भाषा

ENहिગુ
ग्रंथ पाठ

ध्वन्यालोक (टीका सहित) · भाग 161180

लोचनम् एवाहं भवामीत्यर्थः ।
भविष्यतीति क्रियासामान्यम् ।
तेन किं कारिष्यतीत्यर्थः ।
अथ च भवनमेवास्या असम्भाव्यमिति ।
उक्तप्रकारेण हृदयनिहितां प्रियां स्मरणशब्दविकल्पपरम्परया प्रत्यक्षीभावितां हृदयस्फोटनोन्मुखीं ससंभ्रममाह--
हहा हेति ।
देवीति ।
युक्तं तव धैर्यमित्यर्थः ।
अनेनेति ।
रामशब्देनानुपयुज्यमानार्थेनेति ।
भावः ।
व्यङ्ग्यं धर्मान्तरं प्रयोजनरूपं राज्यनिर्वासनाद्यसङ्ख्येयम् ।
तच्चासङ्ख्यत्वादभिधाव्यापारेणाशक्यसमर्पणम् ।
क्रमेणार्प्यंमाणमप्येकधीविषयभावाभावान्न चित्रचर्वणापदमिति न चारुत्वातिशयकृत् ।
प्रतीयमानं तु तदसङ्ख्यमनुद्भि विसेषत्वेनैव किं किं रूपं न सहत इति चित्रपानकरसापूपगुडमोदकस्थानीयविचित्रचर्वणापदं भवति ।
यथोक्तम्--
ऽउक्त्यन्तरेणाशक्यं यत्ऽ इति ।
बालप्रिया त्यनेन च दुःखासहिष्णुत्वं व्यज्यते ।
क्रियासामान्यमिति ।
बोधयतीति शेषः ।
मुख्यार्थे ऽपि विवक्षित इत्याह--
अत चेति ।
चतुर्थपादमवतारयति--
उक्तेत्यादि ।
स्मरणेति ।
जलधराद्युद्दीपकानां प्रियतमासाधारणत्वस्मरणम् ।
शब्दः वैदेहीति शब्दः, तज्जनितबोध इति यावत् ।
ऽविकल्पः कथं भविष्यतीऽति वितर्कः ।
तेषां परम्परयेत्यर्थः ।
ऽव्यङ्ग्येऽत्यादिग्रन्थं व्याचष्टे--
व्यङ्ग्यमित्यादि ।
प्रयोजनेति ।
लक्षणाप्रयोजनेत्यर्थः ।
तदत्र किमित्यत आह--
राज्येति ।
राज्यभ्रंशादित्यर्थः ।
आदिपदेन वनवासपितृजायावियोगादिकं दुःखकारि सर्वं गृह्यते ।
अस्य व्यङ्ग्यत्वं व्यवस्थापयिष्यन्नाह--
तच्चेत्यादि ।
तत् प्रयोजनम् ।

अभिधेत्यादि ।
युगपदभिदातुमशक्यमित्यर्थः ।
क्रमेणेति ।
तदिति अभिदाव्यापारेणेति चानुषज्यते ।
एकधीति ।
एकबोधविषयत्वाभावादित्यर्थः ।
प्रतीयमानमिति ।
व्यज्यमानमित्यर्थः ।
तुशब्दो विशेषे ।
तदसङ्ख्यमिति ।
असङ्खयत्वविशिष्टं प्रयोजनमित्यर्थः ।
अनुद्भिन्नेति ।
अनुद्भिन्नः अस्पष्टःविशेषः पार्थक्यं परस्परभेद इति यावत्, यत्र तत्वेनैव तद्विशिष्टमेव ।
पानकरसाद्यास्वादे कर्पूराद्यांशा यथा पार्थक्येन नानुभूयन्ते, किन्तु परस्परसंवलितत्वेनैव प्रयोजनप्रतीतौ तथा राज्यनिर्वासनादयो धर्मा इत्यर्थः ।
किं किमिति ।
नानारूपं सहत इत्यर्थः ।
प्रतिपत्तृप्रतिभादिवशेन नानाविधं भातीति यावत् ।
इतीति हेतौ ।
चित्रेत्यादि ।
चित्रेति पानकरसादीनां त्रयाणां विशेषणं नानारसेत्यर्थः ।
गुडोपस्कृतं मोदकं गुडमोदकं तत्स्थानीया तच्चर्वणाकतुल्या या विचित्रा विलक्षणा चर्वणा रामगतत्वेन तत्तद्धर्मावगाहिनी प्रतीतिः, तस्याः पदं विषय यथा च ममैव विषमबाणलीलायाम्---
ताला जाअन्ति गुणा जाला दे सहिअएहिं घेप्पान्ति ।
रैकिरणानुग्गहिआइं होन्ति कमलाइं कमलाइं ॥
(तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥
इति च्छाया ) ।
इत्यत्र द्वितीयः कमलशब्दः ।
लोचनम् एष एव सर्वत्र प्रयोजनस्य प्रतीयमानत्वेनोत्कर्षहेतुर्मन्तव्यः ।
मात्रग्रहणेन संज्ञी नात्र तिरस्कृत इत्याह---यथा चेत्यादि ।
ताला तदा ।
जाला यदा ।
धेप्पन्ति गृह्यन्ते ।
अर्थान्तरन्यासमाह---रविकिरणेति ।
कमलशब्द इति ।
लक्ष्मीपात्रत्वादिधर्मान्तरशतचित्रतापरिणतं संज्ञिनमाहेत्यर्थः ।
तेन शुद्धे ऽर्थे मुख्ये बाधानिमित्तं तत्रार्थे तद्धर्मसमवायः ।
तेन निमित्तेन रामशब्दो धर्मान्तरपरिणतमर्थं बालप्रिया इत्यर्थः ।
प्रयोजनजातस्य अभिधातुमशक्यत्वं यदुक्तं तत्रोपष्टम्भकमाह---यथोक्तमित्यादि ।
एष एवेति ।
विचित्रचर्वणापदत्वमेवेत्यर्थः ।

प्रयोजनस्येत्युत्कर्षान्वयि ।
मात्रग्रहणेनेति ।
ऽन संज्ञिमात्रम्ऽ इति वृत्तिस्थमात्रशब्देनेत्यर्थः ।
आहेत्यनेनास्य सम्बन्धः ।
संज्ञी नात्र तिरस्कृत इति ।
राज्यनिर्वासनादिधर्मवत्वेन रामस्यैव संज्ञिनः प्रतीतेरिति भावः ।
आहेति ।
वृत्तिकारो बोधयतीत्यर्थः ।
अत्र रामपदलक्ष्यतावच्छेदकं रामपदवाच्यत्वं सामान्यतो दुःखपात्रत्वं वा बोध्यम् ।
तदेति ।
पदार्था इति शेषः ।
तदा गुणाः अतिशयाधायको धर्मो गुमस्तद्वन्तः सन्तः ।
जायन्ते भवन्ति ।
कदेत्यत्राह-यदेति ।
ते गुणवन्तः पदार्थाः ।
गृह्यन्ते श्लोध्यन्ते ।
अस्य सामान्यस्य समर्थकमुत्तरार्धमित्याशयेनाह--अर्थान्तरन्यासमाहेति ।
रवीति ।
रविंणा किरणानुगृहीतानिकरस्पृष्टानि, अथ चाभिनन्दितानि कमलानि पझानि ।
कमलानि कमलत्वेन ज्ञायमानानि भवन्तीत्यर्थः ।
अत्र व्यङ्ग्यं दर्शयति---लक्ष्मीत्याति ।
लक्ष्मीपात्रत्वं कान्त्याश्रयत्वम् ।
आदिपदेन विकसितत्वसौरभादिशालित्वं गृह्यते ।
लक्ष्मीपात्रत्वादि यद्धर्मान्तरशतं तस्य चित्रता चित्रताविशिष्टं तदिति यावत् ।
तेन परिणतमित्यर्थः ।
संज्ञिनं कमलम् ।
आह व्यञ्जयति ।
केचिदत्र रामपदं राज्यनिर्वासनादिधर्मवत्वेन लक्षयन्नर्वेदादीन्व्य्जयति ।
एवं कमलशब्दे ऽपि बोध्यमित्याहुस्तन्मतं दूषयितुमुपन्यस्यति-तेनेत्यदि ।
तेनेति ।
वक्ष्यमाणहेतुनेत्यर्थः ।
ऽअप्रातीतिकम्ऽ इत्यनेनास्य सम्बन्धः ।
शुद्धर्ऽथे मुख्य इति ।
केवले रामपदमुख्यार्थ इत्यर्थः ।
बाधेति ।
प्रकृतानुपयोगात्मकबाधेत्यर्थः ।
तत्रार्थ इति रामपदमुख्यर्थधर्मिणीत्यर्थः ।
तद्धर्मसमवाय इति ।
विवक्षितराज्यनिर्वासनादि धर्मसम्बन्ध इत्यर्थः ।
अनेनाधाराधेयभावरूपमुख्यार्थसम्बन्धः प्रदर्शितः ।

उभयत्रास्तीति शेषः ।
धर्मान्तरपरिणतमर्थमिति ।
लोचनम् लक्षयति ।
व्यङ्ग्यान्यसाधारमान्यशब्दवाच्यानि धर्मान्तराणि ।
एवं कमलशब्दः ।
गुणशब्दस्तु संज्ञिमात्रमाहेति ।
तत्र यद्बलात्कैश्चिदारोपितं तदप्रातीतिकम् ।
अनुपयोगबाधितो ह्यर्थो ऽस्य ध्वनेर्विषयो लक्षणा मूलं ह्यस्य ।
यत्तु हृदयदर्पण उक्तम्---ऽहहा हेति संरम्भार्थो ऽयं चमत्कारःऽ इति ।
तत्रापि संरम्भः आवेगो विप्रलम्भव्यभिचारीति रसध्वनिस्तावदुपगतः ।
न च रामशब्दभिव्यक्तार्थसाहायकेन विना सरम्भोल्लासो ऽपि ॥
अहं सहे तस्याः कि वर्तत इत्येवमात्मा हि संरम्भः ।
कमलपदे च कः संरम्भ इत्यास्तां तावत् ।
अनुपयोगात्मिका च मुख्यार्थबाधात्रास्तीति लक्षणामूलत्वादविवक्षितवाच्यभेदतास्योपपन्नैव शुद्धार्थस्याविवक्षणात् ।
बालप्रिया राज्यनिर्वासनादिधर्मवत्वेन रामव्यक्तिरूपार्थमित्यर्थः ।
तर्हि किं व्यङ्ग्यमित्यत्राह---व्यङ्ग्यानीत्यादि ।
अशब्दवाच्यानि शब्देनाभिधातुमशक्यानि ।
धर्मान्तरणि निर्वेदग्लानिमोहादयो ऽन्ये धर्माः ।
एवं कमलशब्द इति ।
द्वितीयः कमलशब्दो लक्ष्मीपात्रत्वादिपरिणतमर्थं लक्ष्यति, व्यङ्ग्यन्तु मनोहरत्वादीत्यर्थः ।
जायन्ते गुणा इत्यत्र गुणशब्दस्यावृत्तिः, द्वीतीयो गुणशब्दः उत्कृष्टत्वादिधर्मान्तरपरिणतमर्थं लक्ष्यतीत्याद्याशङ्कां परिहर्तुमाह---गुणशब्द इत्यादि ।
संज्ञिमात्रमिति ।
मुख्यार्थमात्रमित्यर्थः ।
न तु धर्मान्तरपरिणतमर्थमिति मात्रशब्दार्थः ।
तत्रेति ।
पूर्वोक्तेदाहरणयोरित्यर्थः ।
बलात् बुद्धिसामर्थ्यात् ।
आरोपितमिति ।
आरोप्योक्तमित्यर्थः ।
तदिति ।
तदुक्तमित्यर्थः ।
अप्रातीतिकमिति ।
सहृदयप्रतीत्यसिद्धमित्यर्थः ।
अत्र हेतुमाह---अनुपयोगेत्यादि ।
अनुपयोगबाधितः अनुपयोगात्मकबाधाधीनः ।
हीति हेतौ ।
अर्थः भवदुक्तो राज्यनिर्वासनाद्यर्थः ।
अस्य ध्वनेर्विषय इति ।
अविवक्षितवाच्यस्थलीय ध्वनिव्यापारस्य विषय इत्यर्थः ।
न तु लक्षणाया विषय इति भावः ।

लक्षणया ह्यर्थस्यैकधर्मप्रकारेणैव प्रतीतिर्न त्वनेकधर्मप्रकारेण ।
परन्त्वत्र लक्षणा सहकारिणीत्याह-लक्षणेत्यादि ।
यत्त्वित्यादि ।
हहेत्यादि ।
हहाहेत्यनेन गभ्यो यस्संरम्भः तस्यार्थः कार्यभूत इत्यर्थः ।
तत्रपीत्यनुवादः, उक्तार्थो ऽपीत्यर्थः ।
संरम्भ इत्यस्य विवरणम्-आवेग इति ।
रसध्वनिरित्यादि ।
तवानभिमतो रसध्वनिरादावभ्युगतो भवतीत्यर्थः ।
इत्थं च पूर्वोक्तार्थध्वनेरभ्युपगमो ।
टप्यापतित इत्याह---न चेत्यादि ।
रामशब्दाभिव्यक्तार्थेति ।
राज्यनिर्वासनाद्यर्थेत्यर्थः ।
उक्तार्थे हेतुमाह--अहं सहे इत्यादि ।
अहं सर्वं सहे इत्यर्थस्योपोद्बलको हि रामशब्दाभिव्यक्तार्थ इति भावः ।
उक्तेदाहरणयोः मुख्यार्थबाधां स्वयं विवृण्वन्नविवक्षितवाच्यभेदत्वमुपपादयति---अनुपयोगात्मिका चेत्यादि ।
मुख्यार्थस्य पदार्थान्तरान्वयानुपपत्तिज्ञानमिव प्रकृतानुषयुक्तत्वज्ञानमपि लक्षणाबीजमतो ऽनुपयुक्तत्वज्ञानरूपो ऽपि मुख्यार्थबाधापदार्थ इत्यर्थः ।
अत्रेति ।
उक्तोदहरणयोरित्यर्थः ।
शुद्धार्थस्येति ।
वाच्यजात्यादिविशिष्टव्यक्तिरूपार्थस्येत्यर्थः ।
तस्यापीति ।
अत्यन्ततिरस्कृतवाच्यो यथादिकवेर्वाल्मीकेः--- रविसंक्रान्तसौभाग्यस्तुषारावृतमण्डलः ।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥
इति ।
अत्रान्धशब्दः ।
लोचनम् न च तिरस्कृतत्वं धर्मिरूपेम, तस्यापि तावत्यनुगमात् ।
अत एव च परिणतवाचोयुकत्या व्यवहृतम्-आदिकवेरिति ।
ध्वनेर्लक्ष्यप्रसिद्धतामाह-रवीति ।
हेमन्तवर्णने पञ्चवट्यां रामस्योक्तरियम् ।
अन्ध इति चोपहतदृष्टिः ।
जात्यन्धस्यापि गर्भे दृष्ट्युपधातात् ।
अन्धो ऽयं पुरो ऽपि न पश्यतीत्यत्र तिरस्कारोन्धार्थस्य न त्वत्यन्तम् ।
इह त्वादर्शस्यान्धत्वमारोप्यमाणमपि न सह्यमिति ।
अन्धशब्दो ऽत्र पदार्थस्फुटीकरणाशक्तत्वं नष्टदृष्टिगतं निमत्तीकृत्यादर्शं लक्षणया प्रतिपादयति ।
असाधारणविच्छायत्वानुपयोगित्वादिधर्मजातमसंख्यं प्रयोजनंव्यनक्ति ।
भट्टनायकेन तु यदुक्तम्---ऽइवशब्दयागाद्गोणताप्यत्र न कावित्ऽइति, तच्छ्लोकार्थमपरामृश्य ।
आदर्शचन्द्रमसोर्हि सादृश्यमिवशब्दो द्यातयति ।
निःश्वासान्ध इति चादर्शविशेषणम् ।
इवशब्दस्यान्धार्थेन योजने आदर्शश्चन्द्रमा इत्युदाहरणं भवेत् ।

योजनं चैतदिवशब्दस्य क्लिष्टम् ।
बालप्रिया व्यक्तिरूपार्थस्यापीत्यर्थः ।
तावत्यनुगमादिति ।
लक्ष्ये व्यङ्ग्ये चार्थे अनुप्रवेशादित्यर्थः ।
अन्ध इति ।
अन्धपदमुख्यार्थ इत्यर्थः ।
ननु उपहतत्वं जननात्परतो यत्किञ्चित्कारणेन भवति, तथाच जात्यन्धे कथमन्धव्यवहार इत्यत आह--जात्यन्धस्यापीति ।
प्रकृतोदारणे अन्धपदवाच्यस्यात्यन्ततिरस्कृतत्वं विशदयितुमन्यत्र तदभावं दर्शयति---अन्ध इत्यादि ।
अन्ध इति च दृष्टेरुपहतत्वमारोप्योपचारेणोक्तिः ।
अत्र हेतुः--पुरो ऽपीत्यादि ।
अन्धार्थस्येति ।
अन्धपदमुख्यार्थस्येत्यर्थः ।
इह त्विति ।
प्रकृतीदाहरणे इत्यर्थः ।
न सह्यमिति ।
आदर्शस्य दृष्टेरेवाभावादिति भावः ।
पदार्थेत्यादि ।
पद्रूपं सादृश्यमित्यर्थः ।
इदमेवात्र लक्ष्यतावच्छेदकम् ।
नष्टदृष्टीति ।
उपहतदृष्टीत्यर्थः ।
आदर्शं प्रतिपादयतीति ।
पदार्थस्फुटीकरणाशक्तत्वेन रूपेणादर्शं बोधयतीत्यर्थः ।
अन्धार्थेन योजन इति ।
निश्वासान्ध इवेति योजन इत्यर्थः ।
इत्युदाहरणं भवेदिति ।
एवं योजनीयं भवेदित्यर्थः ।
भवत्वित्यत्राह---योजनं चैतदिति ।
निश्वासान्ध इव य आदर्शस्तद्रूपश्चन्द्रमा इति योजनं चेत्यर्थः ।
क्लिष्टमिति ।
अर्थस्य क्लिष्टत्वादिति भावः ।
इवशब्दस्योभयत्र सम्बन्धो ऽस्त्विति शङ्कां परिहरन् आह---न चेति ।
स इवेति ।
आदर्श इवेत्यर्थः ।
न युक्तेत्यत्र हेतुमुपहासगर्भमाह---ज्ञैमिनीयेति ।
गअणं च मत्तमेहं धारालुलिअज्जुणाइं अ वणाइं ।
णिरहङ्कारमृगाङ्का हरन्ति नीला अपि निशाः ॥
लोचनम् न च निःश्वासेनान्ध इवादर्शः स इव चन्द्र इति कल्पना युक्ता ।
जैमिनीयसूत्रे ह्येवं योज्यते न काव्ये ऽपीत्यलम् ।
गमणमिति ।

गगनं च मत्तमेघं धारालुलितार्जुनानि च वनानि ।
निरहङ्कारमृगाङ्का हरन्ति नीला अपि निशाः ॥
इति च्छाया ।
चशब्दो ऽपिशब्दार्थे ।
गगनं मत्तमेधमपि न केवलं तारकितम् ।
दारालुलितार्जुनवृक्षाण्यपि वनानि न केवलं मलयमारुतान्दोलितसहकाराणि ।
निरहङ्कारमृगाङ्का नीला अपिनिशा न केवलं सितकरकरधवलिताः ।
हरन्ति उत्सुकयन्तीत्यर्थः ।
मत्तशब्देन सर्वथैवेहासम्भवत्स्वार्थेन बाधितमद्योपयोगक्षीवात्मकमुख्यार्थेन सादृश्यान्मेघालंलक्षयतासमञ्जसकारित्वदुर्निवारत्वादिधर्मसहस्रं घ्वन्यते ।
निरहङ्कारशब्देनापि चन्द्रं लक्षयता तत्पारतन्त्र्यविच्छायत्वोज्जिगमिषारूपजिगीषात्यागप्रभृतिः ॥ 1 ॥
अविवक्षितवाच्यस्य प्रभिन्नत्वमिति यदुक्तं तत्कुतः? न हि स्वरूपादेव भेदो भवतीत्याङ्क्य विवङ्क्षितवाच्यादेवास्य भेदो भवति, विवक्षा तदभावयोर्विरोधादित्यभिप्रायेणाह---असंलक्ष्येति ।
बालप्रिया गगनं चेति वर्षावर्णनम्. च शब्द इति ।
गगञ्चार्जुनानि चेत्युभयत्र चशब्द इत्यर्थः ।
गगनं मत्तमेघमपीति अपिशब्दगम्यमर्थमाह---नेत्यादि ।
एवमुपर्यपि बोध्यम् ।
वाच्यस्यात्यन्ततिरस्कृतत्वमुपपादयति----मत्तशब्देनेत्यादि ।
बाधितेति ।
अन्वयानुपपत्तिरूपबाधाविशिष्टेत्यर्थः ।
सादृश्यादिति ।
सादृश्यात्मकमुख्यार्थसम्बन्धान्निमित्तादित्यर्थः ।
सादृश्यं मर्यादोल्लङ्घनादिना ।
असभञ्जसेति ।
अनुचितेत्यर्थः ।
निरहङ्कारशब्देनापीति ।
प्रतिषेधस्य प्रसक्तिपूर्वकत्वान्नरहङ्कारशब्दो ह्यहङ्कारस्वरूपयोग्ये चेतनविशेषे एव स्वरसतः प्रयुज्यत इत्यतो ऽत्र मुख्यार्थस्यान्वयानुपपत्तिरूपबाधा बोध्या ।
लक्षयतेति ।
सादृश्यादित्यनुषज्यते ।
तच्च मालिन्यादिना ।
तदित्यादि ।
तत्पदेन निरहङ्कारपरामर्शः तद्गतपारतन्त्र्यादीत्यर्थः ।
उज्जिगमिषा उन्नतीच्छा, तद्रूपा या जीगीषा उत्कर्षेच्छा तत्त्यागप्रभृतिरित्यर्थः ॥ 1 ॥
सूत्रवृत्तिकृतोरैक्यमभिप्रेत्यावतारयति---अविवक्षितवाच्यस्येत्यादि ।
उक्तमिति ।
ऽप्रभेदप्रतिपादनायेऽति पूर्वग्रन्थेनोक्तमित्यर्थः ।
तदिति ।
प्रभिन्नत्वमित्यर्थः ।
कत इति ।
कस्मात्प्रतियोगिन इत्यर्थः ।
न हि स्वरूपादेव भेदो भवतीति ।
स्वस्मादेव भेदो न भवतीत्यर्थः ।

अस्येति ।
अविवक्षितवाच्यस्येत्यर्थः ।
विवक्षेत्यादि ।
विवक्षितत्वोविवक्षितस्वयोरेकत्रासम्भवादित्यर्थः ।
ननु विवक्षितान्यपराभिधेयस्येति अत्र मत्तनिरहङ्कारशब्दौ ।
असंलक्ष्य-क्रमोद्द्योतः क्रमेण द्योतितः परः ।
विवक्षिताभिधेयस्य ध्वनेर् आत्मा द्विधा मतः
असंलक्ष्यक्रमोद्द्योतः क्रमेण द्योतितः परः ।
विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः ॥ 2 ॥
मुख्यतया प्रकाशमानो व्यङ्ग्यो ऽर्थो ध्वनेरात्मा ।
स च वाच्यार्थापेक्षया कश्चिदलक्ष्यक्रमतया प्रकाशते, कश्चित्क्रमेणेति द्विधा मतः ।
लोचनम् सम्यङ् न लक्षयितुं शक्यः क्रमो यस्य तादृश उद्द्योत उद्द्योतनव्यापारो ऽस्येति बहुव्रीहिः ।
ध्वनिशब्दसांनध्याद्विवक्षिताभिधेयत्वेनान्यपरत्वमत्राक्षिप्तमिति बहुव्रीहिः ।
ध्वनिशब्दसांनिध्याद्विवक्षिताभिधेयत्वेनान्यपरत्वमत्राक्षिप्तमिति स्वकण्ठेन नोक्तम् ।
ध्वनेरिति ।
व्यङ्ग्यस्येत्यर्थः ।
आत्मेति ।
पूर्वश्लोकेन व्यङ्ग्यस्य वाच्यमुखेन भेद उक्तः ।
इदानीं तु द्योतनव्यापारमुखेन द्योत्यस्य खात्मनिष्ट एवेत्यर्थः ।
व्यङ्ग्यस्य ध्वनेर्द्येतने स्वात्ननि कः क्रम इत्याशङ्क्याह----वाच्यार्थापेक्षयेति ।
वाच्यो ऽर्थो विभावादिः ॥ 2. ॥
तत्रेति ।
तयोर्मध्यादित्यर्थः ।
यो रसादिरर्थः स एवाक्रमो ध्वनेरात्मा न त्वक्रम एव सः ।
क्रमत्वमपि हि तस्य कदाचिद्भवति ।
तदा चार्थशक्त्युद्भवानुस्वानरूपभेदतेति वक्ष्यते ।
आत्मशब्दः स्वभाववचनः प्रकारमाह ।
तेन रसादिर्यो ऽर्थः स ध्वनेरक्रमो नामभेदः ।
असंलक्ष्यक्रम इति यावत् ।
ननु किं सर्वदैव रसादिरर्थो ध्वनेः प्रकारः? नेत्याह; किं तु यदाङ्गित्वेन प्रधानत्वेनावभासमानः ।
एतच्च सामान्यलक्षणे ऽगुणीकृतस्वार्थाविऽत्यत्र बालप्रिया कुतो नोक्तमित्यत आह---ध्वनिशब्देत्यादि ।
विवक्षिताभिधेत्वेनेति ।
बिवक्षिताभिधेयत्वोक्त्येत्यर्थः ।
अत्रेति ।
अभिधेये इत्यर्थः ।
आक्षिप्तमिति ।
दर्शितमित्यर्थः ।
विशेषमाह---पूर्वश्लोकेनेत्यादि ।
इदानीमिति ।
अस्मिन् श्लोके इत्यर्थः ।

स्वात्मनिष्ठ एवेति ।
ऽभेद उक्तऽइत्यस्यानुषङ्गः ।
वृत्तौ ऽध्वनेरात्मेऽत्यस्य विवरणम्---ऽमुख्यातयेऽत्यादि ।
वाच्यार्थेत्यादिकमवतारयति---व्यङ्ग्यस्येत्यादि ॥ 2 ॥
रसेत्यादिकारिकायामङ्गिभावेन भासमानो रसभावादिः अक्रमो घ्ननेरात्मा व्यवस्थित इत्यन्वयो वक्तव्यः ।
तथा च तथाविधरसभावादिसामान्यमसंलक्ष्यक्रम इत्यर्थः सिध्यति ।
स चार्थो बाधितः, क्वचिद्भावादेः संलक्ष्यक्रमत्वस्याप्यङ्गीकृतत्वादतो विवक्षितमर्थं व्याचष्टे---यो रसादिरित्यादि ।
अक्रमः असंलक्ष्यक्रमः ।
न त्वक्रम एव स इति ।
रसभावादिरक्रम एव भवतीति तु नैवेत्यर्थः ।
कुत इत्यत्राह---क्रमेति ।
संलक्ष्यक्रमत्वमपीत्यर्तः ।
ऽक्रमवत्त्वम्ऽ इति चि पाठः ।
तस्य भावादेः ।
वक्ष्यत इति ।
"एवंवादिनि देवर्षावि"त्याद्युदाहरणपूर्वकं वक्ष्यत इत्यर्थः ।
अङ्गिभावेन भासमान इत्यस्य विवरणम्--अङ्गित्वेनेत्यादि एतदुक्तेः पौनरुक्त्यमाशङ्कते--रतच्चेत्यादि ।
तत्र
रस-भाव-तद्-आभास-तत्-प्रशान्त्य्-आदिर् अक्रमः ।
ध्वनेर् आत्माङ्गि-भावेन भासमानो व्यवस्थितः
रसभावतदाभासतत्प्रशान्त्यादिरक्रमः ।
ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः ॥ 3 ॥
लोचनम् यद्यपि निरूपितम्, तथापि रसवदाद्यलङ्कारप्रकाशनावकाशदानायानूदितम् ।
स च रसादिर्ध्वनिर्व्यवस्थित एव; न हि तच्छून्यं काव्यं किञ्चिदस्ति ।
यद्यपि च रसेनैव सर्वं जीवति काव्यम् तथापि तस्य रसस्यैकधनचमत्कारात्मनो ऽपि कुतश्चिदंशात्प्रयोजकीभूतादधिको ऽसौ चमत्कारो भवति ।
तत्र यदा कश्चिदुद्रिक्तावस्थां प्रतिपन्नो व्यभिचारी चमत्कारातिशयप्रयोजको भवति, तदा भावध्वनिः ।
यथा---- तिष्टेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।
तां हर्तुं विबुधद्विषो ऽपि न च मे शक्ताः पुरोववर्तिनीं सा चात्यन्तमगोचरं नयनयोर्यातेति को ऽयं विधिः ॥
अत्र हि विप्रलम्भरससद्भावे ऽपीयति वितर्काख्यव्यभिचारिचमत्क्रियाप्रयुक्त आस्वादातिशयः ।
व्यभिचारिण उदयस्थित्यपायत्रिधर्मकाः ।
यदाह---ऽविविधमाभिमुख्येन चरन्तीति व्यभिचारिणःऽ इति ।
तत्रोदयावस्ताप्रयुक्तः कदाचित् ।
यथा-- योते गोत्रविपर्यये श्रुतिपथं शय्यामनुप्राप्तया निर्ध्यातं परिवर्तनं पुनरपि प्रारब्धुमङ्गीकृतम् ।
बालप्रिया परिहरति---तथापीत्यादि ।
रसवदादीति ।
अङ्गिभावेन भासमान इत्युक्तावङ्गभावेन भाने कः प्रकार इति जिज्ञासायाः सम्भवादिति भावः ।
व्यवस्थित इति पदं व्याचष्टे----स चेत्यादि ।
व्यवस्थित इति ।
सर्वत्र काव्ये स्थित इत्यर्थः ।
भावेत्यादिना निर्दिष्ट भावादिध्वनिं शङ्कापूर्वकं व्यवस्थापयति---यद्यपीत्यादि ।

तस्येति ।
काव्यजीनितस्येत्यर्थः ।
ऽरसस्य अंशादिऽति सम्बन्धः ।
रसाङ्गभूतादित्यर्थः ।
तिष्टेदिति ।
विक्रमोर्वशीये पुरूरवसो वचनम् ।
सा उर्वशी ।
कोपवसाद्धेतोः ।
प्रभावेणान्तर्धानकरणविद्यया पिहिता अन्तर्हिता ।
तिष्ठेदिति सम्भावनायां लिङ् ।
ऽएतन्न युक्तं यतऽ इति शेषो ऽत्र बोध्यः ।
एवमुत्तरत्रापि ।
स्वर्गाय स्वर्गं गन्तुम् ।
विबुधद्विषः असुराः अगोचरम् अविषयत्वम् ।
विधिः प्रकारः यदाहेति ।
विविधमित्यनेन त्रिप्रकारत्वमपि दर्शितमिति भावः ।
उदयावस्थाप्रयुक्त इति ।
उदयौन्मुख्यप्रयुक्त इत्यर्थः ।
यात इति ।
शय्यामनुप्राप्तया प्रियेण सह शयानया तन्वङ्ग्या ।
गोत्रस्य नाम्नो विपर्यये वनितान्तरनाम्नीत्यर्थः ।
श्रुतिपथं याते श्रुते सति ।
परिवर्तनं निर्ध्यातं चिन्तितम् ।
प्रारब्धुमिति ।
परिवर्तनमित्यस्यानुषङ्गः ।
तदित्यस्यापकर्षो वा ।
लोचनम् भूयस्तत्प्रकृतं कृतं च शिथिलक्षिप्तैकदोर्लेखया तन्वङ्ग्या न तु पारितः स्तनभरः क्रष्टुं प्रियस्योरसः ॥
अत्र हि प्रणयकोपस्योज्जिगमिषयैव यदवस्थानं न तु पारित इत्युदयावकाशनिराकरणात्तदेवास्वादजीवितम् ।
स्थितिः पुनरुदाहृता---ऽतिष्टेत्कोपवशात्ऽ इत्यादिना ।
क्वचित्तु व्यभिचारिणः प्रशमावस्थया प्रयुक्तश्चमत्कारः ।
यथोदाहृतं प्राक् ऽएकस्मिन् शयने पराङ्मुखतयाऽ इति ।
अयं तत्प्रशम इत्युक्तः ।
अत्र चेर्ष्याविप्रलम्भस्य रसस्यापि प्रशम इति शक्यं योजयितुम् ।
क्वचितु व्यभिचारिणः सन्धिरेव चर्वणास्पदम् ।
यथा--- ओसुरु सुम्ठि आहं मुहु चुम्बौ जेण ।
अमिअरसघोण्टाणं पडिज्ञाणिउ तेण ॥
इत्यत्र श्रुत्युक्ते तु कोपे कोपकषायगद्गदमन्दरुदिताया येन मुखं चुम्बितं तेनामृतरसनिगरणविश्रान्तिपरम्पराणां तृप्तिर्ज्ञातेति कोपप्रसादसन्धिश्चमत्कारस्थानम् ।
बालप्रिया स्यापकर्षो वा ।
पुनरपि पुनस्तु ।
प्रारब्धुमङ्गीकृतं चिकीर्षितम् ।

भूयः तत् परिवर्तनम् ।
प्रकृतं प्रयत्नविषयीकृतम् ।
कृतं चेति ।
भूयस्तदित्यनयोरनुषङ्गः ।
शिथिलक्षिप्तैकदोर्लेखया पूर्वं शिथिला शितिलीकृता पश्चादन्यत्र क्षिप्ता च एकदोर्लेखा यया तथा सत्या ।
भूयःतत् परिवर्तनम् ।
कृतं च अनुष्टितं च ।
जानातीच्छति यतते चेष्टते इति क्रमो ऽत्र प्रदर्शितः ।
न त्विति ।
तुशब्दो विशेषे ।
ऽस्तनभरः प्रियस्य उरसः क्रष्टुं न पारितऽ इति सम्बन्धः ।
प्रतीहारेन्दुराजेन काव्यालङ्कार सङ्ग्रहव्याख्याने श्लोको ऽयं व्याख्यातः ।
उज्जिगमिषयव ।
उदयौन्मुख्यावस्थयैव ।
एवकारार्थं विवृणोति---न त्वित्यादि ।
इत्युक्त इति ।
पूर्वैरिति शेषः ।
स्वाभिप्रायमाह---अत्रेत्यादि ।
ओसुरु इति ।
रिर्ष्याश्रुशोभिताया मुखं चुम्बितं येन ।
अमृतरसनिगरणानां तृप्तिर्ज्ञाता तेन ॥
इति छायेति प्रतिभाति ।
निगरणानां भक्षणानां करणरूपार्थे षष्टी ।
यथा "नाग्निः तृप्यति काष्टाना"मित्यादि ।
इत्यत्र श्रुत्युक्ते इतिर् ।
इर्श्याशब्देनोक्ते ऽपीविश्रमस्थानं तस्य ।
यद्वा---अमृतरसस्य विश्रान्तिपूर्वकाणि निगरणानि विश्रम्य विश्रम्य निगरणानि ।
ज्ञातेत्यन्तेन वाच्यार्थकथनम् ।
कोपप्रसादसन्धिरिति ।
नायिकागतो ध्वन्यमान इति शेषः ।
लोचनम् क्वचिद्य्वभिचार्यन्तरशबलतैव विश्रान्तिपदम् ।
यथा--- क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयो ऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपे ऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कुतधियः स्वप्ने ऽपि सा दुर्लभा चेतः सावस्थ्यमुपैहि कः खलु युवा धन्यो ऽधरं धास्यति ॥
अत्र हि वितकारैत्सुक्ये मतिस्मरणे शह्कादैन्ये धृतिचिन्तने परस्परं बाध्यबाधकभावेन द्वन्द्वशो भवन्ती, पर्यन्ते तु चिन्ताया एव प्रधानतां ददती परमास्वादस्थानम् ।
एवमन्यदप्युत्प्रेक्ष्यम् ।
एतानि चोदयसन्धिशबलत्वादिकानि कारिकायामादिग्रहणेन गृहीतानि ।
नन्वेवं विभावानुभावमुखेनाप्यधिकश्चमत्कारो दृश्यत इति विभावद्वनिरनुभावध्वनिश्च वक्तव्यः ।
मैवम्; विभावानुभावौ तावत्स्वशब्दवाच्यावेव ।
तच्चर्वणापि चित्तवृत्तिष्वेव पर्यवस्यतीति रसभावेभ्यो नाधिकं चर्वाणीयम् ।
यदा तु विभावानुभावावपि व्यङ्यौ भवतस्तदा वस्तुध्वनिरपि किं न सह्यते ।

यदा तु विभावाभासाद्रत्याभासोदयस्तदा बालप्रिया क्वाकार्यमिति ।
देवयानीमभिलषतो ययातेरियमुक्तिः ।
अकार्यं ब्राह्मणकन्य कासक्तिरूपम् ।
क्वद्वयेन द्वयोः सहानवस्थानप्रतीतिः ।
तेनात्यन्तानौचित्यं व्यज्यते ।
अत्र वितर्कः ।
भूयो ऽपीत्यादि ।
अत्रौत्सुक्यम् ।
दोषाणां प्रमादादीनाम् ।
प्रशमाय आत्यन्तिकनाशाय ।
श्रुतं शास्त्रश्रवणम् ।
अत्र मतिः अहो इत्यादि ।
कान्तं मनोहरं मुखं तस्याः मुखम् ।
अत्र स्मृतिः ।
अपकल्मषाः अपगतं कल्मषं दुश्चरितं येभ्यस्ते ।
कृते सुचरिते धीर्येषाम् ।
यद्वा-कृता शिक्षिता धीर्येषां ते पण्डिताः ।
किं वक्ष्यन्ति ।
अत्र शङ्का ।
स्वप्ने ऽपि अदृष्टाश्रुतपूर्वघटके ऽपि सा दुर्लभा ।
अत्राभिमताप्राप्तिप्रयुक्तं दैन्यम् ।
चेत इत्यादि ।
अत्र धृतिः ।
क इत्यादि ।
धन्यः नाहमिव मन्दभाग्यः ।
धास्यति पास्यति ।
अत्र चिन्ता च व्यज्यते ।
तदाह--अत्र हीत्यादि ।
वितकारैत्सुक्ये इत्यादि ।
क्वाकार्यमित्याद्येकैकपादस्थवाक्याभ्यां क्रमेण व्यज्यमाने इति भावः ।
परस्परं बाध्येति ।
वितर्कादिरौत्सुक्यादिना बाध्यत इत्यर्थः ।
ऽभवन्ती ददतीऽति च द्विवचनम् ।
चिन्ताया इति ।
अन्त्यवाक्येन व्यज्यमानाया इति भावः ।
बालप्रिया क्वाकार्यमिति ।
देवयानीमभिलषतो ययातेरियमुक्तिः ।
अकार्यं ब्राह्मणकन्यकासक्तिरूपम् ।
क्वद्वयेन द्वयोः सहानवस्थानप्रतीतिः ।
तेनात्यन्तानौचित्यं व्यज्यते ।

अत्र वितर्कः ।
भूयो ऽपीत्यादि ।
अत्रौत्सुक्यम् ।
दोषाणां प्रमादादीनाम् ।
प्रशमाय आत्यन्तिकनाशाय ।
श्रुतं शास्त्रश्रवणम् ।
अत्र मतिः ।
अहो इत्यादि ।
कान्तं मनोहरं मुखं तस्याः मुखम् ।
अत्र स्मृतिः ।
अपकल्मषाः अपगतं कल्पषं दुश्चरितं येभ्यस्ते ।
कृते सुचरिते धीर्येषाम् ।
यद्वा-कृता शिक्षिता धीर्येषां ते पण्डिताः ।
किं वक्ष्यन्ति ।
अत्र शङ्का ।
स्वप्ने ऽपि अदृष्टाश्रुतपूर्वघटके ऽपि सा दुर्लभा ।
अत्राभिमताप्राप्तिप्रयुक्तं दैन्यम् ।
चेत इत्यादि ।
अत्र धृतिः ।
क इत्यादि ।
धन्यः नाहमिव मन्दभाग्यः ।
धास्यति पास्यति ।
अत्र चिन्ता च व्यज्यते ।
तदाह-अत्र हीत्यादि ।
वितकारैत्सुक्ये इत्यादि ।
क्वाकार्यमित्याद्येकैकपादस्थवाक्याभ्यां क्रमेण व्यज्यमाने इति भावः ।
परस्परं बाध्येति ।
वितर्कादिरौत्सुक्यादिना बाध्यत इत्यर्थः ।
ऽभवन्ती ददतीऽति च द्विवचनम् ।
चिन्ताया इति ।
अन्त्यवाक्येन व्यज्यमानाया इति भावः ।
प्रसङ्गाच्छङ्कते---नन्विति ।
समाधत्ते---मैवमिति ।
स्वशब्दवाच्यावेव स्वशब्देनाभिधातुं शक्यावेव ।
चित्तवृत्तिष्वेवेति ।
रत्यादिचित्तवृत्तिचर्वणास्वेवेत्यर्थः ।
किं न सह्यत इति ।
इष्ट एवेति भावः ।
ऽतदाभासेऽति निर्दिष्टमाभासं निरूपयति---यदा त्वित्यादि ।
विभावानुभावाविति ।

रसगङ्गाधरादौ विस्तृतमेतत् ।
विभावाभासादिति ।
विभावस्याभासे ऽनुभावो ऽप्याभासी भवति ।
शङ्कते--यद्यपीति ।
लोचनम् विभावानुभासाच्चर्वणाभास इति रसाभासस्य विषयः ।
यथा रावणकाव्याकर्णने शृङ्गाराभासः ।
यद्यपि ऽशृङ्गारानुकृतिर्या तु स हास्यःऽ इति मुनिना निरूपितं तथाप्यौत्तरकालिकं तत्र हास्यरसत्वम् ।
दूराकर्षणमोहमन्त्र इव मे तन्नाम्नि याते श्रुतिं चेतः कालकलामपि प्रकुरुते नावस्थितिं तां विना ।
इत्यत्र तु न हास्यचर्वणावसरः ।
ननु नात्र रतिः स्थायिभावो ऽस्ति ।
परस्परास्थाबन्धाभावात् केनैतदुक्तं रतिरिति ।
रत्याभासो हि सः ।
अश्चाभासता येनास्य सीता मय्युपेक्षिका द्विष्टा वेति प्रतिपत्तिर्हृदयं न स्पृशत्येव ।
तत्सपर्शे हि तस्याप्यभिलाषो विलीयेत ।
नच मयीयमनुरक्तेत्यपि निश्चयेन कृतं कामकृतान्मोहात् ।
अत एव तदाभासत्वं वस्तुतस्तत्र स्थाप्यते शुक्तौ रजताभासवत् ।
एवच्च शृङ्गारानुकृतिशब्दं बालप्रिया मुनिना निरूपितमिति ।
तथा च तत्र हास्यो रसो वक्तुं न्याय इति भावः ।
औत्तरकालिकमिति ।
शृङ्गारचर्वणोत्तरकालभवमित्यर्थः ।
तच्चर्वणोत्तरमयमननुरक्तां कामयत इति रावणामिलाषाद्यालम्वितस्य हासस्य सहृदयानामुद्बोधादिति भावः ।
दूरेति ।
ऽएतैराकुलितस्य विक्षतरतेरङ्गैरनङ्गातुरैः सम्पद्येत कथं तदाप्तिसुखंमित्येतन्न वेझि स्फुटम्ऽ इत्युत्तरार्धम् ।
ऽप्रकुरुतऽ इत्यत्र ऽप्रसहत इति च पाठः ।
दूराकर्षणं मोहश्च तत्कारी यो मन्त्रः तस्मिन्नवेत्युपमा ।
तया दूराकर्षकत्वादेरव्यभिचारो द्योत्यते ।
तन्नाम्नि सीतानान्मि ।
अनङ्गातुरैः एतैः अङ्गैः ।
आकुलितस्य विह्वलीकृतस्य विक्षता नष्टा रतिः विषयान्तरेषु रुचिर्यस्य तस्य ।
अरतिमापन्नस्येति ।
यावत् ।
मे इत्यनुषज्यते ।
न हास्येति ।
आदाविति शेषः ।
किन्तु शृङ्गाराभासचर्वणैवेति भावः ।
केनेति ।
रतिरित्येतत् केनोक्तमित्यन्वयः ।
अत्र प्रतीयमाना रतिरभिलाषरूपा चित्तवृत्तिरेव, न तु स्थायिभाव इति भावः ।
रत्याभासो हि स इति ।
सः रावणगताभिलाषरूपा चित्तवृत्तिः ।

रात्याभासः स्थायिभूतरतित्वेनाभासमानः ।
अतश्चेति ।
वक्ष्यमाणहेतुनेत्यर्थः ।
अस्य रावणत्य मयिविषये ।
उपेक्षिका उपेक्षावती ।
द्विष्टा द्वेषवती ।
तत्स्पर्शे तथाविधप्रतीतिस्पर्शे ।
तस्य रावणस्य ।
न चेति ।
कृतमिति निषेधवाची निपातः ।
इयं मय्यनुरक्तेति निश्चयस्याभावश्च नेत्यर्थः ।
तन्निश्चयश्चास्तीति यावत् ।
अत्र हेतुमाह--कामेत्यादि ।
ऽनिश्चयेन कृत्यऽति च पाठः ।
तत्पक्षे ऽन क कृत्यम्ऽ इत्यन्वयः ।
इति निश्चयेन न च प्रयोजनमित्यर्थः ।
तन्निश्चयो ह्यभिलाषजनने ऽनुपयोगीति भावः ।
अत पक्षे ऽकामकुतान्मोहादिऽत्यस्य न स्पृशत्येवेत्यनेनान्वयो बोध्यः ।
अत एव उक्ताद्धेतोरेव ।
तदाभासत्वं रत्याभासत्वं ।
तत्र अभिलाषरूपायां रावणचित्तवृत्तो ।
स्थाप्यत इति ।
प्रतिपत्तृभिरिति शेषः ।
शृङ्गारानुकृतिशब्दं प्रयुञ्जान इति ।
शृङ्गारानुकृतिर्या तु स हास्य इति प्रयुञ्जान इत्यर्थः ।
लोचनम् प्रयुञ्जानो मुनिरपि सूचितवान् ।
अनुकृतिरमुख्यता आभास इति ह्येको ऽर्थः ।
अत एवाभिलाषे एकतरनिष्टे ऽपि शृङ्गरशब्देन तत्र तत्र व्यवहारस्तदाभासतया मन्तव्यः ।
शृङ्गारेम वीरादीनामप्याभासरूपतीपलक्षितैव ।
एवं रसध्वनेरेवामी भावध्वनिप्रभृतयो निष्यन्दा आस्वादे प्रधानंप्रयोजकमेवमंशं विभज्य पृथग्व्यवस्थप्यते ।
यथा गन्धयुक्तिज्ञैरेकरससम्मूर्च्छितामोदोपभोगे ऽपि शुद्धमास्यादिप्रयुक्तमिदं सौरभमिति ।
रसध्वनिस्तु स एव यो ऽत्र मुख्यतया विभावानुभावव्यभिचारिसंयोजनोदितस्थायि प्रतिपत्तिकस्य प्रतिपत्तुः स्थाय्यंशचर्वणाप्रयुक्त एवास्वादप्रकर्षः ।
यथा--- कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले मध्ये ऽस्यास्त्रिवलीतरङ्गविषमे निःष्पन्दतामागता ।
मद्दृष्टिस्तृषितेव सम्प्रति शनेरारुह्य तुङ्गो स्तनौ साकाङ्क्षं मुहुरीक्षते जललवप्रस्यन्दिनी लोचने ॥
अत्र हि नायिकाकारानुवर्ण्यमानस्वात्मप्रतिकृतिपवित्रितचित्रफलकावलोकनाद्वत्सराजस्य बालप्रिया इति ह्योको ऽर्थ इति ।
अनुकृत्यादि शब्दाः पर्याया इत्यर्थः ।
शृङ्गारेणेति ।
शृङ्गारानुकृतिरिति मुनिवचनस्थशृङ्गारशब्देनेत्यर्थः ।
वीरादीनामिति ।
तेषां गुर्वाद्यालम्बन्त्वे ह्यभासाता ।

उपसंहरति---एवमित्यादि ।
कथं तर्हि पृथग्व्यवहार इत्यत आह---आस्वाद इति ।
ऽप्रधानंप्रयोजकमंशमेवं विभज्येऽ त्यन्वयः ।
पृथगव्यवस्थाप्यत इति ।
पृथक् रसध्वनित्वभावध्वनित्वादिभिन्नरूपेम ।
अत्र दृष्टान्तमाह--यथेति ।
गन्धयुक्तिः गन्धद्रव्ययोजना ।
एकेति ।
एकास्वादः यः सम्मूर्च्छितस्य व्याप्तस्य आमोदस्य उपभोगः तस्मिन्नपि ।
मांसीगन्धद्रव्यविशेषः ।
इतीति पृथगव्यवस्थाप्यत इत्यस्यानुषङ्गः ।
विभावेति ।
विभावादीनां त्रयाणां संयोजनेन तच्चर्वणाया उदिता उत्पन्ना स्थायिप्रतिपत्तिः यस्य ।
कृच्छेणेति ।
रत्नावल्यां राज्ञो विदूषकं प्रतीयमुक्तिः ।
अस्या इत्यस्योरुयुगमित्यादिभिः पञ्चमिः सम्बन्धः ।
त्रिवल्येव तरङ्गः तरङ्गतुल्या त्रिवली वा तेन विषमे निम्नोन्नते ।
तृषितेव तृषितत्वादिव ।
जललवाः अश्रुकणाः ।
तत्प्रस्यन्दिनीति ।
थथा लिखिते इति बोध्यम् ।
अत्रोरुयुगस्य नितम्बस्य चातिविशालत्वं मध्यस्य तनुत्वं स्तनयोर्महत्वं च गम्यत इति सौन्दर्यातिशयो जललवेत्यादिना नायिकाया विरहदुःखातिशयस्च व्यज्यते ।
कस्याश्चिदरण्यभ्रमणवृत्तान्तस्य चात्र समाधिः ।
नायिकेति ।
नायिकाकारेण लिखितनायिकाप्रतिकृत्या हेतुना अनुवर्ण्यमानं नर्मसचिवं प्रतिमहर्वर्ण्यभानं स्वात्मप्रतिकृत्या लिखितनायकप्रतिकृत्या पवित्रितं च, यद्वा--नायिकाकारेण रसादिरर्थो हि सहेव वाच्येनावभासते ।
स चाङ्गित्वनावभासमानो ध्वनेरात्मा ।
इदानीं रसवदलङ्कारादलक्ष्यक्रमद्योतनात्मनो ध्वनेर्विभक्तो विषय इति प्रदर्श्यते---
वाच्य-वाचक-चारुत्व-हेतूनां विविधात्मनाम् ।
रसादि-परता यत्र स ध्वनेर् विषयो मतः
वाच्यवाचकचारुत्वहेतुनां विविधात्मनाम् ।
रसादिपरता यत्र स ध्वनेर्विषयो मतः ॥ 4 ॥
लोचनम् परस्परास्थाबन्धरूपो रतिस्थायिभावो विभावानुभावसंयोजनवशेन चर्वणारूढ इति ।
तदलं बहुना ।
स्थितमेतत्--रसादिरर्थो ऽङ्गित्वेन भासमानो ऽसंलक्ष्यक्रमव्यङ्ग्यस्य ध्वनेः प्रकार इति ।
सहेवेति ।
इवशब्देनासंलक्ष्यता विद्यमानत्वे ऽपि क्रमस्य व्याख्याता ।
वाच्येनेति ।
विभावानुभावादिना ॥ 3 ॥
नन्वङ्गित्वेनावभासमान इत्युच्यते; तत्राङ्गत्वमपि किमस्ति रसादेर्येन तन्निराकरणायैतद्विशेषणमित्यभिप्रायेणोपक्रमते---इदानीमित्यादिना ।
अह्गत्वमस्ति रसादीनां रसवत्प्रेय ऊर्जस्विसमाहितालह्काररूपतायामिति भावः ।

अनया च भङ्ग्या रसवदादिष्वलङ्कारेषु रसादिध्वनेर्नान्तर्भाव इति सूचयति ।
पूर्वं हि समासोक्त्यादिषु वस्तुध्वनेर्नान्तर्भाव इति दर्शितम् ।
वाच्यं च वाचकं च तच्चारुत्वहेतवश्चेति द्वन्द्वः ।
वृत्तावपि शब्दाश्चालङ्काराश्चार्थाश्चालङ्काराश्चेति द्वन्द्वः ।
मत इति ।
पूवमेवैतदुक्तमित्यर्थः ।
ननूक्तं भट्टनायकेन---"रसो यदा परगततया प्रतीयते तर्हि ताटस्थ्यमेव स्यात् ।
न च बालप्रिया कर्त्रा अनुवर्ण्यमाना दृश्यमाना, ऽनिर्वर्ण्यमानेऽति पाठः साधिष्ठः, या स्वात्मप्रतिकृतिस्तया पवित्रितं यच्चित्रफलकं तदवलोकनादित्यर्थः ।
प्रबुद्ध इति शेषः ।
चर्वणारूढ इति ।
सहृदयचर्वणास्पदमित्यर्थः ॥ 3 ॥
वाच्येत्यादिकारिकायां ऽशब्दालङ्काराऽ इत्यादिवृत्तौ चार्थान्तरभ्रमः स्यादित्यतो विवक्षितमर्थं व्याचष्टे---वाच्यत्र्चेत्यादि ।
प्रसङ्गाद्रसखरूपं व्यवस्थापयिष्यन्नादौ परमतान्युपन्यस्यति--ननूक्तमित्यादि ।
नन्विति शङ्काद्योतकं भट्टनायकाद्युक्तानां पूर्वपक्षत्वमगवमयति ।
कथमुक्तमित्यत्राह-ऽरसऽ इत्याद्य ऽप्रदानमेवेऽत्यन्तेन ।
रस इति ।
रत्यादिरूपः शृङ्गारादिरस इत्यर्थः ।
यदेति यदीत्यर्थे ।
परेति ।
सहृदयादन्येत्यर्थः ।
ताटस्थमिति ।
सहृदयासम्बन्धित्वमित्यर्थः ।
ताटस्थ्ये सति स्वरसनीयत्वं न भवेदिति भावः ।
न चेत्यादि ।
ऽअसौ स्वगतत्वेन न च प्रतीयतऽ इति सम्बन्धः तत्प्रत्यायकाभावादिति भावः ।
स्वगत्वेन प्रतीत्यभ्युपगमे बाधकञ्चाह--स्वात्मेत्यादि ।
लोचनम् स्वगतत्वेन रामादिचरितमयात्काव्यादसौ प्रतीयते ।
स्वात्मगतत्वेन च प्रतीतौस्वात्मनि रसस्योत्पत्तिरेवाभ्युपगता स्यात् ।
सा चायुक्ता सीतायाः ।
सामाजिकं प्रत्यविभावत्वात् ।
कान्तात्वं साधारणं वासनाविकासहेतुविभावतायां प्रयोजकमिति चेत्---देवतावर्मनादौ तदपि कथम् ।
न च स्वकान्तास्मरणं मध्ये संवेद्येते ।
अलोकसामान्यानां च रामादीनां ये समुद्रसेतुबन्धादयो विभावांस्ते कथं साधारण्यं भजेयुः ।
न चोत्साहादिमान् रामः स्मर्यते, अननुभूतत्वात् ।
शब्दादपि तत्प्रतिपत्तौ न रसोपजनः ।
बालप्रिया स्वात्मगतत्वेन सहृदयात्मगतत्वेन ।
स्वात्मनीत्यादि ।
प्रतिपत्तुः स्वचित्तवृत्तेरेव प्रत्यक्षरूपा प्रतीतिर्भवति, तथा च तच्चित्तवृत्तेरुत्पत्तिरावस्यकी ।
विषयं विना प्रत्यक्षायोगादिति भावः ।
ननु रस उत्पद्यतामित्यत्राह-सा चेत्यादि. सा च स्वात्मनि रसोत्पतिश्च ।

पूर्वं रामादीति निर्देशात् सीताया इत्युक्तम् ।
सीतादेरित्यर्थः ।
सामाजिकमिति ।
सहृदयमित्यर्थः ।
शङ्कते---कान्तात्वामित्यादि ।
साधारणं सोतासाधारणम् ।
वासनेति ।
वासनायाः सहृदयगतरत्यादिवासनायाः यो विकाकौद्बोधः तस्य हेतुर्यो विभावः ।
तस्य भावस्तत्ता तस्यां वासनाविकासहेतुतारूपायां विभावतायामित्यर्थः ।
हेतुरिति पाठे हेतुः सन्निति योजना ।
प्रयोजकमिति ।
तथा च सीतायाः मानुषीत्वेन सीतादौ सहृदयानां कान्तात्वसंवेदनं भवतीति भावः ।
प्रतिवक्ति---देवतेत्यादि ।
तदपि कान्तात्वसंवेदनमपि ।
कथमिति ।
देवतास्वमात्रादेर्नायिकात्वेन वर्णनस्थले देवतादावारध्यत्वज्ञानेन प्रतिबन्धात्तत्र काम्यत्वरूपकान्तात्वसंवेदनं भवतीत्यर्थः ।
ननु काव्यादितः सीतादिज्ञाने जाते सहृदयानां स्वकान्तास्मरणं जायते, तेन च तद्वासनोद्वोध इत्यत आह---न चेत्यादि ।
न संवेद्यते सहृदयैर्न चानुभूयते ।
वीररसविषये ऽप्याह---लोकेत्यादि ।
अलोकसामान्यानां लोकसाधारणभिन्नाम् ।
विभावाः सहृदयगतोत्साहविभावाः ।
साधारण्यं सर्वसाधारमत्वम् ।
कथं भजेयुरिति ।
समुद्रसेतुबन्धनानौ उत्साहहेतुः स्वकृतिसाध्यत्वबुद्धिर्हृदयसंवादो वा सहृदयानां नोत्पद्येतेति भावः ।
रामादिगतोत्साहादिस्थायिज्ञानमपि सहृदयानांरसोद्बोधे हेतुस्तदपि दुर्घटमित्याह---न चेत्यादिना ।
ननु काव्यादनुभवरूपा तत्प्रतीतिर्भवतीत्यत्राह---शब्दादित्यादि ।
तत्परतीतौ रामादिगतोत्साहप्रतीतौ ।
सत्यामपिति योजना ।
न रसोपजनः सहृदयानां न रसोत्पत्तिः ।
अत्र दृष्टान्तमाह---प्रत्यज्ञादित्यादि ।
लोचनम् प्रत्यक्षादिव नायकमिथुनप्रतिपत्तौ ।
उत्पत्तिपक्षे च करुणस्योत्पादाद्दुःखित्वे करुणप्रेक्षासु पुनरप्रवृत्तिः स्यात् ।
ऽतन्न उत्पत्तिरपि, नाप्यभिव्यक्तिः, शक्तिरूपस्य हि शृङ्गारस्यभिव्यक्तौ विषयार्जनतारतम्यप्रवृत्तिः स्यात् तत्रापि किं खगतो ऽभिव्यज्यते रसः परगतो वेति पूर्ववदेव दोषः ।
तेन न प्रतीयते नोत्पद्यते नाभिव्यज्यते काव्येन रसः ।
किं त्वन्यशब्दवैलक्षण्यं काव्यात्मनः शब्दस्य त्र्यंशताप्रसादात् ।
तत्राभिदायकत्वं वाच्यविषयम्, भावकत्वं रसादिविषयम्, भोगकृत्वं सहृदयविषयमिति त्रयोंऽशभूता व्यापाराः ।
तत्राभिधाभागो यदि शुद्धः स्यात्तत्तन्त्रादिभ्यः शास्त्रन्यायेभ्यः श्लेषाद्यलङ्कारणां को भेदः? वृत्तिभेदवैचित्र्यं चाकिञ्चित्करम् ।
श्रुतिदुष्टादिवर्जनं च किमर्थम्? बालप्रिया प्रतिपत्ताविवेति सम्बन्धः दूषणान्तरमाह---उत्पत्तिपक्षे इत्यादि ।
सहृदयानामिति शेषः ।
करुणप्रेक्षासु करुणरसप्रधाननाट्येषु ।

तदिति ।
तस्मादित्यर्थः ।
नाप्यभिवियक्तिरिति ।
रसस्येति शेषः ।
तस्य प्रागसिद्धत्वादिति भावः ।
पूर्वसिद्धमेव हि घटादिकं प्रदीपादिनाभिव्यज्यते ।
ननु रत्यादिरूपो रसः सूक्ष्मरूपेम सहृदयानामात्मनि वर्तत इत्यतः सिद्ध एवेत्यत्राह---शक्तीत्यादि ।
शक्तिरूपस्य वासनातत्मकसूक्ष्मरूपेण स्थितस्य ।
शृङ्गारस्य रतेः ।
शृङ्गारपदं वीरादेरुपलक्षकम् ।
अभिव्यक्तौ सहृदयहृदये ऽभिव्यक्त्यङ्गीकारे ।
विषयेति ।
विषयो रत्यादिविषयः कान्तादिः अभिव्यक्त्युपाय इति यावत् ।
तस्य अर्जने सम्पादने तारतम्यप्रवृत्तिः तरतमभावेन प्रवृत्तिः स्यादिति ।
यथा अन्धकारस्थघटादेरधिकाधिकाभिव्यक्तये तदुपायभूतालोकस्याधिकाधिकस्यार्जने जनानां प्रवृत्तिस्तथा वासनात्मतया अन्तः स्थितस्य रत्यादेरधिकाधिकाभिव्यक्तये तदुपायभूतस्य विभावादेरधिकाधिकस्यानुभवरूपार्जने सहृदयानां प्रवृत्तिः प्रसज्येतेत्यर्थः ।
अधिकाधिकविषयानुभवे वासनाया झटित्यभिव्यरक्तिसम्भवादिति भावः ।
दूषणान्तरमाह---तत्रापीत्यादि ।
तत्राप अभिव्यक्तिपक्षे ऽपि ।
उपसंहरति---तेनेत्यादि ।
न प्रतीयत इत्यादि ।
सहृदयात्मनीति शेषः ।
स्वमतमाह---किन्त्वित्यादि ।
अन्यशब्देति ।
शास्त्रीयादिशब्देत्यर्थः ।
शतेति ।
त्रयोंऽसा यस्य तस्य भावस्तत्ता, तस्याः प्रसादात्सम्बन्धादित्यर्थः ।
त्र्यंशतां दर्शयति---तत्रेत्यादि ।
वाच्येति. वाच्यो ऽर्थो विषयो यस्य तत्, वाच्यार्थसम्बन्धीत्यर्थः ।
रसादीति ।
रसो रत्यादिः, आदिपदेन विभावदेर्ग्रहणम् ।
भावकत्वभोगकृत्वयोः स्वरूपं दर्शयिस्तदङ्गीकारे युक्तिं तावदाह-तत्रेत्यादि ।
अभिधाभागः अभिधायकत्वांशः ।
शुद्धः इततरव्यापारानालिङ्गितः तत् तर्हि ।
तन्त्रादिभ्य इति ।
तन्त्रं नामानेकार्थबोधेच्छया पदस्यैकस्य सकृदुच्चारणम् ।
को भेद इति ।
शास्त्रै लोचनम् तेन रसभावनाख्यो दिवतीयो व्यापारः; यद्वशदभिधा विलक्षणैव ।
तच्चैतद्भावकत्वं नाम रसान् प्रति यत्काव्यस्य तद्विभावादीनां साधारणत्वापादनं नाम ।
भाविते च रसे तस्य भोगः यो ऽनुभवस्मरणप्रतिपत्तिभ्यो विलक्षण एव द्रुतिविस्तरविकासात्मा रजस्तमोवैचित्र्यानुविद्धसत्त्वमयनिजचित्स्वभावनिर्वृतिविश्रान्तिलक्षणः परब्रह्मास्वादसविधः ।
स एव च प्रधानभूतोंऽशः सिद्धरूप इति ।

व्युत्पत्तिर्नामाप्रधानमेवेऽति ।
बालप्रिया "हलन्त्यमि"ति पणिनीयसूत्रादाविव "सर्वदो माधव" इत्यादिश्लेषस्थले ऽपि तन्त्रादिनानेकार्थबोधसम्भवादुभयोर्भेदो न स्यादित्यर्थः ।
वृत्तीति ।
वृत्तिभेदाः उपनागरिकाद्याः तेषां वैचित्र्यं च अकिञ्चित्करमिति ।
काव्ये अभिधामात्रस्वीकारे व्यर्थमित्यर्थः ।
किमर्थमिति. निष्फलमित्यर्थः ।
तेनेति ।
उक्तहेतुनेत्यर्थः ।
रसभावनेति ।
रत्यादिभावनेत्यर्थः ।
द्वितीय इति ।
अभिधानन्तरभावीत्यर्थः ।
यद्वशादिति ।
भावकत्वव्यापाररूपप्रयोजकादित्यर्थः ।
विलक्षणैवेति ।
शास्त्रीयादिशब्दगताभिधातो विचातीयैवेत्यर्थः ।
तच्चेत्यादि ।
रसान् प्रति एतद्भावकत्वं नाम तदिति सम्बन्धः ।
काव्यस्येति. नाट्यस्याप्युपलक्षणम् ।
तद्विभावादीनामिति ।
तस्य रत्यादिरूपरसस्य विभावादित्रयाणां चेत्यर्थः ।
साधारमत्वापादनमिति ।
साधारणीकरणमित्यर्थः ।
सामान्येनोपस्थापकत्वमिति यावत् ।
भाविते उक्तभावनाविषयीकृते ।
रसे रामादिगतत्यादौ ।
तस्येति ।
भावितस्य रत्यादेरित्यर्थः ।
भोग इति ।
साक्षात्कारविशेष इत्यर्थः ।
सहृदयानां भवतीति शेषः ।
तथाच भावनोपनीतो रामादिगतरत्यादिः स्थायी सहृदयैर्भुज्यमानो रसः रत्यादेः साधारण्येन प्रतीत्या च न ताटस्थ्यादिदोष इति भावः ।
भोगस्वरूपमाह---य इत्यादि ।
अनुभवेति ।
अनुभवस्मरणरूपाः याः प्रतीपत्तयो लौकिक्यः प्रतीतयस्ताभ्य इत्यर्थः ।
ऽद्रुतिविस्तारविकासात्मेऽत्यत्र हेतुमाह----रज इत्यादि ।
वैचित्र्यानुविद्धेति पाठः ।
"रजस्तमोनुवेद्यवैचित्र्यबलादि"त्यभिनवभारत्यामुक्तेः ।
रजस्तमसोर्वैचित्र्येण विशेषेण अनुविद्धं यत्सत्वं तन्मयी ।
प्राचुर्यार्थे मयट् ।

मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc