धर्मोत्तरप्रदीप · भाग 6180
__________नोतेस्__________
[512] धर्मिति(णि) हेतोः सम्बन्धस्य सत्त्वस्येत्य् असिद्धौ --- टि-
षड्जादिमत्त्वाद् इति । उभयत्रापि विशेषणविशिष्टस्य रूपस्य वादिप्रतिवादिनोर् द्वयोर् अप्य् अनिश्चितत्वात् केवलं विशेषणसन्देहेन च विशेषणविशिष्टेन रूपेणासिद्ध इति तथा व्यपदिश्यत इति ॥
पर्वतोपरिभागेन तिर्यग्निर्गतेने ति च भूभाग इति चोपलक्षणं द्रष्टव्यम् । न तु तत्थाविध एव निकुञ्जः, पर्वतगह्वरदेशस्यैव निकुञ्जशब्दाभिलप्यत्वात् ॥
यस्माद् देशाद् आगच्छती ति वचनव्यक्त्या चोत्पन्नः शब्दश् चतुर्दिक्कं शब्दसन्तानं जनयति, स च जलतरङ्गन्यायेन श्रोत्रदेशम् आगतो गृहीत इति दर्शयति ॥
द्वेषादी त्य् अत्र् आदि ग्रहणेन बुद्धिप्रयत्नादीनां ग्रहणाम् । "सामान्यवान् गुणः संयोगविभागयोर् अनपेक्षो न कारणं" इति गुणलक्षणयोगाद् गुणाः । समयायात् समवेतत्वात् । प्रतिषिद्धानां
[ध्प्र् 195]
तद् एवम् एकस्य[513] रूपस्य [514]धर्मिसम्बद्धस्यासिद्धाव् असिद्धो हेत्वाभासः ॥
__________नोतेस्__________
[513] सर्वेष्व् अपि असिद्धेषु एकं रूपं पक्षधर्मत्वम् असिद्धम् --- टि-
[514] धर्मिबद्ध-
तथा एकस्य रूपस्य असपक्षे असत्त्वस्य असिद्धाव् अनैकान्तिको हेत्वाभासः इइइ-66
[515]तथा अप्रस्य् ऐकस्य रूपस्य --- [516]असपक्षे ऽसत्त्वा ख्यस्य् आसिद्धाव् अनैकान्तिको हेत्वाभासः ।
__________नोतेस्__________
[515] तथा पर-
[516] विपक्षे --- टि-
एको ऽन्त एकान्तो निश्चयः । स प्रयोजनम् अस्येतैकान्तिकः[517] । नैकान्तिको ऽनैकान्तिकः । अयस्मान् न साध्यस्य न विपर्ययस्य निश्चयो ऽपि तु तद्विपरीतः संशयः । साध्येतरयोः संशयहेतुर् अनैकान्तिक उक्तः ॥
__________नोतेस्__________
[517] -अयैकान्तिकः
च न समवाय इति । निष्क्रियत्वं च क्रियाया मूर्त्तद्रव्यवृत्तित्वात्, आत्मनश् चामर्त्तत्वाद् इति सिद्धान्तस्थितेः ॥
किम् उते ति निपातः किम् पुनर् इत्य् अस्यार्थे वर्त्तते ॥
आश्रयणासिद्धधर्म्यसिद्धयोः कियान् भेद इत्य् आशङ्क्य भेदम् उपपादयन्न् आह --- पूर्वम् इति । अयम् अर्थः --- पूर्वं परमार्थतो विद्यमानो ऽपि हेत्वाधाररूपतया सन्देहाद् अनिश्चित इति तद् धर्म्यसिद्ध उक्तः । सम्प्रति तु सर्वथ्तैवासौ धर्मित्वेनासिद्ध उच्यत इति । धर्म्यसिद्ध एवाश्रयासिद्ध उच्यते इति । तेन नाश्रयासिद्धो नाम अन्यः प्रभेदः ।
अन्यथासिद्धस् त्व् असिद्ध एव न भवतीति न तस्यान्तर्भावश् चिन्त्यते । तथा ह्य् अन्यथासिद्ध इति को अर्थः? किम् अन्यथैव सिद्ध आहोस्वित् अन्यथा ऽपि सिद्धः? ननु यद्य् अन्यथैव, तदा जिज्ञापयिषितविपर्ययेणैव सिद्ध उपपन्नो नानेन प्रकारेणेति विरुद्ध एव । अथान्यथा ऽपि सिद्धः, तदैतस्माद् अन्येनापि प्रकारेण सिद्धो ऽयम् इत्य् अयम् अपि भविष्यति । न च साध्यम् इति सन्दिग्धविपक्षव्यावृत्तिर् अनैकान्तिक एवेति ॥
अनैकान्तिकशब्दस्य व्युप्तत्तिम् आह --- एक इति । एक इति ब्रुवन्न् एकस् तासौ (एकश्चासौ) साध्यलक्षणैकार्थविषयत्वाद् अन्तश्च कथावसानहेतुत्वाद् आकाङ्क्षोपशमहेतुत्वाद् वेति दर्शयति । समस्तं पदम् अर्थञ् चाह --- एकान्तो निश्चय इति । साध्येतरयोर् एकतरनिश्चयफल इत्य् अर्थः । तद्विरुद्धे चायं नञ् द्रष्टव्यः । यस्माद् इत्यादिनैतद् एव स्फुटयति । यस्माद् धेतोर् इत्य् अपादाने चेयं पञ्चमी । किन् तु तद्विपरीतो निश्चयविपरीतः यत्तदोर् नित्यम् अभिसम्बन्धात् स इति द्रष्टव्यम् । क्व सम्शय इत्य् आह --- साध्ये ति ।
यद् वा कथम् अनैकान्तिको भवतीत्य् आह --- यस्माद् इति हेतुपञ्चमी । ऐकान्तिकप्रतिषेधेनान्यः प्रतिपत्तिहेतुर् उक्तो नञेत्य् अभिप्रायेणाह --- संशयहेतुर् इति । तेन नासिद्धस्य तथात्वप्रसङ्गः । अथ वैकान्तनियतत्वाद् एक इत्य् अन्त इति च निश्चयः प्रोक्तः । तथा हि सर्वो ऽयं पदार्थभेद
[ध्प्र् 196]
तम् उदारहति ---
यथा शब्दस्य अनित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मः सपक्षविपक्षयोः सर्वत्र एकदेशे वा वर्तमानः इइइ-67
यथे त्यादिना । अनित्यत्वम् आदिर् यस्या ऽसौ[518] अनित्यत्वादिके धर्म् अः । आदि शब्दाद् अप्रयत्नानन्तरीयकत्वं प्रयत्नान्तरीयकत्वं [519]नित्यत्वं च परिगृह्यते । प्रमेयत्वम् आदिर् यस्य स प्रमेयत्वादिकः । आदि श्बदाद् अनित्यत्वम्, पुनर् अनित्यतम्, अमूर्त्तत्वं च [520]गृह्यते । शब्दस्य धर्मिणो ऽनित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मो ऽनैकान्तिकः । चतुर्णाम् अपि [521]हि विपक्षे ऽसत्त्वम् असिद्धम् ।
__________नोतेस्__________
[518] यस्य सो ऽनित्य-
[519] नित्यत्वं --- ओम्.
[520] गृह्यन्ते
[521] हि --- ओम्.
तथा हि --- अनित्यः शब्दः प्रमेयत्वात् [522]घटवद् आकाशवद् इति प्रमेयत्व्ं सपक्षविपक्षव्यापि ।
__________नोतेस्__________
[522] प्रमेयत्वात्, आकाशाशवत् घटवद् इति
अप्रय्त्नानन्तरीयकः शब्दो ऽनित्यत्वात्, विद्युदाकाशवद् [523]घट्वच् च --- इत्य् अनित्यत्वं सपक्षैकदेशवृत्ति --- विद्युदादाव् अस्ति, नाकाशादौ; [524]विपक्षयापि --- [525]प्रयत्नानन्तरीके सर्वत्र भावात्[526] ।
__________नोतेस्__________
[523] काशघटव-
[524] इत आरम्भ `नाकाशादौऽ पर्यन्तः पाठो नास्ति
[525] -व्यापि सर्वत्र प्रयत्नानन्तरीयके भावात्
[526] अनित्यत्वस्य --- टि-
अनित्यत्वात् प्रयत्नानन्तरीयकः शदो घट्वद् विद्युदाकाशवच् च --- इत्य् अनित्यत्वं विपक्षैकदेशवर्त्ति --- विद्युदादाव् अस्ति नाकाशादौ । सपक्षव्यापि[527] सर्वत्र प्रयन्तानन्तरीयके भावात्[528] ।
__________नोतेस्__________
[527] -व्यापि सपक्षे सर्वत्र
[528] साध्यैः सह क्रमात् योज्यते --- टि-
नित्यः शब्दो ऽमूर्त्तत्वाद् आकाशपरमाणुवत्[529], कर्मघटवच् च । इत्य् अमूर्तत्वम् उभयैकदेशवृत्ति --- उभयोर् एकदेश आकाशे कर्मणि च वर्तते । परमाणौ तु सपक्षैकदेशे घटादौ च विपक्षैकदेशे न वर्तते । मूर्त्तत्वात् घटप्रमाणुप्रभृतीनाम् ।
__________नोतेस्__________
[529] नित्यत्वस्य --- टि-
नित्यास् तु परमाण्वो[530] वैशेषिकैर् अभ्युपगम्यन्ते । ततः सपक्षान्तर्गताः ।
__________नोतेस्__________
[530] वैशेषिकैर् अप्य् अभ्युप-
एकस्मिन्ना(न्न)न्ते ऽवतिष्ठते --- नित्यो वा ऽनित्यो वेत्यादिरूएण । स प्रयोजनम् अस्य स तथा । न तथा ऽनैकान्तिकः ॥
विपक्षे ऽसत्त्वम् असिद्धं सर्वत्रे ति द्रष्टव्यम् । [68ब्] "सद् अकारणवन् नित्यम्" [वै-सू-4.1.1.] इति नित्यलक्षणयोगान् नित्या इष्टाः परमाणवः ॥
[ध्प्र् 197]
अस्य चतुर्विधस्य पक्षधर्मस्यासत्त्वम् असिद्धं विपक्षे । ततो ऽनैकान्तिकता ॥
तथा --- अस्य एव रूपस्य सन्देहे अप्य् अनैकान्तिक एव इइइ-68
यथा चास्य रूपस्यासिद्धाव् अनैकान्तिकस् तथा अस्यैव विपक्षे ऽसत्त्वाख्यस्य[531] रूपस्य संदेहे ऽनैकान्तिकः ॥
__________नोतेस्__________
[531] -ख्यरूपस्य
यथा असर्वज्ञः कश्चिद् विवक्षितः पुरुषो रागादिमान् वेति साध्ये वक्तृत्वादिको धर्मः सन्दिग्धविपक्षव्यावृत्तिकः इइइ-69
यथे ति । असर्वज्ञ इत्य् असर्वज्ञत्वं साध्यम् । कशिअद् विवक्षित इति वक्तुर् अभिप्रतः पुरुषो धर्मी । रागा आदिर् यस्य द्वेषादेः स रागादिः । स यस्यास्ति स रागादिमान् इति द्वितीयं साध्यम् । [532] वा ग्रहणं रागादिमत्त्वस्य पृथक् साध्यत्वख्यापनार्थम् । ततो ऽसर्वज्ञत्वे रागादिमत्त्वे वा[533] साध्ये प्रकृते वक्ट्र्त्वं --- वचनशक्तिस् तदादिर् यस्योन्मेषनिमेषादेः स वक्तृत्वादिको धर्मो ऽनैकान्तिकः ।
__________नोतेस्__________
[532] वेति ग्रह-
[533] -मत्त्वे च साध्ये
सन्दिग्धा[534] विपक्षा व्यावृत्तिर् यस्य स तथोक्तः । असर्वज्ञत्वे साध्ये सर्वज्ञत्वं विपक्षः । तत्र वचनादेः सत्त्वम् असत्त्वं वा सन्दिग्धम् । अतो न ज्ञायते किं[535] वक्ता सर्वज्ञ उतासर्वज्ञ इत्य् अनैकान्तिकं वक्तृत्वम् ।
__________नोतेस्__________
[534] संदिग्धवि-
[535] किं --- ओम्.
ननु च सर्वज्ञो वक्ता नोल्पलभ्यते तत् कथं वचनं सर्वज्ञे सन्दिग्धम्? अत एव
[536]`सर्वज्ञो वक्ता न उपलभ्यतेऽ इत्य् एवंप्रकारस्य अनुपलम्भस्य अदृश्यात्मविषयत्वेन[537]सन्देहहेतुत्वात् ।[538] ततो असर्वज्ञविपर्ययाद् वक्तृत्वादेर् व्यावृत्तिः सन्दिग्धा इइइ-70
__________नोतेस्__________
[536] सर्वत्रैकदेश् वा सर्वज्ञो
[537] संदेहे हेतु-
[538] -त्वाद् असर्व-
`सर्वज्ञो वक्ता न उपलभ्यतेऽ इत्य् एवं प्रकारस्य --- [539]एवंजातीयस्यानुपलम्भस्य संदेहहेतुत्वात् । कुत इत्य् आह --- अदृश्य[540] आत्मा विषयो यस्य तस्य भावो ऽदृश्यात्मविषयत्वं तेन सन्देहहेतुत्वम् ।
__________नोतेस्__________
[539] -जातीयकस्य
[540] -अदृश्यात्मा
द्वेषादेर् इत्यादिग्रहणेन मोहादेर् ग्रहणम् ॥
अत एवा नुपलम्भमात्राद् एवेति सिद्धान्ती । अमुम् एवार्थं मूलेन संस्यन्दयन्न् आह --- सर्वज्ञ इति । तेनादृश्यविषयत्वेन हेतुना सन्देहहेतुत्वं सन्देहहेतुत्वाद् इति । हेतुपञ्चमीम् इदानीं व्याचष्टे --- यत इति ॥
[ध्प्र् 198]
यतो ऽदृश्यविशेषयो ऽनुपलम्भः संदेहहेतुर्[541] न निश्चयहेतुस् ततो ऽसर्वज्ञविपक्षात् सर्वज्ञाद् वक्तृत्वादेर् व्यावृत्तिः संदिग्धा ॥
__________नोतेस्__________
[541] संशयहेतुर्
नानुपलम्भात् [542]सर्ज्ञे वक्तृत्वम् असद् ब्रूमः । अपि तु सर्वज्ञत्वेन सह वक्तृत्वस्य विरोधात् । एतन् न[543] ।
__________नोतेस्__________
[542] -भात् संदिग्धे वक्तृ-
[543] एतन् न --- ओम्.
वक्तृत्वसर्वज्ञत्वयोर् विरोधाभावाच् च यः सर्वज्ञः स वक्ता न भवतीत्य् अदर्शने ऽपि व्यतिरेको न सिध्यति, संदेहात् 71
वक्तृत्वसर्वज्ञत्वयोर् विरोधो नासिति । विरोधाभावाच् च कारणाद् व्यतिरेको न सिध्यति --- इति संबन्धः ।
व्याप्तिमन्तं व्यतिरेकं दर्श्यति --- यः सर्वज्ञः इति । साध्यभावरूपं सर्वज्ञत्वम् अनूद्य [544] ` स वक्ता न भवति ऽ इति साधनस्य वकृत्वस्याभावो विधीयते । तेन साध्याभावः साधनाभावे नियतत्वात् [545]साधनाभावेन व्प्यात उक्त इति । व्याप्तिमानीदृशो व्यतिरेको विरोधे सति वक्तृत्वसर्वज्ञत्वयोः सिध्येत् । न चास्ति विरोधः । तस्मान् न सिध्यतीति[546] । कुत इत्य् आह --- संदेहात् । यतो विरोधाभावः, तस्मात् संदेहः । सन्देहाद् व्यतिरेकासिद्धः ॥
__________नोतेस्__________
[544] न स वक्ता भवति
[545] साधर्म्यभावेन
[546] सिध्यति । कुतः
कथं विरोधाभावः?
द्विविधो हि पदार्थानां विरोधः इइइ-72
[547]ही ति यमाद् द्विविध एव विरोधो नान्यः, तस्मान् न वक्तृत्वसर्वज्ञत्वयोर् विरोधः ॥
__________नोतेस्__________
[547] हिर् यस्मादर्थेद्विवि-; हिर् यस्मात्
कः पुनर् असौ द्विविधो विरोध इत्य् आह ---
अविकलकारणस्य भवतो अन्यभावे अभावाद्[548][549]विरोधगतिः इइइ-73
__________नोतेस्__________
[548] भावः । अभा-
[549] गतिर् इति
अविकलकारणस्ये ति । अविकलानि समग्राणि कारणानि यस्य स तथोक्तः । यस्य कारणवैकल्याद् अभावो न तस्य केनचिद् अपि विरोधगतिः । तदर्थम् अविकलकारण ग्रहणम्।
ननु च यस्यापि कारणसाकल्यं तस्यापि निवृत्तिर् अशक्या केनचिद् अपि कर्त्तुम् । तत् कुतो विरोधगतिः? एवं तर्हि अविकलकारणस्यापि यत्कृतात् कारणवैकल्याद् अभावस् तेन विरोधगतिः ।
यस्येत्यदिनाविकालकारणस्य फलं वर्णयति । एवं तर्ही त्य् उत्तरम् । तर्हि तस्मिन् काले । एवं बोद्धव्यम् इत्य् अर्थः । अपि सम्भावनायाम् । न्यायबलाद् एवं सम्भावयाम इत्य् आर्थः । विरोधस्य गतिः प्रतिपत्तिः ।
[ध्प्र् 199].
तथा च सति यो यस्य विरुद्धः स तस्य किञ्चित् कर एव । तथा हि --- शीतस्पर्शस्य जनको भूत्वा शितस्पर्शान्तरजननशक्तिं प्रतिबध्नन् शीतस्पर्शस्य निवर्त्तको विरुद्धः । तस्माद् धेतुवैकल्यकारी विरुद्धो जनक एक निवर्त्त्य् अस्य । सहानवस्थानविरोधश् चायम् । ततो विरुद्धयोर् एकस्मिन्न् अपि क्षणे सहावस्थानं परिहर्त्तव्यम् । दूरस्थयोर् विरोधाभावाच् च निकट्स्थयोर् एव निवर्त्त्यनिवर्त्तकभावः ।
तस्माद् यो यस्य निर्वर्त्तकः स तं यदि परं तृतीये क्षणे निवर्त्तयति । प्रथमे क्षणे सन्निपतन्न् असमर्थवस्थाधानयोग्यो[550] भवति । द्वितीये विरुद्धम्
असमर्थं करोति । तृतीये त्व् असमर्थे निवृत्ते तद्देशम् आक्रामति ।
__________नोतेस्__________
[550] स्थाधाने योग्यो; -स्थानयोग्यो
तत्रालोको गतिधर्मा क्रमेण जलतरङ्गन्यायेन [551]देशम् [552]आक्रामन् यदा ऽन्धकारनिरन्तरम्[553] आलोकक्षणं जनयति तदा ऽऽलोकसमीपवर्त्तिनम् अन्धकारम् असमर्थं जनयति । ततो ऽसामर्थ्यं तस्य यस्य समीपवर्त्त्यालोकः । [554]असमर्थे निवृत्ते [555]तद्देशो जायत आलोक इत्य् एवं क्रमेणा ऽऽलोकेनान्धकारो ऽपनेयः । तथोष्णस्पर्शेन शीतस्पर्शो निवर्त्तनीयः ।
__________नोतेस्__________
[551] तद्देशमा-
[552] आक्रामयन्
[553] कारे निर्-
[554] असमर्थ्ये, असामर्थ्ये
[555] तादृशो
किम् अतः सिद्धम् इत्य् आह तथा चे ति कारणवैकल्यकारिणो विरोधावगमप्रकारे सति । किञ्चित्करत्वम् एव तथा ही त्यादिना दर्शयति । यथा चास्य जनकत्वं तथानन्तरम् एव व्यक्तीकरिष्यते ।
ननु किं कतिपयक्षणसहितयोः पश्चान् निवर्त्त्यनिवर्त्तकभावेन विरोधो ऽथ वान्यथेत्य् आशङ्क्याह सहे ति । चो यस्मात् ततस् तस्मात् । न केवलं बहुषु क्षणेष्व् इत्य् अपिशब्दः । सहावस्थानम् एकत्र स्थितिः । निकटावस्थानं तु न परिहर्त्तव्यम् इति बुद्धिस्थम् । परिहर्त्तव्यं नाङ्गीकर्त्तव्यम् । तयोर् एकस्मिन्न् अपि क्षणे सहस्थित्यभावात् कथम् एवम् अङ्गीक्रियते ? अत एव । न सहस्थितयोः पश्चाद् विरोध इति वा कृतम् अनेन ।
यद्य् एवं क्वचित् प्रदेशे वर्त्तमान आलोकस् त्रिलोकीव्यवस्थितानि तमांस्य् अनेनैव क्रमेणापनयेद् इति न क्वचित् तमांस्य् अवतिष्ठेरन्न् इत्य् आह --- निकटस्थयोर् इति ययोर् निवर्त्त्यनिवर्त्तकभावो दृष्टस् तयोर् निकटस्थयोर् एव न तु निकटस्थयोर् अवश्यं निवर्त्त्यनिवर्त्तकभाव इत्य् अस्यार्थो द्रष्टव्यः । तयोर् एव कथं तथाभाव इत्य् आशङ्कायां दूरस्थयोर् इति योज्यम् । चो ऽवधारणे । यतः किञ्चित्करस्यैव निवर्त्तकत्वंतस्माद् हेतोः परंप्रकृष्टं यथा भवति । एतद् एवोपपादयन्न् आह --- प्रथम इति सन्नियतन् निकटीभवन् निवर्त्तक इति प्रकरणात् । असमर्था चोपादेयक्षणनिर्माणे अशक्त् आवस्था यस्यान्धकारक्षणस्य तस्या धानम् उत्पादनम्, तत्र योग्यः समर्थो भवति । द्वितीये क्षणे इत्य् अनुवर्त्तते । विरुद्धम् अन्धकारसमर्थं सजातीयक्षणान्तरजननाक्षमं करोति । तृतीये क्षणे ऽसमर्थे तस्मिन्
[ध्प्र् 200]
यदा त्व् आलोकस् तत्रैवान्धकारदेशे जन्यते तदा यतः क्षणाद् अन्धकारदेशस्यालोकस्य जनकः[556] क्षणः उत्पद्यते तत एवान्धकारो ऽन्धकारान्तरजननासमर्थ[557] उत्पन्नः । [558]ततो ऽसमर्थावस्थाजनकत्वम् एव निवर्त्तकत्वम् ।
__________नोतेस्__________
[556] जनकक्षणः
[557] अन्धकारान्तरासर्थः; अन्धकारान्तराजननासर्थः
[558] ततो ऽसामर्थ्याव-
अतश् च यस्मिन् क्षणे जनकस् ततस् तृतीये क्षणे निवृत्तो विरुद्धो यदि शीघ्रं निवर्त्तते ।
जन्यजकभावाच् च [559]सन्तान्योर् विरोधो न क्षणयोः । यद्य् अपि च न सन्तानो नाम वस्तु तथापि सन्तानिनो वस्तुभूताः । ततो ऽयं परमार्थः न क्षणयोर् विरोधः । अपि तु बहूनां
__________नोतेस्__________
[559] सन्तनयोः
वन्ध्यक्षणे निवृत्ते स्वरसतो निरुद्धे तद्देशं तस्यासमर्थक्षणस्य देशं स्थानम् आक्रामति, तद्देशो भवति निवर्त्तक इत्य् अर्थात् ।
इह कश्चिन् निवर्त्तक आलोको याम् एव दिशम् आक्रामति तद्दिग्वर्त्तिनम् एव स्वविरुद्धं गतिक्रमेणैव निवर्त्तयति । कश्चित् पुनर् विरुद्धावष्टब्ध एव देशे समुत्पन्नमात्र एवानेकदिग्वर्त्तिनं विरुद्धं झटिति निवर्त्तयति । तत्र न ज्ञायते कस्य कथं किञ्चित्करतया निवर्त्तकत्वम् इत्य् आह तत्रेति वाक्योपक्षेपे । देशम् अभिमतं स्थानम् आक्रामंस् तद्देशो भवन्न् आलोक इत्य् अर्थः । अन्धकारनिरन्तरम् अन्धकाराव्यवहितम् । आलोकसमीपवर्त्तिनम् इति तज्जन्यमानालोकसमीपवर्त्तिनम् । असमर्थम् अन्धकारान्तरजननाशक्तं जनयति। यत एवं ततस् तस्य जनकत्वम् । ततस् तस्मात् समीपवर्त्त्यालोक इति गतिधर्मेति द्रष्टव्यम् । असामर्थ्यं चोपादेयक्षणोपजननं प्रतीति प्रस्तावाद् अवसेयम् । असमर्थे तस्मिन्न् अन्धकारे निवृत्ते स्वरसतो विरुद्धे (निरुद्धे) सति । सो ऽसमर्थान्धकारक्षणदेशो देशो यस्य स तथा जायते आलोकः । इति स् तस्मात् । एवम् अनन्तरोक्तेन क्रमेण परिपाट्या गतिधर्मा लोकस् तद्देशाक्रमणाय सन्निपतन्न् असमर्थावस्थाधानयोग्यो भवति । द्वितीये क्षणे ऽसमर्थं जनयति । तृतीये तद्देशो जायत इत्य् अनन्तरोक्तः क्रमो विभज्य योजनीयः ।
अमुम् एव क्रमम् अन्यत्रादिशन्न् आह --- तथे ति । यथा आलोकान्धकारयोर् निवर्त्त्यनिवर्त्तकभावस् तेन प्रकारेण उष्णस्पर्शेन गतिधर्मेण दृष्टान्तवशाद् द्रष्टव्यम् ।
गतिधर्मणस् तावद् आलोकस्यायं क्रमः । विरुद्धाक्रान्तदेशमध्योत्पन्नस्य कीदृश इत्य् आह यदे ति । तु र् विशेषणार्थः । यतः क्षणाद् आलोकस्य जनकः क्षण उत्पद्यते । कीदृशस्यालोककणस्येत्य् आह अन्धकारे ति । अन्धकारदेशस्य निवर्त्त्यान्धकारसम्बन्धी देशो यस्य स तथा तत एव तमोदेशालोकोत्पादक्षणयोर् एकसामग्र्यधीनताम् आह । यतो ऽन्धकारदेशालोकहेतूत्पादकस्य क्षणस्य वन्ध्यान्धकाराधायकत्वतो हेतोर् अविद्यमानं सजातीयजन्मनि सामर्थ्यं यस्या अवस्थाया अन्धकारसम्बन्धिन्याः सा तथा । तज्जनकत्वम् एवालोकस्येति प्रकरणात् ।
अत्रापि तृतीये क्षणे परं निवर्त्तकत्वम् इति दर्शयन्न् आह अतश् चे ति । चो ऽवधारणे । अत्रापि प्रथमे क्षणे ऽन्धकारदेशालोकहेतूत्पादकः क्षणः समुद्भवन्न् एवान्धकारासमर्थावस्थातद्देशालोकहेतुजननयोग्यो
[ध्प्र् 201]
क्षनानाम् । यतः सत्सु दहनक्षणेषु प्रवृत्ता अपि शीतक्षणा निवृत्तिधर्माणो भवन्तीति सन्तानयोर् निवर्त्त्यनिवर्त्तकत्वनिमित्ते च विरोधे स्थिते सर्वेषां परमाणूनां सत्य् अप्य् एकदेशावस्थानाभावे न विरोधः, इतरेतरसन्तानानिवर्त्तनात् तेषाम् । गतिधर्मा चालोको [560]यां दिशम् आक्रामति [561]तद्दिग्वर्त्तिनो विरोधिसन्तानान् निवर्त्तयति । ततो ऽपवरकैकदेशस्था प्रदीपप्रभा [562]ऽन्ध्कारनिकटवर्त्तिन्य् अपिनान्धकारंनिवर्त्तयति अन्धकाराक्रान्तायांदिश्य् आलोकक्षणान्तरजननासामर्थ्यात् । कारणासामर्थ्यहेतुत्वकृतं[563] सन्ताननिष्ठम् एव विरोधं दर्शयता [564] भवत इति कृतम् । भवतः प्रबन्धेन[565] प्रवत्तमानस्य [566]शीतस्पर्शसन्तानस्याभावो ऽन्यस्योष्णसन्तानस्य भावे सतीति ।
__________नोतेस्__________
[560] दिशं क्राम-
[561] तद् विवर्त्तिनः
[562] अन्धकारायाक्रान्तायां
[563] हेतुकृतं
[564] भवतेति
[565] -न्धेन वर्त्त-
[566] -स्य सन्तान-
भवति । द्वितीये ऽन्धकारदेशालोकोत्पादकक्षणविरुद्धान् अन्धकारान् असमर्थान् जनयति । तृतीये त्व् असमर्थेषु निवृत्तेषु तद्देश आलोको जायत इति प्रत्येतव्यम् । तथा शीताक्रान्तदेशमध्योत्पन्नेनोष्णस्पर्शेन स्थितधर्मणा तथैव शीतस्पर्शो निवर्त्तनीय इत्य् अपि द्रष्टव्यम् ।
ननु च येनालोकक्षणेन सन्निपति(पत)तान्धकारक्षणो ऽसमर्थो न तेन तद्देश आक्रम्यते । येन चाक्रम्यते न तेनासमर्थो जन्यते । तथा यो ऽन्धकारस् तत्सन्निपतनकालभावी नासौ तद्विरुद्धः । यश् चासमर्थस् तज्जन्मा सो ऽपि तज्जन्यत्वाद् अविरोधी । ये चानुत्पत्तिधर्माणस् ते ऽप्य् असत्त्वात् कथं तैर् विरुद्धा इत्य् आशङ्क्याह जन्यजनकभावाद् इति । चो ऽवधारणे सन्तानयोर् इत्य् अस्यानन्तरं द्रष्टव्यः ।
अयम् आशयः --- जन्यजनकभावविशेष एवायं निवर्त्त्यनिवर्त्तकभावः अर्वाग्दर्शी च न क्षणयोः कार्यकारणभावं विभावयितुं विभवति । अपि तु सन्तानयोस् ततो ऽन्धकारक्षणप्रबन्धम् एकत्वेनावसाय निवर्त्त्यं विरुद्धम् अध्यवस्य् आलोकक्षणप्रबन्धं चैकत्वेनाधिमच्य तद् विरोधिनम् अधिमुञ्चतीति ।
परमार्थदृष्ट्या चेदं क्षणोल्लेखेनाख्यायते । न तु लोकस्थित्याश्रयेण । न तर्हि परमार्थतो विरोध इति चेत् । किं वै कार्यकारणभावविशेष एवैवंविधो न विद्यते, येनैवं वक्तुम् अध्यवसितो भवान् इति ? एतच् चानन्तरम् एव निरूपयिष्यते ।
ननु न सन्तानिव्यतिरेकेण सन्तानो नामान्यः सम्भवी । तत् कथं द्वयोः सन्तानयोर् विरोध उच्यत इत्य् आह यद्य् अपी त्य् अनुमतौ । यतः सन्तानिनो वस्तुभूताः सन्ति ततो हेतोर् अयं वक्ष्यमाणकः । उपपत्तिम् आह यत इति । यस्माद् ग(शी)तक्षणप्रबन्धस्याभावान् निवृत्तिधर्मकत्वम् । तथा यतः सत्स्व् आलोके(क)क्षणेषु प्रवृत्ताप्य् अन्धकारक्षणान्(-णा) निवृत्तिधर्माणो भवन्तीति द्रष्टव्यम् । अन्धकारादिक्षणप्रबन्धस्य[567](आलोकादिक्षणप्रबन्धस्य) आलोकादिक्षणप्रबन्धेन सह विरोध इति प्रकरणार्थः ।
__________नोतेस्__________
[567] कोष्ठकान्तर्गतः पाठः व्यर्थः --- सं-
[ध्प्र् 202]
ये त्व् आहुर् न विरोधो वास्तव इति त इदं वक्तव्याः --- यथा न निष्पन्ने कार्ये कश्चिज् जन्यजनकभावो
यदि येन सह यस्यैकदेशास्थितिनं भवति तेन तस्य सहानवस्थानलक्षणो विरोधस् तर्हि सर्व एव परमाणवः सप्रतिघत्वाद् अन्योन्यदेशपरिहारेण वर्त्तन्त इति सर्वेषाम् एव परमाणूनाम् अयं विरोधः किन् न व्यवस्थाप्यत इत्य् आशङ्क्याह --- सन्तानयोर् इति । चो ऽवधारणे । हेतुम् आह --- इतरेतरेति । यतः सत्स्व् अपि तेषु सर्व एव सन्तानेन प्रवहन्ति ततः सन्तानानिवर्त्तनं तेषाम् ।
ननु यद्य् आलोकान्धकारयोर् निवर्त्त्यनिवर्त्तकभावेन विरोधस् तर्हि प्रदीपमल्लिकातलवर्त्त्य् एव वरकात्माण निवर्त्ती (?) अन्धकारस् तत्समीपवर्त्तिनालोकेन किन् न निवर्त्त्यत इत्य् आशङ्क्याह --- गतिधर्मेति । चो यस्मादर्थे । तद्दिग्वर्त्तिन एवेत्यर्थाद् द्रष्टव्यः । यतो यद्दिगभिमुखगतिर् आलोकस् तदाक्रम्यमाणदिग्वर्त्तिन एव विरोधिसन्तानान् निवर्त्तयति । ततस् तस्मात् कारणात् ।
कुतो न निवर्त्तयतीत्य् आह अन्धकारेति । अन्धकाराक्रान्तायाम् इत्य् अनेन दिशो ऽन्त(न्ध)काराक्रान्तत्वम् आलोकक्षणान्तराजननासामर्थ्यकारणं नोक्तम् । किन् तर्हि? वास्तवानुवादः कृतः । या सा दिग् अन्धकाराक्रान्ता दृश्यते तत्र तस्य तज्जननासामर्थ्याद् इत्य् अर्थः । अन्यथान्धकाराक्रान्तत्वम् एव तस्य न स्यात् । आलोकेन समीपवर्त्तिनान्धकारापनयासम्भवाद् इति कथम् एनं संगच्छेत ।
अयम् अत्र परमार्थः --- दृश्यते तावत् काचिद् अन्धकारमात्रा निकटस्थितेनाप्य् आलोकेनानिवर्त्तिता । दृश्यश् चान्यस्याववरकवर्त्तिनो ऽन्धकारप्रचयस्योच्छेदः । तस्माद् आलोकस्यालोकान्तरजननासामर्थ्यम् अन्यत्र तु सामर्थं तत्त्वचिन्तकैर् अचिन्त्यत्वात् प्रतीत्यसमुत्पादस्य कल्प्यत इति । अत एव ययोर् जन्यजनकभावेन निवर्त्त्यनिवर्त्तकभावो नास्ति तयोः प्रदीपमल्लिकादितलवर्त्त्यन्धकारतदासन्नालोकयोर् विरोधः । प्रायोवृत्त्या तु तौ विरोधेनावबुद्ध्येते । अत एव पूर्वं दूरस्थयोर् विरोधाभावाच् च निकटस्थयोर् एव निवर्त्त्यनिवर्त्तकभावः इत्य् उक्तम्, न तु निकटस्थयोर् निवर्त्त्यनिवर्त्तकभाव एव इति । सति निवर्त्त्यनिवर्त्तकत्वे निकटस्थयोर् एव न तु निकटस्थयोर् अवश्यं निवर्त्त्यनिवर्त्तकभावः इति च व्याख्यातम् एव ।
सम्प्रति जन्यजनकभावनिबन्धनं सन्तानगतम् एव च विरोधं स्वयं प्रतिपादितम् आचार्य स्याप्य् अभिप्रेतम् एतद् इति दर्शयन्न् आह कारणैर् इति ( कारणे ति) । कारणस्य निवर्त्तयितव्यस्य शीतस्पर्शादेर् असामर्थ्यं सजातीयक्षणनिर्माणे ऽशक्तत्वं तत्र यद् धेतुत्व ं निवर्त्तकस्य तत् कृतं तत् प्रयुक्तम् । अत एव सन्ताननिष्ठं सन्ताने क्षणप्रबन्धे निष्ठा व्यवस्थाप्यतया पर्यवसानं यस्य तं दर्शयता प्रकाशयता चार्येणे त्य् अर्थात् ।
ये पुनः शान्तभद्रादयः "न तावद् आलोकादेर् उत्पन्नेनान्धकारादिना विरोधः, तस्यातीतत्वेनासत्त्वात् । न चोत्पित्सुना सह तस्याप्य् अनागततयासत्त्वात् । नापि वर्त्तमानेन तस्यापि तज्जन्मतयाविरोधित्वात् । तस्मान् न विरोधो नाम द्विष्ठः सम्बन्धो ऽस्ति । किन् तु काल्पनिक एव । अत एव् आचार्येण विरोधगतिर् इत्य् अभिधायि । न तु विरोध" इति । इति व्याख्यातवन्तस् तान् वचनभङ्ग्या निराचिकीऋषुर् आह ये त्व् इति ।
[ध्प्र् 203]
नाम [568]द्विष्ठो ऽस्ति । कारणपूर्विका तु कार्यवृत्तिः[569] । अतो वास्तव एव । तद्वत् न निवृत्ते वस्तुनि कश्चित् [570]द्विष्ठो नाम विरोधो ऽस्ति । दहननिमित्तं तु शीतस्पर्शस्य [571]क्षाणातरजननासामर्थ्यम् । अतो[572] विरोधो ऽपि वास्तव एव ॥
__________नोतेस्__________
[568] दृष्टो ऽस्ति
[569] कार्यप्रवृत्तिः
[570] कश्चिद् इष्टो; कश्चिद् दृष्टो
[571] क्षणान्तरासाम-
[572] ततो
उदाहरणम् आह ---
शीतौष्णस्पर्शवत् इइइ-74
[573]शीतश् च् ओष्णशश् चताव् एव स्पर्शौ तयोर् इव । शितोष्णस्पर्शयोर् हि पूर्ववद् विरोधो योजनीयः ॥
__________नोतेस्__________
[573] शीतञ् चो-
द्व्तीयम् अपि विरोधं दर्शयितुम् आह ---
परस्परपरिहारस्थितलक्षणतया[574]वा[575]भावाभाववत् इइइ-75
__________नोतेस्__________
[574] वा--- ओम्.
[575] वा भाववत्
परस्परस्य[576] परिहारः परित्याग्स् तेन स्थितं लक्षणं रूपं ययोस् तद्भावः परपरप्रिहारस्थितलक्ष्णता तया[577] ।
__________नोतेस्__________
[576] परस्परं; परस्परपरि
[577] तया --- ओम्.
इह यस्मिन् परिच्छिद्यमाने यद् व्यवच्छिद्यते तत् परिच्छिद्यमानम् अवच्छिद्यमानपरिहारेण स्थितरूपं द्रष्टव्यम् । नीले च परिच्छिद्यमाने ताद्रूप्यप्रच्युतिर् अवच्छिद्यते, तदव्यवच्छेदे नीलापरिच्छेदप्रसङ्गात् । तस्माद् वस्तुनो भावाभावौ परस्परिहारेण स्थितरूअपौ । नीलात् तु यद् अन्यद् रुपं तन् नीलाभाव्यभिचारि । नीलस्य दृश्यस्य पीतादाव् उपलभ्यमाने ऽनुपलम्भाद्
कारणपूर्विका कारणत्वेनाभिमतपदार्थसत्तापूर्विका कार्य स्य कार्यत्वेनाभिमतस्य वृत्तिः प्रवृत्तिर् भाव इति यावत् । तु र् विशेषणार्थः । यत एवम् अतो हेतोर् वास्तवः पारमार्थिकः । अन्यथा कार्यकारणभावो ऽप्य् अवास्तवो ऽस्त्व् इति भावः ।
ननु किं कार्यकारणभावो ऽपि द्विष्ठः सम्बन्धः कश्चिद् इष्टो येनैवम् उच्यत इति चेत् । न । कारणपूर्विकायाः कार्यवृत्तेर् वास्तवत्वात् । इहापि तर्हि दहनादिनिमित्तं शीतस्पर्शादेर् जननासामर्थ्यं वास्तवम् अस्तु । न तु विरोधः सम्बन्ध इति चेत् । न । एतावतो ऽन्यस्मात् कार्यकारणभावाद् अस्य कार्यकारणभावस्य विशेषरूपत्वाभ्युपगमात् । अस्माभिर् अपीदृश एव कार्यकारणभावविशेषो विरोध इत्य् उच्यत इति कथम् अयम् अवास्तवः स्याद् इति ।
पूर्ववत् पूर्वोपदर्शितवत् ।
[ध्प्र् 204]
अभावनिश्चियात् । यथा च नीलं[578] स्वाभावं परिहरति, [579]तद्वद् अभावाव्यभिचारि पीतादिकम् अपीति[580] । तथा च भावाभावयोः साक्षाद् विरोधः[581], वस्तुनोस् त्व् अन्योन्याभावाव्यभिचारित्वाद् विरोधः ।
__________नोतेस्__________
[578] नीलम् अभावं
[579] तम् इव अभाववत् --- टि-
[580] अपि । तथा
[581] विरोधौ; साक्षाद्विरोधः कः कस्य
कस्य चान्यत्राभावावसायः? यो नियताकारो ऽर्थः[582], तस्य । न त्व् अनियताकारः[583], क्षणीकत्वादिवत् । क्षणीकत्वं हि सर्वषां नीलादीनां स्वरूपात्मकम् । अतो न नियताकारम् । [584]यतः क्षणिकस्त्वपरिहारेण न किञ्चिद् दृश्यते ।
__________नोतेस्__________
[582] अर्थः, न तु
[583] -कार्प् ऽर्थः क्ष-
[584] अतः; `प्रत्यन्तरे यतः इतिऽ इति टिप्पणं वर्त्तते
ननु सर्वम् एव वस्तु सत्त्वरजस्तमोरूपेणैकम् इति कथम् अन्योन्यरूपपरित्याग इत्य् आह इहे ति । यद् व्यवच्छिद्यते यत्र परिच्छिद्यते । अपरिच्छेदस्यैव व्यवच्छेदरूपत्वात् । अवच्छिद्यमानपरिहारेण व्यवच्छिद्यमानपरिहारेण स्थितं व्यवस्थितं रूपं स्वरूपं यस्य तत् तथा । किम् पुनर् इदं प्रसिद्धम् इत्य् आह नीलम् इति । चो यस्मात् । तद् एव रूपम् तद्रूपम्, तद्रूपम् एव ताद्रूप्यम् तस्य प्रच्युतिर् अभावो व्यवहर्त्तव्यैकरूपः प्रसज्यप्रतिषेधात्मा तुच्छरूपः । उपपत्तिम् आह --- तद्व्यवच्छेद इति । यत एवं तस्मात् कारणात् । यदि भावाभावयोर् विरोधः, न तर्हि नीलपीतयोः स स्याद् इत्य् आह नीलाद् इति । तुर् विशेषद्योतकः । अभावाव्यभिचारित्वम् एव साधयन्न् आह --- नीलस्ये ति । भवत्य् एवं नीलस्य पीतादाव् अभावः, न तु तत्परिहारेण तद् व्यवस्थितम् इत्य् आह यथे ति । चो यस्मादर्थे । नीलं कर्तृ स्वाभावं स्वभावं (?) स च मानभावश् च (?) तं न व्यभिचरती ति तथा । एवं सति किं व्यवस्थितम् इत्य् आह तथा चे ति नीलस्य साक्षात् स्वाभावपरिहारप्रकारे तद् अव्यभिचारित्वाद् अर्थान्तरपरिहारप्रकारे च सति ।
न तु (ननु) यद् यदभावाव्यभिचारि यत् (तत्) तत् तेन विरुध्यते । तस्य न तदात्मकत्वेनाभावावसायस् तादात्म्याभाव(आ)वसायफलत्वाद् अन्यस्य विरोधस्य । तर्हि क्षणिकत्वम् अपि नीलाभावाव्यभिचारित्वान् नीलेन विरुद्ध्यमानं न नीलात्मकं स्यात् । तद् अपि नीलाभाववद् एव अन्यथा क्षणिकत्वं नीलात्मतैव स्यात् । तथा च यावत् क्षणिकं तावन् नीलम् इति कृत्स्ना त्रिलोकी नीलैव स्याद् इति मनसि निधायाह कस्य चे ति । तुशब्दार्थश् च कारः ।
परमुखेन प्रश्नं कृत्वा प्रश्नविसर्जनम् आह य इति । नियतस्य प्रतिनियतस्य वस्तुन आकारः स्वरूपम् इति विग्रहीतव्यम् । एतद् एव व्यतिरेकमुखेणाह न त्व् इति । न पुनर् अनियतस्य सर्ववस्तुस्वरूपात्मकस्य । तद् एव दर्शयति क्षणिकत्वादिवद् इति । आदि शब्दात् परमाणुमयत्वादिपरिग्रहः । अनेनैतद् आह --- अभावाव्यभिचारित्वे ऽपि नियताकारेण तेन सम(म् अ)स्य विरोधो नानियताकारेणेति ।
अनियताकारत्वम् अस्योपपादयन्न् आह क्षणिकत्वं ही ति । हिर् यस्मादर्थे । सन्मात्रानुबन्धित्वात् क्षणिकस्येत्य् अभिप्रायः । यत एवम् अतः कारणात् । न त्व् अयम् अर्थः --- नियतः प्रतिनियत
[ध्प्र् 205]
यद्य् एवम् अभावो ऽपि न नियताकारः । [585]कथम् नियताकारो नाम? यावता वस्तुरूपविविक्ताकारः कल्पितो ऽभावः । ततो दृष्टं कल्पितं वा नियतं रूपम् अन्यत्रासद् इत्य् अवसीयते[586] । नानियतम् । एवं [587]नित्यत्वपिशाचादिर् अपि नियताकारः कल्पितो दृष्टव्यः । एकात्मत्वविरोधश्[588] चायम् । ययोर् हि [589]परस्परपरिहाएणावस्थानं तयोर् एकत्वाभावः ।
__________नोतेस्__________
[585] कथं न निय-
[586] -त्रा ऽसदवसीयते
[587] नित्यत्वे पिशाच-
[588] एकात्मकत्व-
[589] परस्परेणाव-
आकारो यस्येति । एवं हि क्षणिकत्वादेर् अपि नियताकारत्वं स्यात् । तथा हि परमसङ्कुचितकालवर्त्तिरूपत्वेन नियताकारत्वात् । धर्मोत्तरो ऽपि क्षणिकत्वं हि सर्वेषां नीलादीनां स्वरूपात्मकम् इति ब्रुवाणो नियताकार इत्य् अत्र षष्ठीतत्पुरुषम् अभिव्यनक्ति इतरथा क्षणिकत्वस्य हि सर्वो नीलादिः स्वरूपम् इत्य् अभिदध्याद् इति । एवञ् चा (च) क्षणिकस्यापि न नीले ऽभावावसायस् तस्य सर्वनीलादिवस्त्वात्मकत्वेनानियताकारत्वात् । येन च क्षणिकं कल्पितं न तेन प्रतिनियतवस्त्वात्मक (कं) कल्पितम् अत एव नीलग्राहि प्रत्यक्षं क्षणिकत्वाक्षणिकत्वयोर् उदासीनं नीलमात्रे प्रमाणम् । तथा च नीलस्याक्षणिकत्वपरिहारेणावस्थानं क्षणिकत्वसिद्धेः प्राङ् निश्चेतुम् अशक्यम् इति न्यायबलात् प्राप्तम् ।
एवञ् चाविरोधरूपविवेचके धर्मोत्तरे सत्य् अपि ये केचिद् द्विष्यमानजल्पमहोदधिप्रभृतयो विरोधचोद्यपरिजिहीर्षया परस्परपरिहारस्थितलक्षणं विरोधं परिहारीकुर्वन्ति तैर् अयं कस्य चान्यत्राभावावसा[यः ।] यो नियताकारो न त्व् अनियताकारः क्षणिकत्वादिर् इति धर्मोत्तर स्य ग्रन्थो न दृष्टो न चार्थस्य समीचीनिधिस (?) ज्ञात इति लक्ष्यते ।
यद्य् अयम् अपरिहारः, कस् तत्र परिहार इति चेत् । यथैतत् परिह्रियते तथा विशेषाख्यान एवास्माभिर् अभ्यधायीति तत एवापेक्षितव्यम् । इह पुनर् अप्रकृतत्वान् नोच्यत इति ।
यदि नियताकारं वस्तु परिहरति नानियताकारम्, तर्हि भावो नाभावं परिहृत्य तिष्ठेत् तस्यानियताकारत्वाद् इत्य् आशङ्कमान आह यद्य् एवम् इति । एवञ् चेद् अभ्युपगम्यते तदेत्य् अर्थात् । न केवलं क्षणिकत्वादीत्य् अपि शब्दः । कथम् इति सिद्धान्ती ।
यावते ति तृतीयान्तप्रतिनिरूपको निपातो ऽत्र यस्माद् इत्य् अस्यार्थो वर्त्तते । वस्तुरूपविविक्तो दृश्यनीलादिस्वभावरहित आकारो यस्येति विग्रहः ।
कल्पित ग्रहणेनैतद् आह नाभावो नाम कश्चित् प्रमाणसिद्धो ऽस्ति । केवलं कल्पिकया बुद्ध्या तथा समारोपित इति । यत एवं तस्माद् दृष्टं प्रमाणावगतं कल्पितम् आगमाश्रयेणान्यथा वा समारोपितम् । अन्यत्र ततो ऽन्यस्मिन् नीलादौ वानियतम्, न नीलाद्यात्मकं सत् तत्रैवा स [ द् इ]त्य् अवसीयते । अमुम् एव न्यायम् अन्यत्रादिशन्न् आह एवम् इति । यथाभावो नियताकार एव कल्पितो नानियताकार एवं नित्यत्वम् अपि सर्वकालावस्थायित्वलक्षणं नियताकारम् एव
[ध्प्र् 206]
अत एव लाक्षणिको ऽयं विरोध उच्यते । लक्षणं रूपं वस्तूनां प्रयोजनम् अस्येति कृट्वा । विरोधेन ह्य् अनेन वस्तुतत्त्वं विह्बक्तं व्यवस्थाप्यते । अत एव दृश्यमाने रूपे यन् निषिध्यते तद् दृश्यम् एवाभ्युपघम्य निषिध्यते तथा हि --- अभावो ऽपि पिशाचो ऽपि यदा पीते निषेद्धुम् इष्यते तदा दृश्यात्मतया निषेध्य इति दृश्यत्वम् अभ्युपगम्य दृश्यानुपलब्धेर् एव निषेधः । तथा च सति रूपे परिच्छिद्यमान एकस्मिंस् तदभावो दृश्यो व्यवच्छिद्यते । [590]यच् च तदभाववन् नियताकारं
__________नोतेस्__________
[590] अथ यत्तदभाववत् पा(पी)ताद् तत् कथं व्यवच्छिद्यते इत्य् आह --- टि-
कल्पितम्, न तु सर्वस्य नीलादेः । अक्षणिकत्वं तु सर्वस्य नीलादेः स्वरूपात्मकं सर्वस्यैवानेकक्षणस्थायित्वात् । न चाक्षणिक एव नित्यः, सतो ऽकारणस्याकाशादेः कियत एव तथात्वात् । तथा पिशाच त्वम् अप्य् अस्थिस्नायुमयसूचीवक्त्रादिरूपस्यैव स्वरूपं कल्पितम् इति । तस्यापि नीलाकारत्वान् नीलादिना (ता) । अयं विरोधः । यद् वा नियतः प्रतिनियत आकारः स्वभावो यस्य स तथा निषेधेन् आनियताकारः । तदा तु सर्वनीलाद्यनात्मकत्वसर्वनीलाद्यात्मकत्वे नियताकारत्वानियताकारत्वे वाच्ये । तेन न क्षणिकत्वादौ नियताकारत्वस्य प्रसङ्गः । सर्वेषां स्वरूपात्मकम् इति च विवरणम् अर्थभेदेन नेयम् इति ।
ननु चानेनापि विरोधेन विरोधिनोः सहावस्थानं निषिध्यते । पूर्वेणापि परस्परपरिहारवस्थानं प्रतिपाद्यत इति कथम् अन्योन्यान्यान्तर्भाव इत्य् आशङ्क्याह एकात्मत्वे ति । चो यस्मादर्थे । विरुद्धयोर् एकात्मनिषेधको विरोध एकात्मविरोध उक्तः । कथम् अस्य तथात्वम् इत्य् आह --- ययोर् इति । हि र् यस्मादर्थे ।
यत एतेन विरोधेन विरुद्धयोर् एकात्मत्वं निषिध्यते अत एवा स्माद् एव कारणात् । कथम् ईदृशो विरोधो भवता लाक्षणिक शब्देनाभिधीयते इत्य् आह लक्षणम् इति । विभक्तस्वरूपं प्रयोजनं व्यवस्थाप्यतया साध्यम्, प्रयुज्यते अनेन इति वा प्रयोजनं प्रयोजकस्य । इति कृत्वा एवं व्युत्पाद्य ईदृश्या व्युत्त्पत्त्येति यावत् ।
कथम् एतत् प्रयोजनम् इत्य् आह विरोधेने ति । ही ति यस्मात् । विभक्तम् अन्येन विभक्तं यतो ऽनेने ति विरोधेन नीलादेर् विभक्तरूपव्यवस्थापनाद् अन्येन सहैकात्म्यं निषिध्यते । अत एवा स्माद् एव कारणात् । दृश्यमाने रूपे प्रतीयमाने वस्तुस्वरूपे यन् निषिध्यते दृश्यमानात्मकत्वेन प्रतिषिध्यते ।
ननु दृश्ये वस्तुनि दृश्यान्तरस्य दृश्यत्वाभ्युपगमपूर्वको निषेधो युक्तो न त्व् अदृश्यस्येत्य् आशङ्क्याह तथा ही ति । न केवलं भाव इत्य् अपि शब्दः । न केवलम् अभाव इत्य् अपि शब्दः । दृश्यात्मतया दृश्यपीतात्मतया निषेध्यो निषेधार्हः, नायं दृश्यमानः पीतः, अभावः पिशाचो वा ताद्रूप्येणाप्रतिभासनाद् इत्य् एवं निषेधाद् इत्य् अभिप्रायः । इतिर् हेतौ । दृश्यानुपलब्धेर् एवान्यस्य तादात्म्येनान्यस्मिन् निषेधः ।
अथ स्यात् प्रत्यक्षम् एवात्र नीलस्य पीतात्मताभावव्यवहारं करोति । तत् किम् एवम् उच्यते ? अथोक्तम् एतद् अदृष्टानाम् अपि सत्त्वसंज्ञया न शक्तो व्यवहारयितुम् इति चेत् । न । इह तादात्म्यनिषेधात् ।
[ध्प्र् 207]
रूपं तद् अपि दृश्यं व्यवच्छिद्यते । ततः स्वप्रच्युतिवत् प्रच्युतिमन्तो ऽपि व्यवच्छिन्ना इति ये परस्परैहारस्थितरूपाः सर्वे ते ऽनेन निष्द्धैकत्वा इति । सत्य् अपि चास्मिन् विरोधे सहावस्थानं स्याद् अपि ।
ततो ब्बिन्नव्यापारौ विरोधौ । एकेन विरोधेन शीतोष्णस्पर्शयोर् एकत्वं वार्यते । अन्येन सहावस्थानम् । बिन्नविष्यौ[591] च । सकले वस्तुन्य् अवस्तुनि च परस्परपरिहारविरोधः । वस्तुन्य् एव कतिपये [592]सहानवस्थानविरोधः । तस्माद् भिन्नव्यापारौ भिन्नविषयौ च । ततो नानयोर् अन्योन्यान्तर्भाव इति ॥
__________नोतेस्__________
[591] भिन्नप्रवृत्तिवैषयौ
[592] सहावस्थान-
स च द्विविधो अपि विरोधो वक्तृत्वसर्वज्ञत्वयोर् न सम्भवति इइइ-76
आधेयनिषेधे ह्य् अयं न्यायो न तु दृश्यमानात्मतानिषेध इति । सत्यम् एतत् । केवलम् अत्यन्तविमूढम् प्रत्य् एतद् उक्तम् इत्य् अदोषः । किम् एवं सति सिद्धिम् इत्य् आह तथा च तति एकात्म्यनिषेधे सर्वस्य दृश्यात्मतया निषेधप्रकारे सति । तदभावस् तस्य परिच्छिद्यमानस्य स्वरूपस्य नीलादेर् अभावस् तदभावो दृश्यो दृश्यात्मकः [71ब्] सन् व्यवच्छिद्यते तादात्म्येन निषिध्यते । अयं दृश्यात्मनो नीलो नाभावः तुच्छरूपेण अभावरूपेणाप्रतिभासनाद् इति कृत्वा दृश्यमानरूपात्मतया निषेधाद् इति भावः ।
भवतु परिच्छिद्यमानाभावस्य दृश्यस्य व्यवच्छेदस् तदव्यभिचारिणस् तु निषेधे का वार्त्तेत्य् आह यच् चे ति । अपिशब्दार्थश् च कारः । तदभावो विद्यते ऽस्येति तथा ।
यति तदभाववांस् तादात्म्येन प्रतिषिध्यते तर्हि क्षणिकत्वम् अपि पूर्वोक्तेण न्यायेन नीलाभाववद् इति तद् अपि तादाम्यतया व्यवच्छेद्यं स्याद् इत्य् आह नियताकारम् इति । एतच् च पूर्वम् एव कृतव्याख्यानम् । यतो द्वयोर् अप्य् अभावतद्वतोर् दृश्यमानात्मतया निषेधाद् दृश्ययोर् एव निषेधस् ततस् तस्मात् स्वप्रच्युतिर् इव स्वाभाव इव व्यवच्छिन्ना निषिद्धतादात्म्याः । इतिस् तस्मात् । सर्व ग्रहणं कार्त्स्न्यप्रतिपादनार्थम् । अनेनेति विरोधेन निषिद्धम् एकत्वं येषाम् इति विग्रहः । विरोधे परस्परपरिहारस्थितात्मलक्षणे सहै कत्र लोकप्रतीतिसिद्धे देशे ऽवस्थानं स्थितिः स्यात् । अपिः सम्भावनायाम् । यस्माद् अनेन विरोधेन नैकत्रावस्थानं निषिद्ध्यते किन् त्व् एकात्मकत्वम् । पूर्वेण चैकत्रावस्थानं न त्व् एकात्मकत्वम् ।
ततः कारणाद् भिन्नौ नामभूतौ व्यापारौ ययोस् तौ तथोक्तौ । भिन्नव्यापारत्वम् एवाणयोर् एके त्यादिना स्फुटयति । न केवलं व्यापारभेदाद् अनयोर् भेदेनोपन्यासः । किन् तु विषयभेदाद् अपीत्य् आह भिन्नविषयौ चे ति । न केवलं भिन्नव्यापारौ भिन्नविषयाव् अपीत्य् अपिशब्दार्थश् च कारः । भिन्नविषयत्वम् एव दर्शयन्न् आह सकल इति ॥
भवतूक्तलक्षणो द्विविध एव विरोधः । तथाप्य् अनयोर् अन्यतर एव विरोधो वक्तृत्वसर्वज्ञत्वयोर् भविष्यतीत्य् आह स चे ति । चो यस्मात् सो ऽयम् अनन्तरोक्तो द्विविधो नास्ति । अपिर् अतिशये ।
[ध्प्र् 208]
स चा यं द्विविधो ऽपि विरोधो वक्तृत्व ं च सर्वज्ञत्व ं च तयोर् न सम्भवति । न ह्य् अविकल्कारणास्य सर्वज्ञत्वस्य वक्तृत्वभावाद् अभावगतिः[593] । सर्वज्ञत्वं ह्य् अदृश्यम् । अदृष्टस्य चाभावो नावसीयते । ततो नानेन विरोधगतिर् भवति ।
__________नोतेस्__________
[593] गतिर् इति
न च वक्तृत्वपरिहारेण सर्वज्ञत्वम् अवस्थितम् । काष्ठादयो हि[594] वक्तृत्वपरिहृताः । तेषाम् अपि सर्वज्ञत्वप्रसङ्गात् । नापि सर्वज्ञत्वपरिहारेण वक्तृत्वम् । काष्ठादीनाम् अपि वक्तृत्वप्रसङ्गात् । तत एवाविरोधाद् [595]वक्तृत्वविधेर् न सर्वज्ञनिषेधः ॥
__________नोतेस्__________
[594] -दयो ऽपि वक्तृ; -दयो ऽपि हि वक्तृ
[595] विधाने न सर्व-
स्याद् एतत् --- यदि नास्त्य् एव विरोधो घटपटयोर् इव स्याद् अपि तयोः सहाव् अस्थितदर्शनम्[596] । सहावस्थित्यदर्शनात् तु विरोधगतिः । विरोधाच्[597] चाभावगतिर् इत्याशङ्क्याह ---
__________नोतेस्__________
[596] -दर्शनम् । अदर्शनात् तु
[597] विरोधादभा
न च[598]अविरुद्धविधेर् अनुपलब्धाव् अप्य् अभावगतिः इइइ-77
__________नोतेस्__________
[598] न च विरुद्ध-
तत्राद्यस्य तावद् अभावं न ही त्यादिना दर्शयति । ही ति यस्मात् । कुतो नाभावगतिर् इत्य् आह सर्वज्ञत्वं ही ति । हिर् यस्मात् । अदृश्यस्यापि किं नाभावगतिर् इत्य् आह अदृष्टस्ये ति । चो यस्मादर्थे । यत एवं ततस् तस्मात् । अनेन वक्तृत्वेन विरोधगतिर् नास्ति तस्य सर्वज्ञत्वस्येत्य् अर्थात् ।
द्वितीयस्य विरोधस्य [अभावं] प्रतिपादयन्न् आह न चे ति । चः प्रतिषेधसमुच्चये । उपपत्तिम् आह काष्ठे ति । हिर् यस्मात् । कुतो वक्तृत्वपरिहारेण सर्वज्ञत्वं नावस्थितम् इत्य् आह तेषाम् अपि काष्ठादीनां सर्वज्ञत्वस्य प्रसङ्गात् प्रसक्तेः । कुतस् तेषां तथात्वप्रसङ्ग इत्य् आशङ्क्य योजनीयं काष्ठादय इति । हिर् यस्मात् । काष्ठादयो वक्तृत्वेन वचनशक्त्या परिहृतास् त्यक्ताः । वक्तृत्वम् एव सर्वज्ञत्वपरिहारेण व्यवस्थितं भविष्यतीत्य् आह नापी ति । अपिः प्रतिषेधसमुच्चये । अत्रापि ताम् एवोपपत्तिम् आह काष्ठे ति । इहापि काष्ठादयो हि सर्वज्ञत्वेन परिहृता इति द्रष्टव्यम् ।
स्याद् एतत् वक्तृत्वसर्वज्ञत्वयोः परस्परपरिहारस्थितलक्षणत्वाविरोधे ऽपि का क्षतिर् येन तन्निषेधः कृतः । तथा ह्य् अन्योन्यपरिहारेणावस्थाने ऽपि यद् वक्तृत्वं तत् सर्वज्ञत्वं मा भूत्, सर्वज्ञत्वं वा वक्तृत्वम् । तयोस् त्व् एकत्रस्थितिर् अविरुद्धैव । तद् अनन्तरम् एवोक्तम् धर्मोत्तरेण सत्य् अपि चास्मिन् विरोधे सहावस्थानं स्याद् अपी ति ।
तद् एतद् असत् । येषां हि वक्तृत्वसर्वज्ञत्वलक्षणौ धर्मिणो भिन्नाव् एव धर्मौ तेषाम् इदं शोभते न तु तथागतानां धर्मधर्मिणोर् वास्तवम् अभेदम् इच्छताम् । तथा हि यदि वक्तृत्वं सर्वज्ञत्वपरिहृतं
[ध्प्र् 209]
न चाविरुद्धविधेर् इति अनुपलब्धाव् अप्य् नायं विरुद्धविधिः यद्य् अपि[599] सहावस्थानानुपलम्भस् तथापि न तयोर् विरोधः । यस्मान् न सहानुपलम्भमात्राद् विरोधो ऽपि तु द्वयोर् उपलभ्यमानयोर् [600]निवर्त्यनिवर्तकभावावसायात् । तस्माद् अनुपलम्धाव् अपि न वक्तृत्वविधे विरुद्धविधिः[601] । अतो ऽस्मान् नान्यस्याभावगतिः ॥
__________नोतेस्__________
[599] यद्य् अपि च
[600] निर्वत्य-
[601] वक्तृत्वविरोधिविरुद्धविधिः
तथा न वक्तृत्वाद् रागादिमत्त्वगतिः । यतो यदि वचनादि रागादीनां कार्यं स्याद् वचनादे रागादिगतिः स्यात् । रागादिनिवृत्तौ वचनादिनिवृत्तिः[602] स्यात् । न च कार्यं । कुतः ---
__________नोतेस्__________
[602] वचननिवृत्तिः
रागादीनां वचनादेश् च कार्यकारणभावासिद्धेः इइइ-78
रागादीनां वचनादेश् च कार्यकारणभावासिद्धेः कारणान् न कार्यम् ।अतो ऽस्मान् न गतिः ॥
मा भूद् रागादिकार्य वचनं सहचारि तु भवति । ततो रागादौ सहचारिणि निवृत्ते निवर्त्तते[603]वचनम् इत्य् आशङ्क्याह ---
__________नोतेस्__________
[603] निवर्त्तिष्यते
अर्थान्तरस्य[604]चाकारणस्य निवृत्तौ न वचनादेर् निवृत्तिः इइइ-79
__________नोतेस्__________
[604] वा कारण-; वा ऽकारण-
अर्थान्तरस्य [605]चाकारणस्य निवृत्तौ सहचारित्वदर्शनमातेण नान्यस्य वचनादेर् निवृत्तिः । अतो वक्तृत्वं भवेद् रागादिविरहश् च ॥
__________नोतेस्__________
[605] वा कारण-; वा ऽकारण-
इति सन्दिग्धव्यतिरेको[606]अनैकान्तिको वचनादिः इइइ-80
__________नोतेस्__________
[606] सन्दिग्धव्यावृत्ते(त्ति) का ऽनै-
स्यात् तदा वक्तृत्वस्य वक्तुर् अभेदात् सर्वज्ञत्वस्य च सर्वज्ञाद्, वक्तैव सवज्ञो न स्यात्, सर्वज्ञ एव वा वक्तेति युक्तम् अनयोः परस्परपरिहारस्थितलक्षणताभावप्रतिपादनम् इति ।
यदि नास्त्य् एव विरोधः सहानवस्थाणलक्षण इति द्रष्टव्यम् । अन्यथा घटपटयोर् दृष्टान्तता न स्यात् । उपसंहारे चायम् अर्थो व्यक्तीकरिष्यते । उक्तं विरुद्धत्वे सहावस्थानादर्शनं कारणम्, तत् किम् एवम् उच्यत इत्य् आशङ्क्याह यद्य् अपी ति । तथापि तेनापि प्रकारेण । अतो हेतोर् अस्माद् वक्तृत्वाद् अन्यस्य सर्वज्ञत्वस्य नाभाव पतिपत्तिः ॥
यथा वक्तृत्वाद् असर्वज्ञत्वगतिर् नास्ति तथा वक्तृत्वाद् रागादिमत्त्वस्यापि गतिर् नास्तीति जिज्ञापयिषुर् आह तथे ति । आदि ग्रहणाद् द्वेषादिपरिग्रहः ।
रागादि शब्दसन्निधानाद् रागादि सहचारी ति बोद्धव्यम् । यथा सन्दिग्धविपक्षव्यावृत्तिकसाधनदोषस् तथा प्राग् एवाभिहितम् इति न पुनर् उच्यते ॥
[ध्प्र् 210]
इति शब्दस् तस्म्यादर्थे । [607]तस्माद् असर्वज्ञत्वविपर्ययाद् विपक्षात् सर्वज्ञत्वाद्, रागादिमत्त्वविपर्ययाद् अरागादिमत्त्वात् सन्दिग्धो व्यतिरेको वचनादेः ।[608] अतो ऽनैकान्तिको वचनादिः ॥
__________नोतेस्__________
[607] तस्माद् असर्वज्ञत्वावीतरागत्वविपर्ययाद् विपक्षात् सर्वज्ञत्वा(त्व)वीतरागादिमत्त्वात् सन्दिग्धो; तस्माद् असर्वज्ञरागादिमत्त्वविपर्ययात् विपक्षात् सर्वज्ञत्वाद् अरागादिमत्त्वाच् च सन्दिग्धो
[608] वचनादिः
एवम् एकैकरूपादिसिद्धसन्देहे हेतुदोषान् आख्याय द्वयोर् द्वयो रूपयोर् असिद्धिसन्देहे हेतुदोषान् वक्तुमाम[609] आह ---
__________नोतेस्__________
[609] कामा
द्वयो रूपयोर् विपर्ययसिद्धौ विरुद्धः इइइ-81
द्वयोर्[610] इति । द्वयो रूपयोर् विपर्ययसिद्धौ सत्त्यां विरुद्धः ॥
__________नोतेस्__________
[610] द्वयो
त्रीणिं च रूपाणि सन्ति । ततो विशेषज्ञापनार्थम्[611]आह ॥
__________नोतेस्__________
[611] ज्ञानार्थ-
कयोर् द्वयोः इइइ-82
कयोर् द्वयोर् इति ॥
विशिष्टे रूपे दर्शयति ---
सपक्षे सत्त्वस्य, असपक्षे च असत्त्वस्य, यथा कृतकत्वं प्रयत्नानन्तरीयकत्वं च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः इइइ-83
सपक्षे सत्त्वस्य, असपक्षे च असत्त्वस्य विपर्ययसिद्धाव् इति[612] सम्बन्धः । कृतकत्वम् इति स्वभावहेतुः । प्रयत्नानन्तरीयकत्वम् इति कार्यहेतुः[613] । प्रयत्नानन्तरीयक शब्देन[614] हि प्रयत्नानन्तरं जन्म ज्ञानं च प्रयत्नानन्तरीयकम् उच्यते । जन्म जायमानस्य स्वभावः । ज्ञानं ज्ञेयस्य कार्यम् । तद् इह प्रयत्नानन्तरं ज्ञानं[615] गृह्यते । [616]तेन कार्यहेतुः ।
__________नोतेस्__________
[612] सिद्धिर् इति
[613] कार्यहेतोः
[614] -कत्वश-
[615] प्रयत्नानन्तरीयकत्वग्राहकम् --- टि-
[616] ततः का-
सर्वान् ऐकानितिकप्रारान् उक्त्वा विरुद्धत्वाख्यं हेतुदोषम् अभिदधानो वार्तिककार स्याभिपार्यम् एवम् इत्यादिना दर्शयति ।
व्यक्तिभेदविवक्षया हेतुदोषान् इति बहुवचनेनाह ॥
विशिष्टे रूपे द्वे दर्शयति । यदि द्वाव् अपि स्वभावहेतू तदा किं द्वयाभिधानेन? एकेनापि स्वभावहेतुना विरुद्धत्वस्य दर्शीतत्वाद् इत्याशङ्क्य समर्थनम् आह --- कृटकत्वम् इति । ननु स्वभावहेतुत्वेन प्रयत्नानन्तरीयकत्वम् अन्यत्र दर्शितम् । तत् कथम् अनेनैवम् उच्यत इत्य् आह --- प्रयत्ने ति । हि र् यस्मात् । प्रयत्न स्य पुरुषव्यापारस्य् आनन्तरम् अव्यवहितं जन्म ज्ञानं च तद् विषयम् उच्यते ।
[ध्प्र् 211]
एतौ हेतू नित्यत्वए साध्ये विरुद्धौ हेत्वाभासौ ॥
कस्मात् पुनर् एतौ विरुद्धाव् इत्य् आह ---
अनयोः सपक्षे असत्त्वम्, असपक्षे च सत्त्वम् इति विपर्ययसिद्धिः[617] इइइ-84
__________नोतेस्__________
[617] -द्धिर् इति
अनयोर् इति । सपक्षे हि[618] नित्ये कृतकत्वप्रयत्नानन्तरीयकत्वयोर् असत्त्वम् एव निश्चितम् । अनित्ये विपक्षे एव सत्त्वं निश्चितम् इति विपर्ययसिद्धिः ॥
__________नोतेस्__________
[618] हि --- ओम्.
कस्मात् पुनर् विपर्ययसिद्धाव् अप्य् एतौ विरुद्धाव् इत्य् आह ---
एतौ च साध्यविपर्ययसाधनाद् विरुद्धौ इइइ-85
एतौ च साध्य स्य नित्यत्वस्य विपर्ययम् --- अनित्यत्वं साधयतः । ततः[619] साध्यविपर्ययसाधनाद् विरुद्धौ ॥
__________नोतेस्__________
[619] ततः --- ओम्.
यदि साध्यविपर्ययसाधनाद् विरुद्धाव् एतौ, उक्तं च परार्थानुमाने साध्यम्, न त्व् अनुक्तम्; इष्टम् च अनुक्तम् । अतो ऽन्य इष्टविघातकृद् आभ्याम् इति दर्शयन्न् आह ---
[620]ननु च तृतीयो अपि इष्टविघातकृद् विरुद्धः इइइ-86
__________नोतेस्__________
[620] तत्र च
ननु च तृतीयो अपि विरुद्ध उत्कः[621]। उक्तविपरययसाधनौ द्वौ । तृतीयो ऽयम् इष्टस्य शब्देनानुआत्तस्य[622]विघातं करोति विपर्ययसाधनाद् इति इष्टविघातकृद् ॥
__________नोतेस्__________
[621] प्रमाणविनिश्चया दौ --- टि-
[622] विधानं
तम् उदाहरति ---
यथा परार्थाश् चक्षुरादयः संघातत्वाच् छयनासनाद्यङ्गवद् इति इइइ-87
ननु प्रयत्नानन्तरीयक[त्व] शब्द उपात्तस् तत् किं प्रयत्नानानन्तरीयक शब्दस्यार्थ उच्यते इत्य् आह --- प्रयत्नानतरीयकत्वम् इति प्रयत्नानन्तरीयकत्वशब्देनापि तद् एवोक्तं वस्तुत इत्य् अर्थः । तेन शब्देन द्वयस्याभिधाने कदा स्वभावस्याभिधानं कदा कार्यस्येत्य् आशङ्क्य जन्मे त्यादिना विभजते । यतो ज्ञानस्याप्य् अभिधानं तत् तस्माद् इह विरुद्धोदाहरणप्रक्रमे ।
अनुपलम्भस् त्व् अन्योर् एवान्तर्भूतत्वान् न पृथग् उपदर्शितः । एतयोर् उदाहृतयोर् एव सो ऽपि सुज्ञान इति भाव उन्नेयः ।
लक्ष्यते चायम् आचाय स्याशयः --- सपक्षावृत्तौ सत्यां व्याप्त्याऽव्याप्त्या वा विपक्षवृत्तो विरुद्ध एवेति दर्शयितुम् उभयोपादानम् । अन्यथा कृतकत्वमात्रे प्रदर्शिते सपक्षावृत्तौ विपक्षव्यापक एव यः स विरुद्धो न तु प्रय्त्नानन्तरीयकवद् यो विपक्षव्यापीति शङ्का स्यात् । तथा
[ध्प्र् 212]
यथे ति । चक्षुरादय इति धर्मी । परो ऽर्थः प्रयोजनं [623]परार्थः प्रयजकः संस्कार्य उपकर्त्तव्यो येषाम् ते परार्थाः --- इति साध्यम् । सम्घातत्वात् सञ्चितरूपत्वाद् इति हेतुः । चक्षुरादयो हि प्रमाणुसञ्चितिरूपाः[624] । ततः संघातरूपा उच्यन्ते । शयनम् आसनं चादिर् यस्य तच् छयनासनादि । तद् एवाङ्गं पुरुषोपभोगागत्वात् । अयं व्याप्तिप्रदर्शनविषयो दृष्टान्तः । अत्र हि पारार्थ्येन संहतत्वं[625] व्याप्तम् । यतः [626]शयनासनादयः संघातरूपाः पुरुषस्य भोगिनो भवन्त्य् उपकारका इति परार्था उच्यन्ते ॥
__________नोतेस्__________
[623] परो ऽर्थः प्रयोजनं सं-
[624] -संचयरूपाः
[625] संघातत्वं
[626] शयनादयः
कथम् अयम् इष्टैघातकृद् इत्य् आह ---
तदिष्टासंहतपारार्थ्यविपर्ययसाधनाद् विरुद्धः इइइ-88
तदिष्टासहतपारार्थयविपर्ययसाधनाद् इति असंहते विषये पारार्थ्यम् असंहतपारार्थ्यम्[627] । तस्य साख्यस्य वादिन इष्टम् असंहतपारार्थ्य तदिष्टासंहतपारार्थम् । तस्य विपर्ययः संहतपारार्थ्यं नाम । तस्य साधनाद् विरुद्धः ।
__________नोतेस्__________
[627] -र्थ्यम् । इष्टासंहतपारार्थ्यं तस्य सांख्य स्य वादिन इष्टासंहत पारार्थ्यम्
`आत्मा अस्तिऽ इति ब्रुवाणः सांख्यः `कुत एतद्ऽ इति पर्यनुयुक्तो बौद्धेने दम् आत्मनः सिद्धये प्रमाणम् आह । तस्माद् असंहतस्यात्मन उपकारकत्वं साध्यं चक्षुरादीनाम् । अयं तु हेतुर् विपर्ययव्याप्तः । यस्माद् यो यस्योपकारकः स तस्य जनकः । जन्यमानश् च युगपत् क्रमेण वा भवति[628] संहतः । तस्मात् परार्थश् वक्षुरादयः [629]संहतपरार्था इति सिद्धम् ॥
__________नोतेस्__________
[628] -भवतीति
[629] चक्षुरादय इति संहत-
प्रयत्नानन्तरीयकत्वमात्रे प्रदर्शिते सपक्षावृत्ताव् अव्याप्त्यैव यो विपक्षे वर्त्तते स एव विरुद्धो नान्य इति शङ्का स्यात्, एतावतापि [72ब्] विपर्ययसिद्धेर् उपपत्तेः । यदि तु कार्यहेतुर् उदाहृत इत्य् उच्यते, तदानुपलब्धिर् अप्य् उदाहर्त्तव्या स्यात् । न च तस्यास् तत्रान्तर्भावान् नोदाहरणम् इति युक्तम्, अन्वयादिप्रदर्शने ऽपि अनुदाहरणप्रसङ्गात् । एवं धर्मोत्तरेण कथं न व्याख्यातम् इति न प्रतीमः ॥
अर्थ शब्दः प्रयोजने वृत्तस् तस्य च प्रयोजयतीति व्युत्पत्त्या प्रयोजकशब्दाभिलप्यत्वम् इत्य् अभिपेत्य परार्थः प्रयोजक इत्य् उक्तः । परस्मिन्न् अर्थः प्रयोजनं येषाम् इति गमकत्वाद् व्यधिकरणबहुव्रीहौ तु सर्वं समञ्जसं केवलम् अनेन तथा न व्याख्यातम् इति न विद्मः । अङ्गं निमित्तम् । कस्य तद् अङ्गम् इत्य् उच्यत इत्य् आह --- पुरुषे ति ॥
क्रमेण युगपद् वा ऽपि द्वेधाप्य् असंहतं द्रष्टव्यम् ।
कुतः पुनर् असंहतविषयं पारार्थ्यम् इष्टं सांख्या स्याख्यत इत्य् आशङ्क्याह आत्मे ति । असंहतोपकारकत्वं तावच् चक्षुरादीनां तेनैषितव्यम् अन्यथा ऽऽत्मा ऽसिद्धेः । यच् च तद् असंहतरूपं स एवात्मेत्य् अभिप्रायेणोक्तम् असंहतस्यात्मन इति ॥
ध्प्र् 213]
अयं च विरुद्ध आचार्य दिङ्नागेनो क्तः ---
स[630] इह कस्मान् न उक्तः इइइ-89
__________नोतेस्__________
[630] इह --- ओम्.
स कस्माद् वार्त्तिककारेण सता त्वया न उक्तः ? इतर[631] आह ---
__________नोतेस्__________
[631] वार्त्तिककार --- टि-
अनयोर् अन्तर्भावात् इइइ-90
अनयोर् एव साध्यविपर्ययसाधनयोर् अन्तर्भावात् ।
ननु चोक्तविपर्ययं न साधयति । तत् कथम् उक्तविपययसाधनयोर् एवान्तभाव इत्य् आह ---
न ह्य् अयम् आभ्यां साध्यविपर्ययसाधनत्वेन भिद्यते इइइ-91
न ह्य् अयम् इति । ही ति यस्मादर्थे । यस्माद् अयम् इष्ट विधतकृदाभ्यां हेतुभ्यां साध्यविपर्ययस्य[632] साधनत्वेन भिद्यते । यथा तौ साध्यविपर्ययसाधनौ तथा ऽयम् अपीति । उक्तविपर्ययं तु साधयतु[633] वा मा वा किम् उक्तविपर्ययसाधनेन । तस्माद् अन्योर् एवान्तर्भावः ॥
__________नोतेस्__________
[632] विपर्ययसाध-
[633] साध्यतु मा वा
ननु चोक्तम् एव साध्यं[634] तत् कथं साध्यविपर्ययसाधनत्वेनाभेद इत्य् आह ---
__________नोतेस्__________
[634] साध्ये
न हि इष्टौक्तयोः साध्यत्वेन कश्चिद् विशेष इति इइइ-92
न ही ति यस्माद् इष्टौक्तयोः [635]परस्परस्मात् साध्यत्वेन न कश्चिद् विशेष भेद इति । तद्माद् अन्योर् एवान्तर्भाव इत्य् उपसंसारः ।
__________नोतेस्__________
[635] परस्परस्य
प्रवादिनो हि यज् जिज्ञासितं तत् प्रकरणापन्नम् । यच् च प्रकरणापन्नं तत् साधनेच्छया विषयीकृतं साध्यम् इष्टम् उक्तम् उक्तं वा, न तूक्तमात्रम् एव साध्यम् । तेनाविशेष इति ॥
द्वयो रूपयोर् एकस्य असिद्धाव् अपरस्य च सन्देहे अनैकान्तिकः इइइ-93
द्वयो रूपयोर्[636] विपर्ययसिद्धौ विरुर्द्ध उक्तः । [637]तयोस् तु द्वयोर् मध्य एकस्यासिद्धौ, अपरस्य च सन्देते ऽनैकान्तिकः ॥
__________नोतेस्__________
[636] रूपयोर् असिद्धौ विरुद्धः
[637] अनयोस् तु द्व्ययोर्; अनयोर् द्वयोर्
इतर इति चोदकादन्यो वार्तिककार इत्य् अर्थात् ।
न ह्य् अक्तविपर्ययसाधकत्वेन विरुद्ध उच्यते । किन् तर्हि? साध्यविपर्ययसाधक्तत्वेन । तास्मात् किम् उक्तविपर्ययसाधनेने त्य् उक्तम् ॥
तम् एव साध्यतेनाभेदं साधयन्न् आह --- प्रतिवादिनो ही ति । हि र् यस्मादर्थे । तेन साध्येच्छया विषयीकृतमात्रस्य साध्यत्वेन् आविशेषो ऽभेदः ॥
[ध्प्र् 214]
कीदृशो ऽसाव् इत्य् आह ---
यथा वीतरागः[638]कश्चित् सर्वज्ञो वा, वक्तृत्वाद् इति[639]। व्यतिरेको अत्र असिद्धः, सन्दिग्धो अन्वयः इइइ-94
__________नोतेस्__________
[638] कश्चित् --- ओम्.
[639] वकृत्वात् । व्य-
यथ् एति । विगतो रागो यस्य स वीतरागः इत्य् एकं साध्यम् । सर्वज्ञो वे ति द्वितीयम् । वक्तृत्वाद् इति हेतुः । व्यतिरेको अत्र् आसिद्ध इति । स्वात्मन्य् एव सरागे चासर्वज्ञे च विपक्षे वक्तृत्वं दृष्टम् । अतो ऽसिद्धो व्यतेकः । सन्दिग्धो अन्वयः ॥
कुत इत्य् आह ---
सर्वज्ञवीतरागयोर् विप्रकर्षाद् वचनादेस् तत्र सत्त्वम् असत्त्वं वा सन्दिग्धम् इइइ-95
सपक्षभूतयोः सर्वज्ञवीतरागयोर् विप्रकर्षाद् इत्य् अतीन्द्रियत्वाद् वचनादेर् इन्द्रियगम्यस्यापि तत्र अतीन्द्रिययोः सर्वज्ञत्ववी(ज्ञवी)तरागयोः सत्त्वम् असत्त्वं वा सन्दिग्धम् । ततश् च न ज्ञायते किं वक्तृत्वात् सर्वज्ञ उत नेत्य् अनैकान्तिकम् इति ॥
सम्प्रति द्वयोर् एव सन्देहे ऽनैकान्तिकं वक्तुम् आह ---
अनयोर् एव द्वयो रूपयोः सन्देहे अनैकान्तिकः इइइ-96
अनयोर् एव --- अन्वयव्यतिरेकरूपयोः सन्देहात् संशयहेतुः ।
उदाहरणम्[640] ---
__________नोतेस्__________
[640] उदाहरणं यथा; उदाहरणं च
यथा[641]सात्मकं जीवच्छरीरं प्राणादिमत्त्वाद् इति[642]इइइ-97
__________नोतेस्__________
[641] यथा --- ओम्.
[642] मत्वात् ।
यथे ति[643] । सहात्मना वर्त्तते सात्मकम् इति साध्यम् । शरीरम् इति धर्मी । जीवद् ग्रहणं धर्मिविशेषणम् । मृते ह्य् आत्मानं नेच्छति ।
__________नोतेस्__________
[643] यथेति --- ओम्.
प्राणाः [644] श्वासादय आदि र् यस्योन्मेषनिमेषादेः प्राणिधर्मस्य स प्राणादिः । स यस्यास्ति तत् प्राणादिमत् जीवच्छरीरम् । तस्य भावस् तत्त्वम् । तस्माद् इत्य् एष हेतुः । अयम् असाधारणः संशयहेतुर् उपपादयितव्यः ॥
__________नोतेस्__________
[644] प्राणा आश्वा-
जीवत् प्राणान् धारयच् च तच् छरीरं चेति विग्रहः । उन्मेषश् चक्षुर् विकाश आदिर् यस्य निमेषादेस् तस्य प्राणिधर्मस्य जीवधर्मस्य । असाधारणः सपक्षविपक्षावृत्तेः । विवादाध्यासितस्यैव धरिमिणो धर्म इत्य् अर्थः । असाधारणत्वाद् एव संशयहेतुर् इति हेतुभावेन विशेषणम् ॥
[ध्प्र् 215]
पक्षधर्मस्य च द्वाभ्यां कारणाभ्यां संशयहेतुत्वम् । संशयविषयौ याव् आकारौ ताभ्यां सर्वस्य वस्तुनः संग्रहात् । तयोश् च व्यापकयोर् आकारयोर् एकत्रापि वृत्त्यनिश्चयात् । [645]याभ्यां ह्य् आकाराभ्यां सर्वं वस्तु न सङ्गृह्यते तयोर् आकारयो न संशयः । प्रकारान्तरसम्भवे हि पक्षधर्मो धर्मिणम् अवियुक्तं द्वयोर् एकेन धर्मेण दर्शय्तुं न शक्नुयात् । अतो न शंशयहेतुः स्यात् । द्वयोर् धर्मयोर् अनियतं भावं दर्शयन् संशयहेहुः । द्वयोस् त्व् अनियतम् अपि भावं दर्शयितुम् अशक्तो[646] ऽप्रतिपत्तिहेतुः । नियतं तु[647] भावं दर्शयन् [648]सम्यग् हेतुर् विरुद्धो वा स्यात् । तस्माद् [649]याभ्यां सर्वं वस्तु संगृह्यते तयोः[650] संशयहेतुर् यदि तयोर् एकत्रापि सम्भावनिश्चयो न स्यात् । सद्भावनिश्चये तु यद्य् एकत्र नियतसत्तानिश्चयो हेतुर्[651] विरुद्धो वा स्यात् । अनियतसत्तानिश्चये तु साधारणानैकान्तिक, सन्दिग्धविपक्षव्यावृत्तिकः, सन्दिग्धानवयो ऽसिद्धव्यतिरेको वा स्यात् । एकत्रापि तु
__________नोतेस्__________
[645] यकाभ्यां
[646] शशविषाणादि --- टि-
[647] तु --- ओम्.
[648] सम्यग् --- ओम्.
[649] यकाभ्यां
[650] तयोर् आकारयोः सं
[651] -योर् विरुद्धो हेतुर् वा स्यात्
कथं पुनर् अयं संशयहेतुर् उत्पादयितुं शक्यते यावता नास्मात् सात्मकत्वस्यानात्मकत्वस्य वा प्रतिपत्तिर् जायते । ततो ऽप्रैत्पत्तिर् एवासाधारण इत्य् उद्द्योतकर मतम् आशङ्क्य यत्र (यत् न) ही त्य् उक्तं वार्तिककृता तद् अवतारयितुम् भूमिकाम् रचयन्न् आह --- पक्षधर्मस्ये ति । चो यस्मादर्थे । पक्षस्य धर्मय सतो द्वाभ्यां कारणाभ्यां निमित्ताभ्याम् । सर्वस्य निःशेषस्य संग्रहाज् ज्ञापनात् । तयोर् व्यापकयोर् आकारयोः सात्मकत्वानात्मकत्वाख्ययोर् विषयभूतयो एकत्रापि विषये ऽनिश्चयात् तस्य पक्षाधर्मस्येत्य् अर्थात् ।
ननु संशय्यमानयोर् आकारयोः सर्ववस्तुव्यापनेन किं? येन तथात्वं तयो उपवर्ण्यत इत्य् आह --- याभ्याम् इति । ही ति यस्मात् । कथं पुनस् तयोर् आकारयो न संशय इत्य् आह --- प्राकारान्तरे ति । हि र् यस्मादर्थे । पक्षधर्मः सन् धर्मिणं तं पक्षं द्वयोर् एकेन धर्मेण सात्मकत्वाख्येन अनात्म्त्वाख्येन वा । अन्वियुक्तं युक्तं सम्बद्धम् इति यावत् । न शक्नोति दर्शयितुं प्रकारान्तरेण सम्बन्धस्य तस्य सम्भवात् । यत एवम् अतः स पक्षधर्मो न संशयहेतुः स्यात् । तयोर् आकारयोर् इति सामर्थ्यात् ।
अथ कथं सात्मकत्वानात्मकत्वे द्वौ धर्मौ दर्शयन्न् अपि संशयतेह्तुर् उच्यत इत्य् आह --- द्वयोर् इति । दर्शयन्न् [73अ] इति हेतौ शतुर् विधानाद् अनियतभावप्रदर्शनाद् इत्य् अर्थो बोद्धव्यः ।
ननु नियताभावम् अदर्शयन्न् अप्रतिपत्तिहेतुर् एवायायं युज्यत इत्य् आह --- द्वयोस् त्व् इति । तु शब्दो यस्मादर्थे । नियतप्रदर्शकस्यापि किं न तथात्वम् इत्य् आह --- नियतत्वं(यतं) त्व् इति । तु ः पूर्ववद् विशेषणार्थो वा । यस्माद् एवं तस्माद् हेतोः ।
नियतो ऽन्यत्राननुगामी सत्तानिश्चयो यस्य स तथा । विरुद्धो ऽपि विपर्यये सम्यघेतुर् एवेत्य् एकत्र सत्तानिश्चये विरुद्धो वा स्याद् इत्य् उक्तम् ।
[ध्प्र् 216]
वृत्त्यनिश्चायाद् असाधारणानैकान्तिको भवति । ततो ऽसाधारणानैकान्तिकस्यानैकान्तिकत्वे हेतुद्वयं दर्शयितुम् आह ---
न हि[652]सात्मकनिरात्मकाभ्याम् अन्यो राशिर् अस्ति यत्रायं[653]प्राणादिर् वर्तते (वर्तेत)इइइ-98
__________नोतेस्__________
[652] सात्मकानात्मका-
[653] यत्र प्राणा; प्राणादिर् वर्त्तेत
न ही ति । सहात्मना वर्त्तते सात्मकः । निष्क्रातान्त आत्मा यस्मात् स निरात्मकः । [654]ताभ्याम् यस्मान् नान्यो राशिरस्ति । किंभूतः? यत्रायं वस्तुधर्मः प्राणादिर् वर्त्तेत , तस्माद् अयं [655]तयोर् भवति संशयहेतुः ॥
__________नोतेस्__________
[654] आभ्यां
[655] -दयं द्वयोर् भवति
कस्माद् अन्यराश्यभाव इत्य् आह ---
आत्मनो[656]वृत्तिव्यवच्छेदाभ्यां[657]सर्वसंग्रहाद् इइइ-99
__________नोतेस्__________
[656] आत्मवृत्ति-
[657] सर्वस्य सं-
आत्मनो वृत्तिः सद्भावो व्यवच्छेदो ऽभावः । ताभ्यां सर्वस्य वस्तुनः संग्रहात् क्रोडी करणात् । यत्र ह्य् आत्मा अस्ति तत् सात्मकम् । [658]अन्यन् निरात्मकम् । ततो नान्यो राशिरस्ति --- [659]इति संशयहेतुत्वकारणम् ॥
__________नोतेस्__________
[658] तद् अन्यन् नि-
[659] इति --- ओम्.
यदैकत्रैव सत्तानिश्चयो विरुद्धो वा स्याद् इत्य् उक्तम्, यदैकत्रैव सत्तानिश्चयो नास्ति तदा का वार्त्तेत्य् आह --- अनियते ति । तु र् विशेषार्थः । अनियतो ऽत्रैवायं वर्त्तत इत्य् एवं रूपनियमशून्यो यः सत्तानिश्चयस् तस्मिन् सति । यदोभयत्र सत्तानिश्चयस् तदा सपक्षाविपक्षसाधारणत्वात् साधारणः, यदा तु विपक्षवृत्तिसम्भावनायाम् अनिश्चय(अनियत)सत्तानिश्चयस् तदा सन्दिग्धविपक्षव्यावृत्तिकः । यदा पुनः सपक्षे वृत्तिसन्देहानियतसत्तानिश्चयस् तदा सन्ध्गधान्वयासिद्धव्यतिरेकः । यदा तु सपक्षासपक्षयोर् एकत्रापि सत्तानिश्चयो नास्ति तदा सपक्षासपक्षावृत्तेर् असाधारणः । एतद् एवाह --- एकत्रापीति । यतः पक्षाधर्मस् योक्ताभ्यां कारणाभ्यां संशयहेतुत्वं ततस् तस्मात् दर्शयितुं दर्शयिष्यामीति मत्त्वा ।
राशिः प्रकारः । वस्तुधर्मत्वं च प्राणादेर् अवस्तुनि शशविषाणाद् आववृत्तेः । यतो राश्यन्तराभावस् तस्मात् कारणाद् अयं प्राणादिमत्त्वाख्यो हेतुः । तयोः सात्मक्निरात्मकयोः ।
साधारणस्य धर्मस्य संशयहेतुत्वे द्वे कारणे । तत्रामुना नही त्यादिना मूलेन संशयविषयाभ्याम् आकाराभ्यां सर्ववस्तुसंग्रह एकं कारणम् उक्तम् । नाप्य् अनयोर् इत्यादिना तु तयोर् एकत्रापि वृत्त्यनिश्चयो द्वितीयं कारणम् उक्तम् इति दर्शयितुम् आह --- संशये ति ।
[ध्प्र् 217]
प्रकाराभ्यां [660]सर्ववस्तुसङ्ग्रहं प्रतिपाद्य द्वितीयम् आह ---
__________नोतेस्__________
[660] सर्वसंग्रहं
नाप्य् अनयोर् एकत्र वृत्तिनिश्चयः इइइ-100
नाप्य् अनयोर् सात्मकानात्मकयोर् मध्य एकत्र सात्मके ऽनात्मके[661] वा वृत्तेर् सद्भावस्य निश्चयो ऽस्ति । द्वाव् अपि राशी त्यक्त्वा न वर्त्तते प्राणादिः, वस्तुधर्मत्वात् । ततश् चानयोर् एव वर्त्तते[662] इत्य् एतावद् एव ज्ञातम् । विशेषे तु वृत्तिनिश्चयो नास्तीय् अयम् अर्थः[663] ॥
__________नोतेस्__________
[661] -के निरात्मके
[662] वर्त्तते एतावद्
[663] नास्तीत्य् अर्थः
तद् आह ---
[664]सात्मकत्वेन अनात्मकत्वेन वा प्रसिद्धे प्राणादेर् असिद्धेः[665] इइइ-101
__________नोतेस्__________
[664] सात्मकत्वेन निरात्मक-
[665] असिद्धिस् ताभ्यां न व्यतिरिच्यते
[666]सात्मकत्वेन अनात्मकत्वेन वा विशेषेण युक्ते प्रसिद्धे निश्चिते वस्तुनि प्राणादेर् धर्मस्य[667] सर्ववस्तुव्यापिनोः प्रकारयोर् एकत्र नियतसद्भावस्य् आसिद्धेर् अनैकान्तिकः, अनिश्चतत्वात् ।
__________नोतेस्__________
[666] सात्मकत्वेन निरात्मक-
[667] धर्मस्यासिद्धेर् अनैकान्तिको ऽनिश्चतत्वात्
तद् एवम् असाधारणस्य धरमस्यानैकान्तिकत्व कारणद्वयम् अभिहितम् ॥
प्रकाराभ्याम् आत्मव्यवच्छेदरूपाभ्याम् आकाराभ्याम् । वृत्तिः प्रवृत्तिर् अर्थात् भाव एवावतिष्ठत इत्य् अभिप्रायेणाह --- वृत्तेः साद्भावस्ये ति ।
यद्य् एवं तयोर् न वर्त्तत इत्य् एव किं न स्यात्? तथा च कथं संशयहेतुर् इत्य् आशङ्क्य यादृशो ऽस्यार्थो ऽभिप्रेतस् तं स्फुटयितुम् आह --- द्वावपीति । कुतो न वर्त्तत इत्य् आह --- वतुधर्मत्वाद् इति । प्रायादेर् (प्राणादेर्) इति विभक्तिविपरिणामेन सम्बन्धनीयं । वस्तुना वा ऽवश्यं सात्मकेना ऽनात्मकेन वा भाव्यम् इति भावः ।
ततो वस्तुसत्त्वेन सिद्धपरित्यागेनान्यत्रावृत्तेः कारणात् । अनयोः सात्मकानात्मकयोः । एव कारेणाण्यत्रा(त्र) वृत्तिनिषेधं स्पष्टयते । इति र् एतावतः स्वरूपं दर्शयति । यद् इदम् अनन्तरोक्तम् एतत् परिमाणं यस्य प्रमेयस्य तद् एतावद् वस्तुतत्त्वं निश्चितम् । कुतस् तर्हि नास्य वृत्तिनिश्चय इत्य् आह --- विशेषे त्व् इति । विशेषे विशिष्टे प्रकारे । तु र् इमाम् अवस्थां भेदवतीम् आह । तेन सात्मक्त्व(सात्मक) एवानात्मक एवेत्य् अर्थः । वृत्तेः स्वभास्य प्राण्देर् इति प्रकरणात् । इति र् एवमर्थे । अर्थो ऽ भिधेयो यस्य " नाप्य् अनयोर् एकत्र वृत्तिनिश्चयः " इत्य् अस्य मौलस्य वाक्यस्येत्य् अर्थात् ॥
यस्माद् एवम् एतद् वक्तुं युज्यते, नान्यथा तत्तस्माद् [73ब्] आह वार्त्तिककारः । किम् आहेत्य् आह सात्मे ति । तद् एवम् इत्यादिनोपसंहरति । एवं च व्याचक्षाणेन [न] मय स्वातन्त्र्येण पक्षधर्मस्ये त्यादिना
[ध्प्र् 218]
पक्षधर्मश् च भवन्[668] सर्वः साधारणो ऽसाधारणो व भवत्य् अनैकान्तिकः । तस्माद् उपसंहारव्याजेन पक्षधर्मत्वं दर्शयति ---
__________नोतेस्__________
[668] भवत् सर्वः
तस्माज् जीवच्छरीरसम्बन्धी प्राणादिः सात्मकाद् अनात्मकाच् च सर्वस्माद् व्यावृत्तत्वेन असिद्धेस् ताभ्यां[669]न व्यतिरिच्यते इइइ-102
__________नोतेस्__________
[669] नासिद्धिः ॥; "ताभ्याम्" इत्यादि --- ओम्
तस्माद् इत्यादिना । जीवच्छरीर स्य संबन्धी पक्षधर्म इत्य् अर्थः । यस्मात् तयोर् एकत्रापि न निवृत्तिनिश्चयस् तस्मात् ताभ्यां न व्यतिरिच्यते ।
वस्तुधर्मे हि सर्वस्तुव्यापिनोः प्रकारयोर् एकत्रनियतसद्भावो निश्चतः प्रकारान्तरान् निवर्त्तेते । अत एवाह[670] --- सात्मकाद् अनात्मकाच् च सर्वस्माद् वस्तुनो व्यावृत्तत्वेन असिद्धेर् इति । प्राणादिः तावत् कुतश्चिद् घटदेर् निवृत्त एव । तत एतावद् अवसातुं शक्यम् --- सात्मकाद् अनात्मकाद् वा कियतो निवृत्तः । सर्वस्मात् [671]तु निवृत्तो नावसीयते । ततो न कुतश्चिद् व्यतिरेकः ॥
__________नोतेस्__________
[670] -कारान्तरान् निवर्त्तते । तत एवाह; -कारान्तरान् निवर्त्तेत । तत एवाह
[671] तु --- ओम्.
ऽसाधारणस्य संशयहेतुत्वनिमित्तद्वयम् आदितो दर्शितम् । किं तर्हि? वार्त्तिककारेणै वैतदभिहितम् इति दर्शितम् ॥
ननु चासाधारणस्य प्राणादेर् अनैकान्तिकत्वकारणद्वयमनन्तरोक्तम् अभिधीयताम् । तस्माद् इत्यादिना तु शरीरसम्बन्धित्वम् अस्य कस्माद् आचार्यो दर्शयतीत्याशङ्कां निराचिकीर्षुः पक्षधर्मश् चे त्यादिनोपक्रमते । चो यस्मादर्थे । अपक्षधर्मस्त्वसिद्ध्त्वाख्याम् अन्याम् एव दोषजातिम् अनुश्नुत इति भावः पक्षधर्मत्वं प्रदर्शयतो वार्तिककार स्योन्नेयः । वा शब्देनानियतप्रभेदे ऽनास्थां दर्शयति । न त्वसाधारणत्वाख्यं पक्षान्तरम्, सन्दिग्धविपक्षव्यावृत्तिकादेर् असङ्ग्रहप्रसङ्गात् । यस्माद् अप्क्षधर्मो नानैकान्तिक उपवर्णतेनाभिपार्येण तस्मात् कारणात् । दर्शयति प्रकाशयति ।
केन दर्शयतीत्याकाङ्कायाम् आह --- तस्माद् इत्यादिने ति । पक्षधर्मत्वप्रदर्शनं तु जीवच्छरीरसम्बन्धी ति वचनं द्रष्टव्यम् । तस्माद् इत्य् अनेन यस्मादित्याद्क्षिप्तं दर्शयन्न् आह --- यस्माद् इति । एकत्रापि न वृत्तिनिश्चयस् तस्य प्राणादेर् इत्य् अर्थात् । तस्मात् कारणात् ताभ्यां सात्मकत्वानात्मकत्वाभ्यां न व्यतिरिच्यते न निवर्त्तते, तदसंस्पर्शी न भवतीति यावत् ।
तयोर् एकत्र वृत्त्यनिश्चये ऽपि कथं ताभ्यां न व्यतिरिच्यत इत्य् आह --- वस्त्व् इति । ही ति यस्मादर्थे । प्रकारयोस् तद्वृत्तिव्यवच्छेदरूपयोः स्वरूपयोराकारयोर् इति यावत् । तयोर् धर्म एकत्रनियतः `अत्रैवायं वर्त्तत इति नियमवान्ऽ सद्भावः सत्त्वं यस्य स तथा । प्रकारान्तरान् नियतसद्भावविषयाद् अन्यसमादाकारात् । निवर्त्तेते निवर्तितुम्न् अर्थति, तन् न संxपृशेतिति यावत् । एकत्र वृत्त्यनिश्चयाच् च नायं तथेत्य् अभिप्रायः ।
यत एवम् एतद् भवति, न चायं प्राणादिस् तथा, अत एवा हाचार्यः । किम् आहेत्य् आह --- सात्मकाद् इत्यादि । सर्वस्माद् इति प्रत्येकं सम्बबद्ध(न्द्ध)व्यम् ।
[ध्प्र् 219]
यद्य् एवम् अन्वयो ऽस्तु तयोर् निशिच्त इत्य् आह ---
न[672]तत्रान्वेति इइइ-103
__________नोतेस्__________
[672] न च तत्रा-
न[673] तत्र सात्मके ऽनात्मके वा ऽर्थे ऽन्वेति --- अन्वयवान् ॥
__________नोतेस्__________
[673] न च तत्र
कुत इत्य् आह ---
एकात्मन्य् अप्य् असिद्धेः इइइ-104
[674]एकात्मन्य् अपी ति । एकात्मनि सात्म्के ऽनात्मके वा ऽसिद्धेः कारणात् । वस्तुधर्मतया तयोर् द्वयोर् एक्तत्र[675] वा वर्त्तत इत्य् अवसितः प्राणादिः । न तु सात्मक एव निरात्मक एव वा वर्त्तत इति कुतो ऽन्वयनिश्चयः ॥
__________नोतेस्__________
[674] एकात्मन्य् अपीति --- ओम्.
[675] द्वयोर् अप्य् एकत्र; एकत्र तावत् वर्त्तत
ननु च प्रतिवादिनो न किञ्चित् सात्मकम् अस्ति । ततो ऽस्य हेतोर् न सात्मके ऽन्वयो[676] न व्यतिर्क[677] इत्य् अन्वयव्यतिर्कयोर् अभावनिश्चयः सात्मके, न तु सद्भावसंशय इत्याशङ्क्याह ---
__________नोतेस्__________
[676] अनुगमनं सद्भाव इत्य् अर्थः --- टि-
[677] व्यावृत्तिः अभाव इत्य् अर्थः --- टि-
न अपि[678]सात्मकाद् अनात्मकाच् च तस्य अन्वयव्यतिरेकयोर् अभावनिश्चयः इइइ-105
__________नोतेस्__________
[678] सात्मकान् निरात्मकाच्
ननु घाटपटादेर् अनेकस्मात् प्राणादिनिर्वर्त्तमानो दृष्टस् तत् कथं तस्य व्यावृत्तत्वेनासिद्धिर् इत्य् आह --- प्राणादिर् इति । ततः सर्वस्मात् सात्मकाद् अनात्मकाच् च निवृत्त्यनवसायात् । कुतः? सात्मकाद् अनात्मकाच् च प्रतिबन्धासिद्धेर् इति चात्र सर्वत्राभिप्रायः ।
ननु किम् उच्यते न कुतश्चिद् इति? यावता निरात्मकाद् एव व्यतिरेको ऽस्यावसातुं शक्यः, बौद्धेन घटादेर् निरात्मकत्वेनेष्टत्वाद् इति चेत् । यद्य् एवं जीवच्छरीरम् अपि बौद्धेन तथात्वेनेष्टम् इति तस्यापि तथात्वं किन् न भवेत् । अभ्युपगमेन च सात्मकानात्मके विभज्य हेतुं कथयता गमिकत्वम् इति यत् किञ्चिद् एतत् ॥
तयोर् इति विषयसप्तमी । तस्य प्राणादेर् इति च शेसः ॥
ननु वस्तुधर्मेण तेनावश्यं क्वापि नियतेन भाव्यम् । तत् कथम् अन्वयाभाव इत्य् आह --- वस्तुधर्मतये ति । न चानियतवृत्तिनिश्चयो ऽन्वयो नामेति भावः ।
ननु चासाधारणत्वान् निरात्मके ऽन्वयनिश्चयो मा भूद् । व्यतिरेकनिश्चयस् त्व् अस्तु, निरात्मके घटादौ प्राणादेर् अदर्शणाद् इति चेत् । न । तस्यैव [74अ] शरीरस्य निरात्मकत्वसम्भावनायां सर्वस्मान् निरात्मकान् निर्वृत्तिनिशयाभावात् । न च तथानिश्चयनिमित्तं प्रतिबन्धनिश्चयो ऽऽस्तीति ॥
[ध्प्र् 220]
न् आ पि सात्मकाद् वस्तुनः तस्य प्राणादेर् अन्वयव्यतिरेकयोर् अभावविश्चयः । नापि च निरात्मकात् । सात्मकाद् अनात्मकाद् इति च पञ्चमी व्यतिरेकशब्दापेक्षया द्रष्टव्या ॥
कथम् अन्वयव्यतिरेकयोर् नाभावनिश्चय इत्य् आह ---
[679]एकाभावनिश्चयस्य[680]अपरभावनिश्चयनान्तरीयकत्वात् इइइ-106
__________नोतेस्__________
[679] एकस्याभाव-
[680] -स्यापराभावनान्त- -स्यापरभावनान्तरीक-
एक स्यान्वयस्य व्यतिरेकस्य वा यो अभावनिश्चयः [681] सो परस्य द्वितीयस्य भावनिश्चयनान्तरीयकः [682] भावनिश्चयस्याव्यभिचारी । तस्य भावस् तत्त्वं तस्मात् । यत एकाभावनिश्चयो ऽपरभावनिश्चय [683]नान्तरीयकः, तस्मान् न द्वयोर् एकत्राभावनिश्चयः ॥
__________नोतेस्__________
[681] स एवापरस्य
[682] भावे निश्च-
[683] -रीयकः भवति निश्चय-
कस्मात् पुनर् एकस्याभावनिश्चयो ऽपरसद्भावनिश्चयाऽव्यभिचारीत्य् आह ---
[684]अन्वयव्यतिरेकयोर् अन्योन्यव्यवच्छेदरूपत्वात् । [685]तत एव अन्वयव्यतिरेकयोः सन्देहाद् अनैकान्तिकाः इइइ-107
__________नोतेस्__________
[684] अत एवान्वय-
[685] अत एब
अन्वयव्यतिरेकयोर् अन्योन्यव्यवच्छेदरूपत्वाद् इति । अन्योन्यस्य व्यवच्छेदो ऽभावः, स एव रूपं ययोस् ततोर् भावस् तत्त्वं तस्मात् कारणात् ।
अन्वयव्यतिरेकौ भावाभावौ । भावाभावौ च प्रस्परव्यवच्छेदरूपौ । यस्य व्यवच्छेदेन यत् परिच्छिद्यते तत् तत्परिहार्ण व्यवस्थितम् । स्वाभावव्यवच्छेद्न च भावः परिच्छिद्यते ।
तस्मात् स्वाभावव्यच्छेदेन भावो व्यवस्थितः । अभावो हि नीरूपो यादृशो विकल्पेन दर्शितः । नीरूपतां च व्यवच्छिद्य रूपम् आकारवत् परिच्छिद्यते । तथा च सत्य् अन्वयाभावो व्यतिरेकः, व्यतिरेकाभावश् चान्वयः ।
ततो ऽन्वयाभावे निश्चिते व्यतिरेको निश्चितो भवति । व्यतिरेकाभावे च निश्चिते ऽन्वयो निश्चितो भवति ।
ननु चे तियादि तस्मात् कारणाद् इत्य् एतद् अन्तं स्पष्टार्थ तेन न व्याख्यायते ।
अन्योन्यव्यवच्छेदरूपत्वम् एवान्वयव्यतिरेकयोः कथम् इत्य् आश्ङ्क्याह --- अन्वयव्यतिरेकाव् इति । अभावरूपत्वञ् च व्यतिरेकस्य प्रतीतिसिद्धस्य बोद्धव्यम् । भवतां तौ तथारूपौ किम् अत इत्य् आह --- भावाभाव् इति । चो यस्माद् । भवत्व् एवं तथापि कथं तयोर् अनोन्यपरिहारेणावस्थानम् इत्य् आह --- यस्ये ति ।
नन्व् अत्र कस्य व्यवच्छेदेन किं परिच्छिद्यते येन तत् परिहारेहण तद् व्यवतिष्ठत इत्य् आह --- स्वाभावे ति । हेत्वर्थश् च कारः । तावत् का सा (को ऽसाव्) अभावो नाम यद्व्यवच्छेदेन भावः
[ध्प्र् 221]
तस्माद् यदि नाम सात्मकम् अवस्तु निरात्मकं च वस्तु, तथापि [686]तयोर् न प्राणादेर् अन्वयव्यतिरेकयो अभावव्निश्चयः । एकत्र[687] वस्तुन्य् एकस्य[688] वस्तुनो युगपद् भावाभावविरोधात् तयोर् अभावनिश्चयायोगात्[689] ।
__________नोतेस्__________
[686] तथापि न तयोः
[687] एकवस्तु-
[688] एकवस्तु-
[689] निश्चययोगात्
न च प्रतिवाद्यनुरोधात् सात्मकानात्मके वस्तुनो वस्तुसतो । किन् तु प्रमाणानुरोधाद् । इत्य् उभे सन्दिग्धे । ततस् तयोः प्राणादिमत्त्वस्य सदसत्त्वसंशयः ।[690]
__________नोतेस्__________
[690] सदसत्त्वानिश्चयः
एत एव क्वचिद् अन्वयव्यतिरेकयोर् न भावनिश्चयो [691]नाप्य् अभावनिशयः, तत एवान्वयव्यतिरेकयोः सन्देहः ।
__________नोतेस्__________
[691] नाभावनि-
यदि तु क्वचिद् अप्य्[692] अन्वयव्यतिरेकयोर् एकस्याप्य् अभावनिश्चयः स्यात्, स एव द्वितीयस्य भावनिश्चय इत्य् अन्वयव्यतिरेकसन्देह एव न स्यात् । यतश् च[693] न क्वचिद् भावाभावनिश्चयस् तत एवान्वयव्यतिरेकयोः सन्देहः । सन्देहाच् चानैकान्तिकः[694] ॥
__________नोतेस्__________
[692] क्वचिद् अन्वय-
[693] यत्स् तु
[694] -कान्तिक इत्य् आह ।
परिच्छिद्यत इत्य् आह --- तथा चे ति नीरूपताव्यवच्छेदेन रूपस्य प्रतिष्ठताकारवतः परिच्छेदप्रकारे सति । ततो ऽन्योन्याभावरूपत्वाद् अनयोः ।
ननु बौद्धानां सात्मकं नाम नास्त्य् एवेत्य् अवस्तु । सन् मात्रं तु निरात्मकमतो वस्तु । तत्र वस्तु[नि] निरात्मको[के] हेतोर् अन्वयव्यतिरेकयोर् अभावनिश्चयो मा भूत् सात्मके त्व् अवस्तुनि स कथं न स्याद् इत्य् आशङ्क्योपसंहारव्याजेनाह तस्माद् इति । यस्माद् विधिप्रतिषेधयोर् एकप्रतिषेधो ऽपरविधिनान्तरीयकस् तस्मात् । कथं न भावनिश्चयस् ततोर् इत्य् आशङ्क्योपपत्तिम् आह --- एकत्रे ति । तयोर् अन्वयव्यतिरेकयोर् भावाभावात्मनोर् अभावनिश्चय स्य् आयोगाद् अनुपपत्तिः । कथम् अयोग इत्य् आह --- एकस्ये ति । कालभेदे किं न युज्यते इत्य् आह --- युगपद् इति ।
इदं च प्रतिवाद्यभ्युपगमबलात् सात्मकानात्मकयोः । सदसत्त्वम् अभ्युपगम्योक्तम् । तद् एव तु न युज्यते इति दर्शयन्न् आह --- न चे ति । चो वक्तव्यान्तरसमुच्चये । प्रकरणाद् इह प्रतिवादी बौद्धस् तद् अनुरोध वशाद् इष्ट्यनिष्टिवशात् सात्मकम् असन्निरात्मकं सद् इति यथायोगं योजनीयम् । एवं ह्य् अवास्तवम् अनुमानं स्यात् न वस्तुबलप्रवृत्तम् इति भावः । यद्य् एवं ते सदसती न भवतः कथं नामेत्य् आह --- किन् त्व् इति । प्रमाणं चेदं नियतं वर्त्तते । आत्मन्य् एव च विवादवृत्तेर् अन्या ऽपि (न्यत्रापि?) सात्मकत्वम् अनात्मकत्वेन (कत्वं वा न?) व्यवतिष्ठत इति भावः । इति स् तस्मात् । उभे सात्मकत्वानात्मकत्वे । यत एवं ततः कारणात् सात्मकानात्मकयोः सदसत्त्वयोः संशयः । कस्येत्य् आकाङ्क्षायाम् उक्तम् --- प्रणादिमत्त्वस्ये ति ।
[ध्प्र् 222]
कस्माद् अनैकान्तिक इत्य् आह[695]
---
__________नोतेस्__________
[695] इत्य् आह --- ओम्.
साध्येतरयोर् अतो निश्चयाभावात् इइइ-108
साध्य स्य , इतर स्य च विरुद्धस्य अतः --- सन्दिग्धान्वययतिरेकान् निश्चयाभावात् । सपक्षविपक्षयोर् हि सदसत्त्वसन्देहे न साध्यस्य न विरुद्धस्य सिद्धिः[696] । न च सात्मकानात्मकाभ्यां[697] परः प्रकारः संभवति । ततः प्राणादिमत्त्वाद् धर्मिणि जीवच्चरीरे संशय आत्मभावाभावयोर् इत्य् अनैकान्तिकः प्राणादिर् इति ॥
__________नोतेस्__________
[696] असिद्धिः
[697] -भ्यां च परः
अस्तु ससत्त्वसंशयो ऽन्वयव्यतिरेकनिश्चयस् तु किन् न भवतीत्य् आह --- यत इति । न भावनिश्चयो नाभावनिश्चय इत्य् एकत्र सात्मके ऽनातमके वेति द्रष्टव्यम् । सात्मके ऽनात्मके वा प्राणादेः सदसत्त्वनिश्चयाभावाद् एवान्वयव्यतिरेकयोः सन्देहो नान्यथेति प्रतिपादयितुम् आह --- यदि त्व् इति । तु र् इमाम् अवस्थां भेदवतीम् आह ।
उक्तम् एवोपसंहरन्न् आह --- यतश् चे ति । चो ऽवधारणे । तस्मात् सन्देहात् अनैकान्तिकः प्राणादिमत्त्वाख्यो हेतुर् इति प्रकरणात् ॥
सन्दिग्धावन्वयव्यतिरेकौ यस्य तत्तथा, तस्मात् साध्य स्य विरुद्धस्य वा निश्चयाभावात् । सपक्षे त्यादि [74ब्] नैतद् एव समर्थयते । हि र् यस्मात् । सपक्षविपक्षयोर् विषयभूतयोर् हेतोः सदसत्त्वसन्देहे न साध्यस्या नुमित्सितस्य विरुद्धस्य विपरययस्य सिद्धिर् निश्चयः । विरुद्धो ऽपि विपर्यये सम्यघेतुर् इत्य् अभिप्रायेणेदम् उक्तम् ।
न चे त्यादि प्राणादिर् इत्य् अन्तं सुगमम् ।
ईदृश एव चासाधारणो हेतुः कैश्चिन् नैयायिकैर् अनुपलसंहार्य इत्य् उक्तम् । ततो ऽनुपसंहार्यो ऽयं हेत्वाभास इति शब्दश्रवणार्थ........साहः करणीयः ।
उद्द्योतकरस् तु श्रावणत्वाख्ये ऽसाधारणहेताव् आचार्य दिग्नागेन दर्शित इदम् अवादीत् --- "यद्य् एतच् छ्रावणत्वं नित्यानित्ययोर् दृष्टं स्याज् जनयेत्तयोः संशयम् ऊर्ध्वत्वम् इव स्थाणुपुरुषयोः । न च दृष्टम् । तस्मान् नायं संशयहेतुर् अपि त्व् अप्रतिपत्तिहेतुर् एव । अथ श्रावणत्वं वस्तुधर्मः । वस्तुना नित्येन भाव्यम् अनित्येन वा प्रकारान्तराभावात् । न च तयोर् एकत्रापि दृष्टम् । अतस् तयोः संशयं करोति । तर्हि वस्तुधर्मत्वात् संशयो न श्रावणत्वाद् इति ।" तुल्यन्यायतया ऽत्राप्य् असाधारणे तद् ईयम् इदम् ईदृशं चर्चितम् आसज्यत एवेति "कथम् अयं संशयं संशयहेतुर् उपपादयितव्यः" इति साधूक्तम् तेन । केवलं गमकरूपविवेदने समीचीनमनो न प्रहितम् । यतो वस्तुधर्मत्वं श्रावणत्वस्य नित्याकारसंस्पर्शिज्ञानजनने निबन्धनम् । न तु तस्माद् एव वस्तुधर्माद् उभयाकारसंस्पर्शी प्रत्ययो दोलायते न च यद्य् अस्यप्रतिपत्तिकारणे कारणम् तत एव सा प्रतिपत्तिः, न तु तस्माद् इति शक्यते वक्तुम् । तद् उत्पत्तेर् अग्निप्रतिपत्तिर् न धूमाद् इत्य् अस्याभिधानप्रसङ्गात् ।
[ध्प्र् 223]
किञ्चैवं प्रमेयत्वादेर् अपि न संशयः स्यात् । शक्यते हि तत्रापि वक्तुम् उभयत्र दर्शनात् संशयो न प्रमेयत्वाद् इति । अथ तस्य तावद् उभयत्र दर्शनं तेन तस्माद् उच्यते । यद्य् एवं वस्तुधर्मत्वम् अपि श्रावणत्वस्यैवेति कथं न तस्माद् असौ । अपि चोर्ध्वत्वम् अपि यद्य् अपि स्थाणुपुरुषयोर् अपि दृष्टं तथापि तावत् तत्रान्तरेणात्रैव भविष्यतीति पर्यनुयोगे सतीदम् एव वाच्यम् --- यद् उतोर्ध्वत्वं नाम वस्तुधर्मः । वस्तुना चैवंविधिः --- स्थाणुना पुरुषेण वा ऽवश्यं भाव्यम् इति । तथा च वस्तुधर्माद् एव संशयो नोर्ध्वत्वाद् इत्य् अनिष्टापादनं --- केन निराक्रियेतेत्य् अलं विष्तरेण ।
साधन्सस्य सिद्धेर् यन् नाङ्गम् असिद्धो विरुद्धो ऽनैकान्तिको हेत्वाभासः । तस्यापि वचनं वादिनो निग्रहस्थानम् असमर्थोपादानात् । त्स्माद् एवंविधो हेत्वाभासः द्वयम् अप्रयोज्यः परप्रयुक्तश् चावश्यम् उद्भावयितव्य इति हेत्वाभासव्युत्पादने वार्त्तिककारस्या भिप्रायो बोद्धव्यः ।
स्याद् एतत् --- असमर्थं विशेषणो ऽसमर्थविशेष्यश् चास्ति प्रभेदः । यथा ऽनित्यः प्रमेयत्वे सति कृतकत्वात् । अत्र कृटकत्वं विशेष्यम् एव साध्यसिद्धौ समर्थम्, न तु प्रमेयत्वं विशेषणम् इत्य् असमर्थं विशेषणम्, यत्र विशेष्यम् एव सम्रथम् इति कृत्वा भवत्य् असमर्थविशेषणो हेतुः । यञ् च (यच् चा)नित्यः शब्दः कृतकत्वे सति प्रमेयत्वाद् इति । अत्र हि कृतकत्वं विशेषणम् एव साध्यसिद्धौ समर्थम्, न तु प्रमेयत्वं विशेष्यम् इत्य् असमर्थं विशेष्यम् । यत्र हि विशेषणम् [75अ] एव समर्थम् इति कृट्वा भवत्य् अयम् असर्थविशेष्यो हेतुः । शेषम् उभयीविधास्व् अन्तर्भाव्यताम् । न तावद् सिद्धे, द्वयोर् अपि धर्मिणि सिद्धेः । न च विरुद्धे, विपर्ययव्याप्त्यभावात् । नाप्य् अनैकान्तिके कृतकत्वनिशिष्टप्रमेयत्वस्य प्रमेयत्वविशिष्टकृतकत्वस्य च साध्या ऽव्यभिचारात् । तस्माद् असिद्धत्वादेर् अन्य एवायं हेतुदोषप्रकारः प्राप्त इति ।
तद् एतद् अवद्यम्, हेत्वदोषात् । यदि ह्य् एवम् अयं प्रयुक्तो हेतुर् द्विष्येत्(त) तदा ऽस्यामीषु हेतुराशिष्व् अन्तर्भावश् चिन्त्येत, अन्यो वा हेतु दोषो ऽभ्युपगम्येत । यावता नैवम् अयं प्रयुक्तो ऽन्यथेति साध्यसाधनाद् इति । न तर्ह्य् एवं वादी निगृह्यत इति चेत् । किं न निगृह्यते, असाधनाङ्गवचनात्? उभयत्रापि साध्यसिद्ध्यनङ्गस्य प्रमेयत्वस्यासमर्थस्याभिधानात् । यथा च साध्यसिद्ध्यनङ्गस्य वचने निग्रहो ऽवश्यम् भावी, अनिग्रहे व दोषः, तथा वादन्याये ऽवादीन् न्यायवादी ति ततस् तद् अपेक्षितव्यः ततो ऽयम् अर्थो वक्तृदोष एव न हेतुदोषः । तेनानतर्भावे ऽपि न हेत्वाभासानुषङ्ग इति ।
भवतु तावद् अत्रेयं गतिः । सिद्धसाधने तु साधने किं भविष्यति? न तावत् सिद्धसाधनं साधन[म् अ]सिद्धत्वाद्यन्यतमदोषदूषितं साध्यसाधनसामर्थ्याप्रच्युतेर् इति ।
अत्रोच्यते --- इह हेतुर् द्वधा दुष्यति । कश्चिद् असामर्थ्यात्, अपरो वैयर्थ्यात् । तत्रासामर्थ्य एव दोषो वार्त्तिककारेणा ऽनन्तरोक्तेन क्रमेण त्रिधा दर्शितः । न तु वैयर्थ्यलक्षणः । सिद्धसाधानं तु वैयर्थ्यलक्षणो ऽन्य एवायं हेतोः स्वगतोः स्वगतो दोष इति कस्माद् अस्यान्तर्भावश् चिन्तनीयः? यदाह् आचार्यः --- "अन्यथानिष्ठं(ष्टं) भवेद् विफलम् एव वा । तथा न साध्यत्वे वैकल्याद्" इत्यादीति ।
वक्तृदोष एवैष इत्य् अपि वार्त्ता, यथायोगं परिपूर्णसाधनरूपाभिधानाद् अनुपयुक्तानभिधानाच् च वक्तुर् अदुष्टत्वात् । वक्ता ऽयं हेतुनिश्चितो(ता) ऽर्य प्रयुक्तो वैयर्थ्यम् अनुभवति । न तु
[ध्प्र् 224]
त्रयाणां रूपाणाम् असिद्धौ[698] सन्देहे च[699] हेतुदोषानुपपाद्योपसंहरन्न् आह ---
__________नोतेस्__________
[698] -असिद्धिसंदेहे हेतु-
[699] वा
[700]एवम् एषां त्रयाणां रूपाणाम् एकैकस्य द्वयोर् द्वयोर् वा रूपयोर् असिद्धौ सन्देहे वा[701]यथायोगम् असिद्धविरुद्धानैकान्तिकास् त्रयो हेत्वाभासाः इइइ-109
__________नोतेस्__________
[700] एवण् त्र-
[701] च
एवम् इत्य् अनन्तरोक्तेन क्रमेण । एषां मध्य एकैकं रूपं [702] यदा ऽसिद्धं सन्दिग्धं वा[703] भवति, द्वे द्वे वा [704] ऽसिद्धे संदिग्धे वा भवतः, तद् आसिद्धश् च विरुद्धश् च् आनैकान्तिकश् च ते हेत्वाभासाः । यथायोगम् इति यस्यासिद्धौ संदेहे वा यो हेत्वाभासो युज्यते स त्स्या ऽसिद्धेः संदेहाच् च व्यवस्थाप्यत इति यस्य यस्य येन [705]येन योगो यथायोगम् इति ॥
__________नोतेस्__________
[702] यद् असिद्धं
[703] वा --- ओम्.
[704] वा --- ओम्.
[705] येन --- ओम्.
विरुद्धाव्यभिचार्य् अपि संशयहेतुर् उक्तः । स इह कस्मान् न उक्तः इइइ-110
ननु चा ऽऽचार्येण विरुद्धाव्यभिचार्य् अपि संशयहेतुर् उक्तः । हेत्वन्तरसाधितस्य [706]विरुद्धं यत् तन् न व्यभिचरतीति [707] विरुद्धाव्यभिचारी । यदि वा विरुद्धश् चासौ साधनान्तरसिद्धस्य धर्मस्य विरुद्धसाधनात्, अव्यभिचारी च स्वसाध्याव्यभिचाराद् विरुद्धाव्यभिचारी ॥
__________नोतेस्__________
[706] -स्य यद् विरुद्धं तन् न
[707] -चरति स विरु-
स्वतो ऽ(तो) दुष्ट्स् ततो वक्तृदोषो युज्यत एवेति चेत् । तर्हि विरुद्धत्वम् अपि वक्तृदोषो ऽस्तु न्यायस्यसमानत्वात् । शक्यते हि तत्राप्य् एवम् अभिधातुम् --- वक्ता ऽयम् अननुरूपे साध्ये प्रयुक्ते विपर्ययसाधानाद् विरुद्धताम् अनुभवति न त्व् अयं स्वतो दुष्टो नामेति । विवक्षितार्थसाधनासामर्थ्यं स्वतो ऽस्तीति कथं न वैयर्थ्यं तस्य दोष इति चिन्त्यताम् इति ।
निग्रहस् त्व् एवं वादिनो ऽसाधनाङ्गवचनाद् बोद्धव्यः । सिद्धि[ः] साधानं तद् अङ्गं धर्मो यस्यार्थस्य विवादाश्रयस्य वादप्रस्तावाद् हेतोः । स साधनाङ्गः । तथा यो न भवति तस्याप्रस्तुतस्याभिधानाद् इति कृत्वेति सर्वम् एवावदातम् ।
केचित् पुनर् एवम् असिद्धे ऽन्तर्भावियितुं प्रयतन्ते । अन्ये तु विरुद्धे । यथा च तेषां प्रयतिर् यथा तद् अभजमानम् अभिधानं तथा स्वयुथ्यविचार एवाभिहित इति तत एवापेक्षितव्य इति ॥
त्रयाणाम् इत्यादि व्यवस्थाप्यत इत्य् एतद् अन्तं सुबोधम् ।
यस्ये ति हेत्वाभासस्य । सर्वहेत्वाभाससङ्ग्रहणार्थं यस्ये ति द्विरुक्तं येन [75ब्] येन दोषेन योगः सम्बन्धः । एतच् चार्थकथनम् । योगानतिक्रमेणेति विग्रहः कार्यः ॥
ननु चे त्यादीत्य् आहे त्य् एतद् अन्तं सुगमम् ।
[ध्प्र् 225]
सत्यम् । उक्त आचार्येण । मया त्व् इह नोक्तः । कस्माद् इत्य् आह ---
अनुमानविषये[708]ऽसम्भवात् इइइ-111
__________नोतेस्__________
[708] -विषये तस्यासं-
अनुमान स्य विषयः प्रमानसिद्धं त्रैरूप्यम् । यतो हि अनुमानसम्भवः[709] सो ऽनौमानस्य विषयः । प्रमाणसिद्धाच् च त्रैरूप्याद् अनुमानसम्भवः[710] । तस्मात् तद् एवानुमानविषयः । तस्मिन् प्रक्रान्ते न विरुद्धाव्यभिचारिसम्भवः । प्रामाणसिद्धे हि त्रैरूप्ये प्रस्तुते स एव हेत्वाभासः सम्भवति यस्य प्रमाणसिद्धं रूपम् । न च विरुद्धाव्यभिचारिणः प्रमाणसिद्धम् अस्ति रूपम् । अतो न सम्भवः । ततो असम्भवात्[711] नोक्तः ॥
__________नोतेस्__________
[709] अनुमानसद्भावः; अनुमानस्य सम्भवः
[710] अनुमानसद्भावः
[711] ततो ऽसम्भवो नोक्तः
कस्माद् असंभव इत्य् आह ---
न हि सम्भवो ऽस्ति कार्यस्वभावयोर् उक्तलक्षणयोर् अनुपलम्भस्य च[712]विरुद्धतायाः इइइ-112
__________नोतेस्__________
[712] वा
न ही ति । यस्मान् न सम्भवो ऽस्ति विरुद्धतायाः । कार्यं च स्वभावश् च तयोर् उक्तलक्षणयोर् इति ।
अनुमानस्य त्रैरूप्याल् लिङ्गसम्बन्धिनो ऽन्यस्मात् त्रैरूप्यं विषयः । यथा मत्स्यानां विषयो जलम् इति । एतद् एवाह --- यत इति । हि र् यस्मादर्थे । प्रक्रान्ते प्रस्तुते अनुमानविषयो(ये) वै(त्रै)रूप्ये सति ।
कम्सात् तत्र विरुद्धाव्यभिचारिणो ऽसम्भव इत्य् आह --- प्रमाणे ति । ही ति यस्मात् । स एव हेत्वाभासो विरुद्धाव्यभिचारार्याख्यः सम्भ्वति यस्य प्रमाणेन सिद्धं रूपं पक्षधर्मान्वयव्यतिरेकात्मकम् इति विवक्षितम् ।
अयम् आशयः --- यदि तद् एकेन द्वाभ्याम् वा रूपाभ्यां हीनं स्यात् तद् एष्व् एव हेत्वाभासेष्व् अन्तर्भवेत् । न त्व् एतद् अतिरिक्तो विरुद्धाव्यभिचारी नाम हेत्वाभासो भवेत् । भवता त्व् अनेन प्रमाणसिद्धत्रैरूप्येणैव भाव्यम् इति ।
अस्तु तस्य तथात्वम् इत्य् आह --- न चे ति । चो अवधारणे, व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे वा ।
एवं ब्रुवतश् चास्यायम् अभिप्रायः --- वस्तुनः परस्परविरुद्धरूपद्वरूपद्वयासम्भवाद् अवश्यम् अनयोर् एकम् असम्पूर्णाङ्गम् इति ॥
कुतः पुनर् अनुमान्विषये ऽस्यासम्भवो ऽवसीयत इत्य् अभिप्रेत्य पृद्च्छति परः --- कस्माद् इति
[ध्प्र् 226]
कार्यस्य कारणाज् जन्मलक्षणं तत्त्वम् । स्वमावस्य च साध्यव्याप्तत्वं तत्त्वम् । यत् कार्यम्, यश् च स्वभावः, स कथम् आत्मवारणं व्यापकं च स्वभावं परित्यज्य भवेद् येन विरुद्धः स्यात् । [713] अनुलम्भस्य च उक्तलक्षाणस्ये ति । दृश्यानौपलम्भत्वं चानुपलम्भलक्षणम् । तस्यापि[714] वस्त्व् अभावाव्यभिचारित्वान् न विरुद्धत्वसम्भवः[715] ॥
__________नोतेस्__________
[713] -त्वम् अनुप-
[714] तस्यापि च स्वभाब्वा-
[715] सम्भवः स्यात् । एते-; -सम्भवः स्याद् एति(?) तत् एते-
स्याद् एतत् --- एतेभ्यो ऽन्यो भविष्यतीत्य् आह ---
न च अन्यो अव्यभिचारी इइइ-113
न चान्य एतेभ्यो ऽव्यभिचारी त्रिभ्यः । अत [716]एवैष्व् एव हेतुत्वम् ॥
__________नोतेस्__________
[716] अत एव तेष्व् एव; अत एवैतेष्व् एव
क्व तर्ह्य् आचार्य दिग्नागेना यं हेतुदोष उक्त इत्य् आह ---
तस्माद् अवस्तुदर्शनबलप्रवृत्तम् आगमाश्रयम् अनुमानम् आश्रित्य तदर्थविचारेषु विरुद्धाव्यभिचारी साधनदोष उक्तः इइइ-114
यस्माद् वस्तुबलप्रवृत्ते ऽनुमाने न सम्भवति तस्माद् आगमाश्रयम् अनुमानम् आश्रित्यव्यभिचार्युक्तः इति । आगमसिद्धं हि यस्यानुमानस्य लिङ्गतैरूप्यं तस्यागम आश्रयः ।
ननु चागम् असिद्धम् अपि त्रैरूप्यं प्रमाणसिद्धम् इत्य् आह --- अवस्तुदर्शनबलप्रवृत्तम् इति ।अवस्तुनो दर्शनं विकल्पमात्रम् तस्य बलं सामर्थ्यम् । ततः प्रवृत्तम् --- अप्रमाणाद् विकल्पमात्राद् व्यस्थितं त्रैरूप्यम् आगमसिद्धम् अनुमानस्य । न तु प्रमाणात् ।
न ही तिय् अत्रस्थस्य हि शब्दस्यार्थो यस्माद् इत्य् अनेनोक्तः । विरुद्धतायाः एकसाधनसाधितस्यार्थस्य प्रत्यनीकपक्षसाधनरूपतायाः ।
एतद् उक्तं भवति --- स्वसाध्याव्यभिचारिणा हि भवता कार्येण स्वभावेन वा भाव्यम् । न च वस्तुनस् तदतत्स्वभावौ स्तो येन तदतत्स्वभावाव्यभिचारिणौ द्वौ हेतू सन्निपतन्तौ विरुद्धाव्यभिचारिणौ स्याताम् इति । येन कार्यस्वभावयोः कारणव्यापकविधिना कृसतद्भावेन विरुद्धं तत्रैव धर्मिणि हेत्वन्तरसाधितार्थं विरुद्धसाधनं भवेत् ।
यद्य् एवम् अनुपलम्भे तत्सम्भविष्यतीत्य् आह --- अनुपलम्भस्ये ति । च ः पूर्वापक्षः समुच्चये ॥
यत एतद् अतिरिक्तो ऽव्यभिचारी [न] सम्मत [ अत ] एवा स्माद् एव कारणात् । एष्व् एव कार्यस्वभावानुपलम्भेष्व् एव ॥
कथम् आगमाश्रयत्वम् अनुमास्येत्य् आह --- आगमसिद्धम् इति । हि र् यस्मादर्थे । सति तस्मिन्न् आगमे ऽनुमानस्य प्रवृत्तेर् असाव् आश्रयस् तस्य ॥
[ध्प्र् 227]
तत् तर्ह्य् अनुमानम् [717]आगमसिद्धत्रैरूप्यं[718] क्वाधिकृतम् इत्य् आह ---[719] तद् अर्थे ति । तस्यागमस्य यो ऽर्थो ऽतीन्दिर्यः प्रत्यक्षाणुमानाभ्याम् अविषयीकृतः सामान्यादिस् तस्य विचारेषु प्रक्रान्तेषु आगमाश्र्यम् अनुमानं सम्भवति । तदाश्रयो विरुद्धाव्यभिचार्य् उक्त आचार्येण ति
__________नोतेस्__________
[717] अनुमानेनागम-
[718] सिद्धं त्रैरूप-
[719] -इत्य् आह तस्यागम-
कस्मात् पुनर् आगमाश्रये ऽप्य्[720] अनुमाने सम्भव इत्य् आह ---
__________नोतेस्__________
[720] -श्रयो ऽप्य्
शास्त्रकाराणाम् अर्थेषु भ्रान्त्या[721]विपरीतस्वभावोपसंहारसम्भवात्[722] इइइ-115
__________नोतेस्__________
[721] विपरीतस्य स्वभा-
[722] भास्योपसं-
शास्त्रकृतां विपरीत स्य वस्तुविरुद्धस्य स्वभाव स्य उपसंहारो ढौकनम् अर्थेषु । तस्य संभावाद् विरुद्धाव्यभिचारिसम्भवः । भ्रान्त्ये ति विपर्यासेन । विपर्यस्ता हि शास्त्रकाराः[723] सन्तम् असन्तं स्वभावम् आरोपयन्तीति ॥
__________नोतेस्__________
[723] -कारास् तं तम् असन्तं स्वभा-
यदि शास्त्रकृतो ऽपि भ्रान्ताः , अन्येष्व् अपि पुरुषेषु क आश्वास इत्य् आह ---
न ह्य् अस्य सम्भवो[724]यथा अवस्थितवस्तुस्थितिष्व् आत्मकार्यानुपलम्भेषु[725] इइइ-116
__________नोतेस्__________
[724] सम्भवो ऽस्ति यथा
[725] -ष्व् आत्मकार्येषूपलम्भेषु
न ही ति । न हेतुषु कल्पनया हेतुत्वव्यवस्था । अपि तु वस्तुस्थित्या । ततो यथा अवस्थितवस्तुस्थितिष्व् आत्मकार्यानुपलम्भेष्व् अस्य सम्भवो नास्ति ।
अवस्थितं परमार्थसद्वस् तु तदन्तिक्रान्ता यथावस्थिता [726]वस्तुस्थितिर् व्यवस्था[727] येषां ते यथावस्थितवस्तुस्थितयः । ते हि यथा वस्तु स्थितं तथा स्थिता[728] । न कल्पनया । [729]ततस् तेषु न भ्रान्तेर् अवकाशो ऽस्ति येन विरुद्धाव्यभिचारिसम्भवः स्यात् ॥ तत्र विरुद्धाव्यभिचारिण्य् उदाहरणम् ---
__________नोतेस्__________
[726] -स्थितवस्तु-
[727] -स्थितिव्यव-
[728] तथा स्थापिता न
[729] अतः
ननु चेत्यादि विपर्यस्ता ही त्य् एतद् अन्तं सुगमम् । शास्त्रकारा इति तीर्थिकशास्त्रप्रणेतार इति द्रष्टव्यम्, तद्वचनस्यैव प्रमाणबाधितत्वेन तेषाम् एव विपर्यस्तत्वात् ॥
अन्येष्व् अपी ति कार्यादिहेतुप्रयोक्तृषु ।
यथावस्थितवस्तुस्थतिष्व् इति --- अस्य तात्पर्यार्थम् आह --- न हेतुष्व् इति । ततः काल्पनया हेतुत्वाद्य्(त्वव्य)वस्थायाः । अर्थक्रियासमर्थत्वं(-त्वन् तु) परमार्थसत् । कथं ते तथारूपाइत्य् आह --- ते ही ति । ते कार्यादयो हि र् यस्मादर्थे । हेतुभावे चैतद् अविशेषणम् । यतस् ते यथावस्थितयस् ततस् तेष्व् अ(षु)सम्भवो नास्तीत्य् अर्थः । सत्यां स्थितौ किं न सम्भव इत्य् आह --- तत इति ।
[ध्प्र् 228]
[730]तत्र उदाहरणम् --- यत्[731]सर्वदेशावस्थितैः स्वसम्बन्धिभिर् युगपद् अभिसम्बध्यते तत् सर्वगतम्, यथा आकाशम् ।[732]अभिसम्बध्यते च[733]सर्वदेशावस्थितैः स्वसम्बन्धिभिर् युगपत् सामान्यम् इति इइइ-117
__________नोतेस्__________
[730] अत्रोदा-
[731] -तैः सम्बन्धिभिः सम्बन्धि-
[732] -काशम् इति
[733] च --- ओम्.
यत् सर्व स्मिन् देशावस्थितैः स्वसम्बन्धिभिर् युगपद् अभिसम्बध्यते [734]इति सर्वदेशावस्थितर् अभिसम्बध्यमानत्वं सामान्यस्य अनूद्य सर्वगतत्वं विधीयते । तेन युगपद् अभिसम्बध्यमानत्वं सर्वगतत्वे नियतं तेन व्याप्तं कथ्यते ।
__________नोतेस्__________
[734] -ध्यते तत्सर्वः
इह सामान्यं कणाद महर्षिणा निष्क्रयं दृश्यम् एकं[735] चोक्तम् । युगपच् च सर्वैः स्वैः [736]सम्बन्धिभिः समवायेन संबद्धम् । तत्र पैलुकेन कणाद शिष्येण व्यक्तषु व्यक्तरहितेषु च
__________नोतेस्__________
[735] दृश्यम् एवोक्तम्
[736] सर्वैः स्वैः स्वैः सम्बन्धि-; सर्वैः स्वैः स्वैः स्वसम्बन्धि-
यतस् ते कल्पनया न स्थापितास् ततः कारणात् । भ्रान्तेर् विपर्यासस्यावसरो ऽवकाशः । येन भ्रान्त्यवकाशेन ॥
कस्यानुवादेनात्र कस्य विधिर् इत्य् [76अ] आह --- सर्वे ति । सर्वदेशावस्थितैः --- स्वसम्बन्धिभिर् इत्य् अर्थात् । यत एवम् अनुवादविधिक्रमस् तेन हेतुना ।
ननु सर्वैः स्वसम्बन्धिभिर् युगपदभिसम्बन्धो नाम सामान्यस्य युगपत् सर्वसम्बन्धिसमवाय एव । सर्वगतत्वम् अपीदम् एवास्येति ।
कथम् अनयोर् व्यावृत्तितो ऽपि भेदसम्बन्धभावतो गम्यगमकभाव इति चेत् । नैष दोषः । नानादेशस्थैः स्वसम्बन्धिभिः शावलेयादिभिर् युगपद् अभिसम्बन्धो हेतुः । सम्बन्धिदेशतद् अन्तरालव्यापित्वं तु साध्यम् इति गम्यगमकभावो न विरुध्यते । सर्वसम्बन्धिभिर् युगपद् अभिसम्बद्न्धश् चागत्वा ऽनागच्छद्भिर् इति द्रष्टव्यम् ।
अथ केन विरुद्धो(द्धा)व्यभिचारिप्रसवबीजं धर्मद्वययोः किम् अभ्युपगतं येन तयोः सन्निपाताद् विरुद्ध(द्धा)व्यभिचारिसम्भव इत्य् आह --- इहे ति । इह सामान्यपदार्थविचारप्रक्रमे । कणमत्तीति कणादः । रूढीवशाच् चायं शब्दः काश्यपे मुनौ वर्त्तते । स चासौ महर्षिश् चेति । हेतुभावेनास्य विशेषणत्वात् कणाद त्वाद् एव महर्षिः । एवं तस्य हि काष्ठागता निःस्पृहता यतो ऽन्यरवो(?) स्वभोज्यादिकम् अपि परित्यज्य कणमात्रं भुक्त्वा ध्यानादिकम् आचरति । अथो ऽसाव् अन्येभ्यः सातिशयवान् भव्तीइति । निष्क्रियं क्रियाशून्यम् अमूर्त्तत्वात् । एकम् अनानारूपम्, प्रत्येकं स्वाश्रयेषु लक्षणाविशेषाद्, विशेषलक्षाणाभाच् च । न तु सम्वायाद् एकं त्रिलोक्यां सामान्यम्, प्रत्ययभेदात् परस्परतो ऽन्यत्वात् । गोत्वादीनाञ् च निष्क्रियत्वेन सहा ऽस्यैकत्वं समुच्चिनोति ।
[ध्प्र् 229]
देशेषु सामान्यं स्थितं साधयितुं [737]प्रमाणम् इदं उपन्यस्तम् यथा आकाशम् इति --- व्याप्तिप्रदर्शनविषयो दृष्टान्तः । आकाशम् अपि हि सर्वदेशावस्थितैर् वृक्षादिभिः स्वसंयोगिभिर् युगपद् अभिसम्बध्यमानं सर्वगतं च । अभिसम्बध्यते च[738] सर्वदेशावस्थितैः स्वसम्बन्धिभिर् इति हेतोः पक्षधर्मत्वप्रदर्शनम् ॥
__________नोतेस्__________
[737] प्रमाणम् उप-
[738] प्रयोजयितुम् आह; योजन्न् आह
अस्य स्वभावहेतुत्वं [739]योजयित्म् आह ---
__________नोतेस्__________
[739] स्वभावः
तत्सम्बन्धिस्वभावमात्रानुबन्धिनी तद्देशसन्निहितस्वभावता इइइ-118
तत्सम्बन्धी ति । तेषां सर्वदेशावस्थितानां द्रव्याणां सामान्यस्य स्वभावः स एव तत्सम्बन्धिस्वभावमात्रम् । तदनुबध्नातीति तद् अनुबन्धिनी ।
कासाव् इत्य् आह --- तद्देशसंनिहितस्वभावता । तेषां सम्बन्धिनां देशस् तद्देशः । तद्देशे संनिहितः स्वभावो यस्य तत् तद्देशसंनिहितस्वभावम्[740] । तस्य भावस् तत्ता । यस्य हि येषां सम्बन्धी स्वभावः तन्नियमेन तेषां देशे सन्निहितं भवति । ततस् तत्सम्बन्धित्वानुबन्धिनी तद्देशशंनिहितता सामान्यस्य ॥
__________नोतेस्__________
[740] अत्र मूले ` तस्य भावः । तस्मात् ऽ इति पाठः कल्प्यः --- सं-
युगपद् एककालम् । च ः पूर्वापेक्षया समुच्यये समवायेन सम्बन्धेन सम्बद्धत्वम् । एवम् अभिहिते कणादेन तच्छिष्येण पैलुकेनः । पीलवः परमाणवः । पीलुपाके चायम् पीलुशब्द उपचारासतास्त्त्येन (उपचारितो ऽस्ति । तेन) निमित्तेन ववहरतीति पैलुक । तेनाविवक्षिता ऽऽन्तरभेदस्य युगपत् सर्वसम्बन्धमात्र हेतुत्वाद् आकारशस्य दृष्टान्तरूपता द्रष्टव्या । न तु सामान्यस्येवास्य सम्बन्धिः समवायेन सम्बन्धः । संयोगलक्षणेनास्य सम्बन्धेन सम्बन्धात् ।
एतद् एवाभिप्रेत्य् --- आकाशम् अपी ति । ही ति यस्मात् । स्वसंयोगिभिर् इति वास्त्वानुवादः । न ॠइŭत्य् एतत् प्रकृताङ्गम् । दार्ष्टान्तिके ऽस्यानुपपत्तेः । चो ऽभिसम्बन्ध(न्ध्य)मानत्वेन सह सर्वगतत्वस्यैकविषयतां समुच्चिनोति ॥
द्रव्याणां गवादीनाम् । एतच् च गोत्वादिसमान्यविवक्षयोक्तम् । उपलक्षणं द्रव्यग्रहणं कर्त्तव्यम्, इतरथोत्क्षेपणत्वादिसामान्यस्यासङ्ग्रहः स्यात् ।
एतच् च तस्य भाव इत्य् एद् अन्तं सुगमम् ।
[741]तस्माद् इत्य् एनेनार्थागतं स्वभावहेतुत्वनिमित्तं दर्शयति । न तु तद् धितप्रत्ययान्ते पञ्चम्य् अस्ति यां व्याचक्षीत । अयं त्व् अस्यार्थः --- यस्माद् युगपत् सर्वदेशावस्थितसम्बन्धिसम्बन्धः स्वसत्तामात्रानुबन्धिनि साध्ये हेतुः, तस्मात् स्वभाव हेतुत्वम् अस्येति ।
__________नोतेस्__________
[741] -ते वासर्व-
ननु तत्सम्बन्धिनो ऽपि तद्देशसन्निहितस्वभावतैव कुतओ येनैवं भवतीत्य् आह --- यस्ये ति । हि र् यस्मात् । यतो ऽयं
सामान्यन्यायः ततस् तस्मात् [76ब्] । यद् वा सर्वसम्बन्धित्वे ऽपि कस्मात्
[ध्प्र् 230]
ननु च गवां सम्बन्धी स्वामी । [742]न च गोदेशे सन्निहितस्वभावः । [743]तत् कथं [744]तत्सम्बन्धित्वात् तद्देशत्वम् इत्य् आह ---
__________नोतेस्__________
[742] न च तद्देशे सन्नि-; न च तद्देशस्ंन्नि- न्.
[743] -भावः स्वामी
[744] तत् कथं संबं-
न हि यो यत्र न अस्ति तद्देशम् आत्मना व्याप्नोति इति स्वभावहेतुप्रयोगः इइइ-119
न ही ति । यो यत्र देशे नास्ति स देशो यस्य स तद्देशः तं न व्याप्नोत्यात्मना स्वरूपेण ।
इह सामान्यस्य तद्वतां च समवायलक्षणः [745]सम्बन्धः । स चाभिन्नदेशयो एव । [746]तेन यत्र यत् समवेतं [747]तत् [748]तदात्मी न रूपेण क्रोडीकुर्वत् [749]समवायिरूपदेशे स्वात्मानं निशेशयति ।
__________नोतेस्__________
[745] लक्षणसम्ब-
[746] अनेन
[747] कर्त्तृ --- टि-
[748] समवायरूप-
[749] समवायरूप-.
तद्देशसन्निहितस्वभावतेत्य् आह --- तस्माद् इति । तस्मात् तत्सम्बन्धिमात्रानुबन्धिनीति । तद्देशसन्निहितस्वभावता ऽऽकाशस्य दृष्ट तस्मात् कारणात् । यस्य वस्तुनस् तेषां (-नो येषां) सम्बन्धी स्वभावः । हि र् अवधारणे सम्बन्धी त्य् अस्मात् परो द्रष्टव्यः । तद् वस्तु नियमेना वश्यंतया तेषां सम्बन्धीनां देशे सन्निहितं भवति । यत एवं सामान्ययायस् ततस् । तस्माद् इति पाठे भावगतिः ।[750] कस्माद् इति तु क्वचित् पुस्तके पाठः । स तु युक्तरूपः । तत्सम्बन्धिस्वभावमावमात्रानुबन्धिनी तद्देशसन्निहितस्वभावतेति स्वाख्या । कस्माद् एतद् इति । कारणाकाङ्क्षासम्बन्धात् । तदनन्तरं च यस्य ही त्यादेः सामान्योत्तरस्य, तत इत्यादेश् चोपसंहारव्यपदेशेन विशेषोत्तरस्य सुमो(यो)ज्यत्वाद् इति ।
__________नोतेस्__________
[750] अत्र मूले `तस्य भावः । कस्मात्?ऽ इति पाठः कप्यः --- सं-
यत्र तु तस्य भावस् तत्ते ति पाठः तत्र सर्वम् अवदातम् ॥
ननु चैकदेशस्थम् एव सामान्यं युगपत् सर्वैः सम्बन्धिभिर् अभिसम्बन्त्स्यते । तत् किं तस्य व्यापारासम्भवेनावेदितेनेत्य् आह --- इहे ति ।
स इति समवायः । च कारः पुनः शब्दस्यार्थे । अभिन्नदेशयोर् इति लोकप्रसिद्धदेशापेक्षयोक्तम् न तु शास्त्रप्रसिद्धदेशापेषयेति द्रष्टव्यम् । अन्यथा यदा (था पट)तन्तूनां समवायो न स्यात् । पटस्य तन्नथा(तन्तवो)देशः । तन्तूनां पुनर् अंशवः । सामान्यतद्वतोश् च न स्यात् । गोत्वसामान्यस्य गौर् देशः । गोश् च सास्नादयो ऽवयवा इति ।
अथ वा सामान्यलक्षणयुगा(योगा)पेक्षया अभिन्नदेशत्वं विवक्षितम् । न तु प्रत्येकापेक्षम् । तेनायम् अर्थः --- कुण्डबदरवद् यत्र द्वाव् अपि सम्बन्धिनौ भिन्नदेशौ न तयोः समवायः । ययोस् त्व् एकतरस्यान्यतरो देशस् तयो समवाय इति । एवञ् च पटतन्तूनां सामान्यतद्वतोश् च नासङ्ग्रह इति । येन कारणेनाभिन्नदेशयोर् एव सम्वायस् तेन प्रथमव्याख्याने समवायिरूपस्य समवायिस्वभावस्य देश इति । द्वितीयव्याखाने समवायिरूपम् एव समवायिस्वभाव एव देश इति विगृह्य तस्मिन्न् इति
[ध्प्र् 231]
[751]तद्देशरूपनिवेशनम् एव तत्क्रोडीकरणम् । ततस् तत्समवायः ।
__________नोतेस्__________
[751] तद्देशे रूप
तस्माद् यद् यत्र समवेतं [752]तत् तद्द्रव्यं व्याप्नुवदात्मना तद्देशे संन्निहितं भवति ।
__________नोतेस्__________
[752] तत् तत्र द्र-
तद् अयम् अर्थः --- तद्देशस्थवस्तुव्यापनं तद्देशसत्तया व्याप्तम् । तद्देशत्ता ऽभावे[753] तद्व्यापनाभावाद् व्यापनलक्षणः समवायसम्बन्धो न स्यात् । अस्ति च व्यापनम् । ततस् तद्देशे सन्निहितत्वम् इति । तद् अयं स्वभावहेतुह् ॥
__________नोतेस्__________
[753] तद्देशअत्ताया आभावे
पैठरप्रयोगं दर्षयन्न् आह ---
द्वितीयो अपि प्रयोगः --- यद् उपलब्धिलक्षणप्राप्तं सन् न उपलभ्यते न तत् तत्र अस्ति । तद् यथा --- क्वचिद् अविद्यमानो घटः[754]। नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्यं व्यक्त्यन्तरालेष्व् इति । अयम् अनुपलम्भः[755]स्वभावश् च परस्परविरुद्धार्थसाधनाद् एकत्र संशयं जनयतः इइइ-120
__________नोतेस्__________
[754] घट इति
[755] लम्भप्रयोगः स्व-
द्वितीयो अपि --- इति । यद् उपलब्धिलक्षणप्राप्तं विषयतां प्राप्तं दृश्यम् इत्य् अर्थः । एतेन दृश्यानुपलब्धिम् अनूद्य ` न [756] तत् तत्रास्ति ऽ इत्य् असद् व्यवहार्यत्वं विहितम्[757] । ततो व्याप्यदृश्यानुपलब्धेर् व्यपकम् असद्व्यवहार्यत्वं दर्शितम् । तद् यथा, क्वचिद् अविद्यमानो घटः दृष्टान्तः ।
__________नोतेस्__________
[756] -नूद्य तत् तत्र; -नूद्य त(न) तत् तत्र; -नूद्य तत् तत् तत्र
[757] व्यवहार्य्तं विहितम्
योज्यम् । उभयत्रापि तु समवाय(यि) शब्देनाधारो ऽभिप्रेतः । स्वात्मानं निवेशयत्य् उपनयति ।
ननु तद्व्यापनं तत्क्रोडीकरणम् अभिप्रेतम् । तत् कथं सम्बन्धिनि स्वात्मनि निवेशनं व्याख्यायत इत्य् आह --- तद्देश इति । स चासौ देशश् च तत्र रूपस्य स्वरूपस्य निवेशनम् उपनयनम् । ततस् तस्माद् तद्देशरूपनिवेशनात् तस्यः । सम्बन्धिनः समवायः । तस्माद् इत्यादिनोपसंहारः ।
ननु तद्व्यापनम् अपि भविष्यति, न च तद्देशसन्निहितस्वभावतेत्य् आशङ्क्याह --- तद् अयम् इति । यत आतमना तद्व्यापनलक्षणेन सम्बन्धेन तद्व्याप्यमानदेशसन्निधानम् उकतं तत् तस्माद् अयं तात्पर्यार्थः । स चासौ देशश् च तत्रस्थ वस्तुव्यापनं लोकप्रसिद्धदेषापेक्षया तस्य देशस् तद्देशस् तत्र या सत्ता विद्यमानता तया व्याप्तम् । अन्यथा तु स्वरूपेण व्यापनासम्भवाद् इत्य् अभिप्रायः ।
तद् एव व्यतिरेकमुखेणोपपादयन्न् आह [77अ] --- तद्देशे ति । नास्त्य् एवायं सम्बन्ध इति [चेद् आह ---] अस्ति चे ति । चो ऽवधारणे । यत उक्तेन क्रमेण स्वभावलक्षणयोगो ऽस्यास्ति । तत् तस्माद् अयं युगपत् सर्वसम्बन्ध्यभिसम्बन्धलक्षाणो हेतुः स्वभावः ॥
[ध्प्र् 232]
पक्षधर्मत्वं दर्शयितुम् आह --- न उपलभ्यते चे ति । व्यक्त्यन्तरालम्[758] --- व्यक्त्यन्तरं च व्यक्तिशून्यम् चाकाशम् । दृश्यम् अपि कस्यांचिद् व्यक्तौ गोसामान्यम् अश्वादिषु व्यक्त्य् अन्तरेषु व्यक्तिशून्ये[759] चाकाशे [760]नोपलभ्यते । तस्मान् न तेष्व् अस्तीति गम्यते ।
__________नोतेस्__________
[758] व्यक्त्येर् अन्तरालम्
[759] -रेषु शून्ये चाका-
[760] चोपलभ्य-
अयम् अनुपलम्भः पूर्वोक्तश् च स्वभावश् [761]परस्पर स्य विरुद्धौ याव् अर्थौ तयोः साधनाद् ताव् [762]एकस्मिन् धर्मणि संशयं जनयतः । न ह्य् एको ऽर्थः परस्परविरुद्धस्वभावो भवितुम् अर्हति । एकेन चात्र [763]व्यक्त्य् अन्तरेषु व्यक्तिशून्ये चाकाशे सत्त्वम्, अपरेण चानुपलम्भेनासत्त्वं साध्यते । न
__________नोतेस्__________
[761] परस्परविरु-
[762] स्वभावेन --- टि-
[763] व्यक्त्य् अन्तरेषु --- ओम्.
कणाद स्यैवापरः शिष्यः पैठरस् तस्य प्रयोगम् । पिठरो ऽवयविद्रव्यम् । पूववद् उप्चाराति पिठरशब्दस् तेन व्यवहरतीति तथोक्तः ।
असदव्यवहार्यत्वम् असद् इति व्यवहारणियत्वं विहितम् । कस्याञ्चित् सास्नादिमत्यां व्याप्तौ(व्य्क्तौ) व्यज्यते सामान्यम् अनयेति व्यक्तिः ।
प्राग् उक्तस् तावत् स्वभावः, अयं तु किंसंज्ञको हेतुर् इत्य् आह --- अयम् इति । प्राग् उक्तं स्मारयति पूर्वे ति । तु शब्दश् चशब्दस्यार्थे । ताव् एतौ हेतू धर्मिण्य् एकस्मिन् सामान्याख्ये । संशयं प्रकृतयोः साध्ययोर् इत्य् अर्थात् कथं संशयं जनयत इत्य् आह । एकस्यैव तौ विवक्षितसर्वगतत्वासर्वंगतत्वलक्षणौ स्वभावौ भविष्यत इत्य् आह --- न ही ति । हि र् यस्मात् । परस्परविरुद्धौ स्वभावौ यस्येति तथा ।
ननु चात्र विरुद्धाव् एव धर्माव् एकस्य सामान्यस्य द्वाभ्याम् एताभ्यां सिद्ध्येते इति । तत् किम् एतद् उच्यत इत्य् आह --- केने ति । चो यस्मादर्थे । एकेन तिप्राग् उक्तेन स्वभावेन । अपरेणे ति व्यक्त्यन्तराले सामान्यस्य सत्त्वम् असत्त्वं च एतौ हेतू का क्षतिर् इह --- इत्य् आह --- न चे ति । चो ऽवधारणे । सत्त्वम् असत्त्वं च द्वयोर् द्वाभ्यां साधने किम् अनुपन्नम् इत्य् आशङ्क्याह --- एकस्यापि । कालभेदे किन् नैवं सम्भावतीत्य् आशङ्क्याह --- एकदैवे ति । कस्याप्य् एकदैवाधिकरणभेदे ऽप्य् एतद् इत्य् आशङ्क्याह --- एकत्रे ति । कथम् अयुकतम् इत्य् आह --- तयो र् इति । तयोः सत्त्वासत्त्वयोः । विरोधात् परस्परपरिहारव्यवस्थितरूपत्वात् ।
कथं पुनर् आगमाश्रयानुमानाश्रयत्वं निरुद्धाव्यभिचारि[णी]त्य् आशङ्क्योपसंहारव्याजेन यथा ऽनयोस् तथात्वं तथा दर्शयन्न् आह --- तद् इति । यत एवं तत्तद्वदेकं सामान्यं कणदेन उक्तम्, तद्रूपविचारे तच्च्छिष्याभाम् एवं प्रक्रान्तं तत् तस्माद् आगम सिद्धस्यागमप्रतिपादितस्यानुपलम्भेनापि व्यक्तत्यन्तरालासत्त्वप्रतिपादनद्वारम्(द्वारा ऽ)सर्वगतत्वस्य साधनात् । सर्वगतत्वासर्वगतत्वयोः साध्ययोर् एताव् इत्य् आह । एवावन्तं (?) तथोक्तौ हेतू ।
विरुद्धाव्यभिचारित्वम् एवानयोर् उपदर्शन्न् आह --- यत इति । च कारः पूर्वापेक्षया समुच्चये ।
[ध्प्र् 233]
मूल पाठ: Dharmottarapradīpa subcommentary on Dharmottara's Nyāyabinduṭīkā on Dharmakīrti's Nyāyabindu · Edition: Dalsukhbai Malvania, Patna: Kashiprasad Jayaswal Research Institute 1971 (Tibetan Sanskrit Works, 2) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0