भाषा

ENहिગુ
ग्रंथ पाठ

ध्वन्यालोक (टीका सहित) · भाग 141160

लोचनम् चैवमिति ।
न च प्रयोगे दुष्टता काचित् प्रयोजनस्याबिध्नेनैव प्रतीतेः ।
तेनाभिधैव मुख्ये ऽर्थे बाधकेन प्रविवित्सुर्निरुध्यमाना सती अचरितार्थत्वादन्यत्र प्रसरति ।
अत एव अमुख्यो ऽस्यायमर्थ इति व्यवहारः ।
तथैव चामुख्यतया सङ्गेतग्रहणमपि तत्रास्तीत्यभिधापुच्छभूतैवलक्षणा ॥ 17 ॥
उपसंहरति---तस्मादिति ।
यतो ऽभिधापुच्छभूतैव लक्षणा, ततो हेतोर्वाचकत्वमभिधाव्यापारमाश्रिता तद्बाधनेनोत्थानात्तत्पुच्छभूतत्वाच्छ गुणवृत्तिः गौणलाक्षणिककार इत्यर्थः ।
सा कथं ध्वनेर्व्यञ्जनात्मनो लक्षणं स्यात्? भिन्नविषयत्वादिति ।
एतपसंहरति---तस्मादिति ।
यतो ऽतिव्याप्तिरुक्ता तत्प्रसङ्गेन च भिन्नविषयत्वं तस्मानारित्यर्थः ।
एवम् ऽअतिव्याप्तेरताव्याप्तेर्न चासौ लक्ष्यते तयाऽ इति कारिकागतातिव्याप्तिं व्याख्यायाव्याप्तिं व्याचष्टे---अव्याप्तिरप्यस्येति ।
अस्य गुणवृत्तिरूपस्येत्यर्थः ।
बालप्रिया कथमित्यत्र अभिधैवेत्यादि ।
ऽअभिधैवान्यत्र प्रसरतीऽत्यन्वयः ।
अभिधा गङ्गादिपदनिष्टमभिधायकत्वन्तद्विशिष्टं गङ्गादिपदं वा ।
अन्यत्र मुख्यार्थप्रवाहादेरन्यस्मिंस्तीरादौ ।
अन्यत्र प्रसरणे हेतुः---अचरितार्थत्वादिति ।
पर्यवसितविशिष्टार्थप्रतीतिरूपस्वकार्यानुपधायकत्वादित्यर्थः ।
अत्रापि हेतुमाह---मुख्ये ऽर्थ इत्यादि ।
ऽमुख्ये अर्थे प्रविवित्सुः बाधकेन निरुध्यमानेऽति सम्बन्धः ।
बाधकेनेत्यनन्तरं विधुरीकृतेति च क्वचित् ग्रन्थे पाठः ।
अत एव उक्तादेव हेतोः ।
अमुख्यो ऽस्येति ।
यथा प्रवाहादिकमुद्दिश्य गङ्गादिशब्दस्यायं मुख्यार्थ इति व्यवहारः, तथा तीरादिकमुद्दिश्यायममुख्यार्थ इति च व्यवहारो ऽस्तीत्यर्थः ।
तथा च द्वयोरर्थत्वं तुल्यं मुख्यत्वामुख्यत्वकृत एव भेद इति भावः ।
सङ्केतग्रहणमपि समानमित्याह---तथैवेत्यादि ।
यथा मुख्ये ऽर्थे सङ्केतग्रहणन्तथैव ।
सङ्केतेति ।
न हे शब्दस्य यः कश्चिदेवांमुख्यो ऽर्थः किन्त्वयमर्थो ऽस्य शब्दस्यामुख्य इति नियत एवेत्यतस्तथाविधोपदेशरूपस्य ।
अयमर्थो ऽस्माच्छब्दाद्बोद्धव्य इति इच्छारूपस्य वा सङ्केतस्य ग्रहममपीत्यर्थः ।
विस्तृतमिदं काव्यप्रकाशसङ्केते ॥ 17 ॥
उपसंहरति---तस्मादितीति ।
तस्मादित्युपसंहरतीति च पाठः ।
तस्मादित्यसिय कीरुकयी सम्बन्धं दर्सयंस्तत्पदं व्याचष्टे---यत इत्यादि ।
वाचकत्वाश्रितत्वं तन्निबन्धनत्वादिरूपं इति दर्शयति--तदित्यादि ।
गुणवृत्तिरित्यस्य व्यख्यानम्--गौणेत्यादि ।
न हि ध्वनिप्रभेदो विवक्षितान्यपरवाच्यलक्षणः ।
अन्ये च बहवः प्रकारा भक्त्या व्याप्यन्ते; तस्माद्भक्तिरलक्षणम् ।
लोचनम् यत्र यत्र ध्वनिस्तत्र तत्र यदि भक्तिर्भवेन्न स्यादव्याप्तिः ।
न चैवम्; अविवक्षितवाच्ये ऽस्ति भक्तिः ऽसुवर्मपुष्पां इत्यादौ ।

ऽशिखरिणिऽ इत्यादौ तु सा कथम् ।
ननु लक्षणा तावद्गौणमपि व्याप्नोति ।
केवलं शब्दस्तमर्थं लक्षयित्वा तेनैव सह सामानाधिकरण्यं भजते-ऽसिंहो बटुःऽ इति ।
अर्थो वार्थान्तरं लक्षयित्वा स्ववाचकेन तद्वाचकं समानाधिकरणं करोति ।
शब्दार्थौ वा युगपत्तं लक्षयित्वा अन्याभ्यामेव शब्दार्थाभ्यां मिश्रीभवत इत्येवं लाक्षणिकाद्गौणस्य भेदः ।
यदाह-ऽगौणे शब्दप्रयोगः, न लक्षणायामऽ इति, तत्रापि लक्षणास्त्येवेति सर्वत्र सैव व्यापिका ।
बालप्रिया वृत्तौ ऽन हि व्याप्यन्तऽ इत्यन्वयः ।
तत्तात्पर्यं विवृणोति---यत्रेत्यादि ।
ऽशिखरिणीऽत्यादाविति ।
विवक्षितान्यपरवाच्य इति शेषः ।
सा कथमिति ।
भक्तिर्न्नास्तीत्यर्थः ।
तथा चाव्याप्तिरिति भावः ।
अथ गौणस्थले ऽपि लक्षणायाः प्रसरद्विवक्षितान्यपरवाच्योदाहरणत्वेन प्रदर्शिते ऽशिखरिणीऽत्यादौ सा प्रवर्तत एवेति तत्र तदभावाभिधानमसङ्गतमिति पूर्वपक्षमभ्युपेत्य तदनुरोधेनापि विवक्षितान्यपरवाच्येत्यादिग्रन्थं व्याख्यास्यन् शिष्यव्युत्पादनार्थं तत्पूर्वपक्षमुपक्षिपति--नन्वित्यादि ।
गौणमपि ऽसिंहो वटुऽरित्यादिस्थलमपि ।
व्याप्नोतीति ।
लक्षणासामग्रीसत्वादिति भावः ।
नन्वेवं गौणस्य लाक्षणिकाद्भेदः कुत इत्यत आह--ऽकेवलम्ऽ इत्यादिना ऽभेदऽ इत्यन्तेन ।
शब्दः सिंहादिशब्दः ।
तमर्थे वट्वाद्यर्थम् ।
तेनैव वट्वाद्यर्थवाचकवट्वादिशब्देनैव ।
सामानाधिकरण्यं भजते समानाधिकरणो भवति ।
शब्दयोस्सामानाधिकरण्यन्नाम भिन्नभिन्नरूपेंणैकार्थप्रतिपादकत्वम् ।
लाक्षणिकात् गौणस्यायं विशेष इति भावः ।
एवमुत्तरत्रापि ज्ञेयम् ।
आर्थो वेति ।
अर्थः सिंहादिपदार्थः ।
अर्थान्तरं वट्वाद्यात्मकम् ।
स्ववाचकेन सिंहादिपदेन ।
तद्वाचकं वट्वादिशब्दम् ।
शब्दार्थौ वेति ।
शब्दार्थौ सिंहादिशब्दस्तदर्थश्च ।
तं वट्वाद्यर्थम् ।
अन्याभ्यां वट्वादिशब्दतदर्थाभ्याम् ।
ऽताभ्याम्ऽ इति पाठे ऽप्ययमेवार्थः ।
मिश्रीभवत इति ।
मिश्रीभवनं नाम शब्दयोरेकधर्मिबोधकत्वमर्थयोस्त्वभेदेनान्वयित्वम् ।
उक्तार्थोपषृम्भकमाह--गौण इत्यादि ।
गौणे गौणस्थले ।
शब्दप्रयोगः लक्ष्यवाचकपदप्रयोगः ।

यथा लोचनम् सा च पञ्चविधा ।
तद्यथा--अभिधेयेन संयोगात्; द्विरेफशब्दस्य हि यो ऽभिधेयो भ्रमरशब्दः द्वौ रेकौ यस्येति कृत्वा तेन भ्रमरशब्देन यस्य संयोगः सम्बन्धः षट्पदलक्षणस्यार्थस्य सो ऽर्थो द्विरेफशब्देन लक्ष्यते, अभिधेयसम्बन्धं व्याख्यातरूपं निमित्तीकृत्य ।
सामीप्यात् ऽगङ्गायां घोषःऽ ।
समवायादिति सम्बन्धादित्यर्थः ऽयष्टीः प्रवेशयऽ इति यथा ।
वैपरीत्यात् यथा--शत्रुमुद्दिश्य कश्चिद्ब्रवीति--ऽकिमिवोपकृतं न तेन ममऽ इति ।
क्रियायोगादिति कार्यकारणभावादित्यर्थः ।
यथा-अन्नापहारिणि व्यवहारः प्राणानयं हरति इति ।
एवमनया लक्षणया पञ्चविधया विश्वमेव व्याप्तम् ।
तथाहि--ऽशिखरिणिऽ बालप्रिया सिंहो वटुरित्यादौ वट्वादिशब्दप्रयोगः ।
न लक्षणायामिति ।
लक्षणास्थले लक्ष्यवाचकपप्रयोगो नेत्यर्थः ।
यता ऽगङ्गायां घोषऽ इत्यादौ न तीरादिवाचकपदप्रयोगः ।
फलितमाह--इति तत्रापीति ।
इतीत्यस्याहेति पूर्वेणापि सम्बन्धः ।
तत्रापि गौणस्थले ऽपि ।
सैव लक्षणैव ।
"अभिधेयेन संयोगात्सामीप्यात्समवायतः ।
वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा स्मुता" ॥
इत्.इ वचनं खण्डश उपादाय व्याचष्टे--अभिधेयेनेत्यादि ।
अत्र संयोगपदेन वाच्यवाचकभावरूपस्सम्बन्धः, समवायपदेन तदितर आधाराधेयभावरूपस्सारूप्यादिश्च विवक्षितः ।
"अभिधेयेन सामीप्यात्सारूप्यादि"ति चात्र पाठो ऽस्ति ।
स एव भाक्तमाहुरित्यत्र पूर्वं प्रदर्शितः ।
तेनेति ।
द्विरेफशब्दाभिधेयभूतेनेत्यर्थः ।
ऽयस्यार्थस्येऽत्यन्वयः ।
संयोग इत्यस्य व्याख्यानम्---सम्बन्ध इति ।
वाच्यवाचकभावात्मकस्सम्बन्ध इत्यर्थः ।
ऽनिमित्तीकृत्य लक्ष्यतऽ इति सम्बन्धः ।
सम्बन्धादिति ।
आधाराधेयभावरूपसम्बन्धादित्यर्थः ।
किमिवोपकृतमिति ।
अत्रापकारो लक्ष्यत इति भावः ।
यथा काव्यप्रकाशे "उपकृतं बहुनामे"त्यादि ।
प्राणानिति ।
प्राणशब्देनान्नं लक्ष्यत इति भावः ।
विश्वमेवेति ।
अमुख्यव्यवहारभूमिपतितं सर्वमेवेत्यर्थः ।
तथाहीति ।
तथाचेत्यर्थः ।
नन्वित्यादिना लक्षणास्तीत्यन्तेनोक्तं पूर्वपक्षमभ्युपगमेन लोचनम् इत्यत्राकस्मिकप्रशनविशेषादिबाधकानुप्रवेशे साद्दश्याल्लक्षमास्त्येव ।

नन्वत्राङ्गीकृतैव मध्ये लक्षणा, कथं तर्ह्युक्तं विवक्षितान्यपरेति? तद्भेदो ऽत्र मुख्यो ऽसंलक्ष्यक्रमात्मा विवक्षितः ।
तद्भेदशब्देन च रसभावतदाभासतत्प्रशमभेदास्तदवान्तरभेदाश्च, न च तेषु लक्षणाया उपपत्तिः ।
तथाहि-विभावानुभावप्रतिपादेके काव्ये मुख्ये ऽर्थे तावद्बाधकानु प्रवेशो ऽप्यसम्भाव्य इति को लक्षणावकाशः? ननु किं बाधया, इयदेव लक्षणास्वरूपम्---ऽअभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यतेऽ इति ।
इह चाभिधेयानां विभावानुभावादीनामविनाभूता रसादय इति लक्ष्यन्ते, विभावानुभावयोः कारणकार्यरूपत्वात्, व्यभिचारिणां च तत्सहकारित्वादिति चेत्---मैवम्; धूमशब्दाद्धूमे प्रतपन्ने ह्यग्रिस्मृतिरपि लक्षणाकृतैव स्यात्, ततो ऽग्नेः शीतापनोदस्मृतिरित्यादिरपर्यवसितः शब्दार्थः स्यात् ।
धूमशब्दस्य स्वार्थविश्रान्तत्वान्न तावति व्यापार इति चेत्, आयातं तर्हि मुख्यार्थबाधो लक्षणाया जीवितमिति, सति तस्मिन्स्वाथविश्रान्त्यभावत् ।
न च विभावादिप्रतिपादने बाधकं किञ्चिदस्ति ।
बालप्रिया परिहरिति--नन्वत्राङ्गीकृतेति ।
ऽशखरिणीऽत्यादौ लक्षणाङ्गीकारः पूर्व प्रदर्शित एवेत्यर्थः ।
पृच्छति--कथन्तर्हिति ।
वृत्तौ ऽविवक्षितान्यपरेऽत्युक्तं कथं सङ्गच्छत इत्यर्थः ।
लक्षणायां सत्यां वाच्यस्य विवक्षितत्वासम्भवादिति भावः ।
उत्तरमाह---तद्भेद इति ।
वृत्तौ विवक्षितान्यपरवाच्यशब्देन तदवान्तरभेदो मुख्यो ऽसंलक्ष्यक्रमो विवक्षित इत्यर्थः ।
तद्भेदशब्देनेति ।
वृत्तौ ऽतद्भेदप्रकाराऽ इत्यत्र तद्भेदशब्देनेत्यर्थः ।
तदवान्तरभेदाश्चेति ।
शृङ्गारहास्यादयश्चेत्यर्थः ।
अत्रापि लक्षणा किन्न स्यादत आह--न चेति ।
अनुपपत्तिं विवृणोति---तथाहीति ।
बाधकानुप्रवेशो ऽपीत्यपिशब्दः प्रयोजनस्य समुच्चायकः ।
शङ्कते---नन्विति ।
किं बाधयेति ।
अस्ति वा नास्ति वेति चिन्तितया मुख्यार्थबाधया किं फलमित्यर्थः ।
इयदेवेति ।
वक्ष्यमाणमेवेत्यर्थः ।
अभीति ।
अभिधेयेनाविनाभूतस्य केनापि सम्बन्धेन सम्बद्धस्य प्रतीतिर्ज्ञानं तद्धेतुर्वा ।
इतीति ।
इति भट्टवार्तिकोक्तमित्यर्थः ।
पुकृते सङ्गमयति---इहेत्यादि ।
इह असंलक्ष्यक्रमव्यङ्ग्ये ध्वनौ ।
ऽरसादयः अविनाभूता इति हेतोर्लक्ष्यन्तऽ इति सम्बन्धः ।
अविनाभावमुपपादयति--विभावेत्यादि ।
कारणेत्यादि ।
रसं प्रतीति शेषः ।
समाधत्ते--मैवमिति ।
मुख्यार्थबाधैव लक्षणाबीजमिति दर्शयिष्यन्नादावतिप्रसङ्गमाह---धूमशब्दादित्यादि ।
अग्नीत्यादि ।
अग्नेर्धूमाविनाभूतत्वादिति भावः ।
शब्दार्थ इति धूमशब्दार्थ इत्यर्थः ।

उक्तातिप्रसङ्गं पुर्वपक्षी परिहरति--धूमशब्दस्येत्यादि ।
स्वार्थेति ।
स्वार्थे धूमत्वे तद्विशिष्टे वा ।
वाश्रान्तत्वात् पर्यवसितबोधनव्यापारत्वात् ।
तावति अगन्याद्यर्थे ।
तर्हि जितमिति सिद्धान्त्यह---आयातमित्यादि ।
जीवितमिति ।
लोचनम् नन्वेवं धूमावगमनानन्तराग्निस्मरमवद्विभावादिप्रतिपत्यनन्तरं रत्यादिचित्तवृत्तिप्रतिपत्तरित् शब्दव्यापार एवात्र नास्ति ।
इदं तावदयं प्रतीतिस्वरूपज्ञो मीमांसकः प्रष्टव्यः--किमत्र परचित्तवृत्तिमात्रे प्रतिपत्तिरेव रसप्रतिपत्तिरभिमता भवतः? न चैवं भ्रमितव्यम्; एवं हि लोकगतचित्तवृत्त्यनुमानमात्रमिति का रसता? यस्त्वलौकिकचमत्कारात्मा रसास्वादः काव्यगतविभावादिचर्वणाप्राणो नासौ स्मरणानुमानादिसाम्येन खिलीकारपात्रीकर्तव्यः ।
किं तु लौकिकेन कार्यकारणानुमानादिना संस्कृतहृदयो विभावादिकं प्रतिपद्यमान एव न ताटस्थ्येन प्रतिपद्यते, अपि तु हृदयसंवादापरपर्यायसहृदयत्वपरवशोकृततया बालप्रिया बीजमित्यर्थः ।
ऽबीजं जीवितमिऽ च पाठः ।
कुत इत्यत्राह---सतीत्यादि ।
तस्मिन्निति ।
मुख्यार्थबाध इत्यर्थः ।
समाने ऽपि स्वार्थाभिधानसामर्थ्ये धूमशब्दस्स्वार्थे विश्राम्यति ।
ऽगङ्गायां धोषऽ इत्यत्र गङ्गाशब्दो नेत्यत्र मुख्यार्थबाध एव हेतुरतस्य एव लक्षणाबीजमित्यर्थः ।
तर्हिहापि मुख्यार्थबाधो लक्षणा च स्यत् नेत्याह - न चेति ।
प्रसङ्गादिनिष्टमाशभङ्कते---नन्वेवमित्यादि ।
विभावादिप्रतीत्यनन्तरभाविनी रत्यादिप्रतीतिर्धूमादिप्रतीतिजन्याग्न्यादिस्मृतिसमानैवेति सा शब्दव्यापारजन्या न भवति दूरे तस्या व्यञ्जनाजन्यत्वमित्यर्थः ।
विमता रत्यादिप्तीतिर्न शाब्दी, शब्दजन्यार्थप्रतीतिजन्यत्वात् धूमशब्दजनितार्थप्रतीतिजन्यागन्यादिस्मृतिवदिति प्रयोगः ।
किमत्र परकीयरत्यादिचित्तवृत्तिप्रतीतेःशब्दव्यापाराजन्यत्वं सिषाधयिषितं? किंवा रसप्रतीतेः? आद्ये सिद्धसाधनम्; द्वितीये रसप्रतीतेरितरप्रतीतिवैलक्ष्ण्येन दृष्टान्ताभावो दोष इत्याशयेन सोपहासं पृच्छन्नाह--इदमित्यादि ।
प्रश्नं विवृणोति-किमित्यादि ।
अत्रेति ।
काव्य इत्यर्थः ।
न चेति ।
एवं भ्रमो न कर्तव्य इत्यर्थः ।
कुत इत्यत्राह--एवं हीत्यादि ।
एवं लौकिकचित्ततवृत्तिप्रतीतेरेव रसत्वाङ्गीकारे सति ।
मात्रमित्यनन्तरं रसप्रतीतिरिति शेषः ।
का रसतेति ।
रसनीयतानिमित्तको हि रसशब्दव्यवहारः ।
न चानुमितिरूपायाः प्रतीतेः रसनीयत्वमस्ति वह्न्याद्यनुमितिष्वनुपलम्भादित्यर्थः ।
का तर्हि रसप्रतीतिरित्यत आह---यस्त्वित्यादि ।
अलौकिकेत्यनेन लौकिकसुखास्वादो व्यावर्त्यते ।
अलौकिकत्वे हेतुं दर्शयंस्तस्य कारणमाह---काव्येति ।
नासाविति ।
असौरसास्वादः ।
स्मरणानुमानसाम्येनेत्यस्य खिलीकारे ऽन्वयः ।
लौकिकेनेति लोके भवतेत्यर्थः ।
कार्येति ।

कार्यं वह्न्यादेर्धूमादि, रत्यादिचित्तवृत्तेः कटाक्षादि ।
कारणं वह्न्यादि, रत्यादि चकार्येण यत् कारणस्यानुमानं, आदिपदेनार्थापत्तेस्सङ्ग्रहः ।
तेने संस्कृतहृदय इत्यनेन तत्संस्कारो ऽपि प्रतिपत्तुः रसप्रतीतावुपयोगीति दर्शितम् ।
विभावादिकमिति ।
प्रमदादिकमित्यर्थः ।
प्रतिपद्यमान एवेति ।
काव्यान्नाट्याद्वेति शेषः ।
ताटस्थ्येनेति ।
अन्यदीयत्वेनेत्यर्थः ।
न प्रतिपद्यत इत्यत्रापि विभावादिकमित्यस्य सम्बन्धः ।
कथन्तर्हि तत्प्रीतिरित्यत आह--अपि त्वित्यादि ।
हृदयेति ।
लोचनम् पूर्णीभविष्यद्रसास्वादाङ्कुरीभावेनानुमानस्मरणादिसरणिमनारुह्यैव तन्मयीभवनोचितचर्वणाप्राणतया ।
न चासौ चर्वणा प्रमाणान्तरतो जाता पूर्वं, येनेदानीं स्मृतिः स्यात् ।
न चाधुना कुतश्चित्प्रमाणान्तरादुत्पन्ना, अलौकिके प्रत्यक्षाद्यव्यापारात् ।
अत एवालौकिक एव विभावादिव्यवहारः ।
यदाह--ऽविभावो विज्ञानार्थः लोके कारणमेवाभिधीयते न विभावः ।
अनुभावो ऽप्यलौकिक एव ।
ऽयदयमनुभावयति वागङ्गसत्त्वकृतो ऽभिनयस्तस्मादनुभावऽ इति ।
तच्चित्तवृत्तितन्मयीभवनमेव ह्यनुभवनम् ।
लोको तु कार्यमेवोच्यते नानुभावः ।
अत एव परकीया न चित्तवृत्तिर्गम्यत इत्यभिप्रायेण ऽविभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिःऽ इति सूत्रे स्थायिग्रहणं न कृतम् ।
तत्प्रत्युत शल्यभूतं स्यात् ।
स्थायिनस्तु रसीभाव औचित्यादुच्यते, तद्वि बालप्रिया हृदयस्य संवादः सम्मतिः, तदपरपर्यायं यत्सहृदयत्वं तत्परवशीकृततया तद्बलादित्यर्थः ।
पूर्णीति ।
पूर्णीभविष्यन् यो रसास्वादस्तस्य कल्पतरोश्चतुर्वर्गोपायव्युत्पत्तिफलिष्यतो ऽङ्कुरीभावेन हेतुनेत्यर्थः ।
अनुमानेति ।
अनुमितिस्मृत्याद्युपायं व्याप्तिज्ञानादिकमनालम्ब्यैवेत्यर्थः ।
तन्मयीति ।
सहृदयानां यत्तत्तच्चित्तवृत्तितन्मयीभवनं तस्योचिता या चर्वणा अर्थाद्विभावादेः तत्प्राणतया तदुपयोगित्वेनेत्यर्थः ।
साधारण्येनेति यावत् ।
विभावादिकं प्रतिपद्यत इत्यनुषङ्गः ।
विभावादीनां साधारण्येन प्रतीतावेव रसचर्वणेत्यन्यत्र स्पष्टम् ।
स्मृत्यादिरूपत्वन्निराकरोति--न चेत्यादि ।
अत एवेति ।
रसप्रतीतेरलौकिकत्वादेव तत्कारणेष्वलौकिको विभावादिव्यवहार इत्यर्थः ।
यदाहेति ।
मुनिरिति शेषः ।
विभावो विज्ञानार्थ इति ।
विशिष्टतया भाव्यन्ते ज्ञायन्ते स्थायिव्यभिचारिणो ऽनेनेति विभावः प्रमदोद्यानादिः ।

न खल्वनुभावादेव चित्तवृत्तेर्विशिष्य ज्ञानं जायते, बाष्पादेरनुभावस्यानेकहेतुजन्यत्वसम्भवादित्यर्थः ।
लोक इत्यादि ।
चित्तवृत्तिहेतुषु लोके कारममित्येव व्यवहारो न तु विभाव इतीत्यर्थः ।
यदयमिति ।
अयमभिनय इत्यन्वयः ।
अनुभावयतीति ।
स्थायिव्यभिचारिण इति शेषः ।
अनुभाव इतीत्यनन्ततरमुच्यत इति शेषः ।
सामाजिकसहृदयगततत्तच्चित्तवृत्तेर्विभावनादिना विभावादिव्यपदेश इति च रसगह्गाधरादावुक्तम् ।
अत्रानुभवनं लौकिकानु भवनाद्विलक्षणमित्यह---तच्चित्तवृत्तीति ।
न परकीयचित्तवृत्यवगममात्रमिहानुभवनं, किन्तु तासां चित्तवृत्तीनां स्थाय्यादिरूपाणां सम्बन्धि यत्सामाजिकानां तन्मयीभवनं, तत्तच्चित्तवृत्तिभावनया तत्सजातीयस्वीयचित्तवृत्तेरुद्बोधनेनानुभवनं तदेवेत्यर्थः ।
उक्तार्थे प्रमाणमाह---अत एवेत्यादि ।
अत एव यस्मादनुभवनमुक्तरूपमेव न परकीयचित्तवृत्यनुमितिमात्रं तस्माद्धेतोरेवेत्यर्थः ।
न परकीयेत्यादि ।
किन्तु स्वीया चित्तवृत्तिरेव सामाजिकैस्तदानुभूयत इत्यर्थः ।
न कृतमिति ।
कस्येत्याकाङ्क्षाशान्तये सूत्रे स्थायिन लोचनम् भावानुभावोचितचित्तवृत्तिसंस्कारसुन्दरचर्वणोदयात् ।
हृदयसंवादोपयोगिलोकचित्तवृत्तिपरज्ञानावस्थायामुद्यानपुलकादिभिः स्तायिभूतरत्याद्यवगमाच्च ।
व्यभिचारी तु चित्तवृत्त्यात्मत्वे ऽपि मुख्यचित्तवृत्तिपरवश एव चर्व्यत इति विभावानुभावमध्ये गणितः ।
अत एव रस्यमानताया एषैव निष्पत्तिः, यत्प्रबन्धप्रवृत्तबन्धुसमागमादिकारणोदितहर्षादिलौकिकचित्तवृत्तिन्यग्भावेन चर्वणारूपत्वम् ।
अतश्चर्वणात्राभिवियञ्जनमेव, न तु ज्ञापनम्, प्रमाणव्यापारवत् ।
नाप्युत्पादनम्, हेतुव्यापारवत् ।
बालप्रिया इति षष्ठ्यन्तस्थायिग्रहमे कर्तव्ये ऽप्यनुभावग्रहणेनैव स्थायिप्रतीतिर्भवतीति तन्न कृतमित्यर्थः ।
यद्यत्र स्थायिग्रहणं क्रियेत, तर्हि तद्विरूद्धञ्ज स्यादित्याह---तदित्यादि ।
तत् स्थायिग्रहणकरणम् ।
शल्येति ।
परकीयचित्तवृत्यवगमो रस इत्यर्थप्रतीतिकारित्वेनानिष्टजनकञ्ज भवेदित्यर्थः ।
नन्वेवं ऽस्थायी रसो भवतीऽत्यादि तत्र तत्र सूत्रकारादिवचनं कथं घटेतेत्यत आह--स्थायिनस्त्विति ।
तत्तन्नायकादिगतस्थायिनस्त्वित्यर्थः ।
औचित्यमेव स्पष्टयति---तदिति ।
तस्य परगतस्थायिनः सम्बन्धिनो ये विभावानुभावाः तदुचितायाश्चित्तवृत्तेस्सहृदयात्मनि यस्संस्कारस्तस्योद्बोधेन सुन्दरचर्वणाया उदयादित्यर्थः ।
उक्तञ्च काव्यानुशासनव्याख्याने ऽऔचित्यन्तु तत्स्थायिगतत्वेन कारणादितया प्रसिद्धानामधुना चर्वणोपयोगितया विभावादित्वालम्बनादिऽति ।
त्थायिनो रसत्वव्यपदेशे निमित्तान्तरञ्चास्तीत्याह---हृदयेति ।
रसचर्वणा हि हृदयसंवादपुरस्सरी हृदयसंवादे च निदानं, लोकचित्तवृत्तिपरिज्ञानं तद्विरहितस्य हृदयसंवादानुदयात् ।
तस्याञ्चावस्थायां प्रमदादिभिः कारणैः पुलकादिभिः कार्यैश्च भूयो भूयो ऽवधृतस्वकारणव्याप्तिकैः स्थायिनो रत्यादेरवगमो भवति, तस्माच्चेत्यर्थः ।
ननु चित्तवृत्तित्वाविशेषात्स्यायीव व्यभिचार्यपि सूत्रे ग्रहणं नार्हतीत्यत आह---व्यभिचारीत्विति ।
व्यभिचारिणः स्थायिचित्तवृत्तिं प्रति गुणत्वेन विभावादिप्रायत्वात्तन्मध्ये स निर्दिष्ट इत्यर्थः ।
प्रसङ्गात्सूत्रोक्तां रसनिष्पत्तिं विवृणोति---अत एवेत्यादि ।
रस्यमानताया एषैव निष्पत्तिरिति ।
एषा सूत्रोक्ता निष्पत्तिः ।

रस्यमानताया निष्पत्तिरेवेत्यर्थः ।
यथोक्तमभिनवभारत्यां "कथन्तर्हि सूत्रे निष्पत्तिरिति नेयं रसस्यापि तु तद्विषयरसानायाः तन्निष्पत्त्या यदि तदेकायत्तजीवितस्य रसस्य निष्पत्तिरुच्यते, तदा न किञ्चिदत्र दोष" इति ।
का नामैषा रस्यमानतेत्यतस्तत्स्वरूपमाह--यदित्यादि ।
प्रबन्धेति ।
प्रबन्धेन प्रवृत्तं यद्बन्धुसमागमादिकारणं तेनोदिता या हर्षादिलौकिकचित्तवृत्तिः तस्या न्यग्भावेन अधःकरणेन तद्व्यतिरेकेणेति यावत् ।
चर्वणायास्स्वरूपमाह---अतश्चेत्यादि ।
अतः लौकिकचित्तवृत्तिवैलक्षण्येनालौकिकत्वात् ।
अत्र चर्वणा रसविषयचर्वणा ।
एवकारव्यावर्त्यं दर्शयति---न त्वित्यादि ।
यथा प्रमाणानामिन्द्रियादीनां ज्ञापनं व्यापारः, यथा वा दण्डवक्रादीनामुत्पादनं व्यापारस्तथा लोचनम् ननु यदि नेयं ज्ञप्तिर्न वा निष्पत्तिः, तर्हि किमेतत्? न त्वयमसावलौकिको रसः ।
ननु विभावादिरत्र किं ज्ञापको हेतुः, उत कारकः? न ज्ञापको न कारकः; अपि तु चर्वणोपयोगी ।
ननु क्वैतद्द्दष्टमन्यत्र ।
यत एव न दृष्टं तत एवालौकिकमित्युक्तम् ।
नन्वेवं रसो ऽप्रमाणं स्यात्; अस्तु, किं ततः? तच्चर्वणात एव प्रीतिव्युत्पत्तिसिद्धेः किमन्यदर्शनीयम् ।
नन्वप्रमाणकमेतत्; न, स्वसंवेदनसिद्धत्वात् ।
ज्ञानविशेषस्यैव चर्वणात्मत्वात् इत्यलं बहुना ।
अतश्च रसो ऽयमलौकिकः ।
येन ललितपरुषानुप्रासस्यार्थाभिधानानुपयोगिनो ऽपि रसं प्रति व्यञ्जकत्वम्; का तत्र लक्षणायाः शङ्कापि? काव्यात्मकशब्दनिष्पीडनेनैव तच्चर्वणा दृश्यते ।
हि तदेव काव्यं पुनः पुनः बालप्रिया विभावादीनां न ज्ञापनं न वा उत्पादनं व्यापार इत्यर्थः ।
शङ्कते---नन्वित्यादि ।
पूर्वोक्तेन इयं रसचर्वणा न ज्ञप्तिरूपा, नापि निष्पत्तिरूपेत्यायातं, तर्हि किंस्वरूपेत्यर्थः ।
एतदिति ।
रसचर्वणारूपमित्यर्थः ।
उत्तरमाह---नन्वयमित्यादि ।
ज्ञप्त्युत्पत्त्ययोग्यत्वमलौकिकत्वाद्रसस्य भूषणं भवतीति भावः ।
ननु ज्ञापकत्वस्य कारकत्वस्य वा अभावे विभावादीनां रसप्रतीत्यर्थमुपादानं व्यर्थं, तद्भावे च रसस्य नालौकिकत्वमिति चोदयति---नन्वित्यादि ।
हेतोः कारकत्वज्ञापकत्वान्यतरनियमो हि लौकिकः, विभावादेस्तु तदभावे ऽपि चर्वणोपयोगित्वान्नानर्थकयमित्याशयेन परिहरति---न ज्ञापक इत्यादि ।
तदुपरि शङ्कते--नन्विति ।
समाधत्ते---यत इति ।
पुनरपि शङ्कते---नन्विति ।
एवमिति ।
रसस्यालौकिकत्वे सतीत्यर्थः ।
रसो ऽप्रमाणं स्यादिति ।
अप्रमाणत्वे च शुभाशुभप्राप्तिपरिहारोपायव्युत्पादकत्वन्नभवेदिति भावः ।
अप्रमाणत्वापाते ऽपि कार्यकारित्वमस्तीत्याह--अस्त्विति ।
प्रीतिव्युत्पत्तीति ।
प्रीतिश्च व्युत्पत्तिश्च तयोः, यद्वा--प्रीतिपूर्विका व्युत्पत्तिः तस्याः सिद्धेरित्यर्थः ।
नन्वेवमलौकिकत्वे रसस्य तत्साधकं प्रमाणं नास्तीति शङ्कते---नन्विति ।
समाधत्ते---नेति ।
ननु रसस्य विशिष्टचर्वणारूपत्वाभ्युपगमात् कथं स्वसंवेदनसिद्धिरपीत्याशङ्कायामाह---ज्ञानविशेषस्येति ।

यथोक्तमभिनवभारत्यां---"रसनाच बोधरूपैव, किन्तु बोधान्तरेभ्यो विलक्षणैव, उपायानां विभावादीनां लौकिकवैलक्षण्यादि"ति ।
पुनरपि रसस्यालौकिकत्वं साधयति---अतश्चेत्यादि ।
वाचकशब्दैकगम्यत्वे हि रसस्य वाच्यार्थवल्लौकिकत्वं कथञ्चिच्छक्यशङ्कमनुप्रासादिनापि वाचकत्वशून्येन व्यङ्ग्यत्वमस्त्येव ।
न चानुप्रासव्यङ्ग्यं वस्तु लोके दृष्टचरमतो ऽपि रसस्यालौकिकत्वं सिद्धमित्यर्थः ।
एवं रसस्यालौकिकत्वं प्रसाद्ध्य प्रस्तुतमनुसन्दधान आह---केत्यादि ।
तत्रेति ।
अनुप्रासेनापि व्यङ्ग्ये रस इत्यर्थः ।
का लक्षणेति ।
अभिधाया एवाभावे तत्पृष्ठवर्तिन्या लक्षणायाः प्रसङ्ग एव नास्तीत्यर्थः ।
शब्दस्वरूपस्यैवाभिधाव्यापारानपेक्षस्य रसव्यञ्जकत्वे ऽनुभवं प्रमाणयति---काव्यात्मकेत्यादि ।
काव्यात्मको ऽनुप्रसादिविशिष्टो यः लोचनम् पठंश्चर्व्यमाणश्च सहृदयो लोकः, न तु काव्यस्य; तत्र ऽउपादायापि ये हेयाऽ इति न्यायेन कृतप्रतीतिकस्यानुपयोग एवेति शब्दस्यापीह ध्वननव्यापारः ।
अत एवालक्ष्यक्रमता ।
यत्तु वाक्यभेदः स्यादिति केनचदुक्तम्, तदनभिज्ञतया ।
शास्त्रं हि सकृदुच्चारितं समयबलेनार्थं प्रतिपादयद्युगपद्विरुद्धानेकसमयस्मृत्ययोगात्कथमर्थद्वयं प्रत्याययेत् ।
अविरुद्धत्वे वा तावनेको वाक्यार्थःस्यात् ।
क्रमेणापि विरम्यव्यापारायोगः ।
पुनरुच्चारिते ऽपि वाक्ये स एव, समयप्रकरणादेस्तादवस्थ्यात् ।
प्रकरणसमयप्राप्यार्थतिरस्कारेणार्थान्तरप्रत्यायकत्वे बालप्रिया शब्दः तस्य निष्पीडनेन आम्रेडनेन ।
तच्चर्वमा रसचर्वणा ।
उक्तं विवृणोति---दृश्यत इति ।
यदेव काव्यं पठितञ्चर्वितञ्च तदेव पुनः पुनः पट्यते चर्व्यते चेत्यर्थः ।
न त्विति ।
कृतप्रतीतिकस्य काव्यस्य काव्यशब्दस्य, तत्र रसचर्वणायाम् ।
अनुपयोग एव न त्वित ।
उपयोगः अस्त्येवेत्यर्थः ।
कृतप्रतीतिकस्य अनुपयोगित्वे युक्तिप्रदर्शक उपेत्यादिन्यायः ।
"उपादायापि ये हेयास्तानुपायान् प्रचक्षते ।
उपायानां हि नियमो नावश्यमवतिष्टते ॥
इत्.इ न्यायेनेत्यर्थः ।
सो ऽयं न्यायो ऽत्र न प्रवर्तत इति भावः ।
फलितमाह---इतीत्यादि ।
व्यङ्ग्यस्य यदलक्ष्यक्रमत्वमुक्तं तदप्युक्तार्थे गमकमित्याह--अत एवेति ।
अत एव शब्दस्वरूपस्यैवार्थाभिधानानपेक्षतया व्यञ्जकत्वादेव ।
यद्यर्थंप्रतीतिव्यवधानापेक्षयैव शब्दस्य व्यञ्जकत्वं भवेत्तदावश्यं क्रमो लक्ष्येतेति भावः ।
वाक्यभेदः स्यादिति ।
काव्यस्य वाच्यव्यङ्ग्यार्थद्वयबोधकत्वादिति भावः ।
तदनभिज्ञतयेत्युक्तमुपपादयति---शास्त्रमित्यादि ।
शास्त्रं काव्यव्यतिरिक्तं वाक्यम् ।
समयेति ।
तत्तदर्थे तत्तत्पदस्य यस्समयः सङ्केतः तद्बलेन तत्तत्सङ्केतग्रहणसहकारेणेत्यर्थः ।

अर्थं प्रतिपादयदिति हेतुगर्भम् ।
युगपत् एकदा ।
विरुद्धेति ।
विरुद्धार्थविषयकत्वेन विरुद्धौ ।
यद्वा---विरुद्धयोरर्थयोः यावनेकसमयौ तयोः स्मृतेरयोगादसम्भवादित्यर्थः ।
यत्रार्थे प्रकरणादिकं तेनान्यार्थसमयस्मृतेः प्रतिबन्धादिति भावः ।
अर्थद्वयं विरुद्धार्थं द्वयम् ।
कथं प्रत्याययेत् न बोधयेत् ।
अविरुद्धत्व इति ।
साक्षादेकक्रियान्वयित्वेन वा परस्परसम्बन्धित्वे सतीत्यर्थः ।
अर्थद्वयस्येति विपरिणामेनानुषङ्गः ।
अस्योदाहरणम्---"श्वेतो धावति, सर्वदो माधवः पाया"दित्यादिकं बोध्यम् ।
तावानिति ।
यावान् बुध्यते तावानित्यर्थः ।
वाक्यार्थ एकः स्यात् वाक्यार्थे भेदो नाङ्गीक्रियत इति भावः ।
क्रमेणेति ।
शास्त्रं कथमर्थद्वयं प्रत्याययेदित्यनुषङ्गः ।
अत्र हेत्वन्तरं चाह---विरम्येति ।
विरम्य यो व्यापारः शब्दस्य तदयोगो यतः, तस्मादित्यर्थः ।
स एवेति ।
यो वाक्यार्थो बुद्धः स इत्यर्थः ।
एवकारः पौनर्वचनिकः ।
अत्र हेतुमाह----समयप्रकरणादेरिति ।
लोचनम् नियमाभाव इति तेन "अग्रिहोत्रं जुहुयात्स्वर्गकामः" इति श्रुतौ खादेच्छ्वामांसमित्येष नार्थ इत्यत्र का प्रमेति प्रसज्यते ।
तत्रापि न काचिदियत्तेत्यनाश्वासता इत्येवं वाक्यभेदो दूषणम् ।
इह तु विभावाद्येव प्रतिपाद्यमानं चर्वणाविषयतोन्मुखमिति समयाद्युपयोगाभावः ।
न च नियुक्तो ऽहमत्र करवाणि, कृतार्थो ऽहमिति शास्त्रीयप्रतीतिसद्दशमदः ।
तत्रोत्तरकर्तव्यौन्मुख्येन लौकिकत्वात् ।
इह तु विभावादिचर्वणाद्भुतपुष्पवत्तत्कालसारैवोदिता न तु पूर्वापरकालानुबन्धिनीति लौकिकादास्वादाद्योगिविषयाच्चान्य एवायं रसास्वादः ।
अत एव ऽशिखरिणऽ इत्यादावपि बालप्रिया समयादिरिति पाठे स एव येन पूर्वमर्थो बुद्धः स इत्यर्थः ।
समयादिरित्यादिपदेन प्रकरणादेस्सङ्ग्रहः ।
अत्र हेतुमाह---प्रकरणादेरिति ।
प्रकरणसमयादेरित्यर्थः ।
ननु समयाद्यपेक्षा मास्त्वित्यत्राह---प्रकरणोत्यादि ।
शास्त्रस्येति शेषः ।
नियमाभाव इतीति ।
अर्थबोधने नियमाभाव इत्येतत्स्यादित्यर्थः ।
तेन नियमाभावेन ।
का प्रमा किं प्रमाणम् ।
इति प्रसज्यत इति ।

तत्तत्पदसमयप्रकरणाद्यपेक्षां विना वाक्यस्यार्थप्रत्यायकत्वोपगमे अग्निहोत्रमित्यादिवाक्यस्य श्वमांसखादनविधित्वापत्तिरित्यर्थः ।
तत्रापीति ।
अर्थान्तरे ऽपीत्यर्थः ।
इयत्ता व्यवस्था ।
नियततेति च पाठः ।
इतीति हेतौ ।
अनाश्वासता अनिश्चितार्थकत्वेनाबोधकता ।
उपसंहरति-इतत्येवमित्यादि ।
काव्यव्यतरिक्तं लौकिकं वैदिकं च वाक्यं समयप्रकरणादिसहकृतं युगपत्क्रमेण वा एकमर्थमेव प्रतिपादयतीत्यतो ऽनेकार्थबोधकत्वेन वाक्यभेदो नैव भवति ।
समयप्रकरणाद्यपेक्षां विना वाक्यस्यार्थबोधकत्वाङ्गीकारे चाव्यवस्थितार्थकत्वेनाबोधकत्वरूपाप्रामाण्यं स्यादित्येवं वाक्यभेदो दोष इति सारार्थः ।
काव्ये विशेषमाह---इह त्वित्यादि ।
विभावाद्येवेति ।
एवकारेण रसादिव्यङ्ग्यव्यवच्छेदः ।
प्रतिपाद्यमानमिति ।
समयप्रकरणादिसहकृतेन काव्यवाक्येन बोध्यमानमित्यर्थः ।
चर्वणेति ।
रसादिचर्वणेत्यर्थः ।
समयेत्यादि ।
रसादिकं प्रतीति शेषः ।
काव्ये विभावाद्यर्थबोधे एव समयप्रकरणादेरुपयोगः, विभावादिबोधानन्तरं च विभावादेरेव नियामकान्नियतरसादिव्यङ्ग्यप्रतीतिः ।
अतश्च तां प्रति समयादेरनपेक्षणे ऽपि नाव्यवस्थितार्थकत्वेन दोष इति भावः ।
प्रसङ्गादाह---न चेत्यादि ।
बोधावस्थायामत्र कर्मणि नियुक्तो ऽहमिति, अनुष्ठानदशायां करवाणीति, तदुत्तरकाले तु कृतार्थो ऽस्मीति च प्रतीतिः शास्त्रतो जायते ।
काव्यजन्यप्रतीतिस्तु तत्तुल्या नेत्यर्थः ।
कुत इत्यत्राह---तत्रेत्यादि ।
तत्र शास्त्रजन्यप्रतीतौ ।
उत्तरेति ।
उत्तरकाले यत् कर्तव्यं तत्रौन्मुख्येन ।
इह तु काव्ये त्वित्यर्थः ।
अद्भुतपुष्पवत् इन्द्रजालादिदर्शितपुष्पेण तुल्यम् ।
उदिता उत्पन्ना ।
विभावादिचर्वणा रसप्रतीतिः ।
तत्कालः वर्तमानकाल एव सारो यस्याः सैव ।
एवकारव्यावर्त्यंमाह---न त्विति ।
ननु लौकिकप्रतीतेरन्यत्वं योगिज्ञानस्याप्यस्ति इत्यत आह--योगीति ।
अत एवेति ।
यतो रसास्वादस्य कस्यचिद्ध्वनिभेदस्य सा तु स्यादुपलक्षणम् ।
सा पुनर्भक्तिर्वक्ष्यमाणप्रभेदमध्यादन्यतमस्य भेदस्य यदि नामोपलक्षणतया लोचनम् मुख्यार्थबाधादिक्रममनपेक्ष्यैव सहृदया वक्तभिप्रायं चाटुप्रीत्यात्मकं संवेदयन्ते ।
अत एव ग्रन्धकारः सामान्येन विवक्षितान्यपरवाच्ये ध्वनौ भक्तेरभावमभ्यधात् ।
अस्माभिस्तु दुर्दुरूटं प्रत्याययितुमुक्तम्--भवत्वत्र लक्षणा, अलक्ष्यक्रमे तु कुपितो ऽपि किं करिष्यसीति ।

यदि तु न कुप्यते ऽसुवर्णपुष्पांऽ इत्यादावविवक्षितवाच्ये ऽपि मुख्यार्थबाधादिलक्षणासामग्रीमनपेक्ष्यैव व्यङ्ग्यार्थविश्रान्तिरित्यलं बहुना ।
उपसंहरति---तस्माद्भक्तिरिति ॥ 18 ॥
ननु मा भूद्ध्वनिरिति भक्तिरिति चैकं रूपम् ।
मा च भूद्भक्तिर्ध्वनेर्लक्षणम् ।
उपलक्षणं तु भविष्यति; यत्र ध्वनिर्भवति, तत्र भक्तिरप्यस्तीति भक्त्युपलक्षितो ध्वनिः ।
न तावदेतत्सर्वत्रास्ति, इयता च किं परस्य सिद्धं? किं वा नः त्रुटितं? इति तदाह---कस्यचिदित्यादि ।
ननु भक्तिस्तावच्चिस्न्तनैरुक्ता, तदुपलक्षणमुखेन च ध्वनिमपि बालप्रिया उक्तविधमनितरसाधारणं सौभाग्यं तत एवेत्यर्थः ।
संवेदयन्त इति ।
जानन्तीत्यर्थः ।
अत एवादौ तथा व्याख्यातमिति भावः ।
अत्र ग्रन्थकृद्वचनं संवादयति---अत एवेत्यादि ।
तर्हि कुतो भवतैव लक्षणामभ्युपेत्य व्याख्यातमित्यत आह--अस्माभिस्त्विति ।
दुर्दुरूटमिति ।
नास्तिकमयवाग्ग्रस्तमित्यर्थः ।
इत्युक्तमिति सम्बन्धः ।
ननु कस्य नाम कोपस्तत्त्वं कथ्यतामित्यत्राह---यदि त्विति ।
व्यङ्ग्यार्थविश्रान्तिरिति ।
अभिमतविषये ऽपि लक्षणाया न प्रभविष्णुतेति भावः ॥ 18 ॥
अथोपलक्षणपक्षस्यापि प्रतिक्षेपाय तच्छङ्कां वृत्तानुवादपूर्वकमुद्भावयति---नन्वित्यादिना भक्त्युपलक्षितो ध्वनिरित्यन्तेन ।
कथमुपलक्षणं भविष्यतीत्यत्राह---यत्रेत्यादि ।
यथा काकादिर्गृहादेर्न स्वरूपं, नापि लक्षणं, किन्तु कदाचित्सम्भवमात्राद्व्यावृत्तिप्रतिपत्तिहेतुस्तथा भक्तिरपीत्यर्थः ।
अस्योत्तरत्वेन कारिकामवतारयति---न तावदित्यादि ।
तावदिति सम्प्रतिपत्तौ ।
एतदिति ।
उपलक्षणमित्यर्थः ।
उपलक्षणं वस्तु सर्वत्र न भवतीति सम्प्रतिपन्नमित्यर्थः ।
इयता चेति ।
भक्तेरुपलक्षणत्वमात्रेम चेत्यर्थः ।
त्रुटितं छिन्नम् ।
ऽयदिचेऽत्यादिग्रन्थमवतारयति----नन्वित्यादि ।
किं तल्लक्षणणेनेति ।
ध्वनिलक्षणकरणं निष्फलं लक्षणफलस्येतरव्यावृत्ततया ध्वनिज्ञानस्योपलक्षणभूतया भकत्यैव समभवादित्यर्थः ।
तदभिधेत्यादिसमाधानग्रन्थस्य भावार्थं विवृणोति---अभिधानेत्यादि ।
अभिधानाभिधेयभाव इति ।
काव्येन सहेति शेषः ।
तावता किमत आह---ततश्चेति ।
अभिधावृत्ते सम्भाव्येत; यदि च गुणवृत्त्यैव ध्वनिर्लक्ष्यत इत्युच्यते तदभिधाव्यापारेण तदितरो ऽलङ्कारवर्गः समग्र एव लक्ष्यत इति प्रत्येकमलङ्काराणां लक्षणकरणवैयर्थ्यप्रसङ्गः ।
किं च
लक्षणे ऽन्यैः कृते चास्य पक्ष-संसिद्धिर् एव नः
लक्षणे ऽन्यैः कृते चास्य पक्षसंसिद्धिरेव नः ॥ 19 ॥

कृते ऽपि वा पूर्वमेवान्यैर्ध्वनिलक्षणे पक्षसंसिद्धिरेव नः; यस्माद्ध्वनिरस्तीति न पक्षः ।
स च प्रागेव संसिद्ध इत्ययत्नसम्पन्नसमीहितार्थाः संवृत्ताः रमः ।
ये ऽपि सहृदयहृदयसंवेद्यमनाख्येयमेव ध्वनेरात्मानमाम्नासिषुस्ते ऽपि न परिक्ष्य वादिनः ।
लोचनम् समग्रभेदं लक्षयिष्यन्ति ज्ञास्यन्ति च ।
किं तल्लक्षणेनेत्याशङ्क्याह---यदि चेति ।
अभिदानाभिधेयभावो ह्यलङ्कागणां व्यापकः; ततश्चाभिधावृत्ते वैयाकरणमीमांसकैर्निरूपिते कुत्रेदानीमलङ्कारकारणां व्यापारः ।
तथा हेतुबलात्कार्यं जायत इति तार्किकैरुक्ते किमिदानीमिश्वरप्रभृतीनां कर्तॄणां ज्ञातॄणां वा कृत्यमपूर्वं स्यादिति सर्वो निरारम्भः स्यात् ।
तदाह---लक्षणकरणवैयर्थ्यप्रसङ्ग इति ।
मा भूद्वापूर्वोन्मीलनं पूर्वोन्मीलितमेवास्माभिः सम्यङ्निरूपितं, तथापि को दोष इत्यभिप्रायेणाह---किं चेत्यादि ।
प्रागेवेति ।
अस्मत्प्रयत्नादिति शेषः ।
एवं त्रिप्रकारमभाववादं, भक्त्यन्तर्भूततां च निराकुर्वता अलक्षणीयत्वमेकतन्मध्ये निराकृतमेव ।
अत एव मूलकारिका साक्षात्तन्निराकरणार्था न श्रूयते ।
वृत्तिकृत्तु निराकृतमपि प्रमेयशय्यापूरणाय कण्ठेन बालप्रिया अभिधाव्यापारे ।
अलङ्कारकारणामिति ।
अलङ्कारग्रन्थकर्तॄणामित्यर्थः ।
कुत्रेदानीं व्यापार इति ।
अभिधानाभिधेयभावस्य समस्तालङ्कारव्यापकत्वात्तस्य चाभिधावयापारजीवितत्वात्तन्निरूपणे कृते सत्यलङ्कारनिरूपणं तद्ग्रन्थकाराणां निष्फलमेव भवेदित्यर्थः ।
अनिष्टान्तरमप्युद्घाटयति---तेथेत्यादि ।
ऽकिमपूर्वं स्यादिऽति सम्बन्धः ।
इतीति हेतौ ।
सर्वो निरारम्भः स्यादिति ।
सर्वर्ः इश्वरप्रभृतिः कर्तृज्ञातृवर्गः ।
व्याख्यातमर्थं ग्रन्थेन सङ्गमयति--तदाहेति ।
लक्षणकरुणवैयर्थ्यप्रसङ्ग इति ।
लक्षणं च करणं च लक्षणकरणे, तयोः तन्निरूपणयोः वैयर्थ्यस्य प्रसङ्ग इत्यर्थः ।
किञ्चेत्यादिग्रन्थमवतारयति---मेत्यादि ।
ऽअपूर्वोन्मीलनं मा भूदिऽत्यन्वयः ।
ननु कारिकाकारेण इतरपक्ष इवालक्षणीयत्वपक्षः किमिति न प्रतिक्षिप्त इति शङ्कां परिहरन् ऽये ऽपीऽत्यादिग्रन्थमवतारयति---एवमित्यादि ।
निराकृतमेवेति ।
ध्वनिप्रदर्शनमुखेन हि पक्षान्तरनिराकरणमत्र कृतं; न च तस्यालक्षणीयत्वे तत्सम्भवति इति तन्निराकरणनान्तरीयकत्वेनालक्षणीयत्वपक्षो ऽपि निराकृत इत्यर्थः ।
ननु तर्हि किमिति वृत्तिकृता तत्पक्षो ऽनूद्य निराकृत इत्यत आह---वृत्तिकृदिति ।
प्रमेयशय्येति ।
प्रमेयस्य शय्या सन्निवेशविशेषः यत उक्तया नीत्या वक्ष्यमाणया च ध्वनेः सामान्यविशेषलक्षणे प्रतिपादिते ऽपि यद्यनाख्येयत्वं तत्सर्वेषामेव वस्तूनां तत्प्रसक्तम् ।
यदि पुनर्ध्वनेरातिशयोक्त्यानया काव्यान्तरातिशायि तैः लोचनम् तत्पक्षमनूद्य निराकरोति---ये ऽपीत्यादिना ।
उक्तया नीत्या ऽयत्रार्थः शब्दो वाऽ इति सामान्यलक्षणं प्रतिपादितम् ।
वक्ष्यमाणया तु नीत्या विशेषलक्षणं भविष्यति ऽअर्थान्तरे सङ्क्रमितं इत्यादिना ।
तत्र प्रथमोद्द्योते ध्वनेः सामान्यलक्षणमेव कारिकाकारेण कृतम् ।
द्वितीयोद्द्योते कारिकाकारो ऽवान्तरविभागं विशेषलक्षणं च विदधदनुवादमुखेन मूलविभागं द्विविधःऽ इति ।
सर्वेषामिति ।

लौकिकानां शास्त्रीयाणां चेत्यर्थः ।
अतिशयोक्त्येति ।
यथा ऽतान्यक्षराणि हृदये किमपि स्फुरन्तिऽ इतिवदतिशयोक्त्यानाख्येयतोक्ता साररूपतां प्रतिपादयितुमिति दर्शितमिति शिवम् ॥ 19 ॥
बालप्रिया तस्याः पूरणाय ।
अनाख्येयत्वपक्षस्यापि स्वयमनिराकरणे तत्पूरणं न भवेदिति भावः ।
उक्तया नीत्येत्यादौ यथासंख्येन सम्बन्ध इत्याशयेनोपपादयति---यत्रार्थ इत्यादि ।
विशेषलक्षणमिति ।
विशेषलक्षणकथनमित्यर्थः ।
वृत्तौ ऽस च द्विविधऽ इत्यादिना विशेषलक्षणकथनं कारिकाकाराशयानुसारेणेत्याह--तत्र प्रथमोद्योत इत्यादि ।
तत्र सामान्यविशेषलक्षणयोर्मध्ये ।
ऽइति मूलविभागमवोचदिऽत्यन्वयः ।
अथ यदिदं ध्वनेरनाख्येयत्वमुक्तं तन्नासत्वान्नाप्यसाधुत्वात्, किन्त्वतिशयित्त्वादिति चेत्तर्हि तदभिधानं युक्तमेवेत्याह वृत्तौ---ऽयदि पुनरिऽत्यादि ।
ऽकाव्यान्तरातिशायोऽति ।
गुणीभूतव्यङ्ग्यचित्रातिशायीत्यर्थः ।
ऽस्वरूपम्ऽ इति ।
सारतारूपं स्वरूपमित्यर्थः ।
ऽतैऽरिति ।
पूर्वपक्षिभिरित्यर्थः ।
ऽतदिऽति ।
तर्हित्यर्थः ।
ऽते ऽपीऽत्यादि ।
तेषामभिधानमस्मदभिमतत्वाद्युक्तमेवेत्यर्थः ।
अत्र ते ऽपीत्यपिशब्देन स्वस्यापि सर्वत्र युक्तभिधायित्वं ग्रन्थकृता सूचितमिति च बोध्यम् ।
वृत्तिस्थं ऽअतिशयोक्त्याऽ इति पदं व्याख्यास्यन्नादावतिशयोक्तेरुदाहरणमाह--यथा तानीत्यादि ।
"निद्रार्धमीलितद्दशो मदमन्थराणि नाप्यर्थवन्ति न च यानि निरर्थकानि अद्यापि मे मृगद्दशो मधुराणि तस्याः" इत्याद्यपादत्रयम् ।
अतिशयोक्त्यानयेत्यस्य व्याख्यानं---अतिशयोक्त्यानाख्येयतोक्त्येति ।
पूरयति---साररूपतां प्रतिपादयितुमिति ।
अनेन काव्यान्तरातिशायिरूपमित्यत्रत्यरूपपदार्थः साररूपत्वमिति दर्शितम् ।
प्रतिपादयितुमित्यनन्तरमुक्तयेति शेषः ।
सर्वस्यापि परमशिवस्वरूपत्वाभिसम्धानेनोपसंहरति---इति शिवमिति ।
इतीत्यनेन स्वव्याख्यानपरामर्शः ।
किञ्च शिवमितीश्वरनिर्देशरूपं परमं मङ्गलम् ।
स्वरूपमाख्यायते तत्ते ऽपि युक्ताभिधायिन एव ॥
लोचन.म् किं लोचनं विनालोको भाति चन्द्रिकयापि हि ।
तेनाभिनवगुप्तो ऽत्र लोचनोन्मीलनं व्यधात् ॥
यदुन्मीलनशक्त्यैव विश्वमुन्मीलति क्षणात् ।
स्वात्मायतनविश्रान्तां तां वन्दे प्रतिभां शिवाम् ॥
इति श्रीमहामाहेश्वराचार्यवर्याभिनवगुप्तोन्मीलिते सहृदयालोकलोचने ध्वनिसङ्केते प्रथम उद्द्योतः ॥
- - - - - बालप्रिया स्वव्याख्याने श्रोतृजनप्रवृत्यर्थमाह--किमित्यादि ।
लोचनं लोचनाख्यमेतद्व्याख्यानम् ।

आलोकः काव्यालोकग्रन्थः ।
चन्द्रिकया अन्यकृतया चन्द्रिकाख्यव्याख्यया ।
अपि किं भाति न भातीत्यर्थः ।
हीति प्रसिद्धे ऽवधारणे वा ।
अथ च लोचनं नेत्रं विना ।
लोकः भूवनम् ।
चन्द्रिकया ज्योत्स्नया, अपि किं भाति किं स्फुरति न प्रत्यक्षविषयो भवतीत्यप्रस्तुतार्थः तत्साम्यं चात्र ध्वन्यते ।
तेनेति ।
तस्माद्धेतोरित्यर्थः ।
अथोद्योतान्ते ऽप्यनुष्ठितं मङ्गलं निबध्नाति---यदिति ।
यस्याः शक्तेः उन्मीलनयुक्त्या स्पन्दनयोगैनैव ।
विश्वं सर्वं वस्तु ।
क्षणादुन्मीलति प्रकाशते ।
क्षणादित्यनेनानन्यापेक्षत्वं द्योत्यते ।
स्वात्मनि स्वस्वरूपे ।
यद्वा--ब्रह्यचैतन्य एवायतने स्थाने विश्रान्तां स्थिताम् ।
प्रतिभां ज्ञानात्मिकाम् ।
शिवां शिवाख्याम् ।
तां शक्तिमहं वन्दे ।
अथ च यस्याः प्रतिभायाः उन्मीलनयुक्त्या प्रकाशयोगेन ।
विश्वम् क्षणादुन्मीलति नवनवतया भाति स्वात्मन्येवायतने विश्रान्तां वासनारूपेणावस्थिताम्, शिवां रसावेशवैशद्यसुभगाम्, तां प्रतिभां कवीनां प्रज्ञाम्, वन्दे इत्याद्यर्थो ऽपि बोध्य इति सर्वं शिवम् ॥ 19 ॥
प्रौढं क्व लोचनं मन्दः क्वाहं तेन मया कृता ।
पूर्वव्याख्याद्दशाप्येषा टिप्पणी शोध्यतां बुधैः ॥
इति सहृदयतिलकपण्डितराज श्रीरामशारकविरचितायां लोचनटिप्पण्यां प्रथमोद्द्योतः ॥
द्वितीय उद्द्योतः
। श्रीरस्तु ।
द्वितीय उद्द्योतः एवमविवक्षितवाच्यविवक्षितान्यपरवाच्यत्वेन ध्वनिर्द्विप्रकारः प्रकाशितः ।
तत्राविवक्षितवाच्यस्य प्रभेदप्रतिपादनायेदमुच्यते--
अर्थान्तरे सङ्क्रमितम् अत्यन्तं वा तिरस्कृतम् ।
अविवक्षित-वाच्यस्य ध्वनेर् वाच्यं द्विधा मतम्
अर्थान्तरे सङ्क्रमितमत्यन्तं वा तिरस्कृतम् ।
अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विदा मतम् ॥ 1 ॥
लोचनम् द्वितीय उद्द्योतः या स्मर्यमाणा श्रेयांसि सूते ध्वंसयते रुजः ।
तामभीष्टफलोदारकल्पवल्लीं स्तुबे शिवाम् ॥
वृत्तिकारः सङ्गतिमुद्द्येतस्य कुर्वण उपक्रमते--
एवमित्यादि ।
प्रकाशित इति ।
मया वृत्तिकारेण सतेति भावः ।
न चैतन्मयोत्सूत्रमुक्तम्, अपि तु कारिकाकाराभिप्रायेणेत्याह--
तत्रेति ।

तत्र द्विप्रकारप्रकाशने वृत्तिकारकृते यन्निमित्तं बीजभूतमिति बालप्रिया द्वितीय उद्द्योतः लोचनस्योत्तरस्यातो न व्याख्या प्रप्यते ऽत्र तत् ।
यथामतीषद्व्याख्यामि प्रसीदन्त्वत्र मे बुधाः ॥
येति ।
या शिवा ।
जनैः स्मर्यमाणा सती, तेषां श्रेयांसि सूते जनयति ।
रुजः व्यापदः ।
अभीष्टेति ।
अभीष्टानां फलानामुदारा दात्री ।
यद्वा-अभीष्टानि फलानि यस्यां सा उदारा महती च कल्पवल्ली तामिति रूपकम् ।
"उदारो दातृमहतो"रित्यमरः ।
सङ्गतिमुद्योतस्येति ।
प्रथमोद्योतेन द्वितीयोद्योतस्य सङ्गतिमितततत्यर्थः ।
उक्तेन सह वक्ष्यमाणस्य सङ्गतिमिति यावत् ।
सा चात्र प्रसङ्गरूपा बोध्या ।
कुर्वाणः सम्पादयन् ।
उपक्रमते वक्तुमारभते ।
सूत्रकारेणाप्रकाशितत्वादाह--
मयेत्यादि ।
ऽतत्रेऽत्यादिग्रन्थमवतारयति--
न चेत्यादि ।
एतदिति ।
द्विप्रकारत्वमित्यर्थः ।
उत्सूत्रं सूत्रमुल्लङ्ध्य सूत्रकारानभिप्रेतमिति यावत् ।
ऽतेत्रेऽति तत्पदमुक्तद्वि प्रकारप्रकाशनक्रियापरामर्श कमित्यभिप्रेत्य व्याचष्टे--
द्विप्रकारप्रकाशन इति ।
निमित्तमिति ।
त्रलर्थकथनं पूरितं वा ।
अस्यैव विवरणम्--
बीजभूतमिति ।
ऽउच्यतऽ इत्यनेनास्यान्वयः ।
इति सम्बन्ध इति ।
एवं पूर्वापरयोस्सङ्गतिरित्यर्थः ।
अन्यथा व्याचष्टे--
यदि वेत्यादि ।
पूर्वशेषः पूर्वान्वयि ।
प्रथमोद्योतान्ते वृत्तिकारेण लोचनम् सम्बन्धः ।
यदि वा-तत्रेति पूर्वशेषः ।
तत्र प्रथमोद्द्योते वृत्तिकारेण प्रकाशितः अविवक्षितवाच्यस्य यः प्रभेदो ऽवान्तरप्रकारस्तत्प्रतिपादनायेदमुच्यते ।
तदवान्तरभेदप्रतिपादनद्वारेणैव चानुवादद्वारेणाविवक्षितवाच्यस्य यः प्रभेदो विवक्षितान्यपरवाच्यात्प्रभिन्नत्वं तत्प्रतिपादनायेदमुच्यते ।
भवति मूलतो द्विभेदत्वं कारिकाकारस्यापि सम्मतमेवेति ।

भावः ।
सङ्क्रमितमिति णिचा व्यञ्चनाव्यापारे यः सहकारिवर्गस्तस्यायं प्रभाव इत्युक्तं तिरस्कृतशब्देन च ।
येन वाच्येनाविवक्षितेन सताविवक्षितावाच्यो ध्वनिर्व्यपदिश्यते तद्वाच्यं द्विधेति सम्बन्धः ।
यो ऽर्थं उपपद्यमनो ऽपि तावतैवानुपयोगाद्धर्मान्तरसंवलनयान्यतामिव गतो लक्ष्यमाणो ऽनुगतधर्मी सूत्रन्यायेनास्ते स रूपान्तरपरिणत उक्तः ।
बालप्रिया "इति प्रतमोद्योत" इत्युक्तत्वादत्र पक्षे तत्रेति तत्पदेन तस्य परामर्श इत्याहृ--
प्रथमोद्योत इति ।
अस्य पूर्वोण सहान्वयं दर्शयितुमाह--
वृत्तिकारेण प्रकाशित इति ।
अत्र पक्षे अत इति शेषो बोध्यः ।
ऽअविवक्षितेऽत्यादिग्रन्थं व्याचष्टे-अविवक्षितवाच्यस्येत्यादि ।
अवान्तरप्रकारः अवान्तरधर्मः ।
इदमिति ।
ऽअर्थान्तरऽ इत्यादिऽमतऽमित्यन्तं सूत्रमित्यर्थः ।
ऽअथासंलक्ष्यक्रमोद्योतऽ इत्यादिना वक्ष्यमाणेनापि सङ्गतिं सम्पादयितुमन्यथापि व्याचष्टे-तदवान्तरेत्यादि ।
ऽअर्थान्तरे सङ्क्रमितम्ऽ इत्यादिना यत्तदवान्तरभेदप्रतिपादनं तद्वारेणैव तत्पूर्वकमेव ।
अविवक्षितवाच्यस्य ध्वनेरिति यो ऽनुवादस्तद्द्वरेण ।
अस्योच्यत इत्यनेन सम्बन्धः ।
अविवक्षितवाच्यस्येति ।
तदनुयोगिक इत्यर्थः ।
वक्ष्यमाणं मनसि कृत्य ऽविवक्षितान्यपरवाच्यादित्युक्तम् ।
प्रभिन्नत्वमन्योन्याभावः ।
तत्प्रतिपादनाय तस्य ज्ञापनाय ।
इदमिति ।
अविवक्षितवाच्यमित्यर्थः ।
फलितमाह--
भवतीत्यादि ।
मूलतो द्विभेदत्वमादिमं द्वैविध्यम् ।
ऽणिचेऽत्यस्य ऽउक्तऽमित्यनेन सम्बन्धः ।
य इति ।
लक्षणावक्तृविवक्षादिरित्यर्थः ।
अयं सङ्क्रमणम् ।
तस्य प्रभावः ।
तेन प्रयुक्तः ।
स एव प्रयोजककर्तेति भावः ।
उक्तं बोधतम् ।
तिरस्कृतशब्देन चेति ।
इत्युक्तमित्यनेनास्य सम्बन्धः ।
ऽअविवक्षितेऽत्यादिकं विवृणोति--
येनेत्यादि ।
वाच्येनेति ।

तत्तत्पदवाच्यजात्यादिधर्मविशिष्टधर्मिणेत्यर्थः ।
ऽअर्थान्तरे सङ्क्रमितम्ऽ इत्यादिकं विवृणोति-यो ऽर्थ इत्यादि ।
यो ऽर्थः रामो ऽस्मीत्यादौ शमादिरूपो ऽर्थः ।
उपपद्यमानो ऽपि वाच्याजात्यादिप्रकारेणान्वययोग्यो ऽपि ।
अनुपयोगादिति ।
विशेषानाधायकत्वेन पुनरुक्तत्वेन वा उपयोगाभावादित्यर्थः ।
धर्मान्तरसंवलनया वाच्यधर्मातिरिक्तधर्मवत्वेन ।
लक्ष्यमाणः लक्षणया प्रतीयमानः ।
अत एवान्यतां गत इव ।
यद्वा--
धर्मान्तरसंवलनया वाच्यधर्मातिरिक्तधर्मप्रकारकप्रतीतिविषयत्वेन हेतुना अन्यतां गत इव लक्ष्यमाणः प्रतीयमानः ।
अनुगतधर्मी सन् लक्ष्यमाणधर्माणां तत्र तत्र भिन्नत्वे ऽपि व्यक्तिरूपो धर्मी अनुस्तूत एवेति भावः ।
सूत्रन्यायेनेति ।
यथा पुष्पादिष्वेकं सूत्रमनुस्यूतन्तथेत्यर्थः ।
तथाविधाभ्यां च ताभ्यां व्यङ्ग्यस्यैव विशेषः ।
तत्रार्थान्तरसङ्क्रमितवाच्यो यथा--
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका धना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
लोचनम् यस्त्वनुपपद्यमान उपायतामात्रेणार्थान्तरप्रतिपत्तिं कृताव् पलायत इव स तिरस्कृत इति ।
ननु व्यङ्ग्यात्मनो यदा ध्वनेर्भेदो निरूप्यते तदा वाच्यसाय द्विधेति भेदकथनं न सङ्गतमित्याशङ्क्याह--
तथाविधाभ्यां चेति ।
चो यस्मादर्थे ।
व्यञ्जकवैचिञ्याद्धि युक्तं व्यङ्ग्यवैचिञ्यमिति भावः ।
व्यञ्जके त्वर्थे यदि ध्वनिशब्दस्तदा न कश्चिद्दोष इति भावः ।
भेदप्रतिपादकेनैवान्वर्थनाम्ना लक्षणमपि सिद्धमित्यभिप्रायेणोदाहरणमेवाह--
अर्थान्तरसङ्क्रमितवाच्यो यथेति ।
अत्र श्लोके रामशब्द इति सङ्गतिः ।
स्निग्धया जलसम्बन्धसरसया श्यामलया द्रविडवनितोचितासितवर्णया कान्त्या चाकचक्येन लिप्तमाच्छुरितं वियन्नभो यैः वेल्लन्त्यो विजृम्भमाणास्तता चलन्त्यः परभागवशात्प्रहर्षवशाच्च बलाकाः बालप्रिया रूपान्तरपरिणत इति अर्थान्तरे सङ्क्रमितमित्यस्यैव विवरणम् ।
यस्त्विति ।
ऽनिश्वासान्धऽ इत्यादावन्धादिपदार्थ इत्यर्थः ।
अनुपपद्यमानः अन्वयायोग्यः ।
उपायतामात्रेणेति ।
मुख्यार्थसम्बन्धस्य लक्षणानिमित्तत्वादिति भावः ।
तिरस्कृत इति ।
उक्त इत्यनुषङ्गः ।
नन्विति ।
व्यङ्ग्यात्मनो ध्वनेः ध्वनिपदार्थस्य व्यङ्ग्यस्य ।
यदा यदि ।
ऽवाच्यस्य भेदकथनम्ऽ इति सम्बन्धः ।
वृत्तौ ऽतथाविधाभ्याम्ऽ इति ।
अर्थान्तरसङ्क्रमितात्यन्ततिरस्कृताभायामित्यर्थः ।

ऽताभ्यांऽ वाच्याभ्याम् ।
ऽविशेषःऽ भेदः ।
विशेष इत्यस्यानन्तरं ऽइति व्यङ्ग्यप्रकाशनपरस्य ध्वनेरेवायं प्रकारःऽ इति पाठः क्वाचित्कः ।
लोचने भावमाह--
व्यञ्जके त्वर्थ इत्यादि ।
ध्वनिशब्दार्थः व्यञ्जकश्चेदित्यर्थः ।
स चार्थो वा शब्दो वा ।
तत्राद्यपक्षे अविवक्षितवाच्यस्येत्यस्य अविवक्षितः अप्रधानीकृतो वाच्यस्स्वात्मा येन स इति प्रथमोद्योतोक्तार्थौ बोध्यः ।
दोष इति ।
अवतारिकोक्तदेष इत्यर्थः ।
चाकचक्येनेति ।
प्रभातारल्येनेत्यर्थः ।
विजृम्भमाणाः उत्साहशालिन्यः ।
परभागवशादिति ।
मेधानां शयामत्वाद्बलाकानां सितत्वाच्चेतिभावः ।
प्रहर्षेति ।
मेघसंसर्गलाभजनितप्रहर्षेत्यर्थः ।
ऽघनाऽ इत्यस्य विवरणम्--
मेधा इति ।
ऽघनाऽ इत्यनेन निबिडत्वञ्च गम्यते ।
ऽवेल्लद्बलाकाऽ इत्यनेन सम्भोगस्मारकत्वञ्च ।
अत एव आह--
एवन्नभ इत्यादि ।
ऽशीकरिणऽ इत्यस्य विवरणम्--
सूक्ष्मेत्यादि ।
इतीति ।
कामं सन्तु दृढं कठोरहृदयो रामो ऽस्मि सर्वे सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥
लोचनम् सितपक्षिविशेषा येषु त एवं नभस्तावद्दुरालोकं वर्तते ।
दिशो ऽपि दुःसहाः ।
यतः सूक्ष्मजलकणोद्गारिणो वाता इति मन्दमन्दत्वमेषामनियतदिगागमनं च बहुवचनेन सूचितम् ।
तर्हि गुहासु क्वचित्प्रविश्यास्यतामित्यत आह--
पयोदानां ये सुहृदस्तेषु च सत्सु ये शोभनहृदया मयूरास्तेषामानन्देन हर्षेण कलाः षङ्जसंवादिन्यो मधुराः केकाः शब्दविशेषाः ताश्च सर्वं पयोदवृत्तान्तं दुस्सहं स्मारयन्ति; स्वयं च दुस्सहा इति भावः ।
एवमुद्दीपनविभावोद्बोधितविप्रलम्भः परस्पराधिष्टानत्वद्रतेः विभावानां साधारणतामभिमन्यमानः इत एव प्रभृति प्रियतमां हृदयेनिधायैव स्वात्मवृत्तान्तं तावदाह--
कामं सन्त्विति ।
दृढमिति सातिशयम् ।
कठोरहृदय इति ।
रामशुब्दर्थध्वनिविशेषावकाशदानाय कठोरहृदयपदम् ।
यथा ऽतद्गेहंऽ इत्युक्ते ऽपि ऽनतभित्तिऽ इति ।
अन्यथा रामपदं दशरथकुलोद्भवत्वकौसल्यास्नेहपात्रत्वबाल्यचरितजानकीलाभादिधर्मान्तरपरिणतमर्थं कथं न ध्वनेदिति ।
अस्मीति ।

स बालप्रिया शीकरिम इति शीकरसम्बन्धप्रतिपादनेन हेतुनेत्यर्थः ।
मन्दमन्दत्वमित्यस्य ऽसूचितम्ऽ इत्यनेन सम्बन्धः ।
बहुवचवव्यङ्ग्यं दर्शयति--
एषामिति ।
सुहृद इति ।
बन्धव इत्यर्थः ।
अर्थान्तरञ्चाह--
तेष्विति ।
शोभनहृदया इति अत एवानन्द इति भावः ।
कलत्वस्यानन्दहेतुकत्वात्तद्विशिष्टकेकानामानन्दहेतुकत्वमिति दर्शयन्नाह--
हर्षेम कला इति ।
एवमित्यादि ।
पूर्वोक्तैरुद्दीपनविभावैरुद्वोधितः विप्रलम्भः वियोगकालावच्छिन्ना रतिर्यस्य सः ।
परस्परेत्यादि ।
स्त्रीपुंसयोर्जीवितसर्वस्वाभिमानात्मिकाया रतेः परस्परसम्बन्धित्वादित्यर्थः ।
विभावानां सजलजलधरादीनाम् ।
साधारण्यं प्रियतमासाधारण्यम् ।
अभिमन्यमान इति ।
निरूपयन्नित्यर्थः ।
इत इति ।
काममित्यादित इत्यर्थः ।
तावदिति ।
प्रथममित्यर्थः ।
कामं संन्त्विति ।
यथेष्टं भवन्तु इत्यर्थः ।
रामशब्दार्थेति ।
रामशब्देनार्थविशेषाणां व्यञ्जने सहकारीत्यर्थः ।
तद्गेहमिति ।
पद्यमिदं तृतीयोद्योते उदाहरिष्यते ।
अन्यथेति ।
कठोरहृदय इत्यस्याभाव इत्यर्थः ।
बाल्पचरितेति ।
विद्याभ्यासताटकावधादीत्यर्थः ।
आदिपदेन परशुरामजयादिकं गृह्यते ।
लाभादि यद्धर्मान्तरं तेन परिणतं तत्प्रकारकप्रतीतिविषयम् ।
कथं न ध्वनेदिति ।
तथाच कठोरहृदयपदन्तदर्थानुगुणानामेव धर्माणां रामशब्देन व्यञ्जेने सहङ्कारितया निर्दिष्टमिति भावः ।
ऽसर्वं सहेऽइत्यस्य यद्यद्दुःखमापतति तत्सर्वं सहेत्यर्थः ।
ऽवैदेहीऽ इत्यत्र रामशब्दः ।
अनेन हि व्यङ्ग्यधर्मान्तरपरिणतः सञ्ज्ञी प्रत्याय्यते, न संज्ञिमात्रम् ।

मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc