ध्वन्यालोक (टीका सहित) · भाग 121140
नन्वस्ति खलु तव श्वश्रूस्तां याच इत्यत्राह-इयमित्यादि ।
अत्र व्यङ्ग्यमिति ।
एकाकिन्यादिपदव्यङ्ग्यमात्मनो भोग्यकामुकान्तरराहित्यादिकमित्यर्थः ।
वाक्येन चात्मनो निमन्त्रणयथेच्छोपभोग्यत्वं द्योत्यते ।
नन्वेतद्व्यङ्ग्यमत्र प्रादानमेवेत्यतः साधारण्येनाह---व्यङ्ग्यप्राधान्य इत्यादि ।
तत्प्रतिबन्धं च गमयतीत्याद्युदाहरणं रुद्रटग्रन्थादवगन्तव्यम् ।
व्यङ्ग्यस्येत्यादयस्त्रयः परिकरश्लोकाः ।
ऽयत्राप्राधान्यम्ऽ इत्यत्र यत्रेति पदं व्याचष्टे---काव्य इति ।
अप्राधान्ये हेतुर्वाच्यमात्रानुयायित्वं, तत्र हेतुर्वाच्यार्थोपस्कारकत्वं, तच्चालङ्कृतिपदेन दर्शितमित्याह--अलङ्कृतित्वादेवेति ।
ऽव्यङ्ग्यस्य प्रतिभामात्रऽ इत्येतत्सोदाहरणं विवृणोति--यत्रेत्यादि ।
म्लिष्टा अस्पष्टा ।
अर्थप्रतीतिः व्यङ्ग्यप्रतीतिः ।
ऽवाचच्यमात्रानुयायिनऽ इत्यनेन पौनरुक्त्यं परिहर्तुं व्याचष्टे---वाच्येनेत्यादि ।
ऽन प्रतीयतऽ तत्परावेव शब्दार्थौ यत्र व्यङ्ग्यं प्रीत स्थितौ ।
ध्वनेः स एव विषयो मन्तव्यः सङ्करोज्झितः ॥
तस्मान्न्.अ ध्वनेरन्यत्रान्तर्भावः ।
इतश्च नान्तर्भावः; यतः काव्यविशेषो ऽङ्गी ध्वनिरिति कथितः ।
तस्य पुनरङ्गानि--अलङ्कारा गुणा वृत्तयश्चेति प्रतिपादयिष्यन्ते ।
न चावयव एव पृथग्भूतो ऽवयवीति प्रसिद्धः ।
लोचनम् प्राधान्यं न चकास्ति, अपि तु बलात्कल्प्यते, तथापि हृदये नानुप्रविशति ।
यथा-ऽदेआ पसिअणिआतासुऽ इत्यात्रान्यकृतासु व्याख्यासु ।
तेन चतुर्षु प्रकारेषु न ध्वनिव्यवहारः सद्भावे ऽपि व्यङ्ग्यस्य अप्राधान्ये म्लिष्टप्रतीतौ वाच्येन समप्राधान्ये ऽस्फुटे प्राधान्ये च ।
क्व तर्ह्यसावित्याह---तत्परावेवेति ।
सङ्करेणालङ्कारानुप्रवेशसम्भावनया उज्झित इत्यर्थः ।
सङ्कारालङ्कारेणेति त्वसत्, अन्यालङ्कारोपलक्षणत्वे हि क्लिष्टं स्यात् ।
इतश्चेति ।
न केवलमन्योन्यविरुद्धवाच्यवाचकभावव्यङ्ग्यव्यञ्जकभावसमाश्रयत्वान्न तादात्म्यमलङ्काराणां ध्वनेश्च यावत्स्वाभिभृत्यवदङ्गिरूपाङ्गरूपयोर्विरोधादित्यर्थः ।
अवयव इति ।
एकैक इत्यर्थः ।
तदाह--पृथग्भूत इति ।
अथ पृथग्भूतस्तथा मा भूत्, समुदायमध्यनिपतितस्तर्ह्यस्तु तथेत्याशङ्क्याह--अपृथग्भावे त्विति ।
तदापि न स बालप्रिया इत्यस्य व्यख्यानम्--स्फुटतया न चकास्तीति ।
बलात्कल्प्यत इति ।
तच्च युक्तिपर्यालोचनया परीक्षादशायामाहरणम् ।
नानुप्रविशतीति ।
युक्त्यनुसन्धानाभावे विलयादिति ।
भावः ।
अस्योदाहरणमाह---यथेत्यादि ।
देआ इति ।
ऽप्रार्थये तावत्प्रसीदेऽत्यादिः पूर्वोदाहृता गाथा ।
ऽन ध्वनिरिऽत्यस्य विवरणम्---न ध्वनिव्यवहार इति ।
सद्भावे ऽपीति ।
ध्वनेरिति शेषः ।
ऽचतुर्षु प्रकारेषुऽ इत्युक्तस्य विवरणम्-व्यङ्ग्यस्याप्राधान्य इत्यादि ।
ऽसङ्करऽ इत्यस्य व्याख्यानम्-अलङ्कारानुप्रवेशेत्यादि ।
समासोक्त्याद्यनुप्रवेशशङ्कया पूर्वोक्तयेत्यर्थः ।
यथाश्रुतार्थं निषेधति---सङ्कारालङ्कारेणेत्यादि ।
वृत्तावितश्चेत्यत्र इतः वक्ष्यमाणद्धेतोरित्यर्थं मनसिकृत्य व्याचष्टे---न केवलमित्यादि ।
न तादात्म्यमिति ।
ऐक्याभाव इत्यर्थः ।
अङ्गीत्यादि ।
अङ्गित्वङ्गत्वयोरित्यर्थः ।
नन्ववयवातिरिक्तावयविनो ऽनुपलम्भान्न चावयव एवावयवीति तन्निषेधो ऽनुपपन्न इति शङ्कामवयव इत्येकवचनार्थस्य विवक्षितत्वं दर्शयन् परिहरति---एकैक इति ।
ऽपृथग्भूतऽ इति चोक्तार्थकमेवेत्याह---तदाहेति ।
अथ पृथग्भूत इति ।
अवयव इति शेषः ।
तथा अवयवी ।
समुदायमध्यपतितः समुदायोपहितस्वरूपः ।
तथास्तु अवयवी भवतु ।
वृत्तौ ऽतदङ्गत्वम्ऽ इति ।
अवयव्यङ्ग्यत्वमित्यर्थः ।
अपृथग्भावे तु तदङ्गत्व तस्य ।
न तु तत्त्वमेव ।
यत्रापि वा तत्त्वं तत्रापि ध्वनेर्महाविषयत्वान्न तन्निष्ठत्वमेव ।
ऽसूरिभिः कथितऽ इति विद्वदुपज्ञेयमुक्तिः, न तु यथाकथञ्चित्प्रवृत्तेति प्रतिपाद्यते ।
प्रथमे हि विद्वांसो वैयाकरणाः, व्याकरणमूलत्वात्सर्वविद्यानाम् ।
लोचनम् एक एव समुदायः, अन्येषामपि समुदायिनां तत्र भावात्; तत्समुदायिमध्ये च प्रतीयमानमप्यस्ति, न च तदलङ्काररूपं, प्रधानत्वादेव ।
यत्त्वलङ्काररूपं तदप्रधानत्वान्न ध्वनिः ।
तदाह---न तु तत्त्वमेवेति ।
नन्वलङ्कार एव कश्चित्त्वया प्रधानताभिषेकं दत्त्वा ध्वनिरित्यात्मेति चोक्त इत्याशङ्क्याह---यत्रापि वेति ।
न हि समासोक्त्यादीनामन्यतम एवासौ तथास्माभिः कृतः, तद्विविक्तत्वे ऽपि तस्य भावात् समासोक्त्याद्यलङ्कारस्वरूपस्य समस्तस्याभावे ऽपि तस्य दर्शितत्वात् ऽअत्ता एत्थऽ इति ऽकस्स वा णऽ इत्यादि; तदाह-न तन्निष्टत्वमेवेति ।
विदृदुपज्ञेति ।
विद्वद्भ्य उपज्ञा प्रथम उपक्रमो यत्या उक्तेरिति बहुव्रीहिः ।
तेन ऽउपज्ञोपक्रमंऽ इति तत्पुरुषाश्रयं नपुंसकत्वं बालप्रिया ऽतस्येऽति ।
अवयवस्येत्यर्थः ।
ऽतत्वम्ऽ इति अवयवित्वमित्यर्थः ।
भावमाह लोचने---तदापीत्यादि ।
तदापि समुदायमद्यपतनदशायामपि ।
सः समुदायिरूपावयवः ।
एक एव न समुदायः न समुदायरूपावयवी ।
अत्र हेतुमाह---अन्येषामपीति ।
तत्र भावादिति ।
समुदाये सत्वादित्यर्थः ।
नन्वित्यादि ।
कश्चिदिति ।
समासोक्त्याद्यन्यतम इत्यर्थः ।
वृत्तौऽयत्रापीऽत्यादि ।
ऽयत्रऽ पर्यायोक्तादौ ऽभ्रम धार्मिकेऽत्यादौ पर्यायोक्तत्वपक्षे, ऽभवति न गुणानुरागऽ इत्यादिसङ्करालङ्कारे च ।
ऽतत्वम्ऽ इति ।
अवयवित्वमित्यर्थः; प्राधान्यमिति यावत् ।
ऽतन्निष्टत्वम्ऽ इति ।
तदवयविनिष्टत्वमित्यर्थः; तदलङ्कारनिष्टत्वमिति यावत् ।
ध्वनेर्महाविषयत्वान्न तन्निष्ठत्वमेवेति यदुक्तं तद्विवृणोति लोचने---न हीत्यादि ।
समासोक्तौ ध्वनिरन्तर्भवतीति परमताभ्युपगमेन समासोक्तीति ।
आदिपदेन पर्यायोक्तादीनां ग्रहणम् ।
असौ अलङ्कारः ।
तथा ध्वनित्वेनात्मत्वेन च ।
तद्विविक्तत्वे ऽपि समासोक्त्याद्यलङ्कारस्पर्शराहित्ये ऽपि ।
तस्य ध्वनेः ।
उक्तस्यैव विवरणम्-समासोक्त्यादीति ।
इत्यादीति ।
इत्यादावित्यर्थः ।
ऽदर्शितत्वादिऽत्यनेन सम्बन्धः ।
ऽविद्वदुपज्ञेऽति प्रयोगस्य साधुत्वसम्पादनायाह---विद्वद्भ्य इत्यादि ।
ते च श्रूयमाणेषु वर्णेषु ध्वनिरिति व्यवहरन्ति ।
तथैवान्यैस्तन्मतानुसारिभिः सूरिभिः काव्यतत्त्वार्थदर्शिभिर्वाच्यवाचकसम्मिश्रः लोचनम् निरवकाशम् ।
श्रूयमाणेष्विति ।
श्रोत्रशष्कुलीं सन्तानेनागता अन्त्याः शब्दाः श्रूयन्त इति प्रक्रियायां शब्दजाः शब्दाः श्रूयमाणा इत्युक्तम् ।
तेषां घण्टानुरणनरूपत्वं तावदस्ति; ते च ध्वनिशब्देनोक्ताः ।
यथाह भगवान् भर्तृहरिः--- यः संयोगवियोगाभ्यां करणैरुपजन्यते ।
स स्फोटः शब्दजाश्शब्दा ध्वनयो ऽन्यैरुदाहृताः ॥
इत्.इ ।
एवं घण्टादिनिर्ह्लादस्थानीयो ऽनुरणनात्मोपलक्षितो व्यङ्ग्यो ऽप्यर्थो ध्वनिरिति व्यवहृतः ।
तथा श्रूयमाणा ये वर्णा नादशब्दवाच्या अन्त्यबुद्धिनिर्ग्राह्यस्फोटाभिव्यञ्जकास्ते ध्वनिशब्देनोक्ताः ।
यथाह भगवान् स एव--- प्रत्ययैरनुपाख्येयैर्ग्रहणानुगुणैस्तथा ।
बालप्रिया अथ व्यङ्ग्यार्थाशब्दतदर्थव्यञ्जनानां चतुर्णां ध्वनिशब्दवाच्यत्वं विद्वत्प्रसिद्धिवशात्साधयिष्यन्नादौ व्यङ्ग्यार्थस्य ध्वनिशब्दवाच्यत्वसिध्यनुगुणतया व्याचष्टे---श्रोत्रेत्यादि ।
श्रोत्रशष्कुलीं शष्कुलीसमानश्रोत्रदेसावच्छिन्नाकाशम् ।
सन्तानेनेति ।
वीचीसन्तानन्यायेनेत्यर्थः ।
प्राक्रयायामिति ।
वैशेषिकादिप्रक्रियायामित्यर्थः ।
शब्दजाश्शब्दा इति ।
अन्त्या इति भावः ।
तेषामिति ।
श्रूयमाणानामन्त्याना शब्दजशब्दानामित्यर्थः. घण्टेति ।
पूर्वशब्दजन्यत्वेन साम्यादिति भावः ।
य इति ।
उत्पत्तिपक्षे स्फोटध्वन्योः भेदप्रकटनपरो ऽयंश्लोकः ।
संयोगवियोगाभ्यां करणानां स्थानैस्सह यस्संयोगो वियोगश्च ताभ्याम् ।
करणैरिति कर्तरि तृतीया ।
जिह्वाप्रादिभिरित्यर्थः ।
स्पष्टमिदं प्रातिशाख्ये ।
सः स्फोट इति प्रथममुत्पद्यमानः शब्दः स्फोट इत्यर्थः ।
शब्दजाः शब्दा इति ।
श्रूयमाणा इति भावः ।
अन्यैरिति ।
उत्पत्तिवादिभिरित्यर्थः ।
यथोक्तं वृत्तिकृता-ऽअनित्यपक्षे स्थानकरणप्राप्तिविभागपूर्वकं प्रथममेभिर्निर्वृत्तो यश्शब्दः स स्फोट उच्यतऽ इत्यादि ।
घण्टादीति ।
घण्टादेर्निर्ह्नादः अनुरणनं तत्स्थानीयस्तत्तुल्य इति व्यङ्ग्यस्य थध्वनिपदेन व्यवहार्यत्वे हेतुः ।
नन्वेवंव्यङ्ग्यविशेषस्यैव ध्वनिव्यवहार्यत्वं भवेन्न तु रसादेस्तस्यानुरणनरूपत्वविरहादित्यत आह--अनुरणनेति ।
एतदुपलक्षणमिति भावः ।
अथ वाचकस्य शब्दस्य वाच्यस्यार्थस्य च ध्वनिव्यवहार्यत्वं प्रसाधसति---तथेत्यादि ।
नादशब्दवाच्या इति ।
नादशब्देन वैयाकरणैर्व्यवहृता इत्यर्थः ।
अन्त्येति पूर्वपूर्ववर्णानुभवजनितसंस्कारसहकृता या अन्त्यवर्णबुद्धिः तया निर्ग्राह्यः नितरां व्यक्तरूपेम ग्राह्यो यः स्फोटः तस्याभिव्यञ्जका इत्यर्थः ।
त इति ।
ते वर्णा इत्यर्थः ।
प्रत्ययैरिति ।
अनुपाख्येयैः इदमित्थमिति व्याख्यातुमशक्यैः ।
ग्रहणानुगुणैः व्यक्तरूपस्फोटग्रहणानुकूलैः ।
लोचनम् ध्वनिप्रकाशिते शब्दे स्वरूपमवधार्यते ॥
इत्.इ ।
तेन व्यञ्जकौ शब्दार्थावपीह ध्वनिशब्देनोक्तौ ।
किञ्ज वर्णेषु तावन्मात्रपरिमाणेवपि सत्सु ।
यथोक्तम्--- अल्पीयसापि यत्नेन शब्दमुच्चारितं मतिः ।
यदि वा नैव गृह्णाति वर्णं वा सकलं स्फुटम् ॥
इत्.इ ।
तेषु तावत्स्वेव श्रूयमाणेषु वक्तुर्यो ऽन्यो द्रुताविलम्बितादिवृत्तिभेदात्मा प्रसिद्दादुच्चारणव्यापारादभ्यधिकः स ध्वनिरुक्तः ।
यदाह स एव--- शब्दस्योर्ध्वमभिव्यक्तेर्वृत्तिभेदे तु वैकृताः ।
ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिद्यते ॥
इत्.इ ।
असमाभिरपि प्रसिद्धेभ्यः शब्दव्यापारेभ्यो ऽभिधातात्पर्यलक्षणारूपेभ्यो ऽतिरिक्तो व्यापारो ध्वनिरित्युक्तः ।
एवं चतुष्कमपि ध्वनिः ।
तद्योगाच्च समस्तमपि काव्यं बालप्रिया ध्वनिप्रकाशिते शब्दे विषये उत्पन्नैः अन्तरालवर्तिभिः प्रत्ययै स्फोटविषयकाव्यक्तप्रत्ययैः ।
स्वरूपं स्फोटस्वरूपम् अवधार्यते व्यक्तं ज्ञायते ।
यथोक्तं भाष्ये "व्यक्तरूपग्रहमानुगुणा ह्यनुपाख्येयाकारा बहव उपायभूताः प्रत्यया ध्वनिभिः प्रकाश्यमाने शब्दे उत्पद्यमानाश्शब्दस्वरूपावग्रहे हेतवो भवन्ति" इति ।
तेनेति ।
व्यञ्जकानां ध्वनिशब्देन तैर्व्यबहृतत्वादित्यर्थः ।
अत व्यापारस्य व्यञ्जनस्यापि ध्वनिशब्दव्यवहार्यत्वं प्रसाधयितुमाह---किञ्चेति ।
तावन्मात्रपरिमाणेष्विति ।
याद्दशो ऽयं श्रोत्रेन्द्रियेण गृह्यते ताद्दशपरिमाणविशिष्टेष्वित्यर्थः ।
अपिशब्दः समुच्चये, ऽश्रूयमाणेष्विऽत्यनेनास्य सम्बन्धः ।
वर्णेषु स्वरूपतः परिमाणविशेषवत्तया स्थितेषु तेषु तथाविधेष्वेवाखण्डतया श्रोत्रेन्द्रियविषयतां गतेषु च सत्सु इत्यर्थः ।
अस्य संवादश्लोकगर्भितस्य ऽवक्तुर्यो ऽन्यऽ इत्यादिग्रन्थेन सम्बन्धः ।
अल्पीयसेति ।
अल्पीयसा यत्नेनाप्युच्चारितं शब्दम् ।
मतिः कत्रीं नैव गृह्णाति ।
यदि वा, सकलं वर्णं स्फुटं गृह्णाति वा; न तु किञ्जित्ग्रहणाग्रहणे सम्भवतो वर्णस्य निरवयवत्वादिति भावः ।
अनेन ऽतावत्स्वेव श्रूयमाणेष्विऽत्युक्तमुपपादितम् ।
स इति ।
तथाविधव्यापार इत्यर्थः ।
शब्दस्येति ।
श्लोको ऽयं मञ्जूषायामित्थं व्याख्यातः-- शब्दस्य स्फोटस्य अभिव्यक्तेरूर्ध्वं वैकृता ध्वनयो जायन्ते इति शेषः ।
ते तु वृत्तिभेदे द्रुतादिवृत्तिभेदे ।
समुपोहन्ते तत्र कारणं भवन्ति ।
स्फोटस्तु तैर्न भिद्यत इत्यर्थः ।
वैकृतत्वं चैषामालस्यादिकृत्वादिति ।
ऽवृत्तिभेदम्ऽ इति पाठे ऽसमुपोहन्तऽ इत्यस्य जनयन्तीत्यर्थः ।
चतुष्कमिति ।
व्यङ्ग्यादिचतुष्टयमित्यर्थः ।
घ्वनिः ध्वनिशब्दव्यवहार्यः ।
समस्तमपि काव्यं व्यङ्ग्यवाच्यावाचकव्यापारसमुदायात्मकं काव्यमपि ।
तेनेति ।
शब्दात्मा काव्यमिति व्यपदेश्यो व्यपदेश्यो व्यञ्जकत्वसाम्याद्ध्वनिरित्युक्तः ।
न चैवंविधस्य ध्वनेर्वक्ष्यमाणप्रभेदतद्भेदसङ्कलनया महाविषयस्य यत्प्रकाशनं तदप्रसिद्धालङ्कारविशेषमात्रप्रतिपादनेन लोचनम् ध्वनिः ।
तेन व्यतिरेकाव्यतिरेकव्यपदेशो ऽपि न न युक्तः वाच्यवाचकसंमिश्र इति ।
वाच्यवाचकसहितः संमिश्र इति मध्यमपदलोपी समासः ।
ऽगामैवं पुरुषं पशुम्ऽ इतिवत्समुच्चयो ऽत्र चकारेण विनापि ।
तेन वाच्यो ऽपि ध्वनिः वाचको ऽपि शब्दो ध्वनिः, द्वयोरपि व्यञ्जकत्वं ध्वनतीति कृत्वा ।
संमिश्प्यते विभावानुभावसंवलनयेति व्यङ्ग्यो ऽपि ध्वनिः, ध्वन्यत इति कृत्वा ।
शब्दनं शब्दः शब्दव्यापारः, न चासावभिधादिरूपः, अपि त्वात्मभूतः, सो ऽपि ध्वननं ध्वनिः ।
काव्यमिति व्यपदेश्यश्च यो ऽर्थः सो ऽपि ध्वनिः, उक्तप्रकारद्वनिचतुष्टयमयत्वात् ।
अत एवसाधारणहेतुमाह---व्यञ्जकत्वसाम्यादिति ।
व्यङ्ग्यव्यञ्जकभावः सर्वोषु पक्षेषु सामान्यरूपः साधारण इत्यर्थः ।
यत्पुनरेतदुक्तं ऽवाग्विकल्पानामानन्त्यात्ऽ इत्यादि, तत्परिहरति---न चैवं विधस्येति ।
वक्ष्यमाणः प्रभेदो यथा-मुख्ये द्वे रूपे ।
तद्भेदा यथा-अर्थान्तरसंक्रमितवाच्यः, अत्यन्ततिरस्कृतवाच्य इत्यविवक्षितवाच्यस्य, असंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्य इति विवक्षितान्यपरवाच्यस्येति ।
तत्राप्यवान्तरभेदाः ।
महाविषयस्येति--अशेषलक्ष्यव्यापिन इत्यर्थः ।
बालप्रिया ध्वनिशब्दवाच्यतत्समुदायात्मकत्वेनैव काव्यस्य ध्वनित्वलाभेन हेतुनेत्यर्थः ।
व्यतिरेकेत्यादि ।
ऽकाव्यस्यात्मा ध्वनिरित्यादौ भेदव्यपदेशः काव्यविशेषः, स ध्वनिरित्यादावभेदव्यपदेशश्चेत्यर्थः ।
न न युक्त इति ।
युक्त एवेत्यर्थः ।
व्यङ्ग्यादीनां पञ्चानां यद्ध्वनिव्यवहार्यत्वमुक्त्, तदनुगुणतया वाच्यत्यादिग्रन्तं व्याचष्टे---वाच्यवाचकेत्यादि ।
इति मध्यमेति ।
तथाच वाच्यश्च सम्मिश्रश्चेत्यर्थ इति भावः ।
विनापीति ।
तथा च शब्दात्मा काव्यमिति व्यपदेश्यश्चेत्यर्थ इति भावः ।
उक्तव्याख्यानस्य फलमाह-तेनेत्यादि ।
ध्वनतीति कृत्वेति ।
व्यञ्जयतीति हेतोरित्यर्थः ।
ध्वनिरिति कर्तरि प्रत्यय इति भावः ।
सम्मिश्रपदेन व्यङ्ग्यार्थो विवक्षित इत्याह-सम्मिश्रयत इत्यादि ।
विभावेति ।
विभावानुभावाभ्यां संवलनया सम्बन्धेनेत्यर्थः ।
ध्वन्यत इति कृत्वेति ।
कर्मणि प्रत्यय इति भावः ।
ऽशब्दात्मेऽति पदं व्याचष्टे-शब्दनमित्यादि ।
ध्वननं ध्वनिरिति ।
अस्मिन्नर्थे ध्वनिरिति भावे प्रत्यय इति भावः ।
अत एवेति ।
यस्माद्भक्तानां पञ्जानामर्थानां ध्वनित्वमत्र ग्रन्थे ऽभिधित्सितं, तस्मादेव साधारणस्य हेतोरभिधानादित्यर्थः ।
हेतोः साधारण्यलाभाय व्यञ्जकत्वपदं व्यङ्ग्यव्यञ्जकभावपरमित्याशयेन व्याचष्टे-व्यङ्ग्येति ।
तुल्यमिति तद्भावितचेतसां युक्त एव संरम्भः ।
न च तेषु कथञ्चिदीर्ष्यया कलुषितशेमुषीकत्वमाविष्करणीयम् ।
तदेवं ध्वनेस्तावदभाववादिनः प्रत्युक्ताः ।
अस्ति ध्वनिः ।
स चासावविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति लोचनम् विशेषग्रहणेनाव्यापकत्वमाह ।
मात्रशब्देनाङ्गित्वाभावम् ।
तत्र ध्वनिस्वरूपे भावितं प्रणिहितं चेतो येषां तेन वा चमत्ककाररूपेण भावितमधिवासितमत एव मुकुलितलोचनत्वादिविकारकारणं चेतो येषामिति ।
अभाववादिन इति ।
अवान्तरप्रकारत्रयभिन्ना अपीत्यर्थः ।
तेषां प्रत्युक्तौ फलमाह---अस्तीति ।
उदाहरणपृष्टे भाक्तत्वं सुशङ्कं सुपरिहरं च भवतीत्यभिप्रायेणोदाहरणदानावकाशार्थं भाक्तत्वालक्षणीयत्वे प्रथमं परिहरणयोग्ये ऽप्यप्रतिसमाधाय भविष्यदुद्द्योतानुवादानुसारेण वृत्तिकृदेव प्रभेदनिरूपणं करोति---स चेति ।
पञ्चधापि ध्वनिशब्दार्थे येन यत्र यतो यस्य यस्मै इति बहुव्रीह्यर्थाश्रयेण यथोचितं सामानाधिकरण्यं सुयोज्यम् ।
वाच्ये ऽर्थे तु ध्वनौ वाच्यशब्देन स्वात्मा तेनाविवक्षितो ऽप्रधानीकृतः स्वात्मा येनेत्यविवश्रितवाच्यो व्यञ्जको ऽर्थः ।
एवं विवक्षितान्यपरवाच्ये ऽपि ।
बालप्रिया सामान्यरूपो व्यङ्ग्यव्यञ्जकभावः साधारणस्समान इति योजना ।
ऽतदप्रसिद्धालङ्कारविशेषमात्रेऽत्यत्रत्यविशेषमात्रग्रहणयोः फलमाह--विशेषग्रहणेनेत्यादि ।
अलङ्कारस्येति शेषः ।
मात्रशब्दो लेशार्थक इत्याशयेनाह-अङ्गित्वाभावमिति ।
आहेत्यनुषज्यते ।
प्रकारन्तरेणाह--तेने वेति ।
तेन ध्वनिना कर्त्रा ।
ननु क्रमप्राप्तं भाक्तत्वादिपक्षमप्रतिसमाधाय वृत्तिकृता ऽस चेऽत्यादिना ध्वनिभेदप्रदर्शनमनुचितमित्यत आह---उदाहरणपृष्ट इत्यादि ।
अविवक्षितवाच्यादिध्वनेरुदाहरणे प्रदर्शिते तत्र लक्षणायास्समुन्मेषाद्भक्तिरेव ध्वनिरिति शङ्का सुसंपादा, परस्परभेदसंपादकस्य रूपभेदादेः स्पष्टत्वात्तत्परिहारश्च सुकर इत्यभिप्रायेणेत्यर्थः ।
भविष्यदुद्योतानुवादानुसारेणेति ।
अत्रानुक्तवविवक्षितवाच्यो व इति द्वितीयोद्योतादावनुवादो ऽनुपपन्नः स्यादतः स्वयमेव कारिकाकारस्थाने स्थित्वेत्यर्थः ।
ननु पञ्जानां ध्वनिशब्दार्थानां मध्ये कमर्थमभिप्रेत्याविवक्षितवाच्यो ध्वनिरित्यादिसामानाधिकरण्यनिर्देश इत्यत आह--पञ्चधापीत्यादि ।
पञ्चधा वाचकादिस्वरूपे ।
तत्र वाचकः शब्दो ध्वनिपदार्थ इति पक्षे आविवक्षितः वाच्यो येन शब्देन ।
यत्र यस्मिन् शब्दे ।
यतः यस्माच्छब्दात् ।
यस्मै यदर्थत्वेन ।
यस्य यत्सम्बन्धित्वेन स तथोक्त इति बहुव्रीहिर्बोध्यः ।
एवं व्यङ्ग्यव्यञ्जनकाव्यानामन्यपदार्थत्वे ऽपि बोध्यम् ।
वाय्यो ध्वनिशब्दार्थ इति पक्षे विशेषमाह---वाच्ये ऽर्थ इति ।
स्वात्मेति ।
उच्यत इति द्विविधः सामान्येन ।
तत्राद्यस्योदाहरणम्--- सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥
लोचन.म् यदि वा कर्मधारयेणार्थपक्षे अविवक्षितश्चासौ वाच्यश्चेति ।
विवक्षितान्यपरश्चासौ वाच्यश्चेति ।
तत्रार्थः कदाचिदनुपपद्यमानत्वादिना निमित्तेनाविवक्षितो भवति ।
कदाचिदुपपद्यमान इति कृत्वा विवक्षित एव, व्यङ्ग्यपर्यन्तां तु प्रतीतिं स्वसौभाग्यमहिम्ना करोति ।
अत एवार्थो ऽत्र प्राधान्येन व्यञ्जकः, पूर्वत्र शब्दः ।
ननु च विवक्षा चान्यपरत्वं चेति विरुद्धम् ।
अन्यपरत्वेनैव विवक्षणात्को विरोधः? सामान्येनेति ।
वस्त्वलङ्काररसात्मना हि त्रिभेदो ऽपि ध्वनिरुभाभ्यामेवाभ्यां सङ्गृहीत इति भावः ।
ननु तन्नामपृष्टे एतन्नामनिवेशनस्य किं फलम्? उच्यते--
अनेन हि नामद्वयेन ध्वननात्मनि व्यापारे पूर्वप्रसिद्धाभिधातात्पर्यलक्षणात्मकव्यापारत्रितयावगतार्थप्रतीतेः प्रतिपत्तृगतायाः प्रयोक्त्रभिप्रायरूपायाश्च विविक्षाया) सहकारित्वमुक्तमिति ध्वनिस्वरूपमेव नामभ्यामेव प्रोज्जीवितम् ।
सुवर्मपुष्पामिति ।
सुवर्णानि पुष्प्यतीति सुवर्णपुष्पा, एतच्च वाक्यमेवासम्भवत्स्वार्थमिति कृत्वाविवक्षितवाच्यम् ।
बालप्रिया शेषः ।
अविवक्षितपदस्य यथाश्रुतार्थाभिप्रायेणाह-यदि वेत्यादि ।
वाच्यस्याविवक्षितत्वादिकमुपपादयति---तत्रार्थ इत्यादि ।
आदिपदेनानुपयोगित्वं गृह्यते ।
उपपद्यमान इति ।
अर्थ इत्यनुषज्यते ।
व्यङ्ग्यपर्यन्तां व्यङ्ग्यप्रतीतिपर्यन्ताम् ।
प्रतीतिंस्वगोचरां प्रतीतिम् ।
शङ्कते---नन्वित ।
विरुद्धमिति. विवक्षितत्वे अन्यपरत्वसम्भवादिति भावः ।
उत्तरमाह---अन्येत्यादि ।
को विरोध इति ।
प्रधानतया विवक्षितत्वस्यैवान्यपरत्वोपमर्दकत्वादिति भावः ।
पृच्छति--नन्विति ।
तन्नामपृष्टे तस्य ध्वनिनाम्नः पृष्टे पश्चात् ।
एतन्नामेति ।
अविवक्षितवाच्यादिनामेत्यर्थः ।
अस्ति ध्वनिः स चेत्यादिश्च निर्देशः किमर्थ इत्यर्थः ।
अत्रोत्तरमाह---उच्यत इत्यादि ।
अयमर्थः---ध्वननव्यापारसम्बन्धो हि पञ्चानां ध्वनिशब्दवाच्यत्वे निबन्धनम् ।
तत्र च व्यापारे द्वितीयस्यापि--- शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः ।
तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥
लोचन.म् तत एव पदार्थमभिधायान्वयं च तात्पर्यशक्त्यावगमय्यैव बाधकवशेन तमुपहत्य साद्दश्यात्सुलभसमृद्धिसम्भारभाजनतां लक्षयति ।
तल्लक्षणाप्रयोजनं शूरकृतविद्यसेवकानां प्रशस्त्यमशब्दवाच्यत्वेन गोप्यमानं सन्नायिकाकुचकलशयुगलमिव महार्घतामुपयद्ध्वन्यत इति ।
शब्दो ऽत्र प्रधानतया व्यञ्जकः, अर्थस्तु तत्सहकारितयेति चत्वारो व्यापाराः ।
शिखरिणीति ।
न हि निर्विध्नोत्तमसिद्धयो ऽपि श्रीपर्वतादय इमां सिद्धिं विदध्युः ।
दिव्यकल्पसहस्त्रादिश्चात्र परिमितः कालः ।
न चैवंविधोत्तमफलजनकत्वेन पञ्जाग्रिप्रभृत्यापि तपः श्रूतम् ।
बालप्रिया शब्दार्थोभयकर्तृके अभिधादित्रयजन्यप्रतिपत्तृगतार्थप्रतीतेः प्रयोक्तृगतविवक्षायाश्च सहकारित्वमस्तीत्यतस्तस्यापि प्रतिपिपादयिषयैतन्नामद्वयं विहितं न प्रभेदमात्रप्रतिपिपादयिषया, तत्राविवक्षितवाच्यस्य ध्वनेर्लक्षणामूलत्वात्तन्नाम्ना प्रतिपत्तृगततत्प्रतीतेः विवक्षितान्यपरवाच्यनाम्ना विवक्षायाश्च सहकारित्वं दर्शितमिति तन्नामभ्यां ध्वनिस्वरूपमेव प्रोज्जीवितमिति ।
बाधकवशेन तमुपहत्येति ।
तं अन्वयमित्यर्थः ।
उपहननं बाधनम् ।
सादृश्यादिति निमित्तोक्तिः ।
लक्षयतीति ।
सुवर्णपुष्पामित्येतल्लक्षणया बोधयतीत्यर्थः ।
ऽतल्लक्षणाप्रयोजनं प्राशस्त्यं ध्वन्यतऽ इति सम्बन्धः ।
माहार्घतां चारुत्वम् ।
उपयत्प्राप्नुवत् ।
अत्रेति ।
अविवक्षितवाच्याध्वनावित्यर्थः ।
चत्वार इति ।
अभिधाद्याश्चत्वार इत्यर्थः ।
सुवर्णेत्यादिपद्यव्याख्यास्मदीयकुवलयानन्दव्याख्याने द्रष्टव्या ।
शखरिणीति ।
अत्र नामेत्यन्तस्य कियच्चिरमित्यस्य किमभिधानमित्यस्य च ध्वनिं क्रमेणाह---न हीत्यादिना ।
इमामिति ।
तरुण्याधरपाटलिमलाभसुभगम्भवृकबिम्बफलदशनात्मिकामित्यर्थः ।
अत्रेतिर् ।
इद्दश्याः सिद्धेः प्राप्तावित्यर्थः ।
एवं विधेति ।
यथोक्तबिम्बफलदशनात्मकेत्यर्थः ।
ऽत्वदधरारुणमम्बुरुहाक्षि यदिऽत्याद्यनिर्दिश्य तवाधरेत्यादिनिर्देशे बोजमाह---तवेत्यादि ।
भिन्नं पृथक् लोचनम् तवेति भिन्नं पदम् ।
समासेन विगलितत्या प्रतीयेत, तव दशतीत्यभिप्रायेण ।
तेन यदाहुः--ऽवृत्तानुरोधात्त्वदधरपाटलमिति न कृतम्ऽ इति, तदसदेव; दशतीत्यास्वादयति अविच्छिन्नप्रबन्धतया, न त्वौदरिकवत्परं भुङ्क्ते; अपि तु रसज्ञो ऽति तत्प्राप्तिवदेव रसज्ञताप्यस्य तपः एवेति ।
अनुरागिणश्च प्रच्छन्नस्वाभिप्रायक्यापनवैदग्ध्यचाटुविरचनात्मकविभावोद्दीपनं व्यङ्ग्यम् ।
बालप्रिया कृतम् ।
कुत इत्यत आह---समास इति ।
ऽसमासे विगलिततया प्रतीयेत न प्रतीयताम्ऽ इति क्वचित् ग्रन्थे पाठः ।
समासे युष्मत्पदस्याधरपदेन समासे सति ।
युष्मदर्थ इति शेषः ।
विगलिततया पृथक्तया न प्रतीयेतेत्यर्थः ।
ननु प्राधान्येन प्रतीतये व्यस्ततयोक्तिरावश्यकीत्यायातम् ।
सा किमर्थेत्यत्राह---तेवेत्यादि ।
तवेत्यस्य दशनक्रिययाप्यन्वयाभिप्रायेणेत्यर्थः ।
भिन्नमित्यनेन सम्बन्धः ।
अयम्भावः--यथा ऽअरुणया पिङ्गाक्ष्येऽत्यादौ वैदिकवाक्ये गवाद्यन्वितस्यारुण्यादेस्साध्यतादिसम्बन्धेन क्रयणादौ ।
यथा वा ऽधनवान् सुखीऽत्यादिलौकिकवाक्ये मतुबाद्यर्थान्वितस्य धनादेः प्रयोज्यत्वादि सम्बन्धेन सुखादौ चान्वयः, तथात्राधरान्वितस्य त्वत्सम्बन्धिस्वस्य प्रयोज्यत्वसम्बन्धेन बिम्बफलकर्मकदशने ऽप्यन्वयः ।
यतः शुकशाबको ऽयं त्वदधरारुण्यलाभसुभगम्भावुकं बिम्बफलं त्वत्सम्बन्धितया दशति, त्वामेव प्राधानतयोद्दिश्य दशतीत्यर्थो विवक्षितः ।
अतस्तवेति व्यस्ततया निर्दिष्टमिति ।
अविच्छिन्नेत्यादि ।
आस्वादयतीत्यनेन सम्बन्धः ।
निरवशेषेणोपभोगे सति हि प्रबन्दविच्छेदो भवेत्तथा नेत्यर्थः ।
औदरिकवदिति ।
स हि रसास्वादवार्तानभिज्ञो निरवशेषमेव भोज्यद्रव्यं भुङ्क्ते ।
अत्रेति ।
रसास्वादनक्रियायामित्यर्थः ।
तत्प्राप्तिवत् तथाविधबिम्बफलप्राप्तिवत् ।
उचितेति ।
उचिते काले लाभः बिम्बफलतदास्वादलाभः तपस एव तपोरूपहेतोरेव ।
इतीत्यस्यापि व्यङ्ग्यमित्यनेनान्वयः ।
प्रच्छन्नेति ।
लोचनम् अत्र च त्रय एव व्यापाराः---अभिधा तात्पर्यं ध्वननं चेति ।
मुख्यार्थबाधाद्यभावे मध्यमकक्ष्यायां लक्षणायास्तृतीयस्या अभावात् ।
यदि वाकस्मिकविशिष्टप्रश्नार्थानुपपत्तेर्मुख्यार्थबाधायां साद्दश्याल्लक्षणा भवतु मध्ये ।
तस्यास्तु प्रयोजनं ध्वन्यमानमेव, तत्तुर्यकक्ष्यानिवेशि, केवलं पूर्वत्र लक्षणैव प्रधानं ध्वननव्यापारे सहकारि ।
इह त्वभिधातात्पर्यशक्ती ।
वाक्यार्थसौन्दर्यादेव व्यङ्ग्यप्रतिपत्तेः केवलं लेशेन लक्षणाव्यापारोपयोगो ऽप्यस्तीत्युक्तम् ।
असंलक्ष्यक्रमव्यङ्ग्ये तु लक्षणासमुन्मेषमात्रमपि नास्ति ।
असंलक्ष्यत्वादेव क्रमस्येति वक्ष्यामः ।
तेन द्वितीये ऽपि भेदे चत्वार एव व्यापाराः ॥ 13 ॥
बालप्रिया प्रच्छन्नोयः स्वाभिप्रायो ऽधरास्वादलिप्सात्मकः, तस्य ख्यापनार्थं यद्वैदग्ध्येन औचित्यापरित्यागेन चाटुविरचनं उक्तरूपं तदात्मकं तद्द्वारकं विभावस्य रत्यालम्बनभूतस्य तरुणीलक्षणस्य उद्दीपनं स्वाभिप्रायानुगुणतया अभिलाषोत्पादनमित्यर्थः ।
व्यङ्ग्यमिति ।
अस्मिन् श्लोके प्राधान्येन व्यङ्ग्यमित्यर्थः ।
यदि वा अथवा ।
आकस्मिकेति ।
आकस्मिकः असम्भावितः इत्यनुपपत्तौ हेतुः ।
विशिष्टः शुककर्तृकतपश्चरणदेशादिरूपश्च यः प्रश्नार्थः तस्यानुपपत्तेरित्यर्थः ।
सादृश्याल्लक्षणेति ।
असौ शुकशाबक इत्यनेन कामुकः कश्चिद्युवा अधरपाटलं बिम्बफलं दशतीत्यनेनाधरास्वादनादिकञ्च साद्दश्याल्लक्ष्यत इति भावः ।
ध्वन्यमानमेव तदिति ।
तत् प्रच्छन्नेत्यादिपूर्वोक्तम् ।
उक्तयोर्वशेषमाह---केवलमित्यादि ।
पूर्वत्र सुवर्णेत्याद्युदाहरणे ।
प्रधानमित्यनेनतरयोर्लेशतस्सहकारित्वमस्तीति दर्शितम् ।
इहेति ।
शिखरिणीत्यादावित्यर्थः ।
शक्तीति ।
प्रधाने इति विपरिणामेनानुषङ्गः अत्र हेतुमाह--वाक्यार्थेति ।
एतावता लक्षणाया नाकिञ्चित्करत्वमित्याह---लेशेनेत्यादि ।
इत्युक्तमिति ।
ऽयदिवेऽ त्यादिग्रन्थेनोक्तमित्यर्थः ।
नन्वेवंरीत्या विवक्षितान्यपरवाच्ये सर्वत्रापि किं लक्षणास्ति? नेत्याह---
असंलक्ष्येति ।
असंलक्ष्यत्वादेवेति ।
क्रमस्यासंलक्षणे मुख्यार्थबाधादिस्फुरणस्य लक्षणाहेतोरसम्भवादिति भावः ।
यदिवेति प्रस्तुतं पक्षमुपसंहरिति---तेनेति ॥ 13 ॥
अत एवेति ।
यस्मात् द्वितीये ऽपि प्रभेदे शिखिरिणीत्यादौ क्वचिच्चत्वारो व्यापाराः तस्मादेवेत्यर्थः ।
तत्र भक्तिरूपाया लक्षणाया अभावे भक्तेर्ध्वनित्वशङ्कापरिहारयोस्तदानन्तर्यं तत्तदश्लिष्टं स्यादिति भावः ।
ऽभक्त्या बिभर्तीऽयादेः ऽसा तु स्यादुपलक्षणऽमित्यन्तग्रन्थस्य भावं प्रदर्शयन्नवतारयति--अयं भाव इत्यादि ।
इतीति ।
इत्यनयोरित्यर्थः ।
यदप्युक्तं भक्तिर्ध्वनिरिति, तत्प्रतिसमाधीयते----
भक्त्या बिभर्ति नैकत्वम् रूप-भेदाद् अयं ध्वनिः ।
(ध्व्क्_1.14अ)
भक्त्या बिभर्ति नैकत्वं रूपभेदादयं ध्वनिः अयमुक्तप्रारो ध्वनिर्भक्त्या नैकत्वं बिभर्ति भिन्नरूपत्वात् ।
वाच्यव्यतिरिक्तस्यार्थस्य वाच्यवाचकाभ्यां तात्पर्येण प्रकाशं यत्र व्यङ्ग्यप्राधान्ये स ध्वनिः ।
उपचारमात्रं तु भक्तिः ।
लोचनम् प्रथमं पक्षं निराकरोति--- भक्त्या बिभर्तिति ।
उक्तप्रकार इति पञ्चस्वर्थेषु योज्यम्---शब्दे ऽर्थे व्यापारे व्यङ्ग्ये समुदाये च ।
रूपभेदं दर्शयितुं ध्वनेस्तावद्रूपमाह---वाच्येति ।
तात्पर्येण विश्रान्तिधामतया प्रयोजनत्वेनेति यावत् ।
प्रकाशनं द्योतनमित्यर्थः ।
उपचारमात्रमिति ।
उपचारो गुणवृत्तिर्लक्षणा ।
उपचरणमतिशयितो व्यवहार इत्यर्थः ।
मात्रशब्देनेदमाह---यत्र लक्षणाव्यापारात्तृतीयादन्यश्चतुर्थः प्रयोजनद्योतनात्मा व्यापारो वस्तुस्थित्या सम्भवन्नप्यनुपयुज्यमानत्वेनानाद्रियमाणत्वादसत्कल्पः ।
ऽयमर्थंमधिकृत्यऽ इति बालप्रिया पर्यायवदिति ।
इन्द्रः शक्र इत्यादिपर्यायशब्दवाच्ययोरिवेत्यर्थः ।
ताद्रूप्यमैक्यम् ।
पृथिवीत्वमिवेत्यादि ।
यथा पृथवीत्वं पृथिव्या जलादिव्यावर्तकधर्मरूपत्वेन लक्षयं, तथा भक्तिः किं ध्वनेर्लक्षणमित्यर्थः ।
उतेत्यादि ।
काकवद्देवदत्तगृहमित्यत्र यथा काकस्सम्भवमात्रात् कदाचित्सत्वमात्रेम देवदत्तगृहस्योपलक्षणं, तथा भक्तिः किं ध्वनेरुपलक्षणमित्यर्थः ।
ऽअयं ध्वनिः भक्त्येकत्वमैक्यन्न बिभर्तीऽति कारिकायामन्वयः ।
शब्द इत्यादिसप्तम्यन्तपञ्चकस्य ऽअर्थेष्विऽत्यनेन सम्बन्धः ।
ऽतात्पर्येणेऽत्येतद्व्याचष्टे--विश्रान्तीति ।
गुणवृत्तौ लक्षणायाञ्च कथमुपचारशब्दप्रवृत्तिरित्यत आह---उपचरणमिति ।
यस्मिन्नर्थे यस्य शब्दस्य व्यवहारः प्रसिद्धः, तमतिलङ्ध्य तत्सम्बद्धे ऽन्यस्मिन्नर्थे तस्य शब्दस्य व्यवहारो ऽतिशयितो व्यवहारः ।
ऽउपचारमात्रम्ऽ इति मात्रशब्दप्रयोजनमाह-मात्रशब्देनेत्यादि ।
यत्रेति ।
परिम्लानमितयाद्युदाहरणेष्वित्यर्थः ।
प्रयोजनेत्यादि ।
तत्र हि वदतीत्यस्य साद्दश्यान्निमित्ताद्गमयतीत्यर्थे लक्षणा, तस्याः प्रयोजनं सन्तापस्य स्फुटतया प्रतिपत्तिरिति ध्वननव्यापारो मुख्यवृत्तिपरित्यागान्यथानुपपत्तिरूपया वस्तुस्थित्या सम्भवन्नपीत्यर्थः ।
अनुपयुज्यमानत्वेनेत्यादि ।
तत्प्रयोजनस्य चारुत्वविशेषाभावादिति भावः ।
ननु प्रयोजनविषयत्वादेव तस्याद्रियमाणत्वमवश्यम्भावीति कथमसत्कल्पत्वमिति शङ्कायां तद्व्यापारविषयस्य न मुख्यं प्रयोजनत्वं तल्लक्षणासमन्वयात्, किन्त्व मुख्यमेवेति प्रदर्शयितुं न्यायसूत्रकारोक्तं मुख्यप्रयोजनलक्षणमाह-यमिति ।
ऽयमर्थमधिकृत्य प्रवर्तते तत्परयोजनंऽ इति सूत्रम् ।
मा चैतत्स्याद्भक्तिर्लक्षणं ध्वनेरित्याह----
अतिव्याप्तेर् अथाव्याप्तेर् न चासौ लक्ष्यते तया
दतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया ॥ 14 ॥
नैव भक्त्या ध्वनिर्लक्ष्यते ।
कथम्? अतिव्याप्तेख्याप्तेश्च ।
तत्रातिव्याप्तिर्ध्वनिव्यतिरिक्ते ऽपि विषये भक्तेः सम्भवात् ।
यत्र हि व्यङ्ग्यकृतं महत्सौष्टवं नास्ति तत्राप्युपचरितशब्दवृत्त्या प्रसिद्य्धनुरोधप्रवर्तितव्यबहाराः लोचनम् हि प्रयोजनलक्षणम् ।
तत्रापि लक्षणास्तीति कथं ध्वननं लक्षणा चेत्येकं तत्त्वं स्यात् ।
द्वितीयं पक्षं दूषयति---अतिव्याप्तेरिति ।
असाविति ध्वनिः ।
तयेति भक्त्या ।
ननु ध्वननमवश्यम्भावीति कथं तद्व्यतिरिक्तो ऽस्ति विषय इत्याह---महत्सौष्ठवमिति ।
अत एव प्रयोजनस्यानादरणीयत्वाद्व्यञ्जकत्वेन न कृत्यं किञ्चिदिति भावः ।
महद्ग्रहणेन गुणमात्रं तद्भवति ।
यथोक्त्म्---ऽसमाधिरन्यधर्मस्य क्वाप्यारोपो विवक्षितऽ इति दर्शयति ।
ननु प्रयोजनाभावे कथं तथा व्यवहार इत्याह---प्रसिद्ध्यनुरोधेति ।
परम्परया तथैव प्रयोगात् ।
बालप्रिया तत्रापीति ।
ताद्दशोदाहरणेष्वपीत्यर्थः ।
लक्षणास्तीति ।
अयं भावः----यदि भक्तिर्ध्वनिश्चैकं तत्वं स्यात्तदा ह्युदाहृते विषये ध्वनिसद्भावो लक्षणाया अभावो वा स्यात् ।
न चैतदुभयमपि ।
तेन लक्षणात्मि काया भक्तेर्ध्वनिविविक्तस्वरूपत्वनिश्चयान्नैकत्वशङ्कावकाश इतीममर्थन्दर्शयितुं मात्रग्रहणमिति ।
द्वितीयं पक्षमिति ।
ऽभक्तिर्ध्वनेर्लक्षमम्ऽ इति पक्षमित्यर्थः ।
वृत्तौ ऽमा चैतदिऽत्यादेः भक्तिर्ध्वनिश्चैकं तत्वमित्येतन्मास्तु ।
भक्तिर्ध्वनेर्लक्षणमस्त्विति शङ्कायामाहेत्यर्थः ।
ऽयत्र हीऽत्यादिग्रन्थमवतारयति---नन्वित्यादि ।
ध्वननमवश्यम्भावीति ।
लक्षणायामिति शेषः ।
तात्पर्यमाह---अत एवेत्यादि ।
अत एव महतः सौष्टवस्याभावादेव ।
व्यञ्जकत्वेन व्यञ्जनव्यापारेण ।
न कृत्यं किञ्चिदिति ।
व्यञ्जनस्य सद्भावमात्रन्न ध्वनिव्यवहारे प्रयोजकं, किन्तु चारुत्वातिशयशालित्वमेव ।
तच्चात्र नास्तीति न ध्वनिव्यवहारविषयत्वमिति भावः ।
गुणमात्रमिति ।
बन्धस्य कश्चन गुण एवेत्यर्थः ।
तदिति ।
व्यञ्जकत्वमित्यर्थः ।
ऽभवतीऽति ऽदर्शयतीऽत्यन्वयः ।
महत्पदेन व्यङ्ग्यकृतकिञ्चित्सौष्ठवस्य प्रदर्शनादिति भावः ।
समाधिरिति ।
समाधिस्तन्नामा गुणः ।
अन्यस्याप्रस्तुतस्य यो धर्मस्तस्य ।
क्वापि प्रस्तुते वस्तुनि ।
ऽकुमुदानि निमीलन्तीऽत्यादीन्यस्योदाहरणानि ।
ऽप्रसिद्ध्यनुरोधेऽत्यत्र प्रकृष्टा सिद्धिः प्रसिद्धिः, सिद्धिर्नाम व्यवहारस्य प्रयोगमार्गाधिरोहः, तस्य प्रकर्षश्चाविच्छिन्नपारम्पर्यागतत्वमित्याशयेन प्रसिद्धिपदार्थमाह---परम्परयेति ।
कवयो दृश्यन्ते ।
यथा--- परिम्लानं पीनस्तनजधनसङ्गादुभयत- स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् ।
इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाङ्ग्याः सन्तापं वदति बिसिनीपत्रशयनम् ॥
तथा---.- चुम्बिज्जै असहुत्तं अवरुन्धिज्जै सहस्सहुत्तम्मि ।
विरमिअ पुणो रमिज्जै पिओ जणो णत्थि पुनरुत्तम् ॥
(शतकृत्वो ऽवरुध्यते सहस्रकृत्वः चुम्ब्यते ।
विरम्य पुना रम्यते प्रियो जनो नास्ति पुनरुक्तम् ॥
इति च्छाया) तथा--
कुविआओ पसन्नाओ ओरण्णमुहीओ विहसमाणाओ ।
जह गहिओ तह हिअअं हरन्ति उच्छिन्तमहिलाओ ॥
लोचनम् वयं तु ब्रूमः---प्रसिद्धिर्या प्रयोजनस्यानिगूढतेत्यर्थः ।
उत्तानेनापि रूपेण तत्प्रयोजनं चकासन्निगूढतां निधानवदपेक्षत इति भावः ।
वदतीत्युपचारे हि स्फुटीकरणप्रतिपत्तिः प्रयोजनम् ।
यद्यगूढं स्वशब्देनोच्येत किमचारुत्वं स्यात्? गूढतया वर्णने वा किं बालप्रिया परमतरीत्या प्रसिद्धिशब्दं व्याख्यातुमुपक्रमते---वयन्त्विति ।
प्रसिद्धिः प्रयोजनस्य प्रकर्षेण प्रकटतया सिद्धिः प्रतीतिः; ध्वननातिरिक्तव्यापारविषयत्वयोग्यतया स्फुजतरावभासमानत्वमिति यावत् ।
तदनुरोधेन तद्विपरीतध्वननव्यापारविषयत्वानर्हतया तदनुरोधेनैव ।
प्रवर्तितो व्यवहारो यैरित्यर्थमभिप्रेत्य व्यचष्टे---प्रसिद्धिर्येति ।
प्रयोजनस्य अनिगूढता प्रकटता या, सात्र प्रसिद्धिशब्दार्थः; न तु पूर्वोक्त इति भावः ।
ननु ध्वनिस्थले ऽपि प्रयोजनस्य स्फुटावभासमानत्वादनिगूढत्वं समानमिति शङ्कायां विशेषमाह---उत्तानेनेत्यादि ।
तत् प्रयोजनं ध्वनिस्थलीयं प्रयोजनम् ।
उत्तानेन स्फुटावभासमानेन ।
ऽरूपेण चकासदपीऽति योजना ।
प्रकशमानमपीत्यर्थः ।
निगूढतां नितरां स्फुटव्यवहारदशानाविर्भाविचारुत्वसम्पादिनीं गोप्यमानतामित्यर्थः ।
निधानवत् निधिवत् अपेक्षते ।
ऽवदतीऽत्यादौ च नैवमित्याह-वदतीत्यादि ।
स्फुटीत्यादि ।
ऽतद्रूपं प्रयोजनमगूढं सत् स्वशब्देनोच्येत यदीऽत्यन्वयः ।
स्फुटं तत्सन्तापं गमयतीत्यादि निर्दिश्येत यदीत्यर्थः ।
गूढतया वर्णनेवेति ।
ऽकृशाङ्ग्यास्सन्तापं तथा---
अज्जाएं पहारो णवलदाए दिण्णो पिएण थणवट्टे ।
मिउओ वि दूसहो व्विअ जाओ हिअए सवत्तीणम् ॥ .॥
(भार्यायाः प्रहारो नवलतया दत्तः प्रियेम स्तनपृष्ठे ।
मृदुको ऽपि दुःसह इव जतो हृदये सपत्नीनाम् ॥ .॥
इति, च्छाया ) लोचनम् चारुत्वमधिकं जातम्? अनेनैवाशयेन वक्ष्यति---यत उक्त्यन्तरेणाशक्यं यदिति ।
अवरुन्धिज्जै आलिङ्ग्यते ।
पुनरुक्तमित्यनुपादेयता लक्ष्यते, उक्तार्थस्यासम्भवात् ।
कुपिताः प्रसन्ना अवरुदितवदना विहसन्त्यः ।
यथा गृहीतास्तथा हृदयं हरन्ति स्वैरिण्यो महिलाः ॥ .॥
अत्र ग्रहणेनोपादेयता लक्ष्यते ।
हरणेन तत्परतन्त्रतापत्तिः ।
तथा--अज्जेति कनिष्ठभार्यायाः स्तनपृष्ठे नवलतया कान्तेनोचितक्रीडायोगेन मृदुको ऽपि प्रहारो दत्तः सपत्नीनां सौभाग्यसूचकं तत्क्रीडासंविभागमप्राप्तानां हृदये बालप्रिया वदतीऽत्यादिवर्णन इत्यर्थः ।
किमिति उभयत्र निषेधे ।
गूढतया वर्णनमात्रं न ध्वनिव्यवहारे प्रयोजकं, किन्तु स्वशब्दवाच्यावस्थानुद्भिन्नचारुत्वान्तरकारि गूढतया वर्णनमेव, यथा ऽसुवर्णपुष्पाम्ऽ इत्यादौ ।
ऽवदतीऽत्यादौ तु गूढत्वेनागूढत्वेन वा वर्णने ऽपि चारुत्वविशेषस्यकस्यचिदनुपलम्भात्तद्वैपरीत्यमिति भावः ।
उक्तमर्थं वक्ष्यमाणकारिकया संवादयति---अनेनैवेति ।
परिम्लानमिति ।
रत्नावल्यां नायकस्योक्तिः ।
उभयतः द्वयोर्भागयोः क्षेपा शय्याप्रान्तेषु निपातनानि वलनानि विवर्तनानि च ।
पीनेत्यादिहेतुः म्लानिमादिकार्यदर्शनेनानुमायोक्तः ।
अत्र शयनस्याचेतनस्य मुख्यार्थवचनकर्तृत्वान्वयानुपपत्या मुख्यार्थबाधेन ज्ञापनं साद्दश्याल्लक्ष्यते, स्फुटीकरमप्रतिपत्तिश्च प्रयोजनमुक्तम् ।
चुम्ब्यत इति ।
नायिकयेति शेषः ।
प्रियो जनः शतकृत्वश्चुम्ब्यत इत्याद्यन्वयः ।
नास्ति पुनरुक्तमिति ।
चुम्बनादेः पुनरुक्तत्वन्नास्तीत्यर्थः ।
अत्र चुम्बनादौ पुनर्वचनरूपमुख्यार्थस्य बाधाल्लक्षणेत्याह---पुनरुक्तमित्यादि ।
उक्तार्थस्येति ।
वचनरूपार्तस्येत्यर्थः ।
अत्र प्रयोजनमधिकफलशालित्वरूपं, तच्च पूर्ववन्नादरास्पदमिति बोध्यम् ।
कुपिता इति ।
ऽगृहीताऽ इत्यत्र पुरुषेणेति शेषः ।
अत्र गृहीता हरन्तीऽत्यनयोर्मुख्यार्थयोरुपादानहरमयोरसम्भवादाह---ग्रहणेनेत्यादि ।
अत्रात्मसात्करणमत्यन्तं वैवश्यञ्च क्रमेण लक्षणयोः प्रयोजनम् ।
तदपि पूर्ववन्न श्लाध्यम् ।
उचितेति ।
तथा---- परार्थे यः पीडाभनुभवति भङ्गे ऽपि मधुरो यदीयः सर्वोषामिह खलु विकारो ऽप्यभिमतः ।
न सम्प्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमिक्षोर्देषो ऽसौ न पुनरगुणाया मरुभुवः ॥
इत्यत्रेक्षुपक्ष्.ए ऽनुभवतिशब्दः ।
न चैवंविधः कदाचिदपि ध्वनेर्विषयः ।
लोचनम् दुःसहो जातः, मृदुकत्वादेव ।
अन्यस्य दत्तो मृटुः प्रद्दारो ऽन्यस्य च सम्पद्यते ।
दुस्सहश्च मृदुरपीति चित्रम् ।
दानेनात्र फलवत्त्वं लक्ष्यते ।
तथा---परोर्थेति ।
यद्यपि प्रस्तुतमहापुरुषापेक्षयानुभवतिशब्दो मुख्य एव, तथाप्यप्रस्तुते इक्षौ प्रशस्यमाने पीडाया अनुभवनेनासम्भवता पीडावत्त्वं लक्ष्यते; तच्च पीड्यमानत्वे पर्यवस्यति ।
नन्वस्त्यत्र प्रयोजनं तत्किमिति न ध्वन्यत इत्याशङ्क्याह---न चैवंविध इति ॥ 14 ॥
बालप्रिया उचितो यः क्रीडायोगः क्रीडाप्रसङ्गः, यद्वा--उचितायां क्रीडायां यो योगः सम्भवेत्तेन हेतुना ।
दत्त इति सम्बन्धः ।
ऽसपत्नीनां दुस्सहो जातऽ इत्यत्र गम्यं हेतुं विशेषणद्वारा दर्शयति---सौभाग्येत्याद्यप्राप्तानामित्यन्तेन ।
सौभाग्यसूचकत्वे हेतुन्दर्शयति---मृदुकत्वादेनेति मृदुको ऽपीत्यपिशब्दसूचितं विरोधं विशदयति---अन्यस्येत्यादि ।
एकस्य दत्तो ऽन्यस्य सम्पद्यत इत्येकः, मृदोस्सुसहतया मृदुरपि दुस्सह इत्यन्यश्च विरोध इत्यर्थः ।
अत्र मुख्यार्थस्य दानस्य बाधात्प्रहारो दत्त इत्यत्र दानेन दानसाध्यं फलवत्वं लक्ष्यत इत्याह---दानेनेत्यादि ।
फलवत्वमिति ।
कनिष्ठभार्यायाश्चरितार्थत्वमित्यर्थः ।
प्रयोजनञ्च प्रहारस्य सुखोपभोग्यत्वम् ।
तच्च नादरास्पदम् ।
परार्थ इति ।
इक्षुः परार्थं पीड्यते ।
महापुरुषश्च परार्थं पीडामनुभवति ।
इक्षुर्भज्यमानो ऽपि माधुर्यवान् ।
पुरुषो ऽपि परुषीकरणे सत्यपि अनुकूलस्वभाव एव ।
विकारो गुडादिः कोपादिश्च ।
वृद्धिः परिपोषो ऽभ्युदयश्च ।
अक्षेत्रमूषरभूमिरनुचितस्थानञ्च ।
अत्रेक्षुपक्षे ऽअनुभवतिशब्दऽ इति वृत्युक्तं लाक्षाणिकत्वमुपपादयति---यद्यपीत्यादिना ।
अनुभवनेनासम्भवतेति ।
अनुभवनं हि ज्ञानं मुख्यार्थभूतं तच्चेक्षोरचेतनत्वादसम्भवदित्यर्थः ।
तच्च पीडावत्वञ्च ।
पीड्यमानत्व इति ।
मर्द्यमानत्व इत्यर्थः ।
प्रयोजनञ्च कष्टावस्थत्वन्तदपि नादरास्पदम् ।
नन्वित्यादि ।
ध्वन्यत इति ।
ध्वनिव्यवहारविषय इत्यर्थः ।
वृत्तौ ऽएवंविधऽ इतिर् ।
इद्दशमनादरपदं प्रयोजनमित्यर्थः ।
ऽध्वनेर्विषयःऽ ध्वनिव्यवहारस्य विषयः ॥ 14 ॥
यतः---
उक्त्य्-अन्तरेणाशक्यं यत् तच् चारुत्वं प्रकाशयन् ।
शब्दो व्यञ्जकतां बिभ्रद् ध्वन्य्-उक्तेर् विषयीभवेत्
उक्त्यन्तरेमाशक्यं यत्तच्चारुत्वं प्रकाशयन् ।
शब्दो व्यञ्जकतां बिभ्रद्ध्वन्युक्तेर्विषयीभवेत् ॥ 15 ॥
अत्र चोदाहृते विषये नोवत्यन्तराशक्यचारुत्वव्यक्तिहेतुः शब्दः ।
कुञ्च-
रूढा ये विषये ऽन्यत्र शब्दाः स्व-विषयाद् अपि ।
लावण्याद्याः प्रयुक्तास् ते न भवन्ति पदं ध्वनेः
रूढा ये विषये ऽन्यत्र शब्दाः स्वविषयादपि ।
लावण्याद्याः प्रयुक्तास्ते न भवन्ति पदं ध्वनेः ॥ 16 ॥
तेषु चोपचरितशब्दवृत्तिरस्तीति ।
तथाविधे च विषये क्वचित्सम्भवन्नपि लोचनम् यत उक्त्यन्तरेणेति ।
उक्त्यन्तरेण ध्वन्यतिरिक्तेन स्फुटेन शब्दार्थव्यापारविशेषेणेत्यर्थः ।
शब्द इति पञ्चस्वर्थेषु योज्यम् ।
ध्वन्युक्तेर्विषयीभवेदिति---ध्वनिशब्देनोच्यत इत्यर्थः ।
उदाहृत इति ।
वदतीत्यादौ ॥15॥
एवं यत्र प्रयोजनं सदपि नादरास्पदं तत्र को ध्वननव्यापार इत्युक्त्वा यत्र मूलत एव प्रयोजनं नास्ति, भवति चोपचारस्तत्रापि को ध्वननव्यापार इत्याह---किञ्चेति ।
लावण्याद्या ये शब्दाः स्वविषयाल्लवणरसयुक्तत्वादेः स्वार्थादन्यत्र हृद्यत्वादौ रूढा; बालप्रिया ऽउक्त्वन्तरेणेऽत्यत्र उक्तिशब्दो व्यापारवाचो, अन्तरशब्दश्च ध्वन्यपेक्षयान्यवाचीत्याह---ध्वन्यतिरिक्तेनेत्यादि ।
स्फुटेन व्यवहारभूमिषु प्रसिद्धेन ।
ऽशब्दो व्यञ्जकताऽमित्यत्रत्यशब्दपदार्थमाह-पञ्चस्विति ।
शब्द्यते अभिधीयत इति वाच्यः, शब्द्यते ऽनेनेति वाचकः, शब्द्यते व्यज्यत इति व्यङ्ग्यः, शब्दनमिति व्यापारः ।
उक्तचतुष्टयचयत्वात्समुदायश्चात्र शब्दपदार्थ इत्यर्थः ।
उदाहृते विषय इत्यस्य विवरणम्--वदतीत्यादाविति ॥ 15 ॥
मूलत एवेत्यादि ।
ध्वनौ तावत् प्रयोजनं तस्यादरास्पदत्वञ्चेति द्वयमपेक्षितं, तयोर्मूलभूतं प्रयोजनमेव नास्तीत्यर्थः ।
स्वविषयशब्देन स्वमुख्यार्थो विवक्षित इत्याह---लवणेत्यादि ।
रूढत्वोक्तिः प्रयोजनाभावप्रकटनार्थेत्याह--रूढत्वदेवेति ।
व्यवधानमन्तरेंण स्वार्थसमर्पकत्वं हि रूढत्वं, तदिह मुख्यार्थबाधतद्योगप्रयोजनत्रयसान्निध्यापेक्षणरूपव्यवधानशून्यत्वं रूढशब्देन दर्शितमिति प्रयोजनराहित्यमत्र व्यवतिष्ठत एवेत्यर्थः ।
ध्वनिव्यवहारः प्रकारन्तरेण प्रवर्तते ।
न तथाविधशब्दमुखेन ।
लोचनम् रूढत्वादेव त्रितयसन्निध्यपेक्षणव्यवधानशून्याः ।
यदाह---- निरूढा लक्षणाः कश्चित्सामर्थ्यदभिधानवत् ।
इति ।
ते तस्मिन् स्वविषयादन्यत्र प्रयुक्ता अपि न ध्वनेः पदं भवन्ति; न तत्र ध्वनिव्यवहारः ।
उपचरिता शब्दस्य वृत्तिर्गोणी; लाक्षणिका गृह्यन्ते ।
लोम्नामनुगतमनुलोमं मर्दनम् ।
कूलस्य प्रतिपक्षतया स्थितं स्त्रोतः प्रतिकूलम् ।
तुल्यगुरुः सब्रह्मचारी इति मुख्यो विषयः ।
अन्यः पुनरुपचरित एव ।
न चात्र प्रयोजनं किञ्चिदुद्दिश्य लक्षणा प्रवृत्तेति न तद्विषयो ध्वननव्यवहारः ।
बालप्रिया निरूढा इति ।
काञ्चिल्लक्षणाः ।
सामर्थ्यत् नियमेन प्रयोगसामर्थ्यात् अभिधानवद्भवन्ति ।
ऽप्रयुक्ताऽ इत्यादिकारिकांशमनुषङ्गेण व्याचष्टे---ते तस्मिन्नित्यादि ।
ऽतेषु चोपचरितशब्दवृत्तिऽरिति ग्रन्थं व्याचष्टे---उपचरितेत्याद ।
ऽलावण्याद्याऽ इत्यत्रादिपदार्थमाह---आदीत्यादि ।
अन्य इति ।
अनुरोधी विरोधी तुल्य इति लोकप्रसिद्धो ऽर्थ इत्यर्थः ।
ऽतथाविधऽ इत्यादि ऽमुखेनेऽत्यन्तं वृत्तिग्रन्थं शङ्कासमाधानाभ्यां विवृणोति-नन्वित्यादि ।
पुस्तके दृश्यमानाया ऽदेवडिऽत्यादिगाथाया ग्रन्तेषु तत्र तत्राक्षरभेदा दृश्यन्ते ।
अतश्चास्याः स्वरूपं छायां च निश्चेतुं न शक्नोमि ।
सहृदया निश्चिन्वन्तु ॥
ऽप्रियतमामुखस्यैवेऽति ऽप्रियतमस्यैवेऽति च पाठः ।
व्यञ्जकत्वेनैवेति ।
अर्थगतव्यञ्जनव्यापारेणैवेत्यर्थः ।
ऽन तथाविधेऽत्यादिकं व्याचष्टे--न तूपचरितेति ॥16॥
ऽअपिचेऽत्यादिग्रन्थमवतारयिष्यन्नुक्तमनुवदति--एवमित्यादि ।
तेनेति ।
उक्तव्याप्त्यभावेनेत्यर्थः ।
अपि च---
मुख्यां वृत्तिं परित्यज्य गुण-वृत्त्यार्थ-दर्शनम् ।
यद् उद्दिश्य फलं तत्र शब्दो नैव स्खलद्-गतिः
मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् ।
यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ॥ 17 ॥
लोचनम् तदा भक्तिसन्निधौ सर्वत्र ध्वनिव्यवहारः स्यादित्यतिवियाप्तिः ।
अभ्युपगभ्यापि ब्रूमः--भवतु यत्र यत्र भक्तिस्तत्र तत्र ध्वनिः ।
तथापि यद्विषयो लक्षणाव्यापारो न तद्विषयो ध्वननव्यापारः ।
न च भिन्नविषययोधर्मधर्मिभावः ।
धर्म एव च लक्षणभित्युच्यते ।
तत्र लक्षमा तावदमुख्यार्थविषयो व्यापारः ।
ध्वननं च प्रयोजनविषयम् ।
न च तद्विषयो ऽपि द्वितीयो लक्षणाव्यापारो युक्तः, लक्षमासामग्ण्यभावादित्यभिप्रायेणाह---अपि चेत्यादि ।
मुख्यां वृत्तिमभिदाव्यापारं परित्यज्य परिसमाप्य गुणवृत्त्या लक्षणारूपयार्थस्यामुख्यस्य दर्शनं प्रत्यायना, सा यत्फलं कर्मभूतं प्रयोजनरूपमुद्दिश्य क्रियते, तत्र बालप्रिया इत्यतिव्याप्तिरिति ।
एवंरूपातिप्रसङ्ग इत्यर्थः ।
उक्तेति शेषः ।
वदतीत्यादौ लावण्यादिशब्दे च भक्तेस्सत्वे ऽपि ध्वन्यभावस्य दर्शितत्वादित्यर्थः ।
किमभ्युपगम्यते, किमुच्यत इत्यत्र क्रमेणोभयमाह---भवत्वित्यादि ।
भिन्न विषयकत्वमुपपादयति---तत्रेत्यादि ।
अमुख्येति ।
अमुख्यार्थो गङ्गादिशब्दस्य तीरादिः ।
प्रयोजनेति ।
गङ्गादिगतशैत्यपावनत्वादीत्यर्थः ।
तद्विषयो ऽपीति ।
प्रयोजनविषयको ऽपीत्यर्थः ।
लक्षणासामग्रीति ।
बाधादीत्यर्थः ।
नन्वभिधामन्तरेम लक्षणावृत्तेरसम्भवात्तत्परित्यागः कथमित्यतः परित्यज्येति पदं प्रकृतानुगुणतया व्याचष्टे--परिसमाप्येति ।
न तदवधीरणमिह तत्परित्यागः, किन्तु तद्गोचरार्थाङ्गीकारपूर्वकं तदतिलङ्घनरूपमेव तद्द्वारकमर्थान्तरबोधनार्थं धावनमित्यर्थः ।
फलमित्यत्र द्वितीयार्थमाह---कर्मेति ।
फलपदार्थमाह---प्रयोजनरूपमिति ।
क्रियत इति शेषपूरणम् ।
तत्र हि चारुत्वतिशयविशिष्टार्थप्रकाशनलक्षमे प्रयोजने कर्तव्ये यदि लोचनम् प्रयोजने तावद्द्वितीयो व्यापारः ।
न चासौ लक्षणैव; यतः स्खलन्ती बादकव्यापारेण विधुरीक्रियमाणा गतिरवबोधनशक्तिर्यस्य शब्दस्य तदीयो व्यापारो लक्षणा ।
न च प्रयोजनमवगमयतः शब्दस्य बाधकयोगः ।
तथाभावे तत्रापि निमित्तान्तरस्य प्रयोजनान्तरस्य चान्वेषणेनानवस्थानात् ।
तेनायं लक्षणलक्षणाया न विषय इति भावः ।
दर्शनमिति ण्यन्तो निर्देशः ।
कर्तव्य इति ।
अवगमयितव्य इत्यर्थः ।
अमुख्यतेति ।
बालप्रिया ऽतेत्रऽत्यस्य व्याख्यानं---प्रयोजन इति ।
तावदिति सम्प्रतिपत्तौ ।
द्वितीय इति ।
अमुख्यार्थविषयव्यापारादन्य इत्यर्थः ।
व्यापार इति ।
अवश्यमभ्युपेय इति शेषः ।
तर्हि तद्विषयो ऽपि लक्षणाव्यापारो ऽभ्युपेयतामित्यत्राह---न चेति ।
असाविति ।
द्वितीयो व्यापार इत्यर्थः ।
ऽनच लक्षणैवेऽत्यत्र हेतुत्वेन कारिकान्त्यपादं पात यति---यत इति ।
तथा च ऽनैव स्खलद्गतिऽरित्यनेन लक्षणाया अभावः प्रतिपाद्यत इति भावः ।
बाधकेति ।
बाधकप्रमाणव्यापारेणेत्यर्थः ।
विधुरीक्रियमाणा कुण्ठीक्रियमाणा ।
अवबोधनेति ।
स्वार्थबोधनेत्यर्थः ।
तदीय इति ।
तथाविधशब्दसम्बन्धीत्यर्थः ।
भवत्वेवं ततः किमत आह--न चेति ।
अवगमयत इति ।
अवगमनकाल इति भावः ।
शब्दस्येति ।
तटाद्यर्थवृत्तेर्गङ्गादिशब्दस्येत्यर्थः ।
बाधकयोग इति ।
घोषादिपदान्तरार्थान्वयायोग्यार्थकत्वरूपबाधितार्थकत्वमित्यर्थः ।
अभ्युपगम्याप्याह---तथेति ।
तथा भावे बाधकयोगे सति ।
तत्रापीति ।
प्रयोजने बोध्ये ऽपीत्यर्थः ।
निमित्तेति ।
सम्बन्धरूपनिमित्तेत्यर्थः ।
अन्वेषणेनानवस्थानादिति ।
ऽन च बाधकयोगऽइत्यनेनास्य सम्बन्धः ।
लक्षितेन तीरादिना लक्षणया प्रयोजनरूपार्थः प्रत्याय्यत इति केचित्; तन्मतन्निराकरोति-तेनेत्यादि ।
तेन बाधकयोगाभावेन ।
अयमिति ।
प्रयोजनरूपार्थ इत्यर्थः ।
न विषय इति ।
किन्त्वन्य एव तद्विषय इति भावः ।
यथा---"आ हन्त किमिदं तन्वि नेत्रयोः श्रावणस्तव ।
शरत्कपोले ग्रीष्मो ऽङ्गे शिशिरो मुखपङ्कजे" ॥
इत्.इ ।
अत्र श्रावणादिपदेन वर्षर्त्वादिकं लक्ष्यते, तेनाश्रुपातादिकञ्ज ।
अतो लक्षितलक्षणाप्रयोजनमत्रोत्कण्ठातिशयः ।
तत्र श्रवमादिपदेनाश्रुपातादिरेव लक्ष्यत इत्यतो लक्षितलक्षणाया अभावादयन्न तद्विषय इत्यर्थ इति केचित् ।
ऽदर्शनं प्रत्यायनेऽति यद्व्याख्यातन्तदुपपादयति--दर्शनमिति ।
अवगमयितव्य इत्यर्थ इति ।
ऽचारुत्वातिशयविशिष्टार्थलक्षणे प्रयोजनेऽ शब्दस्यामुख्यता तदा तस्य प्रयोगे दुष्टतैव स्यात् ।
न चैवम्; लोचनम् बाधकेन विधुरीकृततेत्यर्थः ।
तस्येति शब्दस्य ।
दुष्टतैवेति ।
प्रयोजनावगमस्य सुखसम्पत्त्ये हि स शब्दः प्रयुज्यते तस्मिन्नमुख्यार्थे ।
यदि च ऽसिंहो वटुःऽ इति शौर्यातिशये ऽप्यवगमयितव्ये स्खलद्गतित्वं शब्दस्य तर्हि तत्परतीतिं नैव कुर्यादिति किमर्थं तस्य प्रयोगः ।
उपचारेम करिष्यतीति चेत्तत्रापि प्रयोजनान्तरमन्वेष्यं तत्राप्युपचार इत्यनवस्था ।
अथ न तत्र स्खलद्गतित्वं, तर्हि प्रयोजने ऽवगमयितव्ये न लक्षणाख्यो व्यापारः तत्सामग्र्यभावात् ।
न च नास्ति व्यापारः ।
न चासावभिधा, समयस्य तत्राभावात् ।
यद्व्यापारान्तरमभिधालक्षणातिरिक्तं स ध्वननव्यापारः ।
न बालप्रिया इति पाठमभिप्रेत्यैवं व्याख्यातम् ।
ऽचारुत्वातिशयविशिष्टार्थप्रकाशनलक्षणऽ इति पाठे तु कर्तव्य इत्यस्योत्पादयितव्ये इत्येवार्थः ।
प्रयोजने बोध्ये स्खलद्गतित्वस्य निषेधान्नामुख्यतापदेन तदेव विवक्षितमित्याह---बाधकेनेत्यादि ।
ननूक्तरूपामुख्यत्वाभ्युपगमः कथं दुष्टत्वापादकः ।
दुष्टत्वं हि व्याकरणसंस्कारराहित्यादिरूपमिति शङ्कायां प्रतिपिपादयिषितार्थप्रतीत्यजनकत्वेन वैयर्थ्यम्; तदत्र वविक्षितमित्याह---प्रयोजनेत्यादि ।
प्रयोजनावगमस्य शौर्यातिशयादेर्बोधस्य ।
सुखसम्पत्तये सुखेन जननाय ।
स शब्दः सिंहादिर्ल्लक्षकशब्दः ।
तस्मिन्नमुख्यार्थ इति ।
वट्वाद्यर्थ इत्यर्थः ।
किमतस्तत्राह--यदि चेति ।
शौर्येति ।
यथा वटौ तता शौर्यातिशये ऽपीत्यर्थः ।
तत्प्रतीतिं शौर्यातिशयप्रतीतिम् किमर्थमिति ।
तत्प्रयोगस्य वैयर्थ्यापात इत्यर्थः ।
अथ प्रयोजने ध्वननव्यापारं व्यवस्थापयिष्यन् उक्तमेवार्थं शङ्कापरिहाराभ्या प्रदर्शयन्नाह---उपचारेणेत्यादि ।
ऽकरिष्यतीऽत्यत्र ऽतत्प्रतीतिं तस्य प्रयोगऽ इति चानुषज्यते ।
तत्रापीति ।
शौर्यातिशये ऽपि लक्ष्ये सतीत्यर्थः ।
प्रयोजनान्तरमन्विष्यमिति ।
लक्षणायाः प्रयोजननियतत्वेनान्यत्प्रयोजनं किञ्चिदेषितव्यमित्यर्थः ।
तत्रापीति ।
तस्मिन् प्रयोजने ऽपि उपचारे पूर्ववदङ्गीकार्ये तत्राप्यन्यदेवं तत्राप्यन्यदित्यनवस्था मूलक्षयकारिणी स्यादित्यर्थः ।
अतः स्खलद्गतित्वाभ्युपगमो न युक्त इति भावः ।
ननु मा भूत्स्खलिदगतित्वं, तथापि लक्षणाया अभावः कुत इत्यत आह---अथेत्यादि ।
व्यञ्जनां परिशेषयितुमाह---न चेत्यादि ।
समयस्येति ।
सङ्केतस्येत्यर्थः ।
वक्ष्यमाणं वाचकत्वाश्रयेण गुणवृत्तेरवस्थानमुपपादयिष्यन्नभिधाशेषत्वं लक्षणायास्तावदुपपादयति---तेनेत्यादि ।
तेन यतः स्खलद्गतेश्शब्दस्य व्यापारो लक्षणा, ततो हेतोः ।
अभिधापुच्छभूतैव ऽलक्षणेऽत्यनेना य सम्बन्धः ।
तस्मात्---
वाचकत्वाश्रयेणैव गुण-वृत्तिर् व्यवस्थिता ।
व्यञ्जकत्वैक-मूलस्य ध्वनेः स्याल् लक्षणं कथम्
वाचकत्वाश्रयेणैव गुणवृत्तिर्व्यवस्थिता ।
व्यवञ्जकत्वैकमूलस्य ध्वनेः स्याल्लक्षणं कथम् ॥ 18 ॥
तस्मादन्यो ध्वनिरन्या च गुणवृत्तिः ।
अव्याप्तिरप्यस्य लक्षणस्य ।
मूल पाठ: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0