ध्वन्यालोक · अध्याय 1
श्री-राजानकानन्दवर्धनाचार्य-विरचितो
ध्वन्य्-आलोकः[*2]
[*2] अल्सो क्नोwन् अस् सहृदयालोकः.
(1)
॥ प्रथमोद्द्योतः ॥
स्वेच्छा-केसरिणः स्वच्छ-स्वच्छायायासितेन्दवः ।
त्रायन्तां वो मधुरिपोः प्रपन्नार्ति-च्छिदो नखाः ॥
ध्व्_1.1:
काव्यस्यात्मा ध्वनिर् इति बुधैर् यः समाम्नात-पूर्वस् तस्याभावं जगदुर् अपरे भाक्तम् आहुस् तम् अन्ये ।
केचिद् वाचाम् स्थितम् अविषये तत्त्वम् ऊचुस् तदीयं तेन ब्रूमः सहृदय-मनः-प्रीतये तत्-स्वरूपम्
बुधैः काव्य-तत्त्व-विद्भिः काव्यस्यात्मा ध्वनिर् इति संज्ञितः, परम्परया यः समाम्नात-पूर्वः सम्यक् आसमन्तात् म्नातः प्रकटितः । तस्य सहृदय-जन-मनः-प्रकाशमानस्याप्य् अभावम् अन्ये जगदुः । तद्-अभाव-वादिनां चामी विकल्पाः सम्भवन्ति ।
तत्र केचिद् आचक्षीरन्-शब्दार्थ-शरीरं तावत् काव्यम् । तत्र च शब्द-गताश् चारुत्व-हेतवो ऽनुप्रासादयः प्रसिद्धा एव । अर्थ-गताश् चोपमादयः । वर्ण-सङ्घटनाधर्माश् च ये माधुर्यादयस् ते ऽपि प्रतीयन्ते । तद्-अनतिरिक्त-वृत्तयो वृत्तयो ऽपि याः कैश्चिद् उपनागरिकाद्याः प्रकाशिताः, ता अपि गताः श्रवण-गोचरम् । रीतयश् च वैदर्भी-प्रभृतयः ।
तद्-व्यतिरिक्तः को ऽयम् ध्वनिर् नामेति ।
अन्ये ब्रूयुः-नास्त्य् एव ध्वनिः । प्रसिद्ध-प्रस्थान-व्यतिरेकिणः काव्य-प्रकारस्य काव्यत्व-हानेः सहृदय-हृदयाह्लादि-शब्दार्थ-मयत्वम् एव काव्य-लक्षणम् । न चोक्त-प्रस्थानातिरेकिणो मार्गस्य तत् सम्भवति । न च तत्-समतान्तः-पातिनः सहृदयान् कांश्चित् परिकल्प्य तत्-प्रसिद्ध्या ध्वनौ काव्य-व्यपदेशः प्रवर्तितो ऽपि सकल-विद्वन्-मनो-ग्राहिताम् अवलम्बते ।
पुनर् अपरे तस्याभावम् अन्यथा कथयेयुः-न सम्भवत्य् एव ध्वनिर् नामापूर्वः कश्चित् । कामनीयकम् अनति-वर्तमानस्य तस्योक्तेष्व् एव चारुत्व-हेतुष्व् अन्तर्-भावात् ।
तेषाम् अन्यतमस्यैव वा अपूर्व-समाख्या-मात्र-करणे यत् किंचन कथनं स्यात् ।
किं च वाग्-विकल्पानाम् आनन्त्यात् सम्भवत्य् अपि वा कस्मिंश्चित् काव्य-लक्षण-विधायिभिः प्रसिद्धैर् अप्रदर्शिते प्रकार-लेशे ध्वनिर् ध्वनिर् इति यद् एतद् अलीक-सहृदयत्व-भावना-मुकुलित-लोचनैर् नृत्यते, तत्र हेतुं न विद्मः । सहस्रशो हि महात्मभिर् अन्यैर् अलङ्कार-प्रकाराः प्रकाशिताः प्रकाश्यन्ते च । न च तेषाम् एषा दशा श्रूयते । तस्मात् प्रवाद-मात्रं ध्वनिः । न त्व् अस्य क्षोद-क्षमम् तत्त्वम् किंचिद् अपि प्रकाशयितुं शक्यम् ।
तथा चान्येन कृत एवात्र श्लोकः-
यस्मिन्न् अस्ति न वस्तु किंचन मनः-प्रह्लादि सालंकृति
व्युत्पन्नै रचितं च नैव वचनैर् वक्रोक्ति-शून्यं च यत् ।
काव्यं तद्-ध्वनिना समन्वितम् इति प्रीत्या प्रशंसञ् जडो
नो विद्मो ऽभिदधाति किं सुमतिना पृष्टः स्वरूपं ध्वनेः ॥
भाक्तम् आहुस् तम् अन्ये । अन्ये तं ध्वनि-संज्ञितम् काव्यात्मानं गुण-वृत्तिर् इत्य् आहुः । यद्य् अपि च ध्वनि-शब्द-संकीर्तनेन काव्य-लक्षण-विधायिभिर् गुण-वृत्तिर् अन्यो वा न कश्चित् प्रकारः प्रकाशितः, तथापि अमुख्य-वृत्त्या काव्येषु व्यवहारं दर्शयता ध्वनि-मार्गो मनाक् स्पृष्टो ऽपि न लक्षित इति परिकल्प्यैवम् उक्तम्-"भाक्तम् आहुस् तम् अन्ये" इति ।
केचित् पुनर् लक्षण-करण-शालीन-बुद्धयो ध्वनेस् तत्त्वं गिराम् अगोचरम् सहृदय-हृदय-संवेद्यम् एव समाख्यातवन्तः । तेनैवं-विधासु विमतिषु स्थितासु सहृदय-मनः-प्रीतये तत्-स्वरूपं ब्रूमः ।
तस्य हि ध्वनेः स्वरूपं सकल-सत्-कवि-काव्योपनिषद्-भूतम् अतिरमणीयम् अणीयसीभिर् अपि चिरन्तन-काव्य-लक्षण-विधायिनां बुद्धिभिर् अनुन्मीलित-पूर्वम्, अथ च रामायण-महाभारत-प्रभृतिनि लक्ष्ये सर्वत्र प्रसिद्ध-व्यवहारं लक्षयतां सहृदयानाम् आनन्दो मनसि लभतां प्रतिष्ठाम् इति प्रकाश्यते
तत्र ध्वनेर् एव लक्षयितुम् आरब्धस्य भूमिकां रचयितुम् इदम् उच्यते-
ध्व्_1.2:
यो ऽर्थः सहृदय-श्लाघ्यः काव्यात्मेति व्यवस्थितः ।
वाच्य-प्रतीयमानाख्यौ तस्य भेदाव् उभौ स्मृतौ
काव्यस्य हि ललितोचित-सन्निवेश-चारुणः शरीरस्येवात्मा सार-रूपतया स्थितः सहृदय-श्लाघ्यो यो ऽर्थस् तस्य वाच्यः प्रतीयमानश् चेति द्वौ भेदौ ।
ध्व्_1.3:
तत्र वाच्यः प्रसिद्धो यः प्रकारैर् उपमादिभिः ।
बहुधा व्याकृतः सो ऽन्यैः काव्यलक्ष्म-विधायिभिः
ततो नेह प्रतन्यते केवलम् अनूद्यते पुनर् यथोपयोगम् इति
ध्व्_1.4:
प्रतीयमानं पुनर् अन्यद् एव वस्त्व् अस्ति वाणीषु महा-कवीनाम् ।
यत् तत् प्रसिद्धावयवातिरिक्तं विभाति लावण्यम् इवाङ्गनासु
प्रतीयमानं पुनर् अन्यद् एव वाच्याद् वस्त्व् अस्ति वाणीषु महा-कवीनाम् । यत् तत् सहृदय-सुप्रसिद्धं प्रसिद्धेभ्यो ऽलङ्कृतेभ्यः प्रतीतेभ्यो वावयवेभ्यो व्यतिरिक्तत्वेन प्रकाशते लावण्यम् इवाङ्गनासु । यथा ह्य् अङ्गनासु लावण्यं पृथङ्-निर्वर्ण्यमानं निखिलावयव-व्यतिरेकि किम् अप्य् अन्यद् एव सहृदय-लोचनामृतं तत्त्वान्तरं तद्वद् एव सो ऽर्थः । स ह्य् अर्थो वाच्य-सामर्थ्याक्षिप्तम् वस्तु-मात्रम् अलङ्कार-रसादयश् चेत्य् अनेक प्रभेद-प्रभिन्नौ दर्शयिष्यते । सर्वेषु च तेषु प्रकारेषु तस्य वाच्याद् अन्यत्वम् । तथा ह्य् आद्यस् तावत् प्रभेदो वाच्याद् दूरम् विभेदवान् । स हि कदाचिद् वाच्ये विधि-रूपे प्रतिषेध-रूपः । यथा-
भम धम्मिअ वीसत्थो सो सुणओ अज्ज मारिओ देण ।
गोला-णई-कच्छ-कुडङ्ग-बासिणा दरिअ-सीहेण ॥[*3]
[*3] गाथा 2.75, चितेद्, काव्य-प्रकाश 138.
[भ्रम धार्मिक विस्रब्धः स शुनको ऽद्य मारितस् तेन ।
गोदा-नदी-कूल-लता-कुञ्ज-वासिना दृप्त-सिंहेन ॥]
क्वचिद् वाच्ये प्रतिषेध-रूपे विधि-रूपो यथा-
अत्ता एत्थ णिमज्जै एत्थ अहं दिअसअं पलोएहि ।
मा पहिअ रत्तिअन्धिअ सेज्जाए मह णिमज्जहिसि ॥[*4]
[*4] गाथा 1.4. चितेद्, काव्य-प्रकाश 136, साहित्य-दर्पण 1.2.
(श्वश्रूर् अत्र निमज्जति, अत्राहं दिवस एव प्रलोकय ।
मा पथिक रात्र्यन्ध शय्यायां मम निमङ्क्ष्यसि ॥)
क्वचिद् वाच्ये विधि-रूपे ऽनुभय-रूपो यथा-
वच्च मह ब्बिअ एक्केइ होन्तु णीसासरोइअब्बाइं ।
मा तुज्ज बि तीअ बिणा दक्खिण-हअस्स जाअन्तु ॥[*5]
[*5] गाथा 938.
[व्रज ममैवैकस्या भवन्तु निःश्वास-रोदितव्यानि ।
मा तवापि तया विना दाक्षिण्य-हतस्य जनिषत ॥]
क्वचिद् वाच्ये प्रतिषेध-रूपे ऽनुभय-रूपो यथा-
देआ पसिअ णिवत्तस्सु मुह-ससि-जोह्णा-विलुत्त-तम-णिवहे ।
अहिसारिआणं विग्घं करोसि अण्णाणं बि हआसे ॥[*6]
[*6] गाथा 962.
[दैवाद् दृष्ट्वा नितान्त-सु मुख-शशि-ज्योत्स्ना-विलुप्त-तमो-निवहे ।
अभिसारिकाणां विघ्नं करोष्य् अन्यासाम् अपि हताशे ॥]
क्वचिद् वाच्याद् विभिन्न-विषयत्वेन व्यवस्थापितो यथा-
कस्स ब ण होइ रोसो दट्ठूण पियाए स-ब्बणं अहरं ।
स-भमर-प{उ}म-ग्घाइणि वारिअ-वामे सहसु एह्णिं ॥[*7]
[*7] गाथा 880. चितेद् काव्य-प्रकाश 135.
[कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः स-व्रणम् अधरम् ।
स-भ्रमर-पद्माघ्राण-शीले वारित-वामे सहस्वेदानीम् ॥]
अन्ये चैवं-प्रकारा वाच्याद् विभेदिनः प्रतीयमान-भेदाः संभवन्ति । तेषां दिङ्-मात्रम् एतत् प्रदर्शितम् ।
द्वितीयो ऽपि प्रभेदो वाच्याद् विभिन्नः स-प्रपञ्चम् अग्रे दर्शयिष्यते ।
तृतीयस् तु रसादि-लक्षणः प्रभेदो वाच्य-सामर्थ्याक्षिप्तः प्रकाशते, न तु साक्षाच्-छब्द-व्यापार-विषय इति वाच्याद् विभिन्न एव । तथा हि वाच्यत्वं तस्य स्व-शब्द-निवेदितत्वेन वा स्यात् । विभावादि-प्रतिपादन-मुखेन वा । पुर्वस्मिन् पक्षे स्व-शब्द-निवेदितत्वाभावे रसादीनाम् अप्रतीति-प्रसङ्गः । न च सर्वत्र तेषां स्व-शब्द-निवेदितत्वम् । यत्राप्य् अस्ति तत्, तत्रापि विशिश्ट-विभावादि-प्रतिपादन-मुखेनैवैषां प्रतीतिः ।
स्वशब्देन सा केवलमनूद्यते, न तु तत्कृता विषयान्तरे तथा तस्या अदर्शनात् । न हि केवल-शृङ्गारादि-शब्द-मात्र-भाजि विभावादि-प्रतिपादन-रहिते काव्ये मनाग् अपि रसवत्त्व-प्रतीतिर् अस्ति । यतश् च स्वाभिधानम् अन्तरेण केवलेभ्यो ऽपि विभावादिभ्यो विशिश्टेभ्यो रसादीनां प्रतीतिः । केवलाच् च स्वाभिधानाद् अप्रतीतिः । तस्माद् अन्वय-व्यतिरेकाभ्याम् अभिधेय-सामर्थ्याक्षिप्तत्वम् एव रसादीनाम् । न त्व् अभिधेयत्वं कथंचित्, इति तृतीयो ऽपि प्रभेदो वाच्याद् विभिन्न एवेति स्थितम् । वाच्येन त्व् अस्य सहेव प्रतीतिर् इत्य् अग्रे दर्शयिष्यते
ध्व्_1.5:
काव्यस्यात्मा स एवार्थस् तथा चादिकवेः पुरा ।
क्रौञ्च-द्वन्द्व-वियोगोत्थः शोकः श्लोकत्वम् आगतः
विविध-वाच्य-वाचक-रचना-प्रपञ्च-चारुणः काव्यस्य स एवार्थः सार-भूतः ।
चादिकवेर् वाल्मीकेः निहत-सहचरी-विरह-कातर-क्रौञ्चाक्रन्द-जनितः शोक एव श्लोकतया परिणतः । शोको हि करुण-स्थायि-भावः । प्रतीयमानस्य चान्य-भेद-दर्शने ऽपि रस-भाव-मुखेनैवोपलक्षणं प्राधान्यात्
ध्व्_1.6:
सरस्वती स्वादु तद्-अर्थ-वस्तु निःष्यन्दमाना महतां कवीनाम् ।
अलोक-सामान्यम् अभिव्यनक्ति परिस्फुरन्तम् प्रतिभा-विशेषम्
तत् वस्तु-तत्त्वं निःष्यन्दमाना महतां कवीनां भारती अलोक-सामान्यं प्रतिभा-विशेषं परिस्फुरन्तम् अभिव्यनक्ति । येनास्मिन्न् अतिविचित्र-कवि-परम्परा-वाहिनि संसारे कालिदास-प्रभृतयो द्वित्राः पञ्चषा वा महा-कवय इति गण्यन्ते
इदं चापरं प्रतीयमानस्यार्थस्य सद्-भाव-साधनं प्रमाणम्-
ध्व्_1.7:
शब्दार्थ-शासन-ज्ञान-मात्रेणैव न वेद्यते ।
वेद्यते स तु काव्यार्थ-तत्त्वज्ञैर् एव केवलम्
सो ऽर्थो यस्मात् केवलं काव्यार्थ-तत्त्व-ज्ञैर् एव ज्ञायते । यदि च वाच्य-रूप एवासाव् अर्थः स्यात् तद्-वाच्य-वाचक-रूप-परिज्ञानाद् एव तत्-प्रतीतिः स्यात् । अथ च वाच्य-वाचक-लक्षण-मात्र-कृत-श्रमाणां काव्य-तत्त्वार्थ-भावना-विमुखानां स्वर-श्रुत्य्-आदि-लक्षणम् इवाप्रगीतानां गान्धर्व-लक्षण-विदाम् अगोचर एवासाव् अर्थः
एवं वाच्य-व्यतिरेकिणो व्यङ्ग्यस्य सद्-भावं प्रतिपाद्य प्राधान्यं तस्यैवेति दर्शयति-
ध्व्_1.8:
सो ऽर्थस् तद्-व्यक्ति-सामर्थ्य-योगी शब्दश् च कश्चन ।
यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थौ महाकवेः
व्यङ्ग्यो ऽर्थस् तद्-व्यक्ति-सामर्थ्य-योगी शब्दश् च कश्चन, न शब्द-मात्रम् । ताव् एव शब्दार्थौ महाकवेः प्रत्यभिज्ञेयौ ।व्यङ्ग्य-व्यञ्जकाभ्याम् एव सुप्रयुक्ताभ्यां महाकवित्व-लाभो महा-कवीनां, न वाच्य-वाचक-रचना-मात्रेण
इदानीं व्यङ्ग्य-व्यञ्जकयोः प्राधान्ये ऽपि यद्-वाच्य-वाचकाव् एव प्रथमम् उपाददते कवयस् तद् अपि युक्तम् एवेत्याह-
ध्व्_1.9:
आलोकार्थी यथा दीप-शिखायां यत्नवाञ् जनः ।
तद्-उपायतया तद्वद् अर्थे वाच्ये तद्-आदृतः
यथा ह्य् आलोकार्थी सन्न् अपि दीप-शिखायां यत्नवाञ् जनो भवति तद्-उपायतया । न हि दीप-शिखाम् अन्तरेणालोकः सम्भवति । तद् व्यङ्ग्यम् अर्थं प्रत्यादृतो जनो वाच्ये ऽर्थे यत्नवान् भवति । अनेन प्रतिपादकस्य कवेर् व्यङ्ग्यम् अर्थं प्रति व्यापारो दर्शितः
प्रतिपाद्यस्यापि तं दर्शयितुम् आह-
ध्व्_1.10:
यथा पदार्थ-द्वारेण वाक्यार्थः सम्प्रतीयते ।
वाच्यार्थ-पूर्विका तद्वत् प्रतिपत्तस्य वस्तुनः
यथा हि पदार्थ-द्वारेण वाक्यार्थावगमस् तथा वाच्यार्थ-प्रतीति-पूर्विका व्यङ्ग्यस्यार्थस्य प्रतिपत्तिः
इदानीं वाच्यार्थ-प्रतीति-पूर्वकत्वे ऽपि तत्-प्रतीतेर् व्यङ्ग्यस्यार्थस्य प्राधान्यं यथा न व्यालुप्यते तथा दर्शयति-
ध्व्_1.11:
स्व-सामर्थ्य-वशेनैव वाक्यार्थं प्रतिपादयन् ।
यथा व्यापार-निष्पत्तौ पदार्थो न विभाव्यते
यथा स्व-सामर्थ्य-वशेनैव वाक्यार्थं प्रकाशयन्न् अपि पदार्थो व्यापार-निष्पत्तौ न भाव्यते विभक्ततया
ध्व्_1.12:
तद्वत् स-चेतसां सो ऽर्थो वाच्यार्थ-विमुखात्मनाम् ।
बुद्धौ तत्त्वार्थ-दर्शिन्यां झटित्य् एवावभासते
एवं वाच्य-व्यतिरेकिणो व्यङ्ग्यस्यार्थस्य सद्-भावं प्रतिपाद्य प्रकृत उपयोजयन्न् आह-
ध्व्_1.13:
यत्रार्थः शब्दो वा तम् अर्थम् उपसर्जनीकृत-स्वार्थौ ।
व्यङ्क्तः काव्य-विशेषः स ध्वनिर् इति सूरिभिः कथितः
यत्रार्थो वाच्य-विशेषः वाचक-विशेषः शब्दो वा तम् अर्थं व्यङ्क्तः, स काव्य-विशेषो ध्वनिर् इति । अनेन वाच्य-वाचक-चारुत्व-हेतुभ्य उपमादिभ्यो ऽनुप्रासादिभ्यश् च विभक्त एव ध्वनेर् विषय इति दर्शितम् ।
यद् अप्य् उक्तम्-"प्रसिद्ध-प्रस्थानातिक्रमिणो मार्गस्य काव्य-हानेर् ध्वनिर् नास्ति" इति, तद् अप्य् अयुक्तम् । यतो लक्षण-कृताम् एव स केवलं न प्रसिद्धः, लक्ष्ये तु परीक्ष्यमाणे स एव सहृदय-हृदयाह्लाद-कारि काव्य-तत्त्वम् । ततो ऽन्यच् चित्रम् एवेत्य् अग्रे दर्शयिष्यामः ।
यद् अप्य् उक्तम्-"कामनीयकम् अनतिवर्तमानस्य तस्योक्तालङ्कारादि-प्रकारेष्व् अन्तर्-भावः" इति, तद् अप्य् असमीचीनम्; वाच्य-वाचक-मात्राश्रयिणि प्रस्थाने व्यङ्ग्य-व्यञ्जक-समाश्रयेण व्यवस्थितस्य ध्वनेः कथम् अन्तर्-भावः, वाच्य-वाचक-चारुत्व-हेतवो हि तस्याङ्ग-भूताः, स त्व् अङ्गि-रूप एवेति प्रतिपादयिष्यमाणत्वात् ।
परिकर-श्लोकाश् चात्र-
व्यङ्ग्य-व्यञ्जक-सम्बन्ध-निबन्धनतया ध्वनेः ।
वाच्य-वाचक-चारुत्व-हेत्व्-अन्तः-पातिता कुतः ॥
ननु यत्र प्रतीयमानस्यार्थस्य वैशद्येनाप्रतीतिः स नाम मा भूद् ध्वनेर् विषयः । यत्र तु प्रतीतिर् अस्ति, यथा-समासोक्त्याक्षेपानुक्त-निमित्त-विशेषोक्ति-पर्यायोक्तापह्नुति-दीपक-सङ्करालङ्कारादौ , तत्र ध्वनेर् अन्तर्-भावो भविष्यतीत्य् आदि निराकर्तुम् अभिहितम्-"उपसर्जनी-कृत-स्वार्थौ" इति ।
अर्थो गुणीकृतात्मा, गुणीकृताभिधेयः शब्दो वा यत्रार्थान्तरम् अभिव्यनक्ति स ध्वनिर् इति । तेषु कथं तस्यान्तर्-भावः । व्यङ्ग्य-प्राधान्ये हि ध्वनिः । न चैतत् समासोक्त्यादिष्व् अस्ति ।
समासोक्तौ तावत्-
उपोढ-रागेण विलोल-तारकं
तथा गृहीतं शशिना निशा-मुखम् ।
यथा समस्तं तिमिरांशुकं तया
पुरो ऽपि रागाद् गलितं न लक्षितम् ॥
इत्य् आदौ व्यङ्ग्येनानुगतं वाच्यम् एव प्राधान्येन प्रतीयते समारोपित-नायिका-नायक-व्यवहारयोर् निशा-शशिनोर् एव वाक्यार्थत्वात् ।
आक्षेपे ऽपि व्यङ्ग्य-विशेषाक्षेपिणो ऽपि वाच्यस्यैव चारुत्वं प्राधान्येन वाक्यार्थ आक्षेपोक्ति-सामर्थ्याद् एव ज्ञायते । तथा हि-तत्र शब्दोपारूढो विशेषाभिधानेच्छया प्रतिषेध-रूपो य आक्षेपः स एव व्यङ्ग्य-विशेषम् आक्षिपन् मुख्यं काव्य-शरीरम् ।
चारुत्वोत्कर्ष-निबन्धना हि वाच्य-व्यङ्ग्ययोः प्राधान्य-विवक्षा । यथा-
अनुरागवती सन्ध्या दिवसस् तत्-पुरःसरः ।
अहो दैव-गतिः कीदृक् तथापि न समागमः ॥
अत्र सत्याम् अपि व्यङ्ग्य-प्रतीतौ वाच्यस्यैव चारुत्वम् उत्कर्षवद् इति तस्यैव प्राधान्य-विवक्षा ।
यथा च दीपकापह्नुत्य्-आदौ व्यङ्ग्यत्वेनोपमायाः प्रतीताव् अपि प्राधान्येनाविवक्षितत्वान् न तया व्यपदेशस् तद्वद् अत्रापि द्रष्टव्यम् । अनुक्त-निमित्तायाम् अपि विशेषोक्तौ-
आहूतो ऽपि सहायैर् ओम् इत्य् उक्त्वा विमुक्त-निद्रो ऽपि ।
गन्तु-मना अपि पथिकः सङ्कोचं नैव शिथिलयति ॥
इत्य् आदौ व्यङ्ग्यस्य प्रकरण-सामर्थ्यात् प्रतीति-मात्रं न तु तत्-प्रतीति-निमित्ता काचिच् चारुत्व-निष्पत्तिर् इति न प्राधान्यम् । पर्यायोक्ते ऽपि यदि प्राधान्येन व्यङ्ग्यत्वं तद् भवतु नाम तस्य ध्वनाव् अन्तर्-भावः । न तु ध्वनेस् तत्रान्तर्-भावः । तस्य महा-विषयत्वेनाङ्गित्वेन च प्रतिपादयिष्यमाणत्वात् । न पुनः पर्यायो भामहोदाहृत-सदृशे व्यङ्ग्यस्यैव प्राधान्यम् । वाच्यस्य तत्रोपसर्जनाभावेनाविवक्षितत्वात् ।
अपह्नुति-दीपकयोः पुनर्-वाच्यस्य प्राधान्यं व्यङ्ग्यस्य चानुयायित्वं प्रसिद्धम् एव ।
सङ्करालङ्कारे ऽपि यदालङ्कारो ऽलङ्कारान्तर-च्छायाम् अनुगृह्णाति, तदा व्यङ्ग्यस्य प्राधान्येनाविवक्षितत्वान् न ध्वनि-विषयत्वम् । अलङ्कार-द्वय-सम्भावनायां तु वाच्य-व्यङ्ग्ययोः समं प्राधान्यम् । अथ वाच्योपसर्जनी-भावेन व्यङ्ग्यस्य तत्रावस्थानं तदा सो ऽपि ध्वनि-विषयो ऽस्तु, न तु स एव ध्वनिर् इति वक्तुं शक्यम् । पर्यायोक्त-निर्दिष्ट-न्यायात् । अपि च सङ्करालङ्कारे ऽपि च क्वचित् सङ्करोक्तिर् एव ध्वनि-सम्भावनां निराकरोति ।
अप्रस्तुत-प्रशंसायाम् अपि यदा सामान्य-विशेष-भावान् निमित्त-निमित्ति-भावाद् वा अभिधीयमानस्याप्रस्तुतस्य प्रतीयमानेन प्रस्तुतेनाभिसम्बन्धस् तदाभिधीयमान-प्रतीयमानयोः समम् एव प्राधान्यम् । यदा तावत् सामान्यस्याप्रस्तुतस्याभिधीयमानस्य प्राकरणिकेन विशेषेण प्रतीयमानेन सम्बन्धस् तदा विशेष-प्रतीतौ सत्याम् अपि प्राधान्येन तत्-सामान्येनाविनाभावात् सामान्यस्यापि प्राधान्यम् । यदापि विशेषस्य सामान्य-निष्ठत्वं तदापि सामान्यस्य प्राधान्ये सामान्ये सर्व-विशेषाणाम् अन्तर्-भावाद् विशेषस्यापि प्राधान्यम् । निमित्त-निमित्ति-भावे चायम् एव न्यायः ।
यदा तु सारूप्य-मात्र-वशेनाप्रस्तुत-प्रशंसायाम् अप्रकृत-प्रकृतयोः सम्बन्धस् तदाप्य् अप्रस्तुतस्य सरूपस्याभिधीयमानस्य प्राधान्येनाविवक्षायां ध्वनाव् एवान्तः-पातः । इतरथा त्व् अलङ्कारान्तरम् एव । तद् अयम् अत्र सङ्क्षेपः-
व्यङ्ग्यस्य यत्राप्राधान्यं वाच्य-मात्रानुयायिनः ।
समासोक्त्यादयस् तत्र वाच्यालङ्कृतयः स्फुटाः ॥
व्यङ्ग्यस्य प्रतिभा-मात्रे वाच्यार्थानुगमे ऽपि वा ।
न ध्वनिर् यत्र वा तस्य प्राधान्यं न प्रतीयते ॥
तत्-पराव् एव शब्दार्थौ यत्र व्यङ्ग्यं प्रति स्थितौ ।
ध्वनेः स एव विषयो मन्तव्यः सङ्करोज्झितः ॥
तस्मान् न ध्वनेर् अन्यत्रान्तर्-भावः ।
इतश् च नान्तर्-भावः ; यतः काव्य-विशेषो ऽङ्गी ध्वनिर् इति कथितः । तस्य पुनर् अङ्गानि-अलङ्कारा गुणा वृत्तयश् चेति प्रतिपादयिष्यन्ते । न चावयव एव पृथग्-भूतो ऽवयवीति प्रसिद्धः । अपृथग्-भावे तु तद्-अङ्गत्वं तस्य । न तु तत्त्वम् एव । यत्रापि वा तत्त्वं तत्रापि ध्वनेर् महा-विषयत्वान् न तन्-निष्ठत्वम् एव ।
"सूरिभिः कथित" इति विद्वद्-उपज्ञेय-मुक्तिः, न तु यथा-कथञ्चित्-प्रवृत्तेति प्रतिपाद्यते । प्रथमे हि विद्वांसो वैयाकरणाः, व्याकरण-मूलत्वात् सर्व-विद्यानाम् । ते च श्रूयमाणेषु वर्णेषु ध्वनिर् इति व्यवहरन्ति । तथैवान्यैस् तन्-मतानुसारिभिः सूरिभिः काव्य-तत्त्वार्थ-दर्शिभिर् वाच्य-वाचक-सम्मिश्रः शब्दात्मा काव्यम् इति व्यपदेश्यो व्यञ्जकत्व-साम्याद् ध्वनिर् इत्य् उक्तः । न चैवं-विधस्य ध्वनेर् वक्ष्यमाण-प्रभेद-तद्-भेद-संकलनया महा-विषयस्य यत्-प्रकाशनं तद्-अप्रसिद्धालङ्कार-विशेष-मात्र-प्रतिपादनेन तुल्यम् इति तद्-भावित-चेतसां युक्त एव संरम्भः । न च तेषु कथञ्चिद् ईर्ष्यया कलुषित-शेमुषी-कत्वम् आविष्करणीयम् । तद् एवं ध्वनेस् तावद् अभाव-वादिनः प्रत्युक्ताः ।
अस्ति ध्वनिः । स चासाव् अविवक्षित-वाच्यो विवक्षितान्य् अपर-वाच्यश् चेति द्विविधः सामान्येन । तत्राद्यस्योदाहरणम्-
सुवर्ण-पुष्पां पृथिवीं चिन्वन्ति पुरुषास् त्रयः ।
शूरश् च कृत-विद्यश् च यश् च जानाति सेवितुम् ॥
द्वितीयस्यापि-
शिखरिणि क्व नु नाम कियच् चिरं
किम् अभिधानम् असाव् अकरोत् तपः ।
तरुणि येन तवाधर-पाटलं
दशति बिम्ब-फलं शुकशावकः
यद् अप्य् उक्तं भक्तिर् ध्वनिर् इति, तत् प्रतिसमाधीयते-
ध्व्_1.14अ:
भक्त्या बिभर्ति नैकत्वम् रूप-भेदाद् अयं ध्वनिः
अयम् उक्त-प्रकारो ध्वनिर् भक्त्या नैकत्वं बिभर्ति भिन्न-रूपत्वात् । वाच्य-व्यतिरिक्तस्यार्थस्य वाच्य-वाचकाभ्यां तात्पर्येण प्रकाशनं यत्र व्यङ्ग्य-प्राधान्ये स ध्वनिः । उपचार-मात्रं तु भक्तिः ।
मा चैतत् स्याद् भक्तिर् लक्षणं ध्वनेर् इत्य् आह-
ध्व्_1.14ब्:
अतिव्याप्तेर् अथाव्याप्तेर् न चासौ लक्ष्यते तया
नैव भक्त्या ध्वनिर् लक्ष्यते । कथम् ? अतिव्याप्तेर् अव्याप्तेश् च । तत्रातिव्याप्तिर् ध्वनि-व्यतिरिक्ते ऽपि विषये भक्तेः सम्भवात् । यत्र हि, व्यङ्ग्य-कृतं महत्-सौष्ठवं नास्ति तत्राप्य् उपचरित-शब्द-वृत्त्या प्रसिद्ध्य्-अनुरोध-प्रवर्तित-व्यवहाराः कवयो दृश्यन्ते । यथा [रत्नावली 2.12]-
परिम्लानं पीन-स्तन-जघन-सङ्गाद् उभयतस्
तनोर् मध्यस्यान्तः परिमलनम् अप्राप्य हरितम् ।
इदं व्यस्त-न्यासं श्लथ-भुज-लताक्षेप-वलनैः
कृशाङ्ग्याः सन्तापं वदति विसिनी-पत्र-शयनम् ॥[*8]
[*8] स्र्क् 709, रसार्णव 1.441.
तथा-
चुम्बज्ज{इ} सअहुत्तं अवरुन्धिज्ज{इ} सहस्स-हुत्तं बि ।
रमिअ पुणो बि रमिज्ज{इ} पिए जणे णत्थि पुणरुत्तं ॥
[चुम्ब्यते शत-कृत्वो ऽवरुध्यते सहस्र-कृत्वः ।
विरम्य पुना रम्यते प्रियो जनो नास्ति पुनरुक्तम् ॥]
तथा-
कुबिआओ पसण्नाओ ओरण्ण-मुहीओ विहसमाणाओ ।
जह गहिआ तह हिअअं हरन्ति उच्छिन्त-महिलाओ ॥
[कुपिताः प्रसन्ना अवरुदित-वदना विहसन्त्यः ।
यथा गृहीतास् तथा हृदयं हरन्ति स्वैरिण्यो महिलाः ॥]
तथा-
अज्जाए पहारो णवल-दाए दिण्णो पिएण थण-बट्टे ।
मि{उ}ओ बि दूसहो ब्बिअ जाओ हिअए सवत्तीणं ॥
[भार्यायाः प्रहारो नव-लतया दत्तः प्रियेण स्तन-पृष्ठे ।
मृदुको ऽपि दुःसह इव जातो हृदये सपत्नीनाम् ॥]
तथा-
परार्थे यः पीडाम् अनुभवति भङ्गे ऽपि मधुरो
यदीयः सर्वेषाम् इह खलु विकारो ऽप्य् अभिमतः ।
न सम्प्राप्तो वृद्धिं यदि स भृशम् अक्षेत्र-पतितः
किम् इक्षोर् दोषो ऽसौ न पुनर् अगुणाया मरु-भुवः ॥
इत्य् अत्रेक्षु-पक्षे ऽनुभवति शब्दः । न चैवं-विधः कदाचिद् अपि ध्वनेर् विषयः । यतः-
ध्व्_1.15:
उक्त्य्-अन्तरेणाशक्यं यत् तच् चारुत्वं प्रकाशयन् ।
शब्दो व्यञ्जकतां बिभ्रद् ध्वन्य्-उक्तेर् विषयीभवेत्
अत्र चोदाहृते विषये नोक्त्य्-अन्तरा-शक्य-चारुत्व-व्यक्ति-हेतुः शब्दः ।
किं च-
ध्व्_1.16:
रूढा ये विषये ऽन्यत्र शब्दाः स्व-विषयाद् अपि ।
लावण्याद्याः प्रयुक्तास् ते न भवन्ति पदं ध्वनेः
तेषु चोपचरित-शब्द-वृत्तिर् अस्तीति । तथा-विधे च विषये क्वचित् सम्भवन्न् अपि ध्वनि-व्यवहारः प्रकारान्तरेण प्रवर्तते । न तथा-विध-शब्द-मुखेन ।
अपि च-
ध्व्_1.17:
मुख्यां वृत्तिं परित्यज्य गुण-वृत्त्यार्थ-दर्शनम् ।
यद् उद्दिश्य फलं तत्र शब्दो नैव स्खलद्-गतिः
तत्र हि चारुत्वातिशय-विशिष्टार्थ-प्रकाशन-लक्षणे प्रयोजने कर्तव्ये यदि शब्दस्यामुख्यता तदा तस्य प्रयोगे दुष्टतैव स्यात् । न चैवम् ; तस्मात्-
ध्व्_1.18:
वाचकत्वाश्रयेणैव गुण-वृत्तिर् व्यवस्थिता ।
व्यञ्जकत्वैक-मूलस्य ध्वनेः स्याल् लक्षणं कथम्
तस्माद् अन्यो ध्वनिर् अन्या च गुण-वृत्तिः ।
अव्याप्तिर् अप्य् अस्य लक्षणस्य । न हि ध्वनि-प्रभेदो विवक्षितान्य-पर-वाच्य-लक्षणः । अन्ये च बहवः प्रकारा भक्त्या व्याप्यन्तः ; तस्माद् भक्तिर् अलक्षणम्
ध्व्_1.19अ:
कस्यचिद् ध्वनि-भेदस्य सा तु स्याद् उपलक्षणम् ।
सा पुनर् भक्तिर् वक्ष्यमाण-प्रभेद-मध्याद् अन्यतमस्य भेदस्य यदि नामोपलक्षणतया सम्भाव्येत ; यदि च गुण-वृत्त्यैव ध्वनिर् लक्ष्यत इत्य् उच्यते तद्-अभिधा-व्यापारेण तद्-इतरो ऽलङ्कार-वर्गः समग्र एव लक्ष्यत इति प्रत्येकम् अलङ्काराणां लक्षण-करण-वैयर्थ्य-प्रसङ्गः ।
किं च-
ध्व्_1.19ब्:
लक्षणे ऽन्यैः कृते चास्य पक्ष-संसिद्धिर् एव नः
मूल पाठ: Dhvanyāloka (also known as Sahṛdayaloka) · Edition: K. Krishnamoorthy, Delhi: Motilal Banarsidass, 1982. · Data entry Rajani Arjun Shankar Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0