भाषा

ENहिગુ
ग्रंथ पाठ

ध्वन्यालोक · अध्याय 2

2.1

कृते ऽपि वा पूर्वम् एवान्यैर् ध्वनि-लक्षणे पक्ष-संसिद्धिर् एव नः ; यस्माद् ध्वनिर् अस्तीति नः पक्षः । स च प्राग् एव संसिद्ध इत्य् अयत्न-सम्पन्न-समीहितार्थाः संवृत्ताः स्मः ।
ये ऽपि सहृदय-हृदय-संवेद्यम् अनाख्येयम् एव ध्वनेर् आत्मानम् आम्नासिषुस् ते ऽपि न परीक्ष्य वादिनः । यत उक्तया नीत्या वक्ष्यमाणया च ध्वनेः सामान्य-विशेष-लक्षणे प्रतिपादिते ऽपि यद्य् अनाख्येयत्वं तत् सर्वेषाम् एव वस्तूनां तत्-प्रसक्तम् । यदि पुनर् ध्वनेर् अतिशयोक्त्यानया काव्यान्तरातिशायि तैः स्वरूपम् आख्यायते तत् ते ऽपि युक्ताभिधायिन एव ॥
इति श्री-राजानकानन्दवर्धनाचार्य-विरचिते ध्वन्य्-आलोके प्रथम उद्द्योतः ॥
-ओ)0(ओ-
(2)
॥ द्वितीयोद्द्योतः ॥
एवम् अविवक्षित-वाच्य-विवक्षितान्य-पर-वाच्यत्वेन ध्वनिर् द्वि-प्रकारः प्रकाशितः ।
तत्राविवक्षित-वाच्यस्य प्रभेद-प्रतिपादनायेदम् उच्यते-
ध्व्_2.1:
अर्थान्तरे सङ्क्रमितम् अत्यन्तं वा तिरस्कृतम् ।
अविवक्षित-वाच्यस्य ध्वनेर् वाच्यं द्विधा मतम्

2.1

तथाविधाभ्यां च ताभ्यां व्यञ्ग्यस्यैव विशेषः । तत्रार्थान्तर-सङ्क्रमित-वाच्यो यथा-
स्निग्ध-श्यामल-कान्ति-लिप्त-वियतो वेल्लद्-बलाका घना
वाताः शीकरिणः पयोद-सुहृदाम् आनन्द-केकाः कलाः ।
कामं सन्तु दृढं कठोर-हृदयो रामो ऽस्मि सर्वं सहे
वैदेही तु कथम् भविष्यति हहा हा देवि धीरा भव ॥[*9]
[*9] सद्-उक्ति-कर्णामृत 978, साह्.द्. 2.17.
इत्य् अत्र राम-शब्दः । अनेन हि व्यङ्ग्य-धर्मान्तर-परिणतः संज्ञी प्रत्याय्यते, न संज्ञि-मात्रम् । यथा च ममैव विषम-बाण-लीलायाम्-
ताला जाअन्ति गुणा जाला दे सहिअएहिं घेप्पन्ति ।
र{इ}-किरणानुग्गहीआइं होन्ति कमलाइं कमलाइं ॥
[तदा जायन्ते गुणा यदा ते सहृदयैर् गृह्यन्ते ।
रवि-किरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥]
इत्य् अत्र द्वितीयः कमल-शब्दः ।
अत्यन्त-तिरस्कृत-वाच्यो यथादि-कवेर् वाल्मीकेः-
रवि-सङ्क्रान्त-सौभाग्यस् तुषारावृत-मण्डलः ।
निःश्वासान्ध इवादर्शश् चन्द्रमा न प्रकाशते ॥इति ।
अत्रान्ध-शब्दः । यथा च-
गअनं च मत्त-मेहं धारालुलि-अज्जुनाइं अ बणाइं ।
णिरहङ्कार-मिअङ्का हरन्ति णीलाओ निसाओ ॥
[गगनं च मत्त-मेघं धारा-लुलितार्जुनानि च वनानि ।
निरहङ्कार-मृगाङ्का हरन्ति नीला अपि निशाः ॥]
अत्र मत्त-निरहङ्कार-शब्दौ

2.2

ध्व्_2.2:
असंलक्ष्य-क्रमोद्द्योतः क्रमेण द्योतितः परः ।
विवक्षिताभिधेयस्य ध्वनेर् आत्मा द्विधा मतः

2.2

मुख्यतया प्रकाशमानो व्यङ्ग्यो ऽर्थो ध्वनेर् आत्मा । स च वाच्यार्थापेक्षया कश्चिद् अलक्ष्य-क्रमतया प्रकाशते, कश्चित् क्रमेणेति द्विधा मतः

2.3

तत्र-
ध्व्_2.3:
रस-भाव-तद्-आभास-तत्-प्रशान्त्य्-आदिर् अक्रमः ।
ध्वनेर् आत्माङ्गि-भावेन भासमानो व्यवस्थितः

2.4

रसादिर् अर्थो हि सहेव वाच्येनावभासते । स चाङ्गित्वेनावभासमानो ध्वनेर् आत्मा ।
इदानीं रसवद्-अलङ्काराद् अलक्ष्य-क्रम-द्योतनात्मनो ध्वनेर् विभक्तो विषय इति प्रदर्श्यते-
ध्व्_2.4:
वाच्य-वाचक-चारुत्व-हेतूनां विविधात्मनाम् ।
रसादि-परता यत्र स ध्वनेर् विषयो मतः

2.4

रस-भावतद्-आभास-तत्-प्रशम-लक्षणं मुख्यम् अर्थम् अनुवर्तमाना शब्दार्थालङ्कारा गुणाश् च परस्परं ध्वन्य्-अपेक्षया विभिन्न-रूपा व्यवस्थितास् तत्र काव्ये ध्वनिर् इति व्यपदेशः

2.5

ध्व्_2.5:
प्रधान्ये ऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्न् अलङ्कारो रसादिर् इति मे मतिः

2.5

यद्य् अपि रसवद्-अलङ्कारस्यान्यैर् दर्शितो विषयस् तथापि यस्मिन् काव्ये प्रधानतयान्यो ऽर्थो वाक्यार्थी-भूतस् तस्य चाङ्ग-भूता ये रसादयस् ते रसादेर् अलङ्कारस्य विषया इति मामकीनः पक्षः । तद् यथा चाटुषु प्रेयो ऽलङ्कारस्य वाक्यार्थत्वे ऽपि रसादयो ऽङ्गभूता दृश्यन्ते । स च रसादिर् अलङ्कारः शुद्धः सङ्कीर्णो वा ।
तत्राद्यो यथा-
किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश् चिराद् दर्शनं
केयम् निष्करुण प्रवास-रुचिता केनासि दूरिकृतः ।
स्वप्नान्तेष्व् इति ते वदन् प्रियतम-व्यासक्त-कण्ठ-ग्रहो
बुद्धा रोदिति रिक्त-बाहु-वलयस् तारं रिपु-स्त्री-जनः ॥
इत्य् अत्र करुण-रसस्य शुद्धस्याङ्ग-भावात् स्पष्टम् एव रसवद्-अलङ्कारत्वम् । एवम् एवं-विधे विषये रसान्तराणां स्पष्ट एवाङ्गभावः ।
सङ्कीर्णो रसादिर् अङ्ग-भूतो यथ-
क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतो ऽप्य् आददानो ऽंशुकान्तं
गृह्णन् केशेष्व् अपास्तश् चरण-निपतितो नेक्षितः सम्भ्रमेण ।
आलिङ्गन् यो ऽवधूतस् त्रिपुर-युवतिभिः साश्रु-नेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥
इत्य् अत्र त्रिपुर-रिपु-प्रभावातिशयस्य वाक्यार्थत्वे ईर्ष्या-विप्रलम्भस्य श्लेष-सहितस्याङ्ग-भाव इति, एवं-विध एव रसवद्-आद्य्-अलङ्कारस्य न्याय्यो विषयः । अत एव चेर्ष्या-विप्रलम्भ-करुणयोर् अङ्गत्वेन व्यवस्थानात् समावेशो न दोषः । यत्र हि रसस्य वाक्यार्थी-भावस् तत्र कथम् अलङ्कारत्वम् ? अलङ्कारो हि चारुत्व-हेतुः प्रसिद्धः ; न त्व् असाव् आत्मैवात्मनश् चारुत्व-हेतुः ।
तथा चायम् अत्र संक्षेपः-
रस-भावादि-तात्पर्यम् आश्रित्य विनिवेशनम् ।
अलङ्कृतीनां सर्वासाम् अलङ्कारत्व-साधनम् ॥
तस्माद् यत्र रसादयो वाक्यार्थी-भूताः स सर्वो न रसादेर् अलङ्कारस्य विषयः ; स ध्वनेः प्रभेदः, तस्योपमादयो ऽलङ्काराः । यत्र तु प्राधान्येनार्थान्तरस्य वाक्यार्थी-भावे रसादिभिश् चारुत्व-निष्पत्तिः क्रियते, स रसादेर् अलङ्कारताया विषयः ।
एवं ध्वनेर् उपमादीनां रसवद्-अलङ्कारस्य च विभक्त-विषयता भवति ।
यदि तु चेतनानां वाक्यार्थी-भावो रसाद्य्-अलङ्कारस्य विषय इत्य् उच्यते तर्ह्य् उपमादीनां प्रविरल-विषयता निर्विषयता वाभिहिता स्यात् । यस्माद् अचेतन-वस्तु-वृत्ते वाक्यार्थी-भूते पुनश् चेतन-वस्तु-वृत्तान्त-योजनया यथा-कथञ्चिद् भवितव्यम् ।
अथ सत्याम् अपि तस्यां यत्राचेतनानां वाक्यार्थी-भावो नासौ रसवद्-अलङ्कारस्य विषय इत्य् उच्यते । तन् महतः काव्य-प्रबन्धस्य रसनिधानभूतस्य नीरसत्वमभिहितं स्यात् ।
यथा-
तरङ्ग-भ्रू-भङ्गा क्षुभित-विहग-श्रेणि-रशना
विकर्षन्ती फेनं वसनम् इव संरम्भ-शिथिलम् ।
यथा-विद्धं याति स्खलितम् अभिसन्धाय बहुशो
नदी-रूपेणेयं ध्रुवम् असहना सा परिणता ॥
यथा वा-
तन्वी मेघ-जलार्द्र-पल्लवतया धौताधर् एवाश्रुभिः
शून्येवाभरणैः स्वकाल-विरहाद् विश्रान्त-पुष्पोद्गमा ।
चिन्ता मौनम् इवाश्रिता मधु-कृतां शब्दैर् विना लक्ष्यते
चण्डी माम् अवधूय पाद-पतितं जातानुतापेव सा ॥
यथा वा-
तेषां गोप-वधू-विलास-सुहृदां राधा-रहः-साक्षिणां
क्षेमं भद्र कलिन्द-शैल-तनया-तीरे लता-वेश्मनां ।
विच्छिन्ने स्मर-तल्प-कल्पन-मृद्-उच्छेदोपयोगे ऽधुना
ते जाने जरठी-भवन्ति विगलन् नील-त्विषः पल्लवाः ॥[*10]
[*10] स्र्क् 808 (विद्यायाः); स्व्म् 87.8 (कस्यापि)
इत्य् एवम् आदौ विषये ऽचेतनानां वाक्यार्थी-भावे ऽपि चेतन-वस्तु-वृत्तान्त-योजनास्त्य् एव । अथ यत्र चेतन-वस्तु-वृत्तान्त-योजनास्ति तत्र रसादिर् अलङ्कारः । तद् एवं सत्य् उपमादयो निर्विषयाः प्रविरल-विषया वा स्युः । यस्मान् नास्त्य् एवासाव् अचेतन-वस्तु-वृत्तान्तो यत्र चेतन-वस्तु-वृत्तान्त-योजना नास्त्य् अन्ततो विभावत्वेन । तस्माद् अङ्गत्वेन च रसादीनाम् अलङ्कारता ।
यः पुनर् अङ्गी रसो भावो वा सर्वाकारम् अलङ्कार्यः स ध्वनेर् आत्मेति

2.6

किं च-
ध्व्_2.6:
तम् अर्थम् अवलम्बन्ते ये ऽङ्गिनं ते गुणाः स्मृताः ।
अङ्गाश्रितास् त्व् अलङ्कारा मन्तव्याः कटकादिवत्

2.6

ये तम् अर्थं रसादि-लक्षणम् अङ्गिनं सन्तम् अवलम्बते ते गुणाः शौर्यादिवत् । वाच्य-वाचक-लक्षणान्य् अङ्गानि ये पुनस् तद्-आश्रितास् ते ऽलङ्कारा मन्तव्याः कटकादिवत्

2.7

तथा च-
ध्व्_2.7:
शृङ्गार एव मधुरः परः प्रह्लादनो रसः ।
तन्-मयं काव्यम् आश्रित्य माधुर्यं प्रतितिष्ठति

2.7

शृङ्गार एव रसान्तरापेक्षया मधुरः प्रह्लाद-हेतुत्वात् । तत्-प्रकाशन-पर-शब्दार्थतया काव्यस्य स माधुर्य-लक्षणो गुणः । श्रव्यत्वं पुनर् ओजसो ऽपि साधारणम् इति

2.8

ध्व्_2.8:
शृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत् ।
माधुर्यम् आर्द्रतां याति यतस् तत्राधिकं मनः

2.8

विप्रलम्भ-शृङ्गार-करुणयोस् तु माधुर्यम् एव प्रकर्षवत् । सहृदय-हृदयावर्जनातिशय-निमित्तत्वाद् इति

2.9

ध्व्_2.9:
रौद्रादयो रसा दीप्त्या लक्ष्यन्ते काव्य-वर्तिनः ।
तद्-व्यक्ति-हेतू शब्दार्थाव् आश्रित्यौजो व्यवस्थितम्

2.9

रौद्रादयो हि रसाः परां दीप्तिम् उज्ज्वलतां जनयन्तीति लक्षणया त एव दीप्तिर् इत्य् उच्यते ।
तत्-प्रकाशन-परः शब्दो दीर्घ-समास-रचनालङ्कृतं वाक्यम् । यथा-
चञ्चद्-भुज-भ्रमित-चण्ड-गदाभिघात-
सञ्चूर्णितोरु-युगलस्य सुयोधनस्य ।
स्त्यानावबद्ध-घन-शोणित-शोण-पाणिर्
उत्तंसयिष्यति कचांस् तव देवि भीमः ॥(वेणि 1.21)
तत्-प्रकाशन-परश् चार्थो ऽनपेक्षित-दीर्घ-समास-रचनः प्रसन्न-वाचकाभिधेयः । यथा-
यो यः शस्त्रं बिभर्ति स्व-भुज-गुरु-मदः पाण्डवीनां चमूनां
यो यः पाञ्चाल-गोत्रे शिशुर् अधिक-वया गर्भ-शय्यां गतो वा ।
यो यस् तत्-कर्म-साक्षी चरति मयि रणे यश् च यश् च प्रतीपः
क्रोधान्धस् तस्य तस्य स्वयम् अपि जगताम् अन्तकस्यान्तको ऽहम् ॥(वेणि 3.32)
इत्य् आदौ द्वयोर् ओजस्त्वम्

2.10

ध्व्_2.10:
समर्पकत्वं काव्यस्य यत् तु सर्व-रसान् प्रति ।
स प्रसादो गुणो ज्ञेयः सर्व-साधारण-क्रियः

2.10

प्रसादस् तु स्वच्छता शब्दार्थयोः । स च सर्व-रस-साधारणो गुणः सर्व-रचना-साधारणश् च व्यङ्ग्यार्थापेक्षयैव मुख्यतया व्यवस्थितो मन्तव्यः

2.11

ध्व्_2.11:
श्रुति-दुष्टादयो दोषा अनित्या ये च दर्शिताः ।
ध्वन्य्-आत्मन्य् एव शृङ्गारे ते हेया इत्य् उदाहृताः

2.11

अनित्या दोषाश् च ये श्रुति-दुष्टादयः सूचितास् ते ऽपि न वाच्ये अर्थ-मात्रे, न च व्यङ्ग्ये शृङ्गारे वा ध्वनेर् अनात्म-भूते । किं तर्हि ? ध्वन्यात्मन्य् एव शृङ्गारे ऽङ्गितया व्यङ्ग्ये ते हेया इत्य् उदाहृताः । अन्यथा हि तेषाम् अनित्य-दोषतैव न स्यात् । एवम् अयम् असंलक्ष्य-क्रम-द्योतो ध्वनेर् आत्मा प्रदर्शितः सामान्येन

2.12

ध्व्_2.12:
तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश् च ये ।
तेषामानन्त्यमन्योन्यसम्बन्धपरिकल्पने

2.12

अङ्गितया व्यङ्ग्यो रसादिर् विवक्षितान्य् अपर-वाच्यस्य ध्वनेर् एक आत्मा य उक्तस् तस्याङ्गानां वाच्य वाचकानुपातिनाम् अलङ्काराणां ये प्रभेदा निरवधयो ये च स्वगतास् तस्याङ्गिनो ऽर्थस्य रस-भाव-तद्-आभास-तत्-प्रशम-लक्षणा विभावानुभाव-व्यभिचारि-प्रतिपादन-सहिता अनन्ताः स्वाश्रयापेक्षया निःसीमानो विशेषास् तेषाम् अन्योन्य-सम्बन्ध-परिकल्पने क्रियमाणे कस्यचिद् अन्यतमस्यापि रसस्य प्रकाराः परिसङ्ख्यातुं न शक्यन्ते किम् उत सर्वेषाम् ।
तथा हि शृङ्गारस्याङ्गिनस् तावद् आद्यौ द्वौ भेदौ-सम्भोगो विप्रलम्भश् च । सम्भोगस्य च परस्पर-प्रेम-दर्शन-सुरत-विहरणादि-लक्षणाः प्रकाराः ।
विप्रलम्भस्याप्य् अभिलाषेर्ष्या-विरह-प्रवास-विप्रलम्भादयः । तेषां च प्रत्येकं विभावानुभाव-व्यभिचारि-भेदः । तेषां च देश-कालाद्य्-आश्रयावस्था-भेद इति स्वगत-भेदापेक्षयैकस्य तस्यापरिमेयत्वं, किं पुनर् अङ्ग-प्रभेद-कल्पनायाम् । ते ह्य् अङ्ग-प्रभेदाः प्रत्येकम् अङ्गि-प्रभेद-सम्बन्ध-परिकल्पने क्रियमाणे सत्यानन्त्यम् एवोपयान्ति

2.13

ध्व्_2.13:
दिङ्-मात्रं तूच्यते येन व्युत्पन्नानां स-चेतसाम् ।
बुद्धिर् आसादितालोका सर्वत्रैव भविष्यति

2.14

दिङ्-मात्र-कथनेन हि व्युत्पन्नानां सहृदयानाम् एकत्रापि रस-भेदे सहालङ्कारैर् अङ्गाङ्गि-भाव-परिज्ञानाद् आसादितालोका बुद्धिः सर्वत्रैव भविष्यति ।
तत्र-
ध्व्_2.14:
शृङ्गारस्याङ्गिनो यत्नाद् एक-रूपानुबन्धवान् ।
सर्वेष्व् एव प्रभेदेषु नानुप्रासः प्रकाशकः

2.15

अङ्गिनो हि शृङ्गारस्य ये उक्ताः प्रभेदास् तेषु सर्वेष्व् एक-प्रकारानुबन्धितया प्रबन्धेन प्रवृत्तो ऽनुप्रासो न व्यञ्जकः । अङ्गिन इत्य् अनेनाङ्ग-भूतस्य शृङ्गारस्यैक-रूपानुबन्ध्य्-अनुप्रास-निबन्धने काम-चारम् आह ॥2.14 ॥
ध्व्_2.15:
ध्वन्यात्म-भूते शृङ्गारे यमकादि-निबन्धनम् ।
शक्ताव् अपि प्रमादित्वं विप्रलम्भे विशेषतः

2.15

ध्वनेर् आत्म-भूतः शृङ्गारस् तात्पर्येण वाच्य-वाचकाभ्यां प्रकाश्यमानस् तस्मिन् यमकादीनां यमक-प्रकाराणां निबन्धनं दुष्कर-शब्द-भङ्ग-श्लेषादीनां शक्ताव् अपि प्रमादित्वं । "प्रमादित्वम्" इत्य् अनेनैतद् दर्श्यते-काक-तालीयेन कदाचित् कस्यचिद् एकस्य यमकादेर् निष्पत्ताव् अपि भूम्नालङ्कारान्तरवद् रसाङ्गत्वेन निबन्धो न कर्तव्य इति । "विप्रलम्भे विशेषत" इत्य् अनेन विप्रलम्भे सौकुमार्यातिशयः ख्याप्यते । तस्मिन् द्योत्ये यमकादेर् अङ्गस्य निबन्धो नियमान् न कर्तव्य इति

2.16

अत्र युक्तिर् अभिधीयते-
ध्व्_2.16:
रसाक्षिप्ततया यस्य बन्धः शक्य-क्रियो भवेत् ।
अपृथग्-यत्न-निर्वत्यः सो ऽलङ्कारो ध्वनौ मतः

2.16

निष्पत्ताव् आश्चर्य-भूतो ऽपि यस्यालङ्कारस्य रसाक्षिप्ततयैव बन्धः शक्य-क्रियो भवेत् सो ऽस्मिन्न् अलक्ष्य-क्रम-व्यङ्ग्ये ध्वनाव् अलङ्कारो मतः । तस्यैव रसाङ्गत्वं मुख्यम् इत्य् अर्थः । यथा-
कपोले पत्त्राली करतल-निरोधेन मृदिता
निपीतो निःश्वासैर् अयम् अमृत-हृद्यो ऽधर-रसः ।
मुहुः कण्ठे लग्नस् तरलयति बाष्प-स्तन-तटीं
प्रियो मन्युर् जातस् तव निरनुरोधे न तु वयम् ॥[*11]
[*11] अमरु 67; स्र्क् 664, स्क्म् 720, स्क्व् 489, स्व् 1627
रसाङ्गत्वे च तस्य लक्षणम् अपृथग्-यत्न-निर्वर्त्यत्वम् इति यो रसं बन्धु-मध्य-वसितस्य कवेर् अलङ्कारस् तां वासनाम् अत्यूह्य यत्नान्तरम् आस्थितस्य निष्पद्यते स न रसाङ्गम् इति । यमके च प्रबन्धेन बुद्धि-पूर्वकं क्रियमाणे नियमेनैव यत्नान्तर-परिग्रह आपतति शब्द-विशेषान्वेषण-रूपः । अलङ्कारान्तरेष्व् अपि तत्-तुल्यम् इति चेत्-नैवम्; अलङ्कारान्तराणि हि निरूप्यमाण-दुर्घटनान्य् अपि रस-समाहित-चेतसः प्रतिभानवतः कवेर् अहम्-पूर्विकया परापतन्ति । यथा कादम्बर्यां कादम्बरी-दर्शनावसरे । यथा च माया-राम-शिरो-दर्शनेन विह्वलायां सीत-देव्यां सेतौ । युक्तं चैतत्, यतो रसा वाच्य-विशेषैर् एवाक्षेप्तव्याः ।
अस्यैवार्थस्य सङ्ग्रह-श्लोकाः-
रसवन्ति हि वस्तूनि सालङ्काराणि कानिचित् ।
एकेनैव प्रयत्नेन निर्वर्त्यन्ते महा-कवेः ॥
यमकादि-निबन्धे तु पृथग्-यत्नो ऽस्य जायते ।
शक्तस्यापि रसे ऽङ्गत्वं तस्माद् एषां न विद्यते ॥
रसाभासाङ्ग-भावस् तु यमकादेर् न वार्यते ।
ध्वन्य्-आत्म-भूते शृङ्गारे त्व् अङ्गता नोपपद्यते

2.17

इदानीं ध्वन्य्-आत्म-भूतस्य शृङ्गारस्य व्यञ्जको ऽलङ्कार-वर्ग आख्यायते-
ध्व्_2.17:
ध्वन्य्-आत्म-भूते शृङ्गारे समीक्ष्य विनिवेशितः ।
रूपकादिर् अलङ्कार-वर्ग एति यथार्थताम्

2.17

अलङ्कारो हि बाह्यालङ्कारसाम्यादङ्गिनश्चारुत्व-हेतुरुच्यते ।
वाच्यालङ्कारवर्गश् च रूपकादिर्यावानुक्तो वक्ष्यते च कैश्चित्, अलङ्काराणामनन्तत्वात् ॥।
स सर्वो ऽपि यदि समीक्ष्य विनिवेश्यते तद-लक्ष्यक्रमव्यङ्ग्यस्य ध्वनेर् अङ्गिनः सर्वस्यैव चारुत्वहेतुर्निष्पद्यते

2.18

एषा चास्य विनिवेशने समीक्षा-
ध्व्_2.18-19:
विवक्षा तत्परत्वेन नाङ्गित्वेन कदाचन ।
काले च ग्रहण-त्यागौ नातिनिर्वहणैषिता

2.19

निर्व्यूढाव् अपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणम् ।
रूपकादिर् अलङ्कार-वर्गस्याङ्गत्व-साधनम्

2.20

रस-बन्धेष्व् अत्यादृत-मनाः कविर् यम् अलङ्कारं तद् अङ्गतया विवक्षति । यथा [शकु. 1.20]-
चलापाङ्गां दृष्टिं स्पृशसि नव-गोप-सुदृशां
रहस्याख्यायीव मृशसि मृदु कर्णान्तिक-चरः ।
करं व्याधुन्वत्याः पिबसि रति-सर्वस्वम् अधरं
वयं तत्त्वान्वेषान् मधुकर हतास् त्वं खलु कृती ॥[*12]
[*12] स्र्क् 515
अत्र हि भ्रमर-स्वभावोक्तिर् अलङ्कारो रसानुगुणः । "नाङ्गित्वेन" इति न प्राधान्येन ।
कदाचिद् रसादि-तात्पर्येण विवक्षितो ऽपि ह्य् अलङ्कारः कश्चिद् अङ्गित्वेन विवक्षितो दृश्यते । यथा-
चक्राभिघात-प्रसभाज्ञयैव चकार यो राहु-वधू-जनस्य ।
आलिङ्गनोद्दाम-विलास-वन्ध्यं रतोत्सवं चुम्बन-मात्र-शेषम् ॥
अत्र हि पर्यायोक्तस्याङ्गित्वेन विवक्षा रसादि-तात्पर्ये सत्य् अपीति । अङ्गत्वेन विवक्षितम् अपि यम् अवसरे गृह्णाति नानवसरे ।
अवसरे गृहीतिर्, यथा (रत्नावल्यां 2.4)-
उद्दामोत्कलिकां विपाण्डुर-रुचं प्रारब्ध-जृम्भां क्षणाद् आयासं श्वसनोद्गमैर् अविरतैर् आतन्वतीम् आत्मनः ।
अद्योद्यानलताम् इमां समदनां नारीम् इवान्यां ध्रुवं पश्यन् कोप-विपाटल-द्युति मुखं देव्याः करिष्याम्य् अहम् ॥[*13]
[*13] रसार्णव-सुधाकर 2.26.
इत्य् अत्र उपमा श्लेषस्य । गृहीतम् अपि च यम् अवसरे त्यजति तद्-रसानुगुण-तयालङ्कारान्तरापेक्षया । यथा-
रक्तस् त्वं नव-पल्लवैर् अहम् अपि श्लाघ्यैः प्रियाया गुणैस्
त्वाम् आयान्ति शिलीमुखाः स्मर-धनुर्-मुक्तास् तथा माम् अपि ।
कान्तापाद-तलाहतिस् तव मुदे तद्वन् ममाप्य् आवयोः
सर्वं तुल्यम् अशोक केवलम् अहं धात्रा स-शोकः कृतः ॥[*14]
[*14] स्र्क् 770.
अत्र हि प्रबन्ध-प्रवृत्तो ऽपि श्लेषो व्यतिरेक-विवक्षया त्यज्यमानो रस-विशेषम् पुष्णाति ।
नात्रालङ्कार-द्वय-सन्निपातः, किं तर्हि ? अलङ्कारान्तरम् एव श्लेष-व्यतिरेक-लक्षणं नरसिंहवद् इति चेत्-न, तस्य प्रकारान्तरेण व्यवस्थापनात् । यत्र हि श्लेष-विषय एव शब्दे प्रकारान्तरेण व्यतिरेक-प्रतीतिर् जायते स तस्य विषयः । यथा-"स हरिर् नाम्ना देवः स-हरिर् वर-तुरग-निवहेन" इत्य् आदौ ।
अत्र ह्य् अन्य एव शब्दः श्लेषस्य विषयो ऽन्यश् च व्यतिरेकस्य । यदि चैवं-विधे विषये ऽलङ्कारान्तरत्व-कल्पना क्रियते तत्-संसृष्टेर् विषयापहार एव स्यात् । श्लेष-मुखेनैवात्र व्यतिरेकस्यात्म-लाभ इति नायं संसृष्टेर् विषय इति चेत्-न ; व्यतिरेकस्य प्रकारान्तरेणापि दर्शनात् । यथा-
नो कल्पापाय-वायोर् अदय-रय-दलत्-क्ष्माधरस्यापि शम्या
गाढोद्गीर्णोज्ज्वल-श्रीर् अहनि न रहिता नो तमः-कज्जलेन ।
प्राप्तोत्पत्तिः पतङ्गान् न पुनर् उपगता मोष-मुष्ण-त्विषो वो
वर्तिः सैवान्य-रूपा सुखयतु निखिल-द्वीप-दीपस्य दीप्तिः ॥
अत्र हि साम्य-प्रपञ्च-प्रतिपादनं विनैव व्यतिरेको दर्शितः । नात्र श्लेष-मात्राच् चारुत्व-प्रतीतिर् अस्तीति श्लेषस्य व्यतिरेकाङ्गत्वेनैव विवक्षितत्वात् न स्वतो ऽलङ्कारतेत्य् अपि न वाच्यम् ।
यत एवं-विधे विषये साम्य-मात्राद् अपि सुप्रतिपादिताच् चारुत्वं दृश्यत एव । यथा-
आक्रन्दाः स्तनितैर् विलोचन-जलान्य-श्रान्त-धाराम्बुधिस्
तद्-विच्छेद-भुवश् च शोक-शिखिनस् तुल्यास् तडिद्-विभ्रमैः ।
अन्तर् मे दयिता-मुखं तव शशी वृत्तिः समैवावयोस्
तत् किं माम् अनिशं सखे जल-धर त्वं दग्धुम् एवोद्यतः ॥[*15] इत्य् आदौ ।
[*15] स्र्क् 240, स्क्म् 993, यशोधर्मणः, स्म्व् 43.33.
रस-निर्वहणैक-तान-हृदयो यं च नात्यन्तं निर्वोढुम् इच्छति । यथा-
कोपात् कोमल-लोल-बाहु-लतिका-पाशेन बद्धा दृढं
नीत्वा वास-निकेतनं दयितया सायं सखीनां पुरः ।
भूयो नैवम् इति स्खलत्-कल-गिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निह्नुति-परः प्रेयान् रुदत्या हसन् ॥
अत्र हि रूपकम् आक्षिप्तम् अनिर्व्यूढं च परं रस-पुष्टये । निर्वोढुम् इष्टम् अपि यं यत्नाद् अङ्गत्वेन प्रत्यवेक्षते यथा-
श्यामास्वङ्गं चकित-हरिणी-प्रेक्षणे दृष्टि-पातं
गण्ड-च्छायां शशिनि शिखिनां बर्ह-भारेषु केशान् ।
उत्पश्यामि प्रतनुषु नदी-वीचिषु भ्रू-विलासान्
हन्तैक-स्थं क्वचिद् अपि न ते भीरु सादृश्यम् अस्ति ॥इत्य् आदौ ।
स एवम् उपनिबध्यमानो ऽलङ्कारो रसाभिव्यक्ति-हेतुः कवेर् भवति । उक्त-प्रकारातिक्रमे तु नियमेनैव रस-भङ्ग-हेतुः संपद्यते । लक्ष्यं च तथाविधं महा-कवि-प्रबन्धेष्व् अपि दृश्यते बहुशः । तत् तु सूक्ति-सहस्र-द्योतितात्मनां महात्मनां दोषोद्घोषणम् आत्मन एव दूषणं भवतीति न विभज्य दर्शितम् । किं तु रूपकादेर् अलङ्कार-वर्गस्य येयं व्यञ्जकत्वे रसादि-विषये लक्षण-दिग्-दर्शिता ताम् अनुसरन् स्वयं चान्यल् लक्षणम् उत्प्रेक्षमाणो यद्य् अलक्ष्य-क्रम-प्रतिभम् अनन्तरोक्तम् एनं ध्वनेर् आत्मानम् उपनिबध्नाति सुकविः समाहित-चेतास् तदा तस्यात्म-लाभो भवति महीयान् इति ॥ ध्व_2.18-19 ॥
ध्व्_2.20:
क्रमेण प्रतिभात्य् आत्मा यो ऽस्यानुस्वान-सन्निभः ।
शब्दार्थ-शक्ति-मूलत्वात् सो ऽपि द्वेधा व्यवस्थितः

2.20

अस्य विवक्षितान्य् अपर-वाच्यस्य ध्वनेः संलक्ष्य-क्रम-व्यङ्ग्यत्वाद् अनुरणन-प्रख्यो य आत्मा सो ऽपि शब्द-शक्ति-मूलो ऽर्थ-शक्ति-मूलश् चेति द्वि-प्रकारः

2.21

ननु शब्द-शक्त्या यत्रार्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते तद् इदानीं श्लेषस्य विषय एवापहृतः स्यात्, नापहृत इत्य् आह-
ध्व्_2.21:
आक्षिप्त एवालङ्कारः शब्द-शक्त्या प्रकाशते ।
यस्मिन्न् अनुक्तः शब्देन शब्द-शक्त्य्-उद्भवो हि सः

2.22

यस्माद् अलङ्कारो न वस्तु-मात्रं यस्मिन् काव्ये शब्द-शक्त्या प्रकाशते स शब्द-शक्त्य्-उद्भवो ध्वनिर् इत्य् अस्माकं विवक्षितम् । वस्तु-द्वये च शब्द-शक्त्या प्रकाशमाने श्लेषः । यथा-
येन ध्वस्त-मनोभवेन बलिजित्-कायः पुरास्त्री-कृतो
यश् चोद्वृत्त-भुजङ्ग-हार-वलयो गङ्गां च यो ऽधारयत् ।
यस्याहुः शशिमच् छिरो हर इति स्तुत्यं च नामामराः
पायात् स स्वयम् अन्धक-क्षय-करस् त्वां सर्वदो माधवः ॥
नन्व् अलङ्कारान्तर-प्रतिभायाम् अपि श्लेष-व्यपदेशो भवतीति दर्शितं भट्टोद्भटेन, तत् पुनर् अपि शब्द-शक्ति-मूलो ध्वनिर् निरवकाश इत्य् आशङ्क्येदम् उक्तम् "आक्षिप्त" इति । तद् अयम् अर्थः-यत्र शब्द-शक्त्या साक्षाद् अलङ्कारान्तरं वाच्यं सत् प्रतिभासते स सर्वः श्लेष-विषयः । यत्र तु शब्द-शक्त्या सामर्थ्याक्षिप्तं वाच्य-व्यतिरिक्तं व्यङ्ग्यम् एवालङ्कारान्तरं प्रकाशते स ध्वनेर् विषयः । शब्द-शक्त्या साक्षाद्-अलङ्कारान्तर-प्रतिभा यथा-
तस्या विनापि हारेण निसर्गाद् एव हारिणौ ।
जनयामासतुः कस्य विस्मयं न पयोधरौ ॥
अत्र शृङ्गार-व्यभिचारी विस्मयाख्यो भावः साक्षाद्-विरोधालङ्कारश् च प्रतिभासत इति विरोध-च्छायानुग्राहिणः श्लेषस्यायं विषयः । न त्व् अनुस्वानोपम-व्यङ्ग्यस्य ध्वनेः । अलक्ष्य-क्रम-व्यङ्ग्यस्य तु ध्वनेर् वाच्येन श्लेषेण विरोधेर् न वा व्यञ्जितस्य विषय एव ।
तस्या विनापि हारेण निसर्गाद् एव हारिणौ ।
जनयामासतुः कस्य विस्मयं न पयोधरौ ॥
अत्र शृङ्गार-व्यभिचारी विस्मयाख्यो भावः साक्षाद्-विरोधालङ्कारश् च प्रतिभासत इति विरोध-च्छायानुग्राहिणः श्लेषस्यायं विषयः । न त्व् अनुस्वानोपम-व्यङ्ग्यस्य ध्वनेः । अलक्ष्य-क्रम-व्यङ्ग्यस्य तु ध्वनेर् वाच्येन श्लेषेण विरोधेर् न वा व्यञ्जितस्य विषय एव ।
यथा ममैव-
श्लाघ्याशेष-तनुं सुदर्शन-करः सर्वाङ्ग-लीलाजित-
त्रैलोक्यां चरणारविन्द-ललितेनाक्रान्त-लोको हरिः ।
बिभ्राणां मुखम् इन्दु-सुन्दर-रुचं चन्द्रात्म-चक्षुर् दधत्
स्थाने यां स्वतनोर् अपश्यद् अधिकां सा रुक्मिणी वो ऽवतात् ॥
अत्र वाच्यतयैव व्यतिरेक-च्छायानुग्राही श्लेषः प्रतीयते । यथा च-
भ्रमिम् अरतिम् अलस-हृदयतां
प्रलयं मूर्च्छां तमः शरीर-सार्दम् ।
मरणं च जलद-भुज-गजं
प्रसह्य कुरुते विषं वियोगिनीनाम् ॥
यथा वा-
चमहिअ-माणस-कञ्चण-पङ्क-अणि म्महिअ-परिमला जस्स ।
अखण्डिअ-दाण-पसारा बाहु-प्पलिहा च्चिअ ग{इ}न्दा ॥
[खण्डित-मानस-काञ्चन-पङ्कजनिर् मथित-परिमला यस्य ।
अखण्डित-दान-प्रसरा बाहु-परिघा इव गजेन्द्राः ॥]
अत्र रूपक-च्छायानुग्राही श्लेषो वाच्यतयैवावभासते । स चाक्षिप्तो ऽलङ्कारो यत्र पुनः शब्दान्तरेणाभिहित-स्वरूपस् तत्र न शब्द-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्य-ध्वनि-व्यवहारः । तत्र वक्रोक्त्य्-आदि-वाच्यालङ्कार-व्यवहार एव । यथा-
दृष्ट्या केशव गोप-राग-हृतया किंचिन् न दृष्टं मया
तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे ।
एकस् त्वं विषमेषु खिन्न-मनसां सर्वाबलानां गतिर्
गोप्यैवं गदितः स-लेशम् अवताद् गोष्ठे हरिर् वश् चिरम् ॥
एवं-जातीयकः सर्व एव भवतु कामं वाच्य-श्लेषस्य विषयः । यत्र तु सामर्थ्याक्षिप्तं सद्-अलङ्कारान्तरं शब्द-शक्त्या प्रकाशते स सर्व एव ध्वनेर् विषयः । यथा-"अत्रान्तरे कुसुम-समय-युगम् उपसंहरन्न् अजृम्भत ग्रीष्माभिधानः फुल्ल-मल्लिका-धवलाट्ट-हासो महा-कालः" ।
यथा च-
उन्नतः प्रोल्लसद्-धारः कालागरुमलीमसः ।
पयोधरभरस्तन्व्याः कं न चक्रे ऽभिलाषिणम् ॥
यथा वा-
दत्तानन्दाः प्रजानां समुचित-समयाकृष्ट-सृष्टैः पयोभिः
पूर्वाह्णे विप्रकीर्णा दिशि दिशि विरमत्य् अह्नि संहार-भाजः ।
दीप्तांशोर् दीर्घ-दुःख-प्रभव-भव-भयोदन्वद्-उत्तार-नावो
गावो वः पावनानां परम-परिमितां प्रीतिम् उत्पादयन्तु ॥
एषूदाहरणेषु शब्द-शक्त्या प्रकाशमाने सत्य-प्राकरणिके ऽर्थान्तरे वाक्यस्यासम्बद्धार्थाभिधायित्वं मा प्रसाङ्क्षीद् इत्य् अप्राकरणिक-प्राकरणिकार्थयोर् उपमानोपमेय-भावः कल्पयितव्यः सामर्थ्याद् इत्य् अर्थाक्षिप्तो ऽयं श्लेषो न शब्दोपारूढ इति विभिन्न एव श्लेषाद् अनुस्वानोपम-व्यङ्ग्यस्य ध्वनेर् विषयः । अन्ये ऽपि चालङ्काराः शब्द-शक्ति-मूलानुस्वान-रूप-व्यङ्ग्ये ध्वनौ सम्भवन्त्य् एव । तथा हि विरोधो ऽपि शब्द-शक्ति-मूलानुस्वान-रूपो दृश्यते ।
यथा स्थाण्वीश्वराख्य-जनपद-वर्णने भट्ट-बाणस्य-
यत्र च मातङ्ग-गामिन्यः शीलवत्यश् च गौर्यो विभव-रताश् च श्यामाः पद्म-रागिण्यश् च धवल-द्विज-शुचि-वदना मदिरामोदिश्वसनाश् च प्रमदाः ।
अत्र हि वाच्यो विरोधस् तच्-छायानुग्राही वा श्लेषो ऽयम् इति न शक्यं वक्तुम् । साक्षाच्-छब्देन विरोधालङ्कारस्याप्रकाशितत्वात् । यत्र हि साक्षाच्-छब्दावेदितो विरोधालङ्कारस् तत्र हि श्लिष्टोक्तौ वाच्यालङ्कारस्य विरोधस्य श्लेषस्य वा विषयत्वम् । यथा तत्रैव-
"समवाय इव विरोधिनां पदार्थानाम् । तथा हि-सन्निहित-बालान्धकारापि भास्वन्-मूर्तिः" इत्य् आदौ ।
यथा वा ममैव-
सर्वैक-शरणम् अक्षयम् अधीशम् ईशं धियां हरिं कृष्णम् ।
चतुरात्मानं निष्क्रियम् अरि-मथनं नमत चक्र-धरम् ॥
अत्र हि शब्द-शक्ति-मूलानुस्वान-रूपो विरोधः स्फुटम् एव प्रतीयते । एवं-विधो व्यतिरेको ऽपि दृश्यते । यथा ममैव-
खं ये ऽत्युज्ज्वलयन्ति लून-तमसो ये वा नखोद्भासिनो
ये पुष्णन्ति सरोरुह-श्रियम् अपि क्षिप्ताब्ज-भासश् च ये ।
ये मूर्धस्व् अवभासिनः क्षिति-भृतां ये चामराणां शिरां-
स्याक्रामन्त्य् उभये ऽपि ते दिन-पतेः पादाः श्रिये सन्तु वः ॥
एवम् अन्ये ऽपि शब्द-शक्ति-मूलानुस्वान-रूप-व्यङ्ग्य-ध्वनि-प्रकाराः सन्ति ते सहृदयैः स्वयम् अनुसर्तव्याः । इह तु ग्रन्थ-विस्तर-भयान् न तत्-प्रपञ्चः कृतः ।
ध्व्_2.22:
अर्थ-शक्त्य्-उद्भवस् त्व् अन्यो यत्रार्थः स प्रकाशते ।
यस् तात्पर्येण वस्त्व् अन्यद् व्यनक्त्य् उक्तिं विना स्वतः

2.22

यत्रार्थः स्व-सामर्थ्याद् अर्थान्तरम् अभिव्यनक्ति शब्द-व्यापारं विनैव सो ऽर्थ-शक्त्य्-उद्भवो नामानुस्वानोपम-व्यङ्ग्यो ध्वनिः ।
यथा [कु.सं. 6.84]-
एवं वादिनि देवर्षौ पार्श्वे पितुर् अधोमुखी ।
लीला-कमल-पत्राणि गणयामास पार्वती ॥
अत्र हि लीला-कमल-पत्र-गणनम् उपसर्जनीकृत-स्वरूपं शब्द-व्यापारं विनैवार्थान्तरं व्यभिचारि-भाव-लक्षणं प्रकाशयति । न चायम् अलक्ष्य-क्रम-व्यङ्ग्यस्यैव ध्वनेर् विषयः । यतो यत्र साक्षच्-छब्द-निवेदितेभ्यो विभावानुभाव-व्यभिचारिभ्यो रसादीनां प्रतीतिः, स तस्य केवलस्य मार्गः । यथा कुमार-सम्भवे मधु-प्रसङ्गे वसन्त-पुष्पाभरणं वहन्त्या देव्या आगमनादि-वर्णनं मनोभव-शर-सन्धान-पर्यन्तं शम्भोश् च परिवृत्त-धैर्यस्य चेष्टा-विशेष-वर्णनादि साक्षच्-छब्द-निवेदितम् । तस्माद् अयम् अन्यो ध्वनेः प्रकारः ।
यत्र च शब्द-व्यापार-सहायो ऽर्थो ऽर्थान्तरस्य व्यञ्जकत्वेनोपादीयते स नास्य ध्वनेर् विषयः । यथा-
सङ्केत-काल-मनसं विटं ज्ञात्वा विदग्धया ।
हसन्-नेत्रार्पिताकूतं लीला-पद्मं निमीलितम् ॥
अत्र लीला-कमल-निमीलनस्य व्यञ्जकत्वम् उक्त्यैव निवेदितम्

2.23

तथा च-
ध्व्_2.23:
शब्दार्थ-शक्त्या क्षिप्तो ऽपि व्यङ्ग्यो ऽर्थः कविना पुनः ।
यत्राविष्क्रियते स्वोक्त्या सान्यैवालङ्कृतिर् ध्वनेः

2.23

शब्द-शक्त्यार्थ-शक्त्या शब्दार्थ-शक्त्या वाक्षिप्तो ऽपि व्यङ्ग्यो ऽर्थः कविना पुनर्यत्र स्वोक्त्या प्रकाशी-क्रियते सो ऽस्माद् अनुस्वानोपम-व्यङ्ग्याद् ध्वनेर् अन्य एवालङ्कारः ।
अलक्ष्य-क्रम-व्यङ्ग्यस्य वा ध्वनेः सति सम्भवे स तादृग् अन्यो ऽलङ्कारः ।
तत्र शब्द-शक्त्या यथा-
वत्से मा गा विषादं श्वसनम् उरुजवं सन्त्यजोर्ध्व-प्रवृत्तं
कम्पः को वा गुरुस् ते भवतु बलभिदा जृम्भितेनात्र याहि ।
प्रत्याख्यानं सुराणाम् इति भय-शमन-च्छद्मना कारयित्वा
यस्मै लक्ष्मी-मदाद् वः स दहतु दुरितं मन्थ-मूढां पयोधिः ॥
अर्थ-शक्त्या यथा-
अम्बा शेते ऽत्र वृद्धा परिणत-वयसाम् अग्रणीर् अत्र तातो
निःशेषागार-कर्म-श्रम-शिथिल-तनुः कुम्भ-दासी तथात्र ।
अस्मिन् पापाहम् एका कतिपय-दिवस-प्रोषित-प्राणनाथा
पान्थायेत्थं तरुण्या कथितम् अवसर-व्याहृति-व्याज-पूर्वम् ॥
उभय-शक्त्या, यथा-"दृष्ट्या केशव-गोप-राग-हृतया" इत्य् आदौ

2.24

ध्व्_2.24:
प्रौढोक्ति-मात्र-निष्पन्न-शरीरः सम्भवी स्वतः ।
अर्थो ऽपि द्विविधो ज्ञेयो वस्तुनो ऽन्यस्य दीपकः

2.24

अर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्ये ध्वनौ यो व्यञ्जको ऽर्थ उक्तस् तस्यापि द्वौ प्रकारौ-कवेः कवि-निबद्धस्य वा वक्तुः प्रौढोक्ति-मात्र-निष्पन्न-शरीर एकः, स्वतः-सम्भवी च द्वितीयः ।
कवि-प्रौढोक्ति-मात्र-निष्पन्न-शरीरो यथा-
सज्जेहि सुरहि-मासो ण दाव
अप्पेइ जुव{इ}-जण-लक्ख-सुहे ।
अहिणव-सहआर-मुहे
णव-पत्तले अणङ्गस्स सरे ॥
(सज्जयति सुरभि-मासो न तावद्
अर्पयति युवति-जन-लक्ष्य-सहान् ।
अभिनव-सहकार-मुखान्
नव-पत्रलान् अनङ्गस्य शरान् ॥)
कवि-निबद्ध-वक्तृ-प्रौढोक्ति-मात्र-निष्पन्न-शरीरो यथोदाहृतम् एव-"शिखरिणि" इत्य् आदि । यथा वा-
सादर-वितीर्ण-यौवन-हस्तालम्बं समुन्नमद्भ्याम् ।
अभ्युत्थानम् इव मन्मथस्य दत्तं तव स्तनाभ्याम् ॥
स्वतः सम्भवी य औचित्येन बहिर् अपि सम्भाव्यमान-सद्-भावो न केवलं भणिति-वशेनैवाभिनिष्पन्न-शरीरः । यथोदाहृतम् "एवं-वादिनि" इत्य् आदि । यथा वा-
शिखि-पिच्छ-कर्ण-पूरा जाया व्याधस्य गर्विणी भ्रमति ।
मुक्ता-फल-रचित-प्रसाधनानां मध्ये सपत्नीनाम्

2.25

ध्व्_2.25:
अर्थ-शक्तेर् अलङ्कारो यत्राप्य् अन्यः प्रतीयते ।
अनुस्वानोपम-व्यङ्ग्यः स प्रकारो ऽपरो ध्वनेः

2.25

वाच्यालङ्कार-व्यतिरिक्तो यत्रान्यो ऽलङ्कारो ऽर्थ-सामर्थ्यात् प्रतीयमानो ऽवभासते सो ऽर्थ-शक्त्य्-उद्भवो नामानुस्वान-रूप-व्यङ्ग्यो ऽन्यो ध्वनिः

2.26

तस्य प्रविरल-विषयत्वम् आशङ्क्येदम् उच्यते-
ध्व्_2.26:
रूपकादिर् अलङ्कार-वर्गो यो वाच्यतां श्रितः ।
स सर्वो गम्यमानत्वं बिभ्रद् भूम्ना प्रदर्शितः

2.26

अन्यत्र वाच्यत्वेन प्रसिद्धो यो रूपकादिर् अलङ्कारः सो ऽन्यत्र प्रतीयमानतया बाहुल्येन प्रदर्शितस् तत्रभवद्भिर् भट्टोद्भटादिभिः । तथा च स-सन्देहादिषूपमा-रूपकातिशयोक्तीनां प्रकाशमानत्वं प्रदर्शितम् इत्य् अलङ्कारान्तरस्यालङ्कारान्तरे व्यङ्ग्यत्वं न यत्न-प्रतिपाद्यम्

2.27

इयत् पुनर् उच्यत एव-
ध्व्_2.27:
अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।
तत्-परत्वं न वाच्यस्य नासौ मार्गो ध्वनेर् मतः

2.27

अलङ्कारान्तरेषु त्व् अनुरणन-रूपालङ्कार-प्रतीतौ सत्याम् अपि यत्र वाच्यस्य व्यङ्ग्य-प्रतिपादनौन्मुख्येन चारुत्वं न प्रकाशते नासौ ध्वनेर् मार्गः । तथा च दीपकादाव् अलङ्कारे उपमाया गम्यमानत्वे ऽपि तत्परत्वेन चारुत्वस्याव्यवस्थानान् न ध्वनि-व्यपदेशः । यथा-
चन्द-मऊएहिं णिमा णलिनी कमलेहिं कुसुम-गुच्छेहिं लआ ।
हंसेहिं सरअ-सोहा कव्व-कहा सज्जनेहिं कर{इ} गरुई ॥
[चन्द्र-मयूखैर् निशा नलिनी कमलैः कुसुम-गुच्छैर् लता ।
हंसैः शारद-शोभा काव्य-कथा सज्जनैः क्रियते गुर्वी ॥]
इत्य् आदिषूपमा-गर्भत्वे ऽपि सति वाच्यालङ्कार-मुखेनैव चारुत्वं व्यवतिष्ठते न व्यङ्ग्यालङ्कार-तात्पर्येण । तस्मात् तत्र वाच्यालङ्कार-मुखेनैव काव्य-व्यपदेशो न्याय्यः । यत्र तु व्यङ्ग्य-परत्वेनैव वाच्यस्य व्यवस्थानं तत्र व्यङ्ग्य-मुखेनैव व्यपदेशो युक्तः । यथा-
प्राप्त-श्रीर् एष कस्मात् पुनर् अपि मयि तं मन्थ-खेदं विदध्यान्
निद्राम् अप्य् अस्य पूर्वाम् अनल-मनसो नैव सम्भावयामि ।
सेतुं बध्नाति भूयः किम् इति च सकल-द्वीप-नाथानुयातस्
त्वय्य् आयाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः ॥
यथा वा ममैव-
लावण्य-कान्ति-परिपूरित-दिङ्-मुखे ऽस्मिन्
स्मेरे ऽधुना तव मुखे तरलायताक्षि ।
क्षोभं यदेति न मनाग् अपि तेन मन्ये
सुव्यक्तम् एव जल-राशिर् अयं पयोधिः ॥
इत्य् एवं-विधे विषये ऽनुरणन-रूप-रूपकाश्रयेण काव्य-चारुत्व-व्यवस्थानाद् रूपक-ध्वनिर् इति व्यपदेशो न्याय्यः ।
उपमा-ध्वनिर्, यथा-
वीराणं रम{इ} घुसिणारुणम्मि ण तहा पिआ-थणुच्छङ्गे ।
दिट्ठी रिउ-गअ-कुम्भ-त्थलम्मि जह बहल-सिन्दूरे ॥
[वीराणां रमते घुसृणारुणे न तथा प्रिया-स्तनोत्सङ्गे ।
दृष्टी रिपु-गज-कुम्भ-स्थले यथा बहल-सिन्दूरे ॥]
यथा वा ममैव विषम-बाण-लीलायाम् असुर-पराक्रमणे कामदेवस्य-
तं ताणं सिरि-सहोअर-रअणाहरणम्मि हिअअम् एक्क-रसम् ।
बिम्बाहरे पिआणं निवेसिअं कुसुम-बाणेन ॥[*16]
[*16] सुप्प्लेमेन्त् 982 तो गाहा-सत्तसाइ.
[तत् तेषां श्री-सहोदर-रत्नाहरणे हृदयम् एक-रसम् ।
बिम्बाधरे प्रियाणां निवेशितं कुसुम-बाणेन ॥]
आक्षेप-ध्वनिर्, यथा-
स वक्तुम् अखिलाञ् शक्तो हयग्रीवाश्रितान् गुणान् ।
यो ऽम्बु-कुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ॥
अत्रातिशयोक्त्या हयग्रीव-गुणानाम् अवर्णनीयता-प्रतिपादन-रूपस्यासाधारण-तद्-विशेष-प्रकाशन-परस्याक्षेपस्य प्रकाशनम् ।
अर्थान्तरन्यास-ध्वनिः शब्द-शक्ति-मूलानुरणन-रूप-व्यङ्ग्यो ऽर्थ-शक्ति-मूलानुरणन-रूप-व्यङ्ग्यश् च सम्भवति । तत्राद्यस्योदाहरणम्-
देवाएत्तम्मि फले किं कीर{इ} एत्तिअं पुणा भणिमो ।
कङ्किल्ल-पल्लवाः पल्लवाणं अण्णाणं ण सरिच्छा ॥
[दैवायत्ते फले किं क्रियताम् एतावत् पुनर् भणामः ।
रक्ताशोक-पल्लवाः पल्लवानाम् अन्येषां न सदृशाः ॥]
पद-प्रकाशश् चायं ध्वनिर् इति वाक्यस्यार्थान्तर-तात्पर्ये ऽपि सति न विरोधः । द्वितीयस्योदाहरणं यथा-
हिअअ-ट्ठाबिअ-मण्णुं अबरुण्ण-मुहं हि मं पसाअन्त ।
अबरद्धस्स बि ण हु दे बहु-जाणअ रोसिउं सक्कं ॥
[हृदय-स्थापित-मन्युम् अपरोष-मुखीम् अपि मां प्रसादयन् ।
अपराद्धस्यापि न खलु ते बहुज्ञ रोषितुम् शक्यम् ॥]
अत्र हि वाच्य-विशेषेण सापराधस्यापि बहुज्ञस्य कोपः कर्तुम् अशक्य इति समर्थकं सामान्यम् अन्वितम् अन्यत् तात्पर्येण प्रकाशते ।
व्यतिरेक-ध्वनिर् अप्य् उभय-रूपः सम्भवति । तत्राद्यस्योदाहरणं प्राक्-प्रदर्शितम् एव । द्वितीयस्योदाहरणं यथा-
जाएज्ज वनुद्देसे खुज्ज ब्बिअ पाअबो गडिअ-बत्तो ।
मा मानुसम्मि लोए ताएक्क-रसो दरिद्दो अ ॥
[जायेय वनोद्देशे कुब्ज एव पादपो गलित-पत्रः ।
मा मानुषे लोके त्यागैक-रसो दरिद्रश् च ॥]
अत्र हि त्यागैक-रसस्य दरिद्रस्य जन्मानभिनन्दनं त्रुटित-पत्र-कुब्ज-पादप-जन्माभिनन्दनं च साक्षाच्-छब्द-वाच्यम् । तथाविधाद् अपि पादपात् तादृशस्य पुंस उपमानोपमेयत्व-प्रतीति-पूर्वकं शोच्यतायाम् आधिक्यं तात्पर्येण प्रकाशयति ।
उत्प्रेक्षा-ध्वनिर् यथा-
चन्दनासक्त-भुजग-निःश्वासानिल-मूर्च्छितः ।
मूर्च्छयत्य् एष पथिकान् मधौ मलय-मारुतः ॥
अत्र हि मधौ मलय-मारुतस्य पथिक-मूर्च्छाकारित्वं मन्मथोन्माथ-दायित्वेनैव ।
तत् तु चन्दनासक्त-भुजग-निःश्वासानिल-मूर्च्छितत्वेनोत्प्रेक्षितम् इत्य् उत्प्रेक्षा साक्षाद् अनुक्तापि वाक्यार्थ-सामर्थ्याद् अनुरणन-रूपा लक्ष्यते । न चैवं-विधे विषये इवादि-शब्द-प्रयोगम् अन्तरेणासंबद्धतैवेति शक्यते वक्तुम् । गमकत्वाद् अन्यत्रापि तद्-अप्रयोगे तद्-अर्थावगति-दर्शनात् । यथा-
ईसा-कलुसस्स बि तुह मुहस्स णं एस पुण्णिमा-चन्दो ।
अज्ज सरिसत्तणं पाबिऊण अङ्गे बिअ ण माइ ॥
ईर्ष्या-कलुषस्यापि तव मुखस्य नन्व् एष पूर्णिमा-चन्द्रः ।
अद्य सदृशत्वं प्राप्याङ्ग एव न माति ॥
यथा वा-
त्रासाकुलः परिपतन् परितो निकेतान्
पुंभिर् न कैश्चिद् अपि धन्विभिर् अन्वबन्धि ।
तस्थौ तथापि न मृगः क्वचिद् अङ्ग-नाभिर्
आकर्ण-पूर्ण-नयनेषु-हतेक्षण-श्रीः ॥
शब्दार्थ-व्यवहारे च प्रसिद्धिर् एव प्रमाणम् ।
श्लेष-ध्वनिर् यथा-
रम्या इति प्राप्तवतीः पताकाः रागं विविक्ता इति वर्धयन्तीः ।
यस्याम् असेवन्त नमद्-वलीकाः समं वधूभिर् वलभीर् युवानः ॥
अत्र वधूभिः सह वलभीरसेवन्तेति वाक्यार्थ-प्रतीतेर् अनन्तरं वध्व इव वलभ्य इति श्लेष-प्रतीतिर् अशब्दाप्य् अर्थ-सामर्थ्यान् मुख्यत्वेन वर्तते ।
यथा-सङ्ख्य-ध्वनिर् यथा-
अङ्कुरितः पल्लवितः कोरकितः पुष्पितश् च सहकारः ।
अङ्कुरितः पल्लवितः कोरकितः पुष्पितश् च हृदि मदनः ॥
अत्र हि यथोद्देशम् अनूद्देशे यच् चारुत्वम् अनुरणन-रूपं मदन-विशेषण-भूताङ्कुरितादि-शब्द-गतं तन्-मदन-सहकारयोस् तुल्य-योगिता-समुच्चय-लक्षणाद् वाच्याद् अतिरिच्यमानम् आलक्ष्यते । एवम् अन्ये ऽप्य् अलङ्कारा यथायोगं योजनीयाः

2.28

एवम् अलङ्कार-ध्वनि-मार्गं व्युत्पाद्य तस्य प्रयोजनवत्तां ख्यापयितुम् इदम् उच्यते-
ध्व्_2.28:
शरीरीकरणं येषां वाच्यत्वे न व्यवस्थितम् ।
ते ऽलङ्काराः परां छायां यान्ति ध्वन्यङ्गतां गतः

2.28

ध्वन्य्-अङ्गता चोभाभ्यां प्रकाराभ्यां व्यञ्जकत्वेन व्यङ्ग्यत्वेन च । तत्रेह प्रकरणाद् व्यङ्ग्यत्वेनेत्य् अवगन्तव्यम् । व्यङ्ग्यत्वे ऽप्य् अलङ्काराणां प्राधान्य-विवक्षायाम् एव सत्यां ध्वनाव् अन्तः-पातः । इतरथा तु गुणीभूत-व्यङ्ग्यत्वं प्रतिपादयिष्यते

2.29

अङ्गित्वेन व्यङ्ग्यतायाम् अपि । अलङ्काराणां द्वयी गतिः-कदाचिद् वस्तु-मात्रेण व्यज्यन्ते, कदाचिद् अलङ्कारेण । तत्र-
ध्व्_2.29:
व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तया ।
ध्रुवं ध्वन्यङ्गता तासां . . . . . . . .
अत्र हेतुः-
. . . . . . . . काव्य-वृत्तिस् तद्-आश्रया

2.29

यस्मात् तत्र तथाविध-व्यङ्ग्यालङ्कार-परत्वेनैव काव्यं प्रवृत्तम् । अन्यथा तु तद्-वाक्य-मात्रम् एव स्यात्

2.30

तासाम् एवालङ्कृतीनाम्-
ध्व्_2.30:
अलङ्कारान्तर-व्यङ्ग्य-भावे . . . . . . . .
पुनः,
. . . . . . . . ध्वन्य्-अङ्गता भवेत् ।
चारुत्वोत्कर्षतो व्यङ्ग्य-प्राधान्यं यदि लक्ष्यते

2.30

उक्तं ह्य् एतत्-"चारुत्वोत्कर्ष-निबन्धना वाच्य-व्यङ्ग्ययोः प्राधान्य-विवक्षा" इति ।
वस्तु मात्र-व्यङ्ग्यत्वे चालङ्काराणाम् अनन्तरोपदर्शितेभ्य एवोदाहरणेभ्यो विषय उन्नेयः । तद् एवम् अर्थ-मात्रेणालङ्कार-विशेष-रूपेण वार्थेनार्थान्तरस्यालङ्कारस्य वा प्रकाशने चारुत्वोत्कर्ष-निबन्धने सति प्राधान्ये ऽर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्यो निरवगन्तव्यः

2.31

एवं ध्वनेः प्रभेदान् प्रतिपाद्य तद्-आभास-विवेकं कर्तुम् उच्यते-
ध्व्_2.31:
यत्र प्रतीयमानो ऽर्थः प्रम्लिष्टत्वेन भासते ।
वाच्यस्याङ्गतया वापि नास्यासौ गोचरो ध्वनेः

2.31

द्विविधो ऽपि प्रतीयमानः स्फुटो ऽस्फुटश् च । तत्र य एव स्फुटः शब्द-शक्त्यार्थ-शक्त्या वा प्रकाशते स एव ध्वनेर् मार्गो नेतरः । स्फुटो ऽपि यो ऽभिधेयस्याङ्गत्वेन प्रतीयमानो ऽवभासते सो ऽस्यानुरणन-रूप-व्यङ्ग्यस्य ध्वनेर् अगोचरः । यथा-
कमलाअरा ण मलिआ हंसा उड्डाबिआ ण अ पिउच्छा ।
केण बि गाम-तडाए अब्भं उत्ताणअं फलिहम् ॥
[कमलाकरा न मलिता हंसा उड्डायिता न च पितृ-श्वसः ।
केनापि ग्राम-तटाके ऽभ्रम् उत्तानितं क्षिप्तम् ॥]
अत्र हि प्रतीयमानस्य मुग्ध-वध्वा जलधर-प्रतिबिम्ब-दर्शनस्य वाच्याङ्गत्वम् एव ।
एवं-विधे विषये ऽन्यत्रापि यत्र व्यङ्ग्यापेक्षया वाच्यस्य चारुत्वोत्कर्ष-प्रतीत्या प्राधान्यम् अवसीयते, तत्र व्यङ्ग्यस्याङ्गत्वेन प्रतीतेर् ध्वनेर् अविषयत्वम् । यथा-
वाणरि-कुडङ्गोड्डीण-स{उ}नि-कोलाहलं सुणन्तीए ।
घर-कम्म-वावडाए बहुए सीअन्ति अङ्गाइं ॥[*17]
[*17] सुप्प्लेमेन्त् 868 तो गाहा-सत्तसाइ.
[वेतस-लता-गहनोड्डीन-शकुनि-कोलाहलं शृण्वत्याः ।
गृह-कर्म-व्यापृताया वध्वाः सीदन्त्य् अङ्गानि ॥]
एवं-विधो हि विषयः प्रायेण गुणीभूत-व्यङ्ग्यस्योदाहरणत्वेन निर्देक्ष्यते । यत्र तु प्रकरणादि-प्रतिपत्त्या निर्धारित-विशेषो वाच्यो ऽर्थः पुनः प्रतीयमानाङ्ग-त्वेनैवावभासते सो ऽस्यैवानुरणन-रूप-व्यङ्ग्यस्य ध्वनेर् मार्गः । यथा-
उच्चिनसु पडिअं कुसुमं मा धुण सेहालिअं हलिअ-सुह्णे ।
अह दे विसम-विरावो ससुरेण सुओ वलअ-सद्दो ॥
[उच्चिनु पतितं कुसुमं मा धुनीहि शेफालिकां हालिक-स्नुषे ।
एष ते विषम-विपाकः श्वसुरेण श्रुतो वलय-शब्दः ॥]
अत्र ह्य् अविनय-पतिना सह रममाणा सखी बहिः-श्रुत-वलय-कल-कलया सख्या प्रतिबोध्यते । एतद् अपेक्षणीयं वाच्यार्थ-प्रतिपत्तये । प्रतिपन्ने च वाच्ये ऽर्थे तस्याविनय-प्रच्छादन-तात्पर्येणाभिधीयमानत्वात् पुनर् व्यङ्ग्याङ्गत्वम् एवेत्य् अस्मिन्न् अनुरणन-रूप-व्यङ्ग्य-ध्वनावन्तर्-भावः

2.32

एवं विवक्षित-वाच्यस्य ध्वनेस् तद्-आभास-विवेके प्रस्तुते सत्य-विवक्षित-वाच्यस्यापि तं कर्तुम् आह-
ध्व्_2.32:
अव्युत्पत्तेर् अशक्तेर् वा निबन्धो यः स्खलद्-गतेः ।
शब्दस्य स च न ज्ञेयः सूरिभिर् विषयो ध्वनेः

2.33

स्खलद्-गतेर् उपचरितस्य शब्दस्याव्युत्पत्तेर् अशक्तेर् वा निबन्धो यः स च न ध्वनेर् विषयः । यतः-
ध्व्_2.33:
सर्वेष्व् एव प्रभेदेषु स्फुटत्वेनावभासनम् ।
यद् व्यङ्ग्यस्याङ्गि-भूतस्य तत् पूर्णं ध्वनि-लक्षणम्

2.33

तच् चोदाहृत-विषयम् एव

मूल पाठ: Dhvanyāloka (also known as Sahṛdayaloka) · Edition: K. Krishnamoorthy, Delhi: Motilal Banarsidass, 1982. · Data entry Rajani Arjun Shankar Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc