ध्वन्यालोक · अध्याय 3
इति श्री-राजानकानन्द-वर्धनाचार्य-विरचिते ध्वन्य्-आलोके द्वितीय उद्द्योतः ॥
-ओ)0(ओ-
(3)
तृतीयिद्द्योतः
ध्व्_3.1:
एवं व्यङ्ग्य-मुखेनैव ध्वनेः प्रदर्शिते स-प्रभेदे स्वरूपे पुनर् व्यञ्जक-मुखेनैतत् प्रकाश्यते-
अविवक्षित-वाच्यस्य पद-वाक्य-प्रकाशता ।
तद्-अन्यस्यानुरणन-रूप-व्यङ्ग्यस्य च ध्वनेः
अविवक्षित-वाच्यस्यात्यन्त-तिरस्कृत-वाच्ये प्रभेदे पद-प्रकाशता यथा महर्षेर् व्यासस्य-सप्तैताः समिधः श्रियः । यथा वा कालिदासस्य-कः सन्नद्धे विरह-विधुरां त्वय्य् उपेक्षेत जायाम् । यथा वा-किम् इव हि मधुराणां मण्डनं नाकृतीनाम् । एषूदाहरणेषु "समिध" इति, "सन्नद्ध" इति, "मधुराणाम्" इति च पदानि व्यञ्जकत्वाभिप्रायेणैव कृतानि ।
तस्यैवार्थान्तर-सङ्क्रमित-वाच्ये यथा-रामेण प्रिय-जीवितेन तु कृतं प्रेम्णः प्रिये नोचितम् । अत्र रामेणेत्य् एतत्-पदं समसाहसैक-रसत्वादि-व्यङ्ग्याभिसङ्क्रमित-वाच्यं व्यञ्जकम् ।
यथा वा-
एमेअ जणो तिस्सा देउ कबोलोपमाइ ससि-बिम्बं ।
परमत्थ-विआरे उण चन्दो चन्दो बिअ वराओ ॥
[एवम् एव जनस् तस्या ददाति कपोलोपमायां शशि-बिम्बम् ।
परमार्थ-विचारे पुनश् चन्द्रश् चन्द्र इव वराकः ॥]
अत्र द्वितीयश् चन्द्र-शब्दो ऽर्थान्तर-सङ्क्रमित-वाच्यः ।
अविवक्षित-वाच्यस्यात्यन्त-तिरस्कृत-वाच्ये प्रभेदे वाक्य-प्रकाशता यथा-
या निशा सर्व-भूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥
अनेन हि वाक्येन निशार्थो न च जागरणार्थः कश्चिद् विवक्षितः । किं तर्हि ? तत्त्व-ज्ञानावहितत्वम् अतत्त्व-पराङ्मुखत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृत-वाच्यस्यास्य व्यञ्जकत्वम् ।
तस्यैवार्थान्तर-सङ्क्रमित-वाच्यस्य वाक्य-प्रकाशता यथा-
विसम{इ}ओ च्चिअ काण बि काण बि बोलेइ अमिअणिम्माओ ।
काण बि बिसामिअमओ काण बि अबिसामओ कालो ॥
[विषम् अयितः केषाम् अपि केषाम् अपि प्रयात्य् अमृत-निर्माणः ।
केषाम् अपि विषामृत-मयः केषाम् अप्य् अविषामृतः कालः ॥]
अत्र हि वाक्ये विषामृत-शब्दाभ्यां दुःख-सुख-रूप-सङ्क्रमित-वाच्याभ्यां व्यवहार इत्य् अर्थान्तर-सङ्क्रमित-वाच्यस्य व्यञ्जकत्वम् ।
विवक्षिताभिधेयस्यानुरणन-रूप-व्यङ्ग्यस्य शब्द-शक्त्य्-उद्भवे प्रभेदे पद-प्रकाशता यथा-
प्रातुं धनैर् अर्थि-जनस्य वाञ्छां
दैवेन सृष्टो यदि नाम नास्मि ।
पथि प्रसन्नाम्बुधरस् तडागः
कूपो ऽथवा किं न जडः कृतो ऽहम् ॥
अत्र हि जड इति पदं निर्विण्णेन वक्रात्म-समानाधिकरणतया प्रयुक्तम् अनुरणन-रूपतया कूप-समानाधिकरणतां स्व-शक्त्या प्रतिपद्यते । तस्यैव वाक्य-प्रकाशता यथा हर्ष-चरिते सिंह-नाद-वाक्येषु-"वृत्ते ऽस्मिन् महा-प्रलये धरणी-धारणायाधुना त्वं शेषः" । एतद् धि वाक्यम् अनुरणन-रूपम् अर्थान्तरं शब्द-शक्त्या स्फुटम् एव प्रकाशयति ।
अस्यैव कवि-प्रौढोक्ति-मात्र-निष्पन्न-शरीरस्यार्थ-शक्त्य्-उद्भवे प्रभेदे पद-प्रकाशतया, यथा हरि-विजये-
चूअंकुराबअंसं छण-पसर-
महग्घण-मण-हर-सुरामोअं ।
असमप्पिअं पि गहिअं कुसुम-
सरेण महु-मास-लच्छि-मुहं ॥
[चूताङ्कुरावतंसं क्षण-प्रसर-
महार्घ-मनोहर-सुरामोदम् ।
असमर्पितम् अपि गृहीतं कुसुम-
शरेण मधु-मास-लक्ष्मी-मुखम् ॥]
अत्र ह्य् असमर्पितम् अपि कुसुम-शरेण मधु-मास-लक्ष्म्या मुखं गृहीतम् इत्य् असमर्पितम् अपीत्य् एतद् अवस्थाभिधायि-पदम् अर्थ-शक्त्या कुसुमशरस्य बलात्-कारं प्रकाशयति ।
अत्रैव प्रभेदे वाक्य-प्रकाशता यथोदाहृतं प्राक् "सज्जयति सुरभिमासो" इत्य् आदि ।
अत्र सज्जयति सुरभि-मासो न तावद् अर्पयत्य् अनङ्गाय शरान् इत्य् अयं वाक्यार्थः कवि-प्रौढोक्ति-मात्र-निष्पन्न-शरीरो मन्मथोन्माथ-कदनावस्थां वसन्त-समयस्य सूचयति ।
स्वतः-सम्भवि-शरीरार्थ-शक्त्य्-उद्भवे प्रभेदे पद-प्रकाशता यथा-
वाणिअअ हत्थि-दन्ता कुत्तो अम्हाणं बाघ-कित्ती अ ।
जाव लुलिआलअ-मुही घरम्मि परिसक्कए सुण्हा ॥
[वाणिजक हस्ति-दन्ताः कुतो ऽस्माकं व्याघ्र-कृत्तयश् च ।
यावल् लुलितालक-मुखी गृहे परिष्वक्कते स्नुषा ॥]
अत्र लुलितालक-मुखीत्य् एतत्-पदं व्याध-वध्वाः स्वतः-सम्भावित-शरीरार्थ-शक्त्या सुरत-क्रीडासक्तिं सूचयंस् तदीयस्य भर्तुः सतत-सम्भोग-क्षामतां प्रकाशयति ।
तस्यैव वाक्य-प्रकाशता, यथा-
सिहि-पिच्छ-कण्ण-ऊरा बहुआ बाहस्स गब्बिरी भम{इ} ।
मुत्ता-फल-र{इ}अ-पसाहणाणं मज्झे सबत्तीणं ॥
[शिखि-पिच्छ-कर्ण-पूरा जाया व्याधस्य गर्विणी भ्रमति ।
मुक्ता-फल-रचित-प्रसाधनानां मध्ये सपत्नीनाम् ॥]
अनेनापि वाक्येन व्याध-वध्वाः शिखि-पिच्छि-कर्ण-पूराया नव-परिणीतायाः कस्याश्चित् सौभाग्यातिशयः प्रकाश्यते । तत्-सम्भोगैक-रतो मयूर-मात्र-मारण-समर्थः पतिर् जात इत्य् अर्थ-प्रकाशनात् तद् अन्यासां चिर-परिणीतानां मुक्ता-फल-रचित-प्रसाधनानां दौर्भाग्यातिशयः ख्याप्यते । तत् स-सम्भोग-काले स एव व्याधः करि-वर-वधव्यापार-समर्थ आसीद् इत्य् अर्थ-प्रकाशनात् ।
ननु काव्य-विशेषो ध्वनिर् इत्य् उक्तं तत् कथं तस्य पद-प्रकाशता ? काव्य-विशेषो हि विशिष्तार्थ-प्रतिपत्ति-हेतुः शब्द-सन्दर्भ-विशेषः । तद्-भावश् च पद-प्रकाशत्वे नोपपद्यते, पदानां स्मारकत्वेनावाचकत्वात् । उच्यते-"स्याद् एष दोषः यदि वाचकत्वं प्रयोजकं ध्वनि-व्यवहारे स्यात् ।" न त्व् एवम् ; तस्य व्यञ्जकत्वेन व्यवस्थानात् । किं च काव्यानां शरीराणाम् इव संस्थान-विशेषावच्छिन्न-समुदाय-साध्यापि चारुत्व-प्रतीतिर् अन्वय-व्यतिरेकाभ्यां भागेषु कल्प्यत इति पदानाम् अपि व्यञ्जकत्व-मुखेन व्यवस्थितो ध्वनि-व्यवहारो न विरोधी ।
अनिष्टस्य श्रुतिर् यद्वद् आपादयति दुष्टताम् ।
श्रुति-दुष्टादिषु व्यक्तं तद्वद् इष्ट-स्मृतिर् गुणम् ॥
पदानां स्मारकत्वे ऽपि पद-मात्रावभासिनः ।
तेन ध्वनेः प्रभेदेषु सर्वेष्व् एवास्ति रम्यता ॥
विच्छित्ति-शोभिनैकेन भूषणेनेव कामिनी ।
पद-द्योत्येन सुकवेर् ध्वनिना भाति भारती ॥
इति परिकर-श्लोकाः
ध्व्_3.2:
यस् त्व् अलक्ष्य-क्रम-व्यङ्ग्यो ध्वनिर् वर्ण-पदादिषु ।
वाक्ये सङ्घटनायां च स प्रबन्धे ऽपि दीप्यते
तत्र वर्णानाम् अनर्थकत्वाद् द्योतकत्वम् असम्भवीत्य् आशङ्क्येदम् उच्यते-
ध्व्_3.3-4:
शषौ स-रेफ-संयोगो ढकारश् चापि भूयसा ।
विरोधिनः स्युः शृङ्गारे ते न वर्णा रस-च्युतः
त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा ।
तदा तं दीपयन्त्य् एव ते न वर्णा रस-च्युतः
श्लोक-द्वयेनान्वय-व्यतिरेकाभ्यां वर्णानां द्योतकत्वं दर्शितं भवति । पदे चालक्ष्य-क्रम-व्यङ्ग्यस्य द्योतनं यथा-
उत्कम्पिनी भय-परिस्खलितांशुकान्ता
ते लोचने प्रतिदिशं विधुरे क्षिपन्ती ।
क्रूरेण दारुणतया सहसैव दग्धा
धूमान्धितेन दहनेन न वीक्षितासि ॥
अत्र हि ते इत्य् एतत् पदं रसमयत्वेन स्फुटम् एवावभासते सहृदयानाम् । यथा वा-
झगिति कनक-चित्रे तत्र दृष्टे कुरङ्गे
रभस-विलसितास् ते दृष्टि-पाताः प्रियायाः ।
पवन-विलुलितानाम् उत्पलानां पलाश-
प्रकरम् इव किरन्तः स्मर्यमाणा दहन्ति ॥[*18]
[*18] नोत् fओउन्द् इन् अल्ल् एदितिओन्स्.
पदावयवेन द्योतनं यथा-
व्रीडा-योगान् नत-वदनया सन्निधाने गुरूणां
बद्धोत्कम्पं कुच-कलशयोर् मन्युम् अन्तर् निगृह्य ।
तिष्ठेत्य् उक्तं किम् इव न तया यत् समुत्सृज्य बाष्पं
मय्य् आसक्तश् चकित-हरिणी-हारि-नेत्र-त्रिभागः ॥
इत्य् अत्र त्रिभाग-शब्दः ।
वाक्य-रूपश् चालक्ष्य-क्रम-व्यङ्ग्यो ध्वनिः शुद्धो ऽलङ्कार-सङ्कीर्णश् चेति द्विधा मतः ।
तत्र शुद्धस्योदाहरणं यथा रामाभ्युदये-"कृतक-कुपितैः" इत्य् आदि श्लोकः ।
एतद् धि वाक्यं परस्परानुरागं परिपोष-प्राप्तं प्रदर्शयत् सर्वत एव परं रस-तत्त्वं प्रकाशयति ।
अलङ्कारान्तर-सङ्कीर्णो, यथा-"स्मर-नव-नदी-पूरेणोढाः" इत्य् आदि-श्लोकः । अत्र हि रूपकेण यथोक्त-व्यञ्जक-लक्षणानुगतेन प्रसाधितो रसः सुतराम् अभिव्यज्यते ॥ ध्व_3.3-4 ॥
--ओ)0(ओ--
अलक्ष्य-क्रम-व्यङ्ग्यः सङ्घटनायां भासते ध्वनिर् इत्य् उक्तं तत्र सङ्घटना-स्वरूपम् एव तावन् निरूप्यते-
ध्व्_3.5:
असमासा समासेन मध्यमेन च भूषिता ।
तथा दीर्घ-समासेति त्रिधा सङ्घटनोदिता
कैश्चित् ।
तां केवलम् अनूद्येदम् उच्यते-
ध्व्_3.6अ:
गुणान् आश्रित्य तिष्ठन्ती माधुर्यादीन् व्यनक्ति सा ।
रसान् . . . . . . . . . . . . . . .
सा सङ्घटना रसादीन् व्यनक्ति गुणानाश्रित्य तिष्ठन्तीति । अत्र च विकल्प्यम् गुणानां सङ्घटनायाश्चैक्यं व्यतिरेको वा । व्यतिरेके ऽपि द्वयी गतिः । गुणाश्रया सङ्घटना, सङ्घटनाश्रया वा गुणा इति । तत्रैक्य-पक्षे सङ्घटनाश्रय-गुण-पक्षे च गुणानात्म-भूतानाधेय-भूतान् वाश्रित्य तिष्ठन्ती सङ्घटना रसादीन् व्यनक्तीत्य् अयम् अर्थः । यदा तु नानात्व-पक्षे गुणाश्रय-सङ्घटना-पक्षः तदा गुणान् आश्रित्य तिष्ठन्ती गुण-परतन्त्र-स्वभावा न तु गुण-रूपैवेत्य् अर्थः । किं पुनर् एवं विकल्पनस्य प्रयोजनम् इति ?
अभिधीयते-यदि गुणाः सङ्घटना चेत्येकं तत्त्वं सङ्घटनाश्रया वा गुणाः, तदा सङ्घटनाया इव गुणानाम् अनियत-विषयत्व-प्रसङ्गः । गुणानां हि माधुर्य-प्रसाद-प्रकर्षः करुण-विप्रलम्भ-शृङ्गार-विषय एव । रौद्राद्भुतादि-विषयम् ओजः ।
माधुर्यप्रसादौ रस-भावतद्-आभास-विषयावेवेति विषयनियमो व्यवस्थितः, सङ्घटनायास् तु स विघटते । तथा हि शृङ्गारे ऽपि दीर्घ-समासा दृश्यते रौद्रादिष्व् असमासा चेति ।
तत्र शृङ्गारे दीर्घ-समासा यथा-"मन्दार-कुसुम-रेणु-पिञ्जरितालका" इति । यथा वा-
अनवरत-नयन-जल-लव-
निपतन-परिमुषित-पत्र-लेखं ते ।
कर-तल-निषण्णम् अबले
वदनम् इदं कं न तापयति ॥इत्य् आदौ ।
तथा रौद्रादिष्व् अप्य् असमासा दृश्यते । यथा-"यो यः शस्त्रं बिभर्ति स्व-भुज-गुरु-मदः" इत्य् आदौ । तस्मान् न सङ्घटना-स्वरूपाः, न च सङ्घटनाश्रया गुणाः ।
ननु यदि सङ्घटना गुणानां नाश्रयस् तत् किम्-आलम्बना एते परिकल्प्यन्ताम् ? उच्यते-प्रतिपादितम् एवैषाम् आलम्बनम् ।
तम् अर्थम् अवलम्बन्ते ये ऽङ्गिनं ते गुणाः स्मृताः ।
अङ्गाश्रितास् त्व् अलङ्कारा मन्तव्याः कटकादिवत् ॥इति ।
अथवा भवन्तु शब्दाश्रया एव गुणाः, न चैषाम् अनुप्रासादि-तुल्यत्वम् । यस्माद् अनुप्रासादयो ऽनपेक्षितार्थ-शब्द-धर्मा एव प्रतिपादिताः । गुणास् तु व्यङ्ग्य-विशेषावभासि-वाच्य-प्रतिपादन-समर्थ-शब्द-धर्मा एव । शब्द-धर्मत्वं चैषाम् अन्याश्रयत्वे ऽपि शरीराश्रयत्वम् इव शौर्यादीनाम् ।
ननु यदि शब्दाश्रया गुणास् तत्-सङ्घटना-रूपत्वं तद्-आश्रयत्वं वा तेषां प्राप्तम् एव ।
न ह्य् असङ्घटिताः शब्दा अर्थ-विशेष-प्रतिपाद्य-रसाद्य्-आश्रितानां गुणानाम् अवाचकत्वाद् आश्रया भवन्ति । नैवम् । वर्ण-पद-व्यङ्ग्यत्वस्य रसादीनां प्रतिपादितत्वात् ।
अभ्युपगते वा वाक्य-व्यङ्ग्यत्वे रसादीनां न नियता काचित् सङ्घटना तेषाम् आश्रयत्वं प्रतिपद्यत इत्य् अनियत-सङ्घटनाः शब्दा एव गुणानां व्यङ्ग्य-विशेषानुगता आश्रयाः ।
ननु, माधुर्ये यदि नामैवम् उच्यते तद् उच्यताम् ; ओजसः पुनः कथम् अनियत-सङ्घटन-शब्दाश्रयत्वम् ? न ह्य् असमासा सङ्घटना कदाचिद् ओजस आश्रयतां प्रतिपद्यते । उच्यते-यदि न प्रसिद्धि-मात्र-ग्रह-दूषितं चेतस् तद् अत्रापि न न ब्रूमः ।
ओजसः कथम् असमासा सङ्घटना नाश्रयः ? यतो रौद्रादीन् हि प्रकाशयतः काव्यस्य दीप्तिर् ओज इति प्राक् प्रतिपादितम् । तच् चौजो यद्य् असमासायाम् अपि सङ्घटनायां स्यात् तत् को दोषो भवेत् ? न चाचारुत्वं सहृदय-हृदय-संवेद्यम् अस्ति । तस्माद् अनियत-सङ्घटन-शब्दाश्रयत्वे गुणानां न काचित् क्षतिः । तेषां तु चक्षुर्-आदीनाम् इव यथास्वं विषय-नियमितस्य स्वरूपस्य न कदाचिद् व्यभिचारः ।
यत् तूक्तम्-"सङ्घटनावद् गुणानाम् अप्य् अनियत-विषयत्वं प्राप्नोति । लक्ष्ये व्यभिचारदर्शनात्" इति । तत्राप्य् एतद् उच्यते-यत्र लक्ष्ये परिकल्पित-विषय-व्यभिचारस् तद् विरूपम् एवास्तु । कथम् अचारुत्वं तादृशे विषये सहृदयानां नावभातीति चेत् ? कवि-शक्ति-तिरोहितत्वात् ।
द्विविधो हि दोषः-कवेर् अव्युत्पत्ति-कृतो ऽशक्ति-कृतश् च । तत्राव्युत्पत्ति-कृतो दोषः शक्ति-तिरस्कृतत्वात् कदाचिन् न लक्ष्यते । यस् त्व् अशक्ति-कृतो दोषः स झटिति प्रतीयते । परिकर-श्लोकश् चात्र-
अव्युत्पत्ति-कृतो दोषः शक्त्या संव्रियते कवेः ।
यस् त्व् अशक्ति-कृतस् तस्य स झटित्य् अवभासते ॥
तथा हि-महा-कवीनाम् अप्य् उत्तम-देवता-विषय-प्रसिद्ध-संभोग-शृङ्गार-निबन्धनाद्य्-अनौचित्यं शक्ति-तिरस्कृतत्वात् ग्राम्यत्वेन न प्रतिभासते । यथा कुमार-सम्भवे देवी-सम्भोग-वर्णनम् । एवम् आदौ च विषये यथौचित्य-त्यागस् तथा दर्शितम् एवाग्रे । शक्ति-कृतत्वं चान्वय-व्यतिरेकाभ्याम् अवसीयते । यथा हि शक्ति-रहितेन कविना एवं-विधे विषये शृङ्गार उपनिबध्यमानः स्फुटम् एव दोषत्वेन प्रतिभासते ।
नन्व् अस्मिन् पक्षे "यो यः शस्त्रं बिभर्ति" इत्य् आदौ किम् अचारुत्वम् ? अप्रतीयमानम् एवारोपयामः । तस्माद् गुण-व्यतिरिक्तत्वे गुण-रूपत्वे च सङ्घटनाया अन्यः कश्चिन् नियम-हेतुर् वक्तव्य इत्य् उच्यते ।
ध्व्_3.6ब्:
. . . . तन्-नियमे हेतुर् औचित्यं वक्तृ-वाच्ययोः
तत्र वक्ता कविः कवि-निबद्धो वा, कवि-निबद्धश् चापि रस-भाव-रहितो रस-भाव-समन्वितो वा, रसो ऽपि कथा-नायकाश्रयस् तद्-विपक्षाश्रयो वा, कथा-नायकश् च धीरोदात्तादि-भेद-भिन्नः पूर्वस् तद्-अनन्तरो वेति विकल्पाः । वाच्यं च ध्वन्य्-आत्म-रसाङ्गं रसाभासाङ्गं वा, अभिनेयार्थम् अनभिनेयार्थं वा, उत्तम-प्रकृत्य्-आश्रयं तद्-इतराश्रयं वेति बहु-प्रकारम् ।
तत्र यदा कविर् अपगत-रस-भावो वक्ता तदा रचनायाः काम-चारः । यदापि कवि-निबद्धो वक्ता रस-भाव-रहितस् तदा स एव; यदा तु कविः कवि-निबद्धो वा वक्ता रस-भाव-समन्वितो रसश् च प्रधानाश्रितत्वाद् ध्वन्य्-आत्म-भूतस् तदा नियमेनैव तत्रासमासा-मध्य-समासे एव सङ्घटने । करुण-विप्रलम्भ-शृङ्गारयोस् त्व् असमासैव सङ्घटना ।
कथम् इति चेद् उच्यते-रसो यदा प्राधान्येन प्रतिपाद्यस् तदा तत्-प्रतीतौ व्यवधायका विरोधिनश् च सर्वात्मनैव परिहार्याः । एवं च दीर्घ-समासा सङ्घटना समासानाम् अनेक-प्रकार-सम्भावनया कदाचिद् रस-प्रतीतिं व्यवदधातीति तस्यां नात्यन्तम् अभिनिवेशः शोभते । विशेषतो ऽभिनेयार्थे काव्ये, ततो ऽन्यत्र च विशेषतः करुण-विप्रलम्भ-शृङ्गारयोः । तयोर् हि सुकुमारतरत्वात् स्वल्पायाम् अप्य् अस्वच्छतायां शब्दार्थयोः प्रतीतिर् मन्थरीभवति । रसान्तरे पुनः प्रतिपाद्ये रौद्रादौ मध्यम-समासा सङ्घटना कदाचिद् धीरोद्धत-नायक-सम्बन्ध-व्यापारेण दीर्घ-समासापि वा तद्-आक्षेपाविनाभावि-रसोचित-वाच्यापेक्षया न विगुणा भवतीति सापि नात्यन्तं परिहार्या ।
सर्वासु च सङ्घटनासु प्रसादाख्यो गुणो व्यापी । स हि सर्व-रस-साधारणः सर्व-सङ्घटना-साधारणश् चेत्य् उक्तम् । प्रसादातिक्रमे ह्य् असमासापि सङ्घटना करुण-विप्रलम्भ-शृङ्गारौ न व्यनक्ति । तद्-अपरित्यागे च मध्यम-समासापि न न प्रकाशयति ।
तस्मात् सर्वत्र प्रसादो ऽनुसर्तव्यः । अत एव च "यो यः शस्त्रं बिभर्ति" इत्य् आदौ यद्य् ओजसः स्थितिर् नेष्यते तत्-प्रसादाख्य एव गुणो न माधुर्यम् । न चाचारुत्वम् ; अभिप्रेत-रस-प्रकाशनात् । तस्माद् गुणाव्यतिरिक्तत्वे गुण-व्यतिरिक्तत्वे वा सङ्घटनाया यथोक्ताद् औचित्याद् विषय-नियमो ऽस्तीति तस्या अपि रस-व्यञ्जकत्वम् । तस्याश् च रसाभिव्यक्ति-निमित्त-भूताया यो ऽयम् अनन्तरोक्तो नियम-हेतुः स एव गुणानां नियतो विषय इति गुणाश्रयेण व्यवस्थानम् अप्य् अविरुद्धम् ।
ध्व्_3.7:
विषयाश्रयम् अप्य् अन्यद् औचित्यं तां नियच्छति ।
काव्य-प्रभेदाश्रयतः स्थिता भेदवती हि सा
वक्तृ-वाच्य-गतौचित्ये सत्य् अपि विषयाश्रयम् अन्यद् औचित्यं सङ्घटनां नियच्छति । यतः काव्यस्य प्रभेदा मुक्तकं संस्कृत-प्राकृतापभ्रंश-निबद्धम्, सन्दानितक-विशेषक-कलापक-कुलकानि, पर्याय-बन्धः परिकथा खण्ड-कथा सकल-कथे सर्ग-बन्धो ऽभिनेयार्थम् आख्यायिका-कथे इत्य् एवम् आदयः । तद्-आश्रयेणापि सङ्घटना विशेषवती भवति । तत्र मुक्तकेषु रस-बन्धाभिनिवेशिनः कवेस् तद्-आश्रयम् औचित्यम् । तच् च दर्शितम् एव । अन्यत्र काम-चारः ।
मुक्तकेषु प्रबन्धेष्व् इव रस-बन्धाभिनिवेशिनः कवयो दृश्यन्ते । यथा ह्य् अमरुकस्य कवेर् मुक्तकाः शृङ्गार-रस-स्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव । सन्दानितकादिषु तु विकट-निबन्धनौचित्यान् मध्यम-समासा-दीर्घ-समासे एव रचने । प्रबन्धाश्रयेषु यथोक्त-प्रबन्धौचित्यम् एवानुसर्तव्यम् । पर्याय-बन्धे पुनर् असमासा-मध्यम-समासे एव सङ्घटने । कदाचिद् अर्थौचित्याश्रयेण दीर्घ-समासायाम् अपि सङ्घटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या । परिकथायां काम-चारः, तत्रेतिवृत्त-मात्रोपन्यासेन नात्यन्तं रस-बन्धाभिनिवेशात् । खण्ड-कथा-सकल-कथयोस् तु प्राकृत-प्रसिद्धयोः कुलकादि-निबन्धन-भूयस्त्वाद् दीर्घ-समासायाम् अपि न विरोधः ।
वृत्त्य्-औचित्यं तु यथा-रसम् अनुसर्तव्यम् । सर्ग-बन्धे तु रस-तात्पर्ये यथा-रसम् औचित्यम् अन्यथा तु काम-चारः । द्वयोर् अपि मार्गयोः सर्ग-बन्ध-विधायिनां दर्शनाद् रस-तात्पर्यं साधीयः । अभिनेयार्थे तु सर्वथा रस-बन्धे ऽभिनिवेशः कार्यः । आख्यायिका-कथयोस् तु गद्य-निबन्धन-बाहुल्याद् गद्ये च छन्दो-बन्ध-भिन्न-प्रस्थानत्वाद् इह नियमे हेतुर् अकृत-पूर्वो ऽपि मनाक् क्रियते
ध्व्_3.8:
एतद् यथोक्तम् औचित्यम् एव तस्या नियामकम् ।
सर्वत्र गद्य-बन्धे ऽपि छन्दो-नियम-वर्जिते
यद् एतद् औचित्यं वक्तृ-वाच्य-गतं सङ्घटनाया नियामकम् उक्तम् एतद् एव गद्ये छन्दो-नियम-वर्जिते ऽपि विषयापेक्षं नियम-हेतुः । तथा ह्य् अत्रापि यदा कविः कवि-निबद्धो वा वक्ता रस-भाव-रहितस् तदा काम-चारः । रस-भाव-समन्विते तु वक्तरि पूर्वोक्तम् एवानुसर्तव्यम् । तत्रापि च विषयौचित्यम् एव । आख्यायिकायां तु भूम्ना मध्यम-समासा-दीर्घ-समासे एव सङ्घटने । गद्यस्य विकट-बन्धाश्रयेण छायावत्त्वात् । तत्र च तस्य प्रकृष्यमाणत्वात् । कथायां तु विकट-बन्ध-प्राचुर्ये ऽपि गद्यस्य रस-बन्धोक्तम् औचित्यम् अनुसर्तव्यम्
ध्व्_3.9:
रस-बन्धोक्तम् औचित्यं भाति सर्वत्र संश्रिता ।
रचना विषयापेक्षं तत् तु किंचिद् विभेदवत्
अथवा पद्यवद् गद्य-बन्धे ऽपि रस-बन्धोक्तम् औचित्यं सर्वत्र संश्रिता रचना भवति । तत् तु विषयापेक्षं किंचिद् विशेषवद् भवति, न तु सर्वाकारम् । तथा हि गद्य-बन्धे ऽप्य् अतिदीर्घ-समासा रचना न विप्रलम्भ-शृङ्गार-करुणयोर् आख्यायिकायाम् अपि शोभते । नाटकादाव् अप्य् असमासैव न रौद्र-वीरादि-वर्णने । विषयापेक्षं त्व् औचित्यं प्रमाणतो ऽपकृष्यते प्रकृष्यते च । तथा ह्य् आख्यायिकायां नात्यन्तम् असमासा स्व-विषये ऽपि नाटकादौ नातिदीर्घ-समासा चेति सङ्घटनाया दिग्-अनुसर्तव्या
इदानीम् अलक्ष्य-क्रम-व्यङ्ग्यो ध्वनिः प्रबन्धात्मा रामायण-महाभारतादौ प्रकाशमानः प्रसिद्ध एव । तस्य तु यथा प्रकाशनं तत् प्रतिपाद्यते-
ध्व्_3.10-14:
विभावभावानुभाव-सञ्चार्य्-औचित्य-चारुणः ।
विधिः कथा-शरीरस्य वृत्तस्योत्प्रेक्षितस्य वा
इतिवृत्त-वशायातां त्यक्त्वाननुगुणां स्थितिम् ।
उत्प्रेक्ष्याप्य् अन्तराभीष्ट-रसोचित-कथोन्नयः
सन्धि-सन्ध्य्-अङ्ग-घटनं रसाभिव्यक्त्य्-अपेक्षया ।
न तु केवलया शास्त्र-स्थिति-सम्पादनेच्छया
उद्दीपन-प्रशमने यथावसरम् अन्तरा ।
रसस्यारब्ध-विश्रान्तेर् अनुसन्धानम् अङ्गिनः
अलङ्कृतीनां शक्ताव् अप्य् आनुरूप्येण योजनम् ।
प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम्
प्रबन्धो ऽपि रसादीनां व्यञ्जक इत्य् उक्तं तस्य व्यञ्जकत्वे निबन्धनम् । प्रथमं तावद् विभाव-भावानुभाव-सञ्चार्य्-औचित्य-चारुणः कथा-शरीरस्य विधिर् यथायथं प्रतिपिपादयिषित-रस-भावाद्य्-अपेक्षया य उचितो विभावो भावो ऽनुभावः सञ्चारी वा तद्-औचित्य-चारुणः कथा-शरीरस्य विधिर् व्यञ्जकत्वे निबन्धनम् एकम् । तत्र विभावौचित्यं तावत् प्रसिद्धम् । भावौचित्यं तु प्रकृत्य्-औचित्यात् । प्रकृतिर् ह्य् उत्तम-मध्यमाधम-भावेन दिव्य-मानुषादि-भावेन च विभेदिनी । तां यथायथम् अनुसृत्यासङ्कीर्णः स्थायी भाव उपनिबध्यमान औचित्य-भाग् भवति । अन्यथा तु केवल-मानुषाश्रयेण दिव्यस्य केवल-दिव्याश्रयेण वा केवल-मानुषस्योत्साहादय उपनिबध्यमाना अनुचिता भवन्ति । तथा च केवल-मानुषस्य राजादेर् वर्णने सप्तार्णव-लङ्घनादि-लक्षणा व्यापारा उपनिबध्यमाना सौष्ठव-भृतो ऽपि नीरसा एव नियमेन भवन्ति, तत्र त्व् अनौचित्यम् एव हेतुः ।
ननु नाग-लोक-गमनादयः सातवाहन-प्रभृतीनां श्रूयन्ते, तद्-अलोक-सामान्य-प्रभावातिशय-वर्णने किम् अनौचित्यं सर्वोर्वी-भरण-क्षमाणां क्षमा-भुजाम् इति । न तद् अस्ति ; न वयं ब्रूमो यत् प्रभावातिशय-वर्णनम् अनुचितं राज्ञाम्, किं तु केवल-मानुषाश्रयेण योत्पाद्य-वस्तु-कथा क्रियते तस्यां दिव्यम् औचित्यं न योजनीयम् । दिव्य-मानुष्यायां तु कथायाम् उभयौचित्य-योजनम् अविरुद्धम् एव । यथा पाण्ड्व्-आदि-कथायाम् । सातवाहनादिषु तु येषु यावद् अपदानं श्रूयते तेषु तावन्-मात्रम् अनुगम्यमानम् अनुगुणत्वेन प्रतिभासते । व्यतिरिक्तं तु तेषाम् एवोपनिबध्यमानम् अनुचितम् ।
तद् अयम् अत्र परमार्थः-
अनौचित्याद् ऋते नान्यद् रस-भन्गस्य कारणम् ।
प्रसिद्धौचित्य-बन्धस् तु रसस्योपनिषत् परा ॥
अत एव च भरते प्रख्यात-वस्तु-विषयत्वं प्रख्यातोदात्त-नायकत्वं च नाटकस्यावश्य-कर्तव्यतयोपन्यस्तम् । तेन हि नायकौचित्यानौचित्य-विषये कविर् न व्यामुह्यति । यस् तूत्पाद्य-वस्तु नाटकादि कुर्यात् तस्याप्रसिद्धानुचित-नायक-स्वभाव-वर्णने महान् प्रमादः ।
ननु यद्य् उत्साहादि-भाव-वर्णने कथञ्चिद् दिव्य-मानुष्याद्य्-औचित्य-परीक्षा क्रियते तत् क्रियताम्, रत्य्-आदौ तु किं तया प्रयोजनम् ? रतिर् हि भारतवर्षोचितेनैव व्यवहारेण दिव्यानाम् अपि वर्णनीयेति स्थितिः । नैवम् । तत्रौचित्यातिक्रमेण सुतरां दोषः । तथा ह्य् अधम-प्रकृत्यौचित्येनोत्तम-प्रकृतेः शृङ्गारोपनिबन्धने का भवेन् नोपहास्यता ।
त्रिविधं प्रकृत्य्-औचित्यं भारते वर्षे ऽप्य् अस्ति शृङ्गार-विषयम् ।
यत् तु दिव्यम् औचित्यं तत् तत्रानुपकारकम् एवेति चेत्-न वयं दिव्यम् औचित्यं शृङ्गार-विषयम् अन्यत् किंचिद् ब्रूमः । किं तर्हि ? भारतवर्ष-विषये यथोत्तम-नायकेषु राजादिषु शृङ्गारोपनिबन्धस् तथा दिव्याश्रयो ऽपि शोभते । न च राजादिषु प्रसिद्ध-ग्राम्य-शृङ्गारोपनिबन्धनं प्रसिद्धं नाटकादौ, तथैव देवेषु तत् परिहर्तव्यम् ।
नाटकादेर् अभिनेयार्थत्वाद् अभिनयस्य च सम्भोग-शृङ्गार-विषयस्यासभ्यत्वात् तत्र परिहार इति चेत्-न; यद्य् अभिनयस्यैवं-विषयस्यासभ्यता तत् काव्यस्यैवं-विषयस्य सा केन निवार्यते ? तस्माद् अभिनेयार्थे ऽनभिनेयार्थे वा काव्ये यद् उत्तम-प्रकृते राजादेर् उत्तम-प्रकृतिभिर् नायिकाभिः सह ग्राम्य-सम्भोग-वर्णनं तत् पित्रोः सम्भोग-वर्णनम् इव सुतराम् असभ्यम् । तथैवोत्तम-देवतादि-विषयम् ।
न च सम्भोग-शृङ्गारस्य सुरत-लक्षण एवैकः प्रकारः, यावद् अन्ये ऽपि प्रभेदाः परस्पर-प्रेम-दर्शनादयः सम्भवन्ति, ते कस्माद् उत्तम-प्रकृति-विषये न वर्ण्यन्ते ? तस्माद् उत्साहवद् रताव् अपि प्रकृत्य्-औचित्यम् अनुसर्तव्यम् । तथैव विस्मयादिषु । यत् त्व् एवं-विधे विषये महाकवीनाम् अप्य् असमीक्ष्य-कारिता लक्ष्ये दृश्यते स दोष एव । स तु शक्ति-तिरस्कृतत्वात् तेषां न लक्ष्यत इत्य् उक्तम् एव । अनुभावौचित्यं तु भरतादौ प्रसिद्धम् एव ।
इयत् तूच्यते-भरतादि-विरचितां स्थितिं चानुवर्तमानेन महाकवि-प्रबन्धांश् च पर्यालोचयता स्व-प्रतिभां चानुसरता कविनावहित-चेतसा भूत्वा विभावाद्य्-औचित्य-भ्रंश-परित्यागे परः प्रयत्नो विधेयः । औचित्यवतः कथा-शरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ग्रहो व्यञ्जक इत्य् अनेनैतत् प्रतिपादयति-यद् इतिहासादिषु कथासु रसवतीषु विविधासु सतीष्व् अपि यत् तत्र विभावाद्य्-औचित्यवत् कथा-शरीरं तद् एव ग्राह्यं नेतरत् । वृत्ताद् अपि च कथा-शरीराद् उत्प्रेक्षिते विशेषतः प्रयत्नवता भवितव्यम् । तत्र ह्य् अनवधानात् स्खलतः कवेर् अव्युत्पत्ति-सम्भावना महती भवति ।
परिकर-श्लोकश् चात्र-
कथा-शरीरम् उत्पाद्य-वस्तु कार्यं तथा तथा ।
यथा रस-मयं सर्वम् एव तत् प्रतिभासते ॥
तत्र चाभ्युपायः सम्यग्-विभावाद्य्-औचित्यानुसरणम् । तच् च दर्शितम् एव । किं च-
सन्ति सिद्ध-रस-प्रख्या ये च रामायणादयः ।
कथाश्रया न तैर् योज्या स्वेच्छा रस-विरोधिनी ॥
तेषु हि कथाश्रयेषु तावत् स्वेच्छैव न योज्या । यद् उक्तम्-"कथा-मार्गे न चातिक्रमः" ।
स्वेच्छापि यदि योज्या तद्-रस-विरोधिनी न योज्या ।
इदम् अपरं प्रबन्धस्य रसाभिव्यञ्जकत्वे निबन्धनम् । इतिवृत्त-वशायातां कथञ्चिद् रसाननुगुणां स्थितिं त्यक्त्वा पुनर् उत्प्रेक्ष्याप्य् अन्तराभीष्ट-रसोचित-कथोन्नयो विधेयः यथा कालिदास-प्रबन्धेषु । यथा च सर्वसेन-विरचिते हरि-विजये । यथा च मदीय एवार्जुन-चरिते महाकाव्ये । कविना काव्यम् उपनिबध्नता सर्वात्मना रस-परतन्त्रेण भवितव्यम् । तत्रेतिवृत्ते यदि रसाननुगुणां स्थितिं पश्येत् तदेमां भङ्क्त्वापि स्वतन्त्रतया रसानुगुणं कथान्तरम् उत्पादयेत् । न हि कवेर् इतिवृत्त-मात्र-निर्वहणेन किंचित् प्रयोजनम्, इतिहासाद् एव तत्-सिद्धेः ।
रसादि-व्यञ्जकत्वे प्रबन्धस्य चेदम् अन्यन् मुख्यं निबन्धनम्, यत्-सन्धीनां मुख-प्रतिमुख-गर्भावमर्श-निर्वहणाख्यानां तद्-अङ्गानां चोपक्षेपादीनां घटनं रसाभिव्यक्त्य्-अपेक्षया, यथा रत्नावल्याम् । न तु केवलं शास्त्र-स्थिति-सम्पादनेच्छया । यथा वेणी-संहारे विलासाख्यस्य प्रतिमुख-सन्ध्य्-अङ्गस्य प्रकृत-रस-निबन्धाननुगुणम् अपि द्वितीये ऽङ्के भरत-मतानुसरण-मात्रेच्छया घटनम् ।
इदं चापरं प्रबन्धस्य रस-व्यञ्जकत्वे निमित्तं यद् उद्दीपन-प्रशमने यथावसरम् अन्तरा रसस्य, यथा रत्नावल्याम् एव । पुनर् आरब्ध-विश्रान्ते रसस्याङ्गिनो ऽनुसन्धिश् च, यथा तापस-वत्सराजे ।
प्रबन्ध-विशेषस्य नाटकादे रस-व्यक्ति-निमित्तम् इदं चापरम् अवगन्तव्यं यद् अलङ्कृतीनां शक्ताव् अप्य् आनुरूप्येण योजनम् । शक्तो हि कविः कदाचिद् अलङ्कार-निबन्धने तद् आक्षिप्ततयैवानपेक्षित-रस-बन्धः प्रबन्धम् आरभते तद्-उपदेशार्थम् इदम् उक्तम् । दृश्यन्ते च कवयो ऽलङ्कार-निबन्धनैक-रसा अनपेक्षित-रसाः प्रबन्धेषु ।
ध्व्_3.15:
किं च-
अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः ।
ध्वनेर् अस्य प्रबन्धेषु भासते सो ऽपि केषुचित्
अस्य विवक्षितान्य् अपर-वाच्यस्य ध्वनेर् अनुरणन-रूप-व्यङ्ग्यो ऽपि यः प्रभेद उदाहृतो द्विप्रकारः सो ऽपि प्रबन्धेषु केषुचिद् द्योतते । तद् यथा मधुमथन-विजये पाञ्चजन्योक्तिषु । यथा वा ममैव कामदेवस्य सहचर-समागमे विषम-बाण-लीलायाम् ।
यथा च गृध्र-गोमायु-संवादादौ महाभारते
ध्व्_3.16:
सुप्-तिङ्-वचन-सम्बन्धैस् तथा कारक-शक्तिभिः ।
कृत्-तद् धित-समासैश् च द्योत्यो ऽलक्ष्य-क्रमः क्वचित्
अलक्ष्य-क्रमो ध्वनेर् आत्मा रसादिः सुब्-विशेषैस् तिङ्-विशेषैर् वचन-विशेषैः सम्बन्ध-विशेषैः कारक-शक्तिभिः कृद्-विशेषैस् तद् धित-विशेषैः समासैश् चेति । च-शब्दान् निपातोपसर्ग-कालादिभिः प्रयुक्तैर् अभिव्यज्यमानो दृश्यते ।
यथा-
न्यक्कारो ह्य् अयम् एव मे यद् अरयस् तत्राप्य् असौ तापसः
सो ऽप्य् अत्रैव निहन्ति राक्षस-कुलं जीवत्य् अहो रावणः ।
धिग् धिक् चक्र-जितं प्रबोधितवता किं कुम्भकर्णेन वा
स्वर्ग-ग्रामटिका-विलुण्ठन-वृथोच्छूनैः किम् एभिर् भुजैः ॥[*19]
[*19] स्क्म् 2105. च्f. साह्.द्. 1.2.
अत्र हि श्लोके भूयसा सर्वेषाम् अप्य् एषां स्फुटम् एव व्यञ्जकत्वं दृश्यते । तत्र "मे यद् अरयः" इत्य् अनेन सुप्-सम्बन्ध-वचनानाम् अभिव्यञ्जकत्वम् । "तत्राप्य् असौ तापसः" इत्य् अत्र तद् धित-निपातयोः । "सो ऽप्य् अत्रैव निहन्ति राक्षस-कुलं जीवत्य् अहो रावणः" इत्य् अत्र तिङ्-कारक-शक्तीनाम् । "धिग् धिक् चक्र-जितम्" इत्य् आदौ श्लोकार्धे कृत्-तद् धित-समासोपसर्गाणाम् ।
एवं-विधस्य व्यञ्जक-भूयस्त्वे च घटमाने काव्यस्य सर्वातिशायिनी बन्ध-च्छाया समुन्मीलति । यत्र हि व्यङ्ग्यावभासिनः पदस्यैकस्यैव तावद् आविर्भावस् तत्रापि काव्ये कापि बन्ध-च्छाया किम् उत यत्र तेषां बहूनां समवायः । यथात्रानन्तरोदित-श्लोके । अत्र हि रावण इत्य् अस्मिन् पदे ऽर्थान्तर-संक्रमित-वाच्येन ध्वनि-प्रभेदेनालङ्कृते ऽपि पुनर् अनन्तरोक्तानां व्यञ्जक-प्रकाराणाम् उद्भासनम् । दृश्यन्ते च महात्मनां प्रतिभा-विशेष-भाजां बाहुल्येनैवं-विधा बन्ध-प्रकाराः । यथा महर्षेर् व्यासस्य-
अतिक्रान्त-सुखाः कालाः प्रत्युपस्थित-दारुणाः ।
श्वः श्वः पापीय-दिवसा पृथिवी गत-यौवना ॥
अत्र हि कृत्-तद् धित-वचनैर् अलक्ष्य-क्रम-व्यङ्ग्यः, "पृथिवी गत-यौवना" इत्य् अनेन चात्यन्त-तिरस्कृत-वाच्यो ध्वनिः प्रकाशितः । एषां च सुब्-आदीनाम् एकैकशः समुदितानां च व्यञ्जकत्वं महा-कवीनां प्रबन्धेषु प्रायेण दृश्यते । सुब्-अन्तस्य व्यञ्जकत्वं यथा-
तालैः शिञ्जद्-वलय-सुभगैः कान्तया नर्तितो मे ।
याम् अध्यास्ते दिवस-विगमे नीलकण्ठः सुहृद् वः ॥
तिङ्-अन्तस्य यथा-
अबसर रोउं चिअ णिम्मिआइं मा पुंस मे हअच्छीइं ।
दंसण-मेत्तुम् भेत्तेहिं जेहिं हिअअं तुह ण णाअं ॥]
[अपसर रोदितुम् एव निर्मिते मा पुंसय हते अक्षिणी मे ।
दर्शन-मात्रोन्मत्ताभ्यां याभ्यां तव हृदयम् एवं-रूपं न ज्ञातम् ॥]
यथा वा-
मा पन्थं रुन्धीओ अबेहि बालअ अहोसि अहिरीओ ।
अम्हेअ णिरिच्छाओ सुण्ण-घरं रक्खिदब्बं णो ॥[*20]
[*20] गाहा-सत्तसाई (सुप्प्. 955)
[मा पन्थानं रुधः अपेहि बालक अप्रौढ अहो असि अह्रीकः ।
वयं पर-तन्त्रा यतः शून्य-गृहं मामकं रक्षणीयं वर्तते ॥]
सम्बन्धस्य यथा-
अण्णत्त वच्च बालअ ह्नाअन्तीं किं मं पुलोएसि एअं ।
भो जाआ-भीरुआणं तडम् बिअ ण होइ ॥
[अन्यत्र व्रज बालक स्नान्तीं किं मां प्रलोकयस्य् एतत् ।
भो जाया-भीरुकाणां तटम् एव न भवति ॥]
कृतक-प्रयोगेषु प्राकृतेषु तद् धित-विषये व्यञ्जकत्वम् आवेद्यत एव । अवज्ञातिशये कः ? समासानां च वृत्त्य्-औचित्येन विनियोजने । निपातानां व्यञ्जकत्वं यथा-
अयम् एक-पदे तया वियोगः
प्रियया चोपनतः सुदुःसहो मे ।
नव-वारिधरोदयाद् अहोभिर्
भवितव्यं च निरातपार्ध-रम्यैः ॥
इत्य् अत्र च-शब्दः । यथा वा-
मुहुर् अङ्गुलि-संवृताधरौष्ठं
प्रतिषेधाक्षर-विक्लवाभिरामम् ।
मुखम् अंस-विवर्ति पक्ष्मलाक्ष्याः
कथम् अप्य् उन्नमितं न चुम्बितं तु ॥
अत्र तु-शब्दः ।
निपातानां प्रसिद्धम् अपीह द्योतकत्वं रसापेक्षयोक्तम् इति द्रष्टव्यम् । उपसर्गाणां व्यञ्जकत्वं यथा-
नीवाराः शुक-गर्भ-कोटर-मुख-भ्रष्टास् तरूणाम् अधः
प्रस्निग्धाः क्वचिद् इङ्गुदी-फल-भिदः सूच्यन्त एवोपलाः ।
विश्वासोपगमाद् अभिन्न-गतयः शब्दं सहन्ते मृगास्
तोयाधार-पथाश् च वल्कल-शिखा-निष्यन्द-लेखाङ्किताः ॥इत्य् आदौ ।
द्वित्राणां चोपसर्गाणाम् एकत्र पदे यः प्रयोगः सो ऽपि रस-व्यक्त्य्-अनुगुणतयैव निर्दोषः । यथा-"प्रभ्रश्यत्य् उत्तरीय-त्विषि तमसि समुद्वीक्ष्य वीतावृतीन् द्राग् जन्तून्" इत्य् आदौ । यथा वा-"मनुष्य-वृत्त्या समुपाचरन्तम्" इत्य् आदौ ।
निपातानाम् अपि तथैव । यथा-"अहो बतासि स्पृहणीय-वीर्यः" इत्य् आदौ । यथा वा-
ये जीवन्ति न मान्ति ये स्म वपुषि प्रीत्या प्रनृत्यन्ति च
प्रस्यन्दि-प्रमदाश्रवः पुलकिता दृष्टे गुणिन्य् ऊर्जिते ।
हा धिक् कष्टम् अहो क्व यामि शरणं तेषां जनानां कृते
नीतानां प्रलयं शठेन विधिना साधु-द्विषः पुष्यता ॥इत्य् आदौ ।
पद-पौनरुक्त्यं च व्यञ्जकत्वापेक्षयैव कदाचित्प्रयुज्यमानं शोभामावहति ।
यथा-
यद् वञ्चनाहित-मतिर् बहु-चाटु-गर्भं
कार्योन्मुखः खल-जनः कृतकं ब्रवीति ।
तत् साधवो न न विदन्ति विदन्ति किन्तु
कर्तुं वृथा-प्रणयम् अस्य न पारयन्ति ॥इत्य् आदौ ।
कालस्य व्यञ्जकत्वं यथा-
सम-विषम-निर्विशेषाः समन्ततो मन्द-मन्द-सञ्चाराः ।
अचिराद् भविष्यन्ति पन्थानो मनोरथानाम् अपि दुर्लङ्घ्याः ॥
अत्र ह्य् अचिराद् भविष्यन्ति पन्थान इत्य् अत्र भविष्यन्तीत्य् अस्मिन् पदे प्रत्ययः काल-विशेषाभिधायी रस-परिपोष-हेतुः प्रकाशते । अयं हि गाथार्थः प्रवास-विप्रलम्भ-शृङ्गार-विभावतया विभाव्यमानो रसवान् । यथात्र प्रत्ययांशो व्यञ्जकस् तथा क्वचित् प्रकृत्य्-अंशो ऽपि दृश्यते । यथा-
तद् गेहं नत-भित्ति मन्दिरम् इदं लब्धावगाहं दिवः
सा धेनुर् जरती चरन्ति करिणाम् एता घनाभा घटाः ।
स क्षुद्रो मुसल-ध्वनिः कलम् इदं सङ्गीतकं योषिताम्
आश्चर्यं दिवसैर् द्विजो ऽयम् इयतीं भूमिं समारोपितः ॥
अत्र श्लोके दिवसैर् इत्य् अस्मिन् पदे प्रकृत्य्-अंशो ऽपि द्योतकः । सर्व-नाम्नां च व्यञ्जकत्वं यथानन्तरोक्ते श्लोके । अत्र च सर्व-नाम्नाम् एव व्यञ्जकत्वं हृदि व्यवस्थाप्य कविना क्वेत्य्-आदि-शब्द-प्रयोगो न कृतः । अनया दिशा सहृदयैर् अन्ये ऽपि व्यञ्जक-विशेषाः स्वयम् उत्प्रेक्षणीयाः । एतच् च सर्वं पद-वाक्य-रचना-द्योतनोक्त्यैव गतार्थम् अपि वैचित्र्येण व्युत्पत्तये पुनर्-उक्तम् ।
ननु चार्थ-सामर्थ्याक्षेप्या रसादय इत्य् उक्तम्, तथा च सुबादीनां व्यञ्जकत्व-वैचित्र्य-कथनम् अनन्वितम् एव । उक्तम् अत्र पदानां व्यञ्जकत्वोक्त्य्-अवसरे । किं चार्थ-विशेषाक्षेप्यत्वे ऽपि रसादीनां तेषाम् अर्थ-विशेषाणां व्यञ्जक-शब्दाविनाभावित्वाद् यथा-प्रदर्शितं व्यञ्जक-स्वरूप-परिज्ञानं विभज्योपयुज्यत एव । शब्द-विशेषाणां चान्यत्र च चारुत्वं यद् विभागेनोपदर्शितं तद् अपि तेषां व्यञ्जकत्वेनैवावस्थितम् इत्य् अवगन्तव्यम् ।
यत्रापि न तत् सम्प्रतिभासते तत्रापि व्यञ्जके रचनान्तरे यद् अदृष्टं सौष्ठवं तेषां प्रवाह-पतितानां तद् एवाभ्यासाद् अपोद्धृतानाम् अप्य् अवभासत इत्य् अवसातव्यम् । को ऽन्यथा तुल्ये वाचकत्वे शब्दानां चारुत्व-विषयो विशेषः स्यात् । अन्य एवासौ सहृदय-संवेद्य इति चेत्, किम् इदं सहृदयत्वं नाम ? किं रस-भावानपेक्ष-काव्याश्रित-समय-विशेषाभिज्ञत्वम्, उत रस-भावादि-मय-काव्य-स्वरूप-परिज्ञान-नैपुण्यम् । पूर्वस्मिन् पक्षे तथाविध-सहृदय-व्यवस्थापितानां शब्द-विशेषाणां चारुत्व-नियमो न स्यात् । पुनः समयान्तरेणान्यथापि व्यवस्थापन-सम्भवात् । द्वितीयस्मिंस् तु पक्षे रसज्ञतैव सहृदयत्वम् इति । तथा-विधैः सहृदयैः संवेद्यो रसादि-समर्पण-सामर्थ्यम् एव नैसर्गिकं शब्दानां विशेष इति व्यञ्जकत्वाश्रय्य् एव तेषां मुख्यं चारुत्वम् ।
वाचकत्वाश्रयाणां तु प्रसाद एवार्थापेक्षायां तेषां विशेषः । अर्थानपेक्षायां त्व् अनुप्रासादिर् एव ॥ ध्व_3.15-16 ॥
एवं रसादीनां व्यञ्जक-स्वरूपम् अभिधाय तेषाम् एव विरोधि-रूपं लक्षयितुम् इदम् उपक्रम्यते-
ध्व्_3.17:
प्रबन्धे मुक्तके वापि रसादीन् बन्धुम् इच्छता ।
यत्नः कार्यः सुमतिना परिहारे विरोधिनाम्
प्रबन्धे मुक्तके वापि रस-भाव-निबन्धनं प्रत्यादृत-मनाः कविर् विरोधि-परिहारे परं यत्नम् आदधीत । अन्यथा त्व् अस्य रस-मयः श्लोक एको ऽपि सम्यङ् न सम्पद्यते ॥ 3.17 ॥
कानि पुनस् तानि विरोधीनि यानि यत्नतः कवेः परिहर्तव्यानि ? इत्य् उच्यते-
ध्व्_3.18-19:
विरोधि-रस-सम्बन्धि-विभावादि-परिग्रहः ।
विस्तरेणान्वितस्यापि वस्तुनो ऽन्यस्य वर्णनम्
अकाण्ड एव विच्छित्तिर् अकाण्डे च प्रकाशनम् ।
परिपोषं गतस्यापि पौनःपुन्येन दीपनम् ।
रसस्य स्याद् विरोधाय वृत्त्य्-अनौचित्यम् एव च
प्रस्तुत-रसापेक्षया विरोधी यो रसस् तस्य सम्बन्धिनां विभाव-भावानुभावानां परिग्रहो रस-विरोध-हेतुकः सम्भवनीयः । तत्र विरोधि-रस-विभाव-परिग्रहो यथा शान्त-रस-विभावेषु तद्-विभावतयैव निरूपितेष्व् अनन्तरम् एव शृङ्गारादि-विभाव-वर्णने । विरोधि-रस-भाव-परिग्रहो यथा प्रियं प्रति प्रणय-कलह-कुपितासु कामिनीषु वैराग्य-कथाभिर् अनुनये । विरोधि-रसानुभाव-परिग्रहो यथा प्रणय-कुपितायां प्रियायाम् अप्रसीदन्त्यां नायकस्य कोपावेश-विवशस्य रौद्रानुभाव-वर्णने ।
अयं चान्यो रस-भङ्ग-हेतुर् यत् प्रस्तुत-रसापेक्षया वस्तुनो ऽन्यस्य कथञ्चिद् अन्वितस्यापि विस्तरेण कथनम् । यथा विप्रलम्भ-शृङ्गारे नायकस्य कस्यचिद् वर्णयितुम् उपक्रान्ते कवेर् यमकाद्य्-अलङ्कार-निबन्धन-रसिकतया महता प्रबन्धेन पर्वतादि-वर्णने । अयं चापरो रस-भङ्ग-हेतुर् अवगन्तव्यो यद् अकाण्ड एव विच्छित्तिः रसस्याकण्ड एव च प्रकाशनम् । तत्रानवसरे विरामो रसस्य यथा नायकस्य कस्यचित् स्पृहणीय-समागमया नायिकया कयाचित् परां परिपोष-पदवीं प्राप्ते शृङ्गारे विदिते च परस्परानुरागे समागमोपाय-चिन्तोचितं व्यवहारम् उत्सृज्य स्वतन्त्रतया व्यापारान्तर-वर्णने । अनवसरे च प्रकाशनं रसस्य यथा प्रवृत्ते प्रवृत्त-विविध-वीर-सङ्क्षये कल्प-सङ्क्षय-कल्पे सङ्ग्रामे राम-देव-प्रायस्यापि तावन् नायकस्यानुपक्रान्त-विप्रलम्भ-शृङ्गारस्य निमित्तम् उचितम् अन्तरेणैव शृङ्गार-कथायाम् अवतार-वर्णने । न चैवं-विधे विषये दैव-व्यामोहितत्वं कथा-पुरुषस्य परिहारो यतो रस-बन्ध एव कवेः प्राधान्येन प्रवृत्ति-निबन्धनं युक्तम् । इतिवृत्त-वर्णनं तद्-उपाय एवेत्य् उक्तं प्राक् "आलोकार्थि यथा दीप-शिखायां यत्नवान् जनः" इत्य् आदिना ।
अत एव चेतिवृत्त-मात्र-वर्णन-प्राधान्ये ऽङ्गाङ्गि-भाव-रहित-रस-भाव-निबन्धेन च कवीनाम् एवं-विधानि स्खलितानि भवन्तीति रसादि-रूप-व्यङ्ग्य-तात्पर्यम् एवैषां युक्तम् इति यत्नो ऽस्माभिर् आरब्धो न ध्वनि-प्रतिपादन-मात्राभिनिवेशेन । पुनश् चायम् अन्यो रस-भङ्ग-हेतुर् अवधारणीयो यत् परिपोषं गतस्यापि रसस्य पौनःपुन्येन दीपनम् । उपभुक्तो हि रसः स्व-सामग्री-लब्ध-परिपोषः पुनः पुनः परामृश्यमानः परिम्लान-कुसुम-कल्पः कल्पते । तथा वृत्तेर् व्यवहारस्य यद् अनौचित्यं तद् अपि रस-भङ्ग-हेतुर् एव । यथा नायकं प्रति नायिकायाः कस्याश्चिद् उचितां भङ्गिम् अन्तरेण स्वयं सम्भोगाभिलाष-कथने । यदि वा वृत्तीनां भरत-प्रसिद्धानां कैशिक्यादीनां काव्यालङ्कारान्तर-प्रसिद्धानाम् उपनागरिकाद्यानां वा यद् अनौचित्यम् अविषये निबन्धनं तद् अपि रस-भङ्ग-हेतुः । एवम् एषां रस-विरोधिनाम् अन्येषां चानया दिशा स्वयम् उत्प्रेक्षितानां परिहारे सत्-कविभिर् अवहितैर् भवितव्यम् ।
परिकर-श्लोकाश् चात्र-
मुख्या व्यापार-विषयाः सुकवीनां रसादयः ।
तेषाम् निबन्धने भाव्ये तैः सदैवाप्रमादिभिः ॥
नीरसस् तु प्रबन्धो यः सो ऽपशब्दो महान् कवेः ।
स तेनाकविर् एव स्याद् अन्येनास्मृत-लक्षणः ॥
पूर्वे विशृङ्खल-गिरः कवयः प्राप्य-कीर्तयः ।
तान् समाश्रित्य न त्याज्या नीतिर् एषा मनीषिणा ॥
वाल्मीकि-व्यास-मुख्याश् च ये प्रख्याताः कवीश्वराः ।
तद्-अभिप्राय-बाह्यो ऽयं नास्माभिर् दर्शितो नयः ॥इति
ध्व्_3.20:
विवक्षिते रसे लब्ध-प्रतिष्ठे तु विरोधिनाम् ।
बाध्यानाम् अङ्ग-भावं वा प्राप्तानाम् उक्तिर् अच्छला
स्व-सामग्र्या लब्ध-परिपोषे तु विवक्षिते रसे विरोधिनां विरोधि-रसाङ्गानां बाध्यानाम् अङ्ग-भावं वा प्राप्तानां सताम् उक्तिर् अदोषा । बाध्यत्वं हि विरोधिनां शक्याभिभवत्वे सति नान्यथा । तथा च तेषाम् उक्तिः प्रस्तुत-रस-परिपोषायैव सम्पद्यते । अङ्ग-भावं प्राप्तानां च तेषां विरोधित्वम् एव निवर्तते । अङ्ग-भाव-प्राप्तिर् हि तेषां स्वाभाविकी समारोप-कृता वा । तत्र येषां नैसर्गिकी तेषां तावद् उक्ताव् अविरोध एव । यथा विप्रलम्भ-शृङ्गारे तद्-अङ्गानां व्याध्य्-आदीनां तेषां च तद्-अङ्गानाम् एवादोषो नातद्-अङ्गानाम् । तद्-अङ्गत्वे च सम्भवत्य् अपि मरणस्योपन्यासो न ज्यायान् । आश्रय-विच्छेदे रसस्यात्यन्त-विच्छेद-प्राप्तेः । करुणस्य तु तथा-विधे विषये परिपोषो भविष्यतीति चेत् न ; यस्याप्रस्तुतत्वात् प्रस्तुतस्य च विच्छेदात् । यत्र तु करुण-रसस्यैव काव्यार्थत्वं तत्राविरोधः । शृङ्गारे वा मरणस्यादीर्घ-काल-प्रत्यापत्ति-सम्भवे कदाचिद् उपनिबन्धो नात्यन्त-विरोधी । दीर्घ-काल-प्रत्यापत्तौ तु तस्यान्तरा प्रवाह-विच्छेद एवेत्य् एवं-विधेतिवृत्तोपनिबन्धनं रस-बन्ध-प्रधानेन कविना परिहर्तव्यम् ।
तत्र लब्ध-प्रतिष्ठे तु विवक्षिते रसे विरोधि-रसाङ्गानां बाध्यत्वेनोक्ताव् अदोषो यथा-
क्वाकर्यं शश-लक्ष्मणः क्व च कुलं भूयो ऽपि दृश्येत सा
दोषाणां प्रशमाय मे श्रुतम् अहो कोपे ऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्य् अपकल्मषाः कृत-धियः स्वप्ने ऽपि सा दुर्लभा
चेतः स्वास्थ्यम् उपैहि कः खलु युवा धन्यो ऽधरं पास्यति ॥
यथा वा पुण्डरीकस्य महाश्वेतां प्रति प्रवृत्त-निर्भरानुरागस्य द्वितीय-मुनि-कुमारोपदेश-वर्णने । स्वाभाविक्याम् अङ्ग-भाव-प्राप्ताव् अदोषो यथा-
भ्रमिम् अरतिम् अलस-हृदयतां
प्रलयं मूर्च्छां तमः शरीर-सादम् ।
मरणं च जलद-भुजगजं
प्रसह्य कुरुते विषं वियोगिनीनाम् ॥इत्य् आदौ ।
समारोपितायाम् अप्य् अविरोधो यथा-"पाण्डु-क्षामम्" इत्य् आदौ । इयं चाङ्ग-भाव-प्राप्तिर् अन्या यदाधिकारिकत्वात् प्रधान एकस्मिन् वाक्यार्थे रसयोर् भावयोर् वा परस्पर-विरोधिनोर् द्वयोर् अङ्ग-भाव-गमनं तस्याम् अपि न दोषः । यथोक्तं "क्षिप्तो हास्तावलग्नः" इत्य् आदौ । कथं तत्राविरोध इति चेत्, द्वयोर् अपि तयोर् अन्य-परत्वेन व्यवस्थानात् । अन्य-परत्वे ऽपि विरोधिनोः कथं विरोध-निवृत्तिर् इति चेत्, उच्यते-विधौ विरुद्ध-समावेशस्य दुष्टत्वं नानुवादे । यथा-
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
एवम् आशा-ग्रह-ग्रस्तैः क्रीडन्ति धनिनो ऽर्थिभिः ॥इत्य् आदौ ।
अत्र हि विधि-प्रतिषेधयोर् अनूद्यमानत्वेन समावेशे न विरोधस् तथेहापि भविष्यति । श्लोके ह्य् अस्मिन्न् ईर्ष्या-विप्रलम्भ-शृङ्गार-करुण-वस्तुनोर् न विधीयमानत्वम् । त्रिपुर-रिपु-प्रभावातिशयस्य वाक्यार्थत्वात् तद्-अङ्गत्वेन च तयोर् व्यवस्थानात् ।
न च रसेषु विध्य्-अनुवाद-व्यवहारो नास्तीति शक्यं वक्तुम्, तेषां वाक्यार्थत्वेनाभ्युपगमात् । वाक्यार्थस्य वाच्यस्य च यौ विध्य्-अनुवादौ तौ तद्-आक्षिप्तानां रसानां केन वार्यते । यैर् वा साक्षात्-काव्यार्थता रसादीनां नाभ्युपगम्यते, तैस् तेषां तन्-निमित्तता तावद् अवश्यम् अभ्युपगन्तव्या । तथाप्य् अत्र श्लोके न विरोधः ।
यस्माद् अनूद्यमानाङ्ग-निमित्तोभय-रस-वस्तु-सहकारिणो विधीयमानांशाद् भाव-विशेष-प्रतीतिर् उत्पद्यते ततश् च न कश्चिद् विरोधः । दृश्यते हि विरुद्धोभय-सहकारिणः कारणात् कार्य-विशेषोत्पत्तिः । विरुद्ध-फलोत्पादन-हेतुत्वं हि युगपद् एकस्य कारणस्य विरुद्धं न तु विरुद्धोभय-सहकारित्वम् । एवं-विध-विरुद्ध-पदार्थ-विषयः कथम् अभिनयः प्रयोक्तव्य इति चेत्, अनूद्यमानैवं-विध-वाच्य-विषये या वार्ता सात्रापि भविष्यति । एवं-विध्य्-अनुवादनयाश्रयेणात्र श्लोके परिहृतस् तावद् विरोधः ।
किं च नायकस्याभिनन्दनीयोदयस्य कस्यचित् प्रभावातिशय-वर्णने तत्-प्रतिपक्षाणां यः करुणो रसः स परीक्षकाणां न वैक्लव्यम् आदधाति प्रत्युत प्रीत्य्-अतिशय-निमित्ततां प्रतिपद्यत इत्य् अतस् तस्य कुण्ठ-शक्तिकत्वात् तद्-विरोध-विधायिनो न कश्चिद् दोषः । तस्माद् वाक्यार्थी-भूतस्य रसस्य भावस्य वा विरोधी रस-विरोधीति वक्तुं न्याय्यः, न त्व् अङ्ग-भूतस्य कस्यचित् ।
अथवा वाक्यार्थी-भूतस्यापि कस्यचित् करुण-रस-विषयस्य तादृशेन शृङ्गार-वस्तुना भङ्गि-विशेषाश्रयेण संयोजनं रस-परिपोषायैव जायते । यतः प्रकृति-मधुराः पदार्थाः शोचनीयतां प्राप्ताः प्राग्-अवस्था-भाविभिः संस्मर्यमाणैर् विलासैर् अधिकतरं शोकावेशम् उपजनयन्ति । यथा-
अयं स रशनोत्कर्षी पीन-स्तन-विमर्दनः ।
नाभ्यूरु-जघन-स्पर्शी नीवी-विस्रंसनः करः ॥इत्य् आदौ ।
तद् अत्र त्रिपुर-युवतीनां शाम्भवः शराग्निर् आर्द्रापराधः कामी यथा व्यवहरति स्म । तथा व्यवहृतवान् इत्य् अनेनापि प्रकारेणास्त्य् एव निर्विरोधत्वम् । तस्माद् यथा यथा निरूप्यते तथा तथात्र दोषाभावः । इत्थं च-
क्रामन्त्यः क्षत-कोमलाङ्गुलि-गलद्-रक्तैः सदर्भाः स्थलीः
पादैः पातित-यावकैर् इव पतद्-बाष्पाम्बु-धौताननाः ।
भीता भर्तृ-करावलम्बित-करास् त्वद्-वैरि-नाथो ऽधुना
दावाग्निं परितो भ्रमन्ति पुनर् अप्य् उद्यद्-विवाहा इव ॥
इत्य् एवम् आदीनां सर्वेषाम् एव निर्विरोधत्वम् अवगन्तव्यम् । एवं तावद् रसादीनां विरोधि-रसादिभिः समावेशासमावेशयोर् विषय-विभागो दर्शितः
इदानीं तेषाम् एक-प्रबन्ध-विनिवेशने न्याय्यो यः क्रमस् तं प्रतिपादयितुम् उच्यते-
ध्व्_3.21:
प्रसिद्धे ऽपि प्रबन्धानां नाना-रस-निबन्धने ।
एको रसो ऽङ्गीकर्तव्यस् तेषाम् उत्कर्षम् इच्छता
प्रबन्धेषु महाकाव्यादिषु नाटकादिषु वा विप्रकीर्णतयाङ्गाङ्गि-भावेन बहवो रसा उपनिबध्यन्त इत्य् अत्र प्रसिद्धौ सत्याम् अपि यः प्रबन्धानां छायातिशय-योगम् इच्छति तेन तेषां रसानाम् अन्यतमः कश्चिद् विवक्षितो रसो ऽङ्गित्वेन विनिवेशयितव्य इत्य् अयं युक्ततरो मार्गः
ननु रसान्तरेषु बहुषु प्राप्त-परिपोषेषु सत्सु कथम् एकस्याङ्गिता न विरुध्यत इत्य् आशङ्क्येदम् उच्यते-
ध्व्_3.22:
रसान्तर-समावेशः प्रस्तुतस्य रसस्य यः ।
नोपहन्त्य् अङ्गितां सो ऽस्य स्थायित्वेनावभासिनः
प्रबन्धेषु प्रथमतरं प्रस्तुतः सन् पुनः पुनर् अनुसन्धीयमानत्वेन स्थायी यो रसस् तस्य सकल-बन्ध-व्यापिनो रसान्तरैर् अन्तराल-वर्तिभिः समावेशो यः स नाङ्गिताम् उपहन्ति
एतद् एवोपपादयितुम् उच्यते-
ध्व्_3.23:
कार्यम् एकं यथा व्यापि प्रबन्धस्य विधीयते ।
तथा रसस्यापि विधौ विरोधो नैव विद्यते
सन्ध्यादि-मयस्य प्रबन्ध-शरीरस्य यथा कार्यम् एकम् अनुयायि व्यापकं कल्प्यते न च तत्-कार्यान्तरैर् न सङ्कीर्यते, न च तैः सङ्कीर्यमाणस्यापि तस्य प्राधान्यम् अपचीयते, तथैव रसस्याप्य् एकस्य सन्निवेशे क्रियमाणे विरोधो न कश्चित् । प्रत्युत प्रत्युदित-विवेकानाम् अनुसन्धानवतां स-चेतसां तथा-विधे विषये प्रह्लादातिशयः प्रवर्तते
ननु येषां रसानां परस्पराविरोधः यथा-वीर-शृङ्गारयोः शृङ्गार-हास्ययो रौद्र-शृङ्गारयोर् वीराद्भुतयोर् वीर-रौद्रयो रौद्र-करुणयोः शृङ्गाराद्भुतयोर् वा तत्र भवत्व् अङ्गाङ्गि-भावः । तेषां तु स कथं भवेद् येषां परस्परं बाध्य-बाधक-भावः ? यथा-शृङ्गार-बीभत्सयोर् वीर-भयानकयोः शान्त-रौद्रयोः शन्त-शृङ्गारयोर् वा इत्य् आशङ्क्येदम् उच्यते-
ध्व्_3.24:
अविरोधी विरोधी वा रसो ऽङ्गिनि रसान्तरे ।
परिपोषं न नेतव्यस् तथा स्याद् अविरोधिता
अङ्गिनि रसान्तरे शृङ्गारादौ प्रबन्ध-व्यङ्ग्ये सति अविरोधी विरोधी वा रसः परिपोषं न नेतव्यः । तत्राविरोधिनो रसस्याङ्गि-रसापेक्षयात्य् अन्तम् आधिक्यं न कर्तव्यम् इत्य् अयं प्रथमः परिपोष-परिहारः । उत्कर्ष-साम्ये ऽपि तयोर् विरोधासम्भवात् । यथा-
एकतो रोदिति प्रिया अन्यतः समर-तूर्य-निर्घोषः ।
स्नेहेन रण-रसेन च भटस्य दोलायितं हृदयम् ।
यथा वा-
कण्ठाच् छित्वाक्षमालावलयम् इव करे हारम् आवर्तयन्ती
कृत्वा पर्यङ्क-बन्धं विषधर-पतिना मेखलाया गुणेन ।
मिथ्या-मन्त्राभिजापस्फुरद्-अधर-पुट-व्यञ्जिताव्यक्त-हासा
देवी सन्ध्याभ्यसूया हसित-पशुपतिस् तत्र दृष्टा तु वो ऽव्यात् ॥इत्य् अत्र ।
अङ्गिरस-विरुद्धानां व्यभिचारिणां प्राचुर्येणानिवेशनम्, निवेशने वा क्षिप्रम् एवाङ्गिरस-व्यभिचार्य्-अनुवृत्तिर् इति द्वितीयः । अङ्गत्वेन पुनः पुनः प्रत्यवेक्षा परिपोषं नीयमानस्याप्य् अङ्ग-भूतस्य रसस्येति तृतीयः । अनया दिशान्ये ऽपि प्रकारा उत्प्रेक्षणीयाः । विरोधिनस् तु रसस्याङ्गिरसापेक्षया कस्यचिन् न्यूनता सम्पादनीया । यथा शान्ते ऽङ्गिनि शृङ्गारस्य शृङ्गारे वा शान्तस्य । परिपोष-रहितस्य रसस्य कथं रसत्वम् इति चेत्-उक्तम् अत्राङ्गिरसापेक्षयेति । अङ्गिनो हि रसस्य यावान् परिपोषस् तावांस् तस्य न कर्तव्यः, स्वतस् तु सम्भवी परिपोषः केन वार्यते । एतच् चापेक्षिकं प्रकर्ष-योगित्वम् एकस्य रसस्य बहु-रसेषु प्रबन्धेषु रसानाम् अङ्गाङ्गि-भावम् अनभ्युपगच्छताप्य् अशक्य-प्रतिक्षेपम् इत्य् अनेन प्रकारेणाविरोधिनां विरोधिनां च रसानाम् अङ्गाङ्गि-भावेन समावेशे प्रबन्धेषु स्याद् अविरोधः । एतच् च सर्वं येषां रसो रसान्तरस्य व्यभिचारी भवति इति दर्शनं तन्-मतेनोच्यते । मतान्तरे ऽपि रसानां स्थायिनो भावा उपचाराद् रस-शब्देनोक्तास् तेषाम् अङ्गत्वं निर्विरोधम् एव
एवम् अविरोधिनां विरोधिनां च प्रबन्ध-स्थेनाङ्गिना रसेन समावेशे साधारणम् अविरोधोपायं प्रतिपाद्येदानीं विरोधि-विषयम् एव तं प्रतिपादयितुम् इदम् उच्यते-
ध्व्_3.25:
विरुद्धैकाश्रयो यस् तु विरोधी स्थायिनो भवेत् ।
स विभिन्नाश्रयः कार्यस् तस्य पोषे ऽप्य् अदोषता
एकाधिकरण्य् अविरोधी नैरन्तर्य-विरोधी चेति द्विविधो विरोधी । तत्र प्रबन्ध-स्थेन स्थायिनाङ्गिना रसेनौचित्यापेक्षया विरुद्धैकाश्रयो यो विरोधी यथा वीरेण भयानकः स विभिन्नाश्रयः कार्यः । तस्य वीरस्य य आश्रयः कथानायकस् तद्-विपक्ष-विषये सन्निवेशयितव्यः । तथा सति च तस्य विरोधिनो ऽपि यः परिपोषः स निर्दोषः । विपक्ष-विषये हि भयातिशय-वर्णने नायकस्य नय-पराक्रमादि-सम्पत् सुतराम् उद्द्योतिता भवति । एतच् च मदीये ऽर्जुन-चरिते ऽर्जुनस्य पातालावतरण-प्रसङ्गे वैशद्येन प्रदर्शितम् ।
एवम् ऐकाधिकरण्य-विरोधिनः प्रबन्ध-स्थेन स्थायिना रसेनाङ्ग-भाव-गमने निर्विरोधत्वं यथा तथा तद् दर्शितम् । द्वितीयस्य तु तत् प्रतिपादयितुम् उच्यते-
ध्व्_3.26:
एकाश्रयत्वे निर्दोषो नैरन्तर्ये विरोधवान् ।
रसान्तर-व्यवधिना रसो व्यङ्ग्यः सुमेधसा
यः पुनर् एकाधिकरणत्वे निर्विरोधो नैरन्तर्ये तु विरोधी स रसान्तर-व्यवधानेन प्रबन्धे निवेशयितव्यः । यथा शान्त-शृङ्गारौ नागानन्दे निवेशितौ । शान्तश् च तृष्णा-क्षय-सुखस्य यः परिपोषस् तल्-लक्षणो रसः प्रतीयत एव । तथा चोक्तम्-
यच् च काम-सुखं लोके यच् च दिव्यं महत् सुखम् ।
तृष्णाक्षय-सुखस्यैते नार्हतः षोडशीं कलाम् ॥
यदि नाम सर्व-जनानुभव-गोचरता तस्य नास्ति नैतावतासाव् अलोक-सामान्य-महानुभाव-चित्त-वृत्ति-विशेषः प्रतिक्षेप्तुं शक्यः । न च वीरे तस्यान्तर्-भावः कर्तुं युक्तः । तस्याभिमान-मयत्वेन व्यवस्थापनात् । अस्य चाहङ्कार-प्रशमैक-रूपतया स्थितेः । तयोश् चैवं-विध-विशेष-सद्भावे ऽपि यद्य् ऐक्यं परिकल्प्यते तद् वीर-रौद्रयोर् अपि तथा प्रसङ्गः । दया-वीरादीनां च चित्त-वृत्ति-विशेषाणां सर्वाकारम् अहङ्कार-रहितत्वेन शान्त-रस-प्रभेदत्वम्, इतरथा तु वीर-प्रभेदत्वम् इति व्यवस्थाप्यमाने न कश्चिद् विरोधः ।
तद् एवम् अस्ति शान्तो रसः । तस्य चाविरुद्ध-रस-व्यवधानेन प्रबन्धे विरोधि-रस-समावेशे सत्य् अपि निर्विरोधत्वम् । यथा प्रदर्शिते विषये
एतद् एव स्थिरी-कर्तुम् इदम् उच्यते-
ध्व्_3.27:
रसान्तरान्तरितयोर् एक-वाक्य-स्थयोर् अपि ।
निवर्तते हि रसयोः समावेशे विरोधिता
रसान्तर-व्यवहितयोर् एक-प्रबन्ध-स्थयोर् विरोधिता निवर्तत इत्य् अत्र न काचिद् भ्रान्तिः ।
यस्माद् एक-वाक्य-स्थयोर् अपि रसयोर् उक्तया नीत्या विरुद्धता निवर्तते । यथा-
भू-रेणु-दिग्धान् नव-पारिजात-
माला-रजो-वासित-बाहु-मध्याः ।
गाढं शिवाभिः परिरभ्यमाणान्
सुराङ्गनाश्लिष्ट-भुजान् तरालाः ॥
स-शोणितैः क्रव्य-भुजां स्फुरद्भिः
पक्षैः खगानाम् उ पवीज्यमानान् ।
संवीजिताश् चन्दन-वारि-सेकैः
सुगन्धिभिः कल्प-लता-दुकूलैः ॥
विमान-पर्यङ्क-तले निषण्णाः
कुतूहलाविष्टतया तदानीम् ।
निर्दिश्यमानां ललनाङ्गुलीभिर्
वीराः स्व-देहान् पतितान् अपश्यन् ॥इत्य् आदौ ।
अत्र हि शृङ्गार-बीभत्सयोस् तद्-अङ्गयोर् वा वीर-रस-व्यवधानेन समावेशो न विरोधी ।
ध्व्_3.28:
विरोधम् अविरोधं च सर्वत्रेत्थं निरूपयेत् ।
विशेषतस् तु शृङ्गारे सुकुमारतमा ह्य् असौ
यथोक्त-लक्षणानुसारेण विरोधाविरोधौ सर्वेषु रसेषु प्रबन्धे ऽन्यत्र च निरूपयेत् सहृदयः; विशेषतस् तु शृङ्गारे । स हि रति-परिपोषात्मकत्वाद् रतेश् च स्वल्पेनापि निमित्तेन भङ्ग-सम्भवात् सुकुमारतमः सर्वेभ्यो रसेभ्यो मनाग् अपि विरोधि-समावेशं न सहते ।
ध्व्_3.29:
अवधानातिशयवान् रसे तत्रैव सत्-कविः ।
भवेत् तस्मिन् प्रमादो हि झटित्य् एवोपलक्ष्यते
तत्रैव च रसे सर्वेभ्यो ऽपि रसेभ्यः सौकुमार्यातिशय-योगिनि कविर् अवधानवान् प्रयत्नवान् स्यात् । तत्र हि प्रमाद्यतस् तस्य सहृदय-मध्ये क्षिप्रम् एवावज्ञान-विषयता भवति । शृङ्गार-रसो हि संसारिणां नियमेनानुभव-विषयत्वात् सर्व-रसेभ्यः कमनीयतया प्रधान-भूतः ।
एवं च सति-
ध्व्_3.30:
विनेयान् उन्मुखी-कर्तुं काव्य-शोभार्थम् एव वा ।
तद्-विरुद्ध-रस-स्पर्शस् तद्-अङ्गानां न दुष्यति
शृङ्गार-विरुद्ध-रस-स्पर्शः शृङ्गाराङ्गानां यः स न केवलम् अविरोध-लक्षण-योगे सति न दुष्यति यावद् विनेयान् उन्मुखीकर्तुं काव्य-शोभार्थम् एव वा क्रियमाणो न दुष्यति ।
शृङ्गार-रसाङ्गैर् उन्मुखी-कृताः सन्तो हि विनेयाः सुखं विनयोपदेशान् गृह्णन्ति ।
सद्-आचारोपदेश-रूपा हि नाटकादि-गोष्ठी विनेय-जन-हितार्थम् एव मुनिभिर् अवतारिता ।
किं च शृङ्गारस्य सकल-जन-मनो-हराभिरामत्वात् तद्-अङ्ग-समावेशः काव्ये शोभातिशयं पुष्यतीत्य् अनेनापि प्रकारेण विरोधिनि रसे शृङ्गाराङ्ग-समावेशो न विरोधी ।
ततश् च-
सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः ।
किं तु मत्ताङ्गनापाङ्ग-भङ्ग-लोलं हि जीवितम् ॥
इत्य् आदिषु नास्ति रस-विरोध-दोषः ।
ध्व्_3.31:
विज्ञायेत्थं रसादीनाम् अविरोध-विरोधयोः ।
विषयं सुकविः काव्यं कुर्वन् मुह्यति न क्वचित्
इत्थम् अनेनानन्तरोक्तेन प्रकारेण रसादीनां रस-भाव-तद्-आभासानां परस्परं विरोधस्याविरोधस्य च विषयं विज्ञाय सुकविः काव्य-विषये प्रतिभातिशय-युक्तः काव्यं कुर्वन् न क्वचिन् मुह्यति । एवं रसादिषु विरोधाविरोध-निरूपणस्योपयोगित्वं प्रतिपाद्य व्यञ्जक-वाच्य-वाचक-निरूपणस्यापि तद्-विषयस्य तत् प्रतिपाद्यते-
ध्व्_3.32:
वाच्यानां वाचकानां च यद् औचित्येन योजनम् ।
रसादि-विषयेणैतत् कर्म मुख्यं महा-कवेः
वाच्यानाम् इतिवृत्त-विशेषाणां वाचकानां च तद्-विषयाणां रसादि-विषयेणौचित्येन यद् योजनम् एतन् महाकवेर् मुख्यं कर्म । अयम् एव हि महाकवेर् मुख्यो व्यापारो यद् रसादीनाम् एव मुख्यतया काव्यार्थीकृत्य तद्-व्यक्त्य्-अनुगुणत्वेन शब्दानाम् अर्थानां चोपनिबन्धनम्
एतच् च रसादितात्पर्येण काव्यनिबन्धनं भरतादावपि सुप्रसिद्धम् एवेति प्रतिपादयितुम् आह-
ध्व्_3.33:
रसाद्य्-अनुगुणत्वेन व्यवहारो ऽर्थ-शब्दयोः ।
औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः
व्यवहारो हि वृत्तिर् इत्य् उच्यते । तत्र रसानुगुण औचित्यवान् वाच्याश्रयो यो व्यवहारस् ता एताः कैशिक्य्-आद्या वृत्तयः । वाचकाश्रयाश् चोपनागरिकाद्याः । वृत्तयो हि रसादि-तात्पर्येण संनिवेशिताः काम् अपि नाट्यस्य काव्यस्य च छायाम् आवहन्ति । रसादयो हि द्वयोर् अपि तयोर् जीव-भूताः । इतिवृत्तादि तु शरीर-भूतम् एव ।
अत्र केचिद् आहुः-"गुण-गुणि-व्यवहारो रसादीनाम् इतिवृत्तादिभिः सह युक्तः, न तु जीव-शरीर-व्यवहारः । रसादि-मयं हि वाच्यं प्रतिभासते न तु रसादिभिः पृथग्-भूतम्" इति । अत्रोच्यते-यदि रसादि-मयम् एव वाच्यं यथा गौरत्व-मयं शरीरम् । एवं सति यथा शरीरे प्रतिभासमाने नियमेनैव गौरत्वं प्रतिभासते सर्वस्य तथा वाच्येन सहैव रसादयो ऽपि सहृदयस्यासहृदयस्य च प्रतिभासेरन् । न चैवम्; तथा चैतत् प्रतिपादितम् एव प्रथमोद्द्योते ।
स्यान् मतम् । रत्नानाम् इव जात्यत्वं प्रतिपत्तृ-विशेषतः संवेद्यं वाच्यानां रसादि-रूपत्वम् इति । नैवम् । यतो यथा जात्यत्वेन प्रतिभासमाने रत्ने रत्न-स्वरूपानतिरिक्तत्वम् एव तस्य लक्ष्यते तथा रसादीनाम् अपि विभावानुभावादि-रूप-वाच्याव्यतिरिक्तत्वम् एव लक्ष्येत । न चैवम्; न हि विभावानुभाव-व्यभिचारिण एव रसा इति कस्यचिद् अवगमः । अत एव च विभावादि-प्रतीत्य्-अविनाभाविनी रसादीनां प्रतीतिर् इति तत्-प्रतीत्योः कार्य-कारण-भावेन व्यवस्थानात् क्रमो ऽवश्यम्भावी । स तु लाघवान् न प्रकाश्यते "इत्य् अलक्ष्य-क्रमा एव सन्तो व्यङ्ग्या रसादयः" इत्य् उक्तम् ।
ननु शब्द एव प्रकरणाद्य्-अवच्छिन्नो वाच्य-व्यङ्ग्ययोः समम् एव प्रतीतिम् उपजनयतीति किं तत्र क्रम-कल्पनया । न हि शब्दस्य वाच्य-प्रतीति-परामर्श एव व्यञ्जकत्वे निबन्धनम् । तथा हि गीतादि-शब्देभ्यो ऽपि रसाभिव्यक्तिर् अस्ति । न च तेषाम् अन्तरा वाच्य-परामर्शः ।
अत्रापि ब्रूमः-प्रकरणाद्य्-अवच्छेदेन व्यञ्जकत्वं शब्दानाम् इत्य् अनुमतम् एवैतद् अस्माकम् । किं तु तद्-व्यञ्जकत्वं तेषां कदाचित् स्वरूप-विशेष-निबन्धनं कदाचिद् वाचक-शक्ति-निबन्धनम् । तत्र येषां वाचक-शक्ति-निबन्धनं तेषां यदि वाच्य-प्रतीतिम् अन्तरेणैव स्वरूप-प्रतीत्या निष्पन्नं तद् भवेन् न तर्हि वाचक-शक्ति-निबन्धनम् । अथ तन्-निबन्धनं तन्-नियमेनैव वाच्य-वाचक-भाव-प्रतीत्य्-उत्तर-कालत्वं व्यङ्ग्य-प्रतीतेः प्राप्तम् एव ।
स तु क्रमो यदि लाघवान् न लक्ष्यते तत् किं क्रियते । यदि च वाच्य-प्रतीतिम् अन्तरेणैव प्रकरणाद्य्-अवच्छिन्न-शब्द-मात्र-साध्या रसादि-प्रतीतिः स्यात् तद्-अनवधारित-प्रकरणानां वाच्य-वाचकभावे च स्वयम् अव्युत्पन्नानां प्रतिपत्तॄणां काव्य-मात्र-श्रवणाद् एवासौ भवेत् । सह-भावे च वाच्य-प्रतीतेर् अनुपयोगः, उपयोगे वा न सहभावः । येषाम् अपि स्वरूप-विशेष-प्रतीति-निमित्तं व्यञ्जकत्वं यथा गीतादि-शब्दानां तेषाम् अपि स्वरूप-प्रतीतेर् व्यङ्ग्य-प्रतीतेश् च नियम-भावी क्रमः । तत् तु शब्दस्य क्रिया-पौर्वापर्यम् अनन्य-साध्य-तत्-फल-घटनास्व् आशु-भाविनीषु वाच्येनाविरोधिन्य् अभिधेयान्तर-विलक्षणे रसादौ न प्रतीयते ।
क्वचित् तु लक्ष्यत एव । यथानुरणन-रूप-व्यङ्ग्य-प्रतीतिषु । तत्रापि कथम् इति चेद् उच्यते-अर्थ-शक्ति-मूलानुरणन-रूप-व्यङ्ग्ये ध्वनौ तावद् अभिधेयस्य तत्-सामर्थ्याक्षिप्तस्य चार्थस्याभिधेयान्तर-विलक्षणतयात्यन्त-विलक्षणे ये प्रतीती तयोर् अशक्य-निह्नवो निमित्त-निमित्ति-भाव इति स्फुटम् एव तत्र पौर्वापर्यम् । यथा प्रथमोद्द्योते प्रतीयमानार्थ-सिद्ध्य्-अर्थम् उदाहृतासु गाथासु । तथा-विधे च विषये वाच्य-व्यङ्ग्ययोर् अत्यन्त-विलक्षणत्वाद् यैव एकस्य प्रतीतिः सैवेतरस्येति न शक्यते वक्तुम् । शब्द-शक्ति-मूलानुरणन-रूप-व्यङ्ग्ये तु ध्वनौ-"गावो वः पावनानां परम-परिमितां प्रीतिम् उत्पादयन्तु" इत्य् आदाव् अर्थ-द्वय-प्रतीतौ शाब्द्याम् अर्थ-द्वयस्योपमानोपमेय-भाव-प्रतीतिर् उपमा-वाचक-पद-विरहे सत्य् अर्थ-सामर्थ्याद् आक्षिप्तेति, तत्रापि सुलक्षम् अभिधेय-व्यङ्ग्यालङ्कार-प्रतीत्योः पौर्वापर्यम् ।
पद-प्रकाश-शब्द-शक्ति-मूलानुरणन-रूप-व्यङ्ग्ये ऽपि ध्वनौ विशेषण-पदस्योभयार्थ-सम्बन्ध-योग्यस्य योजकं पदम् अन्तरेण योजनम् अशाब्दम् अप्य् अर्थाद् अवस्थितम् इत्य् अत्रापि पूर्ववद् अभिधेय-तत्-सामर्थ्याक्षिप्तालङ्कार-मात्र-प्रतीत्योः सुस्थितम् एव पौर्वापर्यम् । आर्थ्य् अपि च प्रतिपत्तिस् तथाविधे विषये उभयार्थ-सम्बन्ध-योग्य-शब्द-सामर्थ्य-प्रसावितेति शब्द-शक्ति-मूला कल्प्यते ।
अविवक्षित-वाच्यस्य तु ध्वनेः प्रसिद्ध-स्व-विषय-वैमुख्य-प्रतीति-पूर्वकम् एवार्थान्तर-प्रकाशनम् इति नियम-भावी क्रमः । तत्राविवक्षित-वाच्यत्वाद् एव वाच्येन सह व्यङ्ग्यस्य क्रम-प्रतीति-विचारो न कृतः । तस्माद् अभिधानाभिधेय-प्रतीत्योर् इव वाच्य-व्यङ्ग्य-प्रतीत्योर् निमित्त-निमित्ति-भावान् नियम-भावी क्रमः । स तूक्त-युक्त्या क्वचिल् लक्ष्यते क्वचिन् न लक्ष्यते ।
तद् एवं व्यञ्जक-मुखेन ध्वनि-प्रकारेषु निरूपितेषु कश्चिद् ब्रूयात्-किम् इदं व्यञ्जकत्वं नाम व्यङ्ग्यार्थ-प्रकाशनम्, न हि व्यञ्जकत्वम् । तद् व्यङ्ग्यत्वं चार्थस्य व्यञ्जक-सिद्ध्य्-अधीनं व्यङ्ग्यत्वम् । व्यङ्ग्यापेक्षया च व्यञ्जकत्व-सिद्धिर् इत्य् अन्योन्य-संश्रयाद् अव्यवस्थानम् । ननु वाच्य-व्यतिरिक्तस्य व्यङ्ग्यस्य सिद्धिः प्राग् एव प्रतिपादिता तत्-सिद्ध्य्-अधीना च व्यञ्जक-सिद्धिर् इति कः पर्यनुयोगावसरः ।
सत्यम् एवैतत् । प्राग्-उक्त-युक्तिभिर् वाच्य-व्यतिरिक्तस्य वस्तुनः सिद्धिः कृता, स त्व् अर्थो व्यङ्ग्यतयैव कस्माद् व्यपदिश्यते यत्र च प्राधान्येनानवस्थानं तत्र वाच्यतयैवासौ व्यपदेष्टुं युक्तः, तत्-परत्वाद् वाक्यस्य । अतश् च तत्-प्रकाशिनो वाक्यस्य वाचकत्वम् एव व्यापारः । किं तस्य व्यापारान्तर-कल्पनया ? तस्मात् तात्पर्य-विषयो यो ऽर्थः स तावन् मुख्यतया वाच्यः । या त्व् अन्तरा तथा-विधे विषये वाच्यान्तर-प्रतीतिः सा तत्-प्रतीतेर् उपाय-मात्रं पदार्थ-प्रतीतिरिव वाक्यार्थ-प्रतीतेः ।
अत्रोच्यते-यत्र शब्दः स्वार्थम् अभिदधानो ऽर्थान्तरम् अवगमयति तत्र यत् तस्य स्वार्थाभिधायित्वं यच् च तदर्थान्तरावगम-हेतुत्वं तयोर् अविशेषो विशेषो वा । न तावद् अविशेषः; यस्मात् तौ द्वौ व्यापारौ भिन्न-विषयौ भिन्न-रूपौ च प्रतीयेते एव । तथा हि वाचकत्व-लक्षणो व्यापारः शब्दस्य स्वार्थ-विषयः गमकत्व-लक्षणस् त्व् अर्थान्तर-विषयः । न च स्व-पर-व्यवहारो वाच्य-व्यङ्ग्ययोर् अपह्नोतुं शक्यः, एकस्य सम्बन्धित्वेन प्रतीतेर् अपरस्य सम्बन्धि-सम्बन्धित्वेन । वाच्यो ह्य् अर्थः साक्षाच्-छब्दस्य सम्बन्धी तद्-इतरस् त्व् अभिधेय-सामर्थ्याक्षिप्तः सम्बन्धि-सम्बन्धी । यदि च स्व-सम्बन्धित्वं साक्षात् तस्य स्यात् तदार्थान्तरत्व-व्यवहार एव न स्यात् । तस्माद् विषय-भेदस् तावत् तयोर् व्यापारयोः सुप्रसिद्धः । रूप-भेदो ऽपि प्रसिद्ध एव । न हि यैवाभिधान-शक्तिः सैवावगमन-शक्तिः । अवाचकस्यापि गीत-शब्दादे रसादि-लक्षणार्थावगम-दर्शनात् । अशब्दस्यापि चेष्टादेर् अर्थ-विशेष-प्रकाशन-प्रसिद्धेः । तथा हि "व्रीडा-योगान् नतवदनया" इत्य् आदिश्लोके चेष्टाविशेषः सुकविनार्थ-प्रकाशनहेतुः प्रदर्शित एव । तस्माद् भिन्न-विषयत्वाद्भिन्न-रूपत्वाच् च स्वार्थाभिधायित्वम् अर्थान्तरावगम-हेतुत्वं च शब्दस्य यत् तयोः स्पष्ट एव भेदः । विशेषश् चेन् न तर्हीदानीम् अवगमनस्याभिधेय-सामर्थ्याक्षिप्तस्यार्थान्तरस्य वाच्यत्व-व्यपदेश्यता ।
शब्द-व्यापार-गोचरत्वं तु तस्यास्माभिर् इष्यत एव, तत् तु व्यङ्ग्यत्वेनैव न वाच्यत्वेन ।
प्रसिद्धाभिधानान्तर-सम्बन्ध-योग्यत्वेन च तस्यार्थान्तरस्य प्रतीतेः शब्दान्तरेण स्वार्थाभिधायिना यद्-विषयीकरणं तत्र प्रकाशनोक्तिर् एव युक्ता ।
न च पदार्थ-वाक्यार्थ-न्यायो वाच्य-व्यङ्ग्ययोः । यतः पदार्थ-प्रतीतिर् असत्यैवेति कैश्चिद् विद्वद्भिर् आस्थितम् । यैर् अप्य् असत्यत्वम् अस्या नाभ्युपेयते तैर् वाक्यार्थ-पदार्थयोर् घट-तद्-उपादान-कारण-न्यायो ऽभ्युपगन्तव्यः । यथा हि घटे निष्पन्ने तद्-उपादान-कारणानां न पृथग्-उपलम्भस् तथैव वाक्ये तद्-अर्थे वा प्रतीते पद-तद्-अर्थानां तेषां तदा विभक्ततयोपलम्भे वाक्यार्थ-बुद्धिर् एव दूरीभवेत् । न त्व् एष वाच्य-व्यङ्ग्ययोर् न्यायः, न हि व्यङ्ग्ये प्रतीयमाने वाच्य-बुद्धिर् दूरीभवति, वाच्यावभासाविनाभावेन तस्य प्रकाशनात् । तस्माद् घट-प्रदीप-न्यायस् तयोः, यथैव हि प्रदीप-द्वारेण घट-प्रतीताव् उत्पन्नायां न प्रदीप-प्रकाशो निवर्तते तद्-व्यङ्ग्य-प्रतीतौ वाच्यावभासः । यत् तु प्रथमोद्द्योते "यथा पदार्थ-द्वारेण" (1.10) इत्य् आद्य्-उक्तं तद्-उपायत्व-मात्रात् साम्य-विवक्षया ।
नन्व् एवं युगपद्-अर्थ-द्वय-योगित्वं वाक्यस्य प्राप्तं तद्-भावे च तस्य वाक्यतैव विघटते, तस्या ऐकार्थ्य-लक्षणत्वात् ; नैष दोषः ; गुण-प्रधान-भावेन तयोर् व्यवस्थानात् । व्यङ्ग्यस्य हि क्वचित् प्राधान्यं वाच्यस्योपसर्जन-भावः क्वचिद् वाच्यस्य प्राधान्यम् अपरस्य गुण-भावः । तत्र व्यङ्ग्य-प्राधान्ये ध्वनिर् इत्य् उक्तम् एव ; वाच्य-प्राधान्ये तु प्रकारान्तरं निर्देक्ष्यते । तस्मात् स्थितम् एतत्-व्यङ्ग्य-परत्वे ऽपि काव्यस्य न व्यङ्ग्यस्याभिधेयत्वम् अपि तु व्यङ्ग्यत्वम् एव ।
किं च व्यङ्ग्यस्य प्राधान्येनाविवक्षायां वाच्यत्वं तावद् भवद्भिर् नाभ्युपगन्तव्यम् अतत्परत्वाच् छब्दस्य । तद् अस्ति तावद् व्यङ्ग्यः शब्दानां कश्चिद् विषय इति । यत्रापि तस्य प्राधान्यं तत्रापि किम् इति तस्य स्वरूपम् अपह्नूयते । एवं तावद् वाचकत्वाद् अन्यद् एव व्यञ्जकत्वम् ; इतश् च वाचकत्वाद् व्यञ्जकत्वस्यान्यत्वं यद् वाचकत्वं शब्दैकाश्रयम् इतरत् तु शब्दाश्रयम् अर्थाश्रयं च शब्दार्थयोर् द्वयोर् अपि व्यञ्जकत्वस्य प्रतिपादितत्वात् ।
गुण-वृत्तिस् तूपचारेण लक्षणया चोभयाश्रयापि भवति । किन्तु ततो ऽपि व्यञ्जकत्वं स्वरूपतो विषयतश् च भिद्यते । रूप-भेदस् तावद् अयम्-यद् अमुख्यतया व्यापारो गुण-वृत्तिः प्रसिद्धा । व्यञ्जकत्वं तु मुख्यतयैव शब्दस्य व्यापारः । न ह्य् अर्थाद् व्यङ्ग्य-त्रय-प्रतीतिर् या तस्या अमुख्यत्वं मनाग् अपि लक्ष्यते ।
अयं चान्यः स्वरूप-भेदः-यद् गुण-वृत्तिर् अमुख्यत्वेन व्यवस्थितं वाचकत्वम् एवोच्यते । व्यञ्जकत्वं तु वाचकत्वाद् अत्यन्तं विभिन्नम् एव । एतच् च प्रतिपादितम् । अयं चापरो रूप-भेदो यद्गुण-वृत्तौ यदार्थो ऽर्थान्तरम् उपलक्षयति तदोपलक्षणीयार्थात्मना परिणत एवासौ सम्पद्यते । यथा "गङ्गायां घोषः" इत्य् आदौ । व्यञ्जकत्व-मार्गे तु यदार्थो ऽर्थान्तरं द्योतयति तदा स्वरूपं प्रकाशयन्न् एवासाव् अन्यस्य प्रकाशकः प्रतीयते प्रदीपवत् । यथा-"लीला-कमल-पत्राणि गणयामास पार्वती" इत्य् आदौ । यदि च यत्रातिरस्कृतस्व-प्रतीतिर् अर्थो ऽर्थान्तरं लक्षयति तत्र लक्षणा-व्यवहारः क्रियते, तद् एवं सति लक्षणैव मुख्यः शब्द-व्यापार इति प्राप्तम् । यस्मात् प्रायेण वाक्यानां वाच्य-व्यतिरिक्त-तात्पर्य-विषयार्थावभासित्वम् ।
ननु त्वत्-पक्षे ऽपि यदार्थो व्यङ्ग्य-त्रयं प्रकाशयति तदा शब्दस्य कीदृशो व्यापारः ? उच्यते-प्रकरणाद्य्-अवच्छिन्न-शब्द-वशेनैवार्थस्य तथा-विधं व्यञ्जकत्वम् इति शब्दस्य तत्रोपयोगः कथम् अपह्नूयते ?
विषय-भेदो ऽपि गुण-वृत्ति-व्यञ्जकत्वयोः स्पष्ट एव । यतो व्यञ्जकत्वस्य रसादयो ऽलङ्कार-विशेषा व्यङ्ग्य-रूपावच्छिन्नं वस्तु चेति त्रयं विषयः । तत्र रसादि-प्रतीतिर् गुण-वृत्तिर् इति न केनचिद् उच्यते न च शक्यते वक्तुम् । व्यङ्ग्यालङ्कार-प्रतीतिर् अपि तथैव । वस्तु-चारुत्व-प्रतीतये स्व-शब्दानभिधेयत्वेन यत् प्रतिपिपादयितुम् इष्यते तद् व्यङ्ग्यम् । तच् च न सर्वं गुण-वृत्तेर्विषयः प्रसिद्ध्य्-अनुरोधाभ्याम् अपि गौणानां शब्दानां प्रयोग-दर्शनात् । तथोक्तं प्राक् । यदपि च गुण-वृत्तेर् विषयस्तद् अपि च व्यञ्जकत्वानुप्रवेशेन । तस्माद् गुण-वृत्तेर् अपि व्यञ्जकत्वस्यात्यन्त-विलक्षणत्वम् । वाचकत्व-गुण-वृत्ति-विलक्षणस्यापि च तस्य तद्-उभयाश्रयत्वेन व्यवस्थानम् ।
व्यञ्जकत्वं हि क्वचिद् वाचकत्वाश्रयेण व्यवतिष्ठते, यथा विवक्षितान्य-पर-वाच्ये ध्वनौ । क्वचित् तु गुण-वृत्त्य्-आश्रयेण यथा अविवक्षित-वाच्ये ध्वनौ । तद्-उभयाश्रयत्व-प्रतिपादनायैव च ध्वनेः प्रथमतरं द्वौ प्रभेदाव् उपन्यस्तौ । तद् उभयाश्रितत्वाच् च तद्-एक-रूपत्वं तस्य न शक्यते वक्तुम् । यस्मान् न तद्-वाचकत्वैक-रूपम् एव, क्वचिल् लक्षणाश्रयेण वृत्तेः । न च लक्षणैक-रूपम् एवान्यत्र वाचकत्वाश्रयेण व्यवस्थानात् । न चोभय-धर्मत्वेनैव तद्-एकैक-रूपं न भवति । यावद् वाचकत्व-लक्षणादि-रूप-रहित-शब्द्-अधर्मत्वेनापि । तथा हि गीत-ध्वनीनाम् अपि व्यञ्जकत्वम् अस्ति रसादि-विषयम् । न च तेषां वाचकत्वं लक्षणा वा कथञ्चिल् लक्ष्यते । शब्दाद् अन्यत्रापि विषये व्यञ्जकत्वस्य दर्शनाद् वाचकत्वादि-शब्द-धर्म-प्रकारत्वम् अयुक्तं वक्तुम् । यदि च वाचकत्व-लक्षणादीनां शब्द-प्रकाराणां प्रसिद्ध-प्रकार-विलक्षणत्वे ऽपि व्यञ्जकत्वं प्रकारत्वेन परिकल्प्यते तच् छब्दस्यैव प्रकारत्वेन कस्मान् न परिकल्प्यते ?
तद् एवं शाब्दे व्यवहारे त्रयः प्रकाराः-वाचकत्वं गुण-वृत्तिर् व्यञ्जकत्वं च । तत्र व्यञ्जकत्वे यदा व्यङ्ग्य-प्राधान्यं तदा ध्वनिः, तस्य चाविवक्षित-वाच्यो विवक्षितान्य-पर-वाच्यश् चेति द्वौ प्रभेदाव् अनुक्रान्तौ प्रथमतरं तौ सविस्तरं निर्णीतौ ।
अन्यो ब्रूयात्-ननु विवक्षितान्य-पर-वाच्ये ध्वनौ गुण-वृत्तिता नास्तीति यद् उच्यते तद् युक्तम् । यस्माद् वाच्य-वाचक-प्रतीति-पूर्विका यत्रार्थान्तर-प्रतिपत्तिस् तत्र कथं गुण-वृत्ति-व्यवहारः, न हि गुण-वृत्तौ यदा निमित्तेन केनचिद् विषयान्तरे शब्द आरोप्यते अत्यन्त-तिरस्कृत-स्वार्थः । यथा-"अग्निर् माणवकः" इत्य् आदौ, यदा वा स्वार्थम् अंशेनापरित्यजंस् तत्-सम्बन्ध-द्वारेण विषयान्तरम् आक्रामति, यथा "गङ्गायां घोषः" इत्य् आदौ । तदाविवक्षित-वाच्यत्वम् उपपद्यते । अत एव च विवक्षितान्य-पर-वाच्ये ध्वनौ वाच्य-वाचकयोर् द्वयोर् अपि स्वरूप-प्रतीतिर् अर्थावगमनं च दृश्यत इति व्यञ्जकत्व-व्यवहारो युक्त्य्-अनुरोधी । स्वरूपं प्रकाशयन्न् एव परावभासको व्यञ्जक इत्य् उच्यते, तथाविधे विषये वाचकत्वस्यैव व्यञ्जकत्वम् इति गुण-वृत्ति-व्यवहारो नियमेनैव न शक्यते कर्तुम् । अविवक्षित-वाच्यस् तु ध्वनिर् गुण-वृत्तेः कथं भिद्यते ? तस्य प्रभेद-द्वये गुण-वृत्तिप्रभेदद्वय-रूपता लक्ष्यत एव यतः ।
अयम् अपि न दोषः । यस्माद् अविवक्षित-वाच्यो ध्वनिर् गुण-वृत्ति-मार्गाश्रयो ऽपि भवति न तु गुण-वृत्ति-रूप एव । गुण-वृत्तिर् हि व्यञ्जकत्व-शून्यापि दृश्यते । व्यञ्जकत्वं च यथोक्त-चारुत्व-हेतुं व्यङ्ग्यं विना न व्यवतिष्ठते । गुण-वृत्तिस् तु वाच्य-धर्माश्रयेणैव व्यङ्ग्य-मात्राश्रयेण चाभेदोपचार-रूपा सम्भवति, यथा-तीक्ष्णत्वाद् अग्निर् माणवकः, आह्लादकत्वाच् चन्द्र एवास्या मुखम् इत्य् आदौ । यथा च "प्रिये जने नास्ति पुनर् उक्तम्" इत्य् आदौ । यापि लक्षण-रूप-गुण-वृत्तिः साप्य् उपलक्षणीयार्थ-संबन्ध-मात्राश्रयेण चारु-रूप-व्यङ्ग्य-प्रतीतिं विनापि सम्भवत्य् एव, यथा-"मञ्चाः क्रोशन्ति" इत्य् आदौ विषये ।
यत्र तु सा चारु-रूप-व्यङ्ग्य-प्रतीति-हेतुस् तत्रापि व्यञ्जकत्वानुप्रवेशेनैव वाचकत्ववत् । असम्भविना चार्थेन यत्र व्यवहारः, यथा-"सुवर्ण-पुष्पां पृथिवीम्" इत्य् आदौ तत्र चारु-रूप-व्यङ्ग्य-प्रतीतिर् एव प्रयोजिकेति तथा-विधे ऽपि विषये गुण-वृत्तौ सत्याम् अपि ध्वनि-व्यवहार एव युक्त्य्-अनुरोधी । तस्माद् अविवक्षित-वाच्ये ध्वनौ द्वयोर् अपि प्रभेदयोर् व्यञ्जकत्व-विशेषाविशिष्टा गुण-वृत्तिर् न तु तद्-एक-रूपा सहृदय-हृदयाह्लादिनी प्रतीयमाना प्रतीति-हेतुत्वाद् विषयान्तरे तद्-रूप-शून्याया दर्शनात् । एतच् च सर्वं प्राक् सूचितम् अपि स्फुटतर-प्रतीतये पुनर् उक्तम् ।
अपि च व्यञ्जकत्व-लक्षणो यः शब्दार्थयोर् धर्मः स प्रसिद्ध-सम्बन्धानुरोधीति न कस्यचिद् विमति-विषयताम् अर्हति । शब्दार्थयोर् हि प्रसिद्धो यः सम्बन्धो वाच्य-वाचक-भावाख्यस् तम् अनुरुन्धान एव व्यञ्जकत्व-लक्षणो व्यापारः सामग्र्य्-अन्तर-सम्बन्धाद् औपाधिकः प्रवर्तते । अत एव वाचकत्वात् तस्य विशेषः । वाचकत्वं हि शब्द-विशेषस्य नियत आत्मा व्युत्पत्ति-कालाद् आरभ्य तद्-अविनाभावेन तस्य प्रसिद्धत्वात् । स त्व् अनियतः, औपाधिकत्वात् । प्रकरणाद्य्-अवच्छेदेन तस्य प्रतीतेर् इतरथा त्व् अप्रतीतेः ।
ननु यद्य् अनियतस् तत् किं तस्य स्वरूप-परीक्षया ? नैष दोषः ; यतः शब्दात्मनि तस्यानियतत्वम्, न तु स्वे विषये व्यङ्ग्य-लक्षणे । लिङ्गत्व-न्यायश् चास्य व्यञ्जक-भावस्य लक्ष्यते, यथा लिङ्गत्वम् आश्रयेष्व् अनियतावभासम्, इच्छाधीनत्वात् ; स्व-विषयाव्यभिचारि च ।
तथैवेदं यथा दर्शितं व्यञ्जकत्वम् । शब्दात्मन्य् अनियतत्वाद् एव च तस्य वाचकत्व-प्रकारता न शक्या कल्पयितुम् । यदि हि वाचकत्व-प्रकारता तस्य भवेत् तच्-छब्दात्मनि नियततापि स्याद् वाचकत्ववत् । स च तथा-विध औपाधिको धर्मः शब्दानाम् औत्पत्तिक-शब्दार्थ-सम्बन्ध-वादिना वाक्य-तत्त्व-विदा पौरुषापौरुषेययोर् वाक्ययोर् विशेषम् अभिदधता नियमेनाभ्युपगन्तव्यः, तद् अनभ्युपगमे हि तस्य शब्दार्थ-सम्बन्ध-नित्यत्वे सत्य् अप्य् अपौरुषेय-पौरुषेययोर् वाक्ययोर् अर्थ-प्रतिपादने निर्विशेषत्वं स्यात् ।
तद्-अभ्युपगमे तु पौरुषेयाणां वाक्यानां पुरुषेच्छानुविधान-समारोपितौपाधिक-व्यापारान्तराणां सत्य् अपि स्वाभिधेय-सम्बन्धापरित्यागे मिथ्यार्थतापि भवेत् ।
दृश्यते हि भावानाम् अपरित्यक्त-स्व-स्वभावानाम् अपि सामग्र्य्-अन्तर-सम्पात-सम्पादितौपाधिक-व्यापारान्तराणां विरुद्ध-क्रियत्वम् । तथा हि-हिम-मयूख-प्रभृतीनां निर्वापित-सकल-जीव-लोकं शीतलत्वम् उद्वहताम् एव प्रिया-विरह-दहन-दह्यमान-मानसैर् जनैर् आलोक्यमानानां सतां सन्ताप-कारित्वं प्रसिद्धम् एव । तस्मात् पौरुषेयाणां वाक्यानां सत्य् अपि नैसर्गिके ऽर्थ-सम्बन्धे मिथ्यार्थत्वं समर्थयितुम् इच्छता वाचकत्व-व्यतिरिक्तं किंचिद् रूपम् औपाधिकं व्यक्तम् एवाभिधानीयम् । तच् च व्यञ्जकत्वादृते नान्यत् । व्यङ्ग्य-प्रकाशनं हि व्यञ्जकत्वम् । पौरुषेयाणि च वाक्यानि प्राधान्येन पुरुषाभिप्रायम् एव प्रकाशयन्ति । स च व्यङ्ग्य एव न त्व् अभिधेयः, तेन सहाभिधानस्य वाच्य-वाचकभाव-लक्षण-सम्बन्धाभावात् ।
नन्व् अनेन न्यायेन सर्वेषाम् एव लौकिकानां वाक्यानां ध्वनि-व्यवहारः प्रसक्तः । सर्वेषाम् अप्य् अनेन न्यायेन व्यञ्जकत्वात् । सत्यम् एतत्; किं तु वक्त्र्-अभिप्राय-प्रकाशनेन यद् व्यञ्जकत्वं तत् सर्वेषाम् एव लौकिकानां वाक्यानाम् अविशिष्टम् । तत् तु वाचकत्वान् न भिद्यते व्यङ्ग्यम् हि तत्र नान्तरीयकतया व्यवस्थितम् । न तु विवक्षितत्वेन । यस्य तु विवक्षितत्वेन व्यङ्ग्यस्य स्थितिः तद् व्यञ्जकत्वं ध्वनि-व्यवहारस्य प्रयोजकम् । यत् त्व् अभिप्राय-विशेष-रूपं व्यङ्ग्यं शब्दार्थाभ्यां प्रकाशते तद् भवति विवक्षितं तात्पर्येण प्रकाश्यमानं सत् । किन्तु तद् एव केवलम् अपरिमित-विषयस्य ध्वनि-व्यवहारस्य न प्रयोजकम् अव्यापकत्वात् । तथा दर्शित-भेद-त्रय-रूपं तात्पर्येण द्योत्यमानम् अभिप्राय-रूपम् अनभिप्राय-रूपं च सर्वम् एव ध्वनि-व्यवहारस्य प्रयोजकम् इति यथोक्त-व्यञ्जक्त्व-विशेषे ध्वनि-लक्षणे नातिव्याप्तिर् न चाव्याप्तिः । तस्माद् वाक्य-तत्त्व-विदां मतेन तावद् व्यञ्जकत्व-लक्षणः शाब्दो व्यापारो न विरोधी प्रत्युतानुगुण एव लक्ष्यते ।
परिनिश्चित-निरप-भ्रंश-शब्द-ब्रह्मणां विपश्चितां मतम् आश्रित्यैव प्रवृत्तो ऽयं ध्वनि-व्यवहार इति तैः सह किं विरोधाविरोधौ चिन्त्येते । कृत्रिम-शब्दार्थ-सम्बन्ध-वादिनां तु युक्ति-विदाम् अनुभव-सिद्ध एवायं व्यञ्जक-भावः शब्दानाम् अर्थान्तराणाम् इवाविरोधश् चेति न प्रतिक्षेप्य-पदवीम् अवतरति ।
वाचकत्वे हि तार्किकाणां विप्रतिपत्तयः प्रवर्तन्ताम्, किम् इदं स्वाभाविकं शब्दानाम् आहो स्वित् सामयिकम् इत्य् आद्याः । व्यञ्जकत्वे तु तत्-पृष्ठ-भाविनि भावान्तर-साधारणे लोक-प्रसिद्ध एवानुगम्यमाने को विमतीनाम् अवसरः । अलौकिके ह्य् अर्थे तार्किकाणां विमतयो निखिलाः प्रवर्तन्ते न तु लौकिके । न हि नील-मधुरादिष्व् अशेष-लोकेन्द्रिय-गोचरे बाधा-रहिते तत्त्वे परस्परं विप्रतिपन्ना दृश्यन्ते । न हि बाधा-रहितं नीलं नीलम् इति ब्रुवन्न् अपरेण प्रतिषिध्यते नैतन् नीलं पीतम् एतद् इति । तथैव व्यञ्जकत्वं वाचकानां शब्दानाम् अवाचकानां च गीत-ध्वनीनाम् अशब्द-रूपाणां च चेष्टादीनां यत् सर्वेषाम् अनुभव-सिद्धम् एव तत् केनापह्नूयते । अशब्दम् अर्थं रमणीयं हि सूचयन्तो व्याहारास् तथा व्यापारा निबद्धाश् चानिबद्धाश् च विदग्ध-परिषत्सु विविधा विभाव्यन्ते ।
तान् उपहास्यताम् आत्मनः परिहरन् को ऽतिसन्दधीत सचेताः ।
अथ ब्रूयात्, अस्त्य् अतिसन्धानावसरः व्यञ्जकत्वं शब्दानां गमकत्वं तच् च लिङ्गत्वम् अतश् च व्यङ्ग्य-प्रतीतिर् लिङ्गि-प्रतीतिर् एवेति लिङ्गि-लिङ्ग-भाव एव तेषां व्यङ्ग्य-व्यञ्जक-भावो नापरः कश्चित् । अतश् चैतद् अवश्यम् एव बोद्धव्यं यस्माद् वक्त्र्-अभिप्रायापेक्षया व्यञ्जकत्वम् इदानीम् एव त्वया प्रतिपादितं वक्त्र्-अभिप्रायश् चानुमेय-रूप एव ।
अत्रोच्यते-नन्व् एवम् अपि यदि नाम स्यात् तत् किं नश् छिन्नम् । वाचकत्व-गुण-वृत्ति-व्यतिरिक्तो व्यञ्जकत्व-लक्षणः शब्द-व्यापारो ऽस्तीत्य् अस्माभिर् अभ्युपगतम् । तस्य चैवम् अपि न काचित् क्षतिः । तद् धि व्यञ्जकत्वं लिङ्गत्वम् अस्तु अन्यद् वा । सर्वथा प्रसिद्ध-शाब्द-प्रकार-विलक्षणत्वं शब्द-व्यापार-विषयत्वं च तस्यास्तीति नास्त्य् एवावयोर् विवादः । न पुनर् अयं परमार्थो यद्-व्यञ्जकत्वं लिङ्गत्वम् एव सर्वत्र व्यङ्ग्य-प्रतीतिश् च लिङ्गि-प्रतीतिर् एवेति ।
यद् अपि स्व-पक्ष-सिद्धये ऽस्मद्-उक्तम् अनूदितं त्वया वक्त्र्-अभिप्रायस्य व्यङ्ग्यत्वेनाभ्युपगमात् तत्-प्रकाशने शब्दानां लिङ्गत्वम् एवेति तद् एतद् यथास्माभिर् अभिहितं तद् विभज्यं प्रतिपाद्यते श्रूयताम्-द्विविधो विषयः शब्दानां-
अनुमेयः प्रतिपाद्यश् च । तत्रानुमेयो विवक्षा-लक्षणः । विवक्षा च शब्द-स्वरूप-प्रकाशनेच्छा शब्देनार्थ-प्रकाशनेच्छा चेति द्वि-प्रकारा । तत्राद्या न शाब्द-व्यवहाराङ्गम् । सा हि प्राणित्व-मात्र-प्रतिपत्ति-फला । द्वितीया तु शब्द-विशेषावधारणा-वसित-व्यवहितापि शब्द-करण-व्यवहार-निबन्धनम् । ते तु द्वे अप्य् अनुमेयो विषयः शब्दानाम् । प्रतिपाद्यस् तु प्रयोक्तुर् अर्थ-प्रतिपादन-समीहा-विषयीकृतो ऽर्थः ।
स च द्विविधः-वाच्यो व्यङ्ग्यश् च । प्रयोक्ता हि कदाचित् स्व-शब्देनार्थं प्रकाशयितुं समीहते कदाचित् स्व-शब्दानभिधेयत्वेन प्रयोजनापेक्षया कयाचित् । स तु द्विविधो ऽपि प्रतिपाद्यो विषयः शब्दानां न लिङ्गितया स्वरूपेण प्रकाशते, अपि तु कृत्रिमेणाकृत्रिमेण वा सम्बन्धान्तरेण । विवक्षा-विषयत्वं हि तस्यार्थस्य शब्दैर् लिङ्गितया प्रतीयते न तु स्वरूपम् । यदि हि लिङ्गितया तत्र शब्दानां व्यापारः स्यात् तच् छब्दार्थे सम्यङ् मिथ्यात्वादि विवादा एव न प्रवर्तेरन् धूमादि-लिङ्गानुमितानुमेयान्तरवत् । व्यङ्ग्यश् चार्थो वाच्य-सामर्थ्याक्षिप्ततया वाच्यवच् छब्दस्य सम्बन्धी भवत्य् एव । साक्षाद्-असाक्षाद्-भावो हि सम्बन्धस्याप्रयोजकः । वाच्य-वाचक-भावाश्रयत्वं च व्यञ्जकत्वस्य प्राग् एव दर्शितम् । तस्माद् वक्त्रभिप्राय-रूप एव व्यङ्ग्ये लिङ्गतया शब्दानां व्यापारः । तद्-विषयीकृते तु प्रतिपाद्यतया । प्रतीयमाने तस्मिन्न् अभिप्राय-रूपे ऽनभिप्राय-रूपे च वाचकत्वे नैव व्यापारः सम्बन्धान्तरेण वा । न तावद् वाचकत्वेन यथोक्तं प्राक् । सम्बन्धान्तरेण व्यञ्जकत्वम् एव । न च व्यञ्जकत्वं लिङ्गत्व-रूपम् एव आलोकादिष्व् अन्यथा दृष्टत्वात् । तस्मात् प्रतिपाद्यो विषयः शब्दानां न लिङ्गित्वेन सम्बन्धी वाच्यवत् । यो हि लिङ्गित्वेन तेषां सम्बन्धी यथा दर्शितो विषयः स न वाच्यत्वेन प्रतीयते, अपि तूपाधित्वेन । प्रतिपाद्यस्य च विषयस्य लिङ्गित्वे तद्-विषयाणां विप्रतिपत्तीनां लौकिकैर् एव क्रियमाणानाम् अभावः प्रसज्येतेति । एतच् चोक्तम् एव ।
यथा च वाच्य-विषये प्रमाणान्तरानुगमेन सम्यक्त्व-प्रतीतौ क्वचित् क्रियमाणायां तस्य प्रमाणान्तर-विषयत्वे सत्य् अपि न शब्द-व्यापार-विषयता-हानिस् तद्-व्यङ्ग्यस्यापि । काव्य-विषये च व्यङ्ग्य-प्रतीतीनां सत्या सत्य-निरूपणस्याप्रयोजकत्वम् एवेति तत्र प्रमाणान्तर-व्यापार-परीक्षोपहासायैव सम्पद्यते । तस्माल् लिङ्गि-प्रतीतिर् एव सर्वत्र व्यङ्ग्य-प्रतीतिर् इति न शक्यते वक्तुम् ।
यत् त्व् अनुमेय-रूप-व्यङ्ग्य-विषयं शब्दानां व्यञ्जकत्वं तद्-ध्वनि-व्यवहारस्याप्रयोजकम् । अपि तु व्यञ्जकत्व-लक्षणः शब्दानां व्यापार औत्पत्तिक-शब्दार्थ-सम्बन्ध-वादिनाप्य् अभ्युपगन्तव्य इति प्रदर्शनार्थम् उपन्यस्तम् । तद् धि व्यञ्जकत्वं कदाचिल् लिङ्गत्वेन कदाचिद् रूपान्तरेण शब्दानां वाचकानाम् अवाचकानां च सर्व-वादिभिर् अप्रतिक्षेप्यम् इत्य् अयम् अस्माभिर् यत्न आरब्धः । तद् एवं गुण-वृत्ति-वाचकत्वादिभ्यः शब्द-प्रकारेभ्यो नियमेनैव तावद् विलक्षणं व्यञ्जकत्वम् । तद्-अन्तः-पातित्वे ऽपि तस्य हठाद् अभिधीयमाने तद्-विशेषस्य ध्वनेर् यत्-प्रकाशनं विप्रतिपत्ति-निरासाय सहृदय-व्युत्पत्तये वा तत्-क्रियमाणम् अनतिसन्धेयम् एव । न हि सामान्य-मात्र-लक्षणेनोपयोगि-विशेष-लक्षणानां प्रतिक्षेपः शक्यः कर्तुम् । एवं हि सति सत्ता-मात्र-लक्षणे कृते सकल-सद्-वस्तु-लक्षणानां पौनरुक्त्य-प्रसङ्गः । तद् एवम्-
विमति-विषयो य आसीन् मनीषिणां सततम् अविदित-स-तत्त्वः ।
ध्वनि-संज्ञितः प्रकारः काव्यस्य व्यञ्जितः सो ऽयम्
ध्व्_3.34:
प्रकारो ऽन्यो गुणी-भूत-व्यङ्ग्यः काव्यस्य दृश्यते ।
यत्र व्यङ्ग्यान्वये वाच्य-चारुत्वं स्यात् प्रकर्षवत्
व्यङ्ग्यो ऽर्थो ललना-लावण्य-प्रख्यो यः प्रतिपादितस् तस्य प्राधान्ये ध्वनिर् इत्य् उक्तम् । तस्य तु गुणी-भावेन वाच्य-चारुत्व-प्रकर्षे गुणी-भूत-व्यङ्ग्यो नाम काव्य-प्रभेदः प्रकल्प्यते । तत्र वस्तु-मात्रस्य व्यङ्ग्यस्य तिरस्कृत-वाच्येभ्यः प्रतीयमानस्य कदाचिद् वाच्य-रूप-वाक्यार्थापेक्षया गुणी-भावे सति गुणी-भूत-व्यङ्ग्यता । यथा-
लावण्य-सिन्धुर् अपरैव हि केयम् अत्र
यत्रोत्पलानि शशिना सह सम्प्लवन्ते ।
उन्मज्जति द्विरद-कुम्भ-तटी च यत्र
यत्रापरे कदलिकाण्ड-मृणाल-दण्डाः ॥
अतिरस्कृतवाच्येभ्यो ऽपि शब्देभ्यः प्रतीयमानस्य व्यङ्ग्यस्य कदाचिद् वाच्य-प्राधान्येन काव्यचारुत्वापेक्षया गुणीभावे सति गुणीभूत-व्यङ्ग्यता, यथोदाहृतम्-"अनुरागवती सन्ध्या" इत्य् एवम् आदि । तस्यैव स्वयम् उक्त्या प्रकाशीकृतत्वेन गुणीभावः, यथोदाहृतम्-
"सङ्केत-काल-मनसम्" इत्य् आदि । रसादि-रूप-व्यङ्ग्यस्य गुणीभावो रसवद्-अलङ्कारे दर्शितः ; तत्र च तेषाम् आधिकारिक-वाक्यापेक्षया गुणीभावो विवहन-प्रवृत्त-भृत्यानुयायि-राजवत् । व्यङ्ग्यालङ्कारस्य गुणीभावे दीपकादि-विषयः
तथा-
ध्व्_3.35:
प्रसन्न-गम्भीर-पदाः काव्य-बन्धाः सुखावहाः ।
ये च तेषु प्रकारो ऽयम् एव योज्याः सुमेधसा
ये चैते ऽपरिमित-स्वरूपा अपि प्रकाशमानास् तथाविधार्थ-रमणीयाः सन्तो विवेकिनां सुखावहाः काव्य-बन्धास् तेषु सर्वेष्व् एवायं प्रकारो गुणी-भूत-व्यङ्ग्यो नाम योजनीयः । यथा-
लच्छी दुहिदा जामाउओ हरी तंस घरिणिआ गङ्गा ।
अमिअ-मिअङ्का अ सुआ अहो कुडुम्बं महोअहिणो ॥
[लक्ष्मी दुहिता जामाता हरिः तथा गृहिणी गङ्गा ।
अमृत-मृगाङ्कौ च सुतौ अहो कुटुम्बं महोदधेः ॥]
ध्व्_3.36:
वाच्यालङ्कार-वर्गो ऽयं व्यङ्ग्यांशानुगमे सति ।
प्रायेणैव परां छायां बिभ्रल् लक्ष्ये निरीक्ष्यते
वाच्यालङ्कार-वर्गो ऽयं व्यङ्ग्यांशस्यालङ्कारस्य वस्तु-मात्रस्य वा यथा-योगम् अनुगमे सति च्छायातिशयं बिभ्रल्-लक्षण-कारैर् एक-देशेन दर्शितः । स तु तथा-रूपः प्रायेण सर्व एव परीक्ष्यमाणो लक्ष्ये निरीक्ष्यते । तथा हि-दीपक-समासोक्त्यादि-वदन्ये ऽप्य् अलङ्काराः प्रायेण व्यङ्ग्यालङ्कारान्तर-वस्त्व्-अन्तर-संस्पर्शिनो दृश्यन्ते । यतः प्रथमं तावद् अतिशयोक्ति-गर्भता सर्वालङ्कारेषु शक्य-क्रिया । कृतैव च सा महा-कविभिः काम् अपि काव्यच्छविं पुष्यति, कथं ह्य् अतिशययोगिता स्व-विषयौचित्येन क्रियमाणा सती काव्ये नोत्कर्षम् आवहेत् ।
भामहेनाप्य् अतिशयोक्ति-लक्षणे यद् उक्तम्-
सैषा सर्वैव वक्रोक्तिर् अनयार्थो विभाव्यते ।
यत्नो ऽस्यां कविना कार्यः को ऽलङ्कारो ऽनया विना ॥इति ।
तत्रातिशयोक्तिर् यम् अलङ्कारम् अधितिष्ठति कवि-प्रतिभा-वशात् तस्य चारुत्वातिशय-योगो ऽन्यस्य त्व् अलङ्कार-मात्रतैवेति सर्वालङ्कार-शरीर-स्वीकरण-योग्यत्वेनाभेदोपचारात् सैव सर्वालङ्कार-रूपेत्य् अयम् एवार्थो ऽवगन्तव्यः । तस्याश् चालङ्कारान्तर-संकीर्णत्वं कदाचिद् वाच्यत्वेन कदचिद् व्यङ्ग्यत्वेन । व्यङ्ग्यत्वम् अपि कदाचित् प्राधान्येन कदाचिद् गुण-भावेन । तत्राद्ये पक्षे वाच्यालङ्कार-मार्गः । द्वितीये तु ध्वनाव् अन्तर्भावः । तृतीये तु गुणीभूत-व्यङ्ग्य-रूपता ।
अयं च प्रकारो ऽन्येषाम् अप्य् अलङ्काराणाम् अस्ति, तेषां तु न सर्व-विषयः । अतिशयोक्तेस् तु सर्वालङ्कार-विषयो ऽपि सम्भवतीत्य् अयं विशेषः । येषु चालङ्कारेषु सादृश्य-मुखेन तत्त्व-प्रतिलम्भः यथा रूपकोपमा-तुल्ययोगिता-निदर्शनादिषु तेषु गम्यमान-धर्म-मुखेनैव यत् सादृश्यं तद् एव शोभातिशय-शालि भवतीति ते सर्वे ऽपि चारुत्वातिशय-योगिनः सन्तो गुणीभूत-व्यङ्ग्यस्यैव विषयाः । समासोक्त्याक्षेप-पर्यायोक्त्य्-आदिषु तु गम्यमानांशाविनाभावेनैव तत्त्व-व्यवस्थानाद् गुणीभूत-व्यङ्ग्यता निर्विवादैव ।
तत्र च गुणीभूत-व्यङ्ग्यतायाम् अलङ्काराणां केषाञ्चिद् अलङ्कार-विशेष-गर्भतायां नियमः । यथा व्याज-स्तुतेः प्रेयो ऽलङ्कार-गर्भत्वे । केषाञ्चिद् अलङ्कार-मात्र-गर्भतायां नियमः । यथा सन्देहादीनाम् उपमा-गर्भत्वे । केषाञ्चिद् अलङ्काराणां परस्पर-गर्भतापि सम्भवति । यथा दीपकोपमयोः । तत्र दीपकम् उपमा-गर्भत्वेन प्रसिद्धम् । उपमापि कदाचिद् दीपक-च्छायानुयायिनी । यथा मालोपमा । तथा हि "प्रभा-महत्या शिखयेव दीपः" इत्य् आदौ स्फुटैव दीपक-च्छाया लक्ष्यते ।
तद् एवं व्यङ्ग्यांश-संस्पर्शे सति चारुत्वातिशय-योगिनो रूपकादयो ऽलङ्काराः सर्व एव गुणीभूत-व्यङ्ग्यस्य मार्गः । गुणीभूत-व्यङ्ग्यत्वं च तेषां तथा-जातीयानां सर्वेषाम् एवोक्तानुक्तानां सामान्यम् । तल्-लक्षणे सर्व एवैते सुलक्षिता भवन्ति । एकैकस्य स्वरूप-विशेष-कथनेन तु सामान्य-लक्षण-रहितेन प्रतिपाद-पाठेनेव शब्दा न शक्यन्ते तत्त्वतो निर्ज्ञातुम् आनन्त्यात् । अनन्ता हि वाग्-विकल्पास् तत्-प्रकारा एव चालङ्काराः । गुणीभूत-व्यङ्ग्यस्य च प्रकारान्तरेणापि व्यङ्ग्यार्थानुगम-लक्षणेन विषयत्वम् अस्त्य् एव । तद् अयं ध्वनि-निष्यन्द-रूपो द्वितीयो ऽपि महा-कवि-विषयो ऽतिरमणीयो लक्षणीयः सहृदयैः ।
सर्वथा नास्त्य् एव सहृदय-हृदय-हारिणः काव्यस्य स प्रकारो यत्र न प्रतीयमानार्थ-संस्पर्शेन सौभाग्यम् । तद् इदं काव्य-रहस्यं परम् इति सूरिभिर् भावनीयम् ।
ध्व्_3.37:
मुख्या महा-कवि-गिराम् अलङ्कृति-भृताम् अपि ।
प्रतीयमान-च्छायैषा भूषा लज्जेव योषिताम्
अनया सुप्रसिद्धो ऽप्य् अर्थः किम् अपि कामनीय-कमानीयते । तद् यथा-
विश्रम्भोत्था मन्मथाज्ञा-विधाने
ये मुग्धाक्ष्याः के ऽपि लीला-विशेषाः ।
अक्षुण्णास् ते चेतसा केवलेन
स्थित्वैकान्ते सन्ततं भावनीयाः ॥
इत्य् अत्र के ऽपीत्य् अनेन पदेन वाच्यम् अस्पष्टम् अभिदधता प्रतीयमानं वस्त्व्-अक्लिष्टम् अनन्तम् अर्पयता का छाया नोपपादिता
ध्व्_3.38:
अर्थान्तर-गतिः काक्वा या चैषा परिदृश्यते ।
सा व्यङ्ग्यस्य गुणी-भावे प्रकारम् इमम् आश्रिता
या चैषा काक्वा क्वचिद् अर्थान्तर-प्रतीतिर्दृश्यते स व्यङ्ग्यस्यार्थस्य गुणीभावे सति गुणीभूत-व्यङ्ग्य-लक्षणं काव्य-प्रभेदमाश्रयते । यथा-"स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः" । यथा वा-
आम् असत्यः उपरम पतिव्रते न त्वया मलिनितं शीलम् ।
किं पुनर् जनस्य जायेव नापितं तं न कामयामहे ॥
शब्द-शक्तिर् एव हि स्वाभिधेय-सामर्थ्याक्षिप्त-काकु-सहाया सत्य् अर्थ-विशेष-प्रतिपत्ति-हेतुर् न काकु-मात्रम् । विषयान्तरे स्वेच्छाकृतात् काकु-मात्रात् तथा-विधार्थ-प्रतिपत्त्य्-असम्भवात् । स चार्थः काकु-विशेष-सहाय-शब्द-व्यापारोपारूढो ऽप्य् अर्थ-सामर्थ्य-लभ्य इति व्यङ्ग्य-रूप एव । वाचकत्वानुगमेनैव तु यदा तद्-विशिष्ट-वाच्य-प्रतीतिस् तदा गुणीभूत-व्यङ्ग्यतया तथा-विधार्थ-द्योतिनः काव्यस्य व्यपदेशः । व्यङ्ग्य-विशिष्ट-वाच्याभिधायिनो हि गुणीभूत-व्यङ्ग्यत्वम् ।
ध्व्_3.38:
प्रभेदस्यास्य विषयो यश् च युक्त्या प्रतीयते ।
विधातव्या सहृदयैर् न तत्र ध्वनि-योजना
सङ्कीर्णो हि कश्चिद् ध्वनेर् गुणीभूत-व्यङ्ग्यस्य च लक्ष्ये दृश्यते मार्गः । तत्र यस्य युक्ति-सहायता तत्र तेन व्यपदेशः कर्तव्यः । न सर्वत्र ध्वनिर् आगिणा भवितव्यम् । यथा-
पत्युः शिरश्-चन्द्र-कलाम् अनेन
स्पृशेति सख्या परिहास-पूर्वम् ।
सा रञ्जयित्वा चरणौ कृताशीर्
माल्येन तां निर्वचनं जघान ॥
यथा च-
प्रयच्छतोच्चैः कुसुमानि मानिनी
विपक्ष-गोत्रं दयितेन लम्भिता ।
न किंचिद् ऊचे चरणेन केवलं
लिलेख बाष्पाकुल-लोचना भुवम् ॥
इत्य् अत्र "निर्वचनं जघान" "न किंचिद् ऊचे" इति प्रतिषेध-मुखेन व्यङ्ग्यस्यार्थस्योक्त्या किंचिद् विषयी-कृतत्वाद् गुणीभाव एव शोभते । यदा वक्रोक्तिं विना व्यङ्ग्यो ऽर्थस् तात्पर्येण प्रतीयते तदा तस्य प्राधान्यम् । यथा "एवं वादिनि देवर्षौ" इत्य् आदौ । इह पुनरुक्तिर् भङ्ग्यास्तीति वाच्यस्यापि प्राधान्यम् । तस्मान् नात्रानुरणन-रूप-व्यङ्ग्य-ध्वनि-व्यपदेशो विधेयः
ध्व्_3.40:
प्रकारो ऽयं गुणीभूत-व्यङ्ग्यो ऽपि ध्वनि-रूपताम् ।
धत्ते रसादि-तात्पर्य-पर्यालोचनया पुनः
गुणीभूत-व्यङ्ग्यो ऽपि काव्य-प्रकारो रस-भावादि-तात्पर्यालोचने पुनर् ध्वनिर् एव सम्पद्यते । यथात्रैवानन्तरोदाहृते श्लोक-द्वये । यथा च-
दुराराधा राधा सुभग यद् अनेनापि मृजतस्
तवैतत्-प्राणेशाजघन-वसनेनाश्रु पतितम् ।
कठोरं स्त्री-चेतस् तद् अलम् उपचारैर् विरम हे
क्रियात् कल्याणं वो हरिर् अनुनयेष्व् एवम् उदितः ॥
एवं स्थिते च "न्यक्कारो ह्य् अयम् एव" इत्य् आदि-श्लोक-निर्दिष्टानां पदानां व्यङ्ग्य-विशिष्ट-वाच्य-प्रतिपादने ऽप्य् एतद्-वाक्यार्थीभूत-रसापेक्षया व्यञ्जकत्वम् उक्तम् । ने तेषां पदानाम् अर्थान्तर-संक्रमित-वाच्य-ध्वनि-भ्रमो विधातव्यः, विवक्षित-वाच्यत्वात् तेषाम् । तेषु हि व्यङ्ग्य-विशिष्टत्वं वाच्यस्य प्रतीयते न तु व्यङ्ग्य-रूप-परिणतत्वम् ।
तस्माद् वाक्यं तत्र ध्वनिः, पदानि तु गुणीभूत-व्यङ्ग्यानि । न च केवलं गुणीभूत-व्यङ्ग्यान्य् एव पदान्य् अलक्ष्य-क्रम-व्यङ्ग्य-ध्वनेर् व्यञ्जकानि यावद्-अर्थान्तर-संक्रमित-वाच्यानि ध्वनि-प्रभेद-रूपाण्य् अपि । यथात्रैव श्लोके रावण इत्य् अस्य प्रभेदान्तर-रूप-व्यञ्जकत्वम् । यत्र तु वाक्ये रसादि-तात्पर्यं नास्ति गुणीभूत-व्यङ्ग्यैः पदैर् उद्भासिते ऽपि तत्र गुणीभूत-व्यङ्ग्यतैव समुदाय-धर्मः । यथा-
राजानम् अपि सेवन्ते विषमम् अप्य् उपयुञ्जते ।
रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः ॥इत्य् आदौ ।
वाच्य-व्यङ्ग्ययोः प्राधान्याप्राधान्य-विवेके परः प्रयत्नो विधातव्यः, येन ध्वनि-गुणीभूत-व्यङ्ग्ययोर् अलङ्काराणां चासङ्कीर्णो विषयः सुज्ञातो भवति । अन्यथा तु प्रसिद्धालङ्कार-विषय एव व्यामोहः प्रवर्तते । यथा-
लावण्य-द्रविण-व्ययो न गणितः क्लेशो महान् स्वीकृतः
स्वच्छन्दस्य सुखं जनस्य वसतश् चिन्तानलो दीपितः ।
एषापि स्वयम् एव तुल्य-रमणाभावाद् वराकी हता
को ऽर्थश् चेतसि वेधसा विनिहितस् तन्व्यास् तनुं तन्वता ॥[*21]
[*21] धर्म-कीर्तेः (कुवलयावली 100, औचित्य-विचार-चर्चा 11, स.उ.क. 814
इत्य् अत्र व्याज-स्तुतिर् अलङ्कार इति व्याख्यायि केनचित् तन् न चतुरस्रम्, यतो ऽस्याभिधेयस्यैतद्-अलङ्कार-स्वरूप-मात्र-पर्यवसायित्वे न सुश्लिष्टा । यतो न तावद् अयं रागिणः कस्यचिद् विकल्पः । तस्य "एषापि स्वयम् एव तुल्य-रमणाभावाद् वराकी हता" इत्य् एवं-विधोक्त्य्-अनुपपत्तेः । नापि नीरागस्य; तस्यैवं-विध-विकल्प-परिहारैक-व्यापारत्वात् । न चायं श्लोकः क्वचित् प्रबन्ध इति श्रूयते, येन तत्-प्रकरणानुगतार्थतास्य परिकल्प्यते । तस्माद् अप्रस्तुत-प्रशंसेयम् । यस्माद् अनेन वाच्येन गुणीभूतात्मना निःसामान्य-गुणावलोपाध्मातस्य निज-महिमोत्कर्ष-जनित-समत्सर-जन-ज्वरस्य विशेष-ज्ञम् आत्मनो न कञ्चिद् एवापरं पश्यतः परिदेवितम् एतद् इति प्रकाश्यते । तथा चायं धर्मकीर्तेः श्लोक इति प्रसिद्धिः । सम्भाव्यते च तस्यैव ।
यस्मात्-
अनध्यवसितावगाहनम् अनल्प-धी-शक्तिनाप्य्
अदृष्ट-परमार्थ-तत्त्वम् अधिकाभियोगैर् अपि ।
मतं मम जगत्य् अलब्ध-सदृश-प्रतिग्राहकं
प्रयास्यति पयोनिधेः पय इव स्व-देहे जराम् ॥
इत्य् अनेनापि श्लोकेनैवं-विधो ऽभिप्रायः प्रकाशित एव । अप्रस्तुत-प्रशंसायां च यद् वाच्यं तस्य कदाचिद् विवक्षितत्वं, कदाचिद् अविवक्षितत्वं, कदाचिद् विवक्षिताविवक्षितत्वम् इति त्रयी बन्ध-च्छाया ।
तत्र विवक्षितत्वं, यथा-
परार्थे यः पीडाम् अनुभवति भङ्गे ऽपि मधुरो
यदीयः सर्वेषाम् इह खलु विकारो ऽप्य् अभिमतः ।
न सम्प्राप्तो वृद्धिं यदि स भृशम् अक्षेत्र-पतितः
किम् इक्षोर् दोषो ऽसौ न पुनर् अगुणाया मरु-भुवः ॥[*22]
[*22] स्प्द् 1052
यथा वा ममैव-
अमी ये दृश्यन्ते ननु सुभग-रूपाः सफलता
भवत्य् एषां यस्य क्षणम् उपगतानां विषयताम् ।
निरालोके लोके कथम् इदम् अहो चक्षुर् अधुना
समं जातं सर्वैर् न समम् अथवान्यैर् अवयवैः ॥
अनयोर् हि द्वयोः श्लोकयोर् इक्षु-चक्षुषी विवक्षित-स्वरूपे एव न च प्रस्तुते । महा-गुणस्याविषय-पतितत्वाद् अप्राप्त-पर-भागस्य कस्यचित् स्वरूपम् उपवर्णयितुं द्वयोर् अपि श्लोकयोस् तात्पर्येण प्रस्तुतत्वात् । अविवक्षितत्वं यथा-
कस् त्वं भोः कथयामि दैव-हतकं मां विद्धि शाखोटकं
वैराग्याद् इव वक्षि, साधु विदितं कस्माद् इदं कथ्यते ।
वामेनात्र वटस् तम् अध्वग-जनः सर्वात्मना सेवते
न च्छायापि परोपकार-करिणी मार्ग-स्थितस्यापि मे ॥
न हि वृक्ष-विशेषेण सहोक्ति-प्रत्युक्ती सम्भवत इत्य् अविवक्षिताभिधेयेनैवानेन श्लोकेन समृद्धासत्-पुरुष-समीप-वर्तिनो निर्धनस्य कस्यचिन् मनस्विनः परिदेवितं तात्पर्येण वाक्यार्थीकृतम् इति प्रतीयते । विवक्षितत्वाविवक्षितत्वं यथा-
उत्पथ-जाताया अशोभनाया फल-कुसुम-पत्र-रहितायाः ।
बदर्या वृत्तिं ददत्-पामारः भोः हसिष्यसे ॥
अत्र हि वाच्यार्थो नात्यन्तं सम्भवी न चासम्भवी । तस्माद् वाच्य-व्यङ्ग्ययोः प्राधान्याप्राधान्ये यत्नतो निरूपणीये
ध्व्_3.41-42:
प्रधान-गुण-भावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते ।
काव्ये उभे ततो ऽन्यद् यत् तच् चित्रम् अभिधीयते
चित्रं शब्दार्थ-भेदेन द्विविधं च व्यवस्थितम् ।
तत्र किंचिच् छब्द-चित्रं वाच्य-चित्रम् अतः परम्
व्यङ्ग्यस्यार्थस्य प्राधान्ये ध्वनि-संज्ञित-काव्य-प्रकारः गुण-भावे तु गुणीभूत-व्यङ्ग्यता । ततो ऽन्यद् रस-भावादि-तात्पर्य-रहितं व्यङ्ग्यार्थ-विशेष-प्रकाशन-शक्ति-शून्यं च काव्यं केवल-वाच्य-वाचक-वैचित्र्य-मात्राश्रयेणोपनिबद्धम् आलेख्य-प्रख्यं यद् आभासते तच् चित्रम् । न तन्-मुख्यं काव्यम् । काव्यानुकारो ह्य् असौ । तत्र किंचिच् छब्द-चित्रं यथा दुष्कर-यमकादि । वाच्य-चित्रं ततः शब्द-चित्राद् अन्यद् व्यङ्ग्यार्थ-संस्पर्श-रहितं प्राधान्येन वाक्यार्थतया स्थितं रसादि-तात्पर्य-रहितम् उत्प्रेक्षादि ।
अथ किम् इदं चित्रं नाम ? यत्र न प्रतीयमानार्थ-संस्पर्शः । प्रतीयमानो ह्य् अर्थस् त्रिभेदः प्राक् प्रदर्शितः । तत्र यत्र वस्त्व्-अलङ्कारान्तरं वा व्यङ्ग्यं नास्ति स नाम चित्रस्य कल्प्यतां विषयः । यत्र तु रसादीनाम् अविषयत्वं स काव्य-प्रकारो न सम्भवत्य् एव । यस्माद् अवस्तु-संस्पर्शिता काव्यस्य नोपपद्यते । वस्तु च सर्वम् एव जगद् गतम् अवश्यं कस्यचिद् रसस्य भावस्य वाङ्गत्वं प्रतिपद्यते अन्ततो विभावत्वेन । चित्त-वृत्ति-विशेषा हि रसादयः, न च तद् अस्ति वस्तु किंचिद् यन् न चित्त-वृत्ति-विशेषम् उपजनयति तद्-अनुत्पादने वा कवि-विषयतैव तस्य न स्यात् कवि-विषयश् च चित्रतया कश्चिन् निरूप्यते ।
अत्रोच्यते-सत्यं न तादृक्-काव्य-प्रकारो ऽस्ति यत्र रसादीनाम् अप्रतीतिः । किं तु यदा रस-भावादि-विवक्षा-शून्यः कविः शब्दालङ्कारम् अर्थालङ्कारं वोपनिबध्नाति तदा तद्-विवक्षापेक्षया रसादि-शून्यतार्थस्य परिकल्प्यते । विवक्षोपारूढ एव हि काव्ये शब्दानाम् अर्थः । वाच्य-सामर्थ्य-वशेन वा कवि-विवक्षा-विरहे ऽपि तथा-विधे विषये रसादि-प्रतीतिर् भवन्ती परिदुर्बला भवतीत्य् अनेनापि प्रकारेण नीरसत्वं परिकल्प्य चित्र-विषयो व्यवस्थाप्यते । तद् इदम् उक्तम्-
रस-भावादि-विषय-विवक्षा-विरहे सति ।
अलङ्कार-निबन्धो यः स चित्र-विषयो मतः ॥
रसादिषु विवक्षा तु स्यात् तात्पर्यवती यदा ।
तदा नास्त्य् एव तत् काव्यं ध्वनेर् यत्र न गोचरः ॥
एतच् च चित्रं कवीनां विशृङ्खल-गिरां रसादि-तात्पर्यम् अनपेक्ष्यैव काव्य-प्रवृत्ति-दर्शनाद् अस्माभिः परिकल्पितम् । इदानीन्तनानां तु न्याय्ये काव्य-नय-व्यवस्थापने क्रियमाणे नास्त्य् एव ध्वनि-व्यतिरिक्तः काव्य-प्रकारः । यतः परिपाकवतां कवीनां रसादि-तात्पर्य-विरहे व्यापार एव न शोभते । रसादि-तात्पर्ये च नास्त्य् एव तद् वस्तु यद् अभिमत-रसाङ्गतां नीयमानं न प्रगुणीभवति । अचेतना पि हि भावा यथायथम् उचित-रस-विभावतया चेतन-वृत्तान्त-योजनया वा न सन्त्य् एव ते ये यान्ति न रसाङ्गताम् । तथा चेदम् उच्यते-
अपारे काव्य-संसारे कविर् एकः प्रजापतिः ।
यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥
शृङ्गारी चेत् कविः काव्ये जातं रस-मयं जगत् ।
स एव वीत-रागश् चेन् नीरसं सर्वम् एव तत् ॥
भावान् अचेतनान् अपि चेतनवच् चेतनानचेतनवत् ।
व्यवहारयति यथेष्टं सुकविः काव्ये स्वतन्त्रतया ॥
तस्मान् नास्त्य् एव तद् वस्तु यत् सर्वात्मना रस-तात्पर्यवतः कवेस् तद्-इच्छया तद्-अभिमत-रसाङ्गतां न धत्ते । तथोपनिबध्यमानं वा न चारुत्वातिशयं पुष्णाति । सर्वम् एतच् च महा-कवीनां काव्येषु दृश्यते । अस्माभिर् अपि स्वेषु काव्य-प्रबन्धेषु यथायथं दर्शितम् एव । स्थिते चैवं सर्व एव काव्य-प्रकारो न ध्वनि-धर्मताम् अतिपतति रसाद्य्-अपेक्षायां कवेर् गुणीभूत-व्यङ्ग्य-लक्षणो ऽपि प्रकारस् तद्-अङ्गताम् अवलम्बत इत्य् उक्तं प्राक् । यदा तु चाटुषु देवता-स्तुतिषु वा रसादीनाम् अङ्गतया व्यवस्थानं हृदयवतीषु च सुप्रज्ञक-गाथासु कासुचिद् व्यङ्ग्य-विशिष्ट-वाच्ये प्राधान्यं तद् अपि गुणीभूत-व्यङ्ग्यस्य ध्वनि-निष्पन्द-भूतत्वम् एवेत्य् उक्तं प्राक् । तद् एवम् इदानींतन-कवि-काव्य-नयोपदेशे क्रियमाणे प्राथमिकानाम् अभ्यासार्थिनां यदि परं चित्रेण व्यवहारः, प्राप्त-परिणतीनां तु ध्वनिर् एव काव्यम् इति स्थितम् एतत् ।
तद् अयम् अत्र सङ्ग्रहः-
यस्मिन् रसो वा भावो वा तात्पर्येण प्रकाशते ।
संवृत्त्याभिहितौ वस्तु यत्रालङ्कार एव वा ॥
काव्याध्वनि ध्वनिर् व्यङ्ग्य-प्राधान्यैक-निबन्धनः ।
सर्वत्र तत्र विषयी ज्ञेयः सहृदयैर् जनैः
ध्व्_3.43:
सगुणीभूत-व्यङ्ग्यैः सालङ्कारैः सह प्रभेदैः स्वैः ।
सङ्कर-संसृष्टिभ्यां पुनर् अप्य् उद्द्योतते बहुधा
तस्य च ध्वनेः स्व-प्रभेदैर् गुणीभूत-व्यङ्ग्येन वाच्यालङ्कारैश् च सङ्कर-संसृष्टि-व्यवस्थायां क्रियमाणायां बहु-प्रभेदता लक्ष्ये दृश्यते । तथा हि स्व-प्रभेद-सङ्कीर्णः, स्व-प्रभेद-संसृष्टो गुणीभूत-व्यङ्ग्य-सङ्कीर्णो गुणीभूत-व्यङ्ग्य-संसृष्टो वाच्यालङ्कारान्तर-सङ्कीर्णो वाच्यालङ्कारान्तर-संसृष्टः संसृष्टालङ्कार-सङ्कीर्णः संसृष्टालङ्कार-संसृष्टश् चेति बहुधा ध्वनिः प्रकाशते ।
तत्र स्व-प्रभेद-सङ्कीर्णत्वं कदाचिद् अनुग्राह्यानुग्राहक-भावेन । यथा-"एवं-वादिनि देवर्षौ" इत्य् आदौ । अत्र ह्य् अर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्य-ध्वनि-प्रभेदेनालक्ष्य-क्रम-व्यङ्ग्य-ध्वनि-प्रभेदो ऽनुगृह्यमाणः प्रतीयते । एवं कदाचित् प्रभेद-द्वय-सम्पात-सन्देहेन । यथा-
खण-पाहुणिआ देअर एसा जाआएं किं पि दे भणिदा ।
रुअ{इ} पडोहर-वलही-घरम्मि अणुणिज्ज{उ} बराई ॥
[क्षण-प्राघुणिका देवर एषा जायया किम् अपि ते भणिता ।
रोदिति शून्य-वलभी-गृहे ऽनुनीयतां वराकी ॥]
अत्र ह्य् अनुनीयताम् इत्य् एतत्-पदम् अर्थान्तर-सङ्क्रमित-वाच्यत्वेन विवक्षितान्य् अपर-वाच्यत्वेन च सम्भाव्यते । न चान्यतर-पक्ष-निर्णये प्रमाणम् अस्ति । एक-व्यञ्जकानुप्रवेशेन तु व्यङ्ग्यत्वम् अलक्ष्य-क्रम-व्यङ्ग्यस्य स्व-प्रभेदान्तरापेक्षया बाहुल्येन सम्भवति । यथा-"स्निग्ध-श्यामल" इत्य् आदौ । स्व-प्रभेद-संसृष्टत्वं च यथा पूर्वोदाहरण एव । अत्र ह्य् अर्थान्तर-संक्रमित-वाच्यस्यात्यन्त-तिरस्कृत-वाच्यस्य च संसर्गः ।
गुणी-भूत-व्यङ्ग्य-सङ्कीर्णत्वं यथा-"न्यक्-कारो ह्य् अयम् एव मे यद् अरयः" इत्य् आदौ ।
यथा वा-
कर्ता द्यूत-च्छलानां जतु-मय-शरणोद्दीपनः सो ऽभिमानी
कृष्णा-केशोत्तरीय-व्यपनयन-पटुः पाण्डवा यस्य दासाः ।
राजा दुःशासनादेर् गुरुर् अनुज-शतस्याङ्ग-राजस्य मित्रं
क्वास्ते दुर्योधनो ऽसौ कथयत न रुषा द्रष्टुम् अभ्यागतौ स्वः ॥
अत्र ह्य् अलक्ष्य-क्रम-व्यङ्ग्यस्य वाक्यार्थी-भूतस्य व्यङ्ग्य-विशिष्ट-वाच्याभिधायिभिः पदैः सम्मिश्रता । अत एव च पदार्थाश्रयत्वे गुणी-भूत-व्यङ्ग्यस्य वाक्यार्थाश्रयत्वे च ध्वनेः सङ्कीर्णतायाम् अपि न विरोधः स्व-प्रभेदान्तरवत् । यथा हि ध्वनि-प्रभेदान्तराणि परस्परं सङ्कीर्यन्ते पदार्थ-वाक्यार्थाश्रयत्वेन च न विरुद्धानि ।
किं चैक-व्यङ्ग्याश्रयत्वे तु प्रधान-गुण-भावो विरुध्यते न तु व्यङ्ग्य-भेदापेक्षया, ततो ऽप्य् अस्य न विरोधः ।
अयं च सङ्कर-संसृष्टि-व्यवहारो बहूनाम् एकत्र वाच्य-वाचक-भाव इव व्यङ्ग्य-व्यञ्जक-भावे ऽपि निर्विरोध एव मन्तव्यः । यत्र तु पदानि कानिचिद् अविवक्षित-वाच्यान्य् अनुरणन-रूप-व्यङ्ग्य-वाच्यानि वा तत्र ध्वनि-गुणी-भूत-व्यङ्ग्ययोः संसृष्टत्वम् । यथा-"तेषां गोप-वधू-विलास-सुहृदाम्" इत्य् आदौ ।
अत्र हि "विलास-सुहृदाम्" "राधा-रहः-साक्षिणाम्" इत्य् एते पदे ध्वनि-प्रभेद-रूपे "ते" "जाने" इत्य् एते च पदे गुणी-भूत-व्यङ्ग्य-रूपे । वाच्यालङ्कार-सङ्कीर्णत्वम् अलक्ष्य-क्रम-व्यङ्ग्यापेक्षया रसवति सालङ्कारे काव्ये सर्वत्र सुव्यवस्थितम् । प्रभेदान्तराणाम् अपि कदाचित् सङ्कीर्णत्वं भवत्य् एव । यथा ममैव-
या व्यापारवती रसान् रसयितुं काचित् कवीनां नवा
दृष्टिर् या परिनिष्ठितार्थ-विषयोन्मेषा च वैपश्चिती ।
ते द्वे अप्य् अवलम्ब्य विश्वम् अनिशं निर्वर्णयन्तो वयं
श्रान्ता नैव च लब्धम् अब्धि-शयन ! त्वद्-भक्ति-तुल्यं सुखम् ॥
इत्य् अत्र विरोधालङ्कारेणार्थान्तर-संक्रमित-वाच्यस्य ध्वनि-प्रभेदस्य सङ्कीर्णत्वम् ।
वाच्यालङ्कार-संसृष्टत्वं च पदापेक्षयैव । यत्र हि कानिचित् पदानि वाच्यालङ्कार-भाञ्जि कानिचिच् च ध्वनि-प्रभेद-युक्तानि । यथा-
दीर्घीकुर्वन् पटु मद-कलं कूजितं सारसानां
प्रत्यूषेषु स्फुटित-कमलामोद-मैत्री-कषायः ।
यत्र स्त्रीणां हरति सुरत-ग्लानिम् अङ्गानुकूलः
सिप्रावातः प्रियतम इव प्रार्थना-चाटु-कारः ॥
अत्र हि मैत्री-पदम् अविवक्षित-वाच्यो ध्वनिः । पदान्तरेष्व् अलङ्कारान्तराणि ।
संसृष्टालङ्कारान्तर-सङ्कीर्णो ध्वनिर्, यथा-
दन्त-क्षतानि करजैश् च विपाटितानि
प्रोद्भिन्न-सान्द्र-पुलके भवतः शरीरे ।
दत्तानि रक्त-मनसा मृग-राज-वध्वा
जात-स्पृहैर् मुनिभिर् अप्य् अवलोकितानि ॥
अत्र हि समासोक्ति-संसृष्टेन विरोधालङ्कारेण सङ्कीर्णस्यालक्ष्य-क्रम-व्यङ्ग्यस्य ध्वनेः प्रकाशनम् । दया-वीरस्य परमार्थतो वाक्यार्थीभूतत्वात् । संसृष्टालङ्कार-संसृष्टत्वं च ध्वनेर् यथा-
अभिनव-पयोधर-रसितेषु पथिक-श्यामायितेषु दिवसेषु ।
शोभते प्रसारित-ग्रीवाणां नृत्तं मयूर-वृन्दानाम् ॥
अत्र ह्य् उपमा-रूपकाभ्यां शब्द-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्यस्य ध्वनेः संसृष्टत्वम् ।
ध्व्_3.44:
एवं ध्वनेः प्रभेदाः प्रभेद-भेदाश् च केन शक्यन्ते ।
सङ्ख्यातुं दिङ्-मात्रं तेषाम् इदम् उक्तम् अस्माभिः
अनन्ता हि ध्वनेः प्रकाराः सहृदयानां व्युत्पत्तये तेषां दिङ्-मात्रं कथितम् ॥
ध्व्_3.45:
इत्य् उक्त-लक्षणो यो ध्वनिर् विवेच्यः प्रयत्नतः सद्भिः
सत्-काव्यं कर्तुं वा ज्ञातुं वा सम्यग् अभियुक्तैः
उक्त-स्वरूप-ध्वनि-निरूपण-निपुणा हि सत्-कवयः सहृदयाश् च नियतम् एव काव्य-विषये परां प्रकर्ष-पदवीम् आसादयन्ति ॥
ध्व्_3.46:
अस्फुट-स्फुरितं काव्य-तत्त्वम् एतद् यथोदितम् ।
अशक्नुवद्भिर् व्याकर्तुं रीतयः सम्प्रवर्तिताः
एतद्-ध्वनि-प्रवर्तनेन निर्णीतं काव्य-तत्त्वम् अस्फुट-स्फुरितं सद् अशक्नुवद्भिः प्रतिपादयितुं वैदर्भी गौडी पाञ्चाली चेति रीतयः प्रवर्तिताः । रीति-लक्षण-विधायिनां हि काव्य-तत्त्वम् एतद् अस्फुटतया मनाक्-स्फुरितम् आसीद् इति लक्ष्यते तद् अत्र स्फुटतया सम्प्रदर्शितेनान्येन रीति-लक्षणेन न किंचित्
ध्व्_3.47:
शब्द-तत्त्वाश्रयाः काश्चिद् अर्थ-तत्त्व-युजो ऽपराः ।
वृत्तयो ऽपि प्रकाशन्ते ज्ञाते ऽस्मिन् काव्य-लक्षणे
मूल पाठ: Dhvanyāloka (also known as Sahṛdayaloka) · Edition: K. Krishnamoorthy, Delhi: Motilal Banarsidass, 1982. · Data entry Rajani Arjun Shankar Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0