताभिप्रायेण व्याख्येयम् ।
एवं वृत्तिग्रन्थो ऽपि योज्यः ॥ 6 ॥
बालप्रिया उद्दीपनविभावतामित्यर्थः ।
शास्त्रेति ।
अनाख्येय इत्यनुषज्यते ।
न हि तदस्ति वस्तु यन्न किञ्जिच्चित्तवृत्तिविशेषमुद्बोधयतीति भावः ।
प्रत्याम्नायेन उक्तस्यैव पुनः कथनेन ।
आम्नायपदेन वेदवदस्य प्रामाण्यं द्योत्यते ।
वाग्रहणादिति ।
गृह्यन्त इति शेषः ।
अलङ्कार्य इत्यक्त्या गम्यामाह---अत एवेति ॥ 5 ॥
ऽकिञ्चेऽत्यादिग्रन्थमवतारयति----अलङ्कार्येत्यादि ।
अभिप्रायान्तरं चाह---गुणेति ।
स चेति ।
गुणालङ्कारव्यवहारश्चेत्यर्थः ।
किञ्चेत्यस्यार्थमाह---नेत्यादि ।
युक्तिजातं युक्तिसमूहः ।
अभिप्रायद्वयेनेति ।
उक्तेनेति भावः ।
योजनां दर्शयति---केवलमित्यादि ।

प्रथमाभिप्रायैति ।
अलङ्कार्यव्यतिरिक्तश्चालङ्कारो ऽभ्युपगन्तव्य इत्यभिप्राय इत्यर्थः ।
प्रथमं कारिकार्धमिति ।
तमर्थमित्याद्यर्धमित्यर्थः ।
दृष्टान्तेति ।
यता गुणिव्यतिरिक्तो गुण इति दृष्टान्तेत्यर्थः ।
द्वितीयाभिप्रायस्तु पूर्वोत्तरार्धाभ्यां गम्य इति भावः ।
वृत्तौ तमर्थमित्यस्य विवणं---ऽरसादिलक्षणम्ऽ इति ।
ऽअङ्गिनं सन्तऽमिति तद्विशेषणमङ्गीभूतमित्यर्थः ।
शौर्यादिवदिति दृष्टान्तो गम्यः ।
ऽतदाश्रिताऽ इति ।
अङ्गाश्रिता इत्यर्थः ॥ 6 ॥
तथा च---
शृङ्गार एव मधुरः परः प्रह्लादनो रसः ।
तन्-मयं काव्यम् आश्रित्य माधुर्यं प्रतितिष्ठति
शृङ्गार एव मधुरः परः प्रह्लादनो रसः ।
तन्मयं काव्यमाश्रित्य माधुर्यं प्रतितिष्ठति ॥ 7 ॥
लोचनम् ननुशब्दार्थयोर्माधुर्यादयो गुणाः, तत्कथमुक्तं रसादिकमङ्गिनं गुणा आश्रिता इत्याशङ्क्याह--तता चेत्यदि ।
तेन वक्ष्यमाणेन बुद्धित्थेन परिहारप्रकारेणोपपद्यते चैतदित्यर्थः ।
शृङ्गार एवेति ।
मधुर इत्यत्र हेतुमाह--परः प्रह्लादन इति ।
रतौ हि समस्तदेवतिर्यङ्नरादिजातिष्वविच्छिन्नैव वासनास्त इति न कश्चित्तत्र तादृग्यो न हृदयसंवादमयः, यतेरपि हि तच्चमत्कारो ऽस्त्येव ।
अत एव मधुर इत्युक्तम् ।
मधुरो हि शर्करादिरसो विवेकिनो ऽविवेकिनां व् स्वस्थस्यातुरस्य वा झटिति रसनानिपतितस्तावदभिलषणीय एव भवति ।
तन्मयमिति ।
स शृङ्गार आत्मत्वेन प्रकृतो यत्र व्यङ्ग्यतया ।
काव्यमिति ।
शब्दार्थावित्यर्थः ।
प्रतितिष्ठतीति ।
प्रतिष्ठां गच्छतीति यावत् ।
बालप्रिया ऽतथाचेऽत्यादिग्रन्थमवतारयति----नन्वित्यादि ।
शब्दार्थयोरित्यादि ।
तथैव प्राचीनैरुक्तत्वादिति भावः ।
तथाचेत्येतत्प्रकृतानुगुण्येन व्याचष्टे---तेनेत्यादि ।
कारिकां व्याचष्टे---मधुर इत्यादि ।
मधुरः माधुर्याख्यगुणविशिष्टः ।
हेतुमिति ।
ज्ञापकमित्यर्थः ।
परप्रह्लादनत्वमुपपादयति---रतावित्यादि ।
रतौ जायमानायामिति शेषः ।

वासनेति ।
संस्कारापरपर्याया सूक्ष्मावस्थेत्यर्थः ।
इतीति हेतौ ।
नेत्यादि ।
तत्र रतौ ।
हृदयसंवादमयः प्राचुर्येण हृदयसंवादशाली ।
यस्तत्र हृदयसंवादमयो न तादृक्कश्चिन्नेत्यन्वयः ।
सर्वेषां रतौ हृदयसंवादो भवतीत्यर्थः ।
तच्चमत्कार इति ।
रतौ हृदयसंवाद इत्यर्थः ।
अवतारिकोक्तं योजयति--अत इत्यादि ।
उक्तं दृष्टान्तेन विशदयति---मधुरो हीत्यादि ।
कारिकायां मधुर इत्यादिना अयमर्थो ऽपि दृष्टान्तविधया विवक्षित इति भावः ।
विवेकिनो ऽविवेकिनो वेति ।
सर्वस्यैवेत्यर्थः ।
अभिलषणीय एवेति ।
प्रह्लादन एवेति भावः ।
तन्मयमित्यत्र "तत्प्रकृतवचने मयडि"ति सूत्रेण मयडिति व्याचष्टे--स इत्यादि ।
आत्मत्वेनेत्यस्योपपादकं---व्यङ्ग्यतयेति ।
लोचनम् एतदुक्तं भवति--वस्तुतो माधुर्यं नाम शृङ्गारादे रसस्यैव गुणः ।
तन्मधुररसाभिव्यञ्जकयोः बालप्रिया कारिकाभावार्थमाह---एतदुक्तमित्यादि ।
शृङ्गारादेरित्यादिपदेन करुणस्य सङ्ग्रहः ।
तदिति ।
माधुर्यमित्यर्थः ।
उपचरितं साक्षात्सम्बन्धेनारोपितम् ।
फलितमाह---मधुरेत्यादि ।
शृङ्गार एव रसान्तरापेक्षया मधुरः प्रह्लादहेतुत्वात् ।
तत्प्रकाशनपरशब्दार्थतया काव्यस्य स माधुर्यलक्षणो गुणाः ।
श्रव्यत्वं पुनरोजसो ऽपि साधारणमिति ।
शृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत् ।
माधुर्यम् आर्द्रतां याति यतस् तत्राधिकं मनः
शृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत् ।
माधुर्यमार्द्रतां याति यतस्तत्राधिकं मनः ॥ 8 ॥
लोचनम् व्यञ्जकयोः शब्दार्थयोरुपचरितं मधुरशृङ्गाररसाभिव्यक्तिसमर्थता शब्दार्थयोर्माधुर्यमिति हि लक्षणम् ।
तस्माद्युक्तमुक्तं ऽतमर्थम्ऽ इत्यादि ।
कारिकार्थं वृत्त्याह--शृङ्गार इति ।
ननु ऽश्रव्यं नातिसमस्तार्थशब्दं मधुरमिष्यतेऽइति माधुर्यस्य लक्षणम् ।
नेत्याह--श्रव्यत्वमिति ।
सर्वं लक्षणमुपलक्षितम् ।
ओजसो ऽपीति ।

ऽयो यः शस्त्रंऽ इत्यत्र हि श्रव्यत्वमसमस्तत्वं चास्त्येवेति भावः ॥ 7 ॥
सम्भोग शृङ्गारान्मदुरतरो विप्रलम्भः, ततो ऽपि मधुरतमः करुम इति तदभिव्यञ्जनकौशलं शब्दार्थयोर्भधुरतरत्वं मधुरतमत्वं चेत्यभिप्रायेणाह--शृङ्गार इत्यादि ।
करुणेचेति चशब्दः क्रममाह ।
प्रकर्षवदिति ।
उत्तरोत्तरं तरतमयोगेनेति भावः ।
आर्द्रतामिति ।
सहृदयस्य चेतः स्वाभाविकमनाविष्टत्वात्मकं काठिन्यं क्रोधादिदोप्तरूपत्वं बालप्रिया शृङ्गारेति ।
शृङ्गारादीत्यर्थः ।
लक्षणमिति ।
स्वरूपमित्यर्थः ।
अनेन ऽतत्प्रकाशनेऽत्यादि वृत्यर्थो दर्शितः ।
वृत्तौ ऽरसान्तरापेक्षया प्रह्लादहेतुत्वादिऽति सम्बन्धः ।
लोचने--नन्वित्यादि ।
नातिसमस्तार्थशब्दं मधुरमिति ।
काव्यमिति शेषः ।
इतीति ।
इति भामहोक्तमित्यर्थः ।
लक्षणमिति ।
श्रव्यत्वादिघटितलक्षणमित्यर्थः ।
एतदन्तः शङ्काग्रन्थः ।
नेत्याहेति ।
उक्तमतिव्याप्त्या लक्षणं न भवतीत्याहेत्यर्थः ।
सर्वमिति ।
श्रव्यमित्यादिनोक्तं सर्वमित्यर्थः ।
ओजस इति ।
ओजस्विनः काव्यस्येत्यर्थः ।
तदुदाहृत्यातिव्याप्तिं दर्शयति--यो य इत्यादि ।
पद्यमिदं वृत्तावुदाहरिष्यते ॥7॥
अवतारयति--सम्भोगेत्यादि ।
इतीति हेतौ ।
तदभीत्यादि ।
तत्पदेन मधुरतरस्य मधुरतमस्य च रसस्य परामर्शः ।
क्रममाहेति ।
तथा च क्रमेम प्रकर्षवदित्यर्थः ।
तमेवाह---उत्तरोत्तरमिति ।
आर्द्रतामेतीत्येतद्व्याचष्टे---सहृदयस्येत्यादि ।
ऽचेतस्त्यजतीऽति सम्बन्धः ।
स्वाभाविकं काठिन्यमिति ।
यथोक्तं भक्तिरसायने---"चित्तद्रव्यं तु कठिनं स्वभावादिऽति ।
क्रोधादीति ।

क्रोधाद्याहितं दीप्तत्वमित्यर्थः ।
विप्रलम्भशृङ्गारकरुमयोस्तु मादुर्यमेव प्रकर्षवत् ।
सहृदयहृदयावर्जनातिशयनिमित्त्वादिति ।
रौद्रादयो रसा दीप्त्या लक्ष्यन्ते काव्य-वर्तिनः ।
तद्-व्यक्ति-हेतू शब्दार्थाव् आश्रित्यौजो व्यवस्थितम्
रौद्रादयो रसा दीप्त्या लक्ष्यन्ते काव्यवर्तिनः ।
तद्व्यक्तिहेतू शब्दार्थावाश्रित्योजो व्यवस्थितम् ॥ 9 ॥
रौद्रादयो हि रसाः परां दीप्तिमुज्जवलतां जनयन्तीति लक्षणया त लोचनम् विस्मयहासादिरागित्वं च त्यजतीत्यर्थः ।
अधिकमिति ।
क्रमेणेत्याशयः तेन करुणे ऽपि सर्वथैव चित्तं द्रवतीत्युक्तं भवति ।
ननु करुणे ऽपि यदि मधुरिमास्ति, तर्हि पूर्वकारिकायां शृङ्गार एवेत्येवकारः किमर्थः ।
उच्यते---
नानेन रसान्तरं व्यवच्छिद्यते; अपि त्वात्मभूतस्य रसस्यैव परमार्थतो गुणा माधुर्यादयः, उपचारेण तु शब्दार्थयोरित्येवकारेण द्योत्यते ।
वृत्त्यार्थमाह---विप्रलम्भेति ॥ 8 ॥
रौद्रेत्यागदि ।
आदिशब्दः प्रकारे ।
तेन वीराद्भुतयोरपि ग्रहणम् ।
दीप्तिः प्रतिपत्तुर्हृदये विकासविस्तारप्रज्वलनस्वभावा ।
सा च मुख्यतया ओजश्शब्दवाच्या ।
बालप्रिया विस्मयेति ।
रागित्वं रूषितत्वं विस्मयहासाद्याहितं विक्षेपमित्यर्थः ।
त्यजतीति ।
तथा चार्द्रता ना चित्तस्य शृङ्गारादिचर्वणाजन्यः काठिन्यादिपरित्यागः, तेन द्रुत्याख्यो वृत्तिविशेषो वेति भावः ।
स्पष्टमिदं काव्यप्रदीपोद्योते ।
क्रमेणेति ।
आर्द्रतायाः क्रमेणाधिक्यमिति भावः ।
सर्वथैव अत्यधिकमेव ।
किमर्थ इति ।
किंशब्दः प्रश्ने ।
कः अर्थो यस्य सः ।
अन्ययोगव्यवच्छेदरूपार्थस्य बाधादिति भावः ।
प्रतिवक्ति---उच्यत इत्यादि ।
एवकारश्शब्दतदर्थव्यवच्छेदपर इति भावः ।
वृत्तौ ऽप्रकर्षवदेवेऽति योजना ॥ 8 ॥
प्रकार इति ।
सादृश्य इत्यर्थः, न तु प्राथम्ये ।
रौद्रानन्तरं विरादेरेव पाठ इत्यत्रानियमादिति भावः ।
वीराद्भुतयोरिति ।
यद्यत्रादिपदेनाद्भुतं गृह्यते, तदा तस्य दीप्तिजनकत्वेन ऽक्रोधादिदीप्तरूपत्वं विस्मयहासादीऽति पूर्वग्रन्थे क्रोधादीत्यादिपदेन विस्मयस्य ग्राह्यत्वात्पुनर्विस्मयेत्युक्तिरसङ्गता स्यादतो ऽत्र वीरबीभत्सयोरिति पाठेन भाव्यम् ।
उत्ततरत्र " हास्यभयानकबीभत्सशान्तेष्वि"त्यत्र "बीभत्से ऽप्येवमि"त्यत्र च बीभत्सपदस्थाने अद्भतपदं च पठनीयं, तथा सति काव्यप्रकाशादिसंवादो ऽपि भवति ।

तत्र शान्ते माधुर्यमात्रकथनं मतान्तराभिप्रायेण योज्यमिति प्रतिभाति ।
विकासेति ।
विकासरूपो यो विस्तारः तद्रूपं यत्प्रज्वलनं तत्स्वभाव तत्स्वरूपा दीप्तिर्नाम तथाविधा एव दीप्तिरित्युच्यते ।
तत्प्रकाशनपरः शब्दो दीर्घसमासरचनालङ्कृतं वाक्यम् ।
लोचनम् तदास्वादमया रौद्राद्याः, तया दीप्त्या आस्वादविशेषात्मिकया कार्यरूपया लक्ष्यन्ते रसान्तरात्पृथक्तया ।
तेन कारणे कार्योपचाराद्रौद्रादिरेवौजःशब्दवाच्यः ।
ततो लक्षितलक्षणया तत्प्रकाशनपरः शब्दो दीर्घसमासरचनवाक्यरूपो ऽपि दीप्तिरित्युच्यते ।
यथा बालप्रिया काचिच्चित्तवृत्तिरित्यर्थः ।
सा चेत्यादि ।
"ओजो दीप्ता" वित्यमरः ।
तदास्वादमया इति ।
दीप्तिरूपचित्तवृत्तिजनका इत्यर्थः ।
आस्वादविशेषात्मिकयेति ।
चित्तवृत्तिविशेषरूपयेत्यर्थः ।
कार्यरूपयेति ।
रौद्रादिरसचर्वणाजन्ययेत्यर्थः ।
लक्ष्यन्त इति ।
ज्ञायन्त इत्यर्थः ।
पूरयति---रसेति ।
पृथक्तया भिन्नत्वेन ।
ऽकारणे कार्योपचारादेव रौद्रादिरोजःशब्दवाच्यऽ इति योजना ।
एवकारो ऽर्प्यर्थको वा ।
ओजस्विकाव्यमित्यादिव्यवहारस्थमोजःपदं लक्षणया रौद्राद्यर्थकमित्यर्थः ।
अनेन रौद्रादय इत्यादिवृत्तिग्रन्थो विवृतः ।
वृत्तौ ऽलशणयैवेऽति योजना ।
दीप्तिरित्युच्यन्त इत्यत्र दीप्तिशब्द ओजःपदोपलक्षकः ।
तत्प्रकाशनेति ।
रौद्रादिप्रकाशनेत्यर्थः कारिकोत्तरार्धव्याख्यारूपमेतदादिवृत्तिग्रन्थं विवृणोति--तत इत्यादि ।
लक्षणाया दीप्तिरित्युज्यत इति पदानामनुषङ्गं मनसिकृत्याह--लक्षितलक्षिणयेत्यादि ।
लक्षितेनार्थेन लक्षणा लक्षित लक्षणेति केचित् ।
शक्यार्थस्य परम्परासम्बन्धो लक्षितलक्षणेत्यपरे ।
तत्प्रकाशनपरः शब्द इत्यस्यैव विविरणं दीर्घेत्यादीति स्फुटीकर्तुमाह--दीर्घेति ।
दीप्तिरित्युच्यत इति यथा---- चञ्चद्भुजभ्रमितचण्डगदाभिधात-- सञ्चूर्णितोरुयुगलस्य सुयोधनस्य ।
स्त्यानावबद्धधनशोणितशोमपाणि-- रुत्तंसयिष्यति कचांस्तव देवि भीमः ॥
लोचनम् ऽचञ्चदिऽत्यादि ।
तत्प्रकाशनपरश्चार्थः प्रसन्नैर्गमकैर्वाचकैरभिधीयमानः समासानपेक्ष्यपि दीप्तिरित्युच्यते ।
यथा-ऽयो यःऽ इत्यादि ।
चञ्चदिति ।
चञ्चद्भ्यां वेगादावर्तमानाभ्यां भुजाभ्यां भ्रमिता येयं चण्डा दारुणा गदा तया यो ऽभितः सर्वत ऊर्वोर्घातस्तेन सम्यक् चूर्णितं पुनरनुत्थानोपहतं कृतमूरुयुगलं युगपदेवोरुद्वयं यस्य तं सुयोधनमनादृत्यैव स्त्यानेनाश्यानतया न तु कालान्तरशुष्कतयावबद्धं हस्ताभ्यामविगलद्रूपमत्यन्तमाभ्यन्तरतया घनं न तु रसमात्रस्वभावं यच्छेणितं रुधिरं तेन शोणौ लोहितौ पाणी यस्य सः ।
अत एव स भीमः कातरत्रासदायी ।

तवेति ।
यस्यास्तत्तदपमानजातं कृतं देव्यनुचितमपि तस्यास्तव कचानुत्तंसयिष्यत्युत्तंसवतः करिष्यति, वेणीत्वमपहरन् करविच्युतशोणितशकलैर्लोहितकुसुमापीडेनेव योजयिष्यतीत्युत्प्रेक्षा ।
देवीत्यनेन कुलकलत्रखिलीकारस्मरमकारिणा क्रोधस्यैवोद्दीपनविभावत्वं कृतमिति नात्र शृङ्गारशङ्का कर्तव्या ।
सुयोधनस्य चानादरणं द्वितीयगदाघातदानाद्यनुद्यमः ।
सच सञ्चूर्णितोरुत्वादेव ।
स्त्यानग्रहणेन द्रौपदीमन्युप्रक्षालने त्वरा सूचिता ।
समासेन च सन्ततवेगवहनस्वभावात् बालप्रिया दीप्तिपदमोजःपदोपलक्षकम् ।
ऽप्रसन्नैऽरित्यस्य व्याख्यानम्--गमकैरिति ।
झटित्यर्थबोधकैरित्यर्थः ।
सुयोधनस्येति "षष्ठी चानादर" इत्यनेन षष्ठीत्याह---सुयोधनमनादृत्येति ।
स्त्यानेनेत्यस्य विवरणम्---आश्यानतयेति ।
घनीभावेनेत्यर्थः ।
न त्वित्यादि ।
कालान्तरशुष्कतयाप्यवबद्धं भवति तथा नेत्यर्थः ।
अवबद्धमित्यस्य व्याख्यानम्---हस्ताभ्यामित्यादि ।
अत्यन्तमित्यादि ।
अत्यन्ताभ्यन्तरत्वमत्र घनत्वमित्यर्थः ।
कातरेति ।
कातरो भीरुः ।
देव्यनुचितमप्यवमानजातमित्यन्वयः ।
देव्याः कृताभिषेकाया अनुचितं देव्यनुचितम् ।
उत्तंसवत इति ।
उत्तंसः शेखरः ।
करेति ।
कराद्विच्युतैः गलितैः शोणितशकलैः रक्तशकलैः ।
लोहितकुसुमेति ।
रक्तपुष्पेत्यर्थः ।
उत्प्रेक्षेति सूचितेत्यस्यापकर्षः ।
कुलेति ।
खिलीकारो ऽपकारो सुयोधनप्रेरितदुश्शासनकर्तृककेशाकर्षणादिः ।
त्वरेति ।
भीमसेनत्वरेत्यर्थः ।
सूचितेति ।
स्त्यानावस्थायामेव उत्तंसीकरणोद्यमादिति भावः ।
अत्र समास ओजोव्यञ्जक इति दर्शयति---समासेनेत्यादि ।
समासेन चञ्जदित्यादिना ।
सन्ततवेगेत्यादि ।
समासस्य तत्प्रकाशनपरश्चार्थो ऽनपेक्षितदीर्घसमासरचनः प्रसन्नवाचकाभिधेयः ।
यथा---- यो यः शस्त्रं बिभिर्ति स्वभुजगुरुमदः पाण्डवीनां चमुनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा ।
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तको ऽहम् ॥

इत्यादौ द्वयोरोजस्त्वम् ।
लोचनम् तावत्येव मध्ये विश्रान्तिमलभमाना चूर्णितोरुद्वयसुयोधनानादरणपर्यन्ता प्रतीतिरेक्त्वेनैव ।
भवतीत्यौद्धत्यस्य परं परिपोषिका ।
अन्ये तुसुयोधनस्य सम्बन्धि यत्स्त्याना वबद्धं घनं शोणितं तेन शोणपाणिरिति व्याचक्ष्ते ।
य इति ।
स्वभुजयोर्गुरुर्भदो यस्य चमुनां मध्ये ऽर्जुनादिरित्यर्थः ।
पाञ्चालराजपुत्रेम धृष्टद्युम्नेन द्रोणस्य व्यापादनात्तत्कुलं प्रत्यधिकः क्रोधावेशो ऽश्वत्थाम्नः ।
तत्कर्मसाक्षीति कणप्रभृतिः ।
रमे सङ्कग्रामे यः प्रतीपं प्रतिकूलं कृत्वास्ते स एवं विधो यदि सकलजगदन्तको भवति तस्याप्यहमन्तकः किमुतान्यस्य मनुष्यस्य देवस्य बालप्रिया द्रुतं ससंहितमुच्चरितत्वेनाविच्छिन्नवेगशालित्वादित्यर्थः ।
तावत्येवेति ।
प्रतीतिविशेषणं वेगवत्येवेत्यर्थः ।
चूर्णितेत्यादि ।
गदाभ्रममप्रभृति तदनादरणपर्यन्तार्थविषियिकेत्यर्थः ।
प्रतीतिरिति ।
सहृदयप्रतीतिरित्यर्थः ।
एकत्वे व भवतीति ।
एकैव भवतीत्यर्थः ।
एकघन इव भातीति च पाठः औद्धत्यस्येति ।
वक्तृगतधीरोद्धतत्वस्येत्यर्थः ।
भीमगतक्रोधस्येति यावत् ।
केचित्तु सुयोधनस्येति शेषे षष्ठी, शोणितमित्यनेनास्य सम्बन्ध इत्याहुः तन्मतमाह---अन्ये त्विति ।
चरतीति लडन्तमिति कृत्वा व्याचष्टे---आचरतीति ।
करोतीत्यर्थः ।
तत्सप्तम्यन्तशत्रन्तमिति कृत्वाह---यद्वेति ।
तस्यापीत्यपिशब्दार्थमाह--किमुतेत्यादि ।
वृत्तावनपेक्षितदीर्घसमासरचनः प्रसन्नवाचकाभिधेयो ऽर्थश्च तत्प्रकाशनपर
समर्पकत्वं काव्यस्य यत् तु सर्व-रसान् प्रति ।
स प्रसादो गुणो ज्ञेयः सर्व-साधारण-क्रियः
समर्पकत्वं काव्यस्य यत्तु सर्वरसान् प्रति ।
स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियाः ॥ 10 ॥
लोचनम् वा ।
अत्र पृथग्भूतैरेव क्रमाद्विमृश्यमानैरर्थैः पदात्पदं क्रोधः परां धारामाश्रित इत्यसमस्ततैव दीप्तिनिबन्धनम् ।
एवं माधुर्यदीप्ती परस्परप्रतिद्वन्द्वितया स्थिते शृङ्गारादिरौद्रादिगते इति प्रदर्शयता तत्समावेशवैचित्र्यं हास्यभयानकबीभत्सशान्तेषु दर्शितम् ।
हास्यस्य शृङ्गाराङ्गतया माधुर्यं प्रकृष्टं विकासधर्मतया चौजो ऽपि प्रकृष्टमिति साम्यं द्वयोः ।
भयानकस्य मग्नचित्तवृत्तिस्वभावत्वे ऽपि विभावस्य दीप्ततया ओजः प्रकृष्टं माघुर्यमल्पम् ।
बीभत्से ऽप्येवम् ।
शान्ते तु विभाववैचित्र्यात्कदाचिदोजः प्रकृष्टं कदाचिन्माधुर्यमिति विभागः ॥9॥
समर्पक्त्वं सम्यगर्पक्त्वं हृदयसंवादेन प्रतिपत्तॄन् प्रति स्वात्मावेशेन व्यापारकत्वं झटिति शुष्ककाष्ठाग्निदृष्टान्तेन ।
अकलुषोदकदृष्टन्तेन च तदकालुष्यं प्रसन्नत्वं बालप्रिया इति योजना ।
एतदुदाहरणे योजयति---अत्रेत्यादि ।

पृथग्भूतैरिति ।
भिन्नभिन्नपदबोध्यैरित्यर्थः ।
क्रमादिति ।
क्रमेम क्रमेणेत्यर्थः, विरम्य विरम्येति यावत् ।
विमृश्यमानैरर्थैरिति ।
वक्त्रा तत्तत्प्रकारेम विचार्यमाणैरर्थैरित्यर्थः ।
क्रोध इति ।
वक्तृगतक्रोध इत्यर्थः ।
धारामिति ।
कोटिमित्यर्थः ।
दीप्तिमिति पाठे प्रकाशमित्यर्थः ।
आश्रित इति ।
सहृदयानां भातीति शेषः ।
असमस्ततेति ।
पदानां समासाभावो ऽल्पसमासश्चेत्यर्थः ।
दीप्तिनिबन्धनमिति ।
ओजोव्यञ्जकमित्यर्थः ।
प्रसङ्गादाह---एवमित्यादि ।
माधुर्यदीप्ती इति ।
माधुर्यौजसी इत्यर्थः ।
परस्परेति ।
मिथोविरोधितयेत्यर्थः ।
शृङ्गारादीति ।
यथासंख्यं बोध्यम् ।
तत्समावेशेति ।
माधुर्यौजस्ममावेशेत्यर्थः ।
उक्तमुपपादयति---हास्यस्येत्यादि ।
शृङ्गाराङ्गतयेति ।
शृङ्गारविभावादिप्रभवत्वस्य विकासध्रमतयेति वीरादिप्रभवत्वस्य च उपलक्षणम् ॥ 9 ॥
समर्पकत्वमित्यादि ।
काव्यस्य सर्वरसान् प्रति सर्वरसानाम् ।
समर्पकत्वं तु यत् प्रतिपत्तृहृदये सर्वरसकर्मकं झटिति यदर्पणं व्यापनरूपं तत्कर्तृत्वं तु यदिति यावत् ।
सः सर्वसाधारणी क्रिया वर्तनरूपा यस्य सः ।
प्रसादो गुणो ज्ञेयऽ इति कारिकार्थः ।
एतमर्थं विवृणोति---समर्पकत्वमित्यादि ।
हृदयसंवादेनेत्यावेशे हेतुः ।
प्रतिपत्तॄनिति ।
तद्धृदयानीत्यर्थः ।
स्वात्मेति ।
स्वस्वरूपेत्यर्थः ।

सर्वरसानामित्यस्यात्रापकर्षः ।
झटिति व्यापकत्वमिति सम्बन्धः ।
अत्र दृष्टन्तमाह---शुष्केत्यादि ।
यथा शुष्ककाष्ठमग्रिः, यथा वा अकलुषं स्वच्छं वस्त्रादि उदकं झटिति व्याप्नोति तथेत्यर्थः ।
तदकालुष्यमिति ।
झटिति स्वात्मावेशेन व्यापकत्वरूपं स्वच्छत्वमित्यर्थः ।
प्रसादस्तु स्वच्छता शब्दार्थयोः ।
स च सर्वरससाधारणो गुणः सर्वरचनासाधारणश्च व्यङ्ग्यार्थापेक्षयैव मुख्यतया व्यवस्थितो मन्तव्यः ।
लोचनम् नाम सर्वरसानां गुणः ।
उपचारात्तु तथाविधे व्यङ्ग्ये ऽर्थे यच्छब्दार्थयोः समर्पक्त्वं तदपि प्रसादः ।
तमेव व्याचष्टे---प्रसादेति ।
ननु रसगतो गुमस्तत्कथं शब्दार्थयोः स्वच्छतेत्याशङ्क्याह---स चेति ।
चशब्दो ऽवधारणे ।
सर्वरससाधारण एव गुणः ।
स एव च गुण एवंविधः ।
सर्वायेयं रचना शब्दगता चार्थगता च समस्ता चासमस्ता च तत्र साधारमः ।
मुख्यतयेति ।
अर्थस्य तावत्समर्पक्त्वं व्यङ्ग्यं प्रत्येव सम्भवति नान्यथा ।
शब्दस्यापि स्ववाच्यार्पक्त्वं नाम कियदलौकिकं येन गुमः स्यादिति भावः ।
एवं माधुर्यौजःप्रसादा एव त्रयो गुणा उपपन्ना भामहाभिप्रायेण ।
ते च प्रतिपत्त्रास्वादमया मुख्यतया तत आस्वाद्ये उपचरिता रसे ततस्तद्व्यञ्जकयोः शब्दार्थयोरिति तात्पर्यम् ॥ 10 ॥
बालप्रया नन्वेवं प्रसादो गुणः काव्यनिष्ठत्वेन कथमुक्त इत्यत आह---उपचारादित्यादि ।
तथाविधे रसरूपे ।
व्यङ्ग्ये ऽर्थ इति ।
तद्विषयकमित्यर्थः ।
समर्पकत्वं झटित्यर्पकत्वम् ।
तदिति ।
झटिति रसादिव्यङ्ग्यार्पकत्वमित्यर्थः अपीति समुच्चये ।
गुण इति ।
प्रसाद इत्यर्थः ।
कथमिति ।
शब्दर्थयोः स्वच्छत्वं कथं प्रकादो भवतीत्यर्थः ।
सः सर्वरससाधारण एव गुणः, स एव सर्वरससाधारणो गुण इति द्वेधावधारणमत्रेत्याह---सर्वेत्यादि ।
अत्राद्यैनैवकारेण शब्दार्थसाधारण्यस्य, द्वितीयेन माधुर्यौजसोश्च व्यवच्छेदः ।
गुण एवंविध इति ।
सर्वरससाधारणो गुण इत्यर्थः ।
सर्वरचनेत्यादिकं व्याचष्टे---सर्वेत्यादि ।
वृत्तौ ऽव्यङ्ग्यार्थेऽत्यादि ।
स इत्यनुषङ्गः ।
एतदुपपादयति---अर्थस्येत्यादि ।

अर्थस्य वाच्यार्थस्य ।
तावदित्यादि ।
वाच्यार्थगतं व्यङ्ग्यसमर्पक्त्वं नाम कियदलौकिकमिति भावः ।
भाव इति ।
शब्दार्थयोस्तत्तदर्पकत्वं न गुणः, किन्तु रसस्यैव स्वात्मावेशेन झटिति सहृदयहृदयव्यापकत्वमतो मुख्यतया रसनिष्ठ एव प्रसादाख्यो गुणः, उपचारात्तु सशब्दार्थयोरपीति भावार्थः ।
उपसंहरति---एवमित्यदि ।
भामहेति ।
"माधुर्यमभिवाञ्छन्त" इत्यादिभासहवचनानुरोधेनेत्यर्थः ।
ते चेत्यादि ।
ते माधुर्यौजःप्रसादा गुणाः ।
प्रतिपत्त्रास्वादमया इति ।
प्रतिपत्तुर्ये द्रुतिदीप्तिप्रसादात्मकचित्तवृत्तिविशेषरूपास्वादाः मुख्यतया तत्स्वरूपा इत्यर्थः ।
ते च चित्तस्था इति भावः ।
तत इत्यादि ।
तत्तदास्वादाः तत्तद्रसचर्वणाजन्या इत्यास्वाद्येतत्तद्रसे ते उपचरिता इत्यर्थः ।
तत इत्यादि ।
उपचरिता इत्यस्यानुषङ्गः ।
शब्दार्थयोस्तत्तद्रसचर्वणाप्रयोजकत्वादिति भावः ॥ 10 ॥
श्रुति-दुष्टादयो दोषा अनित्या ये च दर्शिताः ।
ध्वन्य्-आत्मन्य् एव शृङ्गारे ते हेया इत्य् उदाहृताः
श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः ।
ध्वन्यात्मन्येन शृङ्गारे ते हेया इत्युदाहृताः ॥ 11 ॥
अनित्या दोषाश्च ये श्रुतिदुष्टादयः सूचितास्ते ऽपि न वात्ये अर्थमात्रे, न च व्यङ्ग्ये शृङ्गाव्यतिरेकिणि शृङ्गारे वा ध्वनेरनात्ममूते ।
किं तर्हि? ध्वन्यात्मन्येव शृङ्गारे ऽङ्गितया व्यङ्ग्ये ते हेया इत्युदाहृताः ।
अन्यथा हि तेषामनित्यदोषतैव न स्यात् ।
एवमयमसंलक्ष्यक्रमदृयोतो ध्वनेरात्मा प्रदर्शितः सामान्येन ।
लोचनम् एवमस्मत्पक्ष एव गुणालङ्कारव्यवहारो विभागेनोपपद्यत इति प्रदर्श्य नित्यानित्यदोषविभागो ऽप्यस्मत्पक्ष एव सङ्गच्छत इति दर्शयितुमाह---श्रुतिदुष्टादय इत्यादि ।
वान्तादयो ऽसभ्यस्मृतिहेतवः ।
श्रुतिदुष्टा अर्थदुष्टा वाक्यार्थबलादश्लीलार्थप्रतिपत्तिकारिणः ।
यथा---ऽछन्द्रान्वेषी मिहांस्तब्धो घातायैवोपसर्पतिऽ इति ।
कल्पनादुष्टास्तु द्वयोः पदयोः कल्पनया ।
यथा ऽकुरु रुचिम्ऽ इत्यत्र क्रमव्यत्यसे ।
श्रुतिकष्टस्तु अधाक्षीत् अक्षोत्सीत् तृणेढि इत्यादि ।
शृङ्गार इत्युचितरसोपलक्षणार्थम् ।
वीरशान्ताद्भुतादावपि तेषां वर्जनात् ।
सूचिता इति ।
न त्वेषां विषयविभागप्रदर्शनेनानित्यत्वं बालप्रिया "श्रुतिदुष्टार्थदुष्टे च कल्पनादुष्टमित्यपि ।
श्रुतिकष्टं तथैवाहुर्वाचां दोषं चतुर्विधम्" ॥
इत्यादिना भामहोक्तन् शृतिदुध्टादिदोषान् सोदाहरणान् दर्शयति---वान्तादयासभ्येत्यादि ।
ऽश्रुतिदुष्टाः असभ्यस्मृतिहेतवो वान्तादयऽ इति सम्बन्धः ।

श्रुतिदुष्टाः श्रुतिदुष्टत्वरूपदोषवन्तः ।
एवमुत्तरत्रापि बोध्यम् ।
कारिण इति ।
शब्दा इति शेषः ।
छिद्रेति राजवर्णनम् ।
परस्य छिद्रान्वेषी ।
स्तब्धः अचञ्चलः ।
घाताय परेषां विनाशनाय ।
अत्र पुरुषशेफरूपाश्लीलार्थस्य प्रतीतिर्भवति ।
कल्पनयेति ।
भवन्तीति शेषः ।
क्रमव्यत्यास इति ।
रुचिङ्कुरु इति परिवर्तन इत्यर्थः ।
चिङ्कुर्नाम योन्यन्तर्वर्त्यङ्कुरः ।
अधाक्षीदित्यादि ।
तिडन्तम् ।
शृङ्गार इतीति ।
ध्वन्यात्मन्येव शृङ्गार इत्यत्रत्यं, शृङ्गारपदमित्यर्थः ।
भावं विवृणोति---न त्वित्यादि ।
भिन्नवृत्तादिदोषेभ्यः विविक्तं व्यत्यस्तम् अनित्यत्वम् ।
एषां श्रुतिदुष्टादीनाम् ।
विषयविभागप्रदर्शनेन विषयविभागं प्रदर्श्य, न तु प्रदर्शितमिति
तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश् च ये ।
तेषामानन्त्यमन्योन्यसम्बन्धपरिकल्पने
तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश्च ये ।
तेषामानन्त्यमन्योन्यसम्बन्धपिरकल्पने ॥ 12 ॥
अङ्गिता व्यङ्ग्यो रसादिर्विवक्षितान्यपरवाच्यस्य ध्वनेरेक आत्मा य उक्तस्तस्याङ्गनां वाच्यवाचकानुपातिनामलङ्काराणां ये प्रभेदा निरवधयो ये च स्वगतास्तस्याङ्गिनो ऽर्थस्य रसभावतदाभासतत्प्रशमलक्षणा विभावानुभावव्यभिचारिप्रतिपादनसहिता अनन्ताः स्वाश्रयापेक्षया निः--- लोचनम् भिन्नवृत्तादिदोषेभ्यो विविक्तं प्रदर्शितम् ।
नापि गुणेभ्यो व्यतिरिक्तत्वम् ।
बीभत्सहास्यलौद्रादौ त्वेषामस्माभिरुपगमात् शृङ्गारादौ च वर्जनादनित्यत्वं च दोषत्वं च समर्थितमेवेति ।
भावः ॥ 12 ॥
अङ्गानामित्यलङ्काराणाम् ।
स्वगता इति ।
आत्मगताः सम्भोगविप्रलम्भाद्या आत्मीयगता विभावादिगतास्तेषां लोष्टप्रस्तारेणाङ्गाङ्गिभावे का गणनेति भावः ।
स्वाश्रयः स्त्रीपुंसप्रकृत्यौचित्यादिः ।
परस्परं प्रेम्णा दर्शनमित्युपलक्षणं सम्भाषणादेरपि ।
बालप्रिया सम्बन्धः ।
भिन्नवृत्तादिदोषा इव श्रुतिदुष्टाददोषा अपि भामहादिभिरुक्ताः, न त्वेषामनित्यत्वमुक्तमित्यर्थः ।
नापि गुणेभ्यो व्यतिरिक्तत्वमिति ।
एषमगुणत्वमपि नोक्तमित्यर्थः ।
समर्थितमेवेति ।

ध्यन्यात्मन्येवेत्यादिग्रन्थेन साधितमित्यर्थः ।
वृत्तौ ऽशृङ्गारे वेऽत्यादौ ऽन चेऽत्यस्यानुषङ्गः ।
ऽहेया इत्युदाहृताऽ इत्यस्य ऽते ऽपि न वाच्ये ऽर्थमात्रेऽ इत्यादिवाक्यत्रयेणापि सम्बन्धश्च बोध्यः ॥ 11 ॥
अलङ्काराणामिति ।
अलङ्काराणां रसाद्यङ्गत्वमेवमुपपादितं काव्यप्रदीपोद्योते "रमणीया अप्यर्थास्तुच्छशब्देनाभिधीयमाना न तथा चमत्काराय इत्यनुप्रासादयः शब्दद्वारेम रसाद्युपकारकाः, उपमादयश्च रसाद्यभिव्यञ्जकविभावाद्यर्थोत्कर्षाधानद्वारेण रसाद्युपस्कारका अलङ्कारैराहितातिशयाश्चास्वादातिशयं जनयन्ति ।
अनुभूयते हि निरलङ्कारात्सालङ्कारे कश्चनातिशयः ।
अलङ्कारा हि विभावाद्युत्कर्षयन्तो बहुधोद्दीपनाः क्वचिदनुभावा अपि यथा नायकादिकृतनायिकादिवर्णन इत्यप्याहुरि"ति ।
ऽस्वगताऽ इत्यत्र स्वपदमात्मपरमात्मीयपरं चेति व्याचष्टे---आत्मगता इत्यादि ।
आत्मगता इत्यस्यैव विवरणम्----सम्भोगेत्याद ।
आत्मीयगता इत्यस्य विभावादीति च ।
तेषामिति ।
भेदानामित्यर्थः ।
लोष्टप्रस्तारेणेति ।
प्रस्तारो नाम वृत्तविशेषस्वरूप ज्ञापकः प्रक्रियाभेदः ।
"पादे सर्वगुरा"वित्यादिना वृत्तरत्नाकरे लक्षितः, तद्रीत्या भेदानां गणनमशक्यमित्यर्थः ।
ऽस्वाश्रयापेक्षयेऽत्यत्र स्वाश्रयपदं व्याचष्टे---स्त्रीति ।
स्त्रीपुंसरूपे ये प्रकृती तदौचित्यादीत्यर्थः ।
परस्परप्रेमदर्शनमित्येतद्व्याचष्टे---परस्परमिति ।
सीमानो विशेषास्तेषामन्योन्यसम्बन्धन्धपरिकल्पने क्रियमाणे कस्यचिदन्यतमस्यापि रसस्य प्रकाराः परिसङ्ख्यातुं न शक्यन्ते किमुत सर्वेषाम् ।
तथा हि शृङ्गारस्याङ्गिनस्तावदाद्यौ द्वौ भेदौ-सम्भोगो विप्रलम्भश्च ।
सम्भोगस्य च परस्परप्रेमदर्शनसुरतविहरणादिलक्षणाः प्रकाराः ।
लोचनम् सुरतं चातुःषष्टिकमालिङ्गनादि ।
विहरणमुद्यानगमनम् ।
आदिग्रहणेन जलक्रीडापानकचन्द्रोदयक्रीडादी ।
अभिलाषविप्रलम्भो द्वयोरप्यन्योन्यजीवितसर्बस्वाभिमानात्मिकायां रतावुत्पन्नायामपि कुतश्चिद्धेतोरप्राप्तसमागमत्वे मन्तव्यः ।
यथा ऽसुखयतीति किमुच्यतऽ इत्यः प्रभृति वत्सराजरत्नावल्योः, न तु पूर्वं रत्नावल्याः तदा हि बालप्रिया ऽविप्रलम्भस्यापीऽत्यादिग्रन्थं विवृणोति---अभिलाषविप्रलम्भ इत्यादि ।
सुखयतीति किमुच्यत इति ।
इदं रत्नावलीनाटिकायां विदूषकं प्रति वत्सराजस्य वचनम् ।
न तु पूर्वं रत्नावल्या इति ।
इत्यत इत्यस्यानुषङ्गः ।
एवद्वचनात्पूर्वं रत्नावल्या अभिलाषविप्रलम्भो नैवेत्यर्थः ।
एतद्वचनश्रवणेनैव राज्ञः स्वस्मिन्ननुरागस्य रत्नावल्या निश्चयादिति भावः ।
एतमेव हेतुं दर्शयन्नाह---उदेत्यादि ।
तदा पूर्वकाले ।
विप्रलम्भस्याप्यभिलाषेर्ष्याविरहप्रवासविप्रलम्भादयः ।
तेषां च प्रत्येकं विभावानुभावव्यभिचारिभेदः ।
तेषां चि देशकालाद्याश्रयावस्थाभेद इति स्वगतभेदापेक्षयैकस्य तस्यापरिमेयत्वम्, किं पुनरङ्गप्रभेदकल्पनायाम् ।
ते ह्यङ्गप्रभेदाः प्रत्येकमङ्गिप्रभेदसम्बन्धपरिकल्पने क्रियमाणे सत्यानन्त्यमेवोपयान्ति ।
लोचनम् रत्यभावे कामवस्थामात्रं तर्त् ।
इर्ष्याविप्रलम्भः प्रमयखण्डनादिना खण्डितया सह ।

विरहविप्रलम्भः ।
पुनः खण्डितया प्रसाद्यमानयापि प्रसादमगृह्णन्त्या ततः पश्चात्तापपरीतत्वेन विरहोत्कण्ठितया सह मन्तव्यः ।
प्रवासविप्रलम्भः प्रोषितभर्तृकया सहेति विभागः ।
आदिग्रहमाच्छापादिकृतः विप्रलम्भ इव च विप्रलम्भः ।
वञ्चनायां ह्यभिलषितो विषयो न लभ्यते; एवमत्र ।
तेषां चेति ।
एकत्र सम्भोगादीनामपरत्र विभावादीनाम् ।
आश्रयो मलयादिः मारुतादीनां विभावानामिति यदुच्यते तद्देशशब्देन गतार्थम् ।
तस्मादाश्रयः कारणम् ।
यथा ममैव--- दयितया ग्रथिता स्रगियं मया हृदयधामनि नित्यनियोजिता ।
गलति शुष्कतयापि सुधारसं विरहदाहरुजां परिहारकम् ॥
तस्येति शृङ्गारस्य ।
अङ्गिनां रसादीनां प्रभेदस्तत्सम्बन्धकल्पनेत्यर्थः ।
बालप्रिया रत्यभाव इति निमित्ते सप्तमी ।
रतेरभावेन हेतुनेत्यर्थः ।
निश्चितपरस्पराधिष्टाना हि रतिः शृङ्गारस्थायी ।
कामावस्थामात्रं तदिति ।
रत्नावलीगता रतिः अभिलाषरूपैवेत्यर्थः ।
प्रणयेति ।
प्रणयः स्नेहः प्रार्थना वा ।
खण्डितयेति ।
खण्डितया सहेति सम्बन्धः ।
प्रसाद्यमानयेत्यादि खण्जिताविशेषणम् ।
उक्तानामभिलाषादीनां वञ्चनार्थकविप्रलम्भपदेन व्यवहारमुपपायति---विप्रलम्भ इवेति ।
विप्रलम्भशब्दो गौम इति भावः ।
द्वयोः साम्यमाह--वञ्चनायामित्यादि ।
एवमत्रेति ।
तथा अभिलाषादावित्यर्थः ।
वृत्तौ ऽतेषां च प्रत्येकम्ऽ इति ऽतेषां च देशेऽत्युभयत्र स्थितेतेषामिति पदे क्रमेण विवृणोति---एकत्रेत्यादि ।
देशकालाश्रयावस्थाभेद इत्यत्राश्रयपदस्य केषाञ्चिद्व्याख्यानं न युक्तमित्याह---आश्रय इत्यादि ।
तदित्यादि ।
तथार्थे सति पौनरुक्त्यं स्यादित्यर्थः ।
दयितयेति ।
शुष्कतरापीति च पाठः ।
हृदयतापातिशयेन शुष्कत्वम् ।
सुधारसं गलति स्रावयतीत्यतिशयोक्तिः ।
अत्रोद्दीपकत्वेन
दिङ्मात्रं तूच्यते येन व्युत्पन्नानां स-चेतसाम् ।
बुद्धिर् आसादितालोका सर्वत्रैव भविष्यति
दिङ्मात्रं तूच्यते येन व्युत्पन्नानां सचेतसाम् ।

बुद्धिरासादितालोका सर्वत्रैव भविष्यति ॥ 13 ॥
दिङ्मात्रकथनेन हि व्युत्पन्नानां सहृदयानामेकत्रापि रसभेदे सहालङ्कारैरङ्गाङ्गिभावपरिज्ञानादासादितालोका बुद्धिः सर्वत्रैव भविष्यति ।
तत्र-----
शृङ्गारस्याङ्गिनो यत्नाद् एक-रूपानुबन्धवान् ।
सर्वेष्व् एव प्रभेदेषु नानुप्रासः प्रकाशकः
शृङ्गारस्याङ्गिनो यत्नादेकरूपानुबन्धवान् ।
सर्वोष्वेव प्रभेदेषु नानुप्रासः प्रकाशकः ॥ 14 ॥
अङ्गिनो हि शृङ्गारस्य ये उक्तः ।
प्रभेदास्तेषु सर्वेष्वेकप्रकारानुबन्धि तया प्रबन्धेन प्रवृत्तो ऽनुप्रासो न व्यञ्जकः ।
अङ्गिन इत्यनेनाङ्गभूतस्य शृङ्गारस्यैकरूपानुबन्धनुप्रासनिबन्धने कामचारमाह ।
ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् ।
लोचनम् येनेति ।
दिङ्मात्रोक्तेनेत्यर्थः ।
सचेतसामिति ।
महाकवित्वं सगृदयत्वं च प्रेप्सूनामिति भावः ।
सर्वत्रेति ।
सर्वेषु रसादिष्वासादित आलोको ऽवगमः सम्यग्व्युत्पत्तिर्ययेति सम्बन्धः ॥ 13 ॥
तत्रेति ।
वक्तव्ये दिङ्मात्रे सतीत्यर्थः ।
यत्नादिति ।
यत्नतः क्रियमामत्वादिति हेत्वर्थो ऽभिप्रेतः ।
एकरूपं त्वनुबन्धं त्यक्त्वा विचित्रो ऽनुप्रासो निबध्यमानो न दोषायेत्येकरूपग्रहणम् ॥ 14 ॥
यमकादीत्यादिशब्दः प्रकारवाची ।
दुष्करं मुरजचक्रबन्धादि ।
शब्दभङ्गन बालप्रिया विरहपीडाहेतुभूताया अपि स्रजो दयिताग्रथनरूपकारणविशेषाद्विरहपीडापरिहारकसुधारसस्रावकत्वमुक्तमिति कारणकृतो भेदः ॥ 12 ॥
कारिकां व्याचष्टे---येनेत्यादि ।
सचेतसामित्यनेन प्रकृते विवक्षितमाह---महेत्यादि ।
येनेत्यस्य विवरमं वृत्तौ---ऽदिङ्मात्रकथनेनेऽति ।
अस्यैव विवरममुपपादकं वा ऽव्युत्पन्नानाम्ऽ इत्यादि ऽपरिज्ञानादिऽत्यान्तम् ॥ 13 ॥
हेत्वर्थ इति ।
यत्नतः क्रियमाणत्वमप्रकाशकत्वे हेतुरिति भावः ।
ऽएकरूपानुवन्धवानिऽत्यत्रैकरूपग्रहणस्य फलमाह----एकेत्यादि ॥ 14 ॥
ध्वन्यात्म-भूते शृङ्गारे यमकादि-निबन्धनम् ।
शक्ताव् अपि प्रमादित्वं विप्रलम्भे विशेषतः
शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ॥ 15 ॥
ध्वनेरात्मभूतः शृङ्गारस्तात्पर्येण वाच्यवाचकाभ्यां प्रकाश्यमानस्तस्मिन्यमकादीनां यमकप्रकाराणां निबन्धनं दुष्करशब्दभङ्गश्लेषादीनां शक्तावपि प्रमादित्वम् ।
ऽप्रमादित्वाऽमित्यनेनैतद्दृश्यते---काकतालीयेन कदाचित्कस्यचिदेकस्य यमकादेर्निष्पत्तावपि भूम्नालङ्कारान्तरवद्रसाङ्गत्वेन निबन्धो न कर्तव्य इति ।
ऽविप्रलम्भे विशेषतऽ इत्यनेन विप्रलम्भे सौकुमार्थातिशयः स्व्याप्यते ।
तस्मिन्द्योत्ये यमकादेरङ्गस्य निबन्धो नियमान्न कर्तव्य इति ।
अत्र युक्तिरभिधीयते-----

रसाक्षिप्ततया यस्य बन्धः शक्य-क्रियो भवेत् ।
अपृथग्-यत्न-निर्वत्यः सो ऽलङ्कारो ध्वनौ मतः
रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् ।
अपृथगत्ननिर्वत्यः सो ऽलङ्कारो ध्वनौ मतः ॥ 16 ॥
लोचनम् श्लेष इति ।
अर्थश्लेषो न दोषाय ऽरक्तस्त्वंऽ इत्यादौ; शब्दभङ्गो ऽपि विलष्ट एव दुष्टः, न त्वशोकादौ ॥ 15॥
युक्तिरित् ।
सर्वव्यापकं वस्त्वित्यर्थः ।
रसेति ।
रससमवधानेन विभावादिघटनामेव बालप्रिया वृत्तौ ऽयमकादीनाम्ऽ इत्यस्य व्यख्यानं ऽयमकप्रकाराणाम्ऽ इति ।
अस्योपपपत्तिमाह--आदिशब्द इति ।
यमकप्रकारामामित्यस्यैव विवरणम्---ऽदुष्करेऽत्यादि ।
तद्व्याचष्टे--दुष्करमित्यादि ।
शब्दभङ्गश्लेषेत्युक्ते फलमाह---अर्थश्लेष इति ।
अभङ्गश्लेष इत्यर्थः ।
अभङ्गश्लेषो ऽर्थश्लेषश्च प्राचां मते एक एवेति स्फष्टं काव्यप्रदीपादौ ।
रक्तस्त्वमिति ।
अत्र रक्तशिलीमुखादिपदे ऽर्थश्लेषः ।
न त्वशोकादाविति ।
अशीकादिपदे शब्दभङ्गे न दुष्ट इत्यर्थः ।
अशोकपदं रूढ्या वृक्षविशेषं शब्दभङ्गेन नास्ति शोको यस्येति योगव्युत्पत्या शोकरहितं च वक्तीति भावःवृत्तौ---ऽशक्तावपि प्रमादित्वम्ऽ इति ।
" अव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवे"रिति वक्ष्यमाणत्वेन दोषतिरोधायकशक्तौ सत्यामपि कवेः प्रमादित्वज्ञापकत्वेनाकर्तव्यत्वात्कदाचित्कस्यचिदेकस्य यमकादेर्निष्पत्तिर्न दोषावहेति भावः ॥ 15 ॥
यथाश्रुतयुक्तिपदार्थस्यात्र बोधात्तत्पदं व्याचष्टे व्याचष्टे----सर्वेत्यादि ।
ऽरसेऽति ऽध्वनाविऽति च सामान्योक्तेः तात्पर्यं दर्शयन् कारिकां व्याचष्टे---रसेत्यादि ।
रसाक्षिप्ततयेत्यादेरर्थतो विवरणम्---रससमवधानेनेत्यादि ।
तन्नान्तरीयरीयकतयेति ।
तत्पदेन विभावादिधटना परामृश्यते तन्निष्पादकयत्ननिष्पाद्यत्वेनेत्यर्थः ।
यमिति ।
निष्पत्तावाश्चर्यभूतो ऽपि यस्यालङ्कारस्य रसाक्षिप्ततयैव बन्धः शक्यक्रियो लोचनम् कुर्वंस्तुन्नान्तरीयकतया यमासादयति स एवात्रालङ्कारो रसमार्गे, नान्यः ।
तेनवीराद्भुतादिरसेष्वपि यमकादि कवेः प्रतिपत्तुश्च रसविघ्नाकार्येव सर्वत्र ।
गडडुरिकाप्रवाहोपहतसहृदयधुराधिरोहणविहीनलोकावर्जनाभिपिरायेण तु मया शृङ्गारे विप्रलम्भे च विशेषत इत्युक्तमिति भावः ।
तथा च ऽरसे ऽङ्गत्वं तस्मादेषां न विद्यतेऽ इति सामान्येन वक्ष्यति ।
निष्पत्ताविति ।
प्रतिभानुग्रहात्स्वयमेव सम्पत्तौ निष्पादनानपेक्षायामित्यर्थ ।
आश्चर्यभूत इति ।
कथमेष निबद्ध इत्युद्भुतस्थानम् ।
करकिसलयन्यस्तवदना श्वासतान्ताधरा प्रवर्तमानबाष्पभरनिरुद्धकण्टी अविच्छिन्नरुदितचञ्चत्कुचतटा रोषमपरित्यजन्ती चाटूक्त्या यावत्प्रसाद्यते तावदीर्ष्याविप्रलम्भगतानुभावचर्वणावहितचेतस एव वक्तुः श्लेषरूपकव्यतिरेकाद्या अयत्ननिष्पन्नाश्चर्वयितुरपि रसचर्वणाविध्नमादधतीति ।
बालप्रिया यमलङ्कारमित्यर्थः ।
ऽस एवात्र रसमार्गे ऽलङ्कारऽ इति सम्बन्धः ।
ध्वनावित्यस्य विवरणम्--अत्र रसमार्ग इति ।

अलक्ष्यक्रमे रससामान्य इत्यर्थः ।
तेनेति ।
ध्वनाविति सामान्यनिर्देशेनेत्यर्थः ।
वीरेत्यादि ।
तत्कावल्येष्वित्यर्थः ।
ऽयमकादिरसविध्नकार्ये वेऽति योजना ।
सर्वत्रेत्यस्य वीरेत्यादिना सम्बन्धः ।
नन्वेवं पूर्वोक्तं विरुद्ध्येतेत्यत आह---गड्डुरिकेति ।
गड्डुरं मेषमनुधावतीति गड्डुरिका मेषानुगन्त्री मेषपङ्क्तिः, तत्साम्याद्गतानुगतिकतेत्यर्थः ।
तस्याः प्रवाहेण अविच्छेदेन उपहताः नष्टविवेकाः तथा सहृदयधुराधिरोहणेन विहीनाश्च ये लोकाः जनास्तदावर्जनाभिप्रायेणेत्यर्थः ।
मयेति ।
मूलकृतेत्यर्थः ।
भावः मूलकृदभिप्रायः ।
उक्तार्थे उपष्टम्भकमाह---तथाचेति ।
सम्पत्तौ उत्पत्तौ ।
स्वयमेवेत्यस्यैव विवरणम्---निष्पादनेत्यादि ।
तन्निष्पत्यनुकूलयत्नान्तरानपेक्षायामित्यर्थः ।
ऽकपोलऽ इत्यादेः सारार्थं विवृण्वन्नलङ्कारान् दर्शयति--करेत्यादि ।
श्वासेति ।
श्वासेन तान्तः म्लानो ऽधरो यस्याः सा ।
अविच्छिन्नेति ।
विच्छिन्नविच्छिन्नेति च पाठः ।
प्रसाद्यत इति ।
वक्त्रा नायकेन प्रणयकुपिता नायिकेति शेषर्ः ।
इर्ष्येत्यादि ।
अनुभावो निश्वासादिः तस्य चर्वमा पुनः पुनरनुसन्धान् ।
वक्तुरिति ।
कविनिबद्धनायकस्य कवेश्चैवेयं विवक्षित्वोक्तिः ।
ऽअयत्ननिष्पन्नाऽ इत्यनेनास्य सम्बन्धः ।
श्लेषेत्यादि ।
अधररस इत्यत्र रसशब्दस्यास्वद्यमाधुर्येभयार्थकत्वत्तत्र श्लेषः ।
यद्वा श्लोके ऽस्मिन्नर्थश्लेषः ।
यतः, मन्युः प्रिय इति रूपकं, कपोल इत्याद्यर्थस्तत्साधकः, करतलनिरोधादना मर्दनादिक्रियां प्रति प्रयोजककर्तृत्वं मन्युप्रियोभयसाधारणम् ।
ऽनिपीतऽ इत्यन्तर्भावितण्यर्थकम् ।
ऽबाष्पऽ इत्यस्य बाष्पात्मा मन्युरित्यर्थश्च ।
वयन्त न प्रिया इति व्यतिरेकः ।
आद्यपदेनानुप्रासो गृह्यते ।
चर्वयितुरिति ।
सहृदयस्येत्यर्थः ।
न आदधतीति सम्बन्धः ।

मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc