धर्मोत्तरप्रदीप · भाग 8196
चैकस्यैवकदैकत्र सत्त्व, असत्त्वं च[764] युक्तम्, तयोर् विरोधात् । [765]तदागमसिद्धस्य सामायस्य सर्वगतत्वासर्वगतत्वयोः साध्ययो एतौ विरुद्धाव्यभिचारिणौ जातौ । [766]यतः सामान्यस्यैकस्य युगपत् सर्वदेशावस्थितैर् अभिसम्बन्धित्वं चाभ्युपगतम्, दृश्यत्वं[767] च । ततः सर्वसम्बन्धित्वात् सर्वगतत्वम्, [768]दृश्यत्वाद् अन्तरालाद् अनुपलअम्भाद् असर्वगतत्वम् । ततः [769]शास्त्रकारेणैव विरुद्धव्याप्तत्वम् अपश्यता विरुद्धव्याप्तौ धर्माव् उक्त्वा[770] विरुद्धाव्यभिचार्यवकाशो दत्त इति । न च[771] वस्तुन्य् अस्य [772]सम्भवः । इत्य् उक्ता हेत्वाभासा ः ॥
__________नोतेस्__________
[764] वा
[765] तस्माद् आगम-
[766] अथ परस्परविरुद्धाव्यभिचारिहेतुदोषः कणादशिष्ययोर् एवायम्, कणाद स्येत्य् आह --- टि-
[767] -भिसम्बद्धत्वम्; -भिसम्बन्धत्वम्
[768] दृश्यत्वाद् अन्तरालानुपल-
[769] कणाद द्वारेण --- टि-
[770] धर्माव् उक्तौ । इह विरुद्धा-; धर्माव् उक्तौ विरु-
[771] च --- ओम्.
[772] -स्य हेतोः सम्भवः; विरुद्धान्यभिचारिणः --- टि-
ननु च साधनावयवत्वाद् यथा हेतव उक्तास् तत्प्रसङ्गेन [773]च हेत्वाभासाः, तथा भासाः, तथा साधनावयवत्वाद् दृष्टान्ता वक्तव्यास् तत्प्रसङ्गेन च दृष्टान्ताभासाः । तत् कथं नोक्ताइत्य् आह ---
__________नोतेस्__________
[773] च --- ओम्.
ततो ऽभ्युपगतात् सर्वसम्बन्धिनः सर्वसम्बन्धित्वात् । सर्वगतत्वम् अन्तरेण तदसम्भवाद् इति भावः । अनुपलम्भे ऽपि कथम् असर्वगतत्वं निश्चेतुं शक्यत इत्य् आह --- दृश्यत्वात् तत इत्य् अनुवर्त्तते ।
ननु चान्तराले ऽनुपलम्भाद् इति युज्यते वक्तुम् । तत् किम् उक्तम् अन्तरालाद् इति । सत्यम् एतत् । केवलम् अनुपलम्भाद् अनुपलम्भव्यवहाराद् इत्य् अर्थविवक्षितत्वाद् अदोषः । क्वचित् पुनर् अन्तरालानुपलम्भाद् इति पाठः । तत्र च यथायोगं समासः ।
ननु यद् शास्त्रात्मका ऽऽगमकारेणास्य परस्परविरुद्धस्वभावावहं किञ्चिद् द्वयम् उक्तं भवेत्, विरुद्धाव्यभिचार्यवकाशः । यावतेदम् एव नास्तीत्य् आशङ्कापनोदव्याजेनोपसंहरन्न् आह --- तत इति । [77ब्] यत एवं शास्त्रकारेणैवेदञ् चेदञ् चाभ्युपगतं ततस् तस्मात् शास्त्रकाएणैव प्रकरणात् कणादेन विरुद्धाव्यभिचारिणो ऽवकाशो दत्तः । किं कृत्वा तेन तदवकाशो दत्त इत्य् आह --- विरुद्धे ति । परस्परसाध्यविरुद्धत्वव्याप्तिधर्मौ प्रकरणाद् युगपत् सर्वसम्बन्धिसम्बन्धदृश्यत्वाख्या (ख्यौ) वक्तुर्(?)दृश्यत्वविषयस्यानुपलम्भस्य विरुद्धव्याप्तत्वाद् दृश्यत्वं विरुद्धव्याप्तत्वाद् दृश्यत्वं विरुद्धवाप्तम् इति तु द्रष्टव्यम् ।
कथं पुनस् तयोर् धरमयोः परस्परविरुद्धार्थव्याप्तत्वं विदुषा तेनैवम् उच्येत येन तदवकाशदानं तस्य कल्प्यत इत्य् आह --- विरुद्धव्याप्तत्वम् इति । परस्परविरुद्धसर्वगतत्वासर्वगतत्वलक्षणार्थव्याप्तत्वं तयोर् धर्मयोर् इत्य् अर्थात् । अपश्यता अनालोचयता भ्रान्त्या तावद् अभिधायेति यावत् । इति र् एवम् अर्थे । तेनायम् अर्थः --- एवम् उक्तेन प्रकारेण् ओक्ताः कथिता हेत्व् आभासाः , कुतश्चित् साम्याद् हेतुवद् आभासाः ॥
साम्प्रतं हेतौ तदाभासे च कथिते तुल्यन्यायतया ऽपरम् अपि स्वाभाससहितं किं नोतम् इति
[ध्प्र् 234]
त्रिरूपो[774]हेतुर् उक्तः । तावता[775]च अर्थप्रतीतिर् इति न पृथग् दृष्टान्तो नाम साधनावयवः कश्चिद् । तेन न अस्य लक्षणं पृथग् उच्यते गतार्थत्वात् इइइ-121
__________नोतेस्__________
[774] त्रिलक्षणो हेतु-
[775] तावतैवार्थ-; तावता वा (चा)र्थप्रतीतिसिद्धेर् इति
त्रिरूपो हेतुर् उक्तः , तत् किम् दृश्टान्तैः?
स्याद् एतत् --- तावता नार्थपतीतिर् इत्य् आह --- तावता [776]चे ति । उक्तलक्षणेनैव हेतुना भवति साध्यप्रतीतिः । अतः स एव गमकः । [777]ततस् तद्वचनम् एव साधनम् । न पृथग् दृष्टान्तो नाम साधनावयवः । यतश् चायं नावयवः, तेन न अस्य द्ष्टान्तस्य लक्षणं हेतुलक्षनात् पृथग् उच्यते ।
__________नोतेस्__________
[776] ततः
[777] ततः --- ओम्.
कथं तर्हि हेतोर् व्याप्तिनिश्चयो यद्य् अदृटान्तको हेतुर् इति चेत् । नोच्यते हेतुर् अदृशाटान्तक एव । अपि तु न हेतोः पृथग् दृष्टान्तो नाम हेत्वन्तर्भूत एव दृष्टान्तः । अत एवोक्तं न अस्य लक्षणं पृथग् उच्यते [778]इति । न त्व् एवम् उक्तम् --- नास्य लक्षणाम् उच्यत इति[779] ।
__________नोतेस्__________
[778] इति --- ओम्.
[779] इति --- ओम्.
चोदयन्न् आह --- ननु चे ति । अथ कथं साधनावयवत्वं हेतूनां येन साधनावयत्वाद् यथा हेतव उक्ता इत्य् उच्यते? तथा हि साध्यते निश्चीयते साध्यम् अनेनेति साधनम् । पक्षधर्मान्वयव्यतिरेकवल् लिङ्गम् उच्यते । तदाख्यानाद् एव च वाक्यम् अपि साधनम् उच्यते । न तु वाक्यात् साध्यसिद्ध्युपयोगितया हेतुर् अपि तद् एव तद् वचनम् अपीति । द्वेधा ऽपि तं समुदायम् अपेक्ष्यास्यावयवत्वं येनैवम् उच्यते इति । न । अभिप्रायापरिज्ञानात् । इहैवं पूर्वपक्षवादी मन्यते । परोक्षो ऽर्थो निश्चीयमानो हेतुदृष्टान्ताभ्यां निश्चीयते । न तु हेतुनैव । अदृष्टान्तकस्य हेतोः साध्यसाधनाशक्तेः । ततश् च हेतुदृष्टान्तसमुदायः साध्यस्य साधनम् । तत्र यथा समुदायापेक्षया हेतुरूपो ऽवयव उक्तस् तदाभासश् च तथा साधनावयवत्वाविशेषत्वाद् दृष्टान्तरूपो ऽपरो ऽयम् अवयवः सप्रतिपक्षः किन् नोक्त इति । एवञ् चोदयन्न् अयम् एव साधनावयवत्वाद्यभिधानम् इति । तत्प्रसङ्गेन तत्प्रस्तावेन ।
उक्तं पक्षधर्मान्वयव्यतिरेकात्मकं लक्षाणं यस्य तेन । एव कारेण दृष्टान्तस्य साक्षात् सिद्ध्युपयोगितां निर्सस्यति । यत एवम् अतो हेतोः, स इति हेतुः । नियमेन दृश्टान्तस्य गमकरूपविरहं द्रढयति । यतः साक्षात् सिद्धिर् उपजायते, स एव गमयति प्रत्यायति साध्यम् इति कृत्वा उच्यते, नान्य इति भावः । यस्माद् हेतोर् एव गमकत्वं ततस् तस्मात् तस्य हेतोस् त्रिरूपस्य वचनं साधनं साधनाभिधानं न दृष्टान्तस्येत्य् अर्थात् । तावता चार्थप्रतीतिर् इति मौलम् इति शब्दम् अपेक्ष्य न पृथग् दृष्टान्तो नाम साधनावयव इति मूलं व्याचष्टे न दृष्टात इति । अर्थरूपो द्ष्टान्तस् तद् वचनं वा, न साधनस्या र्थरूपस्य वचनस्य वा । नावयवो नैकदेशः । हेत्व् अन्तरर् भूतत्वं च व्याप्तिग्राहकप्रमाणाधिकरणतया हेताव् उपयोगात् । न तस्य स्वरूपेण [78अ]
[ध्प्र् 235]
यद्य् एवं हेतूपयोगिनो ऽपि लक्षणं वक्तव्यम् एवेत्य् आह --- गतार्थत्वात्--- गतो ऽर्थः प्रयोजनम् अभिधेयं वा यस्य दृष्टान्तलक्षणस्य । [780]तत् तथा । तस्य भावस् तत्त्वं । तस्मात् । दृष्टान्तलक्षाणं ह्य् अच्यते दृष्टान्तप्रतीतिर् यथा स्यात् । दृष्टान्तश् च हेतुलक्षणाद् एवावसितः । ततो दृष्टान्तलक्षणस्य यत् प्रयोजनम् --- दृष्टान्तप्रतीतिस् तद् गतं निष्पन्नम् । अभिधेयं वा गतं ज्ञातं[781] दृष्टान्ताख्यम् ॥
__________नोतेस्__________
[780] तत् --- ओम्.
[781] ज्ञानं; गतं दृष्टा-
कथं[782] गतार्थत्वम् इत्य् आह ---
__________नोतेस्__________
[782] गतार्थम्
हेतोः सपक्ष एव सत्त्वम् असपक्षाच् च सर्वतो व्यावृत्ती[783]रूपम् उक्तम् अभेदेन । पुनर् विशेषेण[784]कार्यस्वभावयोर् उक्तलक्षणयोर् जन्मतन्मात्रानुबन्धौ दर्शनीयाव् अक्तौ । तच् च दर्शयता, यत्र धूमस् तत्र अग्निः, असत्य् अग्नौ न क्वचिद् धूमो यथा महानसेतरयोः, यत्र कृतकत्वं तत्र अनित्यत्वम्, अनित्यत्वाभावो कृतकत्वासम्भवो[785]यथा घटाकाशयोः --- इति दर्शनीयम् । न ह्य् अन्यथा सपक्षविपक्षयोः सदसत्त्वे यथोक्तप्रकारे शक्ये दर्शयितुम् । तत् कार्यतानियमः[786]कार्यलिङ्गस्य स्वभावलिङ्गस्य[787]च स्वभावेन[788]व्याप्तिः । [789]अस्मिंश् च अर्थे दर्शिते दर्शित एव दृष्टान्तो भवति । एतावान् मात्ररूपत्वात् तस्य इति[790] इइइ-122
__________नोतेस्__________
[783] व्यावृत्तरूप-; व्यावृत्तौ रूप-
[784] -स्वभावयोर् जन्म-;
[785] सम्भवो ऽस्ति
[786] नियमं
[787] वा
[788] स्वभावव्याप्तिर् इति
[789] अस्मिन्न् अर्थे
[790] इति --- ओम्.
हेतोः [791]रूपम् उक्तम् अभेदेन सामान्येन । साधारणं कार्यस्वभावानुपलम्भानाम् एतल् लक्षणाम् इत्य् अर्थः । किं पुनस् तत्? सपक्ष एव [792] यत् सत्त्वम् , विपक्षाच् च सर्व स्मात् व्यावृत्तिर् या । रूपद्वयम् एतद् अभेदेनोक्तम् ।
__________नोतेस्__________
[791] रूपमभेदेनोक्तं सा-
[792] यत् --- ओम्.
न च सामान्यम् उक्तम् अपि शक्त्यं ज्ञातुम् । अतस् तद् एव विशेषनिष्ठं वक्तव्यम् । अतः पुनर् विशेषेण विशेषवन्तौ जन्मतन्मात्रानुबन्धौ दर्शनीयावक्तौ । कार्यस्य जन्म् ज्ञातव्यम् उक्तम् । जन्म्नि हि [793]ज्ञाते कार्यस्य सपक्षा एव सत्त्वं विपक्षाच् च सर्वस्माद् व्यावृत्तिर् ज्ञाता
__________नोतेस्__________
[793] विज्ञाते
हेताव् अन्तर्भावः, साक्षात् साध्यसिद्ध्युपयोगिताप्रसङ्गात् । न च सा ऽस्य सम्भविनीति । अनेकार्थत्वाद् वा हेतोर् (धातोर्) गतं निष्पन्नम् इति विवृतम् । गत्यर्थानां ज्ञानार्थत्वाद् अपि गतं ज्ञातम् इत्य् अपि चोक्तम् ॥
ननु च हेतुः सपक्षवृत्तिना विपक्ष(क्षा)वृत्तेनैव च रूपेण गमकः । तच् चेत् कथितं किं विशेषलक्षाणकथनेनेत्य् आह --- न चे ति । चो ऽवधारणे हेतौ वा । सामान्यं साधारणं प्रकरणाल्
[ध्प्र् 236]
भवति । स्वभाव स्य तन्मात्रानुबन्धो दर्शनीय उक्तः । तद् इति साधनम् । तद् एव तन्मात्र साधनमात्रम्[794] । तस्य्नुबन्धो ऽनुगम्गनम् --- साधनमात्रस्य[795] भावे भावः साध्यस्य । [796]तन्मात्रभावित्वम् एव हि साध्यस्य तादात्म्यम् । साधनस्य [797]यदा द्वभावो ज्ञातो भवति, तदा स्वभावहेतोः --- सपक्षा एव सत्त्वम्, विपक्षाच् च सर्वस्माद् व्यावृत्तिर् ज्ञाता भवति ।
__________नोतेस्__________
[794] मात्रस्यानु-; साधनमात्रम् । साधनमात्रस्यानुब-
[795] मात्रभावे
[796] अथ साधनधर्ममात्रानुबन्धः साध्यस्य तथापि तादात्म्यं न स्याद् इत्य् आह --- टि-
[797] यदा साधनस्य च स्व-
तद् एवं[798] सामान्यलक्षणम् विशेषात्मकं ज्ञात्व्यं नान्यथा । ततो विशेषलक्षणम् उक्तम् ।
__________नोतेस्__________
[798] तद् एव
किम् अतो[799] यदि नामैव[800] इत्य् आह --- तच् च[801] सामान्यलक्षाणं दर्शयितुकामेन विशेषलक्षणं दर्शयतै वम्[802] , दर्शनीयम् --- इति सम्बन्धः । यत्र धूमस् तत्र अग्निः इति कार्यहेतोव्याप्तिर् दर्शिता । व्याप्तिश् च कार्यकारणभावसाधनात्[803] प्रमाणान् निश्चीयते । ततो यथा महानस इति दर्शनीयम् ।
__________नोतेस्__________
[799] विशेषलक्षणात् --- टि-
[800] नामैव तद् इत्य् आह; प्राग् उक्तन्यायेन --- टि-
[801] तत्र
[802] -तैवं च दर्श-
[803] प्रत्यक्षानुपलम्भाभ्याम् --- टि-
लक्षणं न शक्यं ज्ञातुम् इति प्रवृत्त्युपयोगितया न शयम् इति मन्तव्यम् । न तु सामान्यलक्षणस्य वाक्यात् प्रतीतिर् न भवत्य् एव । विशेषवन्तौ च विशिष्टाव् इत्य् अर्थः । एतद् एव विभज्यमान आचार्ये(आह --- कार्यस्ये )त्यादि ।
ननूक्ते ऽप्य् अस्मिन् यदि सामान्यलक्षणप्रतीतिर् नास्ति किम् अनेनोक्तेनापीति । आह --- जन्मे ति । हि र् यस्मादर्थे । ननु स्वभावहेतौ साधनस्वभावता साध्यस्य दर्शयितुं युज्यते, तत् किं तन्मात्रानुबन्धो दर्शनीय उक्त इत्य् आह --- तन्मात्रे ति । हि र् यस्मात् । अथ तन्मात्रानुबन्धे दर्शिते ऽपि कथं सामान्यलषणप्रतिपत्तिर् इत्य् आह --- साधनस्ये ति । तद् एवम् इत्यादिनोपसंहारः ।
अनुपलब्धेश् चानयोर् एवान्तर्भावान् न पृथग् विशिष्टलक्षणाभिधानम् इत्य् अवसेयम् ।
अथ किं हेतोर् अन्वयव्यतिरेकाव् एव लक्षणं येनैतद् द्वयम् एव लक्षणातया स्मर्यते । न चैतत् पक्षधर्मताया अपि लक्षणत्वाद् अभिहितत्वाच् चेति चेत् । सत्यम् । केवलं न हेतोः सर्वरूपम् इह प्रक्रान्तम् । किन् तु यद् रूपप्रदर्शनेन दृष्टान्तप्रदर्शनं कृतं भवति तत्प्रकृतम् इति ।
यद्य् अप्य् एवं यदि नाम सामायविशेषलक्षणा ऽभिधानम् अतो ऽभिधानात् किं भवति? किमः क्षेपे प्रयोगात्, न किञ्चिद् भवतीत्य् अर्थः । यद् (तद्) इत्य् उत्तरम् । चो यस्माद् । व्याप्तिप्रदर्शने ऽपि कथं दृष्टान्ताख्यानम् अवतरतीत्य् आह --- व्याप्तिश् चे ति । हेत्व् अर्थश् च कारः । कार्यकारणभावसाधणात् प्रमाणान् निश्चीयतां व्याप्तिस्
तथापि दृष्टान्तः कथं प्रकृतो भवती त्य् आह --- तत इति । दृष्टान्तम् अन्तरेण तद् एव प्रमाणं न प्रवर्त्तेत । तद् अप्रवृत्तौ च सामान्यलक्षणम् एव न ज्ञायेतेति भावः ।
[ध्प्र् 237]
असत्य् अग्नौ न भवत्य् एव धूम इति व्यतिरेको दर्शितः । स च यथेतरस्मिन्न् इति दर्शनीयः । वह्निनिवृत्तिर् हि धूमनिवृत्तौ नियता दर्शणीया । सा च मानसाद् इतरत्रेति दर्शणीया ।
यत्र कृतकत्वं तत्र अनित्यत्वम् इति स्वभावहेतोर् व्याप्तिर् दर्शिता । अनित्यत्वाभावे न भवत्य् एव कृतकत्वम् इति व्यतिरेको दर्शितः । व्याप्तेश् च साधकं प्रमाणं [804]साधर्म्यदृष्टान्ते दर्शनीयम् । प्रसिद्धवाप्तिकस्य च हेतोः साध्यनिवृत्तौ निवृत्तिर् नियता[805] दर्शणीया । तद् अवश्यं यथा घटे , यथा आकाशे चेति दर्शणीयं ।
__________नोतेस्__________
[804] साधर्म्यम् दृ-
[805] निवृत्तिर् दर्शनीया
कस्माद् एवम् इत्य् आह --- न ही ति । यस्माद् अन्यथा सामान्यलक्षणरूपे सपक्षविपक्षयोः सदसत्त्वे यथोक्तप्रकारे इति नियते --- सपक्ष एव सत्त्वम्, विपक्षे ऽसत्त्वम् एवेति नियमो यथोक्तप्रकारः --- ते न शक्ये दर्श्यितुम् । विशेषलक्षणे हि दर्शिते यथोक्तप्रकारे[806] सदसत्त्वे दर्शिते भवतः । न च विशेषलषणम् अन्यथा शक्यं दर्शयितुम् ।
__________नोतेस्__________
[806] यथोक्तलक्षणे सद्-
तस्य साध्यस्य कार्यम् --- तत्कार्यं धूमः । तस्य भावस् तत्कार्यता सैव नियमो
अन्वयप्रदर्शनेन साधर्म्यदृष्टान्ताख्यानम् आख्याय व्यतिरेकोक्त्या ऽपि वैधर्म्यदृष्टान्तौ किं (दृष्टान्तोक्तिं) दर्शयितुम् आह --- असत्य् अग्नाव् इति । व्यतिरेकप्रदर्शणे ऽपि कथं दृष्टाता ऽऽपतनम् इति आशङ्क्याह --- स चे ति । चो यस्मादर्थे । इतरस्मिन्न् अग्निमत्प्रदेशाद् अन्यस्मिन् महाह्नदादौ । यत्र कयोश्चिद् व्याप्यव्यापकभावो दर्शयितव्यस् तत्रास् तु दृष्टान्तोपनिपातः, व्यतिरेकोपदर्शने किं तेनेत्य् आह --- वह्नी ति । ही ति यस्मात् । अत्रापि विध्योर् विपर्ययेण व्याप्यव्यापकभावो दर्शयितव्य इत्य् अर्थः । एतच् च व्यतिरेकाख्यानं दृष्टान्तोपदर्शनम् उद्दिष्टविषयं प्रयोगम् अधिकृत्योक्तम् इत्य् अधिगन्तव्यम् ।
यत्रे त्यादिना स्वभावहेतुम् अधिकृत्य दृष्टान्तस्य गतार्थत्वं दर्शयितुम् उपक्रमते । एवं प्रदर्शयतां व्याप्तिः, दृष्टान्तावतारकस् तु (-तरस् तु) कथम् इत्य् आह --- व्याप्तेश् चे ति । चो यस्मात् । प्रमाणाऽप्रदर्शने व्याप्तेर् असिद्धेः । तच् च प्रमाणम्, अन्तरेणाधिकरणं न प्रमाणम्, अन्तरेणाधिकरणं न सम्भवतीति भावः । यद्य् एवं व्यतिरेक [78ब्] प्रदर्शने कृटे दृष्टान्तेनेत्य् आह --- प्रसिद्धेति । दर्श्यताम् एव, तथापि दृष्टानोपनिपातः कथम् इत्य् आह --- तद् इति । यस्माद् एव दर्शनीयं तत् तस्मात् । सच् चासच् च सदसत्ती तयोर् भावस् ते प्रदर्शनक्रियापेक्षया च द्वितीयाद्विवचनान्तम् एतत् । यादृश उक्तो यथोक्तः प्रकारः स्वरूपं ययोस् ते तथोक्ते । अस्यैवार्थम् आह --- नियते इति । सपक्षासपक्षससत्त्वयोर् उक्तम् एव प्रकारं स्पष्टयन्न् आह --- सपक्ष इति । इति र् नियमस्याकारं दर्शयति । ते यथोक्तप्रकारे सदसत्त्वे । कथं ते न शक्ये दर्शयितुम् इत्य् आह --- विशेषे ति । हि र् यस्मादर्थे । दर्श्यतां तर्हि विशेषलक्षणम् । दृष्टान्तस्य तु किम् आयातम् इत्य् आह --- न चे ति । हि र् यस्मादर्थे । दर्श्यतां तर्हि विशेषलक्षणम् । दृष्टान्तस्य तु किम् अयातम् इत्य् आह --- न चे ति । चो यस्मादर्थे ऽवधारणे वा । यद् विशेषलक्षणं दृष्टान्तम् अन्तरेणाशक्यप्रदर्शनं तत् स्वरूपाख्यानम् । मूलं व्याख्यातुम् आह --- तस्ये त्यादि । विशेष-
[ध्प्र् 238]
यतस् तत्कार्यतया धूमो नियतः । सो ऽयं तत्कार्यतानियमो विशेषलक्षणरूपो ऽन्यथा दर्शयितुम् अशक्यः । स्वभावलिङ्गस्य च स्वभावेन साध्येन व्याप्तिर् विशेषलक्षणरूपा न शक्या दर्शयितुम् । यस्मात् कार्यकारणभास् तादात्म्यं च महानसे घटे च ज्ञातव्यम्, तस्माद् व्याप्तिसाधनं प्रमाणं दर्शयता [807]साधर्म्यदृष्टान्तो दर्शणियः । वैधर्म्यदृष्टान्तस् तु प्रसिद्धे तत्कार्यत्वे कारणाभावे कार्याभावप्रतिपत्त्य् अर्थम्[808] । तत एव नावश्यं वस्तु भवति । कारणाभावे कार्याभावो वस्तुन्य् अवस्तुनि वा भवति । ततो वस्त्व् अस्तु वा वैधर्म्यदृष्टान्त इष्यते ।
__________नोतेस्__________
[807] साध्यदृष्टा-
[808] -त्त्यर्थः
तस्माद् दृष्टान्तम् अन्तरेण[809] न हेतोर् ऽन्वयो व्यतिरेको वा[810] शक्यो दर्शयितुम् अतो हेतुरूपाख्यानाद् एव हेतोर् व्याप्तिसाधनस्य[811] प्रमाणस्य दर्शकः षाधर्म्यदृष्टान्तः ।
__________नोतेस्__________
[809] दृष्टानव्यतिरेकेण ःएतोर्
[810] वा न शक्यो
[811] -साधकस्य
प्रसिद्धव्याप्तिकस्य साध्याभावे [812]हेत्वभावप्रदर्शनाद् वैधर्म्यदृष्टान्त उपादेय इति च[813] दर्शितं भवति ।
__________नोतेस्__________
[812] -भावदर्श-
[813] `चऽ एवार्थे --- टि-
लक्षणास्य स्वरूपम् आख्यायाख्यान् यथाप्रदर्शनाशक्यत्वं दर्शयन्न् आह --- सो ऽयम् इति ।
वैधर्म्यदृष्टान्तस् तर्हि न प्रदर्शनीय इत्य् आह --- वैधर्म्ये ति । तु ः साधर्म्यदृष्टान्ताद् वैधर्म्यदृष्टान्तं भेदवन्तं दर्शयति । एतच् च यदा व्यतिरेकमुखेण प्रयोगः क्रियते, तत्कालाभिप्रायेणोच्यत इति द्रष्टव्यम् । न त्व् एकस्मिन् प्रयोगे द्वयोपन्यासः सम्भवी । एतच् च प्राग् एव निर्लोठितम् । यतः प्रसिद्धे तत्कार्यत्वे कारणाभावे कार्यभावप्रतिपत्त्यर्थं दर्शनीयो वैधर्म्यदृष्टान्तस् तत एव तस्माद् एव कारणात् । नावश्यं नियमे [न] वस्तु भवति । वस्त्व् अपि वैधर्म्यद्ष्टान्तो भवतीत्य् अर्थः । यदि हि कस्यचिद् विधिना कस्यचिद् विधिर् दर्शयितव्यः स्यात्, तदा गम(गगना)दिर् असन् कथं कस्यचिद् आधारः स्याद् इति, न सिध्यते तदुपदर्शनम् । यदा त्व् एकस्य व्याप्यस्याभावे अपरस्य व्यापकस्याभावो दर्शयितव्यस् तदा व्यापकस्या ऽभावे ऽवस्तुनि सुष्ठु सम्भवति । इतरथा ऽभावे ऽपि अस्य भावो विहितो भवेत् । सो ऽपि नेति चेत्, अयम् एवाभाव इत्य् अभिप्रायः । वैधर्म्यदृष्टान्तग्रहणं चैतद् एकधर्माभावेनापरधर्माभावोपदर्शनविषयोपलक्षणं द्रष्टव्यन् अन्यथा साधर्म्यदृष्टान्ते त्व् अवश्यं वस्तु स आश्रय इष्ट इति स्यात् । तथा च सति बह्वसमञ्जसं स्याद् इति । यतः कारणाभावात् कार्याभावो वस्तुन्य् अवस्तुनि च भवति ततः कारणाद् वस्तु महाह्रदादि । अवस्तु आकाशादि । वा शब्दस् तुल्यबलत्वं समुच्चिनोति ।
तस्माद् इत्यादिना प्रकृतम् उपसंहरति । वाप्तिसाधकप्रमाणाधिकरणत्वाद् दर्शयतीति दर्शकः । यद्य् एवं साध्यसाधकव्याप्तिप्रसाधकप्रमाणप्रदर्शकत्वात् साधर्म्यदृष्टान्त एवोपादेयो न वैधर्यदृष्टात इत्य् आह --- प्रसिद्धे ति । वैधर्म्यदृष्टान्त उपादेय इति योजयित्वा कुत उपादेय इत्य् आशङ्कायां प्रसिद्धे त्यादिहेतुपदं योज्यम् । साध्याभावे हेत्वभावप्रदर्शनात् । तत्रेति बुद्धिस्थम् । यद् वा प्रदर्श्यते ऽस्मिन्न् इति प्रदर्शयतीति वा प्रदर्शनो हेत्वभावस्य प्रदर्शन इति तथा । भावप्रधानत्वान् निर्देशस्य हत्वभावप्रदर्शनत्वाद् इत्य् अर्थः ।
[ध्प्र् 239]
अस्मिंश् चार्थे दर्शिते दर्शित एव दृष्टाआन्तो भवति । यो ऽयम् अर्थो व्याप्तिसाधनप्रमाणप्रदर्शनः[814] कश्चिद् उपादेयो निवृत्तिप्रदर्शनश्[815] च --- इत्य् अस्मिन्न् अर्थे [816]दर्शिते दर्शितो दृष्टान्त [817]इत्य् आह --- एतावन्मात्रं रूपं यस्य तस्य भावस् तत् त्व म्, तस्माद् इति । एतवावद् एव हि रूपं दृष्टान्तस्य, यद् उत व्याप्तिसाधनप्रमान्णप्रदर्शकत्वं[818] नाम साधर्म्यदृष्टान्तस्य, च[819] साध्यनिवृत्तौ साधननिवृत्तिप्रदर्शकत्वम् इत्य् [820]एतद्वैधर्म्यदृष्टान्तस्य । [821]एतच् च हेतुरूपाख्यानाद् एवाख्यातम् इति किं दृष्टान्तलक्षणेन?
__________नोतेस्__________
[814] प्रमाणदर्शिनः
[815] निवृत्तिपदर्शकश् च
[816] प्रदर्शिते
[817] दृष्टान्तः । कस्माद् इत्य् आह
[818] -प्रमाणदर्शनत्वं
[819] वा
[820] `वैधर्म्यदृष्टान्तस्य एतत्ऽ ओम्.; `वैधर्म्यदृष्टान्तस्यऽ ओम्.
[821] तत्; प्रग् उक्तव्यायेन --- टि-
एतेन एव दृष्टान्तदोषा अपि निरस्ता भवन्ति इइइ-123
एतेन एव च हेतुरूपाख्यानाद् दृष्टान्तत्वप्रदर्शनेन दृष्टान्तदोषा[822] कथिता [823] भवन्ति । तथाहि --- पूर्वोक्तसिद्धये य उपादीयमानो ऽपि[824] दृष्टान्तो न समर्थः स्वकार्यं साधयितुं स दृष्टान्तदोष इति साम्यर्थ्याद् उक्तं[825] भवति ॥
__________नोतेस्__________
[822] दृष्टान्तस्य दोषाः
[823] निरसनद्वारा कथिताः --- टि-
[824] ऽपि न समर्थः
[825] -अर्थ्याद् इत्य् एतद् उक्तं
अस्मिंश् चे त्यादि मूलम् अनूद्य व्याचष्टे यो ऽयम् इति । पूर्ववत्प्रदर्शनशब्दस्य व्युत्पत्तिः, समासश् च कर्त्तव्यः । प्रसिद्धायां व्याप्तौ साध्याभावे [79अ] हेतोर् निवृत्तिप्रदर्शः इत्य् अर्थो द्रष्टव्यः । एतावद् एवै तावन्मात्रम् । अन्यद् अप्य् अस्य रूपम् अस्तीत्य् आह --- एतावद् एवे ति । हि र् यस्माद् एतत् परिमाणम् अस्येति तथा । एव कारेणान्यस्य ताद्रूप्यनिरासो दृढीकृतः । किं तद् रूपम् इत्य् आह --- यद् उते ति । निपातसमुदायश् चायं यद् एतद् इत्य् अस्यार्थे ॥
येषु दृष्टान्तत्वेनोपात्तेषु स्वकार्यका(क)रणासामर्थ्ये दोषः सम्भवति ते कुतश्चित् सामान्याद् दृष्टान्तवदाभासमाना दृष्टान्ताभासा भवन्तीति अर्थं न्यायम् आश्रित्याह --- दृष्टान्तदोषा दृष्टान्ताभासाः कथिता भवन्ती ति । यस्मात् ते दृष्टान्ताभासत्वे[न] कतिता भवन्त्य् अत एव द्ष्टान्तत्वेन निरस्ता भवती त्य् अत एव मूलम् अर्थतो व्याख्यातम् इत्य् अवगन्तव्यम् । दृष्टान्ततत्त्वप्रदऋशनेन यथा दृष्टान्ताभासा(स)कथनं कृटं भवति तथा दर्शयितुं तथा ही त्यादिनोपक्रमते । पूर्वोक्त स्य जन्मतन्मात्रानुबन्धस्य सिद्धये निश्चिअयाय । स्वकार्य साधनसम्भवे साध्यप्रकर्शनसम्भवलक्षणम्, सिद्धव्याप्तिकस्य च हेतोः साध्याभावे साधननिवृत्तिप्रदर्शनलक्षणं च साधयितुं य उपादीयमानो ऽपि न समर्थः, स दृष्टान्तदोषो दुष्टो दृष्टान्तः, दृष्टान्ताभास इति यावत् । सामर्थ्यात् स्वकार्याकारणलक्षणात् ॥
[ध्प्र् 240]
दृष्टान्ताभासाम् (-भासान्) उदाहरति ---
यथा नित्यः शब्दो अमूर्तत्वात् । कर्मवत् परमाणुवद् घटवद् इति । एते दृष्टान्ताभासाः साध्यसाधनधर्मोभयविकलाः इइइ-124
यथा [826]नित्यः शब्दो इति [827]शब्दस्य नित्य्त्वे साध्ये ऽमूर्तत्वाद् इति हेतुः। साधर्म्येण कर्मवत् परमाणुवद् घटवद् इत् य् एते दृष्टाता उपान्यस्ताः । एते च दृष्टान्तदोषाः । साध्यं च साधनं च् ओभय चेति[828] । तैर् विकलाः । साध्यविकलं कर्म, तस्या ऽनित्यत्वात् । साधनविकलः प्ररमाणुः, मूर्त्त्त्वात् परमाणूनाम् । [829]असर्वगतद्रव्यपरिमाणं मूर्त्तिः । असर्वगताश् च द्रव्यरूपाश् च परमानवः । नित्यास् तु वैशेषिकैर् इष्यन्ते । ततो न साध्यविकलः[830] । घटास् तूभयविकलः, अनित्यत्वान्मूर्त्तत्वाच् च घटस्येति[831] ॥
__________नोतेस्__________
[826] यथेति नित्यः
[827] इति नित्यत्वे साध्ये शब्दस्यामूर्त-
[828] च । तैर् वि-
[829] असर्वगतं द्र-
[830] साध्यविकलाः
[831] घटस्य
तथा सन्दिग्धसाध्यधर्मादयश् च । यथा --- रागादिमान् अयं वचनाद् रथ्यापुरुषवत् । मरणधर्मो अयं पुरुषो रागादिमत्त्वाद् रथ्यापुरुषवत् । असर्वज्ञो अयं रागादिमत्वाद् रथ्यापुरुषवद् इति इइइ-125
तथा[832] सन्दिग्धः साध्यधर्मो यस्मिन् स सन्दिग्धसाध्यधर्मः । स आदिर् येषां ते तथोक्ताः । सन्दिग्धसाध्यधर्मः । सन्दिग्धसाध्यधर्मः सन्दिग्धोभयः[833] ।
__________नोतेस्__________
[832] तथेति
[833] -भयधर्मः
दृषान्ताभासान् इत्यादि परमाणूनाम् इत्य् एतद् अन्तं सुगमम् ।
कथं परमाणवः साधनविकला न साध्यविकला इत्य् आह --- असर्वे ति । परिमाणं मानव्यवहारकारणम् । तच् च गुणत्वाद् द्रव्याश्रयीति । द्रव्य ग्रहणेन वास्तवं रूपम् अनूदितम् । तत्र यदि द्रव्यपरिमाणं मूर्त्तिर् इत्य् एव तावद् उच्यते तदा ऽऽकाशादेर् अपि द्रव्यस्य परममहत्त्वनाम् अधेयं परिमाणम् अस्तीति मूर्त्तत्वं प्रसज्येत । अतस् तन्निवृत्त्यर्थं द्रव्ये विशेषणम् असर्वगत ग्रहणम् । तत्र परमाणोः परमाणं भवत्य् असर्वगतस्य द्रव्यस्येति दर्शयन्न् आह --- असर्वगताश् चे ति । समवायिकारणं द्रव्यं गुणवद् वेति द्रव्यलक्ष्णयोगाद् द्रव्यरूपः । च कारौ पूर्वापेक्षया एकविषयत्वम् अनयोः समुच्चिनुतः । तत् पुनः परमाणोः परिमाणं पारिमाण्डलसंज्ञकं ज्ञातव्यम् । इयता साधनवैकल्यं दर्शितम् ।
साध्यावैकल्यं दर्शयन्न् आह --- नित्यास् त्व् इति । तु नेनार्थम् आन्तरेण(?)विशिनष्टि । द्रव्यगुणकर्मसामान्यविशेषसमवायात्मकैः पदार्थविशेषैर् व्यवहरन्तीति वैशेषिकाः , रूढ(ढे)श् चाभ्युपगत कणादशास्त्रा एवोच्यते । अथ [वा] षट्पदार्थीप्रतिपादकतया विशिष्यते तद् अन्यस्माच् छास्त्राद् इति विशेषः काणादं शास्त्रं विवक्षितम् ।[834]"तद् विदन्त्य् अधीयते वा" इति वैशेषिकास् तैर् इष्यन्त इति वचनव्यक्त्या चेष्टिमात्रम् एतन् न पुनर् अत्र प्रमाणम् अस्तीति सूचयति ।
__________नोतेस्__________
[834] तुलना --- "तद् अधीते तद्वेद" पाणिनि 4,2,59.
[ध्प्र् 241]
उदाहरणम् --- रागादिमान् इति रागादिमत्त्वं साध्यम् । वचनाद् इति हेतुः । रथ्यापुरुषवत् इति दृष्टान्ते[835] । रागादिमत्त्वं सन्दिग्धम् । मरणं धर्मो ऽस्येति मरणधर्मा । तस्य भावो मरणधर्मत्वं साध्यम् । अयं पुरुष इति धर्मी । रादिमत्त्वाद् इति हेतुः । रथ्यापुरुषे दृष्टान्ते सन्दिग्धं साधनम् । साध्यं तु निश्चितं मरणधर्मत्वम् इति । असर्वज्ञो इति । असर्वज्ञो साध्यम् । रागादिमत्वाद् इति हेतुः । तदुभयम् अपि रथ्यापुरुषे दृष्टान्ते सन्दिग्धम् । असर्मज्ञत्वं रागादिमत्त्वं चेति ॥
__________नोतेस्__________
[835] दृष्टान्तः रागादि-
[836]तथा ऽनन्वयो अप्रदर्शितान्वयश् च । यथा यो उक्ता स रागादिमान्, इष्टपुरुषवत् । अनित्यः शब्दः कृतकत्वाद् घटवद् इति इइइ-126
__________नोतेस्__________
[836] तथा --- ओम्.
तथा ऽनन्वयो इति । यस्मिन् दृष्टान्ते दृष्टान्ते साध्यसाधनयोः सम्भवमात्रं दृश्यते, न तु साध्येन व्याप्तो हेतुः, सो ऽनन्वयः । अप्रदर्शितान्वयश् च --- यस्मिन् दृष्टान्ते विद्यमानो ऽप्य् अन्वयो न प्रदर्शितो वक्त्रा सो ऽप्रदर्शितान्वयः ।
अनन्वयम् उदाररति --- यथे ति । यो उक्ते ति वक्तृत्वम् अनूद्य स रागादिमान् इति रागादिमत्त्वं[837] विहितम् । ततो वक्तृत्वस्य रागादिमत्त्वं(वे) प्रतिनियमः । तेन व्याप्तिर् उक्ता । इष्टपुरुषवद् इति । इष्ट ग्रहणेन प्रतिवाद्य् अपि [838]संगृह्यते वाद्य् अपि । तेन वक्तृत्वरागादिमत्त्वयोः सत्त्वमात्रम् इष्टे पुरुषे सिद्धम् । व्याप्तिस् तु न सिद्धा । तेना ऽनन्वयो दृष्टान्त इति ।
__________नोतेस्__________
[837] -मत्त्वे विहितम्
[838] गृह्यते
अनित्यः शब्द इत्य् अनित्यत्वं साध्यम् । कृतकत्वाद् इति हेतुः । घटवद् इति[839] दृष्टान्ते न प्रदर्शितो ऽन्वयः ।
__________नोतेस्__________
[839] -इत्य् अत्र दृ-
तत इत्यादि मरणधर्मत्वम् इत्य् एतद् अन्तं सुज्ञानम् ।
ननु मरणधर्मत्वम् अप्य् अस्य कथं निश्चिंतं येन हेतुर् एव सन्दिग्ध उच्यते इति चेत् । सत्यम् । केवलं प्रसिद्धिसमाश्रयेणैवम् उक्तम् इत्य् अवसेयम् । अन्वीयमानत्वं साधनस्य साध्येनान्वयः । स च प्रतिबन्धसाधकप्रमाणाक्षेपात् प्रसिद्ध्यति । यत्र तु तन् नास्ति केवलं सम्भवमात्रं साहचर्यमात्रं दृश्यत इत्य् अभिप्रायः ॥
वक्तृत्वस्य हेतो रागादिमत्त्वे [79ब्] साध्ये प्रतिनियमः प्रतिनियतत्वम् उक्तम् इति शेषः । तेन साध्यनियतत्वेन व्याप्तिर् अनयोर् उक्ता प्रदर्शिता । एवंविधानुवादविध्युपकर्शने तथा प्रतीतेर् आहत्योदयाद् व्याप्तिर् उक्तेत्य् उक्तम् । न त्व् असाव् अनयोर् वाक्यतो ऽस्ति । यतो द्वयोर् अपि वादिप्रतिवादिनोर् दृष्टातत्वेन सङ्ग्रहः तेन हेतुना सत्त्वमात्रं सम्भवमात्रं साहचर्यमात्रम् इति यावत् । अस्ति चेष्टिः सहमात्रोपकर्शनम् अदोषावहम् इत्य् आह --- व्याप्तिस् त्व् इति । तु ः सत्त्वमात्राद् व्याप्तिं भिन्नत्ति । न सिद्धा न प्रमाणनिश्चिता । अनओर् व्यातिसाधकप्रमाणाभावाद् इति भावः ।
प्रदर्शितान्वयम् उदाहारन्न् आह --- अनित्य इति ।
[ध्प्र् 242]
इह यद्य् अपि कृटक्त्वेन घटसदृशः शब्दस् तथापि नानित्यत्वेनापि सदृशः प्रत्येतुं शक्यते[840] ऽतिप्रसङ्गात्[841] । यदि तु कृटकत्वम् [842]अनित्यस्वभावं [843]विज्ञातं भवत्य् [844]एवं कृतकत्वाद् अनित्यत्वप्रतीतिः स्यात् । तस्माद् यत् कृतकं तद् अनित्यम् इति कृतकत्वम् अनित्यत्वे[845] नियतम् अभिधाय नियमसाधनायान्वयवाक्यार्थप्रतिपत्तिविषयो दृष्टान्त उपादेयः । स च प्रदर्शितान्वय एव । अनेन त्व् अन्वयवाक्यम् अनुक्त्वैव दृष्टान्त उपात्तः । ईदृशश् च साधर्म्यमात्रेणैवोप्रयोगी । न च साधर्म्यात् साध्यसिद्धिः । अतो ऽन्वयार्थो दृष्टान्तस् तदर्थश् चानेन नोपात्तः । साधर्म्यार्थश् चोपात्तो निरुपयोग
__________नोतेस्__________
[840] शक्यो ऽति-
[841] पाक्यो ऽपि प्राप्तः --- टि-
[842] अनित्यत्व
[843] ज्ञातं
[844] -त्य् एव कृ
[845] -अनित्यत्वनियतम्
ननु घटोपदर्शनेन कृतकत्वेन ताद् घटसदृशः शब्दो दर्शितः । तथा चानित्यत्वेनापि सदृशो दर्शितस् ततश् च व्याप्तिर् दर्शितैवेत्य् आह --- इहे ति । इहानित्यत्वसिद्धिप्रस्तावे । कुतस् तथा प्रत्येतुम् अशक्य इत्य् आह --- अतिप्रसङ्गाद् इति । मूर्त्तत्वाद्(दे)र् अपि सादृश्यागम(सादृश्यावगमात्) प्रसक्तिर्(-क्तेर्) इष्टं धर्मम् अतिक्रियान्तः पर्सङ्गो ऽतिप्रसङ्गः तस्मात् । न तर्हि कृतकत्वाद् अनित्यत्वं कदाचिद् अपि प्रत्येतव्यम् इत्य् आह --- यदि त्व् इति । तु र् इमाम् अवस्थां विशेषवतीं दर्शयति । यदि कृतकत्वानुवादपूर्विका(-पूर्वक)विधानेनार्थान्तरत्वे सति न नित्यत्वस्वभावं कृतकत्वं प्रतीतं भवत्य् एवं तत्स्वाभाव्येन प्रतिपत्तौ कृतकत्वाद् अनित्यत्वप्रतीतिः स्यात् । यतः कृतकत्वस्यानित्यत्वस्वभावावगमात् ततस् तत्प्रतीतिर् नान्यथा तस्माद् हेतोः । अन्वयवाक्य स्य साध्यनियतत्वं साधनस्यार्थो ऽभिधेयः, तत्प्रतिपत्तिविषय स् तत्प्रदर्शन इत्य् अर्थः । अन्वयवाक्यार्थप्रतिपत्तिविषयो ऽपि दृष्टान्तो यद्य् अप्रदर्शितान्वयस् तदा सो ऽपि निरुपयोगः किम् इत्य् उपादेय इत्य् आह --- स चे ति । चो ऽवधारणे यस्मादर्थे वा । अनेन कथं नामायम् उपात्तो येनैवम् अभिधीयत इत्य् आह --- अनेने ति । अनेन्न वादिना । तु र् विशेषार्थः । अन्वयप्रतिपादकं वाक्यम् अन्वयवाक्यम् । तद् अनुक्त्वैव । अथैवम् उपात्तो ऽपि यद्य् उपयुज्यते तदा का क्षतिर् इत्य् आह --- ईदृशश् चे ति । च कारो ऽस्येमाम् अवस्थां भेदवतीम् आह । समानः प्रकरणाद् घटेन सदृशो धर्मो यस्यासौ सधर्मा । तस्य भावः साधर्म्यम् । तद् एव तन् मात्रम् । मात्र ग्रहणेन विशिष्टं साधर्म्यम् अपाकरोति । तेन् ऐव कारेण निराकृतनिरासम् एव द्रढयति । साधर्म्यप्रदर्शनमात्रेणैवायम् उपयोगवान् इत्य् अर्थः । अथैतत् पददर्शितात् साधर्म्याद् अपि यदि साध्यम् सिद्ध्यते तदा कथम् अयम् अनुपयुक्त इत्य् आह --- न चे ति । चो ऽवधारणे यस्मादर्थे वा ।
एवं ब्रुवतो ऽयं भावः --- अनेन खलु साधर्म्यं प्रदर्शनीयम् । कृतकत्वेनैव च साधर्म्यं प्रदर्श्यायञ् चरितार्थो भविष्यति । न च कृतकत्वेन घटसाधर्म्ये शब्दस्यावगते ऽप्य् अनित्यत्वेनापि तत्साधर्म्यावगमो ऽवश्यम्भावीति शक्यम् अभिधातुम् । मूर्त्तत्वादिनापि सादृश्यावगमे ऽस्यानिवार्यत्वप्रसङ्गाद् इति । यतः साधर्म्यमात्रान् न साध्यसिद्धिर् अतः कारणात् । अन्वयो ऽन्वीयमानत्वं साधनस्य साध्येन सो ऽर्थः प्रयोजनं [80अ] यस्य स तथा न साधर्म्यमात्रप्रदर्शनार्थ इत्य् अर्थात् । अनेनाप्य् अन्वयार्थ एवायम् उपात्त इत्य् आह --- तदर्थश् चे ति । चो यस्मादर्थे । सो ऽन्वयो ऽर्थो यस्य स तथा । अनेन वादिना । किम् अर्थस् तर्ह्य् अनेनायम् उपात्त इत्य् आह --- साधर्म्ये ति । चो यस्मादर्थे ।
[ध्प्र् 243]
इति वक्तृदोषाद् अयं दृष्टान्तदोषः । वक्त्रा ह्य् अत्र परः पतिपादयितव्यः । ततो यदि नाम न दुष्टं वस्तु तथापि वक्त्रा दुष्टं दर्शतम् इति दुष्तम् एव ॥
तथा विपरीतान्वयः --- यद् अनित्यं तत् कृतकम् इति इइइ-127
तथा विपरीतान्वयो यस्मिन् दृष्टाते स तथोक्तः । तम् एवोदारति --- यद् अनित्यं तत् कृतकम् इति । कृतकत्वम् अनित्यत्वनियतं दृष्टान्ते[846] दर्शनीयम् । एवं कृतकत्वाद् अनित्यत्वगतिः स्यात् । अत्र त्व् अनित्यत्वं कृतकत्वे[847] नियतं दर्शितम् । कृतकत्वं[848] त्व् अनियतम् एवानित्यत्वे ।[849] ततो यादृशम् इह कृतत्वम् अनियतम् अनित्यत्वे [850]दर्शितं तादृशान् नास्त्य् अनित्यत्वप्रतीतिः । तथा हि --- यद् अनित्यम् इत्य् अनित्यत्वम् अनूद्य तत् कृतकम् इति कृतकत्वम् विहितम् । अतो ऽनित्यत्वं नियतम् उक्तं कृतकत्वे, न तु कृतकत्वं अनित्यत्वे । ततो यथा ऽनित्यत्वाद् अनियतात् प्रयत्नानन्तरीयकत्वे न प्रयत्नान्तरीयकत्वप्रतीति, तद्वत् कृतक्त्वाद् अनित्यत्वप्रतिपत्तिर् न स्याद्, अनित्यत्वे ऽनियतत्वात् कृतकत्वस्य ।
__________नोतेस्__________
[846] दृष्टान्तेन
[847] -कत्वनियतं
[848] त्व् अनित्यतम् एवोक्तम् अनित्यत्वे
[849] अत्र `ततः कृतकत्वम् अनित्यत्वे नियतम् एवऽ इत्य् अधिकः पाठो ऽस्ति ।
[850] प्रदर्शितम्
साधर्म्यार्थः साधर्म्यप्रतिपादनप्रयोजन उपात्तस् तस्मान् निरुपयोगः स । तस्मादर्थे वा । अयं च शब्दात् परो द्रष्टव्यः । ननु कृतकत्वानित्यत्वयोस् तावद् वस्तुतो ऽन्वयो ऽस्त्य् एव । तत् कथं विद्यमाने ऽपि तस्मिन् तथा ऽप्रदर्शनमात्रेणासौ दृष्टान्तो दुष्यतीत्य् आह --- वक्तृदोषाद् इति । वक्ता ही त्यादिनैतद् एव समर्थयते । ननु वक्तैवासौ तथा प्रदर्शयन्न् अपराध्यतु, अन्यस्य दृष्टान्ततपस्विनः को ऽपराध इति चेत् । स्वकार्या ऽकरणम् एव दोषः । तदकरणं तस्य स्वत एव (एवाऽ)सामर्थ्याद्, अन्येनान्यथा प्रदर्शनाद् वा ऽस्तु । किम् एतावता तद् अकरणं तस्य नास्त्य् एवेति सूक्तं वक्तृदोषाद् अयम्ण् दृष्टान्तदोष इति ।
विपरीतो ऽन्वय इति वैपरीत्येन प्रदर्शनाद् विपरीत उक्तो न तु विपरीतो ऽन्वयो ऽस्त्य् एव । कीदृशो ऽविपरीतो ऽन्वयो यस्माद् अयं विपरीत इत्य् आह --- कृतकत्वम् इति । एवं प्रदर्शने को गुण इत्य् आह --- एवम् इति । एवं कृतकत्वस्यानित्यत्वे नियतत्वप्रदर्शने सति । अत्र पुनः कुत्र किं नियतम् इत्य् आह --- अत्रे ति । तु र् इमाम् अवस्थां विशेषवतीं दर्शयति । अनित्यत्वानुवादेन कृतक्त्वस्य विधानाद् विधीयमानस्य व्यापकतया नियमविषयत्वाद् इत्य् अभिसन्धिः कृतकत्वं पुनः कीदृशं दर्शितम् इत्य् आह ---[ कृतकत्वम् इति] । तु र् अनित्यत्वात् कृतकत्वं भिनत्ति । अनित्यत्वे नियताद् अपि कृतक्तवादि(-वाद)नित्यत्वं प्रतिपश्येत इत्य् आह --- तत इति । यत एवम् अनुवादविधिक्रमे कृतकत्वम् अनित्यत्वानियतं दर्शतं भवति, ततस् तस्माद् इह प्रयोगे । यादृशम् इति विधीयमानम् । पूर्वम् एवं वादिना ऽ नित्यत्वं कृतकत्वे नियतं दर्शितम्, न कृतकत्वम् नित्यत्वे चेति प्रतिज्ञामात्रेणोक्तम् अधुना तु येन प्रकारेण तस्यैव प्रदर्शनम् आयातं तथा ही त्यादिना तद् दर्शयति । अनित्यत्वं प्रयत्नानन्तरीयकत्वम्
[ध्प्र् 244]
यद्य् अपि च कृतकत्वं वस्तुस्थित्या ऽनित्यत्वे नियतं [851]तथाप्य् अनित्यतं वक्त्रा [852]दर्शितम् । अतः [853]स्वयम् अदुष्टम् अपि [854]वक्तृदोषाद् दुष्टम् ।
__________नोतेस्__________
[851] `तथाप्य् अनियतंऽ ओम्.
[852] प्रदर्शितम्
[853] अतस् तत् स्वयं न दुष्ट-
[854] वक्तुर् दोषात्
तस्माद् विपरीतान्वयो ऽपि वक्तुर् अपराधात्, न वस्तुत (न) । परार्थानुमाने च[855] वक्तुर् अपि [856]दोषश् चिन्त्यत इति ॥
__________नोतेस्__________
[855] च --- नास्ति
[856] न केवलं हेतोः --- टि-
साधर्म्येण दृष्टान्तदोषाः[857] इइइ-128
__________नोतेस्__________
[857] दृष्टान्तदोषाः --- ओम्.
साधर्म्येण[858] नव दृष्टान्तदोषाः ॥
__________नोतेस्__________
[858] -येन तद्दृ
वैधर्मेणापि[859] दृष्टान्तदोषान् [860]वक्तुम् आह ---
__________नोतेस्__________
[859] -पि नव दृ-
[860] वक्तुकाम आह
वैधर्म्येण अपि --- परमाणुवत् कर्मवत् आकाशवद् इति साध्याद्यव्यतिरेकिणः इइइ-129
नित्यत्वे शब्दस्य साध्ये हेताव् अमूत्तत्वे [861]परमाणुर् वैधर्म्यदृष्टान्तः साध्याव्यतिरेकी । नित्यत्वात् परमाणूनाम् । कर्म साधनाव्यतिरेकि, अमूर्त्तत्वात् कर्मणः आकाशम् उभयाव्यतिरेकि, नित्यत्वाद् अमूर्त्तत्वाच् च ।
__________नोतेस्__________
[861] परमाणुवद् वध-{वैध-}; परमाणुर् वैधर्येण
अन्तरेणाचिरप्रभादौ दृश्यमानम् अनित्यतं तत्र । तत्र यथा ऽनित्यत्वात् प्रयत्नानन्तरीयकत्वाप्रतीतिस् तद्वत् कृतकत्वाद् अप्य् अनित्य[त्व]नित्यत्वप्रतीतिर् भवितुम् अर्हति ।
ननु भवतु अनित्यत्वात् प्रयत्नानन्तरीयकत्वाप्रतीतिर् वस्तुतस् तस्य तत्रानियतत्वात् कृतकत्वं तु परमार्थतो नियतम् नित्यत्वे । तत् कुतस् तस्मात् तस्याप्रतीतिर् इत्य् आह --- यद्य् अपी त्यादि । एवं ब्रुवतो ऽयं भावः --- वस्तुतश् छेदनस्वभावो ऽपि परशुर् यदाच्छेदकेन भ्रान्त्या ऽन्यथा वा उद्वर्त्त्य बाहुम् उद्यम्य द्वैधीभावार्थं धवादौ निपात्यते, तदा तेन स्वयम् अदुष्टेनापि यथा छिदा न सम्पाद्यते, तद्वद् अनेनापि परोक्षार्थप्रतीतिर् न सम्पाद्यते, स्वयम् अदुष्टेनापीति ।
यस्माद् एवं तस्माद् [80ब्] हेतोर् वक्तुर् अनुमापयितुर् अपराधाद् दोषाद् विपरीतान्वयो ऽपि दृष्टान्तदोष इति दोषः । न केवलम् अप्रदार्शितान्वय इत्य् आह --- परार्थे ति । न केवलं साधनस्य दोषश् चिन्त्यत इत्य् अपि शब्दात् ॥
यतो ऽल्पीयो नास्ति स परमाणुः वैधर्म्यप्रतिपाद [न] विषयोपात्तत्वान् वैधर्म्यदृष्टान्त उक्तः । साध्यस्याव्यतिरेको निवृत्त्यभावः सो ऽस्यास्तीति तथोक्तः
[ध्प्र् 245]
साध्यम् आदिर् येषाम् तानि साध्यादीनि साध्यसाधनोभयानि । तेषाम् अव्यतिरेको[862] निवृत्त्यभावः । स येषाम् अस्ति ते साध्याद्यव्यतिरेकिणः । ते चोदाहृताः ॥
__________नोतेस्__________
[862] -रेको वृत्त्य-; रेको निवृत्ता (त्त्य) भावः
अपरानुदाहर्त्तुम् आह ---
तथा सन्दिग्धसाध्यव्यतिरेकादयः, यथा असर्वज्ञाः कपिला दयो अनाप्ता वा अविद्यमानसर्वज्ञताप्ततालिङ्गभूतप्रमाणातिशयशासनत्वाद् इति । अत्र[863]वैधर्म्योदाहरणम् --- यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकम् उपदिष्टवान्,[864]यथा ---[865] ऋषभवर्धमाना दिर् इति । [866]तत्रासर्वज्ञतानाप्तयोः साध्यधर्मयोः सन्दिग्धो व्यतिरेकः इइइ-130
__________नोतेस्__________
[863] वैधर्म्येणोदा-
[864] तद् यथा
[865] वृषभा
[866] इति वैधर्म्योदाहरणाद् असर्व-
तथे ति । साध्यस्य व्यतिरेकः साध्यवतिरेकः । संदिग्धः साध्यव्यतिरेको यस्मिन् स संदिग्धसाध्यव्यतिरेकः । स आदिर् येषां ते तथोक्ताः ।
संदिग्धसाध्यव्यतिरेकम् उदाहर्त्तुम् आह --- यथे ति । असर्वज्ञा इत्य् एअक्ं साध्यम् । अनाप्ता अक्षीणदोषा इति द्वितीयम् । कपिला दय इति धर्मी । अविद्यमानसर्वज्ञते त्यादि हेतुः । सर्म्वज्ञाता च आप्तता च तयोर् लिङ्गभूतः प्रमाणातिशयो लिङ्गात्मकः प्रमाणविशेषः । अविद्यमानः सर्वज्ञाताप्ततालिङ्गभूतः प्रमाणातिशो यस्मिन् तत् तथोक्तं शासनम् । तादृशं शासनम् येषां ते[867] तथोक्ताः । तेषां भावस् तत्त्वम् । तस्मात् । प्रमाणातिशयो ज्योतिर्ज्ञानोपदेश इहाभिप्रेतः । यदि हि कपिला दयः सर्वज्ञा आप्तो वा स्युस् तदा ज्योतिर्ज्ञानादिकम् कमान् नोपदिष्टव्न्तः? न चोपदिष्टवन्तः । तस्मान् न सर्वज्ञा आप्ता वा ।
__________नोतेस्__________
[867] कपिलादयः --- टि-
अत्र प्रंआणे वैधर्म्योदाहरणम् । यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकं सर्वज्ञताप्तता लिङ्गभूतम् उअपदिष्टवान् । यथा ऋषभो वर्धमानश् च ताव् आदी यस्य स ऋषभवर्धमाना दिर् दिगम्बराणां
प्रकरणात् क्षीणदोषत्वम् आप्तत्वक्षणमस्य विवक्षितम् इति तत् वा अनाप्ता अक्षीणदोषा इति व्याचष्टे । कपिलः सांख्य दर्शनकारो मुनिः । आदि शब्दो गौतमा देः सङ्ग्रहः । शासनं मार्गस् तत्प्रणीतशास्त्रम् इति यावत् ।
ननु तेषाम् अपि शासने लिङ्गात्मकः प्रमाणातिशयो ऽनेको ऽस्त्य् एव । तत् कथं हेतुर् अयम् असिद्धो न भवतीत्य् आह --- प्रमाणातिशय इति । ज्योतिषां ग्रहनक्षत्राणां ज्ञानं तस्य् ओपदेशः । ज्योतिर्ज्ञानस्योपलक्षणत्वाज् ज्योतिर्ज्ञानाद्युपदेश इत्य् अवगन्तव्यम् । तद् अयं समुदायार्थः --- यस्मात् तैर् ज्योतिर्ज्ञानम् अन्यातीन्द्रियज्ञानं च स्वशासने नोपदिष्टं तस्मात् ते न तथारूपा इति । यदि ही त्यादिनैतद् एव दर्शयति
[ध्प्र् 246]
शास्ता[868] सर्वज्ञश्[869] च आप्तश् चेति । तद् इह वैधर्म्योदाहरणाद् ऋशभादेर् असर्वज्ञत्वस्यानाप्ततायाश् च व्यतिरेको व्यावृत्तिः संदिग्धा । यतो ज्योतिर्ज्ञानं चोपदैशेद् असर्वज्ञाश् च भवेद् अनाप्ता वा । को ऽत्र विरोधः? नैमत्तिकम् एतज् ज्ञानं व्यभ्दिचारि न सर्वज्ञत्वम् अनुमापयेत् ॥
__________नोतेस्__________
[868] शास्ता साध्ययतिरेकः सर्व-
[869] च --- ओम्.
आदिशब्देनान्यातीन्द्रियज्ञानं संगृह्यते । ऋषभवर्धमान नाम् अधेयावह्नीकाणाम् इष्टदेवौ । आदि शब्देन पार्श्वनाथारिष्टनेमि प्रभृतेः सङ्ग्रहः । शास्ता स्वदृष्टम् अन्योपदेष्टा । सर्वज्ञश् चाप्तश् चे त्य् अनेन द्वयस्यापि साध्यस्याभावं दर्शयति । यद् आह --- अकलङ्कः --- " यदि सूक्ष्मे व्यवहिते वा वस्तुनि बुद्धिर् अत्यन्तपरोक्षे न स्यात् कथं तर्हि ज्योतिर्ज्ञानाविसंवादः? ज्योतिर्ज्ञानम् अपि हि सर्वज्ञप्रवर्त्तितम् एव, एतस्माद् अविसंवादिनो ज्योतिर्ज्ञानात्सर्वज्ञसिद्धिः । तद् उक्तम् ---
धीर् अत्यन्तपरोक्षे ऽर्थे न चेत् पुंसां कुत पुनः ।
ज्योतिर्ज्ञानाविसंवादः श्रुतत्वाच् चेत् साधनान्तरम् ॥" [सिद्धिवि- पृ-413] इति ।
कथं पुनः सत्य् अपि ज्योतिर्ज्ञानाद्य् उअपदेशे विपक्षाद् ऋषभादेर् असर्वज्ञत्वादेर् व्यावृत्तिः सन्दिग्धेत्य् आह --- यत इति । अत्र सर्वज्ञतायाम् अनिष्टायां सत्याम् अपि ज्योतिर्ज्ञानाय् उअप्देशे को विरोधो ऽनुपपत्तिः? क्षेपे किमः प्रयोगान् न कश्द्चिद् इत्य् अर्थः ।
अथासर्वज्ञत्वे तस्यैतस्माद् इदं ग्रहोपरागादि भावि ततश् चैवं भावीति ज्ञानं कथं वृत्तं येन सम्वादि तथोपदिशेत् । तस्मात् सर्वज्ञ एवासाव् इति निश्चय इत्य् आशङ्क्याह --- नैमित्तकम् एतद् इति । एतज् ज्योतिर्जानादिकं निमित्तात् परम्परया कारणाद् । विषयेण च विषयिणो निर्देशान्निमित्तदर्शनाद् आगतं नैमित्तकम्, अत एव तद् उपदेष्टुः सरज्ञता व्यभिचरतीति । तथा सर्वज्ञताम् अन्तरेणापि भवतीदानीन्तनज्योतिषिकाणाम् इवाऽतीन्द्रियोपरागादिज्ञानम् इत्य् अभिप्रायः । तथाभूतं ज्ञानं न सर्वज्ञताम् अनुमापयेद् अनुमापयितुं शक्नोति ।
ननु च तथाभूतेन भाविवस्तुना सह कस्यचित् कार्यकारणभाव एव तेन कश्चिद् ज्ञातः । यद्य् [81अ] असाव् असर्वज्ञो भवेद् असर्वज्ञश् च कथम् उपदिशेद् इति चेत् । न । एतद् अन्यतो ऽपि ज्ञात्वा तदुपदेश्डसम्भवात् । तस्यान्यतस् तथाविधात् । न चादिमान् संसारः । येन स एवाद्यस् तथा ज्ञानी सर्वज्ञः, स चास्माकम् ऋषभादिर् इत्य् अप्य् उच्येत । अथ वा --- यद्य् असौ असर्वज्ञस् तदा तस्य तथाभूतस्य साध्यसाधनभावस्याविदुष उपदेशाद् अस्माद् आदीनाम् अतीन्द्रियोपरागादिज्ञानं संवादि च कथं भवेद् इत्य् आशङ्क्य् आह --- नैमित्तकम् इति ।
अयम् अर्थः --- कारणदर्शनस्वभावकार्यज्ञानम् एतत्, एतच् च भाविवस्तुव्यतिर्केण भवेद् अपि, नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायात् । एतच् च व्यभिचारि ज्ञानम् उपदिश्यमानं नोपदेष्टुः सर्वज्ञताम् अनुमापयितुं कल्प्यते ।
अथ तद् एव तस्य तथा भूतस्य कारणवस्तुनस् तत् तद् भाविवस्तु प्रतिकारणात्वं कथं जानीयात् कथं चोपदिशेद् यद्य् असाव् असर्वज्ञ इति चेत् । अन्यतस् तद् धि ज्ञात्वा ज्ञातं(-नं) चोपदेशश् च तस्योपपद्यते ।
[ध्प्र् 247]
सन्दिग्धसाधनव्यतिरेको यथा, न त्रयीविदा ब्राह्मणेन ग्राह्यवचनः कश्चिद्[870]विवक्षितः पुरुषो रागादिमत्त्वाद् इति । अत्र वैधर्म्योदाहरणम् --- ये ग्राह्यवचना न ते रागादिमन्तः । तद् यथा[871] गौतमा दयो धर्मशास्त्राणां[872]प्रणेतार इति । गौतमा दिभ्यो रागादिमत्त्वस्य साधनधर्मस्य व्यावृत्तिः सन्दिग्धा इइइ-131
__________नोतेस्__________
[870] कश्चित् पुरुषो
[871] गोतमा
[872] धर्मशास्त्रप्रणे-
सन्दिग्धसाधनव्यतिरेको यस्मिन् स तथोक्तः । तम् उदारति --- यथे ति । ऋक्सामयजूंषि त्रिणि त्रयी ताम् वेतीति[873] त्रयीविद् । तेन न ग्राहं वचनं यस्येति साध्यम् । विवक्षित इति कपिलादिर् धर्मी । रागादिमत्त्वाद् इति हेतु ।
__________नोतेस्__________
[873] वेत्ति त्रयी-
अत्र प्रमाणे वैधर्म्योदाहरणम् --- साधयाभावः साधनाभावेन [874]यत्र व्याप्तो दर्श्यते तद् वैधर्मोदाहरणम् । ग्राह्यं वचनं येषां ते ग्राह्यवचना इति साध्यनिवृत्तिम् अनूद्य न ते रागादिमन्त इति साधनाभावो विहितः । गौतमा दयो आदिर् येषां ते तथोक्ता मन्वादयो धर्मशास्त्राणि स्मृतयस् तेषां कर्त्तारः त्रयीविदा हि ब्राह्म्यणेन ग्राह्यवचना धर्मशास्त्रकृतो वीतरागाश् च त इतीह [875]धर्मी व्यतिरेकविषयो गोतमा दय इति । गौतमादि भ्यो रागादिमत्त्वस्य साधनस्य निवृत्तिः सन्दिग्धा । यद्य् अपि ते ग्राह्यवचनास् त्रयीविदस् तथापि [876]किं सरागा उत वीतरागा इति सन्देहः ॥
__________नोतेस्__________
[874] -भावेन व्याप्तो यत्र दर्श्यते
[875] इतीह धर्मिव्य-; इति धर्मी; इति धर्मिव्य-
[876] विदा तथापि
सन्दिग्धोभयव्यतिरेको यथा --- अवीतरागाः कपिला दयः, परिग्रहाग्रहयोगाद् इति । अत्र वैधर्म्येण उदाहरणम् --- यो वीतरागो न तस्य परिग्रहाग्रहः ।
तस्याप्य् अन्यस्माद् । अनादिश् च संसार इति कथम् एतावन्मात्रेण वर्धमानाहेः सर्वज्ञत्वसिद्धिर् इति ॥
त्रयो ऽवयवा यस्याः संहतेर् इति त्रयी त्य् अदन्तात् ङीप् । किम् अत्र साध्या [भावा]नुवादेन साधना भाओ विहितो येनैतद् वैधर्म्योदाहरणं भवतीत्य् आशङ्क्याह --- साध्ये ति । गौतमो ऽक्षपादा परनामा न्यायसूत्र स्यापि प्रणेता मुनिः । मुनिर् इति स्मृतिकारो मुनिः । आदि शब्दाद् विश्वरूपयाज्ञवल्क्यसंवृत्ता देः सङ्ग्रहः । इतिस् तस्मात् । धर्मित्वमात्रजिज्ञापिषया धर्मिव्यतिरेकविषय इति अभिधाय तस्येइव विशेषनिष्ठ्प्रतिपादनेच्छया गौतमा दय इत्य् उक्तम् । इन्द्रियमनस्कार[ज]म् एतद् राजा(म् एतज् ज्ञा)नम् इत्य् आदिवत् तस्माद् वैधर्मी दृष्टान्तो गौतमा दिर् इति वाक्यार्थः । तथात्वं च तेषां तथात्वेनोपादानान्न तु परमार्थत इत्य् अवसेयम् । ग्राह्यवचनत्वे ऽपि तेषां कथं ताद्रूप्यसन्देह इत्य् आह --- यद्य् अपी ति । उते ति पक्षान्तरम् उद्द्द्योतयति ॥
[ध्प्र् 248]
यथा ऋषभादेर् इति[877]। ऋषभादेर् अवीतरागत्वपरिग्रहाग्रहयोगयोः साध्यसाधनधर्मयोः सन्दिग्धो व्यतिरेकः इइइ-132
__________नोतेस्__________
[877] भादेः । ऋष-
सन्दिग्धौभयव्यतिरेको यस्मिन् स तथोक्तः । तम् उदाहरति यथे ति । अवीतरागा इति रागादिमत्त्वं साध्यम् । कपिला दय इति धर्मी । परिग्रहो लभ्यमानस्य स्वीकारः प्रथमः । स्वीकाराद् ऊर्ध्वं यद् गार्ध्यं मात्सर्यं स आग्रहः । परिग्रहश् च आग्रहश् च ताभ्यां योगात् । कपिलाद यो लभ्यमानं स्वीक्र्वन्ति स्वीकृतं न मुञ्चन्ति --- इति ते रागादिमन्तो गम्यन्ते । अत्र प्रमाणे वैधर्म्योदाहरणम् --- यत्र साध्याभावे साधनाभाओ दर्शयितव्यः । यो वीतराग इति साध्याभावम् अनूद्य, न तस्य परिग्रहाग्रहाव् इति साधनाभाओ विहितः । यथा ऋषभादेर् इति दृष्टान्तः । एतस्माद् ऋषभादेर् दृष्टान्ताद् अवीतरागत्व स्य साध्यस्य परिग्रहाग्रहयोगस्य[878] च साधनस्य [879]निवृत्तिः सन्दिग्धा । ऋषभा दीनां हि परिग्रहाग्रहयोगो ऽपि सन्दिघो वीतरागत्वं च । यदि नाम तत्सिद्धान्ते वीतरागाश् च निष्परिग्रहाश् च [880]पठ्यन्ते तथापि सन्देह एव ॥
__________नोतेस्__________
[878] योगत्वस्य
[879] व्यावृत्तिः
[880] परिपठ्यन्ते
अप्रान् अपि [881]त्रीन् उदाहर्त्तुम् आह ---
__________नोतेस्__________
[881] अपराण्य् अपि त्रीण्य् उदा-
अव्यतिरेको यथा, अवीतरागो ऽयं[882]वक्तृत्वात् । [883]वैधर्म्येण उदाहरणम् ---[884]यत्र अवीतरागत्वं न अस्ति[885]न स वक्ता, यथा उपलखण्ड इति । यद्य् अप्य् उपलखण्डाद् उभयं व्यावृत्तं[886]तथा अपि सर्वो वीतरागो न वक्ता इति व्याप्त्या व्यतिरेकासिद्धेर् अव्यतिरेकः इइइ-133
__________नोतेस्__________
[882] -रागो वक्तृ
[883] वैधर्म्योदाहरणम्; -त्वात् । यत्रावी-
[884] यत्र वीत-
[885] नास्ति स वक्ता; नास्ति स न वक्ता
[886] व्यावृत्तया सर्वो; व्यावृत्तं यो सर्वो; -वृत्तं तथा सर्वो-
उभयश(उभश)ब्दस्य द्विवचनान्तस्य प्रयोगदर्शनादुभयोर् इत्य् उभशब्देनार्थम् आह । लब्धम् इदं वस्तु मत्तो ऽन्यत्र नरामदि (मागादि)ति तु विशेषो ऽत्र मात्सर्यम् अभिप्रेत आग्रहः । न मुञ्चति(न्ति) नन्य्स्मै ददति । अनेनैव रूपेण वैधर्म्योदाहरणं भवति । नान्यथेति द्रढयितुम् उक्तम् अपि स्मारयन्न् आह --- यत्रे ति । ऋषभावीनाम् इत्य् अनेन वैधर्म्योदाहरणाद् ऋषभावेः साध्यसाधनयोर् व्यावृत्तिसन्देहं दर्शयति ।
नन्वस्मदागमे तद्गुणद्वययोगिनस् ते कथितास् तत्कथम् अन्योस् ततो व्यावृत्तिः सग्ध्यत इत्य् आह --- यदि नामे ति । पठ्यत इति च वचनव्यक्त्या च पाठमात्रेण तेषां तद्गुणयोगः सिद्धः न तु प्रमाणेनेति दर्शयति । अत एवाह --- तथापी ति ॥
त्रीन् इति दृष्टान्तदोषान् ।
[ध्प्र् 249]
अविद्यमानो व्यतिरेको यस्मिन् सो अव्यतिरेकः । अवीतराग इति रागादिमत्त्वं साध्यम् । वक्तृत्वाद् इति हेतुः । इह व्यतिरेकम् आह --- यत्र अवीतरागत्वं नास्ती ति साध्याभावानुवादः । तत्र वकृत्वम् अपि नास्ति --- इति साधनआभावविधिः । तेन साधनाभावेन साध्यभावो व्याप्त उक्तः । [887]दृष्टान्तो यथा उपलखण्ड [888] इति ।
__________नोतेस्__________
[887] अत्र दृष्टा-
[888] -खण्डेति-
कथम् अयम् अव्यतिरेको यावतोपलखण्डादुभयं[889] निवृत्तम्? किम् अतः? [890] यद्य् अप्य् उपलखण्डाद् उभयं व्यावृत्तं सरागत्वं च वक्तृत्वं च[891], तथा अपि व्याप्त्या[892] व्यतिरेको यस् तस्या असिद्धेः कारणाद् अव्यतिरेको अयम् ।
__________नोतेस्__________
[889] -भयम् अपि नि-
[890] यद्य् उपल-
[891] यत्र वीतरागत्वं तत्र वक्तृत्वं नास्ति --- टि-
[892] व्याप्तो व्य-
कीदृशी पुनर् व्याप्तिर् इत्य् आह --- सर्वो वीतराग इति साध्याभावानुआदः । नव्क्ते ति साधनाभावविधिः । तेन साध्याभावः [893]साधनाभावनियतः [894]ख्यापितो भवतीति[895] । इदृशी व्यातिः । तया व्यतिरेको न सिद्धः ।अस्य चार्थस्य र्पसिद्धये दृष्टान्तः । तत् स्वकार्या ऽकरणाद् दुष्टः ॥
__________नोतेस्__________
[893] साधनाभावे नि-; साधनाभावो नि-
[894] स्थापितो
[895] भवति । ई-
अप्रदर्शितव्यतिरेको यथा, अनित्यः शब्दः, कृतकत्वाद् आकाशवद् इति वैधर्म्येण[896] इइइ-134
__________नोतेस्__________
[896] वैधर्म्येण --- ओम्.; वैधर्म्येणापि; न मूलत्वेनापि तु टीकास्थं गृहीतं
येनआयम् अनुवादनिधिक्रमस् तेन हेतुना । यावते ति तृतीयान्तप्रतिरूपको यस्माद् इत्य् अस्याथे वर्त्तमानो ऽत्र गृहीतः । [81ब्] उपलखङ्डाच् छिलाशकलात् । उभयं साध्यसाधनम् । किम् अत इति सिद्धान्ती । अत उभयनिवृत्ते किं भवति? न किञ्चिद् इत्य् अर्थः । ननूपलखण्डात्तावद् वैध्र्मीदृष्टान्तान्तादुभयं निवृत्तं दर्शितं येन तत् किम् एवम् उच्यत इत्य् आह --- यद्य् अपी ति । व्याप्त्या सर्वरागित्वजन्यतास्वीकारेण । तस्य व्याप्तिम् अतो व्यतिरेकस्याऽसिद्धेर् अनिश्चयात् । कीदृशी ति सामान्यतः पृच्छति । पुनर् इति विशेषतः । इतिर् अनन्तरोक्तं शब्दं परामृशति । तेनानेन शब्देनेत्य् अर्थः । न वक्तव्येत्य् अत्रापीति पूर्ववत् । येनैवम् अनुवादविधिक्रमस् तेन । इत्र् ईदृश्या व्याप्तेः स्वरूपं प्रकाशयति यस्माद् अर्थे वा । तत् प्रतीत्य्थंभूतलक्षणतयेयं तृतीया, साधनाष्भावेन साध्याभावन्यायेन लक्षणा व्याप्तिर् ईकृशीत्य् अर्थः । ईदृशं व्यात्पिम् अन्तं व्यतिरेकं प्रसाधयितुम् असर्मर्तो ऽयं कथम् अयं दृश्टानो त्रेष्ट इत्य् आह --- अस्य चे ति । अस्य साधनाह्बावे साध्या ऽभावनियतलक्षणस्य् आर्थस्य । चो यस्माद् अर्थे ऽवधारणे वा । प्रसिद्धये निश्चयार्थं दृष्टान्त उपादीयत इति शेषः, प्रकरणालभ्यं वा, न चायं तथाप्रदर्शन्ब इत्य् अमुम् अर्थं प्रकरणगम्यं कृत्वा । तत् तस्मात् स्वकार्यकरणाद् दुष्ट इत्य् उक्तम् । यद् वा भवत्व् अस्यार्थस्य प्रसिद्धये
[ध्प्र् 250]
अप्रदर्शितो व्यतिरेको यस्मिन् स तथोक्तः । अनित्यः शब्दः इत्य् अनित्यत्वं साध्यम् । कृतकत्वाद् इति हेतुः । आकाशवद् इति वैधर्म्येण दृष्टान्तः ।
इह परार्थानुमाने परस्मादर्थः प्रतिपत्तव्यः । स शुद्धो ऽपि स्वतो यदि परेणाशुद्धः ख्याप्यते स ताव् अद्यथा प्रकाशितस् तथा न युक्तः । यथा युक्तस् तथा न प्रकाशितः । प्रकाशितश् च हेतुः । अतो वतुर् अप्राधाद् अपि पराथानुमाने हेतुर् दृष्टान्तो वा दुष्टः स्याद् अपि । न च सादृश्यावसादृश्याद् वा साध्यप्रतिपत्तिः, अपि तु साध्यनियताद् धेतोः । अतः साध्यनियतो हेतुरन्वयवाक्येन व्यतिरेकवाक्येन वा [897]वक्तव्यः । अन्यथा गमको नोक्तः स्यात् । स तथोक्तो दृष्टान्तेन[898]
__________नोतेस्__________
[897] च वक्त-
[898] दृष्टान्तेनासिद्धो
दृष्टान्तस् तथाप्य् अयं कथं दुष्ट इत्य् आह --- तत् स्वकार्ये ति । तच् च तत्स्वकार्यं च । साधनाभावे साध्याभावनियतख्यापनलक्षणं चेत् । तथा तस्य् आकारणाद् असम्पादनाद् दुष्ट इति ॥
अथ परमार्थतस् तावद् दृष्टान्ते नह्बसि साध्याभावो ऽप्य् अस्ति, साधनाभावश् च । तत्कथम् अप्रदर्शितव्यतिरेको दृष्टान्त् दुष्ट् इत्य् आह --- इहे ति । परस्मात् साधनवादिनः । अर्थो हेतुलक्षणः । प्रकरणात् साध्याभावे साधनाभावलक्षणश् च । स स्वतः शुद्धो वस्तुवृत्त्या परिशुद्धः । तथात्वेन विद्यामानन इति यावत् । न केवलम् अशुद्धः --- इत्य् अपि शब्दात् । परेण साधनप्रयोक्त्रा । यथा प्रकाशितो व्यतिरेकमात्रवान् प्रकाशितो व्याप्तिशून्यश् च प्रकाशितः । तथा न युक्तो नोपयुक्तः साध्यसिद्धौ । यदि हि साध्याभावानुआदेन साध्या (धन) भावो विधीयते दृष्टान्ते प्रदर्श्येतैवम् असौ हेतुः साध्यसिद्ध्यङ्गव्य्तिरेकवान् सिद्ध्येत् । एवम् एव चा ऽसौ व्यातिमद्व्यतिरेकः प्रसिद्ध्येत् । तत्र्पदर्शनश् च दृष्टान्तो ऽदुष्टो भवेद् इत्य् अभिप्रायः ।
यदि नाम तथा न प्रकाशितस् तथापि तदुपयोगी हेतुर् दृष्टान्तो वा तथा किं न प्रतिपद्यत इत्य् आह --- प्रकाशितश् चे ति । चो यस्मादर्थे । हेतुर् इत्य् उपलक्षणम् । तेन दृष्टान्तो ऽपि द्रष्टव्यः । अ(य)त एवम् अतो अस्माद् हेतोः । न केवलं वचोव्यवस्थिताद् दोषाद् इत्य् अपि शब्देनाह । यद्य् अपि दृष्टान्त एव प्रकृतस् तथापि हेतुर् अप्य् एवंविधः स्वतो ऽदुष्टो ऽपि वक्तृदोषाद् एव दुष्यतीति तुल्यन्ब्यायतया प्रसङ्गन दर्शितम् । यद् वा यथैवंविद्धो हेतुर् वक्तृदोषाद् दुष्टो भवति तद्वद् दृष्टान्तो ऽपीति दृष्टान्तार्थं हेतोः वक्त्रपराधेना(न) दुष्टत्वख्यापनं कृतम् इति सर्वम् अवदातम् ।
[82] ननु च यथा कृतकत्वेनाकाशविधर्मा शब्दः प्रतीयते तथा ऽनित्यत्वेनापि तद्विधर्मा भविष्यति तत् कथम् अनुपयुक्त इत्य् आह --- न चे ति । चो ऽवधारणे हेतौ वा । एवंवदतो ऽयम् आशयः --- यद्य् एकेन धर्मेण वैधर्म्य(म्ये) प्रतीते ऽपरेणापि तद्वैधम्यर्पतीतिर् अवश्यम्भाविनी, तदा मूर्त्तत्वेनापि शब्दस्य तद्वैधर्म्यप्रतीतिः प्रसज्येतेति । तुल्यन्यायतया ऽन्वयवाक्यम् अभिकृत्य सादृश्याद् इत्य् उक्तम् । सादृश्याद् असादृश्याद् वेति साधर्म्यवैधर्म्यदृष्टान्तप्रतिपादिताद् इति प्रकारणात् ।
व्यतिरेकवाक्येनापि साधनाभावेनापि नियमख्यापनद्वारा साध्य एव हेतोर् नियतत्वख्यापनाद् व्यतिरेकवायेन चे त्य् उक्तम् ।
[ध्प्र् 251]
सिद्धो दर्शयितव्यः । तस्माद् दृष्टान्तो नामान्वयव्यतिरेकवाक्यार्थप्रदर्शनः[899] । न चेह व्यतिरेकवाक्यं प्रयुक्तम् । अतो वैधर्म्यदृष्टान्त इहासादृश्यमात्रेण[900] साधक उपन्यस् तः । न च तथा साधकः । व्यतिरेकविषयत्वेन स साधकः । च न तथोपन्यस् त इति[901] अयम् अप्रदर्शितव्यतिरेको वक्तुर् अप्राधाद् दृटः ॥
__________नोतेस्__________
[899] प्रदर्शनार्थे ।
[900] सादृश्यभावेन साध-
[901] इति । अतो ऽप्र-; इति । अप्र-
विपरीतव्यतिरेको[902]यथा --- यद् अकृतकं तन् नित्यं भवति इति इइइ-135
__________नोतेस्__________
[902] यथा --- ओम्.
[903]विपरीतो व्यतिरेको यस्मिन् वैधर्म्यदृष्टाआन्ते स तथोक्तः । तम् उदाहरति ---[904] यथा यद्
__________नोतेस्__________
[903] `विपरीतोऽ इत्य् आरभ्य `तम् उदाहरतिऽ पर्यन्तः पाठो दुर्वेकसमीपस्थैकस्मिन्न् आदर्शे नासीद् इति व्याख्यानुरोधात् ज्ञायते --- सं-
[904] यथा --- ओम्.
अन्वयवाक्ये साधनम् अनूद्य साध्यं विधातवयम् । व्यतिरेकवाक्ये च साध्याभावम् अनूद्य साधनाभावो विधातव्यः । तथैव हेतोः साध्यनियतत्वाभिधानाद् इत्य् अस्यार्थः ।
कस्माद् असौ वाक्यद्वयेनाप्य् एव वक्तव्य इत्य् आह --- अन्यथे ति । अस्माद् अन्येन प्रकारेण गमकः परोक्षार्थप्रकाशको नोक्तः स्यात् ।
कामम् असाव् एवम् उच्यताम् । दृश्टान्तस् तु कथम् अत्रादिक्रियत इत्य् आह --- स इति । स हेतुस् तथोक्तः साध्यनियत उक्तः । दृष्टान्तेन साधर्म्यवता वैधर्म्यवता च करणेन सिद्धो निश्चितो दर्शयितव्यः ।
नन्व् एवम् अपि न ज्ञायते किंव्यापारो दृष्टान्त इहोपयुज्यते इत्य् आशङ्क्योपसंहारव्याहेनाह --- तस्माद् इति । नाम शब्दः प्रसिद्धाव् इह । अन्वयव्यतिरेकवाक्य योर् अर्था(अर्थो ऽ)भिधेयः --- उक्तेन प्रकारेण हेतोः साध्यनियतत्वम् --- प्रदर्श्यः । तं प्रसर्शयतीति तथा । यद् वा प्रदर्श्यते ऽनेनेति प्रदर्श्यते ऽस्मिन्न् इति प्रदर्शनः । तस्य प्रदर्शन इति विग्रहः ।
यद्य् एवम् अयम् अपि वैधर्यदृष्टान्तान्तस् तथाकार्येवात्रोपयोज्यत इत्य् आह --- न चे ति । चो यस्मादर्थे । इह प्रयोगे । व्यतिरेक ख्यापकं साएध्याभ् आवानुवादेन सा धनाभावविधायकम् वाक्यम् इत्य् अर्थः । अतस् तथाभूतवाक्यप्रयोगाद वैधर्म्यदृष्टान्त आकाशः । इहा नित्यत्वसाधनप्रयोगे साध्यधर्मिणो ऽसादृश्यं केवलं यत्तन् मात्रेण तन्मात्रप्रदर्शनेन, विषयेण विषयिणो निर्देशात् । साधको निश्चायको हेतोः साध्यनियतत्वस्येति प्रकरणात् ।
यदि तन्मात्रेणापि साधकस् तदा का क्षतिर् इत्य् आह --- न चे ति । तथे ति असादृश्यमात्रेण । वाद्य् उक्तेन धर्मेण साध्यधर्मिणो ऽसादृश्यावगमे धर्मान्तरेणाप्य् असादृश्यावगमो ऽवश्यम्भावीति युज्यते ऽतिप्रसङ्गाद् इत्य् अभिप्रायः ।
[ध्प्र् 252]
अकृतकम् इत्यादि । [905]इहान्वयव्यतिरेकाभाव्यां साध्यनियतो हेतुर् दर्शयितव्यः । यदा च साध्यनियतो हेतुर् दर्शयितव्यस् तदा व्यत्रिरेकवाक्ये साध्याभावः साधनाभावे नियतो दर्शयितव्यः । एवं हि हेतुः साध्यनियतो दर्शितः स्यात् । यदि तु साध्याभावः साधनाभावे नियतो नाख्यायते साधानसत्त्यायाम् अपि साध्याभावः सम्भाव्येत[906] । तह्था च साधननं साध्यनियतं न प्रतीयेत[907] । तस्मात् साध्याभावः साधनआभावे नियतो वतव्यः विपरीतव्यतिरेके च साधनाभावः साध्याभावे नियत उच्यते । न साध्याभाष्वः साधनाभावे । तथा हि --- यद् अकृतकम् इति साधनाभावम् अनूद्य तन् नित्यं भवती ति साध्यभावविधिः ।
__________नोतेस्__________
[905] व्यतिरेकवाक्याभ्यां
[906] सम्भाव्यते
[907] प्रतीयते
ततो ऽयम् अर्थः --- अकृटको नित्य एव । तथा च सति अकृतकत्वं नित्यत्वे साध्याभावे नियत्वं साधनाभावे । ततो न साध्यनियतं हेतुं व्य्तिरेकवाद्क्यमाह । तथा च निपरीतव्यतिरेको ऽपि वक्तुर् अपराधाद् दुष्टः ॥
यद्य् एवम् असाधकः कथं नाम साधक इत्य् आह --- व्यतिरेके ति । व्यतिरेकविषयत्वेने ति व्यतिरेकप्रतिपत्तिविषयत्वेन । चो यस्मादर्थे, व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे वा । अनेनापि तथैवोपन्यस् त इत्य् आह --- न चे ति । चो ऽवधारणे । व्यतिरेकवाक्यम् अनुक्त्वैव तस्योपादानाद् इत्य् अभिप्रायः । इति स् तमादर्थे एव अर्थेअ वा ॥
विपरीतव्यतिरेकं व्याचक्षाण आह --- यदा चे ति । विपरीतान्वयशब्दस्य [82ब्] व्यत्पत्तौ दर्शितायां विपरीतव्यतिरेकशब्दस्wयापि --- विपरीतो वैपरीत्य् एन प्रदर्शनाद् व्यतिरेको यस्मिन् दृशान्ते स तथोक्त इति --- व्युत्पत्तिर् दर्शिता भवत्य् एवेति चाभिप्रायेण नोक्ता । तम् उदाहरती ति सुज्ञानत्वान्नोक्तम् इति प्रतिपत्तव्यम् । यत्र तु पुस्तके विपरीतव्यतिरेको यथे त्य् अस्य मूलस्य व्याखानग्रन्थो ऽस्ति तत्र सर्वम् अवदातम् । अस्तीयं गतिर् अस्माभिर् दर्शिता ।
ननु किं नाम व्यतिरेकवाक्येन दर्शनीयम्? यद् वैपरीत्येन दर्शनादयं विपरीतव्यतिरेक उच्यत इत्य् आह --- यदा चे ति । चो ऽवधारणे । साध्यनियत इत्य् अस्मात् परः र्पतिपत्तव्यः । यदा यस्मिन् काले र्पतिपादनकाल इत्य् अर्थात् । कालान्तरे तथाप्रदर्शनानुपपत्तेः । हेतोः साध्ये नियतत्वप्रदरञ्चावश्यकार्यमन्यथा गमको नोक्तञ् स्याद् इत्य् अभिप्रायः । तदा तस्मिन् काले । साध्याभावानुवादेन साधनाभावो ऽभिधातव्य इत्य् अस्यार्थः । कस्मात् पुनर् एवं दर्शयितव्य इत्य् आह --- एवं ही ति । ही ति यस्मात् । एवं साध्याभावस्य साधनाभावे नियतत्वप्रदर्शनप्रकारे सति ।
अथान्यथाप्रदर्शने ऽपि यदि साधनं साध्यनियतं प्रतीयते तदा तथाप्रदर्शनेनैव किं प्रयोजनम् इत्य् आह --- यदि त्व् इति । तुस् तथा ऽनाख्यानावस्थां भेदवतीं दर्शयति । तथा च साधनसत्तायाम् अपि साध्याभावस्म्भावनाप्रकारे सति । यस्माद् एवं तस्माद् इत्य् उपसंहारः । असिमिन् र्पयोगे किं मानोच्यत इत्य् आह --- विपरीते ति । तुशब्दार्ह्तश् च कारः । तथा ही त्यादिनैतद् एव प्रतिपादयति यत एवम् अनुवादविधिस् अततः । तथा चा कृतकस्य नित्यवोक्तिप्रकारे सति ।
[ध्प्र् 253]
दृष्टान्तदोषानुदाहृत्य दुष्टत्वनिबन्धनत्वं दर्शयितुम् आह ---
न ह्य् एभिर् दृष्टान्ताभासाइर् हेतोः सामान्यलक्षणं सपक्ष एव सत्त्वं विपक्षे च सर्वत्र असत्त्वम् एव निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा । तद् अर्थापत्त्या एषां निरासो[908]द्रष्टव्यः इइइ-136
__________नोतेस्__________
[908] निरासो वेदितव्यः
न ह्य् एभिर् इति । साध्यनिअतहेतुप्रदर्शनाय हि दृष्टान्ता वक्तव्याः । एभिश् च हेतोः सपक्ष एव सत्त्वं विपक्षे च सर्वत्र असत्त्वम् एव यत् सामान्यलक्षणं तत् निश्चयेन शक्यं दर्शयितुम् ।
ननु च सामान्यलक्षणं विशेषनिष्ठम् एव प्रतिपत्तव्यं न सवत एवेत्य् आह --- विशेषलक्षणं वा । यदि विशेषलक्षणं प्रतिपादयितुं शक्येत स्याद् एव सामान्यलक्षणप्रतिपत्तिः । विशेषलक्षणम् एव तु न शक्यएम् एभिः प्रपादयितुम् । तस्माद् अर्थापत्त्या सामर्थ्येन[909] एषां निराक्रणं दृष्टयम् । साध्यनियतआधनप्रतीतये[910] उपात्ताः । तदसमर्था दुष्टाः, [911]स्वकार्याकरणाद् इति [912]असामर्थ्यम् । इयता साधनम् उक्तम् ॥
__________नोतेस्__________
[909] सामर्थ्येनेति न तेषां; सामर्थ्येनेति तेषां; सामर्थ्येन तेषां
[910] प्रतिपत्तये उपा
[911] स्वकार्यकरणात्
[912] इति सामर्थ्यम् ।
अकृततत्वं कृतकत्वस्य साधनस्याभावः । नित्यतेवे ऽनित्यत्वलक्षणासाध्याभावे । न नित्यत्वं साध्याभावलक्षणं साधनाभावे कृतकत्वलक्षणसाधनाभावे ऽकृतकत्व इत्य् अर्थात् । यत एवं ततो तेहोर् व्यतिरेकवाक्यं कर्त्तृ हेतुं कर्मभूतं न साध्यनियतम् आह । उक्तया नीत्या साधनाभाब्वः साध्याभावे निय्तत्वात्तम् अन्तरेण न भवेत् । न तु तयत्र साध्याभावस् तत्रावश्यं साह्दनाभाव इति साध्यम् अन्तरेणापि साधनं भवेत् । ततश् च साध्यानियतं साधनम् इत्य् अभिप्रायः । तथा च साध्यनियतहेत्वप्रदर्शनप्रकारे सति वक्तुर् एवंवाक्यप्रयोक्तुः ॥
निश्चयेआवश् यन्तया । विशेषनिष्ठम् एव प्रयेतव्यम् इति ब्रुवतो ऽयं भावः --- यदि नामाभीभिः सपक्ष एव सत्त्वं निपक्षे सर्चत्रासत्त्वं निशयेन शक्यते दर्शयितुम्, तथाप्य् एते विशेषलक्षणं सानान्यलक्षणप्रतिपत्त्यङ्गं प्रतिपादयन्त उपयोक्ष्यन्त इति । अत्र विशेषलक्षणश् चे त्य् उत्तरं यदीत्य् आकारणात् । अर्थापत्त्ये त्य् अस्य व्याख्यानम् सामर्थ्येन सामान्यविशेषलक्षणाप्रतिपादनलक्षणन । एषां दृष्टाताभासानां निराकरणं दृष्टातरूपत्वेनेत्य् अर्थात् ।
कथम् अमी दुष्टा येन तथात्वेन निराक्रणम् एषाम् इत्याशङ्क्योपसंहरन् आह --- साध्ये ति । तदसमर्थास् तदप्र(तत्प्र)तीतिकारणाश्ताः । असामर्थ्यम् एव कथं येनासामर्थ्याद् [82अ] दुष्टा उच्यन्त इत्य् आह --- स्वकार्य स्य हेतोः साध्यनियतत्वप्रदर्शनलक्षणस्य् आकरणात् । ननु तदकरणम् एवासामर्थ्यम् उतम् इति चेत् । सत्यम् । केवलम् असामर्थ्यववहारापेक्षयैवम् उतम् इत्य् अवसेयम् । इति स् तस्मादर्थे, एवमर्थे वा । असामर्थ्यमेषाम् इत्य् अर्थात् । साध्याद् इविकस्यानन्वयाप्रदर्शितान्ययादेर्
[ध्प्र् 254]
दूषणं वतुम् आह ---
दूषणा[913]न्यूनताद्युक्तिः इइइ-137
__________नोतेस्__________
[913] न्यूनतायुक्तिः; दूषणानि न्यू-
[914]दूषणा का द्रष्टव्या? न्यूनतादी नाम् उक्तं । उच्यते ऽनयेत्य् उक्तिर् वचनम् न्यूनतादेर्[915] वचनम् ॥
__________नोतेस्__________
[914] दूषणानि कानि द्रष्टव्यानि
[915] न्यूनतादिर् वचनम्; न्यूनतादिवचनम्
दूषाणं विवरीतुम् आह ---
ये पूर्वं न्यूनतादयः साधनदोषा उक्तास् तेषाम् उद्भावनं दूषणम् । तेन परैष्टार्थसिद्धिप्रतिबन्धात् इइइ-138
ये पूर्वं न्यूनताआदयः असिद्धविरुद्धानैकान्तिका उक्तास् तेषाम् उद्भाव कं यद्वचनं तद् दूषणम् ।
ननु च न्यूनतादयो न विपर्ययसाधन्बाः । तत् कथं दूषणम् इत्य् आह --- तेन न्यूनतादिवचनेन परे षाम् इष्टार्थश् च तस्य सिद्धिः निश्चयस् तस्याः प्रतिबन्धात् । नावश्यं निपर्यय साधनाद् एव दूषणं विरुद्धअत् । अपि तु परस्याभिप्रेतनिश्चयविबन्धान्[916] निश्चयाभावो भवति निश्चयविपर्यय इत्य् अस्त्य् एव[917] विपर्ययसिद्धिर् इति । [918]उक्ता [919]दूषणा ॥
__________नोतेस्__________
[916] -निश्चयनिबन्ध-; निश्चयप्रतिबन्ध-
[917] इत्य् अस्ति विप-
[918] उक्तं दूषणम्
[919] दूषणा --- ओम्.
अपि दृष्टान्ताभासस्यासाधनाङ्गवचनाद् वादिनो निग्रहो आदिनो निग्रहो ऽसामर्थ्योपादानान्न्यायप्रातः । परोपात्ताश् च चोदनीया इति दृष्टान्ताभासव्युपादने वार्त्तिककृतो ऽभिप्रायः प्रत्यव्य इति ।
सम्प्रति सुधग्रहणार्थम् उकप्रबन्धस्याचार्यीयस्य प्रत्पादितमवच्छिन्दन्नाह --- इयते ति त्रिरूपलिङ्गाख्यानम् इत्य् आदिनैतद्न्तेन, इदं परिमाणम् अस्ये तीत्यत् तेने यता महावाक्येन साधनम् उक्तम् आचार्येणेति शेषः । प्रसङ्गागतस्यानेकस्यापि तद् अभिधानम् अतिवृत्तम्, तद् अपि तस्यैव स्फुटावगमार्थं तत्वैवोपयुक्तम् अति मन्यमानेनोक्तम् इयता साधनम् उक्तम् इति ।
इति भूतदूषणोद्भावना दूषणा । दुषेणिजन्ताद् युचंकृत्वा टाप्कर्त्तव्यः । एतच् च तद् दूषणम् इत्य् अन्तं सुबोधम् ।
विपरीतसाधनस्यैव दूषणत्वात्कथं न्यूनताद्य् उक्ति(क्तेर्)दूषणत्वम् इत्य् अभिप्रेत्याह --- ननु चे ति । अत्र तेने त्याद्य् उत्तरं व्याचक्षाण आह --- तेने त्यादि ।
[ध्प्र् 255]
दूषणाभासास् तु जातयः इइइ-139
दूषणाभासा इति [920]दूषणवदाभासन्त इति दूषणाभासाः । के ते? जातयः [921]इति । जातिशभ्दः सादृश्यवचनः । उत्तरसदृशानि जात्य् उत्तराणि[922] । उअत्तरस्थानप्रयुक्तत्वाद् उअत्तरसदृशानि जात्य् उत्तराणि ॥
__________नोतेस्__________
[920] दूषणावत्
[921] इति --- ओम्.
[922] राणीति
तद् एवोत्तरसादृश्यम् उत्तरस्थानप्रयुक्त्वेन दर्शयितुम् आह ---
[923]अभूतदोषौद्भावनानि जात्युत्तराणि इति इइइ-140
__________नोतेस्__________
[923] अनुभूत
॥ [924]तृतीयपरिच्छेदः समाप्तः ॥
__________नोतेस्__________
[924] दृतीयपरिछेदः समाप्तः --- ओम्.
॥ न्यायबुदिन्दु ः समाप्तः ॥ लघु धर्मोत्तर सूत्रं समाप्तम् इति ॥
ननूक्तं विपरीतसाधनं दूषणम् । तत्कथं परेष्तार्थसिद्धप्रतिबन्धकस्यापि न्यूनतादिवचनस्य तथात्वम् उच्यत इत्य् आशङ्कामपाकुर्वन्नाह --- नावश्यअम् इति । किन् त्व् अपरस्य सिसाधयिषितार्थ निश्चयविबधाद् अप्य् अत्रार्थाद् द्रष्टव्यम् । अन्यथा ऽवश्यं ग्रहणमवधारणं विरुद्धवद् इत्य् अपि दुर्योजं स्यात् । मृत्वा शीर्त्वा च तद्योजने वक्तुर् अकौशलं स्याद् इति ।
यदि त्व् अवश्यं विपर्ययसाधनत्वस्यैव दूषणत्वम् इति निर्वन्धस् तदा तद् अप्य् अस्य न्यूनतादिवचनस्यास्तीति दर्शयन्न् आह --- निश्चये ति । वाशब्दः पक्षान्तरम् अवद्योतयति । इतिस् तस्माद् अस्त्य् एव ॥
सादृश्यार्थवृत्तेर् अपि जातिशब्दस्य दर्शनाज् जातिशब्दः सादृश्यवचन इत्य् आह ।
ननु जातिशब्दः सादृश्यवचनत्वाद् अस्त्व् अयम् अर्थः --- जातयः सदृशा इति । कानि पुनस् तानि केन च सदृशानीति न ज्ञायत इत्य् आशङ्काम् अपार्कुवन्नाह --- उत्तरे ति । एतच्चाचार्येणैव विवरणे स्पष्टीकृतम् इति मन्यते । तद् अयम् अर्थः --- जातिशब्देन जात्युत्तरम् एवात्र वर्त्तिककार स्य विवक्षितम् इति ।
कथं पुनर् दूषणाभासानां जात्य् उत्तरशब्दवाक्यत्वम् इत्य् आशङ्क्याह --- उत्तरे ति । लक्ष्यते चायमाचार्यस्याशयो यदुतोत्तरस्थाने जयात इति । विवरणे ऽप्य् उत्तरस्थाने जायमानत्वाज् जायत उत्तरत्वेनाभासनाद् उत्तराणी ति । एवम् अनेन[न]व्याख्यातम् इति न प्रतीमः ॥
जात्युत्तर श्ब्दस्य विग्रहं दर्शयन्न् आह --- जात्ये ति । अभूतदोषोद्भावनानि जात्युत्तराणी ति ब्रुवता वार्त्तिककृता भूतदोषोद्भावनं तु यद् दूषणाख्यं तद् एवोत्तीर्यते अनिष्टपक्षाद् अनेनोत्तारयतिम्, निर्वाहयति वा स्वपक्षम् इति । [83ब्] ..... म् इति । एतच् च जात्य् उत्तरव्युत्पादनम् आचायस्य हेत्वाभासवन् न प्रयोगार्थम् । यथा नैयायिका मान्यन्ते --- अत्यन्तपराजीयमानावस्थायां
[ध्प्र् 256]
अभूतस्यासत्य् अस्य दोषस्य उद्भावनानि । उद्भाव्यत [925]एततैर् इत्य् उद्भावनानि वचनानि । तानि जात्य् उत्तराणि । जात्या सादृश्येनोत्तराणि जात्य् उत्तराणीति ॥
__________नोतेस्__________
[925] एतैर् उद्भा
कतिपयपदवस्तुव्याख्यया यन्मयाप्तं कुशलममलम् इत्न्दोरंशुवन्न्यायविन्दोः ।
पदमजरम्वाप्य् ज्ञान धर्मोत्तरं यज् जगदुपकृतिमात्रव्यापृतिः[926] स्यामतो ऽहम् ॥
__________नोतेस्__________
[926] व्यापृतः
आचार्य धर्मोत्तर विरचितायां[927] न्यायां न्यायविन्दुटीकायां तृतीयः परिच्छेदः समाप्तः ॥[928]
__________नोतेस्__________
[927] समाप्तेयं न्यायविन्दुटीका कृतिर् आचार्य धर्मोत्तर स्य ॥; पादविरवितायां
[928] सहस्रम् एअक्ं श्लोकानां तथा श्रचतुष्टयम् । सप्तसप्ततिसंयुक्तं निपुणं परिपिण्दितम् ॥; - परिपिण्दितम् ॥146॥ मंगलं महा श्री ॥ समाप्तम् इति ॥ संवत् 1490 वर्षे मार्गशिर सुदि 3 रवौ श्री खरतरगच्छे श्री जिनराजसूरिपट्टे, श्री श्री जिनभद्रसूरिराज्ये अरीक्षगूर्जरसुतधरणाकेन लिधापितं ॥ शुभं भवतु ॥ कल्याणम् अस्तु ॥ न्यावबिन्दुसूत्रवृत्ति ... पुरोहितहरीयाकेन लिखितम् ॥
जातिर् हेत्वाभासश् च र्प्य्क्तव्य इति । किञ् च दूषणस्वरूपस्य स्फुटार्थबोधनार्थम् । हेयज्ञाने हि तद् विविक्तमुआदेयंसुज्ञातं भवतीति जाति(तेः) हेत्व् आभासानाञ् च स्फुटस्वरूपपरैज्ञानस्य प्रयोजनम् स्ववाक्ये परिवर्जनं परप्रयुक्तानाम् अपि दोषभावनम् इतरथा व्यामोहः स्याद् इत्य् उक्तप्रायम् ।
तत्र जात्युत्तरस्योहारणं यथा --- अनित्यः शब्दः कृतकत्वाद् घटवद् इत्य् उत्के किम् इदं कृततत्वं शब्दगतं हेतुत्वेनोपनीतम् आहोस्विद् घटगतम् । यदि शब्दगतं तस्य घटो दृष्टातो ऽसम्भवाद् अव्यातेर् अनैकान्तिको ................................. प्रत्यवस्थानात्मिका जाति ........................................ साधर्म्याद् इति नैयायिक ............. आचार्य स्य त्व् अयम् आशयो .................................................... ........................................ तथाहि नैकायिका ...................................... प्रतिज्ञापदयो ..............................विरोधमाहुस् तथा --- प्रयत्नानन्तरीयकः शब्दः ...................................... प्रयत्नन्तरीयकत्वादि ............................... हेतुम् आचक्षते । तयैव दूषणा ............................................. शब्दस्य धर्मित्वात् । न चेयं जाति ....................................... भवति । ततश् च यस्यैव .................................................................................................................................. जात्युत्तराणीत्य् अत्रेतिशब्दो माहावाक्यपरिसमातौ ॥
[ध्प्र् 257]
आचार्यश्री धर्मकीत्ती विरचितस्यास्य प्रकरणस्य न्यायबिन्दु संज्ञकस्य यथावदर्थप्रकाशिकां महापटीयसीमीदृशीं [व्याख्यां] [विरच]यता मया .................... किम् अपि पुष्यम् उआर्जितं तद् अनेन तादृशीमवस्थांप्राप्य सकलसत्त्वोपकारं .............. म् इत्य् अध्याशयो मे ............. क्रियायोगात्सात् सात्मीकृतपरार्थकरणो ऽयं धर्मोत्तरः कतिपयेत्यादिना ............................. श्लोकम् आह ।
अस्यायं समुदायार्थः । न्यायबिन्दोः कियत् .............................. कुशलमाप्तमतः कुशलादजरं ज्ञान धर्मोत्तरं च पदं तद् अवाय जगटुपकृति मात्र [व्यापृतिः] स्यामिति । ..................................................... बुद्ध्यते । पद्यन्ते गम्यन्ते ऽर्था एभिर् इति पदानि वाक्यानि तेषां वस्तुप्रतिपाद्यतयास्ति तम् अभिधेयरूपं .......... शेषो ज्ञेयः । आप्तं प्राप्तं कुशलं सुकृतम् । किं कुर्वता ? [84अ] ............ भवति पुण्यम् अपि कुशलञ् च । यथा पर ........................ परोद्भवापि । ततो व्यभिचारसंभवाद् विशेषणम् । किंवनिर्मलम्? इन्दोरंशुवद् इति । इन्दोश् चन्द्रम् असो ऽशवः किरणास्त इव । एवं विधविधानेन यत् पुण्यते तद् अवश्यममलतयैतत्तुल्यं भवतीति भावः । पदं प्रतिष्ठाम् अवस्थाम् इति यावत् । किं ............... द्यते ... यत्र तत्तथा । जराग्रणस्योपलक्षणत्वात् मृत्योर् अपि सङ्ग्रहो ज्ञातव्यः । तेनायम् अर्थः --- अजरमम्र्त्यं चेति । अथ वा जरानिर्देशेनैव दण्डापूपन्यायेन साभ्युपायस्यावबोधो निवक्षितः । धर्मश् च सर्वोपकरणनिवर्त्तको ऽदृष्टः । तावेनोत्तरावधिकौ यत्र पदे तत्तथा । ताभ्यां चोत्तरं श्रेष्टम् । यत्तदोश् च नित्यम् अभिसम्बधेन तच्छब्दस्य लब्धत्वात् तदवाप्येत्य् अर्थो ऽवतिष्ट्ःअते । जगतो जीवलोकस्य उपकृतिर् उपकारः । सैव तन् मात्रम् । तद् व्यापृतिर् व्यापारो व्याप्रियमाणता यस्य मम यो ऽहं तथा ।
न वार्शसाविषये ऽस्मिन्न् आशीर् लिङ्गा भूयासम् इति शब्दसिद्धेर्[नैवम्]नेन वक्तव्यम् तत् किम् एवम् अवादीद् इति चेत् । न । आशंसाविषयत्वाभावात् । यत एवंविधानुष्ठानजन्मना पुष्यातिशयेन एवम्भूतपदप्राप्तेस् ततो ऽपि ममैवंविधक्रियस्यमानत्वाद् एव ......................... यम् एतद् इत्य् अभिप्रायात् सर्वम् अवदातम् इति ॥
गुरोर् जितारेर् अभिगम्य धीधनं मया हि टीका विवृता पटीयसी ।
कुतूहलेनापि तद् अत्र युज्यते निरीक्षणं साधु विवेचकानाम् ॥
अज्ञो जनस्त्य् अजति लब्धम् अपीह रत्नं काचेन तुयम् इति चलायतेति(म् इति चचलमानसो ऽपि) ।
एतावतैव तद् अलङ्करणं न किं स्यात् किं वा ऽऽदरेण तदुपाददते न धन्वाः ॥
इमं निबन्धम् विधिवद्विधाय [मया ह्य्]वाप्तं सुंकृतंथकञ्चित् ।
इहैव जन्मन्यथा तेन सत्त्वा अनन्तसंबोधिमवाप्त्नुवन्तु ॥
॥ पण्डित दुर्वेक मिश्रविरचित धर्मोत्तरप्रतीपो नाम निबन्धः समाप्तः ॥
॥ टिप्पणानि ॥
अब्ब्रेविअतिओन्स्:
त्स् तत्त्वसङ्ग्रह:(ग्.ओ.स्. 30, 1926).
त्स्प् तत्त्वसङ्ग्रहपञ्जिका: स्. त्स्
त्प् (तात्पर्य-) न्यायबिन्दुतीकाया अनुतीका तात्पर्यनिबन्धनम् अप्रकाशितंमुनिश्रीपुण्यविजयसत्कम् ।
न्ब्ट्ट् (न्याय-टि-) न्यायबिन्दुटीकाटीप्पणी ( बिब्लिल्थेच बुद्धिच पेत्रोग्रद् वोल्. xइ)
न्ब्ट्त् (न्याय-ता-) न्यायबिन्दुटीकातात्पर्यटीका (विzइअनगरम् सन्स्क्रित् सेरिएस्, नो. 15. 1898)
न्ब्ट्ट्म् (न्याय-म-टि-) न्यायबिन्दुटीकाटीप्पणी मल्ल्वादिकृता अप्रकाशिता मुनिश्रीपुण्यविजयसत्का ।
न्प् नयप्रदेश (ग्.ओ.स्. 38, 1930)
न्म् (न्यायम-)न्यायमञ्जरी(विzइअनगरम् सन्स्क्रित् सेरिएस्, नो. 10. 1895)
न्बा न्यायावतारः (न्यायावतारःवार्तिकवृत्त्यन्तर्गतः) (सिंधी जैन ग्रन्थमालानं- 20, 1949)
न्व् न्यायवार्त्तिक (चौखम्बा संस्कृतसीरीज, 1916)
न्भ् न्यायमहाभाष्यम्
पाण् पाणिनिकृताष्टाध्यायी
प्म् प्रमाणमीमांसा (सिंधी जैन ग्रन्थमालानं- 9, 1939)
प्व् प्रमाणवार्त्तिकम् आचार्यमनोरथनन्दिकृतवृत्तिसहितम् । (ज्.ब्.ओ.र्.स् 1937) [दिए ओर्द्नुन्ग् देस् कपितेल्स् ब्लेइब्त् उन्वेर्äन्देर्त्, द्.ह्. सिए एन्त्स्प्रेछ्त् उन्सेरेर् ओर्द्नुन्ग्.]
प्विन् प्रमाणविनिश्चयः (अप्रकाशितः)
प्विन्ट् प्रमाणविनिश्चयटीका (अप्रकाशितः)
प्क् प्रमेयकमलमार्तण्डः (निर्णयसागर प्रेस, 1941)
प्व्स्व्(प्र-स्वो-)प्रमाणवार्त्तिकस्वोपज्ञटीका (किताब महल, इलाहाबाद, 1943)
प्व्ट् मनोरथनन्दिकृता प्रमाणवार्तिकटीका (ज्.ब्.ओ.र्.स् 1937)
म्व् महाभारत वनपर्व
व्न् वादन्याय (महाबोधि, सोसायटी बनारस, 1936)
व्सू वैशेषिक सूत्र
श्व् श्लोकवार्त्तिक कुमारिलकृतम् (मद्रस् उनिवेर्सित्य्, 1940)
स्व् सिद्धिविनिश्चयः (अप्रकाशितः पं- सुखलालजीसंघवीसत्कः)
ह्ब् हेतुबिन्दुः (ग्.ओ.स्. नो. 113, 1949)
ह्ब्टा हेतुबिन्दुटीकालोक
टिप्पणानि ।
2,4. स्याद् एतत् --- नमस्कारश् लोककरणे च आक्षेपपरिहारौ धर्मोत्तरप्रदीपोदितनीत्तिदिशा अनुगन्तव्यौ । इत्य् अनेन हेतुबिन्दुतीकालोके (पृ- 233) अयम् एवाशो निर्दिष्टः ।
5,8. विनीतदेवशान्तभद्रौ --- सम्यग्ज्ञानेत्यादिवाक्येन प्रयोजनप्रयोजनम् अधिहितम् इत्य् अन्यवाख्यां भङ्ग्या दूषयितुम् आह --- सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिर् इति ।" --- त्प् 2; "सम्यग्ज्ञानेत्यादिना विनीतदेवव्याख्यां दूषयति" --- न्ब्ट्3.
12,12. अथ भोजनादेः --- तुलना --- त्प् 5.
14,5. ज्वरहर तुलना --- न्त् 3.
16,1. अविसंवादकं --- अविसंवादनार्थो ऽत्र सम्यग्ज्ञानार्थः । न तु यदविपरीतं तत्सम्यग्ज्ञानम् इति । एवं हि योगाचारमतनिराकरणेन प्रकरणं प्रवृत्तं स्यात् । तन्मतेन तु `सर्वम् आलम्बने भ्रान्तं मुक्त्वा ताथागत ज्ञानम्ऽ । सौत्रान्तिकपक्षे ऽपि प्रत्यक्षम् एवैकं सम्यग्ज्ञानं स्यात्, नानुमानम्, स्वर्पतिभासे ऽर्थ ऽथाध्यवसायेन प्रवृत्तेः । " --- त्प् 8 । प्रमाणलक्षणे नैयायिकानान् अनुपपत्त्य् अर्थं द्र्ष्टव्या न्म् 23.
16, 1. " ज्ञान " --- अत्र नैयायिकानाम् अनुपपत्तिर् यथा --- "ये तु बोधस्यैवप्रमाणत्वमाचक्षते लक्षणविचारतः ॥" --- प्व् 1.8. "तस्मात् `अनधितार्थविषयंप्रमाणम्ऽ इत्य् अपि `अन्धिगते स्वलक्षणेऽ इति विशेषणीयम् ।" --- ह्ब् 53. अत्र वाचस्पतिः --- "अनधिगतार्थगन्तृत्वं च धारावाहिकविज्ञानानाम् अधिगतार्थगोचराणां लोकसिद्धप्रमाणभावानां प्रमाण्यं विहन्तीति नाद्रियामाहे ।" इत्य् आदि --- न्ब्त् 15.
19,4. " अनधिगतविषयम् " --- "गृहीतग्रहणान्नोष्टं सांवृतं ।" --- प्व् इ,5.
20,17. ` सांव्यवहारोलस्य ऽ--- "प्रमाण्यं व्यवहारेण ।" --- प्व् इ,7. "सांव्यवहारिकस्य प्रमाणस्य लक्षणम् संव्यवहारश् च भाविभूतरूपादिक्षणानाम् एकत्वेन संवादविषयो ऽनवगीतः सर्वस्य । साध्यसाधनयोर् एकव्यक्तदर्शने समस्ततज्जातीयतथात्वव्यवस्थानं सम्वादम् अवधारयन्ति व्यवहर्तारः । तद् अनुरोधात् प्रामाण्यं व्यवस्थाप्यते । तत्त्वतस्तु स्वसंवेदनमात्रमप्रवृत्तिनिवृत्तिकम् ।" --- प्व्व्, 1,7.
23,2. ` अर्थक्रियार्थभिः ऽ --- स्वलक्षणविचारतः । प्व् 1,8. "अर्थकिर्यायोग्यैषयत्वात् तदर्थिनां प्रवृत्तेः ।" ह्ब् 53.
24,1. उक्तम् --- द्रष्टव्यं --- 19,1.
24,20. अनेन --- शुक्ले शङ्खे पीतज्ञानं मणिप्रभायां च मणिज्ञानं गच्छद् वृक्षादिज्ञानं च सर्वंशे प्रमाणम् इष्टं कैशिचित् --- एतत् सरं सम्यग्ज्ञान्ग्रहस्यैव व्यवच्छेद्यम् इति दर्शयति --- त्प् 11. तथा [चा]चार्यैकदेशीयाः शुक्लशङ्खे पीतज्ञानं भ्रान्तम् अपि सम्यग्ज्ञानम् इच्छन्ति । न्ब्ट्ट् 20.
28,1. अर्थक्रियानिर्भासम् --- एतद् अन्यो ऽन्यथा व्याचष्टे --- अर्ह्तारह्किर्यानिर्भासस्य कारणग्रहणेकथं ग्रहणमाशकितम्? यावता न तत् कारणम् अर्थावाप्तेर् अपि तु तद् रूपम् एव अर्थक्रिया निर्भासते यस्मात् --- इत्य् अपि विवेक्तुम् अशक्यत्वाद् असमाधानम् एव ।" त्प् 13.
29,8. प्राप्तिपाठे --- साक्षात्प्राप्तिर् इति क्वचित् पाठः । साक्षाद् व्यवधानेन प्राप्त्यते ऽर्थक्रिया यस्मात् तस्माद् अर्थात् तद्धेतुत्वाद् अर्थक्रियानिर्भासम् अपि ज्ञानं प्राप्तिर् उक्तम् उपचारात् । त्प् 13.
30,1 अर्थः --- अर्थात् `अर्थशब्दः प्रयोजनवचनः पुरुषस्य अर्थः प्रयोजनम्ऽ इत्य् अन्यव्याख्या निरस्ता । त्प् 14
30,3 उपेक्षणीयः --- न चोपेक्षा ऽनुपादानतया हानपक्षे निःक्षिप्ता । अहानतयोदानपक्षनिःक्षेपप्रसङ्गात् । उपादानप्रयत्नाप्रसवहेतुतया नोपादानम् इति चेत् । किम् अयं हान्प्रयत्नम् अपि प्रसूते यतो हानं स्यात् । तस्मात् या नोभयप्रयत्नप्रसवहेतुः "सोपेक्षाबुद्धिस् तृतीया लोकप्रसिद्धेति सिद्धम्"न्ब्ट्त् 67.
31, 20. अर्थः प्रयोजनं --- हेयो ऽर्थ इत्यादिना विनीतद् एवस्य व्याख्या दूषिता । तेन हि एवं व्याख्यातम् --- अर्थशब्देन प्रयोजनम् उच्यते --- न्ब्ट्ट् 13.
31, 27. विनीतदेवेन --- अनेन विनीतदेवव्याख्यानं दूषयति । --- न्ब्ट्त् 15.
34,6. पूर्वेषाम् --- परेषां टीकाकृतां मतपाकर्तुम् आह मिथ्येत्यादि । न्ब्ट्त् 15
34, 29. न्ब्ट्त् 16.
35,9. प्रसिद्धानि --- पसिद्धानि प्रमाणानि व्यवहारश् च तत्कृतः । प्रमाणलक्षणास्योक्तौ ज्ञायते न प्रयोजनम् ॥ न 2.
35,3. न्ब् 2. "मानं द्विविधं विषयद्वैविध्यात् ।" प्व् 2,1. "न प्रत्यक्षपरोक्षाभा"
36; न्त् 12 च ।
38, 1. समासः --- तुलना --- न्ब्ट्त् 65.
38,26. अक्षमक्षम् --- तत्रायं न्यायमुख ग्रन्थः --- यत् ज्ञानम् अर्थरूपादौ विशेषणाभिधायकाभेदोपचारेणाविकल्पकं तद् अक्षम् अक्षं प्रति वर्त्तत इति प्रत्यक्षम् --- त्स्प् अद् त्स् 1237.
40, 3. यथार्थ- --- अनेन विनीतदेव शान्तभद्र योर् व्याख्या दूषिता । --- न्ब्ट्ट् 16
40,4. न्ब् 4 --- "प्रत्यक्षं कलनानोढं प्रत्यक्षेणैव सिध्यति । --- प्व् 2,123; 2, 174. वस्तुशक्यैव नेत्रधीः ।" --- प्व् 2,185; त्स् 1214 तः । "सूत्रे अनुपात्तं ज्ञानं लह्ब्यते कुत इति चेदुचते । कल्पनया ज्ञानस्यैव संबन्धो दृष्टः, भ्रान्तिश् च ज्ञानधर्मः । तस्मात् कल्पनारहितम् अभ्रान्तं च ज्ञानम् एवोच्यते । तद् यथा सवत्सा धेनुराईयताम् इत्य् उक्ते न वडवाऽऽनीयते किन् तु गोधेनुः । एवम् इहापि कल्पनया भ्रान्त्या च ज्ञानस्यैव संबन्धो दृष्ट इति ज्ञानम् एव प्रत्यक्षम् इष्यते इति विनीतदेव व्याख्यानं सचोपरिहारम् असंगतम् । --- त्प् 25; अस्य लक्षणस्य निरासः जयन्तेन न्यायम् अञ्जर्यां कृतः ।" न्म् 92; न्ब्ट्त् 88, 102.
41,11. अन्येन --- प्रत्यक्षत्वम् अनूद्येत्यादि इधीयते इत्य् आदि वाल्य- ब्रिवता प्रत्यक्षं संज्ञा, कल्प्नापोढेत्यादि संज्ञीति --- अप्रसतुताभिधानं विप्रतिपत्तिनिराकरणे प्रकृते स्वेच्छया संज्ञाकरणे सति प्रत्यक्षशब्दवाच्ये वस्तुनि परस्याभिमते विप्रतिपत्तिर् न निराकृता स्यात् । --- त्प् 19. अनेन लक्ष्यलक्षणभावं दर्शयता विनितदेव व्याख्यान सम्ज्ञासंज्ञिसंबंधरूपं प्रत्युक्तम् । --- न्ब्ट्ट् 17.
41,13. अपरेण --- यस्वनयोः प्रदेशान्तरसिद्धयोर् अनुवादं कृत्वा प्रत्यक्षत्वं विधत्ते तेनापि विपरीतं लक्ष्यलक्षणविधावाक्यमाशिर्तं स्यात् । प्रसिद्धं हि लक्षणम् अनूद्य लक्ष्यम् अभिधीयते । य्था शिधया परिव्राजकतेति । इह तु लक्ष्यस्यार्थसाक्षात्कारित्वस्याप्रसिद्धत्वात् तद् अनुवादेनाप्रसिद्धं लक्षणम् एव विधीयते । यथा परिव्राजकशिधालिङ्गम् इति । किं च प्रदेशान्तरासिद्धे ऽप्रत्यक्षाधारे कथम् अनुद्येयाताम्? प्रत्यक्षाधारत्वे च सिद्धे किं पुनर् इहापूर्वं विधेयम् इति अवधीरितम् । --- त्प् 19.
42, 9. सन्निवेशोपाधि --- सञ्चितः समुदायः स सामान्यं तत्र चाक्षधीः । सामान्यबुद्धिश् चावश्यं विकल्पेनानुबध्यते --- इत्यादि --- प्व् 2, 194 तः ।
42, 19. पूर्वव्याख्या --- "किम् अर्थं विशेषणद्वयोपादानम्? उच्यते । तैमिरिकज्ञानव्यवच्छेदार्थम् अभ्रान्तपदम्, अनुमाननिरासार्थम् इतरत् । न त्वालम्बननिषये ऽन्यथा योगाचारमतम् अमतं स्यात् । तन्मतेन सर्वेषां स्वालम्बेन भ्रान्तत्वात् । इष्यते च सौत्रान्तिकयोगादारमतानुसारेण प्रकरणारम्भो यतः प्रामाण्यविषये ऽविसंवादकत्वलक्षणम् अभ्रान्तत्वं द्वाभ्याम् अभ्युपगम्यते । सत्य् एवम् आनस्यापि प्रत्यक्षत्व प्रसङ्गः । तद् अपि हि अविसंवादकत्वाद् अभ्रान्तम् इष्यते । अतः तन्निराकरणार्थं कल्पनापोढग्रहणम् इति अन्यव्याख्यां निराचिकीर्षुर् आह --- अभ्रान्तम् इत्यादि ।" --- त्प् 19. "ननु यद् एतत् भ्रान्तग्रहणं विप्रतिपत्तिनिराकरणार्थम् उक्तं तद् अयुकतम् । सम्यग्ज्ञानत्वाद् एव गच्छद् वृक्षदरशनादि प्रमाणं न भविष्यति । न हि य एव वृक्षादिर् दृश्यते स एव प्राप्यते इति विसंवाद एव । अतः किम् अभ्रान्तग्रहणेन एतन् निवृत्त्य् अर्थेन? सत्यम् एतत् । परम् एतस्मिन्न् अभ्रान्तग्रहणे सति विशिष्टसंवादानं प्रत्यक्षम् इति गम्यते अन्यथा यथानुमानं संवादमात्रेणैवq प्रमाणम्, एवं प्रत्यक्षम् अपि । अत एव वृत्तिकारेणोक्तं ततो हि प्रवृत्तेन वृक्षमात्रमवाप्यते इति संवादकत्वात् सम्यग्ज्ञानं स्याद् इति । इह वा सार्थकम् अभ्रान्तग्रहणम् । केचिद् आचार्यै कदेशीयाः --- `द्विचन्द्रादिविज्ञानाणां मानसी भ्रान्तिः नेन्द्रियजेति । तस्याश् च कल्पनापोढग्रणेनैव निरासः । तथा च दिग्नाग नाम्न् आचार्येण `कल्पनापोढं प्रत्यक्षम्ऽ इति लक्षणे ऽभ्रान्तग्रहणन कृतम् इतिऽ --- प्रतिपन्नाः । तेषां विप्रतिपत्तिनिराकरणाय इन्द्रियजां भ्रान्तिं लक्षयन् अभ्रान्तविशेषणम् आह धर्मकीर्त्ति र् इत्य् अन्वद्यम् अभ्रान्तग्रहणम्म् ।" --- न्ब्ट्ट्म् 15. "केशोण्ड्कादिविज्ञाननिवृत्त्यर्थम् इदम् कृतम् । अभ्रान्तग्रहणं तद् धि भ्रान्तत्वान् नेष्यते प्रमा ॥ मानस तद् अपीत्य् एके नैतद् इन्द्रियभावतः । भावात् तद्विकृतावस्य विकृतेश् चोपलम्भतः ॥ सर्पादिभ्रान्तिवच् चेदम् अनष्टेप्यक्षविप्लवे । निवर्त्तेत मनोभ्रान्तेः स्पष्टं च प्रतिभासनम् ॥" --- त्स् 1392-1394 ॥ "अभ्रान्तम्त्राविषम्वादित्वेन द्रष्तव्यम् । न तु यथावस्थितालम्बनाकारतया । अन्यथा हि योगाचमतेनालम्बनासिद्धेर् उभयनयसमाश्रयेणेष्टस्य प्रत्यक्षलक्षणस्याव्याप्ता स्यात् ॥" --- त्स्प्
अद् त्स् 1392.
43.8. बहवः --- "का वा विरोधो बहवः संजातातोशयाः पृथक् । भवेयुः कारणं बुद्धेर् यदि नामेन्द्रियादिवत् ॥" प्व् 2.223.
44.17. नन्व् एवम् --- "यद्य् एवम् अभ्रान्तत्वं तदा योगाचार मताभावः । न । वस्तुत्वेनाभ्रान्तत्वं लक्षणं नास्त्य् एव । कथं तर्हि द्विचन्द्रादीनां प्रत्यक्षता ऽपाक्रोयते ऽनेन? उच्यते । सम्यग्ज्ञानविशेषणविष्टं प्रत्यक्षशब्दवाच्यम् अर्थम् अनूद्य कल्पनापोढत्वं विधीयते । न च द्विचन्द्रादिज्ञानानाम् अविसंवादकत्वम् स्तीति निरासस् तेषाम् । सौत्रान्तिक पक्षे तु अभ्रान्तपदस्य किम् फलम्? उच्यते । आचार्य देशीया हि --- द्विचन्द्रादेर् भ्रान्तिर् मानसी । तस्याश् च कल्पनापोढ्पदेनैव निरासः । अत एव् आचार्येण `कल्पनापोढं प्रत्यक्षं प्रत्यक्षेणैव सिध्यति [प्व् 1,123]ऽ इति लक्षणेन् ऽभ्रान्तपदं नोपात्तिम् इति --- प्रतिपन्नाः । तान् प्रति इमां विप्रतिपत्तिं निराकर्तुम् अभ्रान्तग्रहणं लक्षणशेषम् आह कीर्त्तिः । अत एव टीकाकारो ऽपि कीर्त्त्यभिप्रायं परिपालयन् विप्रतिपत्तिनिरासार्थम् एवाभ्रान्तपदम् आह । कथम् अभिप्रायं पालयन् । उच्यते । एवं हि द्विचन्द्रादिभ्रान्तिनिरासार्थं भवेद् अभ्रान्तपदं यदि द्विचन्द्रादिभ्रान्तिर् इन्द्र्यजा भवति नान्यथा" --- त्प् 20. "एतच् च लक्षणद्वयम् इत्यादिना पदद्वयेन विप्रतिपत्तिनिरासं दर्शयता विनीतदेव व्याख्या पदद्वयकथनरूपा दूषिता ।" न्ब्ट्ट् 15. ननूक्तं योगचारमतम् असंगृहीतं स्याद् इति । उच्यते । बाह्यनयेन सौतान्तिका नुसारेण लक्षणं कृतम् इति अदोषः । योगचार मतेन त्व् अभ्रान्तग्रहणं न कर्त्तव्यं संवादकस्य सम्यग्ज्ञानस्य प्रस्तुतत्वात् ॥" न्ब्ट्ट् 19.
47, 9. न्ब् 5 --- "जायन्ते कल्पनास्त्र यत्र शब्दो निचेशितः । तेनेच्छातः प्रवर्त्तेरन् नेक्षेरन् बाह्यमक्षजाः ॥" प्व् 2.176.
47, 10. अनेन --- "तेन यद् विनीतदेव व्याख्या दूषिता ।" --- न्ब्ट्ट् 21.
47, 18. विचेचयिष्यामः --- द्रष्टव्यं ध्प्र् 71,5.
47, 24. कीदृशीति --- "कीदृशीति स्वरूपपरिज्ञानशून्यस्येदं भाषितम् । यद् वा सम्भावयन् पृच्छति कल्पनां यतो भव्यः कल्पनाः सन्ति । तथा हि --- इन्द्रियविज्ञानानां वितर्कविचारचैतसिकसम्प्रयुक्तानाम् औदार्यसूक्ष्मतया स्वविषये प्रवृत्तिर् इति वैभाषिकी कल्पना, वितर्कविचाराद् औदार्यसूक्ष्मते .. योगाचाराणाम् " --- त्प् 29. "तथा हि वैभाषिका इन्द्रियविज्ञानं वितर्कविचारचैतसिकसम्प्रयुक्तं कल्पनाम् इच्छन्ति । योगाचार मतेन च तथागतज्ञानमद्वयं मुक्त्वा सर्वज्ञानं ग्राह्यग्राहकत्वेन विकल्पितं कल्पना । जात्यादिसंसृष्टं तु मनोज्ञानं कपनेत्य् अन्ये कल्पयन्ति ।" = न्ब्ट्ट् 21.
50, 1. अर्थसन्निधिनिरपेक्षत्वात् --- "अनपेक्षितबाह्यार्था योजना समयस्मृतेः ।" प्व् 2.185.
50, 1. बालो ऽपि --- "उत्पन्नमात्रस्य हि बालकस्य स्तनं दृष्ट्वा प्राग्भवीयस् तज्जातीयापेक्षितानुभवजनितः संस्कार आविरस्ति । ततश् च स्मरणं ततो ऽपेक्षितोपायतानुमानं ततः प्रवृत्तिस् ततः तस्याः साम्र्थ्यं ॥" ---न्ब्ट्त् 9.
51, 1. पूर्वदृष्टापरदृष्टम् --- "पूर्वानुभूतस्मरणात् तद्धर्मारोपणाद् विना । स एवायम् इति ज्ञानं नास्ति तच् चाक्षते कुतः ॥" प्व् 2, 506.
52, 3. यद्य् अपि --- "तेन य विनीतदेवेन सामान्ययोर् वाच्यवाचकभावमङ्गीकृत्य निर्विकल्पकत्वम् इन्द्रिययविज्ञानस्य प्रतिपादितं तद् दूषितम् ।" --- न्ब्ट्ट् 23.
54, 1. ध्प्र् 6 --- "त्रिविधं कल्पनाज्ञानम् आश्रयोपप्लवोद्भवम् ।" प्व् 2, 288.
54, 26. पूर्वम् --- द्रष्टव्यं 42.
55, 17. स्वकीयवचनाकौशलम् --- "नन्व् एवम् अप्य् अनर्थकम् यतो ऽन्यथा न विभ्रमहेतुर् अतः सामर्थाद् आशुभ्रमणं लभते । सत्यम् । व्याख्यातुर् अयम् यत्नः स्यात् न शास्त्रकारस्य । अतो ऽकौशलम् एव शास्त्रकृतः स्यात् ।" --- त्प् 24.
56, 21. चक्षुः पश्यति --- "चक्षुः पश्यति रूपाणि सभागं न तद् आश्रितं । विज्ञानं दृश्यते रूपं न किलान्तरितं यतः ।" --- अक् 1, 43. त्प् 26; न्ब्ट्ट्म् 19.
57, 2 ध्प्र् 9 --- "तस्माद् इन्द्रियविज्ञानानन्तरप्रत्ययोद्भवः । मनोन्यम् एव गृह्णाति विषयं नान्धदृक् ततः ॥" प्व् 2, 243.
58, 5. एककार्यकारित्वेन --- अप्रतिरोधशक्तिकेषु अनाधेयविशेषेषु क्षणिकेषु प्रत्ययेषु परस्परं कः सहकारार्थः? न वै सर्वत्राति शयोत्पादनं सहक्रिया । का तर्हि? एकार्थकरणं यद् बहूनाम् अपि ।" ह्ब् 58.
59, 20. यद् अन्येन --- "इति ब्रुवताव्याख्यानम् इदं --- इन्द्रियज्ञानेन समनतरप्रत्यजनितम् इत्य् अनेन वाक्येनान्धबधिराद्यभावदोषः परैहृत इत्य् अपि निरस्तम् ।" त्प् 27.
61, 1. गृहीतग्रहणात् --- पूर्वानुभूतग्रहेणे मानसस्याप्रमाणता । अदृष्टग्रहणेन्धादेर् अपि स्याद् अर्थनम् ॥" --- प्व् 2, 239.
62, 16. द्विविध --- पञ्च बाह्या द्विविज्ञेयाः ।" --- अक् 1, 48.
62, 29. इह पूर्वैः --- तद् अस्तीति कुतो ऽधिगतम् इत्याशङ्क्य विकल्पोदयाद् इति साधनम् आचार्यज्ञानगर्भेणोक्तम् । अपरेणेदं नीलादिर् इति प्रवर्त्तकम् अधिमुक्तिलक्षणम् । तद् अन्येणागमोक्तं सम्भाव्यते --- इत्य् उक्तं तद् एषां पूर्वपक्षसमाधिर् अभिधीयते ॥" त्प् 27. "तद् एतद् धर्मोत्तरेण आगमसिद्धं दर्शयता आचार्यज्ञानगर्भप्रभृतीनां मानससिधये यत् प्रमाणम् उपन्यस्तं विकल्पोदयाद् इति तद् भङ्ग्यावधारणाद् एव दूषितम् ।" न्ब्ट्ट् 30.
64, 2. ध्प्र् 10. --- "अशक्यसम् अयो ह्य् आत्मा रागादीनाम् अनन्यभाक् । तेषाम् अतः स्वसं वितिर् नाभिजल्पानुषङ्गिणी ॥" प्व् 2, 249. "अथात्मरूपं नो वेत्ति पररूपस्य वित् कथम्?" प्व् 2, 444.
68, 5. नास्ति --- " सौत्रान्तिक स्यालयविज्ञानाभावो ऽभिमत इत्य् आह नास्तीति ।" --- त्प् 39.
68, 9. प्रमाणवार्त्तिके --- प्व् 1, 34, 36, 122-287.
68, 3. विकल्प --- "न विक्ल्पानुबद्धस्यास्ति स्फुटार्थाव् अभासिता ॥" प्व् 2, 283.
70, 6. विषय --- मानं द्विविधं विषयद् वैविध्यात् शक्त्य् अशक्तिततः । अर्थक्रियायां केशादिनार्थो ऽनर्थाधिमो ॥ सदृशासदृशत्वाच् च विषयाविषयत्वतः । शब्दस्यान्यनिमित्तानां भावे धी सदसत्त्वतः ॥ अर्थक्रियासर्मर्थं यत् तद् अत्र परमार्थसत् । अन्यत् सम्वृतिसत् प्रोक्तं ते स्वसामान्यलक्षणे ॥" प्व् 2, 1 --- 3; न्ब्ट्त् 12-13.
71, 1. ग्राह्यः --- "भिन्नकालं कथं ग्राह्यम् इति चेद् ग्राह्यतां विदुः । हेतुत्वम् एव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥ कार्यं ह्य् अनेकहेतुत्वे ऽप्य् अनुकुर्वद् उदेति यत् । तत् तेनाप्य् अत्र तद्रूपं गृहीतम् इति चोच्यते ॥" प्व् 2, 247-248; "हेतुभावाद् ऋते नान्या ग्राह्यता नाम काचन । तत्र बुद्धिर् यदाकारा तस्यास् तद् ग्राह्यम् उच्यते ॥" प्व् 2, 224.
74, 2. न्ब् 13 --- "यथोक्तविपरीतं यत् तत् स्वलक्षणम् इष्यते ।" --- प्व् 2, 51. "इदं च वैपरीत्यम् --- अनभिधेयत्वम्, तत्त्वान्यत्वाभ्यां वाच्यत्वम्, असदर्थप्रत्ययाविशिष्टप्रतिभासविषयत्वम्, असाधारणत्वम्, असाधारणत्वम्, सङ्केतस्मरणानपेक्षप्रतिपत्तिकत्वम्, अन्यरूपविविक्तस्वरूप्रतिभासवत्त्वं, अर्थक्रियाक्षमत्वं च ।" प्व्ट् 1, 51. "बुद्धिर् यत्रार्थसामर्थ्याद् अन्वयव्यतिरेकिणी । तस्य स्वतन्त्रं ग्रहणमतो ऽन्यद् वस्त्वतीन्द्रियम् ॥" प्व् 2, 59.
74, 17. अन्यैर् आख्यातम् --- "सर्वेण रूपेण वस्तुनो ऽभावोऽसन्निधानम् इति --- अन्यव्याख्या अपास्ता ।" "यत् पुनर् योग्यदेशे भावाभाभाभ्याम् --- इति शान्तभद्र व्याख्यानं तद् भद्रकम् एव ।" --- त्प् 35.
75, 3. न्ब् 14-15 --- "अर्थक्रियासमर्थं यत् तद् अत्र परार्थसत् । अन्यत् संवृतिसत् प्रोक्तं ते स्वसामान्यलक्षणे ॥" --- प्व् 2, 3. "स पारमार्थिको भावो य एवार्थक्रियाक्षमः ॥" --- प्व् 3, 165 । "मेयं त्व् एकं स्वलक्षणम् ॥ तस्माद् अर्थक्रियासिद्धेः सदसत्ताविचारणात् । तस्य स्वपररूपाभ्यां गतेर् मेयद्वयं मतम् ॥" प्व् 2, 53-54.
77, 7. न्ब् 16 --- "सर्वत्र सम्रूपत्वात् तद्व्यावृत्तिसमार्श्रयात् ॥ न तदस्त्व् अभिधेयत्वात् साफल्या अक्षसंहतेः ।" --- प्व् 2, 10-11.
78, 20. न्यायवादी --- "अभिप्रायाविसंवादाद् अपि भ्रान्तेः प्रमाणता । गतिर् अप्य् अन्यथा दृष्टा पक्षश् चायं कृतोत्तरः ॥ मणिप्रतीपप्रभयोर्मणिबुद्ध्याभिधावतोः । मिथ्याज्ञानाविशेषे ऽपि विशेषो ऽर्थक्रियां प्रति ॥ यथा तथा ऽयथार्थत्वेप्य् अनुमानतदाभयोः । अर्थक्रियानुरोधेन प्रमाणत्वयवस्थितम् ॥" --- प्व् 2, 56-58.
78, 21. `इत्य् अत्रापिऽ --- द्रष्टव्यं ध्प्र् 51, 1.
79, 2. न्ब् 18 --- "प्रमाणफलयोर् अभेदं निराकुर्वतो नैयायिकस्य युक्त्यर्थं द्रष्टव्या --- " न्म् 70.
79, 11. `पुरस्तात्ऽ --- द्रष्टव्यं 17-18.
81, 2. न्ब् 20 --- "विषयाकारभेदाच् च धियो ऽधिगमभेदतः । भावाद् एवास्य तद्भावे स्वरूपस्य स्वतो गतिः ॥" प्व् 1, 6. "तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः । भाव्यन्तेनात्मना येन प्रतिकर्म विभज्यते ॥ अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम् । अन्यः स्वभेदाज् ज्ञानस्य भेदको ऽपि कथञ्चन ॥ तस्मात् प्रमेयाधिगतेः साधनं मेयरूपता । साधने ऽन्यत्र तत्कर्म असम्बन्धो न प्रसिध्यति ॥ सा च तस्यात्मभूतैव तेन नार्थान्तरं फलम् । दधानं तच् च तामात्मन्यर्थाधिगमनात्मना ॥" --- प्व् 2, 302, 305, 306, 307.
81, 8. न्ब् 21 --- तस्माद् यतो अस्य आत्म-भेदो अस्य अधिगतिर् इत्य् अयम् । क्रियायाः कर्म-नियमः सिद्धा सा तत्-प्रसाधना प्व् 3, 304.
82, 4. चक्षुरादिभ्यः --- सर्वसामान्यहेतुत्वाद् अक्षाणाम् अस्ति न ईदृशम् । तद्भेदे अपि ह्य् अभिन्नस्य तस्य इदम् इति तत् कुतः ॥ प्व् 3, 312. सर्वम् एव हि विज्ञानं विषयेभ्यः समुद्भवत् । तदन्यस्य अपि हेतुत्वे कथं स्याद् विषयआकृतिः ॥ यथा एव आहारकालआदेर् हेतुत्वे अपत्यजन्मनि । पित्रोस् तद् एकस्य आकारं धत्ते न अन्यस्य कस्यचित् ॥ प्व् 3, 368-369.
82, 8. व्यवस्थाप्य् ---धियो अंशयोः । तद्-व्यवस्था-आश्रयत्वेन साध्य-साधन-संस्थितिः ॥प्व् 215 . क्रिया-करणयोर् ऐक्य-विरोध इति चेद् असत् । धर्म-भेद-अभ्युपगमाद् वस्त्व्-अभिन्नम् इति इष्यते ॥ ॥ प्व् 218 .
87, 3. न्ब् 1-3 "--- स्वपरार्थविभागेन त्व् अन्मानं द्विधष्यते । स्वार्थं त्रिरूपतो लिङ्गादनम् एयार्थदर्शनम् ॥" त्स् 1362.
89, 1. न्ब् 3 --- "तस्य अदृष्ट-आत्म-रूपस्य गतेर् अन्यो अर्थ-आश्रयः । तद्-आश्रयेण सम्बन्धी यदि स्याद् गमकस् तदा ॥ गमक-अनुग-सामान्य-रूपेण एव तदा गतिः । तस्मात् सर्वः परोक्षो अर्थो विशेषेण न गम्यते ॥ या च सम्बन्धिनो धर्माद् गतिर् धर्मिणि जायते । सा अनुमानं परोक्षाणाम् एकं तेन एव साधनम् ॥" प्व् 60-62.
89, 13. ननु च --- "नन्व् एवं प्रत्यक्षस्यापि द्वैविध्यं किं न कथ्यते? उच्यते । तद् अधिगतस्य स्वलक्षणस्य निर्देष्टुम् अशक्यत्वात् ॥" त्प् 13.
89, 14. परार्थं प्रत्यक्षम् --- न्व् 11, 12.
90, 16. स्पष्टयिष्यामः ---ह्ब्टा 258-259.
90, 24. ननु --- "ननु किम् अनया कष्टकल्पनया प्रमाणं च फलं च प्रमाणफले तयोर् व्यवस्थेत्य् एवं विग्रहः किन् न क्रियते । उद्यते । फलशब्दस्याल्पाच्त्रत्वात् पूर्वनिपातः स्यात् ।" त्प् 14.
91, 7. न्ब् 5 --- अन्वयो व्यतिरेको वा सत्त्वं वा साध्यधर्मिणि । तन्निश्चयफलैर् ज्ञानैः सिध्यन्ति यदि साधनम् ॥ प्व् 3, 290.
91, 24. अबाधितविषय्त्वादि --- नैयायिकसम्मतं हेतोः पञ्चलक्षणानां विवरणं --- न्म् 110 आदिशु द्रष्टव्यम् ।
92, 29. प्रदर्शयिष्यामः --- द्रष्टव्यम् ध्प्र् 193.
96, 6. न्ब् 6 --- "पक्षो धर्मी, अवयवे समुदायोपचारात् ॥" ह्ब् 52,प्व्स्व् 12.
96, 30. निदेदयिष्यते --- ध्प्र् 142.
97, 1. अत्र --- "न तु यथोक्तं शान्तभद्रेण --- `अत्र साध्यसाधनचिन्तायाम्, आचार्यीये वा दर्शनेन् धर्मी नौमेयःऽ इति । यतो ऽत्र साध्यसाधनचिन्तायाम् धर्म्यनुमेय इति न इञ्चनार्यं पुष्णाति । द्वितीये ऽपि पक्षे न हि आचार्यीये एव दर्शने धर्मी अनुमेयो व्यवस्थितः, यतो ऽन्यत्रापि दर्शने धर्म्यनुमेयः ।" त्प् 53.
100, 3. न्ब् 10-11 --- पक्षधर्मस् तदंशेन व्याप्तो हेतुस् त्रिधा एव सः । अविनाभावनियमाद् हेत्वाभासास् ततो अपरे ॥ प्व्स्व् 3, 1.ह्ब् 52. एतल्-लक्षणस् त्रिधा एव सो हेतुस् त्रिप्रकार एव । स्वभावः, कार्यम् अनुपलब्धिश् च इति । ह्ब् 54. व्न् 3, प्व्स्व् 20.
100, 15. संयोग्यादि --- संयोग्य्-आदिषु येष्व् अस्ति प्रतिबन्धो न तादृशम् । न ते हेतव इत्य् उक्तं व्यभिचारस्य सम्भवात् ॥ प्व् 4, 203.
101, 2. न्ब् 12. --- दृश्यस्य दर्शनाभावकारणासंभवे सति । भावस्य अनुपलब्धस्य भावाभावः प्रतीयते ॥ प्व् 3, 202-203. "अभावे च उपलब्धिलक्षणप्राप्तस्य अनुपलब्धिर् इत्य्" ह्ब् 54. उपलब्धिलक्षणप्राप्तस्य अनुपलब्धिर् अभावस्य अभावव्यवहारस्य वा हेतुः --- ह्ब्. 64.
101, 13. एकज्ञानसंसर्गि --- " यत्र यस्मिन्न् उपलभ्यमाने नियमेन यस्योपलब्धिः स तत्संसृष्टः, एकज्ञानसंसर्गात् । तयोः सतोर् नैकरूपनियता प्रतिपत्तिः, असम्भवात् ।" ह्ब् 65.
101, 16. परस्तात् --- द्रष्टव्यं ध्प्र् 119, 16.
102, 6 अनुपलम्भः --- " उक्तम् अत्र यथा पर्युदासवृत्त्या अपेक्षातो तद्विविक्तो ऽर्थस्य्तज् ज्ञानं वा ऽभावो ऽनुपलब्धिश् चोच्यत इति । न प्रतिषेधमात्रम्, तस्य साधनअसिद्धेर् अभावव्यवहारअसिद्धि प्रसङ्गात् ।" ह्ब् 65.
103, 2. न्ब् 13 --- "स्वभावे स्वनिमित्ते वा दृश्ये दर्शनहेतुषु । अन्येषु सत्स्वदृश्ये च सत्ता वा तद्वतः कथम् ॥" प्व् 2, 72.
103,15. ईश्वरसेन --- स्वभावे स्वनिमित्ते वा दृश्ये दर्शनहेतुषु । अन्येषु सत्स्वदृश्ये च सत्ता वा तद्वतः कथम् ॥ ह्ब् 65.
103, 3. न्ब् 15-17. --- "यतः कदाचित् सिद्धा अस्य प्रतीतिर् वस्तुनः क्वचित् । तद् अवश्यं ततो जातं तत् स्वभावो अपि वा भवेत् ॥ स्वनिमित्तं स्वभावं वा विना न अर्थस्य सम्भवः । यच् च रूपं तयोर् दृष्टं तद् एव अन्यत्र लक्षणम् ॥" प्व् 2,70-71."तत्र साधन-धर्म-भाव-मात्र-अन्वयिनि साध्य-धर्मे स्वभावो हेतुः." --- ह्ब् 55. "अर्थान्तरे गम्ये कार्यं हेतुः" --- ह्ब् 63.
108, 3. प्रतिषेधहेतुः --- " प्रतिषेधस् तु सर्वत्र साध्यते अनुपलम्भतः । सिद्धिं प्रमाणैर् वदताम् अर्थाद् एव विपर्ययात्" प्व् 3, 85; प्व्स्व् 22.
108, 12. वादन्याय स्य --- व्न् 65.
108, 17. कुमारिल स् तु --- प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता ॥ वस्त्वसङ्करसिद्धिश् च तत्प्रामाण्यसमाश्रया । क्षीरे दध्यादि यन् नास्ति प्रागभावः स उच्यते ॥ प्रत्यक्षादेर् अनुत्पत्तिः प्रमाणाभाव उच्यते । सात्मनः परिणामो वा विज्ञानं वाक्यवस्तुनि ॥ श्व् अभाव- 1, 2, 11.
108, 25. विप्रतिपत्ताव् अपि --- द्र्ष्टव्यं हेतुबिन्दुटीका गतं हेतुबिन्दु प्रकरणम्, 63, 16.
109, 8. न्ब् 19. --- "तस्मात् स्वभावप्रतिबन्धाद् एव हेतुः साध्यं गमयति । स च तद्धावलषणस् तद् उत्पत्तिलक्षणो वा अविनाभावाख्यः ।" प्व्स्व् 76.
110, 23. पूर्वेषाम् --- " अत्र स्वभावस्य प्रतिबन्ध इति षष्ठीसमासेन स्वभावहेतोः सङ्ग्रहः । स्वभावए प्रतिबन्ध इति नएनापि सप्तमीसमासेन कार्यहेतोर् इत्य् अन्यव्याखानम् असङ्गतम् आलोच्याह कारण इत्यादि । " त्प् 66.
111, 6. न्ब् 21 --- "पक्षधर्मस् तदंशेन व्याप्तो हेतोः ।" प्व् 2. 1.
113, 2. न्ब् 22 --- "कार्यकारणभावाद् वा स्वभावाद् वा नियामकात् । अविनाभावनियमो ऽदर्शनान्न् न दर्शनात् ॥" प्व् 33, 30; 2, 70. "अस्य मतस्य निराकरणार्थं" द्रष्टव्यान्ब्ट्त् 105 च.
113, 6. प्रतिज्ञार्थैकदेशः --- प्व्स्व्, 348.
115, 8. ननु --- द्रष्टव्या न्म् 117.
115, 24. एकसामग्र्यधीनता --- एकसामग्र्यधीनस्य रूपादेर् असतो गतिः ।हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥ प्व् 3, 8.
115, 32 पपीलिकोत्सरण --- "एतेन पिपीलिकोत्सरणमत्स्योद्वर्त्तनादिना वर्षद्य् अनुमानम् अप्य् उक्तम् ।" प्व्स्व् 50.
116, 3. न्ब् 24. --- "या काचिद्भावविषया ऽनुमितिर् द्विविधैव सा ॥ स्वसाध्ये कार्यभावाभ्याम् ।" प्व् 3, 196, 197.
117, 2. न्ब् 27. --- "शास्त्राधिकारासंबद्धा बहवो अर्था अतीन्द्रियाः । अलिङ्गाश् च कथं तेषाम् अभावो अनुपलब्धितः ॥" प्व् 3, 198-199.
119, 5. व्यवहर्तव्यः --- तस्माद् अनुपलम्भो अयं स्वयं प्रत्यक्षतो गतः । स्व-मात्र-वृत्तेर् गमकस् तद्-अभाव-व्यवस्थितेः ॥ प्व् 4, 274.
123, 4. दृश्यानुपलम्भः --- सो ऽन्यभावः प्रत्यक्षलक्षणेन अनुपलम्भेन सिद्धो मूढ-प्रतिपत्ताव् अभावव्यवहारं साधयेद् इत्य् सुचर्चितम् एव । --- ह्ब् 68.
124, 2. एकादशप्रकारा --- "सेयम् अनुपलब्धिस् त्रिधा --- सिद्धे कार्यकारणभावे भावस्य कारणस्य अनुपलब्धिर् व्याप्यव्यापकभाव-सिद्धौ सिद्धाभावस्य व्यापकस्य अनुपलब्धिः स्वभावानुपलब्धिश् च ।" --- ह्ब् 68;विरुद्धकार्ययोः सिद्धिर् असिद्धिर् हेतुभावयोः । दृश्यात्मनोर् अभावार्थानुपलब्धिश् चतुर्विधा ॥ --- प्व् 3, 3;20.7 इति इयं त्रिविधा अप्य् उक्तानुपलब्धिर् अनेकधा ।
20.8 तत् तद्विरुद्धाद्यगतिगतिभेदप्रयोगतः ॥ --- प्व् 3, 29.
124, 9. न्ब् 39 --- प्व् 3, 202. स्वभावासिध्या यथा नात्र धूमो ऽनुपलब्धेर् इति --- प्व्स्व् 40.
124, 24. षोडशप्रकारेति --- त्भ् 16.
125, 17. अभिधास्यते द्रष्टग्ये न्ब् 2, 42-43.
128, 6. इष्टम् --- इष्टं विरुद्धकार्ये अपि देशकालाद्यपेक्षणम् । अन्यथा व्यभिचारि स्याद् भस्मा इव अशीतसाधने ॥ प्व् 3, 5.
129, 1. न्ब् 33 --- एतेन व्यापकस्वभावासिद्धिर् उक्ता यथा नात्र शिंशपावृक्षाभावात् ॥ --- प्व्स्व् 40.
129, 10. न्ब् 34 --- विरुद्धस्य च भावस्य भावे तद्भावबाधनात् । तद्विरुद्धोपलब्धौ स्याद् असत्ताया विनिश्चयः ॥ प्व् 3, 203-4, प्व्स्व् 39.
129, 15. धर्मोत्तरेन --- द्रष्टव्यम् ध्प्र् 112, 3.
130, 3. न्ब् 35 --- विरुद्धकार्यसिद्ध्या हि यथा न शीतस्य्पर्शो धूमात् । --- प्व्स्व् 39.
131, 7. न्ब् 36 --- सापेक्षाणां हि भाबानां नावश्यम्भावतेक्ष्यते । --- प्व् 3, 193.
135, 1. न्ब् 38 --- एतेन व्यापकविर्द्धसिद्धिर् उक्ता वेदितव्या --- यथा --- नात्र तुषारस्पर्शः वह्नेः । प्व्स्व् 39.
135, 9. न्ब् 39 --- हेत्वसिद्ध्या यथा नात्र धूमो वहन्यभावाद् इति । --- प्व्स्व् 40.
137, 1. न्ब् 40 --- निमित्तयोर् विरोधे गमिका च कारणानुपलब्धिः यथा नास्य पुंसो रोमहर्षादिविशेषाः, संनिहितदहनविशेषत्वात् । प्व्स्व् 41.
138, 24. शान्तभद्रेण --- त्प् 57.
141, 5. न्ब् 43 --- एतेन तद्-विरुद्ध-अर्थ-कार्य-उक्तिर् उपवर्णिता । प्रयोगः केवलं भिन्नः सर्वत्र अर्थो न भिद्यते ॥ प्व् 2,90.
144, 4. न्ब् 45 --- सर्वत्रापि अभावसाधन्यामनुपलब्धेः दृश्यात्मनां तेषां --- प्व्स्व् 40.
145, 22. `प्राग् एवऽ द्रष्टव्यम् स्. 126, 1.
150, 2. न्ब् 1 --- शक्तस्य सूचकं हेतुवचो ऽशक्तम् अपि स्वयम् ॥ प्व् 4, 17.
151, 9. न्ब् 3. --- द्विविधो हि प्रयोगः साधर्म्यान् एव वैधर्म्यान् च । यद् अन्ये अन्वयी व्यतिरेकी च इत्य् आहुः । नानयोर् अन्यत्र प्रयोगभेदाद् अर्थतः कश्चिद् अपि भेदो । साधर्म्येणापि प्रयोगे ऽर्थाद् वैधर्म्यगतिः, असति तस्मिन् साध्यतेत्वोर् अनयाभावात् । --- प्व्स्व् 358.
151, 17. अबाधितत्वाद्य् अपि --- ह्ब्टा 205.
152, 16. न्ब् 6-7 ---तस्माद् अन्वय-व्यतिरेकयोर् यथा-लक्षणम् एको अपि प्रयुक्तो द्वितीयम् आक्षिपति इति नानयोर् अर्थतः कश्चिद् भेदो ऽन्यत्र प्रयोगात् । --- ह्ब् 56.
153, 6. वक्ष्यमाणेन --- द्रष्टव्यम् स्. 159.
156, 6. न्ब् 9. यथा xयत् सत् तत् सर्वं क्ष्णिकम्, यथा घटादयः । संश् च शब्दः । ह्ब् 55.
156, 21. वादयाय ---व्न् 21ff.
157, 6. न्ब् 10. --- क्वचित् स्वभावभूतदर्मपरिग्रहद्वारेण यथा तत्रैवोत्पत्तिः --- प्व्स्व् 149.
158, 2,. न्ब् 11. --- उपाधिभेदापेक्षो वा स्वभावः केवलो अथवा । उच्यते साध्यसिद्ध्यर्थं नाशे कार्यत्वसत्त्ववत् ॥ प्व् 3, 185-186.
159, 3. न्ब् 12. --- स्वभावनिष्पत्तौ अपेक्षित व्यापारभावो हि कृतकः । तेनेयं कृतकश्रुतिः स्वभावाभिधायिन्य् अपि परोपाधिम् एनम् आक्षिपति ॥ प्व्स्व् 348.
159, 12. न्ब् 13. --- एतेन प्रत्ययभेदभेदित्वादयो व्याख्याताः । प्व्स्व् 348.
160, 8. न्ब् 15. --- सिधिः स्वभावो गमको व्यापकस् तस्य निश्चितः । सिद्धः स्वभावनियतः स्वनिवृत्तौ निवर्तअकः ॥ प्व् 3, 191-2, प्व्स्व् 357.
161, 22. अत्र लुप्तटीकाश्शो तात्पर्य निबन्धनतो ज्ञेयः । तद् यथा --- "अमुम् एवार्थं प्रथमम् इत्यादिना विशदयति । तत्रे ति सामान्येन स्मृतस्यार्थस्य विशेषे योजने सति । तथा च सती ति सामान्यस्मरणस्य लिङ्गज्ञाने विशिष्टस्मरणस्य च नौमानज्ञाने सति अविनाभावित्वज्ञानम् एव प्रओक्षार्थप्रतिपादकत्वं नाम उक्त्या सम्भाव्यत इत्य् आह । किञ् च निश्चयस्मरणज्ञाने शब्दानाम् एकार्थता ऽवसेया ज्ञानोपाधिलिङ्गधर्मापेक्षया लिङ्गधर्मो ज्ञानोपाधिर् यस्माद् एतैः प्रतिपाद्यन्त इति । तेने ति । येन कारणेन साध्याविनाभावित्वनिश्चयनम् एव प्रतिपादकत्वत्वव्यापारः तेन हेतुना । ना यत्रे ति अन्यस्मिन् साध्यधर्म इत्य् उक्तम् इति वार्त्तिककृता मूलाचार्येण वा निश्चितपदं कुर्वता । यद् वा एवम् उक्तं भवतीति शेषः । कस्माद् अस्मारोपित एव धर्मिणो भेदे ऽपि धर्मयोर् भेदो न स्यात् --- इत्य् आह --- साध्ये ति । यस्मान् निश्चियारूढे निशिष्टविकल्पज्ञानप्रतिभासिनि रूपे साध्यसाधनयोर्नानात्वम् । यदि नामैवं स्यात् तथापि समारोपितो भेदः कथम् इत्य् आह --- निश्चया रूढं चे ति । इतर स्माद् इतर स्माच् च विजातीयाद् व्यावृत्तिर् व्यवच्छेदः, तत् कृतेन भेदेन भिन्नम् इति । अत्र इति ः तस्मादर्थे । तस्माद् अन्यत् साधनं तथा साध्यम् अपि । एतद् उक्तं भवति --- यदि कृतकत्वानित्यत्वादीनां तादात्म्यसम्बन्धो नेष्यते तदा तद्ध्रुवभावित्वं नाशस्य न स्यात् धर्मिणो ऽभिन्नत्वे मिथो ऽप्य् अभिन्नत्वं धर्मयोः । न च धर्मिणः सकाशाद् भेद इत्यादिकम् अन्यत्र प्रतिपादितम् इति नेह प्रतन्यते ।" त्प् 101.
169, 3. न्ब् 30. --- "न हि अतत्स्वभावस्य भावे एकान्तेनान्यस्य भावः, तन्निवृत्तौ वा निवृत्तिः । " ह्ब् 56.
172, 6. न्ब् 34. --- "पक्षधर्मसम्बन्धवचनमात्रसामर्थ्याद् एव प्रतिज्ञार्थस्य प्रतीतेः न प्रतिज्ञायाः प्रयोग उपदर्शितः ।" इत्यादि ह्ब् 55. "तत् पक्ष-वचनं वक्तुर् अभिप्राय-निवेदने । प्रमाणं संशय-उत्पत्तेः ततः साक्षान् न साधनम् ॥ साध्यस्य एव अभिधानेन पारंपर्येण न अप्य् अलम् ।" प्व् 4, 16-17अब्. । प्रक्षप्रयोगसमर्थनार्थं द्रष् ट् अव्या न्म् 571.
172, 16. स्वयूथैः --- "अवश्यम् एव न निर्दिश्य इति भणता न ह्य् अयं नियमो यद् अवश्यं पक्षो निर्दिश्यः इत्य् अन्यव्याख्योपहसितेति यतो ऽस्मिन् व्याख्याने पाक्षितः पक्षनिर्देशो ऽनुमत एव्ग । स चायुक्त इत्य् उक्तं वक्ष्यति च" त्प् 106.
178, 18. वादयाय --- व्न् 65.
176, 8. अर्थ --- "गम्यार्थत्वे ऽपि साध्योक्तेरसंमोहाय लक्षणम् ।" --- प्व् 4, 28.
176, 10. विप्रतिपत्तिनिराकरण --- "विप्रतिपत्तिनिराकरणार्थम् इति ब्रुवताऽन्यव्याख्या --- `एतच् च नियतपदार्थकथायां द्रष्टव्यम्, प्रपञ्चकथायां तु पक्षनिर्द्देशे ऽपि न कशिच्द् दोषःऽ इत्य् आद्यपास्ता ।" त्प् 107.
176, 12. न्ब् 39. --- असिद्धासाधनार्थोक्तवाद्यभ्युपगमग्रहः । अनुक्तो अपि इच्छया व्याप्तः साध्य आत्मार्थवन् मतः ॥ प्व् 4, 29.
178, 9. न्ब् 44. --- एकस्य धर्मिणः शास्त्रे नानाधर्मस्थिताव् अपि । साध्यः स्याद् आत्मना एव इष्ट इत्य् उपात्ता स्वयंश्रुतिः ॥ प्व् 4, 44.
179, 4. व्प्रतिपत्तिः --- उक्तयोः साधनत्वेन नो चेद् ईप्सित-वादतः । न्याय-प्राप्तं न साध्यत्वं वचनाद् विनिवर्तते ॥ प्व् 4, 70.
179, 11. न्ब् 45 --- विशेषस् तद्व्यपेक्षातः कथितो धर्मधर्मिणोः । अनुक्ताव् अपि वाञ्छाया भवेत् प्रकरणाद् गतिः ॥ प्व् 4, 39; 29.
182, 1. न्ब् 48. --- अनिषिद्धः प्रमाणाभ्यां स च उपगम इष्यते । सन्दिग्धे हेतु-वचनाद् व्यस्तो हेतोर् अनाश्रयः ॥ प्व् 4, 91; अनुमानस्य भेदेन सा बाधा उक्ता चतुर्विधा । तत्र अभ्युपायः कार्य-अङ्गं स्वभाव-अङ्गं जगत् स्थितिः ॥ प्व् 4, 91; न्प् 2. "ये चैते पक्षविरुद्धतादायः पक्षदोषा ये च वक्ष्यमाणाः साधनविकलत्वादयो दृष्टान्तदोषास् ते वस्तुस्ह्तित्या सर्वे हेतुदोषा एव । प्रपञ्चमात्रं तु पक्षदृष्टान्तदोषवर्णनम् । द्दृष्टान्तदुष्टत्यया च हेतोर् एव लक्षणमन्वयव्यतिरेकयोर् अन्यतरद् हीयत इति सर्वे च ते हेतुदोषा एव --- अत एव च शास्त्रे ऽस्मिन् मुनिना तत्त्वदर्शिना । पक्षाभासादयो नोक्ता हेत्व् आभास् तु दर्शिताः ।" न्म् 572.
183, 4. न्ब् 59. --- अर्थेष्व् अप्रतिषिद्धत्वात् पुरुष-इच्छा-अनुरोधिनः । इष्ट-शब्द-अभिधेयत्वस्य आप्तो अत्र अक्षत-वाग् जनः ॥ उक्तः प्रसिद्ध-शब्देन धर्मस् तद् व्यवहारजः । प्रत्यक्ष-आदिम् इति मान-श्रुत्य्-आरोपेण सूचितः ॥ प्व् 4, 109-110; चन्द्रतां शशिनो अनिच्छन् कां प्रतीतिं स वाञ्छति । इति तं प्रत्य् अदृष्टान्तं तद्-असाधारणं मतम् ॥ प्व् 120.
186, 6. अन्ये --- अन्ये त्व् इति शान्तभद्रा दयः --- त्प् 111.
188, 16. साधनाभासः --- न्प् 3.
197, 6. न्ब् 69. ---विपक्षे अदृष्टिमात्रेण कार्यसामान्यदर्शनात् । हेतुज्ञानं प्रमाणाभं वचनाद् रागितादिवत् ॥ प्व् 3, 11.
198, 3. न्ब् 71. --- न च अदर्शनमात्रेण विपक्षे अव्यभिचारिता ।संभाव्यव्यभिचारत्वात् स्थालीतण्डुलपाकवत् ॥ यस्य अदर्शनमात्रेण व्यतिरेकः प्रदर्श्यते । तस्य संशयहेतुत्वाच् शेषवत् तद् उदाहृतम् ॥ प्व् 3, 12-13.
198, 17. न्ब् 73. --- "अपर्यन्तकारणस्य भवतो ऽन्यभावे ऽभावाद् विरोधगतिः ।" --- प्व्स्व् 35.
202, 1. ये त्व् आहु --- "अत्रैवं मन्यन्ते शान्तभद्रा दयः --- वातादिशीतक्षणानामसतां सतां वा विरोधः स्यात् । न तावदसतो ऽनुत्पत्तिकेन सह विरोधगतिः । .. नापि येषां सत्त्वं तेषां क्षणिकत्वेनैव निवृत्तेः निर्वतकाभात् । किं चायं विरोध द्विष्ठ इष्यते । स कथं घटते । विरुद्धयोर् एकस्मिब्न् अपि क्षणे सहस्थिते सस्थाने वा ऽविरुद्धतैव घटपटयोर् इव स्यात् । इत्य् अवास्तव एवायम् अत एवाह विरोधगतिर् इति विरोधव्यबहार इति ।" त्प् 118.
203, 7. न्ब् 75. --- "अन्योन्योपलम्भिपरिहारेण स्थितिलक्षाणता वा विरोधो नित्यानित्यवद् ।" प्व्स्व् 36.
207, 8. न्ब् 76. --- उक्त्य्-आदेः सर्ववित् प्रेत्य-भाव-आदि-प्रतिषेध-वत् । अतीन्द्रियाणाम् अर्थानां विरोधस्य अप्रसिद्धितः ॥ प्व् 2, 92.
209, 8. न्ब् 78. "न हि चलनचनादि रागादिकार्यम्, वक्तुकामता । सैव राग इत् चेत् । इष्टत्वान् न किंचिद् बाधितं । रागं हि नित्यसुखात्मात्मीयदर्शनाभिनिवेषाक्षिप्तं सास्रवधर्मविषयं आहुः । न एवं करुणादयः । अन्यापि संभवाद् --- इति निवेदयिष्यामः । यथा रक्तो ब्रवीति तथा विरक्तो अपि । एवं न वचनमात्रात् न अपि विशेषात् प्रतिपत्तिः । अभिप्रायस्य दुर्बोधत्वात् । व्यवहारसंकरेण सर्वेषां व्यभिचारात् । प्रयोजनाभावे अवचनम् इति चेत् । न । परार्थत्वात् व्यवहारस्य । न युक्तो वीतरागत्वाद् इति चेत् । न । करुणा अपि वृत्तेः । सैव करूणा राग इति चेत् । इष्टम् । अविपर्याससमुद्भवाद् अदोषः करुणा असत्य् अप्य् आत्मग्रहे दुःखविशेषदर्शनमात्रेण अभ्यासबलोत्पादिता । तथा हि । मैत्र्यादयः सत्त्वधर्माद्यालम्बना इष्यन्ते । एताश् च सजातीयाभ्यासवृत्तयो न रागापेक्षिण्यः । नैवं रागादयः, विपर्यासाभावे अभावात् । कारुणिकस्य निष्फल आरम्भो अविपर्यासाद् इति
चेत् । न । परार्थस्यैव फलत्वेन इष्टत्वात् । सर्वथा अभूतासमारोपान् निर्दोषः । तदन्येन वीतरागस्य दोषवत्त्वसाधने न किंचिद् अनिष्टम् । वक्तर्य् आत्मनि रागादिदर्शनाद् --- अन्यत्र तदनुमाने हि अतिप्रसङ्गः । व्यभिचारात् । अनन्यानुमाने इहाव्यभिचार इति को निश्चयः? प्व्स्व् 51.
211, 12. न्ब् 86. "अनन्वयो ऽपि दृष्टान्ते दोषस् तस्य यथोदितम् । आत्मा परश्चेत् सो ऽसिद्ध इति तत्रेष्टघातवत् ॥" प्व् 4, 32; "यथोदितम् आचार्य वसुबन्धुना --- परार्थाश् चक्षुरादय इत्य् अत्र परश् चेद् आत्मा विवक्षितः सो ऽसिद्धौ दृष्टान्त इति । तत्रान्वये सति इष्टविघातवत् साधनम्, इष्टात्मार्थत्वविपर्ययेणान्वयात् तत्साधकत्वात् ।"प्व्ट् 4, 32.
214, 8. न्ब् 95. ---अयम् एवं न वा इत्य् अन्यदोषानिर्दोषता अपि वा ।दुर्लभत्वात् प्रमाणानां दुर्बोधा इत्य् अपरे विदुः ॥ प्व् 3, 219.
214, 16. न्ब् 97. --- "प्राण-आद्य्-अभावो नैरात्म्य-व्याप्ती इति विनिवर्तने । आत्मनो विनिवर्तेत प्राण-आदिर् यदि तच् च न ॥" प्व् 4, 208.
228, 8. पैलुकेन --- " पैलुकेने ति वैशेषिकेण किलायं पाकः पीलूनां परमाणूनाम् इति मन्यते अतः पीलुक उक्तः ।"
254, 2. न्ब् 137-138 --- असाधनाङ्गवचनम् अदोषोद्भाव नं द्वयोः । निग्रहस्थानम् अन्यत् तु न युक्तम् इति नेष्यते ॥ व्न् 2; न्ब्ट्त् 492; न्म् 639; प्म् 671.
मूल पाठ: Dharmottarapradīpa subcommentary on Dharmottara's Nyāyabinduṭīkā on Dharmakīrti's Nyāyabindu · Edition: Dalsukhbai Malvania, Patna: Kashiprasad Jayaswal Research Institute 1971 (Tibetan Sanskrit Works, 2) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0