ध्वन्यालोक (टीका सहित) · भाग 120
श्रीमदानन्दवर्धनाचार्यप्रणीतो-
ध्वन्यालोकः ।
---- प्रथम उद्द्योतः ।
श्रीमदानन्दवर्धनाचार्यप्रणीतो- ध्वन्यालोकः ।
--- श्रीसहृदयतिलकरामशारककृतया बालप्रियाख्यटीकयोद्भासितया गोस्वामिश्रीदामोदरशास्त्रिनिर्मितया विषमस्थलदर्शन्या विषमस्थलदर्शिन्या दिव्याञ्जनाख्यटिप्पन्योक्तया च श्रीमदाचार्याभिनवगुप्तविरचितया लोचनाख्यया व्याख्ययानुगतः ।
प्रथम उद्द्योतः ।
--- श्रीमदाचार्याभिनवगुप्तकृतं लोचनम् श्रीभारत्यै नमः अपूर्वं यद्वस्तु प्रथयति विना कारणकलां- जगद्भावप्रख्यं निजरसभरात्सारयति च ।
क्रमात्प्रख्योपाख्याप्रसरसुभगं भासयति त- त्सरस्वत्यास्तत्त्वं कविसहृदयाख्यं विजयते ॥
श्रीसहृदयतिलकरामशारककृतबालप्रिय्.आ श्रीगुरवे नमः श्रीगुरून्पूर्णवेदेशं सङ्गमेशञ्च माधवम् ।
शिवं शिवाञ्च नम्रणां कामधेनुम्मुहुर्नुमः ॥
काव्यालोको लोचनञ्च द्वे ग्राह्यग्राहके सताम् ।
तद्गन्थकारावाचार्यौ रसिकाग्रेसरौ स्तुमः ॥
लोचनस्यादिमोद्द्योतमात्रस्यात्र पुरा कृता ।
विवृतिर्लभ्यते तत्तां दृष्ट्वा ग्रन्थान्तराणि च ॥
पाठान्केरलविख्यातानालम्ब्य च यथामति ।
कुर्मो बालप्रियां प्रायः प्रौढलोचनटिप्पनीम् ॥
अथ तत्रभवन्तः श्रीमदाचार्याभिनवगुप्तपादाः काव्यालोकव्याख्यानञ्चिकीर्षवस्तस्य निर्विघ्नपरिसमाप्तये विहितं समुचितेष्टदेवतानमस्कारात्मकम्मङ्गलं शिष्यशिङ्क्षायै ग्रन्थतोनिबध्नन्त्यपूर्वमित्यादि ।
यतुकमलमनम्भसि कमलेत्यादिकाव्यात्मकं सरस्वतीतत्त्वम्, कारणकलां वि- लोचनम् भट्टेन्दुराजचरणाब्जकृताधिवास- हृद्यश्रुतो ऽभिनवगुप्तपदाभिधो ऽहम् ।
यत्किञ्चिदप्यनुरणन्स्फुटयामि काव्या- लोकं स्वलोचननियोजनया जनस्य ॥
बालप्रिया ना-तत्तत्कार्यं प्रति प्रसिद्धं यद्यदुपादानादिकारणन्तस्य कला लेशः तां विना अन्तरेणैव अपूर्वंउलोकप्रसिद्धवस्तुविजातीयमद्भुतञ्च वस्तुनिरुपाख्यशशशृङ्गादिविलक्षणमनम्भो ऽधिकरणककमलादिकं पदार्थम् प्रथयति सृष्ट्वा विस्तारयति, किञ्च यद् ग्रावप्रख्यंउपाषाणतुल्यं निसर्गतो नीरसं जगतुसर्वं वस्तु निजः स्वीयः काव्यासम्बन्धी यो रसः शृङ्गरादिः तस्य भरादतिशयात् सारयति सारं करोति विभावादित्वयोजनेन रसव्यञ्जकं करोतीति यावद्, वाक्याभ्यामाभ्यां काव्यात्मकसरस्वतीतत्त्वस्य विश्वकर्तुः प्रजापतेरुत्कर्षरूपव्यतिरेको व्यञ्चितः; तमेव स्थिरीकर्तुमाह--क्रमादित्यादि ।
यज्जगदिति चानुषज्यते, प्रख्याकवेः प्रतिभा; उपाख्या वचनं प्रथमं प्रख्या पश्चादुपाख्येति तयोर्यः क्रमात्प्रसरः तेन सुभगं हृद्यं सद्, भासयति निसर्गेणारमणीयमपि सर्वं वस्तु रसव्यञ्जकत्वसम्पदनेन रसणीयं सत्प्रकाशयतीत्यर्थः, चकारस्यात्र सम्बन्धः, अत्र प्रख्योपाख्याप्रसरस्यापूर्ववस्तुनिर्माणे सरसत्वकरणे च हेतुत्वमार्थिकं बोध्यम्, अत्राद्येन वाक्येनापूर्ववस्तुनो निर्माणन्द्वितीयेन पूर्वं सतो वस्तुनस्सरसत्वकरणं तृतीयेन द्वयोरपि हृद्यतया प्रकाशनञ्जोक्तमित्यप व्याचिक्षते, ततुतथाविधमपूर्ववस्तुप्रथयितृत्वादिधर्मविशिष्टम्, तद्धर्मसम्पत्त्यर्थमाह-कवीति ।
कविसहृदयावित्याख्या यस्य तत्, कविसहृदयशब्दावत्र निर्माणरूपकविव्यापारविचारात्मकसहृदयव्यापारविषयकाव्यपरौ, यद्वा कविसहृदयैराख्यायतौच्यते इति तदाख्यम्, अथ वा कविसहृदययोराख्या अभीक्ष्ण्येन ख्यानं स्फुरणं यस्य तत् काव्यात्मकमित्यर्थः, तत्त्वमारोपितं बोध्यम्, सरस्वत्याःउशब्दप्रपञ्चाभिमानिन्यादेवतायाः, तत्त्वंउपारमार्थिकं रूपम्, विजयते सर्वस्मादुपरि वर्तते, एनेन तन्नमस्कारो ग्रन्थकर्तुर्गम्यते; अथ च सरस्वत्यास्तत्त्वं ध्वनिकाव्यम्, विजयते; अपूर्वमित्याद्यर्थः पूर्ववद्बोध्य इति प्रतिपाद्यार्थो ऽप्यासूत्रित इति दिक् ।
अथौद्धत्यं परहरन्नात्मनो व्याख्याननैपुणी दर्शयन् कीर्त्त्य नुवृत्तये नामनिर्देशङ्कुर्वंश्च प्रतिजानीते-भट्टेत्यादि ।
भट्टेन्दुराजस्यौतन्नामकस्य गुरोः चरणाब्जयोःउपझतुल्ययोः पादयोः तत्सन्निधाविति यावद् यो ऽधिवासस्तेन चरणाब्जशुश्रूषयेति यावद्; हृद्यानि स्वहृदयस्थानि; अथ च श्रोतृजनहृदयप्रियाणि श्रुतानि शास्त्राणि यस्य सः, यथा पद्मेन सुरभीकरणे वस्तुनो हृद्यत्वं तथेत्युपमात्र ध्वन्यते, यत्किञ्चतुस्वल्पम्, अपिरेवार्थे, यद्वानुरणन्नपीति योजना, अपिशब्दः स्वल्पाभिधानेन सह स्फुटीकरणस्यापाततो विरोधं द्योतयति, लोचनम् स्वयमव्युच्छिन्नपरमेश्वरनमस्कारसम्पत्तिचरितार्थो ऽपि व्याख्यातृश्रोतॄणामविघ्नेनाभीष्टव्याख्याश्रवणलक्षणफलसम्पत्तये बालप्रिया अनुरणनुब्रुवन् घण्टाऽदिनादस्थानीयस्य मूलकृद्वचनस्यानुरणनस्थानीयं व्याख्यानरूपं स्ववचनमित्यनेन प्रकाश्यते, स्वेति ।
लोज्यते दृश्यते ऽनेनेति लोचनं स्वस्य लोचनंमनः तस्य नितरां योजनया मनःप्रणिधानेनेत्यर्थः, काव्यालोकं जनस्य स्फुटयामि विसदीकरोमि, यद्वा स्वस्य लोचनं ज्ञानं तस्य नियोजनया व्याख्यानरूपानुरणनद्वारा समर्पणेन स्फुटयामि प्रकाशयामि, यथा नेत्रयोजनेन तथेत्युपमाध्वनिरत्रापि बोध्यः ।
वृत्तिकारकृतस्य स्वेच्छेत्यादिपद्यस्य तात्पर्यार्थमवतारिकया दर्शयति-स्वयमित्यादि ।
स्वयमिति वृत्तिकारस्य निर्देशः, अव्युच्छिन्नःउमध्ये विच्छेदेन रहितः परमेश्वरस्यौतत्तल्लीलाविग्रहमवलम्बमानस्य परमात्मनः; नमस्कारः तस्य सम्पत्तिःउप्रकर्षः तया चरितःउलब्धः अर्थःउविघ्ननिवृत्त्यादिरूपसाक्षात्प्रयोजनं यस्य सः, तथाभूतस्य मङ्गलाचरण आपाततो विरोधमपिशब्दो द्योतयति, व्याख्यातृश्रोतॄणामिति फलसम्पत्तय इत्यादिना सम्बन्धः, अविघ्नेनौविध्नध्वंसेन, अभीष्टेति ।
व्याख्यातॄणां व्याख्यानं श्रोतॄणां श्रवणञ्चभीष्टं दिव्याञजनाख्या टिप्पनी श्रीश्रीगौरकृष्णः शरणम् ।
गौरकृष्णगुरून्नत्वा ध्वन्यालोकस्य लोचनम् ।
अनज्मि दिव्याञ्जनतो दुर्दर्शार्थमवेक्षितुम् ॥
अथ्.अ ध्वनिप्रस्थापकाचार्यश्रीमदानन्दवर्धनविरचितं ध्वन्यालोकनिबन्धनं व्याख्यातवतो भरतदर्शनसूत्रभाष्यकारप्रधानस्याचार्य्यश्रीमदभिनवगुप्तस्य लोचनाख्ये व्याख्याने विषमस्थलानि मुख्यत्वेन विशदयितुकामस्य दिव्याञ्जननामिकेयं टिप्पनी; प्रासङ्गिकी त्वपरत्रापीति न प्रतिश्रुतिविरोद उद्भावनीयः ।
यत्त्वत्रोत्तरपदाव्यवहितपूर्वत्वविशिष्टविद्यायोन्यन्यतरसम्बन्धवाचकर्दन्तपदोद्देश्यकानङ्विधायकानङृतो द्वन्द्व इति शास्त्रेण विद्याद्वारकैकयज्ञार्विज्यसम्बन्धेन विद्यासम्बन्धिवाचकहोतापोतृवदिहापि विद्याद्वारकैकप्रतिपाद्यविषयकज्ञानानुकूलव्यापारवत्त्वसम्बन्धेन सम्बन्धिवाचकयोर्व्याख्यातृपदश्रोतृपदयोर्द्वन्द्वे ऽपि व्याख्याताश्रोतॄणामित्युचितमिति कश्चिदाक्षिपति तन्मन्दम्-- "ऋतो विद्यायोनिसम्बन्धेभ्यः" पूर्णैतत्सूत्रानुवृत्तित ऋत्पदानुवृत्त्यैव निर्वाहे प्रकृतसूत्रे पुना ऋद्ग्रहणमानङ्विध्यु द्देश्यतावच्छेदककोटिप्रविष्टसमस्यमानयावत्पदानामृदन्तत्वस्यापेक्षां दर्शयद् विद्ययोन्यन्यतरवाचित्वमपि तदवच्छेदककुक्षौ समाविवेशयिष्यतीति व्याक्यातृशब्दस्य कथं चित्तदन्यतरवाचित्वे ऽपि श्रीतृशब्दे तद्वाचित्वनियमादर्शनाद् विशेषणाभावप्रयुक्तविशिष्टाभावमुद्रयोद्देश्यतावच्छेदकत्वानाक्रान्तत्वादानडो ऽप्रवृत्तेः साध्वेव व्याख्यातृश्रोतॄणामिति ।
श्रीनृहरये नमः स्वेच्छाकेसरिणः स्वच्छस्वच्छायायासितेन्दवः ।
त्रायन्तां वो मधुरिपोः प्रपन्नार्तिच्छिदो नखाः ॥
लोचनम् समुचिताशीःप्रकटनद्वारेण परमेश्वरसांमुख्यं करोति वृत्तिकारः--स्वेच्छेति ।
मधुरिपोर्नखाः वो युष्मान्व्याख्यातृश्रोतॄंस्त्रायन्ताम्, तेषामेव सम्बोधनयोग्यत्वात्; सम्बोधनसारो हि युष्मदर्थः, त्राणं चाभीष्टलाभं प्रति साहायकाचरणं, तच्च तत्प्रतिद्वन्द्विविघ्नापसारणादिना भवतीति, इयदत्र त्राणं विविक्षितम्, नित्योद्योगिनश्च भगवतो ऽसम्मोहाद्यवसाययोगित्वेनोत्साहप्रतीतेर्वीररसो बालप्रिया वणञ्चाभीष्टं फलं तस्य सम्पत्तये निष्पत्तये, तदुभयसम्पत्तौ तदुभयहेतुकग्रन्थप्रतिष्चटारूपं फलं ग्रन्थकारस्य च सिद्ध्यतीति भावः, समुचितंउग्रन्थारम्भे योग्यं यदाशिषः प्रकटनंउवचनन्तद्द्वारेण, परमेश्वरस्य साम्मुख्यंउव्याख्यातृश्रोतॄन् प्रत्याबिमुख्यं त्राणेच्छारूपम्, करोति सम्पादयति, तत्र्राणस्य परमेश्वरसाम्मुख्यायत्तत्वात्र्राणाङ्गभूतं तत्साम्मुख्यमाशीर्वादेन सम्पादयतीत्यर्थः, यद्वा समुचिताया आशिषः प्रकटनंउग्रन्थतो निबन्धनं तद्द्वारेण, परमेश्वरे विषये साम्मुख्यंउव्याक्यातृश्रोतॄणामाभिमुख्यमनुसन्धानात्मकम् करोत्युत्पादयति, वृत्तिकार इत्यनेन स्वेच्छेत्यादिकं न कारिकारूपसूत्राद्यपद्यमिति दर्शितम्, व इत्यस्य व्याख्यातृश्रोतॄनिति व्याख्याने हेतुमाह-तेषामिति ।
कुतो ऽत्र सम्बोधनप्रसङ्ग इत्यत आह-सम्बोधनेति ।
सम्बोधनं सारःउप्राणो युष्मदर्थत्वप्रयोजकोंऽशो यस्य सः, न ह्यसम्बोध्यो युष्मदा व्यपदिश्यते, त्रायन्तामित्यनेनात्र विवक्षितं व्याचष्टे-त्राणञ्चेचि ।
अभीष्टेति व्याख्यानश्रवणरूपेत्यर्थः, सहायस्य कर्म साहायकं तत्प्रतिद्वन्द्वीत; अभीष्टलाभप्रतिबन्धकेत्यर्थः, अपसरणंउनिवर्तनम्, आदिपदेनार्थतत्त्वमनीषासमुन्मेषादेः परिग्रहः, इयदिति ।
उक्तरूपमित्यर्थः, अथ ध्वनिं काव्यात्मानं टिप्पनी वृत्तिकार इति ।
स्वकृतानामेव मूलरूपाणां कारिकाणां व्याख्याऽत्मकवृत्तेः कर्त्तेत्यर्थः, अत एव विशिष्टस्येवारिप्सितत्वेन मूले मङ्गलाकरोणे ऽपि नाचारविरोधः ।
के चित्तु मूले ऽपि "काव्यस्यात्मेऽ तिप्रथमकारिकायामाद्यपदस्य काव्येत्यस्यान्यपरत्वे ऽपि परार्थोपनीतोदकुम्भदर्शनवत् श्रवणमात्रेणापि; "काव्यालापाश्च ये के चिद् गीतकान्तखिलानि च ।
शब्दमूर्त्तिधरस्यैते विष्णोरंशा महात्मन"-- इत्यादिप्रमाणतो भगवत्स्फोरकत्वेन वस्तुनिर्द्देशरूपमङ्गलं जातमेवेत्यापि वदन्ति, कारिकाकृद्वृत्तिकृतोरभेदस्त्वग्रे दर्शयिष्यते ।
सम्बोधनसारो हीति ।
स्वजन्यबोधाश्रयत्वेन वक्त्रभिप्रायविषयत्वावच्छिन्नस्य लोचनम् ध्वन्यते, नखानां प्रहरणत्वेन ग्रहरणेन च रक्षणे कर्तव्ये नखानामव्यतिरिक्तत्वेन करणत्वात्सातिशयशक्तिता कर्तृत्वेन सूचिता, ध्वनितश्च परमेश्वरस्य व्यातिरिक्तकलणापेक्षाविरहः, मधुरिपोरित्यने तस्य सदैव जगत्र्रासापसारणोद्यम उक्तः, कीद्दशस्य मधुरिपोः? स्वेच्छया केसरिणः, म तु कर्मपारतन्त्र्येण, बालप्रिया प्रतिपादयिष्यता ग्रन्थकृता कृतस्यास्य प्रथमपद्यस्य काव्यरूपत्वादस्मिन्नपि ध्वनिर्योजनीय इति मन्वानो रसादिभेदेन त्रिविधेषु ध्वनिषु प्रधानभूतं रसध्वनिमादौ योजयति-नित्येत्यादि ।
चशब्दः समुच्चये ध्वन्यते चेति सम्बन्धः; न वाच्यार्थमात्रमनेनोच्यते किन्तु रसो ध्वन्यते चेत्यर्थः, नित्योद्योगिन इति ।
उद्योगो नामौबाह्यसंनाहात्मकोद्यमनक्रियारूप दर्शितम्, यथोक्तं भरतेन "उत्तमप्रकृतिरुत्साहात्मको वीर इति" असंमोहेनौसम्मोहराहित्येन यो ऽध्यवसायः एतदेवं कर्तुं शक्यमिति वस्तुतत्त्वनिश्चयः तद्योगित्वेनेति उत्साहहेतुकथनम्, असंमोहश्चध्यवसायश्च तद्योगित्वेनेति के चित्, उत्साहप्रतीतेरिति ।
स्वेच्छाकेसरिणो मधुरिपोः प्रसन्नार्तिच्छिद इति पदैर्हिरण्यकशिपुप्रभृतिनिवर्हणादिविषयकोत्साहस्य व्यञ्जनया सहृदयानां प्रतीतेरित्यर्थः, मत्यादिव्यभिचारिप्रतीतेरुपलक्षणमिदम्, वस्तुध्वनिं दर्शयति-नखानामित्यादि ।
प्रहरणत्वेनेति करणत्वे हेतुः सिंहादीनामायुधत्वेनेत्यर्थः, प्रहरणत्व इति पाठे निमित्ते सप्तमी, ननु नखानां प्रहरणत्वे ऽपि कथं त्राणक्रियां प्रति करणत्वमित्यतस्तत्सम्भावनान्दर्शयति-प्रहरणेनेति ।
प्रहरणं हि स्वस्यान्यस्य वा रक्षां कर्तुमुपादीयत इति भावः, अव्यतिरिक्तत्वेन करणत्वादिति, अव्यतिरिक्तत्वमपृथग्भूतत्वमाभ्यन्तरत्वमिति यावत् तद्विशिष्टकरणत्वादित्यर्थः, करणं द्विविधं बाह्यमाभ्यन्तरञ्च, बाह्यं खङ्गादि; आभ्यन्तरंहस्तादि, करणत्वात् कर्तृत्वेनेति समबन्धः, करणत्वमनुक्त्वा कर्तृत्वोक्त्येत्यर्थः, मधुरिपुर्नखैस्त्रायतामिति वक्तव्यमनुक्त्वा मधुरिपोर्नखास्त्रायन्तामित्युक्त्येति यावत्, सातिशया टिप्पनी स्वसम्बोध्यस्य युष्मत्पदार्थतयान्यत्र व्यवस्थापितत्वादित्याशयः ।
उत्साहप्रतीतेरिति ।
विभावादीनां मिथो नान्तरीयकत्वेन "सद्भावश्चेद् विभावादेर्द्वयोरेकस्य वा भवेद् ।
ऊटित्यन्यसमाक्षेपे तदा दोषो न विद्यते" ॥
इत्युक्तदिश्.आ प्रकृते सपत्नमध्वाद्यसुरालम्बनेन योग्यतयाऽक्षिप्तानां तदीयनिर्भीकत्वादिज्ञानाद्युदीपनतद्विषयावहेलाऽद्यनुभावगर्वादिसंचारिणां पानकरसन्यायेन योगाद् उत्साहैय प्रतीतेरित्यर्थः ।
लोचनम् नाप्यन्यदीयेच्छया, अपि तु विशिष्टदानवहननोचिततथाविधेच्छापरिग्रहौचित्यादेव स्वीकृतसिंहरूपस्येत्यर्थः, कीद्दशा नखाः? प्रपन्नानामार्ति ये छिन्दन्ति; नखानां हि छेदकत्वमुचितम्; आर्तेः पुनश्छेद्यत्वं नखान्परत्यसम्भावनीयमपि तदीयानां नखानांस्वेच्छानिर्माणौचित्यात्सम्भाव्यत एवेति भावः, अथ वा त्रिजगत्कण्टको हिरण्यकशिपुर्विश्वस्योत्क्लेशकर इति स एव वस्तुतः प्रपन्नानां भगवदेकशरणानां जनानामार्तिकारित्वान्मूर्तैवार्तिस्तं विनाशयद्भिरार्तिरेवोच्छिन्ना भवतीति परमेश्वरस्य तस्यामप्यवस्थायांपरमकारुणिकत्वमुक्तं, किं च ते नखाः स्वच्छेन स्वच्छतागुणेन नैर्मल्येन; स्वच्छमृदुग्रभृतयो बालप्रिया शक्तिःउसामर्थ्यं येषां तेषां भावस्तत्ता, शक्ततेति च पाठः; व्यङ्ग्यान्तरमप्याहध्वनितश्चेति, उक्तव्यङ्गक्येनेति शेषः, व्यतिरिक्तकरणेति ।
बाह्यखड्गादित्यर्थः, जगत्र्रासेति ।
तत्तद्दुर्जनेभ्यो जगतो यस्त्रासः तदपसारणे य उद्यमः स इत्यर्थः, उक्त इति ।
व्यञ्जित इत्यर्थः, इममर्थं मनसिकृत्य पूर्वं नित्योद्योगिन इत्युक्तमिति बोध्यम्, न तु कर्मपारतन्त्र्येणेत्यादेः स्वीकृतेत्यत्र सम्बन्धः, आद्यमिच्छापदेन द्वितीयं स्वपदेन च गम्यमिति बोध्यम्, विशिष्टेति विशिष्टंउदानवान्तरहननापेक्षया विशेषवत्, दानवस्यौहिरण्यकशिपोर्हननं यद्वा विशिष्टःउसुरनरतिर्यगाद्यवध्यत्वरूपविशेषवान् यो दानवस्तस्य हननं तस्मिन्नुचितो यस्तथाविधायाःउनरहरिविग्रहावलम्बनविषयिकाया इच्छायाः परिग्रहः, उचितेतीच्छाविशेषणं वा तस्मिन् यदौचित्यामर्थात् स्वस्य तस्माद्धेतोरित्यर्थः, स्वीकृतसिंहरूपस्येति ।
सिंहरूपस्य नररहपमिश्रत्वं प्रसिद्दमतो नोक्तम्, ये च्छिन्दन्तीति ।
तैति शेषः, छेदकत्वामिति ।
छेदनक्रियाकर्तृत्वमित्यर्थः, छद्यत्वंउछेदनकर्मत्वमस्य सम्भाव्यत इत्यनेन सम्बन्धः, असम्भावनीयमिति ।
आर्तेरमूर्तत्वादिति भावः, तदीयानांउनरहरिसम्बन्धिनाम्, स्वेच्छेति ।
स्वेच्छया भगवत इच्छया यन्निर्माणंउनखानांनर्माणं तेन हेतुना; औचित्यादिमूर्तस्यापि वस्तुनश्छेदने सामर्थ्यात्, यद्वा स्वेच्छयास्वातन्त्र्येण निर्माणेनमूर्तच्छेदनादेः करणे नकानामौचित्यादित्यर्थः, सम्भाव्यत एवौनिश्चीयत एव, लोकद्दष्ट्यनुरोदेनाह-अथ वेति ।
अस्मिन् पक्षे आतिंशब्द आतिङ्कारणंलक्षयति तस्याव्यभिटचारेण निखिलार्तिकारित्वञ्च ध्वनतीति बोध्यम्, विनाशयद्भिरिति ।
नशैरिति शेषः, आर्तिरेवलोच्छिन्ना भवतीति ।
तथाविधस्य हिरण्यकशिपोः हननमार्तेरेवोच्छेदनं न तु कस्य चित्प्राणिन इति भगवद्बुद्धिरिति भावः, तस्यामप्यवस्थायांउहननावस्थायामपि, उक्तमिति ।
व्यञ्जितमित्यर्थः, आर्तिमेव छिनत्ति न तु कञ्जित्प्राणिनमित्यर्थप्रतीत्येति भावः, अत्र प्रपन्नेत्यादिविशेषणं त्राणाशीरवादहेतुगर्भस्वच्छेत्यादिप्रशंसापरंप्रशस्यमाना हि देवता प्रसेदुषी प्रेप्सितं प्रयच्छति, तत्र स्वच्छस्वच्छायेत्यत्र कर्मधारयभ्रमं वारयन्व्याचष्टे-स्वच्छेनेत्यादि ।
स्वच्छतागुणेनेत्यास्यैव विवरणं नैर्मल्येनेति, भाववृत्तयःउस्वच्छताऽदिधर्मवाचकाः, छाययेत्यस्य व्याख्यानं वक्रेत्यादि, अत्र वस्तुध्वनिमाहार्थेति ।
लोचनम् हि मुख्यातया भाववृत्तय एव; स्वच्छायया च वक्रहृद्यरूपयाऽकृत्याऽयासितिः-खेदित इन्दुर्यैः, अत्रार्थशक्तिमूलेन ध्वनिना बालचन्द्रत्वं ध्वन्यते, आयासनेन तत्सन्निधौ चन्द्रस्य विच्छायत्वप्रतीतिरहृद्यत्वप्रतीतिश्च ध्वन्यते, आयासकारित्वं च नखानां सुप्रसिद्धम्; नरहरिनखानां तच्च लोकोत्तरेण रूपेम प्रतिपादितम् किं च तदीयां स्वच्छतां कुटिलिमानं चावलोक्य बालचन्द्रः स्वात्मनि खेदमनुभवति; तुल्ये ऽपि स्वच्छकुटिलाकारयोगे ऽमी प्रपन्नार्तिनिवारमकुशलाः; न त्वहमिति व्यतिरेकालङ्कारो ऽपि ध्वनितः, किञ्चाहंपूर्वमेक एवसाधारणवैशद्यहृद्याकारयोगात्समस्तजनाभिलषणीयताभाजनमभवम्, अद्य बालप्रिया वक्रहृद्यरूपाकृत्यायासितत्वस्य बालचन्द्र एव सम्भवात्तदर्थसामर्थ्यमूलेनेत्यर्थः, बालचन्द्रत्वं ध्वन्यत इति ।
इन्दुपदार्थस्य चन्द्रस्य बालत्वं ध्वन्यत इत्यर्थः, आयासित इत्यसाय खेदित इत्यर्थो लक्षणया; तत्फलमाहायासनेनेत्यादि ।
तत्सन्निधौ नखसन्निधौ, विच्छायत्वेति निश्शोभत्वेत्यर्थः, ध्वन्यत इति ।
ध्वनिव्यापारेण जायतैत्यर्थः, सुप्रसिद्धमिति ।
प्रहरणरूपत्वादिति भावः, तच्चौआयासकारित्वञ्च, लोकोत्तरेणेति स्वच्छत्वादिपूर्वोक्तरूपेणेत्यर्थः, प्रतिपादितमित ।
तधा च विदारणादिनाऽयाकसकारिभ्यो लोकिकनखेभ्यो नरहरिनकानां वायतिरेको व्यज्यत इति भावः, प्रपन्नार्तिच्छिद इति विशेषणसहकारेण व्यातिरेकान्तरस्यालङ्कारान्तरस्य च ध्वनिन्दर्शयति कित्र्चेत्यादि ।
तदीयांउनखसम्बन्धिनीम्, कुटिलिमानमित्यत्र तदीयमिति विपरिणामेन सम्बन्धः, स्वात्मनीति ।
परेषामविदितमित्यर्थः, अनुभवप्रकारमाह-तुल्येऽपीत्यादि ।
न त्वहमितीति ।
इतिशब्दस्यानुभवतीत्यनेन व्यतिरेकालङ्कार इत्यनेन च सम्बन्धो वोध्यः, ध्वनित इत्य् उक्तर्थप्रतीत्या सहृदयानां व्यतिरेकव्यक्तिरित्यर्थः, इति व्यतिरेकालङ्कारो ऽपि ध्वनित इति पाठः, अपिशब्देन पूर्वोक्तव्यतिरेकस्य समुच्चयः, एवंविधा इति ।
वैशद्यहृद्याकारयुक्ता इत्यर्थः, सन्तापार्तिच्छेदकुसलाश्चेति ।
आत्मनो हि सन्तापस्यैव च्छेदने कुशलत्वं न सर्वासामार्तीनामिति भावः, बालेन्दुबहुमानेनेति ।
एते नखाः न किन्तु बालेन्दव इति बहुमत्येत्यर्थः, आयासमित ।
अयशोहेतुकं दुःखमित्यर्थः, अनुभवतीवेति ।
इवशब्दरहितश्च पाठः, उत्प्रेक्षापह्नुतिध्वनिरिति उत्परेक्षार्थापह्नुतिरुत्प्रेक्षापह्नुतिः तस्याः ध्वनिः पह्नुत्युत्प्रेक्षयोरङ्गाङ्गितया स्थितत्वात्तत्सङ्करध्वनिरिति यावत्, टिप्पनी अत्रोर्थशक्तीति ।
प्रकारतावच्छेदकतावच्छेदकताऽपन्नस्य शक्यस्य स्वपदार्थस्य मधुरिपुनखस्य शक्तिः पदपरिवृत्तिसहत्वरूपसामर्थ्यं मूलं प्रयोजकं यस्य ताद्दशेन स्वतःसम्भविना व्यञ्जनाव्यापारेण ।
वालचन्द्रत्वमिति ।
वक्रिमहृद्यत्वनिबन्धनकमनीयत्वकरणकमधुरिपुनखकर्त्तृकायासकर्मत्वं योग्यतावशात्ताद्दसचन्द्र एव पर्यवस्यतीति भावः ।
आयासनेनेति ।
अत्राप्यायासपदार्थीयताद्दशशक्तिप्रयुक्तव्यञ्जनेन विच्छायत्वादिकं वस्तु बालचन्द्रगतं व्यज्यते ।
लोचनम् पुनरेवंविधा नखा दश बालचन्द्राकाराःसन्तापार्तिच्छेदकुशलाश्चेति तानेव लोको बालेन्दुबहुमानेन पश्यति, न तु मामित्याकलयन्बालेन्दुरविरतमायासमनुभवतीवेत्युत्प्रेक्षापह्नुतिध्वनिरपि, एवं वस्त्वलङ्काररसभेदेन त्रिधा ध्वनिरत्र श्लोके ऽस्मद्गुरुभिर्व्याक्यातः ।
बालप्रिया बालेन्दुरविरतमायासमनुभवतीवेत्युत्प्रेक्षायां हि पूर्वोक्तं तानेव लोकोबालेन्दुं बहुमानेन पश्यति न तु मामित्याकलनं निमित्तं तत्र च स्पष्टापह्नुतिः; न नखा एते किन्तु बालेन्दव इति लोकस्य प्रतीतेः; तथा चात्रोत्प्रेक्षा नखविषयकनखत्वनिषेधपूर्वकबालेन्दुत्वारोपरूपलोकप्रतीतिविषयकबालचन्द्रगतप्रतीतिनिबन्धनेत्यातो ऽपह्नुतिबलाद्त्मानं लभत इत्यङ्गाङ्गिभावो बोध्यः, निगमयत्येवमित्यादि ।
अत्र वीररसध्वनिरङ्गी; उत्साहस्य प्राधान्येन प्रतीयमानत्वादिति ध्येयम्, नन्वत्र ग्रन्थकारगतभगवद्विषयकरतेर्व्यङ्ग्यत्वस्य वक्तव्यतया भावध्वनिरेवाङ्गित्वेन वाच्यः, रसस्तु तदङ्गतयेति चेदत्राहुः-प्रतिपन्नभगवत्तन्मयीभावस्य ग्रन्धकर्तुराशीः-कर्तृतया वास्यमिदं न भावपरं भक्तस्य भेदेन भजनीयदेवताविषयकरतेर्व्यङ्ग्यायाः खलुभावत्वम्, ग्रन्थकर्तुर्भगवत्तन्मयीभावशच स्वयं सूत्रकृदवस्थायां मङ्गलाकरमादपूर्वप्रस्थावकर्तृत्वाच्च सिद्धः, टिप्पनी उत्प्रेक्षापह्नुतिध्वनिरपीति ।
बालचन्द्रकर्त्तृकायासानुभवस्योत्प्रेक्षा हि नखत्वप्रतिषेधपुरस्सरबालचन्द्रत्वविधानप्रत्ययलक्षणविषयापह्नवमात्मनीनमवलम्बते ऽतो ऽङ्गाङ्गिभावः सङ्करो ऽनयोरिति भावः ।
यत्त्वायासितरूपैकपदव्यञ्जकानुप्रविष्ट्योरेनयोरेकव्यञ्जकानुप्रवेशात्मा सो ऽत्रेति कश्चित्, तन्मन्दम्-मिथो ऽनपेक्षत्वरूपपृथग्व्यवस्थितत्व एव ध्वनिगते योग्यतास्त्येकव्यञ्जकानुप्रवेशात्मनः सङ्करस्य, प्रकृते चोक्तदिशोत्प्रेक्षापन्हुत्योः सापेक्षतैवमिथो ऽस्ति, न च नैरपेक्ष्ये संसृष्टेः प्रसङ्ग इति सङ्क्यम्? पदरूपविषयभेदविशिष्टानपेक्षत्वस्य संसृष्टौ विवक्षितत्वाद्, एकव्यञ्जकानुप्रवेशे च विशेष्यसत्त्वे ऽपि विशेषणाभावान्न संसृष्टिलक्षणातिव्याप्तिरित्याकूतम् ।
एवं वस्त्वलङ्काररसेति ।
यद्यपि सर्वमेव वस्तु तथापीह रसालङ्कारभिन्नं वस्तुपदेन विवक्षितम्, अलङ्कारत्वं च रसादिप्रतियोगिकभेदवद्व्यङ्ग्यप्रतियोगिकभेदविशिष्टशब्दार्थान्यतरनिष्टविषयितासम्बन्धावच्छिन्नचमत्कृतिजनकतावच्छेदकतावच्छेदकत्वम् रमश्च भग्रावरणचिद्विशिष्टः स्थायी ।
त्रिधा ध्वनिरत्रेति ।
यद्यपि प्रकारान्तरेम ध्वनीनांबाहुविध्ये ऽपि ध्वन्यमानविषयभेदनिबन्धनध्वनिविभागजनकत्वप्रकारकाचार्य्यतात्पर्यविषयीभूतधर्माणां वैविध्येन ध्वनित्रिधात्वमप्यविरुद्धमिति भावः ।
काव्यस्यात्मा ध्वनिर् इति बुधैर् यः समाम्नात-पूर्वस् तस्याभावं जगदुर् अपरे भाक्तम् आहुस् तम् अन्ये ।
केचिद् वाचाम् स्थितम् अविषये तत्त्वम् ऊचुस् तदीयं तेन ब्रूमः सहृदय-मनः-प्रीतये तत्-स्वरूपम्
काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वस्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये ।
के चिद्वाचां स्थितमविषये तत्त्वमूचुस्तदीयं तेन ब्रूमः सहृदयमनःप्रीतये तत्स्वरूपम् ॥ 1 ॥
लोचनम् अथ प्राधान्येनाभिधेयस्वरूपमभिदधदप्रधानतया प्रयोजनप्रयोजनं तत्सम्बद्धं प्रयोजनं च सामर्थ्यात्प्रकटयन्नादिवाक्यमाह-काव्यस्यात्मेति ।
काव्यात्मशब्दसंनिधानाद्बुधसब्दो ऽत्र काव्यात्मावबोधनिमित्तक इत्यभिप्रायेण विवृणोति-काव्यतत्त्वविद्भिरिति ।
बालप्रिया अथेत्यारम्भार्थः ।
अभिधेयस्वरूपमिति ।
ध्वनिस्वरूपमित्यर्थः ।
प्रयोजनेति ।
प्रयोजनस्य ध्वनिरूपाभिदेयज्ञानस्य प्रयोजनं प्रीतिरूपम्, अभिदधदित्यस्यात्रानुषङ्गः ।
आभिधेयस्वरूपस्य तत्स्वरूपं ब्रूम इति वाक्यार्थत्वं; प्रयोजनप्रयोजनस्य प्रीतय इति पदार्तत्वमतस्तदभिधानयोः प्राधान्याप्रादान्ये ।
तत्सम्बद्धमिति ।
तेन प्रयोजनप्रयोजनेन सम्बद्धमित्यर्थः ।
प्रयोजनमभिधेयज्ञानरूपम् ।
सामर्थ्यात् अर्थसामर्थ्यदाक्षेपत इति यावत् ।
प्रकटयन् बोधयन् ।
ध्वनिस्वरूपवचनस्य हि प्रयोजनं ध्वनिस्वरूपज्ञानं सहृदयानाम् ।
तस्य हि प्रयोजनं मनःप्रीतिः ।
एवञ्ज तयोर्हेतुहेतुमद्भावेन प्रयोजनप्रयोजनरूपायाः प्रीतेरभिधानात्तद्धेतुभूतस्य ध्वनिस्वरूपज्ञानस्य प्रकटनं सिद्ध्यतीति भावः ।
ननु बुधशब्दस्य सामान्यतो ज्ञातृवाचित्वात् वृत्तौ ऽकाव्यतत्त्वविद्भिरिऽति कुतो व्याख्यातमित्यतस्तदवतारयति-काव्येति ।
काव्यात्मबोधः निमित्तं प्रयोगनिमित्तं यस्य सः ।
यद्वा निमित्तं प्रवृत्तिनिमित्तम् ।
तच्च तत्पदजन्यबोधे प्रकारतया भासमानो धर्मः ।
ननु टिप्पनी प्राधान्येनेति ।
प्रतिपिपादयिषितत्वान्मुख्यत्वेन ।
अभिधेयेति ।
"तेन ब्रूम" इति प्रतिज्ञातत्वाद्ध्वन्यात्मकविषयम् ।
प्रयोजनप्रयोजनमिति ।
ध्वनिस्वरूपाभिधानस्य ध्वनिस्वरूपज्ञानं प्रयोजनम्, अस्य च सहृदयमनःप्रीतिस्तदिति भवति तदभिधानस्य ताद्दशप्रीतिस्तथा प्रयोजनम् ।
प्रयोजनप्रयोजनतावच्छेदककुक्षौ मनःपदोपादानं च भरतदर्शनाध्वनीनानां प्रक्रियांशे भूम्ना व्याकरमदर्शनानुसारित्वस्फोरणाय, इदमीये हि दर्शने सुखादिविशेषगुणानां मनोनिष्टत्वमेवाभिमतं नात्मनिष्टत्वम् ।
बुधशब्दो ऽत्रेति ।
सामान्यपरशब्दानां विशेषपरत्वे लक्षणैवाश्रयणीयान्यथा शाब्दविषयत्वानुपपत्तिरेव स्यात् ।
बुधैः काव्यतत्त्वविद्भः, काव्यस्यात्मा ध्वनिरिति संज्ञितः, परम्परया यः समाम्नातपूर्वः सम्यक् आसमन्ताद् म्नातः प्रकटितः, तस्य सहृदयजनमनःप्रकाशमानस्याप्यभावमन्ये लोचनम् आत्मशब्दस्य तत्त्वशब्देनार्थं विवृण्वानः सारत्वमपरशाब्दवैलक्षम्यकारित्वं च दर्शयति ।
इतिशब्दः स्वरूपपरत्वं ध्वलनिशब्दस्याचष्टे, तदर्थस्य विवादास्पदीभीततया निश्चयाभावेनार्थत्त्वायोगात् ।
एतद्विवृणोति-संज्ञित इति ।
वस्तुतस्तु न तत्संज्ञामात्रेणोक्तम्, अपि त्वस्त्येव ध्वनिशब्दवाच्यं प्रत्युत समस्तसारभूतम् ।
न ह्यन्यथा बुधास्तद्दशमामनेयुरित्यभिप्रायेण विवृणोति-तस्य सहृदयेन्यादिना ।
बालप्रिया काव्यात्मविद्भिरित्येव कुतो नोक्तमित्यत आह-आत्मेति ।
तत्त्वशब्देन अबाधितस्वरूपवाचिना तत्त्वशब्देन ।
अपरेति ।
अपरेभ्यःशाब्देभ्यःलौकिकवैदिकशब्दप्रतिपाद्येभ्यः स्वस्य यद्वैलक्षण्यं सहृदयश्लाध्यत्वादिना तत्कारित्वम्, दर्शयति व्यञ्जयति, तदर्थस्येति शेषः ।
आत्मेवात्मेत्यात्मशब्दो ऽत्र गौणः; तेन चाबाधितस्वरूपत्वरूपात्मसाम्येन ध्वनिरूपार्थो लक्ष्यत इति ज्ञापनाय तत्त्वशब्देन तदर्थविविरणं, तेन तस्य सारत्वादिकं व्यङ्ग्यमिति भावः ।
इतिशब्द इति ।
ध्वनिरितीत्यत्रेचिशब्द इत्यर्थः ।
आचष्टे ग्राहयति, सर्वशब्दानां सब्दस्वरूपपरत्वं तत्तत्सङ्केतितार्तपरत्वञ्जास्ति ।
तत्रेतिशब्दप्रयोगे शब्दस्वरूपपरत्वं, प्रकृते ध्वनिपदोत्तरमितिशब्दकरणाद्ध्वनिशब्दो ऽयं संज्ञारूपध्वनिशब्दस्य प्रतिपादक इत्यर्थः ।
तत्संज्ञाप्रकारेण संज्ञिनो भानञ्जाक्षेपादिना भवति यथा जातिसक्तिपक्षे व्यक्तेर्भानम् ।
यद्वा ध्वनिपदस्य लक्षणया ध्वनिसंज्ञित इत्यर्थ इति भावः ।
उक्तार्थे हेतुमाह-तदर्थस्येत्यादि ।
तदर्थस्य ध्वनिशब्दाभिदेयस्य ध्वन्यमानत्वविशिष्टस्य, विवादास्पदीभूततया ध्वनिरस्ति नास्तीति विप्रतिपत्तिविषयतया ।
निश्चयाभावेनेति ।
निश्चयाभाव इति पाठे निमित्ते सप्तमी ।
ध्वन्यमानत्वप्रकारेण तद्धर्मिणो मध्यस्थानां निश्चयाभावादित्यर्थः ।
यद्वा तदर्थस्येत्यस्य निश्चयाभावेनेत्यनेन सम्बन्धः ।
अर्थत्वायोगादिति ध्वन्यमानत्वविशिष्टरूपार्थवत्त्वासम्भवादित्यर्थः ।
ध्वनिसब्दस्येत्यस्यानुषङ्गः ।
एतदिति द्वनिशब्दस्य स्वरूपपरत्वमित्यर्थः ।
नन्वेवं ध्वनिशब्दस्य ध्वनिसंज्ञित इत्यर्थकथने सति तस्य ऽसहृदयमनःप्रकाशमानस्यापीऽति समनन्तरग्रन्थविरोधः, सहृदयमनःप्रकाशमानस्येत्यनेन ध्वन्यमानत्वविशिष्टार्थस्य सहृदयप्रतीतिविषयत्वाभिधानादित्याशङ्गं परिहर्तुं तद्ग्रन्थाभिप्रायमाह- वस्तुतस्त्वित्यादि ।
तदिति ।
ध्वनिपदमित्यर्थः ।
यद्वा ध्वनिरूपं वस्त्वित्यर्थः ।
संज्ञामात्रेणोति ।
मात्रपदेव ध्वन्यमानत्वरूपप्रवृत्तिनिमित्तस्य व्यवच्छेदः ।
ध्वनिशब्दवाच्यं ध्वनियमानत्वविशिष्टम् ।
अस्त्येवेत्यत्र हेतुमाह-न ह्यन्यथेत्यादि ।
विवृणोतीति-कारिकास्थं तस्येति पदं व्याचष्ट इत्यर्थः ।
सहृदयेत्यादिनेति ।
सहृदयमनःप्रकाशमानस्येत्यनेनेत्यर्थः ।
लोचनम् एवं तु युक्ततरम्--इतिशब्दो भिन्नक्रमो वाक्यार्थपरामर्शकः, ध्वनिलक्षणो ऽर्थः काव्यस्यात्मेति यः समाम्नात इति ।
शब्दपदार्थकत्वे हि ध्वनिसंज्ञितो ऽर्थ इति का सङ्गतिः? एवं हि ध्वनिशब्दः काव्यस्यात्मेत्युक्तं भवेद्, गवित्ययमाहेति यथा ।
न च विप्रतिपत्तिस्थानमसदेव, प्रत्युत सत्येव धर्मिणि धर्ममात्रकृता विप्रतिपत्तिरित्यलमप्रस्तुतेन भूयसा सहृदयजनोद्वेजनेन ।
बुधस्यैकस्य प्रामादिकमपि तथाभिदानं स्यात्, न तु भूयसां तद्युक्तम् ।
तेन बुधैरिति वहुवचनम् ।
तदेव व्याचष्टे--परम्परयेति ।
अविच्छिन्नेन प्रवाहेण तैरेतदुक्तं विनापि विशिष्टपुस्तकेषु विनिवेशनादित्यभिप्रायः ।
न च बुधा भूयांसो ऽनादरणायं बालप्रिया यादिदं संज्ञाप्रकारेण ध्वनिलक्षणं वस्तु काव्यात्मत्वेनाभिहितं तदश्रद्धोपहन्यमानमानसजनबुद्ध्यनुरोधेनैव ।
ध्वन्यमानत्वविशिष्टार्थस्य सहृदयप्रतीतिसिद्धतया तद्बुद्ध्यनुरोधेन च समनन्तरग्रन्थ इति भावः ।
यद्वा नन्वेवं ध्वनिपदस्य ध्वनिसंज्ञित इत्यर्थकत्वे कथमभावादिवादिप्रत्युत्थानम्, तेषां ध्वन्यमानत्व एव विवादेन द्वनिसंज्ञायां विवादाभावादित्यत आह-वस्तुतस्त्वित्यादि ।
विवृणोतीति ।
विविच्य वदतीत्यर्थः ।
सहृदयेत्यादिनेति ।
आदिपदेन सहृदयमनःप्रकाशमानस्याप्यभावमन्ये जगदुरित्यादेस्सङ्ग्रहः ।
ध्वनिरितीति योजनेन वृत्तिकृद्व्विरणमुपलक्षणमित्यभिप्रायेणाह-एवं त्वितायादि ।
एवं वक्ष्यमाणं योचजनं व्याक्यानं वेति शेषः ।
युक्ततरमिति ।
तरपा पूर्वव्याख्यानस्य युक्तत्वमस्तीति ज्ञाप्यते ।
भिन्नक्रम इति ।
यस्मादनन्तरं श्रूयते ततो ऽन्यत्र योजनीय इत्यर्थः ।
काव्यस्यात्मेति समाम्नातपूर्व इति योजनेति भावः ।
वाक्यार्थपरामर्शक इति ।
समाम्नाने का व्यास्यात्मेति वाक्यार्थप्रतिपादकत्वं बोधयतीत्यर्थः, न तु तद्वाक्याभेदमिति भावः ।
वाक्यमत्र पदसमुदायः ।
योजनां दर्शयति-ध्वनीत्यादि ।
ध्वनिरित्यस्य विवरणं-ध्वनिलक्षणो ऽर्थ इति ।
ध्वन्यमानत्वविशिष्ट इत्यर्थः ।
एवञ्चास्यैवार्थस्य तस्येति तत्पदेन परामर्शः ।
ध्वनिरितीति योजनापक्षे ध्वनिपदस्य केवलसंज्ञापरत्वे दोषमाह-शब्देत्यादि ।
शब्दपदार्थकत्वे ध्वनिपदस्य ध्वनिरिति संज्ञामात्रार्थकत्वे सति ।
कासङ्गतिरिति ।
असङ्गतं स्यादित्यार्थः ।
अत्र हेतुमाह-एवं हीत्यादि ।
ध्वनिपदस्य प्रागुक्तरीत्यार्ऽथपरत्वासङ्गतिशङ्कां परिहरति- न चेत्यादि ।
विप्रतिपत्तिस्थानं विप्रतिपत्तिविषयो धर्मी ।
धर्ममात्रकृतेत्यादि ।
यथा शब्दादौ सत्येव धर्मिणि नित्यत्वानित्यत्वादिधर्मकृता विप्रतिपत्तिः, प्रकृते च ध्वनिसंज्ञिते धर्मिणि गुणालङ्कारान्तर्भूतत्वभाक्तत्वादिधर्मकृता विप्रतिपत्तिरित् भावः ।
बुधैरिति बहुवचनार्थं व्याचष्टे-बुधस्येत्यादि ।
तथाभिधानं काव्यात्मत्वेनाभिधानम् ।
तत् प्रामादिकाभिधानम् ।
तेनेति ।
तदभिधानस्य प्रामाणिकत्वेनोपादेयत्वद्योतनार्थमित्यर्थः ।
तदेवेति ।
उक्तप्रयोजनकं बहुवचनमेवेत्यर्थः ।
परम्परयेत्यस्य विवरणमविच्छिन्नेनेत्यादि ।
एतदिति ।
ध्वनेः काव्यात्मत्वमित्यर्थः ।
विशिष्टेति ।
विशिष्टपुस्तकेषु विनिवेशनं लेखनेन स्थापनं, तस्माद्विनाप्युक्तमिति सम्बन्धः ।
साक्षादुपदेशसिद्धो ऽयमर्थ इति भावः ।
जगदुः ।
तदभावादिनां चामी लोचनम् वस्त्वादरेणोपदिशेयुः; एतत्त्वादरेणोपदिष्टम् ।
तदाह--सम्यगाम्नातपूर्व इति ।
पूर्वग्रहणेनेदम्प्रथमता नात्र सम्भाव्यत इत्याह, व्याचष्टे च --सम्यगासमन्ताद् म्नातः प्रकटित इत्यनेन ।
तस्येति ।
यस्याधिगमाय प्रत्युत यतनीयं, का तत्राभावसम्भावना ।
अतः किं कुर्मः, अपारं मौर्ख्यमभाववादिनामिति भावः ।
न चास्माभिरभाववादिनां विकल्पाः श्रुताः, कुं तु सम्भाव्य दूषयिष्यन्ते, अतः परोक्षत्वम् ।
न च भविष्यद्वस्तु दूषयितुं युक्तम्, अनुत्पन्नत्वादेव ।
तदपि बुद्ध्यारोपितं दूष्यत इति चेत्; बुद्ध्यारोपितत्वादेव भविष्यत्त्वहानिः ।
अतो भूतकालोन्मेषात् पारोक्ष्याद्विशिष्टाद्यतनत्वप्रतिभानाभावाच्च लिटा प्रयोगः कृतः-जगदुरिति ।
तह्याख्यानायेव सम्भाव्य दूषणं प्रकटयिष्यति ।
सम्भावनापिनेयमसम्भवतो युक्ता, अपि तु सम्भवत एव, अन्यथा सम्भावनानामपर्यवसानं बालप्रिया इत्यभिप्राय इति ।
परम्परयेति वचने वृत्तिकाराभिप्राय इत्यर्थः ।
समाम्नातपूर्व इत्यत्र संशब्दार्थं दर्शयितुमाह-न चेत्यादि ।
पूर्वग्रहणस्य फलमाह-पूर्वेति ।
अत्र आख्याने ।
इत्याह इति व्यञ्जयति ।
व्याचष्टे चेति ।
उक्तमर्थं व्याचष्टे चेत्यर्थः ।
सम्यगित्यादिना पूर्वशब्दार्थो ऽपि व्याख्यात इति भावः ।
बुधसमाम्नातत्वोक्त्या लब्धस्य विवरणं सहदयमनःप्रकाशमानस्यापीति ।
तेन गम्यमर्थन्दर्शयति-यस्येत्यादिना ।
जगदुरिति लिटः प्रयोगस्योपपत्तिं वृत्तौ व्याचक्षीरन्नित्यादेस्तद्विवरणरूपत्वादिकञ्च दर्शयितुमाह-न चेत्यादि ।
अस्माभिः ध्वनिवादिभिः, विरुद्धाः कल्पा विकल्पा विकल्पितार्थाः ।
यदि न श्रुताः कथन्तर्हि दूषयिष्यन्त इत्यत आह-सम्भाव्येति ।
के चिदाचक्षीरन्नित्यादिना सम्भावना ।
यत्रार्थशशब्दो वेत्यत्र व्याख्याने ऽयदप्युक्तऽमित्यानुवादपूर्वकंऽतदप्ययुक्तऽमित्यादिना दूषणञ्चेति बोध्यम् ।
अत इति ।
अश्रुतत्वादित्यर्थः ।
भूतत्वं साधयितुमाह-न चेति ।
अनुत्पन्नत्वादेवेति ।
एवकारः पौनर्वचनिकः, पूर्वोक्ताद्भविंष्यत्वादेवेत्यर्थः ।
शङ्कते-तदपीति ।
तत् भविष्यद्वस्तु, बुद्धावारोपितं बुद्ध्यारोपितं बुद्धिविषयीकृतम् ।
समाधत्तेबुद्धीति ।
आरोपणं करणम् ।
उपसंहरति-अत इति ।
वास्तवभूतत्वस्यासम्भवममिप्रेत्य उन्मेषादित्युक्तम् ।
प्रातिभासिशं भूतकालावच्छिन्नत्वं लिट्प्रयोगावलम्बनमिति भावः ।
विशशिष्टेति ।
कालविशेषरूपेत्यर्थः ।
एवं लिटः प्रयोगं प्रसाध्याचक्षीरन्नित्यादिलिङ्प्रयोगान् प्रकृतसङ्गतान् दर्शयति-तह्याख्यानायैवेति ।
लिटो व्याख्यानायैवेत्यर्थः, न तु स्वतन्त्रतयेत्येवकारार्थः. व्याख्यानायेत्यस्य सम्भाव्येत्यनेन सम्बन्धः ।
नन्वचक्षीरन्नित्यादिभिरेव जगदुरित्यस्य वायख्याने सम्भवति किं मध्ये तदभाववादिनाञ्जामी इत्यादिग्रन्थेनेत्यशाङ्कावारणायावतारयति-सम्भावनापीति ।
इयं लिट्समर्थकत्वेनोपात्ता ।
असम्भवतः कथञ्जिदप्यप्रतीतस्य ।
अपर्यवसानं स्यादिति ।
पर्यवसानस्थानालाभादिति भावः ।
विकल्पाः संभवन्ति ।
लोचनम् स्यात् दूषणानां च ।
अतः सम्भावनामभिधायिष्यमाणां समर्थयितुं पूर्वं सम्भवन्तीत्याह ।
सम्भाव्यन्त इति तूज्यमानं पुनरुक्तार्थमेव स्यात् ।
न च सम्भवस्यापि सम्भावना, अपि तु वर्तमानतैव स्फुटेति वर्तमानेनैव निर्देशः ।
ननु चासम्भवद्वस्तुमूलया सम्भावनया यत्सम्भावितं तद्दूषयितुमशक्यमित्याशङ्क्याह--विकल्पा इति ।
न तु वस्तु सम्भवति ताद्दक् यत इयं सम्भावना, अपि तु विकल्पा एव ।
ते च तत्त्वावबोधवन्ध्ततया स्फुरेयुरपि, अत एव ऽआचक्षीरन्ऽ इत्यादयो ऽत्र सम्भावनाविषया लिङ्प्रयोगा अतीतपरमार्थे पर्यवस्यन्ति ।
यथा-- यदि नामास्य कायस्य यद्न्तस्तद्बहिर्भवेत् ।
दण्डमादाय लोको ऽयं शुनः काकांश्च वारयेत् ॥
बालप्रिय्.आ अभिधायिष्यमाणाम् आचक्षीरन्नित्यादिना वक्ष्यमाणाम् ।
समर्थयितुमिति ।
यत्सम्भवति तत्सम्भाव्यत इति व्याप्त्या साधयितुमित्यर्थः ।
सम्भवन्तीत्याहेति ।
ऽतदभाववादिनाम्ऽ इत्यादिऽसम्भवन्तीऽत्यान्तमाहेत्यर्थः ।
ननु सम्भवन्तीत्यस्य स्थाने सम्भाव्यन्त इत्युच्यतां तदाप्रतिज्ञा चादौ कृता स्यादित्यत्राह-सम्भाव्यन्त इतीति ।
पुनरुक्तार्थमिति ।
लिङ्भिरित्यर्थः ।
ननु सम्भावनामूलभूतस्सम्भवो ऽपि किं सम्भावनीयः? नेत्याह-न चेति ।
वर्तमानेनेति ।
लटेत्यर्थः ।
विकल्पा इत्युक्तमवतारयति-ननु चेति ।
सम्भवद्वस्तुमूलमाश्रयो यस्यास्तया, सम्भावितंविषयीकृतमुत्पादितं वा ।
विकल्पा इत्युक्त्या कथं परिहार इत्यतस्तत्प्रकारं व्याचष्टे-न त्वित्यादि ।
ताद्दक्सम्भावना सम्भावितं वस्तु परमार्थसन्न सम्भवति ।
अत्र हेतुर्यत इति ।
इयमिति ।
कारमभूतेत्यर्थः ।
तर्हि किमालम्बना सम्भावनेत्यत आह-अपि त्वित्यादि ।
प्रमाणयुक्त्याभासाभ्यामधिष्टानभूते काव्यात्मनि ध्वनिस्वरूपे विरुद्धतया कल्प्यन्त इति विकल्पाः पक्षाः ।
ननु भावे कथमभावकल्पनेत्यत आह-ते चेति ।
तत्त्वेति ।
ध्वनिस्वरूपकाव्यात्मसंवित्तिविरहेमेत्यर्थः ।
स्फुरेयुरपि स्फुरन्त्येव ।
अत एवेति ।
यत इंमे पक्षा भ्रान्तिकल्पिताः, तत एवेत्यार्थः. अतीतेति ।
अतीतो भूतः परमार्थस्तात्पर्यार्थो येषां ते ।
परमार्थत्व इति च पाठः ।
पर्यवस्यन्तीति मूले जगदुरिति लिट्योग इव वृत्तावाचक्षीरन्नित्यादिसम्भावनार्थकलिङ्प्रयोगो ऽपि क्रियायाः सम्भावनारूपबुद्ध्यारोपितत्वनिमित्त्कभूतत्वे पर्यवस्यतीर्त्थः ।
उक्तार्थे दृष्टान्तमाह-यथेति ।
यदि नामेति ।
वस्तुतत्त्वनिवेदनमुखेन वैराग्यजननार्थमिदं वचनम् ।
कायस्य शरीरस्य ।
यदिति ।
मांसादीत्यर्थः ।
शुनः काकांश्चेति भक्षणाय प्रवृत्तानित्यार्थात् सिद्ध्यति ।
इत्यत्रेति ।
भूतप्राणतैवेति सम्बन्धः ।
एवमिति ।
बहिर्भूतान्तर्गतमांसादिकत्वेनेत्यर्थः ।
लोचनम् इत्यत्र ।
यद्येवं कायस्य दृष्टता स्यात्तदैवमवलोक्येतेति भूतप्राणतैव ।
यदि न स्यात्ततः किं स्यादित्यत्रापि, किं वृत्तं यदि पूर्ववन्न भवनस्य सम्भावनेत्ययमेवार्थ इत्यलमप्रकृतेन बहुना ।
तत्र समयापेक्षमेन शब्दो ऽर्थप्रतिपादक इति कृत्वा वाच्यव्यातिरिक्तं नास्ति व्यङ्ग्यम्, सदपि वा तदभिधावृत्त्याक्षिप्तं शब्दावगतार्थबलाकृष्टत्वाद्भाक्तम्, तदनाक्षिप्तमपि वा न वक्तुं शक्यं कुमारीष्विव भर्तृसुकमतद्वित्सु इति त्रय एवैते प्रधानविप्रतिपत्तिप्रकाराः ।
तत्राबावविकल्पस्य त्रयः प्रकाराः-शब्दर्थगुणालङ्काराणामेव शब्दोर्थशोभाकारित्वाल्लोकशास्त्रातिरिक्तसुन्दरशब्दार्थमयस्य बालप्रिया कायस्य शरीरस्य ।
एवमिति ।
निवार्यमाणश्वकाकत्वेन लोक इत्यर्थः ।
वाक्याभ्यां श्लोकस्य सारार्थो दर्शितः ।
भूतप्राणतैवेति ।
अतीतपरमार्थतैवेत्यर्थः ।
सम्भावनाविषयतद्बहिर्भवनादिक्रियायाः भूतकालावच्छिन्नत्वमेव प्रतीयत इति यावत् ।
विधाविव निषेधस्थले ऽप्येवमेवेति दर्शयितुमाह-यदीत्यादि ।
यदि नामेत्यादिपद्यस्य शेषभूतमिदमेकपादात्मकं वाक्यम्-यदि न स्यादिति ।
कायस्यान्तर्यत्त्द्बहिर्न स्याद्यदीत्यर्थः ।
किन्तु यथायथमेव व्यावस्थितान्तर्बहिर्भाग एवायं कायस्स्यादिति भावः ।
ततः किं स्यादिति ।
तदापि किं फलं स्यादित्यर्थः. तदाप्यतिजुगुप्सितो ऽयं कोयो निष्फल एव फल्गुतरविषयोपभोगमात्रोपयोगित्वादिति भावः ।
इत्यत्रापीत्यस्य अयमेवार्थ इत्यनेन सम्बन्धः ।
उक्तं वाक्यं खयं व्याचष्टे-किं वृत्तमित्यादि ।
यदि न भवनस्य सम्भावना किं वृत्तमिति योजना ।
ततः किं स्यादि त्यास्य विवरणं-किं वृत्तमिति ।
तदापि किं फलं जातं न किञ्चिदित्यर्थः ।
यदि न स्यादित्यस्य विवरणं यदि न भवनस्य सम्भावनेति ।
पूर्ववदिति वैधर्म्येण दृष्टान्तकथनं, यदि नामेत्यादौ यथा भवनस्य सम्भावनेति ।
अयमेवार्थ इति निषेधस्थले ऽपि लिङस्सम्भावनैवार्थ इति भावः ।
अथादौ प्रतिपत्तिसौकर्याय तात्पर्यं दर्शयति-तत्रेत्यादिना ।
तत्र ध्वनिविषये ।
समयापेक्षेणोन सङ्केतसहकारेण ।
इति कृत्वा इत्यतो हेतोः, शब्दस्य सङ्केतितार्थबोधकत्वादिति यावत् ।
वाच्यव्यतिरिक्तं संङ्केतितार्थव्यतिरिक्तम् ।
व्यङ्ग्यं तत्त्वेनाभिमतम्, नास्ति काव्ये नास्ति, व्यङ्ग्यत्वेनाभिमतङ्काव्यप्रतिपाद्यं न भवति काव्यशब्तदसङ्केतितत्वादित्यर्थः ।
सदपीति ।
तद्वाच्यव्यतिरिक्तं व्यङ्ग्यं सदपि भाक्तमिति सम्बन्धः ।
अत्र हेतुः-अभिधावृत्त्याक्षिप्तमिति ।
अभिदावृत्त्या अभिधापुच्छभूतया वृत्त्या लक्षणया, आक्षिप्तं बोधितम् ।
अत्र हेतुः-शब्देति ।
बलं सहकारि ।
तदनाक्षिप्तं अभिधावृत्त्यनाक्षिप्तम् ।
तत्सदित्यनयोरनुषङ्गः, सदपीति योजना ।
वक्तुम् असाधारणधर्मप्रकारेण प्रतिपादयितुम् ।
न शक्यं शक्तिर्नास्ति बुधेष्विति शेषः ।
अत्र दृष्टान्तः-कुमारीष्विवेति ।
वचनशक्त्यधिकरणत्वविवक्षया सप्तमी ।
अतद्वित्सु भर्तृसुखमजानतीषु ।
प्रधानविप्रतिपत्तीति ।
कारिकोक्तत्वादेषां ।
प्रादान्यम् ।
तानेव प्रकारानाह-शब्देत्यादि ।
शब्दार्थयोर्ये गुणाः, अलङ्काराश्चतेषामेव ।
ते ह्युभयवादिसिद्धशोभाहेतुभावाः ।
शब्देति ।
काव्यशोभाकारित्वादित्यर्थः ।
हेतुरयं वक्ष्यमाणे सर्वत्र बोध्यः--यत्र यत्र काव्यशोभाकारित्वं तत्र काव्यशोभाकारित्वं तत्र तत्रशब्दार्थगुणाद्यन्यतमत्वमिति लोचनम् काव्यस्य न शोभाहेतुः कश्चिदन्यो ऽस्ति यो ऽस्माभिर्न गणित इत्येकः प्रकारः, यो वा न गणितः स शोभाहेतुः कश्चिदन्यो ऽस्ति यो ऽस्माभिर्न गणित इत्येकः प्रकारः, यो वा न गणितः स शोभाकार्येव न भवतीति द्वितीयः, अथ शोभाकारी भवति तर्ह्यस्मदुक्त एव गुणे वालङ्कारे वान्तर्भवति, नामान्तरकरणे तु कियदिदं पाण्डित्यम् ।
अथाप्युक्तेषु गुमेष्वलङ्कारेषु वा नान्तर्भावः, तथापि किञ्चिद्विशेषलेशमाश्रित्य नामान्तरकरणमुपमाविच्छित्तिप्रकाराणामसंख्यत्वात् ।
तथापि गुणालङ्कारव्यतिरिक्तत्वाभाव एव ।
तावन्मात्रेण च किं कृतम्? अन्यस्यापि वैचित्र्यस्य शक्योत्प्रेक्षत्वात् ।
चिरन्तनैर्हि भरतमुनिप्रभृतिभिर्यमकोपमे एव शब्दार्थालङ्कारत्वेनेष्टे, तत्प्रपञ्चदिक्प्रदर्शनं त्वन्यैरलङ्कारकारैः कृतम् ।
तद्यया-ऽकर्मण्यण्ऽ इत्यत्र कुम्भकाराद्युदाहरमं श्रुत्वा स्वयं नगरकारादिशब्दा उत्परेक्ष्यन्ते, तावता क आत्मनि बहुमानः ।
एवंप्रकृते ऽपीति बालप्रिया व्याप्तिरनेन दर्शिता ।
लोकेति ।
लोकशास्त्रशब्दौ लोकिकवैदिकशब्दपरौ ।
अन्यः गुणालङ्कारेभ्यो ऽन्यः, कश्चिन्नास्तीति सम्बन्धः ।
गुणाद्यतिरिक्तः काव्यशोभाहेतुः कश्चिन्नास्तीति प्रतिज्ञा, प्रमाणाभावादिति हेतुरत्र बोध्यः ।
नन्वियं प्रतिज्ञा न युक्ता, गुणाद्यतिरिक्तस्य शोभाहेतोस्सिद्धौ तन्निषेधायोगादसिद्धौ निषेधस्याशक्यत्वाच्चेत्यत आह-यो ऽस्माभिरित्यादि ।
भवतामभिमत इति चार्थात्सिद्ध्यति, तथा च परमते प्रतियोगिप्रसिद्ध्या तन्निषेध इति भावः ।
ननु लब्धरूपे क्व चिदित्याद्युक्तनीत्याधर्मिस्वरूपसिद्ध्युपजीवनेन धर्मविशेषविषयतयैव निषेधस्यानुज्ञेयत्वाद्व्यङ्ग्यस्वरूपसत्तानिषेधो न सम्भवतीत्यतो द्वितीयं प्रकारमाह-यो वेत्यादि ।
न गणित इति ।
गुणालङ्कारव्यतिरिक्तत्वेनेत्यर्थात् ।
स इति असमाभिरगणितो व्यङ्ग्यत्वेन भवदभिमतश्चेत्यर्थः ।
ननु व्यङ्ग्यस्य शोभाकारित्वं स्वसंवेदसाक्षिकं कथमपह्नूयत इत्यतः प्रकारान्तरमाह- अथेत्यादि ।
स इत्यनुषज्यते ।
अथ यदि ।
अन्तर्भवतीति ।
व्यङ्ग्यत्वेनाभिमतं गुणालङ्कारान्यतरदेव भवितुमर्हति काव्यशोभकारित्वादित्यर्थः ।
ननु ध्वन्यादिसमाख्यावशात्तद्भेदसिद्धिरित्यत आह-नामान्तरेति ।
ननु न केवलं नामान्तरकरणमेव, तन्निमित्तञ्चास्त्यतो न गुणाद्यन्तर्भाव इत्याशङ्कगमभ्युपगच्छति-अथापीत्यादि ।
नान्तर्भाव इति ।
काव्यजीवितत्वादिविशेषादिति भावः ।
परिहरति-तथापीत्यादि ।
नामान्तरकरणमिति ।
अस्मदुक्तानां गुमादीनां काव्यजीवितत्वादिविशेषमाश्रित्य ध्वन्यादिनामान्तरं भवद्भिः क्रियत इत्यर्थः ।
अत्र हेतुमाह-उपमेति ।
विच्छित्तिः वैचित्र्यम् ।
उपमेत्यलङ्कारान्तराणां गुणानाञ्चेपलक्षणम् ।
फलितमाह-तथापीत्यादि ।
तथापि तथा च ।
ततः किमिति तदाह-तावदिति ।
तावन्मात्रेण किञ्चिद्विशेषलेशमाश्रित्य नामान्तरकरणमात्रेण ।
किं कृतमिति ।
न किञ्चिदपि पाण्डित्यं सम्पादितमित्यर्थः ।
अत्र हेतुरन्यस्येति ।
तदेवोपपादयति-चिरन्तनैरित्यादि ।
उक्तमर्थं सोपहासद्दष्टान्तं निगमयति-तदित्यादि ।
तत् तस्मात् ।
तत्रेति वा पाठः ।
तथा सतीत्यर्थः ।
तत्र केचिदाचक्षीरन्--शब्दार्थशरीरन्तावत्काव्यम् ।
तत्र च शब्दगताश्चारुत्वहेतवो ऽनुप्रासादयः लोचनम् तृतीयः प्रकारः ।
एवमेकस्त्रिधा विकल्पः, अन्यौ च द्वौविति पञ्च विकल्पा इति तात्पर्यर्थः ।
तानेव क्रमेणाह-शब्दार्थशरीरं तावदित्यादिना ।
तावद्ग्रहणेन कस्याप्यत्र न विप्रतिपत्तिरिति दर्शयति ।
तत्र शब्दार्थौ न तावद्ध्वनिः, यतः संज्ञामात्रेण हि को गुणः? अथ शब्दार्थयोश्चारुत्वं स ध्वनिः ।
तथापि द्विविधं चारुत्वम्--स्वरूपमात्रनिष्टं संघटनाश्रितं च ।
तत्र शब्दानां स्वरूपमात्रकृतं चारुत्वं शब्दालङ्कारेभ्यः, संघटनाश्रितं तु शब्दगुणेभ्यः ।
एवमर्थानां चारुत्वं स्वरूपमात्रनिष्टमुपमादिभ्यः ।
संघटनापर्यवसितं त्वर्थगुणेभ्य इति न गुणालङ्कारव्यतिरिक्तो ध्वनिः कश्चित् ।
संघटनाधर्मा इति ।
शब्दार्थयोरिति शेषः ।
यद्गुणालङ्कारव्यतिरिक्तं तच्चारुत्वकारि न भवति, नित्यानित्यादोषा असाधुदुःश्रवादय इव ।
चारुत्वहेतुश्च ध्वनिः, तन्न तद्व्यतिरिक्तैति व्यतिरेकी हेतुः ।
ननु वृत्तयोरीतयश्च यथा गुणालङ्कारव्यतिरिक्ताश्चारुत्वहेतवश्च, प्रसिद्धा एव ।
अर्थगताश्चोपमादयः ।
वर्णसंघटनाधर्माश्च ये माधुर्यादयस्ते ऽपि प्रतीयन्ते ।
तदनतिरिक्तवृत्तयो वृत्तयो ऽपि लोचनम् तथा ध्वनिरपि तद्व्यतिरिक्तश्च चारुत्वहेतुश्च भविष्यतीत्यसिद्धो व्यतिरेक इत्यनेनाभिप्रायेणाह--तदनतिरिक्तवृत्तय इति ।
नैव वत्तिरीतीनां तह्यतिरिक्तत्वं सिद्धम् ।
तथा ह्यनुप्रासानामेव दीप्तमसृणमध्यमवर्णनीयोपयोगितया परुषत्वललितत्वमध्यमत्वस्वरूपविवेचनाय वर्गत्र्रयसम्पादनार्थं तिस्त्रो ऽनुप्रासजातयो वृत्तय इत्युक्ताः, वर्तन्ते ऽनुप्रासभेदा आस्विति ।
यदाह-- सरूपव्यञ्जनन्यासं तिसृष्वेतासु वृत्तिषु ।
बालप्रिया रेकीत्यर्थ इति केचित् ।
ऽशब्दार्थशरीरम्ऽ इत्यादेः ऽप्रतीयन्तऽ इत्यन्तस्य वृत्तिग्रन्थस्य सारार्थं व्याख्यायोत्तरग्रन्थं प्रकृतोपयोगं दर्सयन्नवतारयति-नन्वित्यादि ।
असिद्धोव्यतिरेक इति ।
यत् गुणालङ्कारव्यातिरिक्तं, तच्चारुत्वकारि नेति व्यतिरेकव्याप्तेर्गुणालङ्कारव्यतिरिक्तासु चारुत्वहेतुत्या सम्प्रतिपन्नासु वृत्तिरीतिषु व्यभिचारादसिद्धिरित्यर्थः ।
इत्यभिप्रायेणेति ।
इतिशङ्कायामुत्तराभिप्रायेणेत्यर्थः ।
तदभिप्रायं विशदयति--नैवेत्यादि ।
तह्यतिरिक्तत्वं गुणालङ्कारव्यतिरिक्तत्वम् ।
वृत्तीनान्तावदनुप्रासालङ्कारान्तर्भावं दर्शयितुमाह--तथा ह्यनुप्रासानामेवेत्यादि ।
अनुप्रासानामेवेत्यस्य वर्गत्रयसम्पादनार्थमित्यनेन सम्बन्धः ।
तदपि किमर्थमित्यात्राह--परुषत्वेत्यादि ।
परुषत्वादिस्वरूपाणां विशिष्य प्रदर्शनार्थमित्यर्थः ।
तस्यापि फलमाह--दीप्तेति ।
दीप्तं रौद्रादौरसे, मसृणं मधुरं शृङ्गरादौ, मध्यमं हास्यादौ, तथाविधं यद्वर्णनीयं विभावादि, तदुपयोगित्या वर्णनीयविशेषोपयोगित्वेनानुप्रसविशेषोपादेयतासिद्ध्यर्थमित्यर्थः ।
अनुप्रासजातय इति ।
अनुप्रासानामाश्रयभूता जातय इत्यार्थः ।
विवरिष्यते चेदमुपरि. वृत्तय इत्युक्ताः वृत्तय इति व्यवहृताः ।
तत्र व्युत्पत्तिमाह--वर्तन्त इति ।
अनुप्रासभेदाः अनुप्रासविशेषाः ।
आस्विति ।
वृत्तिरित्यत्र वृतिधातोरधिकरणे क्तिन्निति भावः ।
यदाहेति ।
भट्टोद्भट इति शेषः ।
सरूपेति ।
एतासु लोचनम् पृथक्पृथगनुप्रासमुशन्ति कवयः सदा ॥
इति ।
. ।
पृतक्पृथगिति ।
परुषानुप्रासा नागरिका ।
मसृमानुप्रासा उपनागरिका, ललिता ।
नागरिकया विदग्धया उपमितेति कृत्वा ।
मध्यममकोमलपरुषमित्यर्थः ।
अत एव वैदग्ध्यविहीनस्वभावसुकुमारापरुषग्राभ्यवनितासाद्दश्यादियं वृत्तिर्ग्राम्येति ।
तत्र तृतीयः कोमलानुप्रास इति वृत्तयो ऽनुप्रासजातय एव ।
न चेह वैशोषिकवद्वृत्तिर्विवक्षिता, येन बालप्रिया तिसृषु वृत्तिषु परुषादिषु ।
पृथक्पृथक् सरूपाणां सजातीयानां व्यञ्जनानां न्यासः उपनिबन्धः तम् ।
अनुप्रासमुशन्ति इच्छन्ति ।
"शषाम्यामि" त्यादिकारिकात्रयेम परुषदिवृत्तीनां स्वरूपमुक्तन्तद्भन्थे द्रष्टव्यम् ।
पृथक् वृतागित्यंशं व्याचष्टे-परुषेत्यादि ।
परुषवर्णारब्धत्वलात्परुषो ऽनुप्रासो यस्यां वृत्तौ सा ।
परुषाया एव नागरिकेति संज्ञा ।
मसृणेति ।
मधुरवर्णारब्धत्वान्मसृणो ऽनुप्रासो यस्यां सा ।
अस्या नामद्वयमाह--उपनागरिका ललितेति ।
उपमिता नागरिकया उपनागरिकेत्यन्वर् था संज्ञेत्याह--नागरिकयेति ।
परुषानुप्रासः मसृणानुप्रास इति पाठस्तु अनुप्रासवृत्योरैक्याभिप्रायेण योज्यः ।
वक्ष्यमाणग्राम्यवृत्तावनुप्रासस्य मध्यमत्वं दर्शयितुम्मध्यमशब्दार्थमाह-मध्यममकोमलपरुषमिति ।
मधुरवर्णभिन्नं परुषवर्णभिन्नञ्चेत्यर्थः ।
तदारब्धो ऽनुप्रासो मध्यमानुप्रास इत्यर्थ ।
तदनुप्रासाया वृत्तेः ग्राम्यसंज्ञामुपादनपूर्वकमाह--अत एवेत्यादि ।
अत एव माधुर्यपारुश्यराहित्यादेव ।
वैदग्ध्येत्यादि ।
वैदग्ध्यविहीना स्वभावतः असुकुमारा अमधुरा, अपरुषा अनुद्बणस्वभावा च या ग्राम्यवनिता, तत्सादृश्यादित्यर्थः ।
तत्र तृत् ईयः कोमलानुप्रास इति ।
उक्तेष्वनुप्रासेषु मध्यमानुप्रासः कोमलानुप्राससंज्ञकश्चेत्यर्थः ।
अनेन ग्राम्याया वृत्तेः रूढा कोमलसंज्ञा च भट्टोद्भटोक्ता दर्शिता ।
उपसंहरति-वृत्तय इत्यादि ।
याः कैश्चिदुपनागरिकाद्याः प्रकाशिताः, ता अपि गताः श्रवणगोचरम् ।
लोचनम् जातौ जातिमतो वर्तमानत्वं न स्यात्, तदनुग्रह एव हि तत्र वर्तमानत्वम् ।
यथाह कश्चित्-- लोकोत्तरे हि गाम्भीर्ये वर्तन्ते पृथिवीभुजः ।
इति ।
तस्माद्वृत्तयो ऽनुप्रासादिभ्यो ऽनतिरिक्तवृत्तयो नाभ्यधिकव्यापाराः ।
अत एव व्यापारभेदाभावान्न पृथगनुमेयस्वरूपा अपीति वृत्तिशब्दस्य व्यापारवाचिनो ऽभिप्रायः ।
अनतिरिक्तत्वादेव वृत्तिव्यवहारो भामहादिभिर्न कृतः ।
उद्भटादिभिः प्रयुक्ते ऽपि तस्मिन्नार्थः कश्चोदधिको हृदयपथमवतीर्ण इत्यभिप्रायेणाह--गताः अवणगोचरमिति ।
बालप्रिया शषादितत्तद्वर्णरचनारूपाः परुषाद्या वृत्तयो वस्तुतो ऽनुप्रासेषु वर्तन्ते ।
यथा-पृथिवीभुजि गाम्भीर्यं, ताः परुषत्वादिविशिष्टानुप्रासादिभिरभिव्यज्यन्ते च ।
यथा--गोत्वादिजातया गवादिबिः. अतश्च स्वाश्रयाभिव्यङ्ग्यत्वसाम्याद्वृत्तीनां जातित्वोपचार इति भावः ।
ननुवृत्तिरूपजातौ तज्जातिमतो ऽनुप्रासस्य वर्तनमुक्तमयुक्तं, वैशेषिकमतविरुद्धत्वादित्यत आह--न चेत्यादि ।
इह अस्मन्मते ।
वैशोषिकवत् वैशेषिकमत इव ।
वृत्तिर्न विवक्षितेति ।
वर्तनमाधेयत्नरूपन्न विवक्षितमित्यार्थः ।
तर्हि तत्र वर्तनं किन्नामेत्यत आह--तदनुग्रह एवेति ।
वृत्तिरूपजातिकर्तृकानुग्रह एवेत्यर्थ. स च तत्कर्तृकं भेदकधर्मसमर्पणं रसाभिव्यञ्जनसामर्थ्याधानं वा ।
उक्तार्थे दृष्टान्तमाह-लोकोत्तर इति ।
गम्भीर्ये वर्तन्त इति ।
गाम्भीर्यानुगृहीता भवन्तीत्यर्थः ।
गाम्भीर्यकर्तृकानुग्रहश्च सकलकार्यनिर्वहणसामर्थ्यदानादिरूपः ।
वृत्तौ ऽतदनतिरिक्तवृत्तयऽ इत्यत्र तत्पदार्थन्दर्शयन्नुपसंहरति--तस्मादनुप्रासादिभ्य इत्यादि ।
नास्त्यतिरिक्ता वृत्तिर्व्यापारो यासां ता इत्यार्थकतया व्याचष्टे-नाभ्यधिकेति ।
अनुप्रासानां यो व्यापारो रसव्यञ्जनविषयः, स एव वृत्तीनामपीति भावः. तदनतिरिक्ता इत्यनुक्त्वा एवमुक्तेः फलन्दशयति-अत एवेत्यादि ।
अतः उक्तात् व्यापारभेदाभावादेवेति योजना ।
न पृथगनुमेयस्वरूपा इति ।
पृथगनुप्रासावगमं विना नानुमेयस्वरूपाः, किन्तु वृत्तिव्याञ्जकवर्णविशेषरूपानुप्रासलिङ्गगम्या इति भावः ।
न पृथगभिदेयस्वरूपा इति च पाठः ।
अनुप्रासाभ्यधिकव्यापारसत्त्वे तु वृत्तीनां स्वरूपं पृथगभिधेयं स्यादिति तद्भावः ।
उक्तार्थे वृद्धसम्मतिमाह--अनतीति ।
अनुप्रासानननूद्भटादिभिः कृत एवेत्यत्राह-उद्भटादिभिरिति ।
प्रयुक्ते कृते ।
तस्मिन् वृत्तिव्यवहारे ।
नार्थ इति ।
अर्थः वृत्तिशब्दार्थः ।
अधिकः अनुप्रासरूपार्थादधिकः ।
रीतयश्च वैदर्भीप्रभृतयः ।
तह्यतिरिक्तः को ऽयं ध्वनिर्नामेति ।
लोचनम् रीतयश्चेति ।
तदनतिरिक्तवृत्तयो ऽपि गताः श्रवणगोचरमिति सम्बन्धः ।
तच्छब्देनात्र माधुर्यादयो गुणाः, तेषां च समुचितवृत्त्यर्पणे यदन्योन्यमेलनक्षमत्वेन पानक इव गुडमरिचादिरसानां सङ्घातरूपतागमनं दीप्तललितमध्यमवर्णनीयविषयं गौडीयवैदर्भपाञ्चालदेशहेवाकप्राचुर्यद्दशा तदेव त्रिविधं रीतिरित्युक्तम् ।
जातिर्जातिमतो नान्या, समुदायश्च बालप्रिया इत्याभेप्रायेणेति ।
ऽगताऽ इत्यादिग्रन्थ उक्तार्थपर इत्यर्थः ।
ऽरीतयश्चेऽत्यत्र समुचितपदानुषञ्जनेन पूरयन्नाह--तदित्यादि ।
तच्छब्दो ऽत्र गुणपरामर्शक इत्याह-तच्छब्दनेति ।
प्रत्यवमृश्यन्त इति शेषः ।
तथा पाठश्च ।
कथन्नाम रीतीनां गुणानतिरिक्तत्वमिति तदुपपादयति--तेषाञ्चेत्यादि ।
तेषां गुणानाम् ।
समुचितेति ।
समुचितादीप्तादिवर्णनीयौचित्यवती या वृत्तिः विशिष्टा वर्णरचना, तस्यां यद्गुणानामर्पणं तस्मिन्नित्यर्थः ।
समुचिता तत्तद्रसव्यञ्जनोचिता या वृत्तिः व्यापारः, तदर्पणे निमित्ते इति केचित् ।
अन्योन्येति ।
प्ररस्परसंश्लेषयोग्यत्वेन हेतुनेत्यर्थः ।
त्रैविध्योपपादकं-दीप्तेत्यादि ।
द्वन्द्वगर्भकर्मधारयस्य विषयपदेन बहुव्रीहिः ।
सङ्घातेति ।
समूहीभावेन रूपान्तरप्राप्तिरिति यावत् ।
सङ्घातपरूपत्वेन हृद्यत्वे दृष्टन्तः-पानक इवेति ।
तथा च माधुर्यादिगुणानां प्रत्येकं प्रातिस्वलिकरूपेण रीतिशब्दवाच्यत्वं नास्ति, परन्तु विशिष्टसङ्घातधर्मवत्तयेति भावः ।
ननु केनैतदुक्तमिति शङ्कायां वैदर्भ्यादिशब्दप्रवृत्तिनिमित्तन्दर्शयन्नुत्तरमाह-गौडीयेत्यादि ।
गौडविदर्भपाञ्चालसम्बान्धनो गौडीयादयो ये देसास्तेषां तत्रत्याकवीनामिति यावत् ।
विशिष्टवर्णनविषये योहेवाकः स्वभावः स्वाच्छन्द्यं वा, तं प्राचुर्येण पश्यतीति तेन ।
वामनेनेति भावः ।
हेवाकप्राचुर्यस्य दृशा दर्शनेन हेतुनेतत्यार्थो वा ।
विदर्भादिषु दृष्टत्वात्ततत्समाख्येति भावः ।
त्रिविधमित्यनेन रीतिगतमपि गौडीया वैदर्भी पाञ्जालीति त्रेविध्यं सूचितम् ।
यथोक्तं वामनेन--"रीतिरात्मा काव्यस्य ।
विशिष्टा पादरचना रीतिः ।
विशेषो गुणात्मा ।
सा त्रेधा--वैदर्भी गौडीया पाञ्चाली च ।
वैदर्भीदिषु दृष्टत्वात्तत्समाख्या समग्रगुणा वैदर्भी ।
ओजःकान्तिमती गौडीया ।
माधुर्यसौकुमार्योपपन्ना पाञ्चाली" इति ।
ननुक्तरीत्या वृत्यनुप्रासयोर्जातिजातिमद्भानाद्रीतिगुणयोस्समुदायसमुदायिभावाच्च कथमैक्यमत आह-जातिरित्यादि ।
समुदायः अवयवी ।
समुदायिनः अवयवात् ।
अन्ये ब्रूयुः--नास्त्येव ध्वनिः ।
प्रसिद्धप्रस्थानव्यतिरेकिणः काव्यप्रकारस्य काव्यत्वहानेः लोचनम् समुदायिनो नान्य इति वृत्तिरीतयो न गुमालङ्कारव्यतिरिक्ता इति स्थित एवासौ व्यतिरेकी हेतुः ।
तदाह--तद्व्यतिरिक्तः को ऽयं ध्वनिरिति ।
नैष चारुत्वस्थानं शब्दार्थरूपत्वाभावात् ।
नापि चारुत्वहेतुः, गुणालङ्कारव्यतिरिक्तत्वादिति ।
तेनाखण्डबुद्धिसमास्वाद्यमपि काव्यमपोद्दारबुद्ध्या यदि विभज्यते, तथाप्यत्र ध्वनिशब्दवाच्यो न कश्चिदतिरिक्तो ऽर्थो लभ्यत इति नामशब्देनाह ।
ननु मा भूदसौ शब्दार्थस्वाभावः, मा च भूत्तच्चारुत्वहेतुः, तेन गुणालङ्कारव्यतिरिक्तो ऽसौ स्यादित्याशङ्क्य द्वितीयमभाववादप्रकारमाह--अन्य इति ।
भवत्वेवम्; तथापि नास्त्येव ध्वनिर्याद्दशस्तव लिलक्षयिषितः ।
काव्यस्य ह्यसौ कश्चिद्वक्तव्यः ।
न बालप्रिया नान्य इति ।
तयोस्तादात्म्यस्यैवाङ्गीकारादिति भावः ।
प्रकृतमुपसंहरति--इतीति ।
स्थित एव उपपन्न एव ।
ऽतद्व्यतिरिक्तऽ इत्यादिग्रन्थः उक्तानुमानस्य निगमनरूप इत्यभिप्रायेणावतारयति-तदित्यादि ।
तदाह तस्मादाह ।
ऽतद्व्यतिरिक्तऽ इति हेतुगर्बतच्छब्देन शब्दार्थौ तद्गुणालङ्काराश्च परामृश्यन्ते ।
ऽको ऽयमिऽ त्यत्र किशब्दः किमेष चारुत्वस्थानमुत चारुत्वहेतुरिति विकल्पनिषेधपरश्चेत्याशयेन विवृणोति-नैष इत्यादिना ।
शब्दार्थतद्गुणालङ्कारव्यतिरिक्तः काव्यचारुताहेतुत्वविशिष्टो ध्वनिर्नास्तीति विशेष्टध्वनिसत्तानिषेधश्चानेनार्थात्सिद्ध्यतीति बोध्यम् ।
एष इति ।
ध्वनित्वेनाभिमत इत्यर्थः ।
इतीत्यस्यानन्तरं किंशब्दनाहेति शेषो बोध्यः ।
किंशब्दे नैवोक्तार्थे लब्धे कि नामशब्देनेत्यत आह--तेनेत्यादि ।
अपोद्धारबुद्ध्येति ।
विभागबुद्ध्येत्यार्थः ।
नामशब्देनाहेति ।
नामशब्दो ऽत्यन्तासत्वद्योतक इति भावः ।
एतावता शब्दार्थतद्गुमालङ्कारव्यतिरिक्तस्य काव्यशोभाहेतुत्वविशिष्टस्य ध्वनेरभाव एव सिद्धः, न तु स्वरूपेण ध्वनेरभाव इति तत्सिद्ध्ये पक्षान्तरोपक्षेप इत्याशयेनावतारयति-नन्वित्यादि ।
असौ ध्वनिः ।
तेनेति तथापीत्यार्थः ।
यद्वा चारुत्वहेतुत्वाबावेनेत्यर्थः ।
चारुत्वहेतुत्वाद्धि गुणाद्यन्तर्भाव आपादितः, तदनह्गीकारे तु तद्व्यतिरिक्तध्वनिसद्भावस्सम्भावनार्ह एवेत्यार्थः ।
गुणालङ्कारेति शब्दार्थयोरुपलक्षणम् ।
इत्यासङ्क्येति ।
इति ध्वनिवादिशङ्काम्मनसिकृत्येत्यर्थः ।
भवत्वेवमित्यभ्युपगमे ।
तर्हिजितमस्माभिरित्यत्राह-तथापीत्यादि ।
ननूक्तमेव तदस्तित्वमित्यत आह--यादृश इत्यादि ।
ताद्दस इति पूर्वेम सम्बन्धः ।
यादृशो लिलक्षयिपितः काव्यसम्बन्धितया लभणयुक्तं कर्तुमभिलषितः ।
इममर्थन्दर्शयन्नाह-काव्यस्य हीत्यादि ।
समुदितस्य सहृदयहृदयाह्लादिशब्दार्थमयत्वमेव काव्यलक्षणम् ।
न चोक्तप्रस्थानातिरेकिणो मार्गस्य तत्सम्भवति ।
न च तत्समयान्तःपातिनः लोचनम् चासौ नृत्तगीतवाद्यादिस्थानीयः काव्यस्य कश्चित् ।
कवनीयं काव्यं, तस्य भावश्च काव्यत्वम् ।
न च नृत्तगीतादि कवनीयमित्युच्यते ।
प्रसिद्धेति ।
प्रसिद्धं प्रस्थानं शब्दार्थौ तद्गुणालङ्काराश्चेति, प्रतिष्टन्ते परम्परया व्यवहरन्ति येन मार्गेण तत्प्रस्थानम् ।
काव्यप्रकारस्येति ।
काव्यप्रकारत्वेन तव स मार्गो ऽभिप्रेतः, ऽकाव्यस्यात्माऽ इत्युक्तत्वात् ।
ननु कस्मात्तत्काव्यं न भवतीत्याह--यहृदयेति ।
मार्गस्येति ।
वृत्तगीताक्षिनिकोचनादिप्रयस्येत्यर्थः ।
तदिति ।
सहृदयेत्यादिकाव्यलक्षणमित्यर्थः ।
ननु ये ताद्दशमपूर्वं कावयरूपतया जानन्ति, त एव सहृदयाः ।
बालप्रिया काव्यस्य समुदायितया सम्बन्धित्वेन ह्यसौ वक्तव्यः ।
न च गुणादिभ्यो व्यतिरेके सति काव्यसम्बन्धित्वमस्य शचक्योपपादं, नृत्त्गीतादिवत् ।
तदयं प्रयोगः--विवादाध्यासितो ध्वनिः, न काव्यं, शब्दार्थातिरिक्तत्वात्; न च काव्यसम्बन्धी, तद्गुणालङ्कारातिरिक्तत्वात्, नृत्तगीतादिवदिति ।
न च साध्यविकलो दृष्टान्तः, तेषामकवनीयत्वेन काव्यत्वाभावस्य तत्सम्बन्दित्वाभावस्य च प्रसिद्धत्वादित्यर्थः ।
नृत्तगीतादेर्नाट्यस्थले शोभाकारित्वरूपविशेषं मनसिकृत्य दृष्टान्ततया कथनम् ।
स्वोक्तार्थपरतया प्रसिद्धेत्यादिग्रन्थं व्याचष्टे--प्रसिद्धमित्यादि ।
प्रतिष्टन्त इत्यस्य व्याख्या--परम्परयेत्यादि ।
परम्परया अविच्छिन्नप्रवाहेण ।
व्यवहरन्ति काव्यव्यवहारं कुर्वन्ति ।
येन मार्गोण मार्गतुल्येन येन ।
ध्वनेः काव्यप्रकारत्वोक्तिर्ध्वन्यभाववादनो व्याहितेत्याशङ्क्य परप्रसिद्ध्युपजीविनी तदुक्तिरित्याह--काव्येत्यादि ।
काव्यप्रकारत्वेन काव्यभेदत्वेन ।
तत्वेनाभिमत इति तदर्थ इति भावः ।
वृत्तौ ऽप्रसिद्धेऽत्यादिना पूर्वोक्तो हेतुर्दर्शितः ।
काव्यत्वहानेरित्यनेन साध्यश्चेति बोध्यम् ।
इत्याहेति ।
इत्याशङ्कायामाहेत्यर्थः ।
मार्गपदेन प्रृते विवक्षितं व्याचष्टे-नृत्तेति ।
अक्षिनिकोचनादीत्यादिपदेनाक्षिसम्भविनां विकारान्तराणां परिग्रहः ।
प्रायशब्दस्तुल्यार्थकः ।
सहृदयेत्यादिति ।
सहृदयहृदयाह्लादिशब्दार्थमयत्वमित्यर्थः ।
ऽसहृदयहृदयाह्लादीऽत्यनेन गुणालङ्कारसुन्दरत्वमुक्तम् ।
ऽन च तत्समयेऽत्यादिवृत्तिग्रन्थ एक एव शङ्कोत्तरात्मकः ।
तत्र शङ्काभागं विवृणोति-नन्वित्यादि ।
तादृशमिति ।
यत्तत्र भवद्भिर्नृत्तगीतादिप्रायमिति सोपहासमुक्तं ध्वनिस्वरूपन्तदित्यरथः ।
अपूर्वं पूर्वमनुन्मीलितम् ।
जानन्तीत्यनेन ऽतत्समयान्तः पातिनः सहृदयान् कांश्चिदिऽति सहृदयान् कांश्चित्परिकल्प्य तत्प्रसिद्या ध्वनौ काव्यव्यपदेशः प्रवर्तितो ऽपि सकलविद्वन्मनोग्राहितामवलम्बते ।
लोचनम् तदभिमतत्वं च नाम काव्यलक्षणमुक्तप्रस्थानातिरेकिण एव भविष्यतीत्याशङ्क्याह--न चेति ।
यथा हि खङ्गलक्षणं करोमीत्युकत्वा आतानवितानात्मा प्राव्रियमाणः सकलदेहाच्छादकः सुकुमारश्चित्रतन्तुविरचितः संवर्तनविवर्तनसहिष्णुरच्छेदकः सुच्छेद्य उत्कृष्टः खङ्ग इति ब्रुवाणाः, परैः पटः खल्वेवंविधो भवति न खङ्ग इत्ययुक्तताय पर्यनुयुज्यमान एवं ब्रूयार्त्--इद्दशा एव खङ्कां सकलशब्देन निराकरोति ।
बालप्रिया वृत्यर्थो विवृतः ।
तत्समयः ध्वनिपदसङ्केतः ।
ऽतत्प्रसिद्ध्येऽत्याद्यंशं व्याचष्टे-तदभीति ।
नामशब्देन तदभिमतत्वस्येव काव्यलक्षणत्वमिति सूचयति-इत्याशङ्क्याहेति ।
इत्येकांशेन ध्वनिवादिशङ्कामनूद्य परिहारमाहेत्यर्थ ।
ऽसकलेऽत्यादि परहारग्रन्थस्याभिप्रायं सद्दष्टान्तं स्पष्टयन्नाह---यथाहीत्यादि ।
खङ्गलक्षणं खङ्गस्वरूपम् ।
करोमीति ।
करोतिरत्र वचनक्रियावाची ।
अत एव इति ब्रुवाण इति वक्ष्यते ।
आतानेति ।
आतानः आयामो विस्तारः ।
वितानः तिर्याग्विस्तारः ।
आत्मा स्वभावो यस्य सः ।
प्रव्रियमाणः प्रावरणीक्रियमाणः ।
प्रावरणस्वरूप इति च पाठः ।
संवर्तनेति ।
संवर्तनं सङ्कोचनम् ।
विवर्तनं विकासनम् ।
ते सहिष्णुः तद्योग्यः ।
इति ब्रुवाण इति ।
आतानादिविशिष्टः पदार्थः उत्कृष्टखङ्ग इति वदन्नित्यर्थः ।
पर्यनुयुज्यमानः आक्षिप्यमाणः सन् ।
कथं बूयादित्यत्राहर्--इदृश इत्यादिर् ।
इद्दशः पदार्थ एव मम खङ्गत्वेनाभिप्रेत इत्यर्तः ।
एतदिति ।
सहृदयान्तरकल्पनयोक्तं काव्यलक्षणमित्यर्थः ।
नन्वमुया सोपहासोक्त्या किं जातम्? न नः किञ्चिच्छिन्नमित्यत आह--प्रसिद्धमिति ।
लक्ष्यं लक्षणेन निरूपणीयम्. न कल्पितमिति ।
लक्ष्यं भवतीत्यनुषज्यते ।
तदाह उक्ताद्भावादाह ।
उक्ताभिप्रायं वचनमाहेत्यर्थः ।
विद्वन्मनसामुचित विषय एव प्रवृत्तिसम्भवाद्विद्वत्पदेन उक्ताबिप्रायस्सूचित इति भावः ।
ऽसकलेऽत्युक्तेः फलमाह--विद्वांसो ऽपीति ।
तत्समयज्ञाः ध्वनिसमयज्ञाः ।
ननु माभूत्सकलविद्वन्मनोग्राहिता, पूनरपरे तस्याभावमन्यथा कथयेयुः--न सम्भवत्येव ध्वनिर्नामापूर्वः कश्चित् ।
कामनीयकमनतिवर्तमानस्य तस्योक्तेष्वेव चारुत्वहेतुष्वन्तर्भावात् ।
लोचनम् एवं हि कृते ऽपि न किञ्चित्कृतं स्यादुन्मत्तता परं प्रकटितेति भावः ।
यस्त्वत्राभिप्रायं व्याचष्टे--जीवितभूतो ध्वनिस्तावत्तवाभिमतः, जीवितं च नाम प्रसिद्धप्रस्थानातिरिक्तमलङ्कारकारैरनुक्तत्वात्तच्च न काव्यमिति लोके प्रसिद्धमित ।
तस्येदं सर्वं स्ववचनविरुद्धम् ।
यदि हि तत्काव्यस्यनुप्राणकं तेनाङ्गीकृतं पूर्वपक्षवादिना तच्चिरन्तनैरनुक्तमिति प्रत्युत लक्षणार्हमेव भवति ।
तस्मात्प्राक्तन एवात्राभिप्रायः ।
ननु भवत्वसौ चारुत्वहेतुः शब्दार्थगुणालङ्कारान्तर्भूतश्च, तथापि ध्वनिरित्यमुया भाषया जीवितमित्यसौ न केनचिदुक्त इत्यभिप्रायमाशङ्क्य तृतीयमभाववादमुपन्यस्यति पुनरपर इति ।
कामनीयकमिति कमनीयस्य कर्म ।
चारुत्वधीहेतुतेति यावत् ।
बालप्रिया को दोष इत्यत आह--एवं हीत्यादि ।
अभिनवपरिकल्पितसहृदयहृदयाह्लादकारित्वात्मकलक्षणे कृते, किञ्चिल्लक्षणं कृतन्न स्यात्, परन्तु उन्मत्ततैव प्रकाशिता स्यान्न तु विद्वत्तेत्यर्थः ।
व्याख्यानान्तरमनुवदति--यस्त्वित्यादि ।
अभिप्रायं द्वितीयाभाववाद्यभिप्रायम् ।
जीवितेति ।
ध्वनिर्जीवितभूतो ऽभिमत इति सम्बन्धः ।
तच्चेति ।
ध्वन्यात्मकं जीवितञ्चेत्यर्थः ।
न काव्यमिति ।
जीवितभूतो ध्वनिर्न काव्यमलङ्कारैरनुक्तत्वादिति प्रयोगः ।
तद्दूषयति--तस्येत्यादि ।
स्ववचनविरोधमुपपादयति--यदि हीत्यादि ।
तत् तर्हि ।
अनुक्तमिति ।
अनुक्तत्वाद्धेतोः ।
लक्षणार्हमेवेति ।
लक्षयितव्यमेवेत्यर्थः ।
न निषेधार्हमिति भावः ।
प्राक्तनः पूर्वोक्तः ।
अभिप्रायः अभाववाद्यभिप्रायः ।
तृतीयमवतारयति--नन्वित्यादि ।
यद्येवं किं भवतः प्रयासेनेत्यत आह-तथापीति ।
एवमप्यसौ ध्वनिरित्यमुया भाषया जीवितमिति न केनचिदुक्तः ध्वनिः काव्यात्मेति केनापि लक्षणकारेण नोक्तमित्यर्थः ।
अतो लक्षणपुरस्सरन्तद्वक्तुमस्मत्प्रयास इति भावः ।
इत्यभिप्रायं ध्वनिवाद्यभिप्रायम् ।
आशङ्क्येत्यनन्तरं प्रवर्तितमिति शेषः ।
वुञो भावर्थत्वे चारुत्वहेत्वन्तर्भावोक्तिरनुपपन्ना स्यादतो व्यचष्टे-कमनीयस्य कर्मेति ।
फलितमाह-चारुत्वेति ।
काव्यस्येत्यर्थात् ।
वृत्तौ ऽतस्येऽत्यस्य ध्वनेरित्यर्थः ।
ऽचारुत्वहेतुष्विऽत्यस्य गुणालङ्कारेष्वित्यर्थः ।
तेषामन्यतमस्यैव वा अपूर्वसमाख्यामात्रकरणे यत्किञ्चन कथनं स्यात् ।
किञ्च वाग्विकल्पानामानन्त्यात्सम्भवत्यपि वा कस्मिंश्चित्काव्यलक्षमविधायिभिः प्रसिद्धैरप्रदर्शते प्रकारलेशे ध्वनिर्ध्विनिरिति यदेतदलीकसहृदयत्वभावनामुकुलितलोचनैर्नृत्यते, लोचनम् ननु विच्छित्तीनामसंक्यत्वात्कचित्ताद्दशी विच्छित्तिरस्माभिर्द्दष्टा, या नानुप्रसादौ, नापि माधुर्यादावुक्तलक्षणे ऽन्तर्भवेदित्याशङ्क्याभ्युपगमपूर्वकं परिहरति---वाग्विकल्पानामिति ।
वक्तीति वाक् शब्दः ।
उच्यत इति वागर्थः ।
उच्यते ऽनयेति वागभिधाव्यापारः ।
तत्र शब्दार्थवैचिव्यप्रकारौऽनन्तः ।
अभिधावैचित्र्यप्रकारो ऽप्यसंख्येयः ।
प्रकारलेश इति ।
स हि चारुत्वहेतुर्गुणो वालङ्कारो वा ।
स च सामान्यलक्षणेन संगृहीत एव ।
यदाहुः--ऽकाव्यसोभायाः कर्तारो धर्मा गुणाः, तदतिशयहेतवस्त्वलङ्काराःऽ इति ।
तथा ऽवक्राभिधेयशब्दोक्तिरिष्टा वाचामलङ्कृतिःऽ इति ।
ध्वनिर्ध्वनिरित् वीप्सया सम्भ्रमं सूचयन्नादरं दर्शयति--नृत्यत इति ।
तल्लक्षणकृद्भिस्तद्युक्तकाव्यविधायिभिस्तच्छ्रवणोद्भूतचमत्कारैश्च बालप्रिया ऽकिञ्च वाग्विकल्पानाम्ऽ इत्यादिग्रन्थं व्याख्यास्यमानं मनसिकृत्यावतारयति लोचनेनन्विति ।
वच्छित्तीनामिति ।
विविधं छिद्यन्त इति विच्छित्तयः वैचित्र्याणि, तासाम् ।
अनुप्रासादावित्यादिपदेनोपमादेः प्ररिग्रहः ।
उक्तलक्षण इति द्वयोर्विशेषणम् ।
भवदुक्तलक्षण इत्यर्थः ।
अभ्युपगमपूर्वकमिति ।
कित्र्चेत्यनेनाभ्युपगमो दर्शितः ।
ऽवाग्विकल्पानाम्ऽ इत्यत्र वाक्पदं नानार्थकं विकल्पपदं वेचित्र्यार्थकमिति व्याचष्टे-वक्तीत्यादि ।
अभिधावेचित्र्येति ।
एतत्तु कुन्तकादिमताभिप्रायेणोक्तम् ।
भावार्थं विवृणोति-स हीत्यादि ।
सः प्रकारलेशः ।
स च चारुत्वहेतुश्च ।
वामनोक्तन्तल्लक्षणमाह-काव्यशोभाया इत्यादि ।
तदतिशयेति ।
काव्यशोभातिशयेत्यर्थः ।
भामहोक्तञ्चाह-तथा वक्रा विचित्रा चमत्कारकारिणी ।
अभिधेयशब्दयोः वाटच्यवाचकयोरुक्तिरभिधा ।
एवञ्च यद्यद्वैचित्र्यान्तरमुल्लिख्यते तस्य तस्य कथितगुणालङ्कारसामान्यलक्षणसङ्गृहीतत्वात्तत्कर्त्रद्दष्टत्वमसम्भाव्यमिति भावः ।
वीप्सयेति द्विर्वचनेनेत्यर्थः ।
संम्भ्रममिति ।
ध्वनिवादिनो ध्वनिप्रस्थानस्थापने त्वरामित्यर्थः ।
सूचयन्निति ।
सम्भ्रमे द्योत्ये द्विर्वचनमत्रेति भावः ।
आदरमिति ।
ध्वनिवादिनो ध्वनावादरमित्यर्थः ।
ऽनृत्यतऽ इत्यत्र कर्तृपदमौचित्यात्पूरयति--तदित्यादि ।
तत्पदं ध्वन्यर्थकम् ।
केचिद्ध्वनिलक्षणकृतः, केचित्तद्युक्तकाव्यविधायिनः, केचित्तत्काव्यश्रवणोद्भूतचमत्काराः तत्र हेतुं न विद्मः ।
सहस्त्रशो हि महात्मभिरन्यैरलङ्कारप्रकाराः प्रकाशिताः प्रकाश्यन्ते च ।
न च तेषामेषा दशा श्रूयते ।
तस्मात्प्रवादमात्रं ध्वनिः ।
न त्वस्य क्षोदक्षमं तत्त्वं किञ्चिदपि प्रकाशयितुं शक्यम् ।
तथा चान्येन कृत एवात्र श्लोकः--- यस्मिन्नस्ति न वस्तु किञ्चिन मनःप्रह्लादि सालङ्कृति लोचनम् प्रतिपत्तृभिरिति शेषः ।
ध्वनिशब्दे को ऽत्यादर इति भावः ।
एषा दर्शति ।
स्वयं दर्पः परैश्च स्तूयमानतेत्यर्थः. वाग्विकल्पाः वाक्प्रवृत्तिहेतुप्रतिभाव्यापारप्रकारा इति वा ।
तस्मात्प्रवादमात्रमिति ।
सर्वेषाम भाववादिनां साधारण उपसंहारः ।
यतः शोभाहेतुत्वे गुणालङ्कारेभ्यो न व्यतिरिक्त, यतश्च व्यतिरिक्तत्वे न शोभाहेतुः, यतश्च शोबाहेतुत्वे ऽपि नादरास्पदं तस्मादित्यर्थः. न चेयमभावसम्भावना निर्मूलैव दूषितेत्याह--तथा चान्येनेति ।
ग्रन्थकृत्समानकालभाविना बालप्रिया प्रतिपत्तारः, तैस्त्रिभिरित्यर्थः ।
केचित्तु--अनादरन्दर्शयतीति, अतद्युक्तकाव्येति, अतच्छ्रवणेति च पठन्ति ।
तत्पक्षे अनादरमित्यस्याभाववादिनां ध्वनावनादरमित्यर्थः ।
अतद्युक्तेत्यादि तल्लक्षणकृद्धिरित्यस्य वक्तुमशक्यत्वाद्ध्वनिशब्दमात्रविषयकः पर्यवस्यति ।
स चोपहासहेतुरेव सम्पद्यत इति भावः ।
परैरिति ।
ध्वनियुक्तकाव्यविधायिभिरित्यर्थः ।
सिंहावलोकनन्यायेन ऽवाग्विकल्पानामानत्यादिऽत्यात्र वाग्विकल्पपदमन्यथा व्याचष्टे--वागित्यादि ।
अभाववादस्यान्योन्यसम्बद्धतया उपन्यासादैक्यसिद्धेरुपसंहारेणापि तदनुरुपेण भाव्यमित्याशयेनाह--सर्वेषामिति ।
साधारण्यं स्पष्टयति--यत इत्यादि ।
नादरास्पदमिति ।
गुमालङ्कारेष्वेवान्तर्भावेन शब्दमात्रस्यैवापूर्वत्वादिति भावः ।
ऽतथाचेऽत्यादिग्रन्थः पूर्वोक्ताभाववादसम्भावनामूलप्रदर्शनपर इत्याशयेन तद्ग्रन्थमवतारयति--न चेत्यादि ।
इयमभावसम्बावना पूर्वोपदर्शता अभाविवादसम्भावना ।
निर्मूलैव सती न दूपिता, किन्तु समूलैवेति भावः ।
करिष्यमाणस्याप्यबाववाददूषणस्य बुद्धिस्थत्वेन कृतप्रायत्वाद्दूषितेति भूतनिर्देशः ।
इत्याहेति ।
मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0