भाषा

ENहिગુ
ग्रंथ पाठ

ध्वन्यालोक (टीका सहित) · भाग 181200

निजचित्स्वभावा स्वात्मचैतन्यरूपा च या निवृतिः लोकोत्तरानन्दः, तस्यां विश्रान्तिः विगलितवेद्यान्तरतया स्थितिः तल्लक्षण इत्यर्थः ।
अत्र रजसो गुणस्यानुवेधेन द्रुतिः तमसो विस्तारः सत्वस्य विकास इति विवेकः ।
उक्तं हि काव्यप्रकाशसङ्केते---"यदाहि रजसो गुणस्य द्रुतिः तमसो विस्तारः सत्वस्य विकासः तदा भोगः स्वरूपं लमत" इति ।
उक्तरीत्या भोगस्यात्मानन्दविषयकत्वादाह---परेति ।
स एवेति ।
उक्तविधभोग एवेत्यर्थः ।
सिद्धरूप इति ।
चिदानन्दरूपस्यात्मनः सिद्धरूपत्वादिति भावः ।
व्युत्पत्तिरिति ।
प्रतिपत्तॄणां लोचनम् अत्रोच्यते---रसस्वरूप एव तावद्विप्रतिपत्तयः प्रतिवादिनाम् ।
तथाहि-पूर्वावस्थायां यः स्थायी स एव व्यभिचारिसम्पातादिना प्राप्तपरिपोषो ऽनुकार्यगत एव रसः ।
नाट्ये तु प्रयुज्यमानत्वान्नाट्यरस इति केचित् ।
प्रवाहधर्मिण्यां चित्तवृत्तौ चित्तवृत्तेः चित्तवृत्त्यन्तरेण कः परिपोषार्थः? विस्मयशोकक्रोधादेश्च क्रमेण तावन्न परिपोष इति नानुकार्ये रसः ।
अनुकर्तरि चतद्भावे लयाद्यननुसरणं स्यात् ।
रामजिकगते वा बालप्रिया चतुर्वर्गोपायव्युत्पत्तिरित्यर्थः ।
इतीति ।
इति भट्टनायकोक्तमिति सम्बन्धः ।
रसस्वरूप एवेति ।
रसपदार्थ एवेत्यर्थः ।
विभिन्नाः प्रतिपत्तयो विप्रतिपत्तयः विभिन्नानि मतानि ।
तथाहीति ।
नाट्यस्थले विप्रतिपत्तीरादौ विवृणुम इत्यर्थः ।
तत्र ललनादिभिरालम्बनविभावैः स्थायी रत्यादिको जनितः, उद्यानादिभिर्व्यभिचारिभिः परिपोषितो रामादावनुकार्ये रसः, नटे तु रामादिरूपतानुसन्धानवशादारोप्यमाणस्सामाजिकानां चमत्कारकारीति भट्टलोल्लटादिमतमादौ दर्शयति---पूर्वेत्यादि ।
पूर्वावस्तायामिति ।
अप्राप्तपरिपोषावस्थायामित्यर्थः ।
यः स्थायीति ।
स्थायित्वेन व्यपदिश्यमानो यो रत्यादिरित्यर्थः ।
ऽस एव प्राप्तपरिपोषो रसऽ इतिसम्बन्धः ।
रसः रसपदार्थः ।
स चानुकार्यगत एवेति ।
अनुकार्यरामादावेवोत्पद्यमानो वर्तत इत्यर्थः ।
अनेनानुकर्तरि तदारोप इति दर्शितम् ।
तस्मान्नाट्यरसा इति भरतोक्तनाट्यरसशब्दार्थमाह----नाट्य इत्यादि ।
नाट्यस्य नाट्यसम्बन्धी वा रसो नाट्यरस इति व्युत्पत्तिरिति भावः ।
मतमिदं दूषयित्वा प्रकारान्तरेण वदतां श्रीशङ्कुकादीनां मतं दर्शयति----प्रवाहेत्यादि ।
चित्तवृत्तौ रत्यादिचित्तवृत्तौ ।
प्रवाहधर्मिण्यां तत्तत्कारणवशेन पुनः पुनरुत्पद्यमानायां नश्यन्त्यां च सत्यामिति हेतुगर्भम् ।
चित्तवृत्तेः रत्यादिस्यायिचित्तवृत्तेः ।
चित्तवृत्यन्तरेण उत्कण्ठादिव्यभिचारिणी परिपोषार्थः क इति ।
परिपोषरूपं फलं न भवतीत्यर्थः ।

अतो व्यभिचारिभिः परिपोषस्य कथनमनुपपन्नमिति भावः ।
विषर्ययश्चास्तीत्याह---विस्मयेत्यादि ।
क्रमेण कालक्रमेण ।
न परिपोष इति ।
किन्त्वपचय एवेति भावः ।
यथोक्तं काव्यप्रकाशसङ्केते---"इष्टवियोगजो महान् शोकः क्रमेम शाम्यति, न तु दृढीभवति क्रोधोत्साहरतयश्च निजनिजकारणोद्भूता अपि कालवसादमर्षस्थैर्यसवाविपर्यये ऽपचीयन्त" इति ।
इतीति हेतौ ।
नानुकार्ये रस इति ।
अनुकार्यरामादिगतो रस इत्युक्तपक्षो न युक्त इत्यर्थः ।
तर्हि अनुकर्तृगतो ऽस्त्वित्यत्राह---अनुकर्तरीत्यादि ।
अनुकर्तरि नटे ।
तद्भावे रससत्वे सति ।
लयादीति ।
लयो नाम नृत्तगीतवाद्यानामेकतानतारूपं साम्यं रसस्य नटे सिद्धत्वेन तदुपयोगिलयाद्यनुसरणं न स्यादित्यर्थः ।
तर्हि सामाजिकतो ऽस्त्वित्यत्राहसामाजिकेत्यादि ।
लोचनम् कश्चमत्कारः? प्रत्युत करुणादौ दुःखप्राप्तिः ।
तस्मान्नायं पक्षः ।
कस्तर्हि? इहानन्त्यान्नियतस्यानुकारो न शक्यः, निष्प्रयोजनश्च विशिष्टताप्रतीतौ ताटस्थ्येन व्युत्पत्त्यभावात् ।
तस्मादनियतावस्थात्मकं स्थायिनमुद्दिश्य विभावानुभाव्यभिचारिभिः संयुज्यमानैरयं रामः सुखीति स्मृतिविलक्षणा स्थायिनि प्रतीतिगोचरतयास्वादरूपा प्रतिपत्तिरनु कर्त्रालम्बना नाट्यैकगामिनी रसः ।
स च न व्यतिरिक्तमाधारमपेक्षते ।
किं त्वनुकार्याभिन्नाभिमते नर्तके आस्वादयिता सामाजिक इत्येतावन्मात्रमदः ।
तेन नाट्य एव बालप्रिया तद्भावे इत्यनुषज्यते ।
कश्चमत्कार इति ।
रामादेरिव सामाजिकस्यापि रत्यादिरूपरसोत्पत्तौ चमत्कारो न जायेतेति भावः ।
दुःखप्राप्तिरिति ।
स्यादिति शेषः ।
नायं पक्ष इति ।
उक्तः पक्षो न युक्त इत्यर्थः ।
कस्तर्हीति ।
पक्ष इत्यनुषज्यते ।
प्रश्रस्योत्तरं वक्तुमुपक्रममाण आह---इहेत्यादि ।
आनन्त्यादिति ।
तत्तद्गतस्य रत्यादिभावस्य मन्दतममन्दतरमन्दमध्यमत्वादिभेदेनासंख्वत्वादित्यर्थः ।
नियतस्येति ।
निश्चितैकावस्थाविशिष्टस्येत्यर्थः ।
स्थायिन इति शेषः ।
अनुकारो न शक्य इति ।
स्थायिन आनन्त्यान्नियतैकावस्थत्वेन ज्ञातुमशक्यत्वादिति भावः ।
कथञ्चित्तत्सम्भवे ऽप्याह---निष्प्रयेजनश्चेत्यादि ।
अनुकार इत्यनुषज्यते ।

निष्प्रयोजनत्वे हेतुमाह---विशिष्टतेत्यादि ।
स्थायिनो रामादिव्यक्तिविशेषवृत्तित्ववैशिष्ट्यमवबुध्य नटेन तदनुकारे क्रियमाणे तथैव सामाजिकानां प्रतीत्या तस्य तटस्थत्वेन चतुर्वर्गोपायव्युत्पत्तेरनुदयादित्यर्थः ।
अनेन स्थाय्यनुकारो रस इति पक्षो ऽप्ययुक्त इति दर्शितम् ।
खमतमाह---तस्मादित्यादि ।
ऽस्थायिनमुद्दिश्य संयुज्यमानैऽरिति सम्बन्धः ।
ऽस्थायिप्रतीतिमुद्दिश्य संयुज्यमानैऽरिति सम्बन्धः ।
स्थायिप्रतीतिमुद्दिश्य नटेन प्रयुज्यमानैरित्यर्थः ।
विभावेति ।
तैर्लिङ्गैरित्यर्थः ।
प्रतिपत्तिरित्यनेनास्य सम्बन्धः ।
अयं रामः सुखीति ।
रामो ऽयं सीताविषयकरतिमानित्यर्थः ।
सामाजिकानां चित्रतुरगन्यायेन नटे रामादिबुद्धर्जायते ।
इतीत्यस्य प्रतिपत्तिरित्यनेन सम्बन्धः ।
स्थायिनि प्रतीतिगोचरतयेति ।
स्थायिनः प्रतीतिविषयत्वेन हेतुनेत्यर्थः ।
वस्तुसौन्दर्यादिति भावः ।
आस्वादरूपेति ।
चमत्कारिचर्वणारूपेत्यर्थः ।
प्रतिपत्तिरिति ।
सामाजिकानामनुमितिरित्यर्थः ।
अनुकर्त्रालम्बनेति ।
अयमित्यनेन नटस्य विषयीकरणादनुकर्तृविषयिकेत्यर्थः ।
स चेति ।
तथाविधस्थायिप्रतीतिरूपो रसश्चेत्यर्थः ।
व्यतिरिक्तमिति ।
वक्ष्यमाणादन्यमित्यर्थः ।
अनुकार्याभिन्नाभिमते अनुकार्यरामाद्यभेदेन गृहीते ।
नर्तक इति ।
अस्तीति शेषः ।
तथाविधप्रतीतिरूपरसस्य नर्तकविशेष्यकत्वान्नर्तके विशेष्यतासम्बन्धेन सत्वात्स एवाश्रय इत्यर्थः ।
आस्वादयिता आस्वादरूपप्रतीतेः समवायेनाश्रयः ।
नाट्य एवेति ।
लोचनम् रसः, नानुकार्यादिष्विति केचित् ।
अन्ये तु---अनुकर्तरि यः स्थाय्यवभासो ऽभिनयादिसामग्प्यादिकृतो भित्ताविवहरितालादिना अश्वावभासः, स एव लोकातीततयास्वादापरसंज्ञया प्रतीत्या रस्यमानो रस इति नाट्याद्रसा नाट्यरसाः ।
अपरे पुनर्विभावानुभावमात्रमेव विशिष्टसामगप्या समर्प्यमाणं तद्विभावनीयानुभावनीयस्थायिरूपचित्तवृत्त्युचितवासनानुषक्तं स्वनिर्वृतिचर्वणाविशिष्टमेव रसः ।
तन्नाट्यमेव रसाः ।
अन्ये तु शुद्धं विभावम्, अपरे शुद्धमनु भावम्, केचित्तु स्थायिमात्रम्, इतरे व्यभिचारिणम्, अन्ये तत्संयोगम्, एके ऽनुकार्यम्, केचन सकलमेव समुदायं रसमाहुरित्यलं बहुना ।
काव्ये ऽपि च लोकनाट्यधर्मिस्थानीयेन स्वभावोक्तिवक्रोक्तिप्रकारद्वयेनालौकिकप्रसन्नमधुरौजस्विशब्दसमर्प्यमाणविभावादियोगादि यमेव रसवार्ता ।
अस्तु वात्र नाट्याद्विचित्ररूपा रसप्रतीतिः; उपायवैलक्षण्यादियमेव तावदत्र सरणिः ।

एवं स्थिते प्रथमपक्ष बालप्रिया नाट्ये इति छेदः ।
रसस्योक्तरीत्या नटाश्रयकत्वेन नाट्याश्रयकत्वमित्यर्थः ।
रामादिगतस्थायिनो ऽनुकारे नटे स्थाय्यवभासो मिथ्याज्ञानरूपः सामाजिकानां जायते, स एव चमत्कारकारी रस इति केचित्तन्मतमाह----अन्य इत्यादि ।
ऽअश्वावभास इवेऽत्यन्वयः ।
स एवेति ।
अवभासमानः स्थाय्येवेत्यर्थः ।
रस्यमान इति ।
विषयीक्रियमाण इत्यर्थः ।
नाट्याद्रसा इति ।
स्थाय्यवभासस्य नाट्यहेतुकत्वादिति भावः ।
मतान्तरमाह---अपर इत्यादि ।
विभावानुभावमात्रमेवेति ।
रस इत्यनेनास्य सम्बन्धः ।
कथमित्यत्राह---विशिष्टेत्यादि ।
विशिष्टसामग्रया भावकत्वविशिष्टया नाट्यादिसामग्रया ।
समर्प्यमाणमिति ।
सामाजिकेष्पिति शेषः ।
तदिति ।
ताभ्यां विभवानुभवाभ्यां क्रमाद्विभावनिया अनुभावनीया च या रत्यादिस्थायिरूपचित्तवृत्युचिता वासना सामाजिकगता तदनुषक्तं तत्सम्बद्धम् ।
स्वेति ।
स्वस्य सामाजिकस्य निर्वृतिरूपा या चर्वणा तद्विशिष्टं तद्विषयभूतम् ।
नाट्यमेवेति ।
विभवानुभवयोर्नण्टनयोग्यत्वरूपनाट्यत्वादिति भावः ।
ऽशुद्धं विभावम्ऽ इत्यादौ सर्वत्र रसमाहुरित्यस्य सम्बन्धो बोध्यः ।
लोकेत्यादि ।
"स्वभावाभिनयोपेतं न नास्त्रीपुरुषाश्रयं नाट्यं लोकधर्मि" "स्वरालङ्कारसंयुक्तमस्वस्थपुरुषाश्रयं नाट्यं नाट्यधर्मि" तत्स्थानीयेन तत्तुल्येन ।
स्वभावेति ।
वक्रोक्तिशब्दार्थः पूर्वमुक्तः ।
द्वयेनेति तृतीयार्थो वैशिष्ट्यं शब्दे ऽन्वेति ।
द्वयेनेत्यलौकिकत्वे हेतुर्वा ।
अलौकिकेति ।
अलौकिको लौकिकशब्दव्यतिरिक्तः प्रसन्नो मधुर ओजस्वी च यः शब्दः, तेन समर्प्यमाणानां विभावादीनां योगादित्यर्थः ।
इयमेवेति ।
उक्तप्रकारैवेत्यर्थः ।
रसवार्ता रसपदार्थः तत्प्रतीतिर्वा ।
अस्तु वात्रेति ।
अत्र काव्ये ।
विचित्ररूपा विजातीया ।
अत्र हेतुमाह---उपायेति ।
इयमिति ।

वक्ष्यमाणरूपेत्यर्थः ।
लोचनम् एवैतानि दूषणानि, प्रतीतेः स्वपरगतत्वादिविकल्पनेन ।
सर्वपक्षेषु च प्रतीतिरपरिहार्या रसस्य ।
अप्रतीतं हि पिशाचवदव्यवहार्य स्यात् ।
किं तु यथा प्रतीतिमात्रत्वेनाविशिष्टत्वे ऽपि प्रात्यक्षिकी आनुमानिकी आगमोत्था प्रतिभानकृता योगिप्रत्यक्षजा च प्रतीतिरुपायवैलक्ष्ण्यादन्यैव, तद्वदियमपि प्रतीतिश्चर्वणास्वादनभोगापरनामा भवतु ।
तन्निदानभूताया हृदयसंवादाद्युपकृताया विभावादिसामग्प्या लोकोत्तररूपत्वात् ।
रसाः प्रतीयन्त इति ओदनं पचतीतिवद्य्ववहारः प्रतीयमान एव हि रसः ।
प्रतीतिरेव विशिष्टा रसना ।
सा च नाट्ये लौकिकानुमानप्रतीतेर्विलक्षणा; तां च प्रमुखे उपायतया सन्दधाना ।
एवं काव्ये अन्यशाब्दप्रतीतेर्विलक्षणा, तां च प्रमुखे उपायतयापेक्षमाणा ।
तस्मादनुत्थानोपहतः पूर्वपक्षः ।
रामादिचरितं तु न सर्वस्य हृदयसंवादीति महत्साहसम् ।
चित्रवासनाविशिष्टत्वाच्चेतसः ।
यदाह-"तासामनादित्वं आशिषो नित्यत्वात् ।
बालप्रिया अत्र काव्ये ।
प्रथमपक्ष इति ।
भट्टलोल्लटोक्तोत्पत्तिपक्ष इत्यर्थः ।
विकल्पनेन दूषणानिति सम्बन्धः ।
सर्वेति ।
सहृदयानां रसप्रतीतिः सर्वपक्षे ऽप्यपरिहार्येत्यर्थः ।
विपक्षे बाधकमाह-अप्रतीतमित्यादि ।
अप्रतीतं विशिष्याज्ञातं वस्तु ।
अत्र्यवहार्यम् व्यवहारायोग्यम् ।
अत्र दृष्टान्तः---पिशाचचदिति ।
पिशाचो हि विशिष्याज्ञातत्वेनात्रायं विशाच इत्यादि लोकव्यवहारानर्हः ।
किन्त्विति ।
रसप्रतीतेः विशेषो ऽस्तीत्यर्थः ।
प्रतीतीत्यादि ।
प्रतीतित्वरूपसामान्यधर्मेणाविशेषे ऽपीत्यर्थः ।
आगमोत्थेति ।
शब्दजन्येत्यर्थः ।
अन्यैवेति ।
परस्परभिन्नैवेत्यर्थः ।
तद्वदित्यादि ।
रसप्रतीतिरपि ताभ्यो भिन्नैवेत्यर्थः ।
तत्पर्यायानाह---चर्वणेति ।
भवत्वित्यभ्युपगमे ।
ओदनमित्यादि ।
पक्वस्तण्डुलो ह्योदनपदार्थ इति तद्वयवहारो यथा औपचारिकः, तथेत्यर्थः ।
उक्तार्थे हेतुमाह---प्रतीयमान एवेति ।

प्रतीतिविषयताविशिष्ट एवेत्यर्थः ।
विशिष्टेति ।
विभावादिविशिष्टस्थायिविषयिकेत्यर्थः ।
सा चा नाट्य इति ।
नाट्यजन्या रसप्रतीतिश्चेत्यर्थः ।
लौकिकेति ।
लौकिकी या अनुमानेन प्रतीतिः धूमादिलिङ्गकवह्न्याद्यनुमितिः, तद्विलक्षणेत्यर्थः ।
तां लौकिकानुमानप्रतीतिम् ।
प्रमुखे आदौ ।
सन्दधाना अपेक्षमाणा ।
एवं काव्य इति ।
सा चेत्यनुषज्यते ।
अन्यशाब्दप्रतीतेः ।
लौकिकवैदिकादिशब्दजन्यप्रतीतेः ।
तामिति ।
अन्यशाब्दप्रतीतिमित्यर्थः ।
उपायतया अपेक्षमाणेति ।
लौकिकानुमानशब्दप्रमाणव्युत्पन्नहृदयस्यैव सहृदयस्य रसप्रतीतिर्भवतीति भावः ।
अथ भट्टनायकोक्तं खण्टयति----तस्मादित्यादि ।
पूर्वपक्षः रसो न प्रतीयत इत्याद्युक्तः ।
अलोकसामान्यानामित्यद्युक्तं मनसिकृत्याह---रामादीति ।
इतीति ।
लोचनम् जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात्" इति ।
तेन प्रतितिस्तावद्रसस्य सिद्धा ।
सा च रसनारूपा प्रतीतिरुत्पद्यते ।
वाच्यवाचकयोस्तत्राभिधादिविविक्तो व्यञ्जनात्मा ध्वननव्यापार एव ।
भोगीकरणव्यापारश्च काव्यस्य रसविषयो ध्वननात्मैव, नान्यत्किञ्जित् ।
भावकत्वमपि समुचितगुणालङ्कारपरिग्रहात्मकमस्माभिरेव वितत्य वक्ष्यते ।
किमेतदपूर्वम्? काव्यं च रसान् प्रति भावकमिति यदुच्यते, बालप्रिया इत्युक्तमित्यर्थः ।
चित्रेति ।
नानाविधेत्यर्थः ।
तथाच लोकोत्तरचरितेष्वपि सहृदयानां हृदयसंवादो भवत्येवेति भावः ।
यदाहेति ।
योगसूत्रकार इति शेषः ।
ऽजातीऽत्यादिसूत्रानन्तरं ऽतासाम्ऽ इत्यादिसूत्रपाठो दृश्यते ।
जातीत्यादिसूत्रे वासनानामिति पदस्यानुषङ्गः ।
भोजराजेन सूत्रद्वयमिदमित्थं विवृतम्--इह नानायोनिषु भ्रमतां संसारिणां काञ्चिद्योनिमनुभूय यदा योन्यन्तरसहस्रव्यवधानेन पुनस्तामेव योनिं प्रतिपद्यते, तदा तस्यां पूर्वानुभूतायां योनौ तथाविधशरीरादिव्यञ्जकापेक्षया या वासनाः प्रकटीभूता आसंस्तास्तथाविधव्यञ्जकाभावात्तिरोहिताः पुनस्तथाविधव्यञ्जकशरीरादिलाभे प्रकटीभवन्ति ।
जातिदेशकालव्यवधाने ऽपि तासां स्वनुरूपस्मृत्यादिफलसाधने आनन्तर्यं नैरन्तर्यं कुतः? स्मृतिसंस्कारयोरेकरूपत्वात् ।
तथा ह्यनुष्ठीयमानकर्मणश्चित्तस्त्वे वासनारूपः संस्कारः समुत्पद्यते ।
स च स्वर्गनरकादीनां फलानामङ्कुरीभावः, कर्मणां वा यागादीनां शक्तिरूपतयावस्थानं, कर्तुर्वा तथाविधभोग्यभोक्तृत्वरूपं सामर्थ्यं, संस्कारात्स्मृतिः स्मृतेश्च सुखदुःखोपभोगः, तदनुभवाच्च पुनरपि संस्कारस्मृत्यादयः ।

भवत्वानन्तर्यं कार्यकारणभावश्च वासनानां; यदा तु प्रथममेवानुभवः प्रवर्तते, तदा किं वासनानिमित्त उत निर्निमित्त इति शङ्कां व्यपनेतुमाह--ऽतासांऽवासनानां ऽअनादित्वऽ मस्ति, कुतः? ऽआशिषो नित्यत्वात्ऽ सेयमाशीर्महामोहरूपा सदैव सुखसाधनानि मे भूयासुर्मा कदाचन तैर्मे वियोगो ऽभूदिति यः सङ्कल्पविशेषो वासनानां कारणं तस्याः नित्यत्वादित्यर्थः ।
एतदुक्तं भवति---कारणस्य सन्निहितत्वादनुबवसंस्कारादीनां कार्यणां प्रवृत्तिः केन वार्यत इति ।
तेनेति ।
पूर्वोक्तहेतुनेत्यर्थः ।
सा चेत्यादि ।
रसनारूपा रसप्रतीतिः सहृदयानामुत्पद्यत इत्यर्थः ।
वाच्यवाचकयोरिति ।
काव्यस्येत्यर्थः ।
तत्र रसप्रतीतौ ।
व्यञ्जनात्मा व्य्जकत्वरूपः ।
भोगीति ।
भट्टनायकोक्तो भोगकृत्वव्यापारश्चेत्यर्थः ।
भावकत्वमिति यदुक्तं तदप्यस्मदम्युपगतमेव, परन्तु गुणालङ्कारशालित्वमेव तत्; यतस्तेनैव काव्यं सहृदयानां रसभावकं रसचर्वणोत्पादकमित्याह---भावकत्वमपीति ।
काव्यस्येत्यनुषङ्गः ।
समुचितेति ।
तत्तद्रसादिसमुचितगुणालङ्कारशालित्वमित्यर्थः ।
किमेतदपूर्वमिति ।
एवदपूर्वं नेत्यर्थः ।
किञ्च भावकत्वस्वीकारे रसो नोत्पद्यत इति भवदीयप्रतिज्ञाया भङ्गे ऽप्यापतति इत्याह---काव्यं चेत्यादि ।
ऽभावकमित्युच्यते यदिऽति सम्बन्धः ।
तत्रेति ।
तद्वचने सतीत्यर्थः ।
लोचनम् तत्र भवतैव भावनादुत्पत्तिपक्ष एव प्रत्युज्जीवितः ।
न च काव्यशब्दानां केवलानां भावकत्वम्, अर्थापरिज्ञाने तदभावात्. न च केवलानामर्थानाम्, शब्दान्तरेणार्प्यमामत्वे तदयोगात् ।
द्वयोस्तु भावककत्वमस्माभिरेवोक्तम् ।
ऽयत्रार्थः शब्दो वा तमर्थं व्यङ्क्तःऽ इत्यत्र ।
तस्माद्वयञ्जकत्वाख्येन व्यापारेम गुणालङ्कारौचित्यादिकयेतिकर्तव्यतया काव्यं भावकं रसान् भावयति, इति त्र्यंसायामपि भावनायां करणांशे ध्वननव्यापार एव मूर्धाभिषिक्तः ।
तचचेदं भोगकृत्त्वं रसस्य ध्वननीत्यत्वे सिद्धे दैवसिद्धम् ।
बालप्रिया ऽभवतैव प्रत्युज्जीवितऽ इत्यन्वयः ।
अत्र हेतुः---भावनादिति ।
काव्यस्य रसोत्पादकत्वाङ्गीकारादित्यर्थः ।
शब्दान्तरेणेति ।
लौकिकवाक्येनेत्यर्थः ।
शब्दार्थमयं काव्यं गुणालङ्कारसाहित्येन सहृदयानां रसचर्वणां जनयतीत्याह---तस्मद्व्यञ्जकत्वाख्येनेत्यादि ।
यागादिर्धर्मोयजतेत्यादिवैदिकवाक्येन स्वर्गादिकमुद्दिस्य पुरुषं प्रति विधीयते ।
तथाहि---यजेतेत्यत्रास्त्यंशद्वयम्---यजिधातुः प्रत्ययश्च ।
प्रत्यये ऽप्यस्त्यंशद्वयमाख्यातत्वं लिङ्त्वं च ।
उभाभ्यामप्यंशाभ्यां भावनैवोच्यते ।
भावना नाम भवितुर्भवनानुकूलो व्यापारः ।
सा चार्थी शाब्दीति द्विविधा ।

आर्थी तु प्रयोजनेच्छाजनितिक्रियाविषयकव्यापाररूपा आख्यातत्वेन रूपेणोच्यते ।
सा ह्यंशत्रयमपेक्षते---साध्यं साधनमितिकर्तव्यतां च ।
किं केन कथं भावयेदिति ।
तत्र साध्याकाङ्क्षायां स्वर्गादिक मिष्टं साध्यत्वेन ।
साधनाकाङ्क्षायां धात्वर्थो यागादिः करणत्वेन, इतिकर्तव्यताकाङ्क्षायां प्रयाजादिक्रियाकलापश्च इतिकर्तव्यतात्वेन तस्यां भावनायमन्वेतीति मीमांसकाः प्राहुः ।
तथा च यजेतेत्यादिवैदिकवाक्यं स्वर्गमुदृस्य पुरुषं प्रति विधायकत्वेन यथा भावकं यागेन करणेन प्रयाजादीतिकर्तव्यतया स्वर्गार्थिनः स्वर्गंभावयति, तथा काव्यं भावकं व्यञ्जकत्वव्यापारेण करणेन गुणालङ्कारौचित्यादिरूपया इतिकर्तव्यतया सगृदयस्य रसं भावयतीत्यर्थः ।
इतिशब्दः प्रकारवाची, कर्तव्यता नाम क्रिया ।
कर्तव्यतयाः प्रकार इति कर्तव्यता, उपकारकमिति यावदिति बोध्यम् ।
त्र्यंशायामिति ।
साध्याद्यंशत्रयवत्यामित्यर्थः ।
भावनायामिति ।
रसभावनायामित्यर्थः ।
करणांशे साधनांशे ।
कारणांशे इति च पाठः ।
भोगो ऽपीत्यादि ।
ऽन क्रियतेऽ इति सम्बन्धः ।
नञि काकुः ।
क्रियत एवेत्यर्थः. नन क्रियत इति वा पाठं(?) विशेषमाह--अपि त्वित्यादि ।
ऽअपि तु भोगे कर्तव्ये लोकोत्तरो ध्वननव्यापार एव मूर्धाभिषिक्तऽ इति समाबन्धः ।
घनेति ।
धनं निबिडं यन्मेहरूपमान्ध्यमज्ञानं तेन या सङ्कटता आनन्दांशस्यावृतत्वं तस्या निवृतितिर्भञ्जनं तद्द्वारेणेत्यथः ।
अलौकिके लौकिकसुखानुभवविलक्षणे ।
भोग इति ।
भग्नानन्दांशावरणकदिभावादिसंवलितरत्यादिस्थाय्यवच्छिन्नात्मचैतन्यसाक्षात्कार इत्यर्थः ।
कर्तव्ये जननीये ।
रसभावतदाभासतत्प्रशमलक्षणं मुख्यमर्थमनुवर्तमाना यत्र शब्दार्थालङ्कारा गुणाश्च परस्परं ध्वन्यपेक्षया विभिन्नरूपा व्यवस्थितास्तत्र काव्ये ध्वनिरिति व्यपदेशः ।
लोचनम् रस्यमानतोदितचत्कारानतिरिक्तत्वद्भोगस्येति ।
सत्त्वादीनां चाङ्गाङ्गिभाववैचित्र्यस्यानन्त्याद्द्रुत्यादित्वेनास्वादगणना न युक्ता ।
परब्रह्मास्वादसब्रह्मचारित्वं चास्त्वस्य रसास्वादस्य ।
व्युत्पादनं च शासनप्रतिपादानाभ्यां शास्त्रेतिहासकृताभ्यां विलक्षणम् ।
यथा रामस्तथाहमित्युपमानातिरिक्तां रसास्वादोपायस्वप्रतिभाविजृम्भारूपां व्युत्पत्तिमन्ते करोतीति कमुपालभामहे ।
तस्मात्स्थितमेतत्---अभिवियज्यन्ते रसाः प्रतीत्यैव च रस्यन्त इति ।
तत्राभिव्यक्तिः प्रधानतया भवत्वन्यथा वा ।
प्रधानत्वे ध्वनिः, अन्यथा रसाद्यलङ्काराः तदाह----मुख्यमर्थमिति ।
व्यवस्थिता इति ।
पुर्वोक्तयुक्तिभिर्विभागेन व्यवस्थापितत्वादिति भावः ॥ 4 ॥
बालप्रिया मूर्धाभिषिक्तः प्रधानहेतुः ।
काव्यं तु तदाश्रयतया सहकारीति भावः ।
तच्चेदमिति ।
भवदुक्तमित्यर्थः ।

रस्येति ।
रस्यमानतया हेतुना उदितो यश्चमत्कारः चमत्कारत्मकः साक्षात्कारः तदनतिरिक्तत्वात्तभिन्नत्वादित्यर्थः ।
द्रुतिविस्तारेत्यादिपूर्वोक्तं मनसि कृत्याह---सत्वादीनामित्यादि ।
अङ्गाङ्गिभावेति ।
न्यूनाधिकतेत्यर्थः ।
आनन्त्यादिति ।
असंख्यत्वादित्यर्थः ।
द्रुत्यादित्वेनेति ।
द्रुतित्वादिरूपेणेत्यर्थः ।
न युक्तेति ।
कारणस्यानन्त्यार्त्का भूतचित्तवृत्तीनामपि आनन्त्यसम्भवादिति भावः ।
भट्टनायकोक्तं कञ्चिदंशमभ्युपगच्छति-परेति ।
व्युत्पत्तिर्नामाप्रधानमिति तदुक्तं मनसिकृत्याह--व्युत्पादनं चेत्यादि ।
काव्यस्येति शेषः ।
शासनेति ।
शास्त्रेण शासनमितिहासेन प्रतिपादनं ताभ्यां विलक्षणमित्यर्थः ।
वैलक्षण्यं दर्शयन्नाह--यथेत्यादि ।
अहमित्यस्यानन्तरं वर्तेय इति शेषः ।
रामेणेव मयानुष्ठतव्यमित्यर्थः ।
इतीत्यादि ।
इति यदुपमानमित्याकारिका या उपमितिः सादृश्यधीः शास्त्रेतिहासाभ्यां क्रियमाणा तदतिरिक्तामित्यर्थः ।
उक्तोपमितिमात्रं न, किन्तु ततो ऽदिकामिति यावत् ।
रसेति ।
रसास्वादोपायभूता स्वस्य प्रतिपत्तुः या प्रतिभा तस्या विजृम्भो विकासस्तद्रूपामित्यर्थः ।
करोतीति ।
काव्यमिति शेषः ।
पुनः पुनः काव्यपरिशीलने हि रसास्वादोपायस्वप्रतिभाविकासो भवति ।
अन्ते करोतीत्यनेनादावुक्तोपमितिरूपां व्युत्पत्तिं चि करोतीति ज्ञाप्यते ।
उपसंहरति---तस्मादित्यादि ।
इत्येतस्स्थितमिति सम्बन्धः ।
अभिव्यज्यन्ते रसा इति ।
अभिव्यक्तिविषयताविशिष्टस्थायिनो रसपदार्था इत्यर्थः ।
अभिव्यक्तिर्घटप्रदीपन्यायेनेति वक्ष्यते ।
प्रतीत्येत्यादि ।
प्रतीतिरूपैव रसनेत्यर्थः ।
तत्राभिव्यक्तिः प्रधानतया भवत्यन्यथा वेति ।
अन्यथा अप्रधानतया ।
अप्रधानतया वा इति च पाठः ॥ 4 ॥
प्रधान्ये ऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्न् अलङ्कारो रसादिर् इति मे मतिः

प्रधान्ये ऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ॥ 5 ॥
यद्यपि रसवदलङ्कारस्यान्यैर्दर्शितो विषयस्तथापि यस्मिन् कावेय प्रधानतयान्यो ऽर्थो वाक्यार्थीभूतस्तस्य चाङ्गभूता ये रसादयस्ते रसादेरलङ्कारस्य विषया इति मामकीनः पक्षः ।
तद्यथा चाटुषु प्रेयोलङ्कारस्य वाक्यार्थत्वे ऽपि रसादयो ऽङ्गभूता दृश्यन्ते ।
लोचनम् अन्यत्रेति ।
रसस्वरूपे वस्तुमात्रे ऽलङ्कारतायोग्वे वा ।
मे मतिरित्यन्यपक्षं दूप्यत्वेन हृदि निधायाभीष्टतत्वात्स्वपक्षं पूर्वं दर्शयति--तथापिति ।
स हि परदर्शितो विषयो भाविनीत्यानोपपन्न इति भावः ।
यस्मिन् काव्ये इति स्पष्टत्वेनासङ्गतं वाक्यमित्थं योजनीयम्--यस्मिन् काव्ये ते पूर्वोक्ता रसादयो ऽङ्गभूता वाक्यार्थीभूतश्चान्यो ऽर्थः, चशब्दस्तुशब्दस्यार्थे; तस्य काव्यस्य सम्बन्धिनो ये रसादयो ऽङ्गभूतास्ते रसादेरलङ्कारस्य रसवदाद्यलङ्कारशब्दस्य विषयाः; स एवालङ्कारशब्दवाच्यो भवति यो ऽङ्गभूतः, न त्वन्य इति यावत् ।
उत्रोदाहरणमाह---तद्यथेति ।
तदित्यङ्गत्वम् ।
यथात्र वक्ष्यमाणोदाहरणे, तथान्यत्रापीत्यर्थः ।
भामहाभिप्रायेण चाटुषु प्रेयोलङ्कारस्य वाक्यार्थत्वे ऽपि रसादयो ऽङ्गभूता दृश्यन्त इतीदमेकं वाक्यम् ।
भामहेन हि गुरुदेवनृपतिपुत्रविषयप्रीतिवर्णनं प्रेयोलङ्कार इत्युक्तम् ।
बालप्रिया कारिकायामन्यत्रेत्यस्य रसादिभ्यो ऽन्योन्यस्मिन्नत्यर्थः ।
तथाविधो वाक्यार्थस्त्रिविधो भवतीत्याह---रसस्वरूप इत्यादि ।
अलङ्कारतायोग्य इति ।
उपमादावित्यर्थः ।
उपमादेः प्राधान्येन ध्वन्यमानत्वे ऽलङ्कारत्वाभावाद्योग्य इत्युक्तम् ।
मे मतिरितिति ।
मे मतिरित्यनेनेत्यर्थः ।
अन्यपक्षमिति ।
वक्ष्यमाणं पक्षान्तरमित्यर्थः ।
तथापीति ।
इदं प्रतिकधारणम् ।
भावार्थमाह---स हीत्यादि ।
असङ्गतमिति ।
तस्य चाङ्गभूता इत्यत्र तत्पदेन काव्यस्यैव परामृश्यतया यथाश्रुते तदर्थस्य तन्निरूपिताङ्गत्वस्य रसादावसम्भवेनासङ्गतार्थकमित्यर्थः ।
ते इत्यादि ।
ते रसादयो ऽङ्गभूता इत्यस्य पूर्ववाक्ये ऽपि सम्बन्ध इति भावः ।
ते इत्यस्य व्याख्यानम्---पूर्वोक्ता इति ।
रसभावेत्यादिकारिकानिर्दिष्टा इत्यर्थः ।
अन्यः रसादिभ्यो ऽन्यः ।
च शब्द इति ।
ऽतस्य चेऽति च शब्द इत्यर्थः ।
तस्येत्यस्य व्याख्या---काव्यस्यति ।
ऽसम्बन्धिनऽ इति षष्ठ्यर्थकथनम् ।
तथाच तस्येति षष्ठ्यन्तार्थस्य काव्यसम्बन्धित्वस्य रसादावन्वयान्नासङ्गतार्थकत्वमिति भावः ।
अङ्गभूता इति ।
वाक्यार्थस्यान्यस्याङ्गभूता इत्यर्थः ।

रसादेरित्यस्य विवरणम्---रसवदादीति ।
फलितमाह---स एवेत्यादि ।
चाटुष्वित्यादिग्रन्थं व्याख्यातुमुपक्रमते---भामहेत्यादि ।
चाटुष्वित्यादि दृश्यन्त इत्यन्तमेकं वाक्यमिति च पाठः ।
विवृणोति--भामहेनेत्यादि ।
गुर्विति ।
गुर्वादिविषयिका या प्रीतिर्भक्तिवात्सल्यादिपदवाच्या, तस्याः स्ववाचकेन विभावादिद्वारेण वा वर्णनमित्यर्थः ।
लोचनम् तत्र प्रेयानलङ्कारो यत्र स प्रेयोलङ्कारो ऽलङ्करणीय इहोक्तः ।
न त्वलङ्कारस्य वाक्यार्थत्वं युक्तम् ।
यदिवा वाक्यार्थत्वं प्रधानत्वम् ।
चमत्कारकारितेति यावत् ।
उद्भटमतानुसारिणस्तु भङ्क्त्वा व्याचक्षते---चाटुषु चाटुविषये वाक्यर्थत्वे चाटूनां वाक्यार्थत्वे प्रेयोलङ्कारस्यापि विषय इति पूर्वोण सम्बन्धः ।
उद्भटमते हि भावालङ्कार एव प्रेय इत्युक्तः, प्रेम्णा भावानामुपलक्षणात् ।
न केवलं रसवदलङ्कारस्य विषयः यावत्प्रेयःप्रभृतेरपीत्यपिशब्दार्थः ।
रसवच्छब्देन प्रेयःशब्देन च सर्व एव रसवदाद्यलङ्कारा उपलक्षिताः, तदेवाह---रसादयो ऽङ्गभूता दृश्यन्त इति उक्तविषय इति शेषः ।
बालप्रिया इत्युक्तमिति ।
"प्रेयोगृहागतं कृष्णामवादीद्विदुरो यथा ।
अद्य या मम गोविन्द जाता त्वयि गृहागते ॥
कालेनैषा भवेत्प्रीतिः तवैवागमनात्पुनः" ॥
इति ग्रन्थेन दर्शितमित्यर्थः ।
तत्र तद्वचने सती ।
चाटुस्थले ऽकिं हास्येनेऽत्यादौ वर्ण्यमाननरपतिप्रभावादेरेव वाक्यार्थता न तु प्रेयोरूपालङ्कारस्येत्यतः तत्पदं बहुव्रीहित्वाश्रयेण व्याचष्टे---प्रेयानित्यादि ।
इहेति ।
चाटुष्वित्यादिवाक्य इत्यर्थः ।
वाक्यार्थत्वं मुख्यतया वाक्यप्रतिपाद्यत्वम् ।
प्रेयानलङ्कारः प्रेयोलङ्कार इति यथाश्रुतार्थाभिप्रायेणाह---यदि वेति ।
प्रधानत्वमेव विवृणोति---चमदिति ।
अहो नरपतेः प्रभावो येनैवं दुर्दशा रिपुस्त्रिजनो ऽनुभवतीति प्रभावालम्बितायाः प्रीतेः रिपुस्त्रीजनवृत्तान्तविषयकत्वाच्चमत्कारित्वं बोध्यम् ।
भङ्क्त्वेति ।
वाक्यं भित्वेत्यर्थः ।
व्याख्यानं दर्शयति---चाटुष्वित्यादि ।
वाक्यार्थत्वे वाक्यप्रतिपाद्यत्वे ।
फलितमाह--चाटूनां वाक्यार्थत्व इति ।
चाटुर्नाम श्लाध्यमानो ऽर्थो वर्ण्यमाननरपतिप्रभावादिः ।
अपि शब्दो भिन्नक्रम इत्याह---प्रेयोलङ्कारस्यापीति ।
प्रेयोरूपालङ्कारस्यापीत्यर्थः ।
कुत्रास्य सम्बन्ध इत्यत आह---विषय इत्यादि ।
एकवचनान्ततयानुषक्तविषयपदेन सम्बन्ध इत्यर्थः ।
चाटुरिति शेषः, चाटुकाव्यमित्यर्थः ।
प्रेय इत्युक्त इति ।

प्रेयोलङ्कारत्वेनोक्त इत्यर्थः ।
प्रेयस्वीत्युक्त इति च पाठः ।
अत्र हेतुमाह--प्रेम्णेत्यादि ।
प्रेम्णा प्रेयश्शब्दार्थघजकरतिरूपप्रेम्णा ।
उपलक्षणादिति ।
यथोक्तमुद्भटेन--- "रत्यादिकानां भावानामनुभावादिसूचनैः ।
यत्काव्यं बध्यते सद्भिः तत्प्रेयस्वदुदाहृत"मिति ॥
रत्यादिकानामित्यादिशब्देनान्येषां स्थायिनां व्यभिचारिणां सात्विकानां च, अनुभावादीत्यादिशब्देन विभावव्यभिचारिस्वशब्दानां च ग्रहणमत्र भावनामलङ्कारतेति च तद्व्याख्याता प्रतीहारेन्दुराजः ।
प्रेयोलङ्कारस्यापीत्यपिशब्दार्थमाह--न केवलमित्यादि ।
रसवच्छब्देनेति ।
यद्यपि रसवदलङ्कारस्येति पूर्ववृत्तिग्रन्थस्थरसवच्छब्देनेत्यर्थः ।
स च रसादिरलङ्कारः शुद्धः सङ्कीर्णी वा ।
तत्राद्यो यथा--- किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिरादृर्शनं केयं निष्करुम प्रवासरुचिता केनासि दूरीकृतः ।
स्वप्नान्तेष्विति ते वदन् प्रियतमव्यासक्तकण्ठग्रहो बुद्ध्वा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः ॥
इत्यत्र करुणरसस्य शुद्धस्याङ्गभावात्स्पष्टमेव रसवदलङ्कारत्वम् ।
एवमेवंविधे विषये रसान्तराणां स्पष्ट एवाङ्गभावः ।
लोचनम् शुद्ध इति ।
रसान्तरेणाङ्गभूतेनालङ्कारान्तरेम वा न मिश्रः, आभिश्रस्तु सङ्कीर्णः ।
स्वप्नस्यानुभूतसदृशत्वेन भवनमिति हसन्नेव प्रियतमः स्वप्ने ऽवलोकितः, ।
न मे प्रयास्यसि पुनरिति ।
इदानीं त्वां विदितशठभावं बाहुपाशबन्धान्न मोक्ष्यामि ।
अत एव रिक्तबाहुवलय इति ।
स्वीकृतस्य चोपालम्भो युक्त इत्याह-केयं निष्करुणोति ।
केनासीति ।
गोत्रस्खलनादावपि न मया कदाचित्खेदितो ऽसि ।
स्वप्नान्तेषु स्वप्नायितेषु सुप्तप्रलतितेषु पुनःपुनरुद्भूततया बहुष्विति वदन्युष्माकं सम्बन्धी रिपुस्त्रीजनः बालप्रिया प्रयेश्शब्देनेति ।
प्रेयोलङ्कारस्यापीत्यपिशब्दसहितप्रेयश्शब्देन चेत्यर्थः ।
रसाद्यलङ्कारा इति ।
रसवदाद्यलङ्कारा इति च पाठः ।
तदेवेति ।
उक्तभिप्रायादेवेत्यर्थः ।
पूरयति--उक्तविषय इति ।
चाटुस्थल इत्यर्थः ।
गुर्बादिविषयकप्रीतिवर्णनमेव प्रेयोलङ्कारः, चाटुस्थले तस्यप्राधान्ये ऽपि रसादयस्तत्प्रीतेस्तद्विषयनरपतिप्रभावादेर्वा अङ्गभूताश्चेति भामहमतानुरोधेन पङ्क्त्यर्थः ।
रतिहासादितत्तद्भाववर्णनं भावालङ्कारः, स एव प्रेयोलङ्कारः; चाटुस्थले ऽकिं हास्येनेऽत्यादौ चाटुर्वाक्यार्थः, तत्र रसवदलङ्कारः भावालङ्कारश्च स्त इत्युदभटमतानुरोधेन पङ्क्त्यर्थ इति सारार्थः ।
वृत्तौ ऽस चेऽत्यादि ।
ऽअलङ्कारः स रसादिरिऽति योजना ।
चशब्दो वाक्यालङ्कारे ।
वेति ।
वा शब्दः समुच्चये ।

ऽउदाहरति किमितिऽ इति पाठः क्वचिन्नास्ति ।
स्वप्नेदृष्टं प्रियतमं प्रत्याह---किमित्यादि ।
हास्येन साध्यमिदानीं नास्तीत्यर्थः ।
हासवत्वेन दर्शनस्योपपत्तिमाह---स्वप्नस्येत्यादि ।
न मे इत्यादि ।
त्वमितिः परं मत्तो न यास्यसीत्यर्थः ।
अस्य भावमाह---इदानीमित्यादि ।
विदितः शठभावो यस्य तम् ।
"गूढविप्रियकृच्छठ" इति दशरूपके ।
उक्तर्4थे गमकमाह---अत एवेति ।
स्वीकृतस्येति ।
स्वीयजनस्येत्यर्थः, कर्मणि षष्ठी ।
ऽइयं प्रवासरुचिता केऽति सम्बन्धः ।
केति ।
अनुचितेत्यर्थः ।
केनेत्यादेर्भावमाह---गोत्रेत्यादि ।
लोचनम् प्रियतमे विशेषेमासक्तः कण्ठग्रहो येन तादृश एव सन् बुद्ध्वा शून्यवलयाकारीकृतबाहुपाशः सन् तारं मुक्तकण्ठं रोदितीति ।
अत्र शोकस्थायिभावेन स्वप्नदर्शनोद्दीपितेन करुणरसेन चर्व्यमाणेन सुन्दरीभूतो नरपतिप्रभावो भातीति करुणः शुद्ध एवालङ्कारः ।
न हि त्वया रिपवो हता इति यादृगनलङ्कृतो ऽयं वाक्यार्थस्तादृगयम्, अपि तु सुन्दरतरीभूतो ऽत्र वाक्यार्थः, सौन्दर्यं च करुणरसकृतमेवेति ।
चन्द्रादिना वस्तुना तथा वस्त्वन्तरं वदनाद्यलङ्क्रियते तदुपमितत्वेन चारुतयावभासात् ।
तथा रसेनापि वस्तु वा रसान्तरं वोपस्कृतं सुन्दरं भाति इति रसस्यापि वस्तुन इवालङ्कारत्वे को विरोधः? ननु रसेन किं कुर्वता प्रकृतो ऽर्थो ऽलङ्क्रियते ।
तर्हि उपमयापि किं कुर्वत्यालङ्क्रियेत ।
ननु तयोपमीयते प्रस्तुतो ऽर्थः ।
रसेनापि तर्हि सरसीक्रियते सो ऽर्थ इति स्वसंवेद्यमेतत् ।
तेन यत्केचिदचूचुदन्--ऽअत्र रसेन विभावादीनां मध्ये किमलङ्क्रियतेऽ इति तदनभ्युपगमपराहतम्; प्रस्तुतार्थस्यालङ्कार्यत्वेनाभिधानात् ।
अस्यार्थस्य भूयसा लक्ष्ये बालप्रिया बहुष्विति बहुवचनार्थविवरणम् ।
ऽवःऽ इत्यस्य व्याख्यानम्---युष्माकं सम्बन्धीति ।
ऽइत्यत्र करुणरसस्य शुद्धस्याङ्गभावादिऽति वृत्तावुक्तं विवृणोति---अत्रेत्यादिना ।
ऽअत्र नरपतिप्रभावः तथाविधेन करुणरसेन सुन्दरीभूतो भातीऽति सम्बन्धः ।
चर्व्यमाणेनेति ।
सहृदयचर्वणाविषयेणेत्यर्थः ।
अलङ्कार इति ।
वर्णनीयनरपतिप्रभावरूपवाक्यार्थोपस्कारकत्वेनालङ्कार इत्यर्थः ।
उक्तमुपपादयति---न हीत्यादि ।
ऽइत्ययमनलङ्कृतो वाक्यार्थो यादृक्, अयं तादृङ्न हीऽत्यन्वयः ।
सौन्दर्ये चेति ।
वाक्यार्थसौन्दर्यं चेत्यर्थः ।
करुणरसकृतमेवेत्युक्तं सदृष्टान्तमुपपादयति----चन्द्रादिनेत्यादिना को विरोध इत्यन्तेन ।
अलङ्क्रियत इति ।
"तामिन्दुसुन्दरमुखी"मित्यादिकाव्ये इति शेषः ।

शङ्कते---नन्विति ।
प्रतिबन्द्याह--तर्हिति ।
उत्तरमाह---नन्विति ।
समानमुत्तरमाह---रसेनापीति ।
सरसीक्रियते रसवान् क्रियते ।
स्वसंवेद्यं सहृदयानुभवसिद्धम् ।
तेनेति ।
वक्ष्यमाणहेतुनेत्यर्थः ।
तदिति ।
चोद्यमित्यर्थः ।
अनभ्युपगमेति ।
विभावादीनामलङ्कार्यत्वानभ्युपगमेनहेतुना पराकृतमित्यर्थः ।
तर्हि को ऽलङ्कार्य इत्यत्राह---प्रस्तुतार्थस्येत्यादि ।
प्रस्तुतार्थस्य विवक्षितस्य प्रकृतार्थस्य ।
ऽकिं हास्येनेऽत्यादौ वर्णितेन रिपुस्त्रीजनवृत्तान्तेन तद्धेतुभूतप्रियतमविनाशप्रत्यायनद्वारा नरपतिप्रभावः प्रत्याय्यत इति स एव प्रस्तुतार्थः ।
एवमन्यत्राप्यवधेयम् ।
अभिधानादिति ।
वृत्तिकारेण प्रदर्शनादित्यर्थः ।
सङ्कीर्णो रसादिरङ्गभूतो यथा---- क्षिप्तो हस्तावलग्नः प्रसभमभिहतो ऽप्याददार्नो ऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण ।
लोचनम् सद्भाव इति दर्शयति-एवमिति ।
यत्र राजादेः प्रभावख्यापनं तादृश इत्यथः ।
क्षिप्त इति ।
कामिपक्षे ऽनादृतः, इतरत्र धुतः ।
अवधूत इति न प्रतीप्सितः बालप्रिया क्षिप्त इत्याद्यमरुकस्थम् ।
सः त्रिपुरदाहकालीनः शाम्भवः शम्भुसम्बन्धी ।
आलिङ्गन्यो ऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥
इत्यत्र त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वेर् इर्ष्याविप्रलम्भस्य श्लोषसहितस्याङ्गभाव इति, एवंविध एव रसवदाद्यलङ्कारस्य न्याय्यो विषयः ।
अत एव चेर्ष्याविप्रलम्भकरुणयोरङ्गत्वेन व्यवस्थानात्समावेशो न दोषः ।
लोचनम् प्रत्यालिङ्गनेन, इतरत्र सर्वाङ्गधूननेन विशरारूकृतः ।
साश्रुत्वमेकत्रेर्ष्यया अन्यत्र निष्प्रत्याशतया ।
कामीवेत्यनेनोपमानेन श्लोषानुगृहीतेनेर्ष्याविप्रलम्भो य आकृष्टस्तत्य श्लेषोपमासहितस्याङ्गत्वम्, न केवलस्य ।
यद्यप्यत्र करुणो रसो वास्तवो ऽप्यस्ति तथापि सतच्चारुत्वप्रतीत्यै न व्याप्रियत इत्यनेनाभिप्रायेण श्लेषसहितस्येत्येतावदेवा वोचत् न तु करुमसहितस्येत्यपि ।
एतमर्थमपूर्वतयोत्प्रेक्षितं द्रढीकर्तुमाह--एवं विध एवेति ।
अत एवेति ।
यतो ऽत्र विप्रलम्भस्यालङ्कारत्वं न तु वाक्यार्थता, अतो हेतोरित्यर्थः ।
न दोष इति ।
यदि ह्यन्यतरस्य रसस्य प्राधान्यमभविष्यन्न द्वितीयो रसः समाविशेत् ।
रतिस्थायिभावत्वेन तु सापेक्षभावो विप्रलम्भः, स च शोकस्थायिभावत्वेन निरपेक्षभावस्य करुणस्य विरुद्ध एव ।
एवमलङ्कारशब्दप्रसङ्गेन समावेशं प्रसाध्य बालप्रिया ऽशराग्निः वः दुरितं दहत्विऽति सम्बन्धः ।
स कः? य आर्द्रः तत्कलभवः अपराधो यस्य सः ।

कामीव हस्तवलग्नः सन् ।
साश्रुणी नेत्रोत्पले यासां ताभिः ।
त्रिपुरयुवतिभिः क्षिप्त इत्याद्यन्वयः तत्र क्षिप्तपदार्थमाह---कामीत्यादि ।
इतरत्रेति ।
शराग्निपक्षे इत्यर्थः ।
वृत्युक्तमेवाङ्गभावं स्वयं दर्शयति---कामीवेत्यादि ।
आकृष्टः स्फुटं व्यञ्जितः ।
तस्यर् इर्ष्याविप्रलम्भस्य ।
ऽश्लोषसहितस्येऽत्यस्य विवरणम्---श्लोषेत्यादि ।
अङ्गत्वमिति ।
त्रिपुररिपुप्रभावातिशयरूपवाक्यार्थं प्रत्यङ्गत्वमित्यर्थः ।
न केवलस्येति ।
तस्याङ्गत्वमित्यनयोरनुषङ्गः ।
करुणो रसो ऽप्यस्तीति ।
तथा च तत्सहितस्येत्यपि वक्तव्यमिति भावः ।
स इति ।
करुण इत्यर्थः ।
तच्चारुत्वप्रतीत्यै विप्रलम्भचारुत्वप्रतीत्यै ।
न व्याप्रियत इति ।
करुणस्यत्र विप्रलम्भाङ्गत्वं नास्तीति भावः ।
ऽअत एवेऽत्येतद्य्वाचष्टे--यत इत्यादि ।
वाक्यार्थतेति ।
अलङ्कार्यत्वेन प्राधान्यमित्यर्थः ।
अन्यतरस्य रसस्येति ।
विप्रलम्भकरुणयोरेकस्येत्यर्थः ।
प्राधान्यं समप्राधान्यम् ।
द्वितीय इति ।
तयोरेकस्मादपर इत्यर्थः ।
न समाविशेदिति ।
एकत्र काव्ये इति शेषः ।
अत्र हेतुमाह---रतीत्यादि ।
विषयो ऽयं तृतीयोद्योते वक्ष्यते ।
ऽरसेऽत्यादिकारिका परिकरश्लोकः ।
तत्र सर्वासामलङ्कृतीनामित्यस्य यत्र हि रसस्य वाक्यार्थीभावस्तत्र कथमलङ्कारत्वम्? अलङ्कारो हि चारुत्वहेतुः प्रसिद्धः; न त्वसावात्मैवात्मनश्चारुत्वहेतुः ।
तथा चायमत्र संक्षेपः--- रसभावादितात्पर्यमाश्रित्य विनिवेशनम् ।
अलङ्कृतीनां सर्वासामलङ्कारत्वसाधनम् ॥
लोचनम् एवंविध एवेति यदुक्तं तत्रैवकारस्याभिप्रायं व्याचष्टे---यत्र हीति ।
सर्वासामुपमादीनाम् ।
अथं भावः---उपमादीनामलङ्कारत्वे यादृशी वार्ता तादृश्येव रसादीनाम् ।
तदवश्यमन्येनालङ्कार्येण भवितव्यम् ।

तच्च यद्यपि वस्तुमात्रमपि भवति, तथापि तस्य पुनरपि विभावादिरूपतापर्यवसानाद्रसादितात्पर्यमेवेति सर्वत्र रसध्वनेरेवात्मभावः ।
तदुक्तं रसभावादितात्पर्यमिति ।
तस्येति ।
प्रधानस्यात्मभूतस्य ।
एतदुक्तं भवति--उपमया यद्यपि वाच्यो ऽर्थो ऽलङ्क्रियते, तथापि तस्य तदेवालङ्करणं यद्व्यङ्ग्यार्थाभिव्यञ्जनसामर्थ्यधानमिति वस्तुतो ध्वन्यात्मैवालङ्कार्यः ।
कटककेयूरादिभिरपि हि शरीरसमवायिभिश्चेतन आत्मैव तत्तच्चित्तवृत्तिविशेषौचित्यसूचनात्मतयालङ्क्रियते ।
तथाहि--अचेतनं बालप्रिया रसवदादीनामलङ्कृतीनामित्यर्थभ्रमः स्यादतो व्याख्याति---उपमादीनामित्यादि ।
उपमादीनां रसवदादीनां चेत्यर्थः ।
ऽरसभावेऽ त्यादिकमवतारयिष्यन्नाह---अयं भाव इत्यादि ।
यादशी वार्तेति ।
यो हेतुरित्यर्थः ।
स चान्योपस्कारः ।
तच्चेति ।
अलङ्कार्यं चेत्यर्थः ।
वस्तुमात्रमिति ।
यथा ऽकिं हास्येनेऽत्यादौ नरपतिप्रभावादि ।
तस्येति ।
वस्तुन इत्यर्थः ।
रसध्वनेरिति ।
रसभावादिध्वनेरित्यर्थः ।
ऽकिं हास्येने"त्यादौ वर्णनीयराजविषयकरतिभावो हि वक्तृगतस्तत्प्रभावविभावितः प्रधानभूतः ।
उपमयेति ।
उपमादिनेत्यर्थः ।
तस्येति ।
वाच्यार्थस्येत्यर्थः ।
व्यङ्ग्यार्थेति ।
रसादीत्यर्थः ।
वर्ण्यमानास्तत्तद्वाच्यार्था उपमाद्यलङ्कारैराहितातिशयाः कविवन्नबद्धान्यतरगतचित्तवृत्तिविशेषं स्फुटं व्यञ्जयन्ति क्वचिदर्थान्तरञ्चेति व्यङ्ग्याभिव्यञ्जनसामर्थ्याधानं वाच्यार्थस्योपमादिकर्तृकमलङ्करणमित्यर्थः ।
ध्वनियात्मेति ।
ध्वनिरूप आत्मेत्यर्थः ।
उक्तार्थे लौकिकं दृष्टन्तं दर्शयति---कटकेत्यादि ।
आत्मैव न शरीरम् ।
कथमात्मालङ्क्रियत इत्यत्राह---तत्तदिति ।
तत्तदात्मगता रागित्वादयो ये चित्तवृत्तिविशेषाः, तेषां यदौचित्यं तत्सूचनात्मतया तत्सूचनस्वभावकतया तत्तदलङ्कारा ह्यस्येथं चित्तवृत्तिरुचितेति सूचयन्ति; यथा युवजनशरीरगता हारकटककुण्डलादयः तद्रागित्वस्यौचित्यं यत्तिशरीरगता दण्डकषायवस्त्रादयस्तद्वैराग्यस्यौचित्यं चेति तत्सूचकत्वेनेत्यर्थः ।
उक्तमुपपादयति---तथाहीत्यादि ।
तस्माद्यत्र रसादयो वाक्यार्थीभूताः स सर्वः न रसादेरलङ्कारस्य विषयः, स ध्वनेः प्रभेदः, तस्योपमादयो ऽलङ्काराः ।
यत्र तु प्राधान्येनार्थान्तरस्य वाक्यार्थीभावे रसादिभिश्चारुत्वनिष्पत्तिः क्रियते, स रसादेरलङ्कारताया विषयः ।
एवं ध्वनेरुपमादीनां रसवदलङ्कारस्य च विभक्तविषयता भवति ।
यदि तु चेतनानां वाक्यार्थीभावो रसाद्यलङ्कारस्य विषय इत्युच्यते लोचनम् शवशरीरं कुण्डलाद्युपेतमपि न भाति, अलङ्कार्यस्याभावात् ।
यतिशरीरं कटकादियुक्तं हास्यावहं भवति, अलङ्कार्यस्यानौचित्यात् ।

न हि देहस्य किञ्चिदनौचित्यमिति वस्तुत आत्मैवालङ्कार्यः, अहमलङ्कृत इत्यभिमानात् ।
रसादेरलङ्कारताया इति व्यधिकरणषष्ठ्यौ, रसादेर्यालङ्कारता तस्याः स एव विषयः ।
एतदनुसारेणैव पूर्वत्रापि वाक्येयोज्यम्, रसादिकर्तृकस्यालङ्करणक्रियात्मनो विषय इति ।
एवमिति ।
अस्मदुक्तेन विषयविभागेनेत्यर्थः ।
उपमादीनामिति ।
यत्र रसस्यालङ्कार्यता रसान्तरं चाङ्गभूतं नास्ति तत्र शुद्धा एवोपमादयः तेन संसृष्ट्या नोपमादीनां विषयापहार इति भावः ।
रसवदलङ्कारस्य चेति ।
अनेन भावाद्यलङ्कारा अपि प्रेयस्व्यूर्जस्विसमाहिता गृह्यन्ते ।
बालप्रिया अलङ्कार्यस्याभावादिति ।
शवशरीस्याचेतनत्वादिति भावः ।
अनेन चेतन एवालङ्क्रियत इत्युक्तमुपपादितम् ।
यतिशारीरमित्यादि ।
कटकादयो हि रागित्वस्यौचित्यं सूचयन्ति ।
यतेरात्मनश्च रागित्वमनुचितमित्यतो यतिशरीरगताः कटकादयो हास्यावहा इत्यर्थः ।
तत्तच्चेतनशरीरगतैः कटककुण्डलादिभिः सूच्यस्य रागित्वादिचित्तवृत्तिविशेषस्य तत्तच्चेतनोचितत्वे तेषामलङ्कारता, अन्यथा हास्यावहतेति ।
भावः ।
अनुभवरूपप्रमाममप्याह---अहमित्यादि ।
व्यधिकरणषष्ठ्याविति ।
न तु समानाधिकरणे तत्पदे इति भावः ।
व्याचष्टे---रसादेरिति ।
रसादिनिष्ठा या अलङ्कारता अलङ्क्रियाकर्तृत्वं रसादिकर्तृकालङ्क्रियेति यावत् ।
स एव तस्या विषय इति सम्बन्धः ।
स इति वृत्तिस्थस्यानुवादः, यत्रेत्यस्य प्रतिनिर्देशः तत्काव्यमित्यर्थः ।
विषयः आश्रयः ।
पूर्वत्रेति ।
स सर्वो न रसादेरलङ्कारस्य विषय इति वाक्य इत्यर्थः ।
योजनामाह---रसादीति ।
अस्मिन्वाक्येऽपि ऽसऽ इति यत्रेत्यस्य प्रतिनिर्देशः ।
उपमादीनां रसवदादिविवविक्तं विषयं दर्शयति---यत्रेत्यादि ।
संसृष्ट्येति ।
रसवदादिसंसृष्ट्येत्यर्थः ।
भावाद्यलङ्कारा इत्यस्यैव विविरणम्---प्रेयस्व्यूर्जस्विसमाहिता इति ।
समाहितादय इति च पाठः ।
भावस्यापराङ्गत्वे भावालङ्कारः, स एव प्रेयस्वी प्रेयानिति चोच्यते ।
रसाभासभावभासयोरपराङ्गत्वे ऊर्जस्वी ।
लोचनम् तत्र भावालङ्क्तारस्य शुद्धस्योदाहरणं यथा--- तव शतपत्रपत्रमृदुताम्रतलश्चरमश्चलकलहंसनूपुरकलध्वनिना मुखरः ।
महिषमहासुरस्य शिरसि प्रसभं निहितः कनकमहामहीध्रगुरुतां कथमम्ब गतः ॥
इत्यत्र देवीस्तोत्रे वाक्यार्थीभूते वितर्कविस्मयादिभावस्य चारुत्वहेतुतेति ।
तस्याङ्गत्वाद्भावालङ्कारस्य विषयः ।

रसाभासस्यालङ्कारता यथा ममैव स्तोत्रे--- समस्तगुणसम्पदः सममलङ्क्रियाणां गणैर्-- भवन्ति यदि भूषणं तव तथापि नो शोभसे ।
शिवं हृदयवल्लभं यदि यथा तथा रञ्जयेः तदेव ननु वाणि ते भवति सर्वललोकोत्तरम् ॥
अत्र हि परमेशस्तुतिमात्रं वाचः परमोपादेयमिति वाक्यार्थे शृङ्गाराभासश्चारुत्वहेतुः श्लोषसहितः ।
न ह्ययं पूर्णः शृङ्गारो नायिकाया निर्गुणत्वे निरलङ्कारत्वे च भवति ।
बालप्रिया भावशान्तेरपराङ्गत्वे समाहित इति विवेकः ।
शुद्धस्येति ।
अलङ्कारान्तरेण अभिश्रस्येत्यर्थः ।
तवेति ।
हे अम्ब ! तव ।
शतेत्यादि ।
शतपत्रं पझं, तस्य पत्रमिव मृटु ताम्रं च तलमधोभागो यस्य सः ।
चलकलहंसतुल्यो नूपुरः तस्य ध्वनिना मुखरः स शब्दः ।
चरणः महिषाख्यस्य महासुरस्य ।
शिरसि प्रसभं, निहितः सन् ।
कनकमयो महांश्च यो महीध्रः पर्वतः सुमेरुः तस्य ।
कनकमयत्वोक्त्या गौरवाधिक्यं द्योत्यते ।
गुरुतां कथं गत इति सम्बन्धः ।
गुरुत्वप्राप्तिः महिषशिरोनिष्पीजनेन निश्चितेति भावः ।
देवीस्तोत्र इति ।
स्तूयमाने देवीप्रभावे तद्विषयकरतिभावे वेत्यर्थः ।
वितर्केति ।
कथंपदेन वितर्कादिकं गम्यते ।
यद्यप्यत्र वितर्कादेः शतपत्रेत्याद्युक्तोपमासंसृष्टत्वाच्छुद्धत्वं दुर्घटं, तथापि मृदुताम्रतल इत्येतावन्मात्रोक्तावपि वितर्कादेः सम्भवादुपमायास्तदङ्गत्वाभावात्तदसङ्कीर्णत्वरूपं शुद्धत्वं सुघटम् ।
समस्तेति ।
नायिकात्वमारोप्य स्ववाचं प्रत्युक्तिरियम् ।
ननु वाणि ! समस्तानां गुणानां माधुर्यादीनामथ च सौन्दर्यादीनां सम्पदः ।
अलङ्क्रियाणामनुप्रासोपमादीनामथ च कटकादीनाम् ।
गणैः समं सह ।
तव भूषणं भवन्ति यदि यद्यपि, तथापि त्वं नो शोभसे ।
तर्हि कथं शोभा भवतीत्यत्राह---शिवमित्यादि ।
त्वं हृदयवल्लभं सर्वेषामात्मत्वेन प्रियम् ।
शिवं परमेश्वरमथ च मङ्गलाकारं प्रियतमम् ।
यथा तता यथा कयापि विधया ।
गुमालङ्कारसाहित्येनान्यथा वेत्यर्थः ।
रञ्जयेः गुणप्रतिपादनेन प्रसादयेः, अथ चानुरञ्जयेः ।
यदि तर्हि तदेव तदनुरञ्जनमेव ।
ते सर्वलोकोत्तरं भूषणं भवतीत्यर्थः ।
अत्र प्रतीयमानस्य शृङ्गारस्याभासत्वं ववृणोति---न हित्यादि ।
हि यतः ।
नायिकाया निर्गुणत्वे निरलङ्कारत्वे च सति शृङ्गारः पूर्णो न भवति, अतो ऽयं तर्ह्युपमादीनां प्रविरलविषयता निर्विषयता वाभिहिता स्यात् ।

यस्मादचेतनवस्तुवृत्ते वाक्यार्थीभूते पुनश्चेतनवस्तुवृत्तान्तयोजनया यथाकथञ्चिद्भवितव्यम् ।
अथ सत्यामपि तस्यां यत्राचेतनानां वाक्यार्थीभावो नासौ रसवदलङ्कारस्य विषय इत्युच्यते ।
तत् महतः काव्यप्रबन्धस्य रसनिधानभूतस्य नीरसत्वमभिहितं स्यात् ।
यथा-- लोचनम् ऽउत्तमयुवप्रकृतिरुज्ज्वलवेषात्मकःऽ इति चाभिधानात् ।
भावाभासाङ्गता यथा--- स पातु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु ।
लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु ॥
अत्र रौद्रप्रकृतीनामनुचितस्त्रसो भगवत्प्रभावकारणकृत इति भावाभासः ।
एवं तत्प्रशमस्याङ्गत्वमुदाहार्यम् ।
मे मतिरित्यनेन यत्परमतं सूचितन्तद्दूषणमुपन्यस्यति--यदित्यादिना ।
परस्य चायमाशयः---अचेतनानां चित्तवृत्तिरूपरसाद्यसम्भवात्तद्वर्णने रसवदलङ्कारस्यानाशङ्क्यत्वात्तद्विभक्त एवोपमादीनां विषय इति ।
एतद्दूषयति---तर्हीति ।
तस्माद्धचनाद्धेतोरित्यर्थः ॥
नन्वचेतनवर्णनं विषय इत्युक्तमित्याशङ्क्य हेतुमाह---यस्मादिति ।
यथाकथञ्चिदिति विभावादिरूपतया ।
तस्यामिति ।
चेतनवृत्तान्तयोजनायाम् ।
नीरसत्वमिति ।
यत्र हि रसस्तत्रावश्यं रसवदलङ्कार इति परमतम् ।
ततो न रसवदलङ्कारश्चेन्नूनं तत्र रसो नास्तीति परमताभिप्रायान्नीरसत्वमुक्तम् ।
न त्वस्माकं रसवदलङ्काराभावे नीरसत्वम् ।
अपि तु ध्वन्यात्मभूतरसाभावे, तादृक्च रसो ऽत्रास्त्येव ।
बालप्रिया पूर्णो नेत्यर्थः ।
किन्त्वाभास इति भावः ।
यस्येति कर्तुः शेषत्वविषया षष्टी ।
तत्तुल्येति ।
भगवद्वर्णतुल्येत्यर्थः ।
स्वेत्यादि ।
दृश्यमानेष्विति शेषः ।
इति भावाभास इति ।
तत्र्रासस्य भगवत्प्रभावविभावितायां रतौ गुणीभावाद्भावाभास ऊर्जस्व्यलङ्कार इत्यर्थः ।
यदि त्वित्यादिग्रन्थेन गम्यमर्थमाह----परस्येत्यादि ।
तद्वर्णन इति ।
अचेतनवर्णन इत्यर्थः ।
तदिति ।
तद्वर्णनमित्यर्थः ।
विभक्त इति ।
तद्वर्णन इति ।
अचेतनवर्णन इत्यर्थः ।
तदेवेति योजना ।
वृत्तौ शङ्कते---ऽअथेऽति ।

ऽतस्याम्ऽ इति ।
चेतनवस्तुवृत्तान्तयोजनायामित्यर्थः ।
ऽअसाऽविति ।
यत्रेत्यस्य प्रतिनिर्देशः ।
ऽतन्महतऽइति ।
ऽतत्ऽ तर्हि ।
ऽमहतःऽ भूयसः ।
नीरसत्वमभिहितं स्यादिति न स्वमतानुरोधेन, किन्तु परभतानुरोधेनेत्याह लोचने---यत्र हीत्यादि ।
रस इति ।
प्रधानवाक्यार्थ इति शेषः ।
परेति ।
भामहोद्भटादिमतमित्यर्थः ।
अस्माकमिति ।
मत इति तरङ्गभ्रूभङ्गा क्षुभितविहगश्रेणिरशना विकर्षन्ती फेनं वसनमिव संरम्भशिथिलम् ।
यथाविद्धं याति स्खलितमभिसन्धाय बहुशो नदीरूपेणेयं ध्रुवमसहना सा परिणता ॥
यथा व--- तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्नमा ।
लोचनम् तरङ्गेति ।
तरङ्गा एव भ्रूभङ्गा यस्याः विकर्षन्तां विलम्बमानं बलादाक्षिपन्ती ।
वसनमंशुकम् ।
प्रियतमावलम्बननिषेधायेति भावः ।
बहुशो यत्स्खलितं ये ऽपराधास्तानभिसन्धाय हृदयेनैकोकृत्यासहमाना मानिनीत्यर्थः ।
अथ च मद्वियोगपश्चात्तापा सहिष्णुस्तापशान्तये नदीभावं गतेति ।
तन्वीति ।
वियोगकृशाप्यनुतप्ता चाभरणानि त्यजति ।
स्वकालो वसन्तग्रीष्मप्रायः ।
बालप्रिया शेषः ।
तादृगिति ।
ध्वन्यात्मभूत इत्यर्थः ।
अत्रेति ।
वक्ष्यमाणोदाहरणेष्वित्यर्थः ।
तरङ्गेति ।
ऽअसहनाऽ सेयमुर्वशी ।
ऽनदीरूपेणऽ नदीभावेनेति च पाठः ।
ऽपरिणताध्रुवऽमित्युत्प्रेक्षायाम् ।
इयं न नदी, किन्तु सा इति सम्भावयामीत्यर्थः ।
उक्तमुपपादयति--तरङ्गेत्यादि ।
तरङ्गादौ भ्रूभङ्गत्वाद्यारोपाद्रूपकम् ।
वसनमिवेत्युपमा ।
संरम्भेण कोपावेगेन शिथिलं शिथिलबन्धम् ।
ऽयथेऽति ।

मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc