धर्मोत्तरप्रदीप · भाग 4160
[233] य्द् उत्पत्तिः; यद् उत्पत्तिमद् इति उत्पत्तिमत्त्वम् अनू-
[234] लाभः स यस्मास्ति
[235] विधेः
स्वभावं [236] भूतः [237]तदात्मको धर्मः । तस्य भेदेन । भेदं हेतूकृत्य प्रयोगः । [238]अनुत्पन्नेभ्यो हि व्यावृत्तिम् आश्रित्योत्पन्नो भाव[239] इत्य् उच्यते । सैव व्यावृत्तिर् यदा व्यावृत्त्यन्तरनिरपेक्षा वक्तुम् इष्यते तदा व्यतिरेकिनीव निर्दिश्यते --- भावस्य उत्पत्तिर् इति । यथा च व्यतिरिक्तयेवोत्पत्त्या विशिष्टं[240] वस्तु उत्पत्तिमद् उक्तम् । तेन स्वभावभूतेन धर्मेण कल्पितभेदेन
__________नोतेस्__________
[236] अग्रे स्वयं दुर्वेकेण `स्वभावभूतः स्वभावात्म्कःऽ इत्यादिना `स्वभावभूतःऽ इत्य् एव धरोत्तर संमतः पाठ इति गृहीतस् तथापि अत्र तेनैव `स्वहावं भूतःऽ इत्य् एव्ंरूपेण गृहीतो ऽस्ति इति व्याख्यानुरोधाद् भावि --- सं- । स्वभावभूतः --- अब्च्द्फेन्
[237] स्वभावात्म्को
[238] ननु स्वभावभूतस्य कथं भद इत्य् आह --- टि-
[239] भाव उच्यते
[240] विशिष्टं च वस्तु
भवतीति नियमख्यापनार्थं सर्व ग्रहणं भवति । अन्यथा निःशेषत्वानुपपत्तेर् इति । सर्वम् इत्याद्य् अस्यैव स्पस्टीकरणम् । तथा च सति नियतत्वनियमविषयत्वख्यापनप्रकारे सति । इदं वाक्यं यत् सत् तद् अनित्यम् इत्य् आत्मकम् । व्याप्तिसाधकस्य प्रमाणस्ये ति यस्य क्रमाक्रमा ऽयोगो न तस्य क्वचित् सामर्थ्यं यथाकाशकुशेशयस्य । अस्ति चाक्षणिके स इति व्यापकानुपलम्भसम्भबस्यानुमाणस्येति द्रष्टव्यम् । एतच् च बहुवाच्यम् अन्यत्र विपञ्चितम् नेहाप्रकृतत्वात् प्रतन्यते ।
कथं पुनर् उत्पत्तिर् भावस्य विशेषणम् इत्य् आःअ --- स्वभावम् इति । स्वभावं भूतः प्राप्त इति कर्त्तरि निष्ठा "द्वितीया" [पाणिनि 2.1.24.] इति योगविभागात् [59ब्] समासः । अस्यैव स्पष्टीकरण तदात्मक इति । यदि स्वभावः कथं विशेषणम्, भेदेन तस्य दर्शनाद् इत्य् आह ---
[ध्प्र् प्. 158]
विशिष्तः स्वभावः प्रयुक्तो द्रष्टवः ॥
यत् कृतकं तद् अनित्यम् इत्य् उपाधिभेदेन इइइ-11
यत् कृतकम् इति कृतक्त्वम् अनूद्य [241]अनित्यत्वं विधीयत इति अनित्यत्वे नियतं कृतकतम् उक्तम् । अतो व्याप्तिर् अनियत्वेन कृतकत्वस्य दर्शिता । उपाधिभेनेन स्वभावस्य प्रयोग इति संबन्धः । उपाधिर् विशेषणम् । तस्य भ्देदेन भिन्नोपाधिना विशिष्टः स्वभावः प्रयुक्त इत्य् अर्थः ।
__________नोतेस्__________
[241] अनित्यतत्वे
[242]इह कदाचिच् छुद्ध एवार्थ उच्यते, कदाचिद् अव्यतिरिक्तेन विशेषणेन विशिष्टः कदाचिद् व्यतिरिक्तेन । देवदत्त इति शुद्धः, लम्बकर्ण इत्य् अभिन्नकर्णद्व्च्यविशिष्टः , चित्रनुरिति व्यतिरिक्तचित्रगवीनिशिष्तः । तद्वत् सत्त्वं शुद्धम्, उत्पत्तिमत्त्वम् अव्यतिरिक्तव्शेषणम्, कृतकत्वं व्यतिरिक्तविशेषणम् ॥
__________नोतेस्__________
[242] परार्थानुमाने --- टि-
तस्ये ति । भेदेन विशेष्याव्यतिरिक्ततया विशेषकत्वलक्षणेन विकल्पसन्दर्शितेन । स्वभावभूतः स्वभात्मको धर्म इति च परमार्थाभिप्रायेणोक्तम् । भेदेने तीयं तृतीया हेताव् इति दर्शयन्न् आह --- भेदम् इति । व्यवहारसिद्धं भेदम् उत्पत्तुः सकाशाद् अन्यत्वं हेतूकृत्य निबन्धनीकृत्य प्रयोगः सविशेषणस्य स्वभावहेतोर् इति प्रकरणात् ।
कल्पनया ऽपि कथं भेदो येनोत्पत्त्या विशिष्टम् उत्पत्त्या विशिष्टम् उत्पत्तिमद् उच्यत इत्य् आह --- अनुत्पन्नेभ्य इति । हि र् यस्मात् । अनुत्पन्नेभ्य आकाशादिभ्यो व्यावृत्तिं व्यवच्छेदम् आश्रित्य परिकल्प्य । यदि व्यावृत्त्याश्रयेणोत्पन्नो भाव उच्यते तर्हि कथम् उत्पत्तिर् अस्येति प्रयोग इत्य् आह --- सैवे ति । व्यावृत्त्यन्तरं महत्त्वादि तन् निरपेक्षा वक्तुम् इष्यते यदा तदा । तेन परमार्थः स्वभावभूतेनोत्पत्त्याख्येन धार्मेण कल्पितः समारोपितो भेदो ऽर्थान्तरत्वं यस्य ये(ते)न अव्यतिरिक्तेन विशेषणेन विशिष्टस्य स्वभावहेतोः प्रयोग इत्य् अर्थः ।
पूर्वम् अव्यतिरिक्तविशेषणविशिष्टस्य स्वभावस्य प्रयोगः । अधुना तु भिन्नविशेषण विशिष्टस्येति भेदस् तद् आह --- भिन्नेने ति । यद् वा भिन्नेन पूर्वस्य्माद् अन्यादृशेन सङ्केतवशाद् अन्तर्भावितेन, न तु विद्यमानस्ववाचकेन । अत एवायम् अन्यतो भिद्यते प्रयोगः ।
इहे ति परप्रतिपादनार्थे शब्दप्रयोगे । शुद्धो निर्विशेषणः । अथ किम् एको अर्थः शुद्धः कदाचिद् अव्यतिरिक्तोपाधिना विशिष्टः; कदाचिद् व्यतिरिक्तविशेषणविशिष्टो दृष्टः शिष्टैः प्रयुज्यमानो येनैवम् उच्यमानं परभागं पुष्णातीय् आह --- देवदत्त इति । वक्ष्यमाण तद्वत् शब्दात् यद्वत्शब्दो ऽत्र द्रष्टव्यः । चित्रा चासौ गौ श् चेति "गोर् अतद्धितलुकि" [पाणिनि 5.4.92] इति टच्, टित्वाङ् ङीप् तया विशिष्टः । यथाक्रमम् एव दृष्टान्तदार्ष्टान्तिकयोजना कार्या ।
चित्त्रगु शब्देन कृतकशब्दस्य साम्यं नास्तीति मन्वानः पर आह --- ननु चे ति । कारणानां व्यापारो नियतप्राग्भावस् तदतिरेकिणो व्यापारस्याभावात् । ननु च कृतकशब्दे न विशेषणवाचिशब्दो ऽस्तीति यद् उक्तं तत् तदवदस्थम् एवेत्य् आह --- यद्य् अपी ति । अन्तर्भावितं प्रकाशितम् । कथं
[ध्प्र् प्. 159]
ननु च चित्रगुशब्दे व्यतिरेक्तस्य विशेषणस्य वाचकश् चित्रशब्दो गोशब्दश् चास्ति । कृतकशब्दे तु निर्विशेषणवाचिनः शब्दस्य प्रयोगो ऽस्तीत्य् आशङ्क्याह ---
अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति इइइ-12
अपेक्षिते ति । परेषां कारणानां व्यापारः स्वभाव स्य निष्पत्तौ --- निष्प्तत्त्य् अर्थम् अपेक्षितः परव्यापारो येन स तथोक्तः । ही ति यस्यादर्थे । यस्माद् अपेक्षित परव्यापारः कृतक उच्यते तस्माद् व्यतिरिक्तेन विशेषणेन विशिष्टः स्वभाव उच्यते । यद्य् अपि व्यर्तिरिक्तं विशेषणपदं [243]न प्रयुक्तं तथापि कृतकशब्देनैव व्यतिरिक्तं [244]विशेषणपदम् अन्तर्भावितम् । अत एव संज्ञाप्रकारो ऽयं कृतकशब्दो यस्मात् संज्ञायाम् अयं कन् प्रत्ययो विहितः । यत्र च विशेषणम् अन्तर्भाव्यते तत्र विशेषणपदं न प्र्युज्यते ।
__________नोतेस्__________
[243] न च प्रयु-
[244] विशेषणमन्त-
क्वचित्[245] तु प्रतीयमानं विशेषणं यथा कृत इत्य् उक्ते हेतुभिर् इत्य् एतत् प्रतीयते । तत्र[246] च हेतुशब्दः प्रयुज्यते, कदाचिन् न वा प्रयुज्यते ॥
__________नोतेस्__________
[245] क्वचित् प्र-
[246] तत्र हेतु
एवं प्रत्ययभेदभेदित्वादयो अपि[247] द्रष्टव्याः इइइ-13
__________नोतेस्__________
[247] -दओ द्र-
प्रयुज्यमानस्वशब्दश्[248] च यथा प्रययभेदभेदिशब्दे[249] प्रययभेदशब्दः[250] । यथा च कृतकशब्दो भिन्नविशेषणस्वभावाभिधायी एवं प्रययभेदभेदित्वम् आदिर् येषां प्रयत्नानतरीयकत्वादीनां ते ऽपि स्वभावहेतोः प्रयोगा भिन्नविशेषणस्वभावाभिधायिनो द्रष्टाव्याः ।
__________नोतेस्__________
[248] स्व शब्दो विशेषणशब्द --- टि-
[249] प्रत्ययभेदशब्दे
[250] प्रययभेदः
प्रयया नां कारणानां भेदो विशेषस् तेन प्रययकालाभेदेन भेत्तुं शीलं यस्य स प्रययभेदभेदी शब्दस् तस्य भावः प्रययभेदभेदित्व म् । ततः प्रययभेदभेदित्वाच् छब्दस्य कृतक्त्वं साध्यते । प्रयत्नानन्तरीयकत्वाद् अनित्यत्वम्[251]। तत्र प्रययभ्देदशब्दो व्यतिरिक्तविशेषणाभिधायी प्रययभेदभेदिशब्दे प्रयुक्तः । प्रयत्नानन्तरीयकशब्दे च प्रयत्नशब्दः ।
__________नोतेस्__________
[251] त्वं साध्यते
पुनः कृतकशब्देनान्तर्भावितम् इत्य् आह --- यस्माद् इति । संज्ञायां नाम्नि कन् प्रत्ययो विहितस् तस्माद् अन्तर्भावितम् इति । अत एव संज्ञाया कनो विधान्बाद् एवायं कृतकशब्दः संज्ञाप्रकारः संज्ञाविशेषः संज्ञाशब्द इति यावात् ।
अन्तर्भावे ऽपि कथं विशेषणपदाप्रयोग इत्य् आह --- यत्रे ति । चो यस्मादर्थे । अथावसितस्याप्य् अस्ति प्रयोगो यथा कृतक इत्य् उक्ते हेतुनेति प्रतीताव् अपि हेतुशब्दप्रयोग इत्य् आह --- क्वचिद् इति । तु ः पूर्वस्माद् वैधर्म्यं(-म्ये) । प्रतीयमानं स्वत उत्पादायोगात् सामर्थ्याद् अवसीयमानम् ।
[ध्प्र् प्. 160]
तद् एवं तिर्विधः स्वभावहेतुप्रयोगो[252] दर्शितः शुद्धो ऽव्यतिर्क्तविशेषणो व्यतिर्क्तविशेषणश् च ।
__________नोतेस्__________
[252] -हेतुयोगो
[253]एवमर्थं चैतद् आख्यातं --- वाचकभेदान् मा भूत् कस्यचित् स्वभावहेताव् अपि प्रयुक्ते व्यामोह इति ॥
__________नोतेस्__________
[253] एतद् अर्थम्
[254]सन्न् उत्पत्तिमान् कृतको वा शब्द इति पक्षधर्मौपदर्शनम् [255] इइइ-14
__________नोतेस्__________
[254] अन्नोत्प-
[255] अस्मिन् सूत्रे न किंचित् केनचिद् व्याख्यातम्
अथ किम् एते स्वभावहेतवः सिद्धसम्बन्धे स्वभावे साध्ये प्रयोक्तव्या आहोस्विद् असिद्धसम्बन्ध इत्य् आशङ्क्य सिद्धसम्बन्धे प्रयोक्तव्या इति दर्शयितुम् आह ---
सर्व एते साधनधर्मा यथास्वं प्रमाणैः सिद्धसाधनधर्ममात्रानुबन्ध एव साध्यधर्मे ऽवगन्तव्याः इइइ-15
सर्व एत इति । गमकत्वात् साधनानि, पराश्रितत्वाच् च धर्माः, साधनधर्मा एव
अयम् अस्याशयः --- न कृतकशब्देन प्रतिपादितस्यार्थस्य अन्यथानुपपत्त्या हेतुव्यापारो ऽत्र प्रतीयते येनातरापि विशेषणपदस्य [60अ] प्रयोगो वक्तुर् इच्छातः स्याद् वा न वा किन् तु स्वोत्पत्ताव् अपेक्षितपरव्यापारस्यैवार्थस्येदं नामेति कुतो ऽनयोः साम्यम् इति ।
एवं तावत् कश्चिद् विशेषणभूतो ऽर्थो ऽर्थात् प्रतीयमानः स्वशब्देनोच्यते न वा वक्तुर् इच्छावशाद् इति प्रतिपाद्य कश्चित् पुनर् विशेषणभूतो ऽर्थः प्रतीयमानो ऽप्य् अवश्यं स्वशब्दोपादेय इति दर्शयितुम् आह --- प्रयुज्यमाने ति । प्रयुज्यमान उपादीयमानः । स्वशब्दः स्ववाचको यस्य विशेषणरूपस्यार्थस्य स तथोक्तः । को ऽसाव् ईदृश इत्य् आह --- यथे ति । प्रययभेदः प्रययभेदलक्षणो ऽर्थो विशेषणात्मा ऽवश्यं स्ववाचकेन प्रययभेदशब्देनाभिधीयते इति प्रकरणात् ।
भेत्तुं भिदां गन्तुं । कसिमिन् साध्ये साधनम् इदम् इत्य् आह --- शब्दस्ये ति । एतच् च मीमासकादिनां प्रति द्रष्टव्यम् ।
तद् एवम् इत्यादिनोपसहारः । स्वभावहेतोः साधर्म्यवत् प्रयोगमात्रे दर्शयितव्ये किम् अनेकस्य स्वभावहेतोः प्रयोगो दर्शित इत्य् आशङ्क्य फलम् अस्योपदर्शयन्न् आह --- एवमर्थं चैतद् इति । एवं वक्ष्यमाणको ऽर्थः प्रयोजनं यस्येति विग्रहः कार्यः । चो ऽवधारणे हेतौ वा । एतद् इति त्रैविध्यम् । एवमर्थं चैतत् हेतुजातम् इति क्वचित् पाठस् तत्र च जातं वृन्दं द्रष्टव्यम् । तम् एवार्थं वाचके त्यादिना दर्शयति । वाचके व्यामोहो भ्रमस् तस्मात् । कस्यचित् प्रतिपत्तुः स्वभावहेताव् अपि प्रयुक्ते व्यामोहो `नायं स्वभावःऽ इति विपर्ययज्ञानम् ।
एतद् उक्तं भवति --- यदि त्रयाणाम् अन्यतम उपादीयते तदा कदाचिद् अन्येनान्यथा प्रयुक्ते स्वभावहेतौ शास्त्रोक्तस्वभावहेतुवाचक[भिन्न]त्वात् `नायं स्वभाववाचकःऽ इति वाचके
[ध्प्र् प्. 161]
साधनधर्ममात्रम् । मात्र शब्देनाधिकस्यापेक्षणीयस्य निरासः । तस्य् आनुबन्धो ऽनुगमनम् अन्वयः । सिद्धः साधनधर्ममात्रानुबन्धो यस्य स तथोक्तः । केन सिद्ध इत्य् आह --- यथास्वं प्रमाणैर् इति[256] । यस्य साध्यधर्म्यस्य यदात्मीयं प्रमाणं तेनैव प्रमाणेन सिद्ध इत्य् अर्थः । स्वभावहेतूनां च बहुभेदत्वात् संबन्धसाधनान्य् अपि प्रमाणानि बहूनीति प्रमाणैर् इति बहुवचननिर्देशः । गमयितव्यत्वात् साध्यः, पराश्रितत्वाच् च धर्मः साध्यधर्मः ।
__________नोतेस्__________
[256] अथ नान्तरीयत्वानिश्चये ऽपि लिङ्गस्य परोक्षार्थप्रतिपादकत्वं स्याद् इत्य् आह --- टि-
तद् अयं परमार्थः --- न हेतुः प्रदीपवद् योग्यतया गमको ऽपि तु नान्तरीयकतया विनिश्चितः[257] । साध्याविनाभावित्वनिश्चियनम् एव[258] हि हेतोः साध्यप्रतिपादनव्यापारो नायः कश्चित् ।
__________नोतेस्__________
[257] प्रमाणैर् यस्य साधनधर्मस्य यदात्मीयं; प्रमाणैर् यदात्मीयं
[258] एव हेतोः
व्यामुह्य `नायं स्वभावःऽ इति साधने ऽपि व्यामुह्येत । स व्यामोहो मा भूद् इत्य् एतद् अर्थं त्रिविधः स्वभावहेतुर् उक्तः ।
अथे ति सम्बोधने । सिद्धो निश्चितः सम्बन्धस् तादात्म्यलक्षणो यस्य तस्मिन् । यस्य साध्यधर्मस्य यदात्न्मीयम् इति येन प्रमाणेन यस्य साध्यस्य साधनव्याप[क]तं निश्चीयते । तद् एव तस्येत्य् अभिप्रयेणोक्तम् । व्यक्तिभेदविवक्षया बहूनीत् य् उक्तम् ।
साध्यसाधनयोः सम्बन्धो वास्तवो ऽस्तु । किं तन्निश्चयेनेत्य् आह --- तद् अयम् इति । यत एवं तत् तस्माद् अयम् अभिधास्यमानस् तात्पर्यार्थः सर्व इत्यादेर् वाक्यस्य । प्रदीपो वैधर्म्यदृष्टान्तः । योग्यतया तथाशक्त्यतया ।
ननु परोक्षार्थप्रतिपादनव्यापारसमावेशाद् हेतुर् गमकः तत् किं साध्यनान्तरीयकत्वनिश्चयेनेत्य् आह --- साध्ये ति । हि र् यस्मादर्थे । साध्याविनाभावित्वनिश्चयनम् अत्रापीदम् एतत् स्वभावम् इति निश्चयः । तद् एव हेतोः प्रतिपादनव्यापारः परोक्षार्थप्रतिपादनलक्षणो व्यापारः परोक्षार्थप्रतिपादकतम् इत्य् अर्थः । यद्य् एवम् अनिश्चतसम्बन्भे ऽपि साध्यधर्मे साधनधर्मस् तन्नान्तरीयकतया निश्चेतुं शक्य इति किं सिद्धसम्बन्धेन साध्येनानुसृतेनेत्य् आह --- प्रथमम् इति । प्रथमं हेतुप्रयोगात् प्राक्, बाधकेने साध्यविपर्ययो हेतो [60ब्][259].......................................................................................................................................................................................................................................................................................................................................................................................................................................................................................................... .................................................................................................. ................. [61] साध्यसाधनभाव इति चेत् । यद् दर्शनद्वारायाताव् एतौ कृतकत्वानित्यत्वविकल्पौ व्यावृत्तिनिष्ठौ परमार्थतस् तस्य तादात्म्याद् इत्य् उक्तप्रायम् इत्य् दोषः । तादात्म्यावसायः कुत इति चेत् विपर्यये वाधकप्रमाणवशात् । तत एव तर्हि साध्यं सिद्धम् इति किं साध्यत इति चेत् । न ततो धर्म्यनवच्छेदेन प्लवमानाकारायाः प्रतीतेर् अप्रवृत्त्यङ्गस्योदयात् । यत् पुनर् इयं घर्मकालविशेषानवच्छेदेन
__________नोतेस्__________
[259] नैतत्पत्रं प्रतिबिम्बितम् --- सं-
[ध्प्र् प्. 162]
[260]प्रथमं बाधकेन प्रमाणेन साध्यप्रतिबन्धो निश्चेतव्यो हेतोः । पुनर् अनुमानकाले[261] साधनं साध्यनान्तरीयकं[262] सामान्येन स्मर्तव्यम् । कृतकत्वं नामाणित्यस्वभावम्[263] इति सामान्येन स्मृतम् अर्थं[264] पुनर् विशेषे योजयति --- इदम् अपि कृतकत्वं शब्दे वर्तमानम् अनित्यस्वभावम्[265] एवेति ।
__________नोतेस्__________
[260] प्राग् अनुमानात् --- टि-
[261] -कालेन साधनं
[262] साध्यानन्तरीकं
[263] -त्यत्वस्व-
[264] स्मृतम् अर्थाय
[265] -त्यत्वस्व-
तत्र सामान्यस्मरणं लिङ्गज्ञानम्[266] । विशिष्टस्य तु शब्दगतकृतकत्वस्या [267]ऽनित्यत्वस्वभास्य स्मरणम् अनुमानज्ञानम्[268] । तथा च सत्य् अविनाभावित्वज्ञानम् एव परोक्षार्थप्रतिपादकत्वं नाम । तेन निश्चिततन्मात्रानुबन्धे साध्यधर्मे साध्यधर्म्ने स्वभावहेतवः प्रयोक्तव्या नान्यत्रेत्य् उक्तम् ॥
__________नोतेस्__________
[266] लिङ्गनिश्चायकं ज्ञानम् --- टि-
[267] कृतकस्या
[268] मानं ज्ञानं
यद्य् एवं सम्बन्धो निश्चेतव्यः साध्यस्य साधनेन सह । साधनधर्ममात्रानुबन्धस् तु साध्यस्य कस्मान् निश्चितो मृग्यत इत्य् आह ---
[269]तस्य एव तत्स्वभावत्वात् इइइ-16
__________नोतेस्__________
[269] तस्यैव --- ओम्.
तस्यैवे ति सिद्धसाधनधर्ममात्रानुबन्धस्य । तत्स्वभावत्वाद् इति साधनधर्मस्वभावत्वात् । यो हि साधयधर्मः साधनधर्ममात्रानुबन्धवान् स एव तस्य साधनधर्मस्य् स्वभावो नान्यः ॥
भवतु ईदृश एव स्वभावः । स्वभाव एव तु साध्ये कस्माद् धेतुप्रयोगः?
स्वभावस्य च[270] हेतुत्वात् इइइ-17
__________नोतेस्__________
[270] -स्य हेतु-
स्वभासस्य च[271] हेतुत्वात् । स्वभाव एव[272] इह हेतुः प्रक्रान्तः । तस्मात् स एव साध्यः कर्तव्यः यः साधनस्य स्वभावः स्यात् । साधनधर्ममात्रानुबन्धवांश्[273] च स्वभावो न्यायः ॥
__________नोतेस्__________
[271] -स्य हेतु-
[272] स्वभाव एव हेतु; स्वभाव इह
[273] -न्धश् च स्व-
यदि साध्यधर्मः साधनस्य स्वभावः[274] स्यात् प्रतिज्ञार्थैकदेशस् तर्हि हेतुः स्याद् इत्य् आह ---
__________नोतेस्__________
[274] स्वभावः प्रति-
वस्तुतस् तयोस् तादात्म्यम्[275] इइइ-18
__________नोतेस्__________
[275] -आत्म्यात्
वस्तुत इति । वस्तुतः परमार्थतः साध्यसाधनयोस् तादात्म्यम् । समारोप्तितस् तु साध्यसाधनभेदः[276] । साध्यसाधनभावो हि निश्चयारूढे रूपे । निश्चयारूढं च रूपं समारोपितेन
__________नोतेस्__________
[276] -साधनयोर् भेदः
तदात्मताप्रतीतिः प्रवृत्त्यङ्गम् इयम् अस्माद् एव लिङ्गाद् इति किम् अवद्यम्? एवं सत्त्वहेताव् अपि द्रष्टव्यम् । एतच् चोक्तम् अपि स्वार्थानुमाने ऽधिकाभिधानार्थं पुनर् उक्तम् इहेति द्रष्टव्यम् ॥
[ध्प्र् प्. 163]
भेदेनेतरेतरव्यावृत्तिकृतेन भिन्नम् इति अन्यत् साधनम्, अन्यत् साध्यम् । दूराद् धि शाखादिमान् अर्थो वृक्ष इति निश्चीयते न शिंशपेति । अथ च स एव वृक्षः सैव शिंशपा । तस्माद् अभिन्नम् अपि वस्तु निश्चयो भिन्नम् आदर्शयति
व्यावृत्तिभेदेन । तस्मान् निश्चयारूढरूपापेक्षया अन्यत् साधनम् अन्यत् साध्यम् । अतो न प्रतिज्ञार्थैकदेशो हेतुः । वास्तवं च तादात्म्यम् इति ॥
कस्मात् पुनः साधनधर्ममात्रनुबन्ध्येव[277] साध्यः स्वभावो नान्य इत्य् आह ---
__________नोतेस्__________
[277] -बन्धे च साध्यः
तन्निष्पत्ताव् अनिष्पन्नस्य तत्स्वभावत्वअभावात्[278] इइइ-19
__________नोतेस्__________
[278] स तन्निष्पत्ताव् अनिष्पन्नस्य साधन
तन् निष्पत्ताव् इति । यो हि यन् नानुबध्याति स[279] तन्निष्पत्ताव् अनिष्पन्नः । तस्य तन्निष्पत्ताव् अनिष्पन्नस्य साधनस्वभावत्वम् अयुक्तम् । यतो निष्पत्त्यनिष्पत्ती भावाभावरूपे । भावाभावी च परस्परपरिहारेण स्थितौ । यदि च पूर्वनिष्पन्नस्य, अनिष्पन्नस्य चक्यं भवेद् एकस्यैवार्थस्य भावाभावौ स्यातां युगपत् । न च विरुद्धयोर् भावाभावयोर् ऐक्यं युज्यते, विरुद्धधर्मसंसर्गात्मकत्वाद् एकत्वाभावस्य [280]।
__________नोतेस्__________
[279] अयम् एव भेदोभावनां विरुद्धधर्माध्यासः, कारणभेदश् च --- टि-
[280] व्यभिचारेत्यादि --- ओम्.
किञ् च पश्चाद् उत्पद्यमानं पूर्वनिष्पन्नाद् भिन्नहेतुकम् । हेतुभेदपूर्वकश् च कार्यभेदः । ततो निष्पन्नानिष्पन्न्योर् निरुद्धधर्मसंसर्गात्म्को भेदो भेदहेतुश् च कारणभेद इति कुत एकत्वम्? तमात् साधधर्ममात्रानुबन्ध्य् एव साध्यः स्वभावो नायः ॥
मा भूत् पश्चान् निष्पन्नः पूर्वजस्य स्वभावः । साध्यस् तु कस्मान् न भवतीत्य् आह
व्यभिचारसम्भवाच् च इइइ-20
व्यभिचारेत्यादि । पूर्वजेन पश्चान् निष्पन्नस्य व्यभिचारः परित्यागो यस् तस्य स भवाच् च
ननु किम् अस्य सम्भवो ऽस्ति यद् उत्तैकात्मन एवैका व्यावृत्तिर् निश्चीयते नेतरेत्य् आह --- दूराद् इति । हि र् यस्मात् । अथ चे ति निपातसमुदायः प्रतिपिपादयिषितपरमार्थद्योतकः । वृक्षः शिंशप् एति चोपलक्षणम् एतत् ।
तस्माद् इत्यादिनोपसंहारः । वास्तवं वस्तुस्वरूपाद् आगतम् असमारोपितम् इत्य् अर्थः । तुशब्दार्थश् च कारः ॥
यः साध्यधर्मो यं साधनधर्मं नानुबध्याति , नानुगच्छति, तस्मिन् सति नियमेन नोपतिष्ठत इति यावत् । कस्मात् तत्स्वभावत्वम् अयुक्तम् इत्य् आह --- यत इति । भवतां भावाभावरूपे तथा ऽपि किं तयोस् तत्स्वभावत्वम् इत्य् आह --- भावे ति । चो यस्मादर्थे । यद् इच्छ (यदि चे) ति च शब्दो वक्तव्यान्तरसमुच्चये ।
[ध्प्र् प्. 164]
न पूर्वनिष्पन्नस्य पश्चान् निष्पन्नः साध्यः । तस्मात् साधनधर्ममात्रानुबन्ध्य्[281] एव स्वभावः । स एव च साध्यः । तथा च सिद्धसाधनधर्ममात्रानुबन्ध एव स्वभावे स्वभाहेतवः प्रयोक्तव्या इति स्थितम् ॥
__________नोतेस्__________
[281] -बन्ध्य् एव यः स्वभावः
कार्यहेतोः[282] प्रयोगः--- यत्र धूमस् तत्राग्निः, यथा महानसादौ । अस्ति च इह धूम इति इइइ-21
__________नोतेस्__________
[282] कार्यहेतुप्रयोगः; कार्यहेतोर् अपि प्रयोगः
कार्यहेतोः प्रयोगः । साधर्म्यवान् इति प्रकरणाद् अपेक्षीयम् । यत्र धूम इति धूमम् अनूद्य तत्राग्निर् इत्य् अग्नेर्[283] विधिः । तथा च[284] नियमार्थः पूर्ववद् अवगन्तव्यः । तद् अनेन कार्यकारणभावनिमित्ता व्याप्तिर् दर्शिता ।
__________नोतेस्__________
[283] इत्य् अग्निविधः
[284] व्याप्तिर् व्यापकस्य तत्र भाव एवेत्यादिकः --- टि-
व्याप्तिसाधनप्रमाणविषयं दर्शयितुम् आह --- यथा महानसआदौ । महानसादौ हि प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावात्माविनाभावो निश्चितः ।
अस्ति च इहे ति साध्यधर्मिणि पक्षधर्मोपसंहारः ॥
इह अपि सिद्ध एव कार्यकारणभावे कारणे साध्ये[285]कार्यहेतुर् वक्तव्यः इइइ-22
__________नोतेस्__________
[285] कार्यं हेतु-
इह अपी ति । न केवलं स्वभावहेताव् इहापि कार्यहेतौ[286] । सिद्ध एवे ति निश्चते कार्यकारणत्वे । कार्यकारणभाव[287] निशयो ह्य् अवश्यं कर्यव्यः । यतो न योग्यतया हेतुर् गमको ऽपि तु नान्तरीयकत्वाद् इत्य् उक्तम् ॥
__________नोतेस्__________
[286] कार्यहेतोः
[287] कार्यकारणत्वनिश्चियो; कार्यकारणनिश्चियो
एवं निरुद्धधर्मसंसर्गात्मकभेदं प्रतिपाद्य तस्य हेतुं कारणभेदं प्रतिपाद्यितुम् आह --- किञ् चे ति निपातसमुदायो वक्तव्यान्तरसमुच्चये । पूर्वनिष्पन्नवस्तुहेतुकत्वे तदैवोत्पत्तिप्रसङेन पश्चाद् उपादायोगाद् इति भावो भिन्न्हेतुकम् इति ब्रुवतः । भिन्नहेतुकत्वे ऽपि कथं भेद इत्य् आह --- हेतुभेदे ति । चो हेतौ । तत इत्यादिनो ऽपसंहारः । तस्माद् इत्यादिना ऽऽद्यस्योपसंहारः ॥
पूर्वस्मिन् काले जातः पूर्वजः । व्यभिचारस् तद् अन्तरेणा ऽपि केवलस्य स्थितिः । चो ऽस्वभावतापेक्षया ऽसाध्यतां समुच्चिनोति । तस्माद् इत्यादिना साधनधर्ममात्रानुबन्धिनस् तत् स्वभावत्वं साधनस्वभाव्त्वञ् चोपसंहरति । च शब्दः साध्य इत्यस्यानन्तरं तत्स्वभावत्वापेक्षया साध्यत्वं समुच्चिनोति । तथा च तन्निष्पत्ताव् एव निष्पन्न्सस्य तादात्म्ये तन्मात्रानुबन्धिन एव च साध्यत्वे सति ॥
[ध्प्र् प्. 165]
साधर्म्यवान् स्वभावकार्यानुपलम्भानां प्रयोगो दर्शितः । वैधर्म्यवन्तं दर्शयितुम् आह ---
वैधर्म्यवतः[288]प्रयोगः --- यत् सद् उपलब्धिलक्षणप्राप्तं तद् उपलभ्यत एव, यथा नीलादिविशेषः । न च एवम् इह उपलब्धिलक्षणप्राप्तस्य सत उपलब्धिर् घटस्य इत्य् अनुपलब्धिप्रयोगः इइइ-23
__________नोतेस्__________
[288] वैधर्मवतः
वैधर्म्यवत[289] इति यत् सद् उपलब्धिलक्षणप्राप्तम् इति यत् सत् दृश्य इत्य् अस्तित्वानुवादः । तद् उपलभ्यत इत्य् उपलम्भविधिः । [290]तद् अनेन दृश्यस्य सत्त्वं दर्शनविषयत्वेन व्याप्तं कथितम्, असत्त्वनिवृत्तिश् च सत्त्वम्, अनुपलम्भनिवृत्तिश् च उपलभः । तेन साध्यनिवृत्त्यनुवादेन साधननिवृत्तिर् अहिता । तथा च [291]साध्यनिवृत्तिः साधननिवृत्तौ नियतत्वात् साधननिवृत्त्या व्याप्ता कथिता । यदि च धर्मणि साध्यधर्मो न भवेद् [292]हेतुर् अपि न भवेत् । [293]हेत्वभावेन [294]साद्ध्याभावस्य व्याप्तत्वात् । अस्ति च हेतुः[295] । अतो व्यापकस्य साधनाभावस्याभावाद्[296] व्याप्यस्य[297] साध्याभावस्याभाव इति साध्यगतिर्[298] भवति । ततो वैधर्म्यप्रयोगे साधनाभावे साध्याभावो[299] नियतो दर्शनीयः सर्वत्रेति न्यायः ॥
__________नोतेस्__________
[289] वैधर्म्यवतः यत् सद् इति
[290] तस्मात् --- टि-
[291] सत्त्वं--- टि-
[292] हेतुर् अपि । हेत्व-; हेतुर् अपि न स्यात्
[293] उपलम्भः --- टि-
[294] सत्त्वस्य --- टि-
[295] अनुपलभ्यमानः --- टि-
[296] उप्लम्भः --- टि-
[297] सत्त्वस्य --- टि-
[298] साध्यनिश्चयो भवति
[299] नियमः
प्रकरणात् साधर्म्यवत् प्रयोगदर्शनप्रस्तावात् । तथा चे ति धूमानुवादेनाग्निविधाने सतीत्य् अर्थः । नियमो ऽव्यभिचारः, तल्लक्षणो ऽर्थः प्रतिपाद्यतया ऽभिधेयः प्रयोजनं वा ऽस्य --- यत्र धूम इत्यादेः प्रयोगस्येति प्रस्तावात्, सो ऽनुगन्तव्यः प्रत्येतव्यः । पूर्ववद् अनुपलब्ध्यादिवत् ।
एतद् एव व्यनक्ति तद् इति यत एवं तत् तस्मात् । व्याप्तिर् अविनाभावः, साध्यनियतत्वं साधनस्येति यावत् । दर्शिता प्रदर्शिता । किं निमित्ता सेत्य् आह --- कार्ये ति ।
अयम् आशयः --- व्याप्तिः खलुः प्रतिबन्धः साध्यायत्तत्वम् । तच् चार्थान्तरस्यार्थान्तरे प्रतिबद्धत्वं कार्यकारणभाववशाद् इति स एव निमित्तं तस्य, अनर्थान्तरस्य तु तादात्म्यम् [61ब्] ।
महानसः सूपकारशाला । आदि शब्देनायस्कारकुट्यादेर् ग्रहणम् । किं तत्र व्याप्तिसाधकं प्रमाणं यद् अपेक्षया तस्य विषयत्वम् इत्य् आह --- प्रत्यक्षे ति । हि र् यस्मात् । प्रत्यक्षानुपलम्भानां प्रत्येकं जात्येकत्वविवक्षया प्रत्यक्षानुपलम्भ्याम् इत्य् अवसेयम् । कार्यकारण्भावाद् आत्मा निश्चयारूढः स्वभावो यस्येति विग्रहः कार्यो ऽन्यथा युक्तिविरोधः स्ववचनविरोधश् चा ऽस्य स्यात् । अविनाभावो ऽव्यभिचारः साध्यायत्तता साधनस्येति यावत् ।
पक्षधर्मस्योपसंहारो ढौकनं तत्र सत्त्वप्रदर्शनम् इत्य् अर्थः ॥
[ध्प्र् प्. 166]
स्वभावहेतोर् वैधर्म्यप्रयोगम् आह ---
असत्य् अनित्यत्वे न अस्त्य् एव[300] सत्त्वम् उत्पत्तिमत्त्वं कृतकत्वं वा ।[301] संश् च शब्द उत्पत्तिमान् कृतको वा इति स्वभावहेतोः प्रयोगः इइइ-24
__________नोतेस्__________
[300] नास्ति सत्त्वम्
[301] असंश् च
असत्य् अनित्यत्व इति । इहानित्यत्वस्य साध्यस्याभावो हेतोर् अभावे नियत[302] उच्यते । तेन हेत्वभावेन[303] साध्याभावो व्याप्त[304] उक्तस् त्रिष्व् अपि स्वभावहेतुषु । सन्न् उत्पत्तिमान् कृतको वा शब्द इति त्रयाणाम् अपि पक्षधर्मत्वप्रदर्शनम् । इह[305] च साधनाभावस्य व्यापकस्याभाव उक्तः । ततो व्याप्यो ऽपि साध्याभावो निर्वर्तत[306] इति साध्यगतिः ॥
__________नोतेस्__________
[302] नियमः
[303] सत्त्वेन --- टि-
[304] नित्यत्वम् --- टि-
[305] शब्दे धर्मिणी --- टि-
[306] बुवृत्त इति
कार्यहेतोर्[307] वैधर्म्यवत् प्रयोगम् आह ---
__________नोतेस्__________
[307] वैधर्म्यप्रयो-
असत्य् अग्नौ न भवत्य् एव धूमः[308] । अत्र च अस्ति धूम इति कार्यहेतोः प्रयोगः इइइ-25
__________नोतेस्__________
[308] अत्र चास्तीति कार्य
असत्य् अग्नाव् इति । इहापि[309] वह्न्यभावो धूमाभावेन व्याप्त उक्तः । [310]अस्ति धूम अत्र इति व्यापकस्य धूमाभास्याभाव उक्तः । ततो व्याप्यस्य वह्न्यभावे साध्यगतिः ॥
__________नोतेस्__________
[309] इहापि च
[310] अत्र चास्ति धूम इति
ननु च साधर्म्यवति[311] व्यतिरेको नोक्तः । वैधर्यवति चान्वयः । तत् कथम् एतत् त्रिरूपलिङ्गाख्यानम् इत्य् आह ---
__________नोतेस्__________
[311] साधर्म्यव्यतिरेको
दृष्टान्तदार्ष्टान्तिकयोर् हेतुसद्भावासद्भावद्वारकं वैधर्म्यं विद्यते प्रतिपाद्यतया यस्य तं दर्शयितुम् आह वार्तिककारः ।
तथा चे ति साध्यनिवृत्त्यनुवादेन साधननिवृत्तिप्रकारे सतीत्य् अर्थः । साध्यनिवृत्तिर् अभावः साधन स्य निवृत्त्या ऽभावेन व्याप्ता आत्मनियतीकृता कथिता प्रकाशिता । कुत इत्य् आह --- साधन स्य निवृत्ताव् अभावे नियतत्वाद् अव्यभिचारित्वात् साध्यनिवृत्तेर् इति प्रक्रमात् । यतो यत्र साध्याभावस् तन् नियतत्वम् अस्य । इमान् एव व्याप्ति व्यनक्ति यदी ति । चो हेतौ । धर्मणी त्य् अनेन धर्ममात्रम् उपदर्शयन् सर्वोपसंहारवतीं व्याप्तिम् आह । कुतः पुनः साध्याभावे साधनाभाव इत्य् आह --- हेत्वभावेने ति । अस्ति हेतुर् दृश्यानुपलम्भः । अनेन व्यापकस्य साधनाभावलक्षणस्याभावो दर्शितः । अतो व्यापकाभावात् साध्याभावः सद्व्यवहारयोग्यत्वलक्षणो व्याप्यो निवर्त्तते । यत एवम्
[ध्प्र् 167]
साधर्म्येण अपि हि प्रयोगे अर्थाद् वैधर्म्यगतिर् इति[312] इइइ-26
__________नोतेस्__________
[312] गतिः ।
साधम्येणे ति । साधर्म्यणापि अभिधेयेन उक्ते प्रयोगे क्रियमाणे अर्थात्[313] सामर्थ्यात् वैधर्यस्य व्यतिरेकस्य गतिर् भवतीति[314] । ही ति यस्मात् । तस्मात् त्रिरूपलिङ्गाख्यानम् एतत्[315] ।
__________नोतेस्__________
[313] अर्थाद् इति
[314] भवति । ही
[315] आख्यानम्- एव तत्
यदि नाम व्यतिरेको ऽन्वयवता[316] नोक्तस् तथापि अन्व्यवचनसामर्थ्याद् एवावसीयते ॥
__________नोतेस्__________
[316] -वति नोक्तो ऽन्वय-
कथम्?
असति तस्मिन् साध्येन हेतोर् अन्वयाभावात् इइइ-27
असति तस्मिन् व्यतिरेके[317] बुद्ध्याध्यवसिते साध्येन हेतोर् अन्व्यस्य [318] बुद्ध्याध्यवसितस्याभ्वात्[319] । [320]साध्ये नियतं साधनम् अन्वयवाक्याद् अवस्यता साध्याभावे साधनं नाशङ्कनीयम् ।
__________नोतेस्__________
[317] व्यतिरेकबु-
[318] बुद्ध्यध्यवसिते; बुद्ध्यध्यवसितस्य
[319] -सितत्वाभावात्
[320] साध्ये नियतम् इत्यादिना ऽन्वयबा(बो)धसामर्थ्यात् व्यतिरेकं दर्शयति --- टि-
इति स् तस्मात् । साध्यस्यासद्व्यवहारयोग्यत्वस्य गतिर् अवसायो भवति, सर्वत्र हेतुत्रयवैध्र्म्यप्रयोगे ॥
स्वभावहेतुम् अधिकृत्याह --- स्वभावे ति । वैधर्म्यप्रतिपादकः प्रयोगस् तथोक्तः । कथं पुनस् अत्र साध्यनिश्चयो जायत इत्य् आह --- इहे ति स्वभावहेतुप्रयोगत्रये । चो यस्मात् साधनाभास्य सत्त्वादिनिवृत्ते अभावः सत्त्वादिविधिर् उक्तः । ततस् तस्मात् । व्याप्यो अपि क्षणिकत्व् आभावो ऽपि । अपि ः साधनाभावनिवृत्त्यपेक्षया साध्याभावनिवृत्तिं समुच्चिनोति । यत एवम् इतस् तस्मात् । साध्यस्य क्षणिकत्वस्य गति र् निश्चिय इति ॥
कार्यहेतुम् उद्दिश्याह कार्ये ति । न केवलं पूर्वयोर् इत्य् अपि शब्दः । धूमाभावस्याभावो धूमसत्तैव प्रतिषेधप्रतिषेधस्य विधिरूपत्वाद् एवं पूर्वत्रापि विज्ञेयम् । ततो व्यापकस्य धूमाभावस्याभावात् व्याप्यस्य वह्न्यभावस्याभाव(वे) न्यायसिद्धे सति ॥
न केवलं व्यतिरेकेणाभिधेयेन युक्त इत्य् अपि शब्दः । अभिधेयेन साक्षाद् अभिधाविश्रामविशयेण । सामर्थ्याद् अन्यथा ऽनुपपत्तेः ।
एतद् इह ज्ञातव्यम् --- अन्वयव्यतिरेकओर् भेदस्य व्यावृत्तिनिबन्धन्बत्वाद् वस्तुतस् तादात्म्यात् स्वभावहेतुजानुमानबलाद् इतरप्रतीतिर् न त्व् अन्यथा ऽनुपपत्तिलक्षणार्थापत्तिर् अनेनोच्यत इति ।
[ध्प्र् 168]
इतरथा [321]साह्द्यनियतम् एव न प्रतीतं स्यात् । साध्याभावे च साधनाभावगतिर् व्यतिरेकगतिः । अतः साध्यनियतस्य साधनस्याभिधानसामर्थ्याद् अन्व्यवाक्ये ऽवसितो व्यतिरेकः ॥
__________नोतेस्__________
[321] साध्ये नियत-
तथा वैधर्म्येण अप्य् अन्वयगतिः इइइ-28
तथे ति । यथा ऽन्वयवाक्ये तथा ऽर्थाद् एव वैधर्म्येण प्रयोगे ऽन्वयस्यानभिधीयमानस्यापि गतिः ॥
कथम्?
असति तस्मिन् साध्याभावे हेत्वभावस्य असिद्धेः इइइ-29
असति तस्मिन् अन्वये बुद्धिगृहीते [322] साध्याभावे हेत्वभावस्यासिद्धेर् अनवसायात् । हेत्व् अभ्वे साध्याभावं नियतं व्यतिरेकवाक्याद् अवस्यता हेतुसंभवे साध्याभावो नाशङ्कनीयः । इतरथा हेत्वभावे[323] नियतो[324] न स्यात् प्रतीतः । हेतुसत्त्वे च साध्यसत्त्वगतिर्[325] अन्वयगतिः । अतः साधनाभावनियतस्य[326] साध्याभस्याभिधानसामर्थ्याद् व्यतिरेक्ये ऽन्वयगतिः ॥
__________नोतेस्__________
[322] गृहीते ते साध्या
[323] साध्याभारो(वो) ऽनग्निः --- टि-
[324] नियतः साध्याभावो न स्यात्
[325] साध्यसत्त्वं गतिः
[326] साधनाभावे नियतस्य
एतद् एव दर्शयितुम् --- यदि नामे ति । विशेषाभिधाननिमित्ताभ्युपगमे चायं निपातसमुदायः । अन्वयवता ऽन्वयेनाभिधेयेन युक्ते प्रयोगेणेति प्रस्तावात् । अन्वयवचनसाम्र्थ्याद् [62अ] अन्वया भिधानबलात् ॥
अभिप्रायम् अजानानः पर आह --- कथम् इति ।
असती त्यादि सिद्धान्तवादी । अभिधेयतया स्थित इत्य् आशङ्काम् अपाकृत्तुम् आह --- बुद्ध्ये ति । तादात्म्यतदुत्पत्तिनिबन्धने प्रतिबन्धेन प्रतिबन्धेन प्रतिबद्धत्वात् साधनम् इदं साध्याभ्वे न भवत्य् एवेति बुद्ध्या ऽध्यवसिते विषयीकृते ऽसति । साध्येन हेतोर् अन्वयस्य --- अन्वीयमानत्वस्य --- यत्र साधनं तत्र सर्वत्रावश्यं साध्यम् इत्य् एवंरूपस्य बुद्ध्या ऽध्यवसितस्ये त्य् एतद् अन्वयवाक्योपस्थापितया बुद्ध्या गृहीतस्य् आभावाद् अबावप्रसङ्गाद् इत्य् अर्थः ।
एतद् उक्तं भवति । यदि साध्याभावे ऽपि साधनं स्यात् तदा यत्रैवादः साध्याभावे ऽपि वृत्तम् इष्यते तत्रैव तत् साधनम् अप्य् अस्ति न च साध्यम् इति कथं यत्र यत्र साधनधर्मस् तत्र तत्र साध्यधर्म इति सर्वोपसंहारेणान्वय उक्तः स्याद् इति । तस्माद् हेतोर् अन्व्याभावाद् हेतोः साध्ये नियतं साध्याविनाभाविसाधनम् अन्वयवाक्वादिवास्यता (अन्वयवाक्याद् अवयता ) प्रतियता साध्याभावे साधनं नाशङ्कनीयं न सन्देहनीयम् । आशङ्कानिषेधेन च विपर्ययो ऽत्यन्तं निषिद्धः ।
कथं पुनस् तेनैवं नाशङ्कनीयम् इत्य् आह --- इतरथे ति --- अतो ऽन्येन प्रकारेण । अस्तु साध्याभावे साधनाभावावसायो व्यतिरेकस् तु कथं प्रतीयत इत्य् आह --- साध्येति । चो यस्माद् । यत
[ध्प्र् 169]
यदि नामाकाशादौ साध्याभावे साधनाभावस् तथापि किम् इति हेतुसम्भवे साध्यसंभव इत्य् आह ---
न हि स्वभावप्रतिबन्धे असत्य् एकस्य निवृत्ताव् अपरस्य नियमेन निवृत्तिः इइइ-30
न ही ति । [327]स्वभावेन प्रतिबन्धो यस् तस्मिन्न् अस्त्य् एकस्य साधयस्य निवृत्त्या नापरस्य साधनस्य नियमेन युक्ता नियमवती निवृत्तिः ॥
__________नोतेस्__________
[327] भावः --- उत्पादः, सत्ता वा --- टि-
स च द्विप्रकारः सर्वस्य । तादात्म्यलक्षणस् तदुत्पत्तिलक्षणश् च इत्य् उक्तम् इइइ-31
एवम् अतो हेतोर् इत्यादिनोपसंहारः । अस्ति व्यतिरेके प्रतिबन्धानाक्षेपाद् अन्वयस्यैवासत्त्वाद् असतश् च सत्त्वेन तत्प्रतिपादनायोगात् प्रेक्षावताम् अन्वयवचनम् एव न प्रयुक्तं स्याद् इति समुदार्यार्थः ॥
वैधर्म्येना भिधेयेन युक्त इत्य् अध्याहारः । प्रयोगे साधनवाचकशब्दसमूहे ॥
कथम् इति परः ।
असती त्यादि सिद्धान्तवादी । बुद्धिगृहीत इति बुद्ध्यन्तरगृहीत इति ग्राह्यम् । एतद् एव प्रतिपादयन्न् आह --- हेत्वभाव इति । इतरथा हेतुसद्भावे साध्याभावसम्भवप्रकारे सति नियतो न स्यात् प्रतीतः साध्याभाव इति शेषः ।
मा भून् नियतो ऽनुगतः किं नश् च्छिन्नम् इत्य् आह --- हेतुसत्त्वे इति । च ः समुच्चये ।
अयम् आशयः --- सति साधने ऽवश्यं साध्यम् इत्य् एवंलक्षणो ऽन्वयो ऽस्त्य् एव । केवलं व्यतिरेकवाक्यान् न प्रतीयत इत्य् उच्यते पूर्वपक्षवादिना । यदा च हेत्वभावे न नियतः साध्याभावः सम्भाव्यत इति कुतो यत्र यत्र साधनं तत्र तत्र साध्यम् इत्य् एवंरूपो ऽन्वयः सिद्ध्येत । तत्रैवंसम्भावनाविषये हेतुभावे ऽपि साध्याभावाद् इति ।
यत एवम् अतो ऽस्माद् हेतोर् इत्यादिनोपसंहारः । अत्राप्य् अयम् आशयः --- यदि यत्र साधनं तत्रावश्यं साह्द्यम् इति न स्यात् तदा तत्रैव तावद् असत्य् अपि साध्ये साधनं वृत्तम् इति कुतः साध्याभ्वे साधनं न वर्त्तत इत्य् एवंरूपो व्यतिरेकः सिद्ध्येद् इति ॥
अत्राभिप्रायम् अपरिज्ञायमानः (-जानानाः) प्राह --- यदि नामे ति ।
न ही त्यादि प्रतिविधानम् आचार्यीयं न ही त्यादिना व्याचष्ते । अयं च मौलो हि शब्दः पश्चाद् व्याखास्यते । नियमेना वश्यंतया । या चावशं भाविनी निवृत्तिः सा नियम् एव उक्ता भवतीत्य् अर्थकथनम् एतत् ॥
[ध्प्र् 170]
स च स्वभावप्रतिबन्धो द्विप्रकारः सर्वस्य [328]प्रतिबद्धस्य । तादात्म्यं लक्षनं निमित्तं यस्य स तथोक्तः । तदुत्पत्तिर् लक्षणं निमित्तं यस्य स तथोक्तः । यो यत्र प्रतिबद्धस् तस्य स प्रतिबन्धविषयो ऽर्थः स्वभावः कारणं वा स्यात् । अन्यसिमिन् प्रतिबद्धत्वानुपपत्तेः । तस्माद् द्विप्रकारः स इत्य् उक्तम् । `स च साध्ये `र्थे लिङ्गस्यऽ इत्य् ॠन्ब् इइ-21 अत्रान्तरे ऽभिहितः ॥
__________नोतेस्__________
[328] हेतोः --- टि-; प्रतिबद्धस्य इति ओम्.
तेन हि निवृत्तिं कथयता प्रतिबन्धो दर्शनीयः । तस्मात् निवृत्तिवचनम् आक्षिप्तप्रतिबन्धोपदर्शनम् एव भवति । यच् च प्रतिबन्धोपदर्शनं[329]तद् एव अन्वयवचनम् इत्य् एकेन अपि वाक्येन अन्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासपक्षयोर् लिङ्गस्य सदसत्त्वख्यापनं[330]कृतं भवति इति न अवश्यं वाक्यद्वयप्रयोगः इइइ-32
__________नोतेस्__________
[329] तद् अन्वय-
[330] सदसत्त्वाख्यापनं
[331]हि र् यस्मादर्थे । यस्मात् स्वभावपर्तिबन्धे निर्वर्त्यनिवर्तकभावस् तेन[332] साध्यस्य निवृत्तौ साधनस्य[333] निवृत्तिं काथयता प्रतिबन्धो निवर्त्यनिवर्तकयोर् दर्शनीयः । यदि हि साधनं साध्ये प्रतिबद्धं भवेद् एवं साध्यनिवृत्तौ[334]तन् नियमेन निवर्तेत । यतश् च तस्य प्रतिबन्धो दर्शनीयः तास्मात् साध्यनिवृत्तौ यत् साधन निवृत्तिवचनं[335] तेन् आक्षिप्तं प्रतिबन्धोपदर्शनम् । यच् च तदाक्षिप्तं[336] प्रतिबन्धोपदर्शनं तद् एवान्वयवचनम् । पर्तिबन्धश् चेद् अवश्यं दर्शयितव्यो न वक्तव्यस् तर्ह्य् अन्वयः । यस्माद् दृष्टान्ते प्रमाणे प्रतिबन्धो[337] दर्श्यमान एवान्वयो नापरः कशिचित्,
__________नोतेस्__________
[331] पूर्वसूत्रोक्तः --- टि-
[332] तेनेत्य् उपसंहरति --- टि-
[333] साधननिवृत्तिं
[334] निवृत्तौ नियमेन
[335] अन्तर्भावितम् --- टि-; तेनाक्षिप्त प्रतिबन्धोपदर्शनं तद् एवान्वय
[336] क्षिप्तप्रति
[337] वचनरूपो यत्र यत्र धूमस् तत्राग्निर् इत्य् एवं न वक्तव्यस् तर्ह्य् अन्वयः प्रतिबन्धशून्यः । साध्यहेत्वोस् तादात्म्यतदुपत्तिरूपप्रतिबन्धे स्थिते सिद्ध एवान्वय इति भावः --- टि-
अथ स्वभावप्रतिबन्धश् चेद् एकनिवृत्ताव् अपरनिवृत्तिनिबन्धनं तदा कार्यहेतोर् एव व्यतिरेको न स्वभावहेतोर् [62ब्] इति[338]............. तस्यासौ न तर्हि कार्यं हेताव् इत्य् आह --- स चे ति । चो यस्मादर्थे । स्वभावेन प्रतिबन्धः प्रतिबद्धत्वं साध्यायत्तत्वम् । कस्यासाव् इत्य् आशङ्कायाम् आह --- प्रतिबद्धस्य साधनस्य । सर्वस्ये त्य् अनेन व्याप्तिं दर्शयति । तत्र संयोगादिनिमित्तशङ्काव्युदासायाभिमतं द्वितं (द्वैतं) दर्शयन्न् आह --- तादात्म्यम् इत्यादि । लक्ष्यते ऽनेनेति लक्षणम् । अत एवाह निमित्तम् इति किम् पुनस् तेन स्वभावेन[339].......म् इत्य् आह --- अन्यस्मिन्न् अस्वभावे ऽकारणे च । संयोगसमवाययोः प्रमाणबाधितत्वेन निमित्तत्वानुपपत्तेर् इति भावः । यत एवं तस्माद् हेतोः । स इति प्रतिबन्धः ॥
__________नोतेस्__________
[338] पाठो ऽत्र घृष्टः ।
[339] पाठो ऽत्र घृष्टः ।
पूर्वकं हि शब्दम् इदानीं यथायोगं व्याचष्टे --- हि र् इति यस्माद् अर्थवृत्ति हि शब्दम् । अस्य
[ध्प्र् 171]
तस्मान् निवर्त्यनिर्वतकयोः[340] प्रतिबन्धो ज्ञातव्यः । तथा चान्वय एव ज्ञातो भवति । इति शब्दो हेतौ । यस्माद् अन्वये ऽपि[341] व्यतिरेकगतिः व्यतिरेके चान्वयगतिः, तस्माद् एकेनापि सपक्षे चासपक्षे च सत्त्वासत्तय्ः ख्यापनं कृतम् ।
__________नोतेस्__________
[340] -वर्तकप्रति-
[341] अन्वये व्य-
अन्वयो मुखम् उपायो ऽभिधेयत्वाद् यस्य तद् अन्वयमुखं वाक्यम् । एवं व्यतिरेको मुखं [342]यस्येति । इत्[343]इ हेतौ । यस्माद् एकेनापि वाक्येन द्वयगतिस् तस्माद् एकस्मिन् साधनवाक्ये द्वयोर् अन्वयव्यतिरेकवाक्ययोर् अवश्यम् एव प्रयोगो न कर्त्तव्यः ।
__________नोतेस्__________
[342] मुखम् अस्य
[343] इति करणो हेतौ
अर्थगत्यर्थो हि शब्दप्रयोगः । अर्थश् चेद् अवगतः, किं शब्दप्रयोगेण? [344]एकम् एवान्व्यवाक्यं व्यतिरेकवाक्यं वा प्रयोक्तव्यम् ॥
__________नोतेस्__________
[344] एकम् एव त्व् अन्वय-
अनुपलब्धाव् अपि --- यत् सद् उपलब्धिलक्षणप्राप्तं तद् उपलभ्यत एव इत्य् उक्ते --- अनुपलभ्यमानं तादृशम् असद् इति प्रतीतेर् अन्वयसिद्धेःअनुपलभ्यमानं तादृशम् असद् इति प्रतीतेर् अन्वयसिद्धेः इइइ-33
हि शब्द स्य् अ अर्थं कृत्वा शब्दपदार्थकस्या[345]............................. एवम् उक्ते वक्ष्यमाणे च सर्वत्र द्रष्टव्यम् । अमुम् एव यस्माद् अर्थम् अपेक्ष्य तेनेति योजयितुम् इति दर्शयितुम् आह --- यस्माद् इति । एतच् च न ही त्यादिवाक्यस्य प्रकाश्यम् अर्थं गृहीत्वोक्तं न त्व् अभिधेयम्, निवृत्तिनिषेधस्यैव तत्राभिधेयत्वात् ।
__________नोतेस्__________
[345] पाठो ऽत्र घृष्टः ।
ननु प्रतिबन्धः प्रतिबद्धत्वम् । स च निवर्त्तमानस्यैव न निवर्त्तकस्य । यदि ही त्यादिन च[346]................... दर्शयिष्यति । तत् कथम् इह निवर्त्यनिवर्त्तकयोर् इत्य् उक्तम् । सत्यम् । केवलम् अत्र प्रतिबधशबदेन प्रतिबद्धत्वं प्रतिबन्धविषयत्वं च विवक्षितम् ।
__________नोतेस्__________
[346] पाठो ऽत्र घृष्टः ।
तेनायम् अर्थः । प्रतिबन्धविषये प्रतिबद्धत्वं दर्शनीयम् । तथा च न कश्चिद् दोषः ।
कस्मात् पुनः प्रतिबन्धो । दर्शनीय इत्य् आशङ्क्याह --- यदी ति । ही ति यस्मात् । तेन व्यतिरेकवचनेन् आक्षिप्तं प्रकाशितं । प्रतिबद्न्धस् तादात्म्यतदुप्तत्तिनिबन्धनं दर्शययिते प्रकाश्यते ऽनेनेति तथा । प्रतिबन्धो ऽवश्यदर्शयितव्यो ऽन्यथा व्यतिरेकस्यैवासिद्धेर् इति भावः । भवतु तत् तथा --- यद् इति । चो ऽवधारणे । तद् अयम् अर्थः --- यद् एवाक्षिप्तप्रतिबन्धोपदर्शनं तद् एवान्वयवचनम् अन्वयप्रकाशनम् ।
ननूपदर्श्यतां प्रतिबधो[347].................. स कथं तेनोक्तो भवतीत्य् आह --- प्रतिबन्ध इति । यद्य् अवश्यं दर्शयितव्यो नियमेन ख्यापनीयस् तर्हि न वक्तव्यः प्रतिपादयितव्यो ऽअन्वयः ।
__________नोतेस्__________
[347] पाठो ऽत्र घृष्टः ।
ननु च दृष्टान्तेन प्रतिबन्धसाधनकेन प्रमाणेन केवलं प्रतिबन्धः प्रदर्श्यते, न त्व् अन्वयः । तत् कथं वक्तव्यस् तेन वाक्येनेत्य् आह --- यस्माद् इति । तस्य तादात्म्यनिबन्धनस्य तदुत्पत्तिनिबन्धनस्य वा ऽन्वयात्मकत्वाद् इति भावः ॥
[ध्प्र् 172]
अनुपलब्धाव् अपि व्यतिरेकेणोक्तेनान्वयगतिः[348] । यत् सद् उपलब्धिलक्षणप्राप्तम् इति साध्यस्य --- असद्व्यवहारयोग्यत्वस्य निवृत्तिं दृश्यसत्त्वरूपाम्[349] आह । तदुपलभ्यतए एवे ति अनुपलम्भस्य निवृत्तिम् उपलम्भरूपाम् आह । तद् अनेन साध्यनिवृत्तिः साधननिवृत्त्या व्याप्ता दर्शता । यदि च साधनसंभवे ऽपि [350]साध्यनिवृत्तिर् भवेत् न साधनाभावेन[351] व्याप्ता भवेत् । अतो व्याप्तिं[352] प्रतिपद्यमानेन साधनसंभवः साध्यसम्भवेन व्याप्तः प्रतिपत्तव्यः । अत एवाह --- अनुपलभ्यमानं तादृशम् इति दृश्यम् असद् इति प्रतीतेः[353] संप्रत्ययाद् अन्वयसिद्धिर् इति ॥
__________नोतेस्__________
[348] केण युक्तेन
[349] सत्त्वस्वरूपाम् आह
[350] सत्त्वं --- टि-
[351] उपलम्भेन --- टि-
[352] व्याप्तिप्रति
[353] प्रतीतिः --- ओम्.
द्वयोर् अप्य् अनयोः प्रयोगयोर्[354]न अवश्यं पक्षनिर्देशः इइइ-34
__________नोतेस्__________
[354] प्रयोगे ऽवश्यं; प्रयोगे नावश्यं
यतश् च साधनं साध्यधर्मप्रतिबद्धं तादात्म्यतदुत्पत्तिभ्यां प्रतिपत्तव्यं द्वयोर् अपि परयोगयोः तस्मात् पक्षो ऽवश्यम् एव न निर्देश्यः । यत् साधनं साध्यनियतं प्रतीतं तत एव साध्यधर्मिणि दृष्टात्[355] साध्यप्रतितः । अतो न किंचित् साध्यनिर्देशेनेति ॥
__________नोतेस्__________
[355] दृष्ट्वा
निवृत्तिवचनं चैतद् उपलक्षणं द्रष्टव्यम् । तेनान्व्यवचने ऽपि सर्वं यथायोगं द्रष्टव्यम् ।
यस्माद् एवम् अनुवादविधिक्रमस् तत् तस्माद् अनेन वाक्येन दर्शिता प्रकाशिता । भवत्वभावयोर् व्याप्यव्यपाकभावस् तथाप्य् अन्वयः कथं सिद्ध्यतीत्य् आह --- यदी ति । चो हेतौ । न व्याप्ता भवेत् साध्यनिवृत्तिर् इति प्रकृतत्वात् ॥
तस्मात् पक्षो ऽवश्यम् एव न निर्देश्य इत्य् अनेन नावश्यं पक्षनिर्देश इत्य् अस्यार्थः कथितः ।
एवञ् च व्याचक्षाणेन यत् कैश्चित् स्वयूथ्यैर् विद्वस्यमानैः "अवश्यं पक्षनिर्देशो न; किन् तर्हि? कदाचिन् निर्देशः, कदाचिन् न" इति व्याख्यातं तद् अपहस्तितं द्रष्टव्यम् । कदाचिद् अपि तस्य प्रयोगार्हत्वे प्रतिज्ञायाः साधनाङ्गत्वप्रसङ्गात् । तथात्वे च वादन्याय स्य [63अ][356][विरोधः स्यात्] ।
__________नोतेस्__________
[356] अस्मिन् पत्रे अधिकं घृष्टं वर्तते । अत एव सम्यक् न पठयते --- सं-
नन्व् असति साध्यनिर्देशे कुतस् तद् अवगतिर् येन तदनिर्देश इत्य् आशङ्क्याह --- यद् इति । साध्यनियतं साध्यनान्तरीयकम् । प्रतिबन्धसाधकेन प्रमाणेनेति बुद्धिस्तम् । तत एव साधनात् धर्मिणि विवादास्पदीभूते दृष्टात् प्रमाणेनावगतात् साध्य स्य धर्मधर्मिसमुदायस्य प्रतीतिर् भवति ।
एतद् उक्तं भवति .........प्रतितार्थप्रतिपादकेन कर्त्तव्यम् इति । शङ्कराचार्य .. ईश्वरकारणे ................विशेषः प्रतीयेतेत्यादिना वाक्यप्रबन्धेन विरुद्धशङ्काव्यवच्छेदार्थं साध्यवचनम् इति संआधानात् । तथा हि तस्य प्रबन्धस्यायम् अर्थः --- असति साध्यवचने यत् कृतकं तद् सर्वम् अनित्यं
[ध्प्र् 173]
यथा .................. कुतश्चिद् भ्रान्तिनिमित्ताद् ईदृशं व्याप्तिवचनं संभाव्यते । अथ तथाविधाभिप्रायो वक्ता कृतकत्वं प्रयुञ्जानः तस्य नित्यतेन व्याप्तिं ब्रूयात् । तद् अयुक्तम् । यत्स् तयोर् व्याप्ति ब्रुवाणो ............... कथयेत् ................ चेत् साधन ............................ साधनविकलः षध्यविकलो वा मा भूद् दृष्टान्त इति यत् कृतकं तद् अनित्यम् इति प्रयोगो ऽपि विरुद्धवाद्य् एव द्रष्टव्यः । .......... तद् एतद् भौ[ताख्यानं] किम् अत्र ब्रूमः तथा हि कः खलु प्रेक्षावान् साधनविकलं विहायसं साध्यविकलं च कुम्भम् आलोचयितुम् ईशानो ऽभिप्रेतनित्यत्वविरुद्धेनानित्यत्वेन साध्ये(ध्य)विकलतया कुम्भसन्निभ एव घटे व्याप्तिं दर्शयेत् । भ्रान्त्या चेत् । साधनवैकल्यम् आकाशस्य ..................................... वा ऽभिप्रेतेन नित्यत्वेन कृतकत्वस्य व्याप्तिं न प्रदर्शयेत् । तत्र साधनवैकल्यम्, कुम्भे च साध्यवैकल्य ...................... कुम्भतुल्ये ऽपि घटे व्यामुह्यति, भ्रातेर् नियतनिमित्तत्वाद् इति चेत् । एवं तर्हि पक्षवचने ऽपि कथं ....................... संभाव्यत्वात् । .................... समानो ऽपि विसंवादनाभिप्रायो न ............. । न चाप्युतत्तौ न चान्यदास्यान्यादृशं वचनम् इदानीं तु द्रुतादिभेदभिन्नम् इत्यादिना प्रकारेण वचनविशेषेण ज्ञानेन कार्यभूतेनाविपरीतो ऽभिप्रायो ऽवधार्यते । तेन ............................. तद् अनित्यम् अभिधातरि ........... विशेषः । वचनसांकर्यान् नैवं तत्र निश्चय इति चेत् । एतत् पक्षवचने ऽपि समानम् । एवं निश्चेतुं शक्येति तस्य तत्र तथावावगमो भविष्यतीति चेत् सर्वं समानमन्यत्रा ऽविशेषात् । किञ् च स एवं वादी तपस्वी ............ [63ब्] स्वयम् एव तावद् दुष्यति । न हि कशित् साधनवादी प्रतिज्ञाहेतूदाहरणान्य् एवाभिधायोपरमते । किन् तर्हि? निगमनम् अप्य् उपादत्ते --- तस्माद् अनित्यः शब्द इति । एवम् उक्ते च कुतो नित्यत्वशङ्का, यतः कृतकत्वस्य विरुद्धता भवेत्? ततश् च निगमनेनैव विरुद्धशङ्काव्यवच्छेदस्य कृतत्वात् पकास्वचनम् अपार्थकम् । यद् आह् आक्षपादः [357]--- "साध्ये विपरीतशङ्काव्यवच्छेदार्थं निगमनम् इति" । तथा हेतुवचनस्याप्य् अनुत्थानम् आयातम् । निगमने ऽनाश्वास इति चेद् । हन्त प्रतिज्ञावचने ऽप्य् अनाश्वासस् तुल्यः । यत् तत्र समाधानं तन् निगमने ऽपि भविष्यति । तस्मात् तन्मते ऽपि निगमनाद् एवाभिप्रेतसाध्यप्रतीतेर् न विरुद्धाशङ्कानिरासार्थं अपेक्षावचनं करणियम् । तद् अयम् यथा नाम कश्चित् स्वाङ्गुलिज्वालया
परं दिधक्षुः स प्ररं दहेद् वा न वा, स्वाङ्गुलिदाहम् एव तावद् अनुभवतीति वृत्तान्तो जातः ।
__________नोतेस्__________
[357] अत्र अक्षपाद वचनत्वेन यद् उद्धृतं तन् नास्ति न्यायसूत्रे किन् तु वार्तिके --- "साध्यविपरीतप्रसङ्गप्रतिषेधार्थं यत् पुनर् अभिधानं तत् निगमनम्" इति वर्तते --- 1.1.39.
यद्य् एवं निगमनम् अप्य् अपार्थकम् आपद्यत इति चेत् । अयम् अपरो ऽस्तु दोषः । कथं नाम ताथागता जयन्ति? केवलं सति निगमने विरुद्धशङ्काव्यवच्छेदार्तह्ं पक्षावचनं न कार्यम् । निगमनेनैव तदाशङ्काव्यवअच्छेदस्य कृतत्वाद् इत्य् उच्यत इति ।
त्रिलोचचः पुनर् न्यायभाष्यटीकायाम् इदम् अवादीत् --- "साध्यवचनम् असाधनाङ्गवचनं न भवति, यतो विवादेषु परप्रतिपत्तिम् अधिकृत्य न प्रयोगनियमः शक्यः । पटुमन्दादिभावेन परपतिपत्तीनाम् अनवस्थानात् । तथा हि हेतुवचनाद् एव कश्चित् प्रतेति । कश्चित् पुनर् अन्तरेणापि हेतुवचनं वक्तृस्वरूपपरिशीलनात् प्राग् एव शब्दनिष्पत्तेर् ओष्ठादिस्थानव्यापारोपलब्धेर् वक्तुर् अभिप्रेतम् अन्वेति । तस्माद् अनपेक्षितपरप्रतिपत्तिर् एवायं ज्ञाता ज्ञानस्थम् अर्थं प्रतिपादयन्तं तस्य स्वप्रतिपत्त्या ऽऽरूढस्यार्थस्य
[ध्प्र् 174]
[358]एवम् एवार्थम् अनुपलब्धिप्रयोगे दर्शयति ---
__________नोतेस्__________
[358] एतम्
यस्मात् साधर्म्यवत्प्रयोगे अपि यद् उपलब्धिलक्षणप्राप्तं सन् न उपलभ्यते सो असद्व्यवहारविषयः[359]। न उपलभ्यते च अत्र उपलब्धिलक्षणप्राप्तो घट इत्य् उक्ते सामर्थ्याद् एव नेह घट इति भवति इइइ-35
__________नोतेस्__________
[359] विषयः सिद्धः
साधर्म्यवति प्रयोगे ऽपि सामर्थ्याद् एव नेह प्रदेशे[360] घट इति भवति ।
__________नोतेस्__________
[360] नेह घट
किं पुनस् तत् सामर्थ्यम् इत्य् आह --- यद् उपलब्धिलक्षणाप्राप्तं[361] सन् नोपलभ्यते --- इत्य् अनुपलम्भानुवादः । सो ऽसद्व्यवहारविषयः --- इत्य् असद्व्यवहारयोग्यत्वविधिः । तथा च सति दृश्यानुप्लम्भोपलम्भो
__________नोतेस्__________
[361] प्राप्तम् इति । अनु-
वाचकं शब्दं प्रयोक्तुम् अर्हति । स्वप्रतिपत्तिश् च लिङ्गजा ज्ञापनीयधर्मविशिष्टं धर्मिणम् अभिनिविशते । तस्मात् प्ररस्य विवादयित्रा ज्ञानस्थम् अर्थं परो बोद्धव्य इति स एव परं प्रत्य् उपाय इति ।"
तद् एतत् कार्पटिककर्णाट रटितम् अश्रद्धेयं धीमताम् । तथा हि --- सत्यम्, स्वप्रतिपत्त्या ऽऽरूढ एवार्थः परस्मै प्रतिपाद्यते । केवलम् इदम् आलोच्यताम् --- किं पक्षधर्मवचनाद् व्याप्तिवचनसहितात् सो ऽर्थः प्रतिपादितो भवति न वेति । प्रतिपादने किं प्रतीतप्रत्यायकेन तद्वचनेन कार्यम्? तावतो वचनात् तत्प्रतिपत्तिम् अपह्नवान् एव (-ह्नवानेन) तु नापहनुतं नाम किञ्चिद् । अवश्यं चैतद् अन्य्था स्वार्थानुमानकाले प्रतिज्ञावचनम् अन्तरेण कथं प्रतिपत्तिः स्यात्? स्वप्रतिपत्तिकाले च यावतो ऽर्थात् साध्यप्रतीतिर् आसीत् परार्थानुमानकाले ऽपि तावत् एव वचनम् उपादेयम् । तत्र च न प्रज्ञापनीयधर्मविशिष्टधर्मिदर्शनपूर्वकादिसाधनादिदर्शनात् साध्यप्रतीतिर् आसीत् । किन् तर्हि? पक्षधर्मदर्शनात् तद् अविनाभावस्मरणसहिताद् इति तावत् एव वचनं न्याय्यम् ।
अथोक्तं पटुमन्दादिभावेन परप्रतीतीनाम् अनवस्थानान् न शक्य्ते प्रयोगनियमः कर्त्तुम् इति । सत्यम् उक्तम् [64अ] केवलं स्ववधाय कृत्योत्थापनप्रायं तत् । यतः पटुमन्दादिभेदेन प्रतिपतृणाम् अनेकप्रकारत्वात् स्याद् अपि कश्चिद् यः पञ्चावयवे ऽपि वाक्ये प्रयुक्ते पूर्वं संशयजिज्ञासादिवचनम् अन्तरेण न बुद्ध्यते बोधयितव्यम् इति तद्वचनस्याप्य् अवश्यप्रयोज्यत्वाद् अवयवत्वाद् अवगत( अपगतं) पञ्चावयवत्वं साधनवाक्यस्य । अभ्युपगमे च गौडकाश्मीर पुरुषविधायो(-विषयो)पाख्यानं कुतूहलास्पदम् अवतरते । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्य् अवावयवा इति शास्त्रस्थितेर् अपसिद्धान्तो ऽपि दीप्ताज्ञः पार्थिव इव निगृह्णाति ।
अथ किम् अस्य सम्भवो ऽस्ति यो निर्दिष्टे हि साध्ये साधने वा ऽभिहिते निर्दशिते चोदाहरणे कृते ऽप्य् उपनये निगमिते च सर्वावयवव्यापारे साध्यं न बुध्यत इति? ननु अस्यापि प्रतिपत्तुः किम् अस्ति सम्भवो यत्र धर्मिणि साधनं बोधितः, तस्य साध्याविनाभावितां स्मरितो ऽपि यस् तत्र साध्यं नावबुध्यत इति? सम्भवति बुद्धिमान्द्याद् इति चेत् । सर्वं समानम् इदम् अन्यत्राभिनिवेशाद् इत्य् अलं विस्तरेण ।
[ध्प्र् 175]
ऽसद्व्यवहारयोग्यत्वेन व्याप्तो दर्शितः । नोपलभ्यते च[362] इत्यादिना साध्यधर्मिणि तत्त्वं लिङ्गस्य दर्शितम् । यदि च साध्यधरमस् तत्र साध्यधर्मिणि न भवेत् साधनधर्मो ऽपि न भवेत् । साध्यनियतत्वात् तस्य साधनधर्मस्येति सामर्थ्यम् ॥
__________नोतेस्__________
[362] च --- ओम्.
तथा वैधर्म्यवत्प्रयोगे अपि --- यः सद्व्यवहारविषय उपलब्धिलक्षणप्राप्तः, स उपलभ्यत एव । न[363]तथा अत्र तादृशो घट उपलभ्यत इत्य् उक्ते सामर्थ्याद् एव नेह सद्व्यवहारविषय इति भवति इइइ-36
__________नोतेस्__________
[363] न च
यथा साधर्म्यवत्प्रयोगे तथा वैधर्म्यवत्प्रयोगे ऽपि सामर्थ्याद् एव नेह सव्यवहारविषयो[364] ऽस्ति घट इति भवति ।
__________नोतेस्__________
[364] -व्यवहारस्य विषयो
सामर्थ्यं दर्शयितुम् आह--- यः सद्व्यवहारविषय इति विद्यमानः । उपलब्धिलक्षणप्राप्त इति दृश्यः इत्य् एषा साध्यनिवृत्तिः । [365] स उपलभ्यत एवे ति साधननिवृत्तिर् इति । अनेन च[366] साध्यनिवृत्तिः साधननिवृत्त्या व्याप्ता दर्शिता । न तथे ति --- यथा ऽन्यो दृश्य उपलभ्यते न तथात्र प्रदेशे तादृश इति दृश्यो घट उपलभ्यत इति । अनेन साध्यनिवृत्तेर् व्यापिका निवृत्तिर् असती साध्यधर्मिणि दर्शिता । यदि च[367] साध्यधर्मः साध्यधर्मिणि न स्यात् साधनधर्मो ऽपि न भवेत्[368] ।
__________नोतेस्__________
[365] स --- ओम्.
[366] च --- ओम्.; अनेन न
[367] च न साध्य-
[368] -धर्मिणि भवेत् साधन-
तद् अपि (यद् अपि) न्यायभाष्यटीकावार्तिकयोर् विश्वरूपोद्योतक्रराव् आहतुः "पुरा विषयनिरूपणपूर्वकम् एव हि करणव्यापरणं दृष्टम् । करणं च साधन(नं) व्यापारयितव्यम् । अतो विषयनिरूपणं साध्यवचनेन क्रियते, अन्यथा करणप्रवर्त्तनस्याशक्यत्वाद् इति ।"[369]तद् अपि न चतुरस्रम् । यतो यदि हेतुं प्रयुञ्जानेन विषयः सिसाधयिषितो ऽर्थो निरूपयितव्यो बुद्धौ निवेशनीय इत्य् अभिमतम्, तदा ऽभ्युपगम एवोत्तरम् । न हि कश्चित् साध्यम् अनिश्चित्यैव परप्रतिपत्तये साधनवाक्यम् अभिधत्ते । अथ वचनेन करणस्य हेतोः स विषयो दर्शयितव्य इति मतिः, तदा तेनैव तावद् दर्शितेन को ऽर्थः? यदि परस्य प्रतीतिर् अन्यथा न स्यात् सर्वं शोभेतेत्य् उत्तरम् इति किं क्षुण्णक्षोदीकरणेन?
__________नोतेस्__________
[369] नोपलभ्यते न्यायवार्तिके --- सं-
अध्ययनः पुना रुचिटीकायाम् इदम् अवोचत् "धर्मविशिष्टस्य धर्मिणो निर्देशः क्रियते श्रोतुर् आश्वासनार्थम् । न त्व् आदौ धर्मविशिष्टस्य धर्मिणो निर्देशो युक्तः । अयुक्ततां(ता) तस्य प्रतिपत्ताव् अदृष्टत्वात् । तत्र प्रदेशमात्रम् उपलभते, तत्स्थं च धरमम् । ततो ऽविनाभावं स्मरति तदनन्तरं तद् एवेदम् इति परामृशति । ततो विशिष्टतां प्रदेशस्य प्रतिपद्यते, न त्वाद् एव (त्व् आदाव् एव) । परामर्शस्य च स्वार्थपूर्वकत्वम् । न च स्वार्थे धर्मविशिष्टस्य धर्मिणो दर्शनम् अस्ति । तेन प्रतिपत्ताव् अपि न कार्यम् । आदौ तु क्रियते, प्रतिपाद्यस्यास्थोत्पादनार्थम् इति ।"
[ध्प्र् 176]
अस्ति च साधनधर्म इति सामर्थ्यम्[370] । अतः सामर्थ्यात् नास्त्य् अत्र घट इति प्रतीतेर् न पक्षानिर्देशः । एवं कार्यस्वभावहेत्वोर् अपि सामर्थ्यात् संप्रयय इति न [371]पक्षनिर्देशः
__________नोतेस्__________
[370] सामर्थ्यात् ततः
[371] पक्षो निर्देश्यः
कीदृशः पुनः[372]पक्ष इति निर्देश्यः इइइ-37
__________नोतेस्__________
[372] पक्षः निर्देशः
कीदृशः पुनर् अर्थः पक्ष इति --- अनेन शब्देन निद्देशो वक्तव्यः?इत्य् आह ---
स्वरूपेणैव स्वयम् इष्टो[373]ऽनिराकृतः पक्ष इति[374] इइइ-38
__________नोतेस्__________
[373] इष्टो निर्-
[374] इति निर्देश्यः
स्वरूपेणैवे ति साध्यत्वेनैव । स्वयम् इति वादिना । इष्ट इति --- नोक्त एवापि त्व् इष्टो ऽपीत्य् अर्थः । एवंभूतः सन् प्रत्य्क्षादिभिः अनिराकृतो
[375] यो ऽर्थः स पक्ष इत्य् उच्यते ।
__________नोतेस्__________
[375] -कृतो ऽर्थो यः स
अथ यदि [376]पक्षो न निर्देश्यः, कथम् अनिर्देश्यस्य लक्षणम् उक्तम्? न साधनवाक्यावयवत्वाद् अस्य लक्षणम् उक्तम् अपि त्व् असाध्यं [377]केचित् साध्यम्, साध्यं चासाध्यं [378]केचित् प्रतिपनाः । तत् साध्यासाध्यविप्रतिपत्तिनिकारणार्थं पक्षलक्षन् उक्तम् ॥
__________नोतेस्__________
[376] अथ यदि न पक्षो
[377] किञ्चित्
[378] किञ्चित् --- ओम्.
स्वरूपेणेष्ट इत्य् अस्य विवरणम् ---
स्वरूपेण इति साध्यत्वेन इष्टः इइइ-39
साध्यत्वेनेष्ट इति । पक्षस्य साध्यत्वान् नापारम् अस्ति रूपम् । अतः स्वरूपं साध्यत्वम् इति
एव शब्दं विवरितुम् आह ---
स्वरूपेणैव इति साध्यत्वेन एव इष्टो[379]न साधनत्वेन अपि इइइ-40
__________नोतेस्__________
[379] -त्वेनेष्टो
स्वरूपेणैवे ति । ननु चैवशब्दः केवल एव प्रत्यवमर्ष्टव्यस् तत्[380] किमर्थं स्वरूपशब्देन
__________नोतेस्__________
[380] तत् कथम्
तेन तु तपस्विना बहूक्तं समञ्जसं । केवलं प्रतिपत्तुर् आश्वासेनैवोत्पादितेन किं प्रयोजनम्? कथं चासौ सन्द्गिधार्थाभिधायिनः प्रतिज्ञावचनाद् आस्थाम् उत्पादयतीति समीचीनं निरूपितम् । आस्था खलु इदम् एव मन्ये ऽर्थेत्य् अभिसम्प्रतययः । सा कथं वचनमात्राज् जायेत? जातौ वा साधनाद्यभिधानं न कथं वैयर्थम् अश्नुवीतेत्य् अलं बहुना ॥
अत्र सामर्थ्यात् स्वयं शब्दस्य वादिने ति विवृतिः कृता न तु स्वयम् शब्दस्य वादिने त्य् अर्थः । एतच् चानन्तरम् एव दर्शयिष्यते ॥
[ध्प्र् 177]
सह प्रत्यवमृष्टः? उच्यते । एव शब्दो निपातो द्योतकः । पदान्तराभिहितस्यार्थस्य विशेषं द्योतयति इति पदान्तरेण विशेष्यवाचिना सह निर्दिष्टः । न साधनत्वेनापीति । यत् साधनत्वेन निर्दिष्टं तत् साधनत्वेनेष्टम् । असिद्धत्वाच् च[381] साध्यत्वेनापीष्टम् । तस्य निवृत्त्यर्थ[382] एव शब्दः ॥
__________नोतेस्__________
[381] -त्वात् साध्य-
[382] -अर्थम्
तदुदाहरति ---
यथा शब्दस्य अनित्यत्वे साध्ये चाक्षुषत्वं हेतुः, शब्दे असिद्धत्वात् साध्यम् । न पुनस् तद् इह साध्यत्वेन एव इष्टम्[383], साधनत्वेन अभिधानात्[384] इइइ-41
__________नोतेस्__________
[383] साध्यत्वेनेष्टम्
[384] -त्वेनाप्यभिधानात्
[385]यथे ति । शब्दस्य अनित्यत्वे साध्ये चाक्षुषत्वं हेतुः शब्दे असिद्धत्वात् साध्यम् --- इत्य् अनेन साध्यत्वेनेष्टम् आह ।
__________नोतेस्__________
[385] यथा --- ओम्.
तद् इति चाक्षुषत्वम् । इहे ति शब्दे । साध्यत्वेनैवेष्टम् --- इति साधयत्वेनेष्टनियमाभावम् आह । साधनत्वेन अभिधानाद् इति --- यतः साधनत्वेनाभिहितम्, अतः साधनत्वेनापीष्तम् । न साध्यत्वेनैवेति ॥
स्वयम् इत्य् अनेन स्वयं शब्दं व्याख्येयम् उपक्षित्य तस्यार्थम् आह ---
स्वयम् इति वादिना इइइ-42
वादिने ति । स्वयं शब्दो निपात आत्मन इति [386]षष्ठ्यन्तस्यात्मनेति च तृतीयान्तस्याथ[387] वर्त्तते । तद् इह तृतीयान्तस्यात्मशब्दस्यार्थे वृत्तः स्वयं शब्दः । आत्मशब्दश् च सम्बन्धिशब्दः । वादी च प्रत्यासन्नः[388] । ततो यस्य वादिन आत्मा तृतीयार्थयुक्तः[389] स एव[390] तृतीयार्थयुक्तो निर्दिष्टो वादिने ति । न[391] तु स्वयं शब्दस्य वादिने त्येष पर्यायः ॥
__________नोतेस्__________
[386] नाशं स्वयम् इच्छतीत्यादौ आत्मनो नाशम् इच्छतीत्य् अर्थः --- टि-
[387] -स्यार्थेन युक्तः
[388] प्रत्यासन्नभूतः यस्य
[389] तृतीयार्थेन युक्तः
[390] एव --- ओम्.
[391] ननु
पक्षस्या नुमेयस्य ॥
स्वरूपशब्देने ति सहार्थे तृतीया ।
[64ब्] उच्यते इति सिद्धान्तवादी ॥
यत् साधनत्वेनेष्टं तत् कथं साध्यत्वेनापीष्टं भवतीत्य् आह --- असिद्ध[त्वा]द् इति । चो यस्माद् । साध्यत्वेनेष्टो ऽपि यदा साधनत्वेनोक्तस् तदा ऽपक्ष इत्य् एवम् अर्थ एव शब्द इति समुदायार्थः ॥
[ध्प्र् 178]
कः पुनर् असौ वादीत्य् आह ---
यस् तदा साधनम् आह इइइ-43
यस् तदा --- इति वादकाले साधनम् आह । अनेकवादिसम्भवे ऽपि[392] स्वयं शब्दवाच्यस्य वादिनो विशेषणम् एतत् ।
__________नोतेस्__________
[392] -सम्भवे स्वयं
यद्य् एवं[393] वादिना इष्टः साध्यः --- इत्य् उक्तम् । एतेन च किम् उक्तेन? अनेन[394] तदा वादकाले तेन वादिना स्वयं यो धर्मः साधयितुम् इष्टः स एव साध्यो[395] नेतरो [396]धर्म इत्य् उक्तं भवति । वादिनो ऽनिष्टधर्मसाध्यत्वनिवर्त्तनम् अस्य वचनस्य फलम् इति यावत् ॥
__________नोतेस्__________
[393] यद्य् एव
[394] अनेन च
[395] साध्यो धर्मो नेतर इत्य् उक्तं
[396] धर्म --- ओम्.
अथ कस्मिन् सत्य् अन्यधर्मसाध्यत्वस्य सम्भवो यन्निवृत्त्यर्हं [397]तद् वक्तव्यम् इत्य् आह ---
__________नोतेस्__________
[397] -अर्थं चेदं
एतेन यद्य् अपि क्वचिच् शास्त्रे स्थितः साधनम् आह, तच्छास्त्रकारेण तस्मिन् धर्मिण्य् अनेकधर्माभ्युपगमे ऽपि यस् तदा तेन वादिना[398]धर्मः स्वयं साधयितुम्
__________नोतेस्__________
[398] तेन स्वयं वादिना धर्मः साध-
तत् तस्माद् अर्थद्वयवृत्तित्वात् । इह पक्षलक्षणे स्वयंशब्दो गृहीत इति शेषः । तृतीयाप्रतिपाद्यो ऽर्थो ऽत्रैषणकर्त्तृत्वम् । आत्मना इष्ट इत्य् अत्र तृतीयायाः कर्त्तरि विधानात् ॥
अनेकवादिसम्भवे ऽपि शब्दगताकाशगुणत्वादिवादिभूयस्त्वे ऽपि । बादित्वं च योग्यतया । न तु तदा स्व्परपक्षसिद्ध्यसिद्ध्यर्थवच्xअनलक्षणवादप्रणेतारः । विशेषणं व्यवच्छेदकम् एतद् यस्तदासाधनम् अहेत् वचनम् ।
यद्य् एवम् इति प्ररः । अयं च निपातसमुदायो ऽनिष्टापादनप्रारम्भे वर्त्तते । इत्य्क्तम् अनेन वाक्येनेति शेषः ।
उच्यताम् एवं को दोष इत्य् आह --- एतेने ति । च शब्दो ऽपि शदस्यार्थे । शास्त्रकारेष्टम् अपि वादीष्टं भवति । तत् को ऽतिशयो ऽनेन प्रतिपादितिअ इति चेदयितुर् आशयः । अनेने ति सिद्धान्तआदी । अनेन यस् तदा साधनम् आहेति विशेषणावच्छिन्नेन स्वयंशब्देन ।
एतद् उक्तं भवति । यच्छास्त्राभ्युपगम् एत्नापि वादी क्वचित्साधनम् अभिधत्ते, तच्छास्त्रकारेण तत्र यावद् इष्टं तावच्चेत्तस्यसाध्यत्वेनेष्टं तद्ष्टम् इत्य् एव कृतं स्यात्, न तु स्वयम् इति । नेतर इति तच्छास्त्रकारेष्टो ऽम्बरगुणत्वाद् इति बुद्धिस्थम् । वादिन इति आद्यस्यैव व्यक्तीकरणम् ॥
[ध्प्र् 179]
इष्टः, स एव साध्यो न इतर इत्य् उक्तं भवति इइइ-44
तच्छास्त्रकारेणे ति । यच्छास्त्रं तेन वादिना ऽभ्युअगतं तच्छास्त्रकारेण तस्मिन् साध्यधर्मिणि अनेकस्य [399]धर्मस्याभ्युपगमे सति अन्यधरमसाध्यत्वसम्भवः । तथा हि --- शास्त्रं येनाभ्युपगतं [400]तत्सिद्धो धरमः सर्व एव तेन साध्यत्य् इत्य् अस्ति विप्रतिपत्तिः । अनेनापास्यते । अनेकधर्माभुय्पगमे ऽपि सति स एव साध्ये यो वादिन इष्टो नान्य इति ।
__________नोतेस्__________
[399] अनेकधर्म-
[400] तस्मिन् सिद्धो
ननु च शास्त्रानपेक्षं [401]वस्तुबलप्रवृत्तं लिङ्गम् । अतो ऽनपेक्षणीयत्वान् न शास्त्रे स्थित्वा वादः कर्त्तव्यः । सत्यम् । आहोपुरुषिकया तु यद्य् अपि क्वचिच्छाष्त्रे स्थित इति किञ्चिच्छास्त्रम् अभ्युपगतः साधनम् आह, तथापि य एव तस्येष्टः स एव[402] साध्य[403] इति ज्ञापनायेदम् उक्तम् ॥
__________नोतेस्__________
[401] तादात्म्यतदुत्प्त्तेः --- टि-
[402] स एव तस्य
[403] साध्यत इति
इष्ट इत् ईष्ट शब्दम् उपक्षिप्य व्याचष्टे ---
इष्ट इति यत्रार्थे विवादेन साधनम् उपन्यस्तं तस्य सिद्धिम् इच्छता सो [404]अनुक्तो अपि वचनेन साध्यः इइइ-45
__________नोतेस्__________
[404] सो ऽर्थो ऽनु-
यत्रार्थ आत्मनि विरुद्धो वादःप्रक्रान्तः --- `नास्ति आत्माऽ --- इत्य् आत्मप्रतिषेधवाद आत्मसत्तावादविरुद्धः, विधिप्रतिषेधयोर् विरोधात् । तेन विवादेन हेतुना साधनम् उपन्यस्तं तस्या तामार्थस्य सिद्धिं निश्चयम् इच्छता वादिना सो ऽर्थः साध्य इत्य् उक्तं भवति इष्ट शब्देन । यत् तद् ` इत्य् उक्तं भवति ऽ इति ग्रहणम् अन्ते तद् इहापेक्ष्य वाक्यं [405]समापयितव्यम् ।
__________नोतेस्__________
[405] वाक्यं परिसमा-
यद्य् अपि परार्थानुमान उक्त एव साध्यो उक्तः, अनुक्तो ऽपि [406]तु वचनेन साध्यः, सामर्थ्योक्तत्वात् तस्य ॥
__________नोतेस्__________
[406] तु शब्दस् तथापीत्य् अर्थे --- टि-
इत्य् अस्ति विप्रतिपत्तिर् न्यायविरुद्धा प्रतिपत्तिः केषाञ्चित् । अनेना त्मविशेषणेनापास्यते । अनेके तियादिनोपसंहरति । अनेकधर्माभ्युपगमे ऽपि शास्त्रकारस्य तत्र धर्मिण्य् अनेकधर्मोपगमे सत्य् अपि । वादिन इत्य् आत्मन इति षष्ठ्यन्तस्यार्थे वृत्तं स्वयंशब्दम् उ[पा]दाय ।
आहोपुरुषिकया ऽभ्युपगत इति कर्त्तरीयं निष्ट्ःआ ॥
विरुद्धः परस्य चाभिप्रेतविपरीतार्थोपस्यापको वादः स्वपरपक्षयोः सिद्ध्यसिद्ध्यर्थं वचनम् । प्रक्रान्तः प्रवृत्तः । इत्य् उक्तं भवती ति नात्र श्रूयते तत् कथम् एवं व्याख्यायत इत्य् आह --- यत् तद् इति । लोकोक्तिश् चैषा । इहे ष्टपदविवरणे । समापयितव्यं सङ्गतार्थं कर्त्तव्यम् ।
[ध्प्र् 180]
कुत एतद् इत्य् आह ---
तद् अधिकरणत्वाद् विवादस्य इइइ-46
[407]तद् इति सो ऽर्थो ऽधिकरणम् आश्रयो यस्य स तद् अधिकरणो विवादः । तस्य भावस् तत्त्वम् । तस्माद् इति ।
__________नोतेस्__________
[407] तद् इत्यादि तद् इति
एतद् उकतं भवति --- यस्माद् विवादं निराकर्त्तुम् इच्छता वादिना साधनम् उपन्यस्तं तस्माद् यदधिकरणं विवादस्य तद् एव साध्यम् । यतो विरुद्धं वादम् अपनेतुं साधनम् उपन्यस्तं तच् चेत् न साध्यं किम् इदानीं [408]जातिनियतं किंचित् साध्यं स्याद् इति ॥
__________नोतेस्__________
[408] जगति नियतम्
अनुक्तम् अपि परार्थानुमाने साध्यम् इष्टम् । [409]तद् उदाहरति ---
__________नोतेस्__________
[409] -इष्टम् उदारति; साध्यं दृष्टम् उदाह-
यथा परार्थाश् चक्षुरादयः संघातत्वाच् छयनासनाद्यङ्गवद् इति । [410]अत्रात्मार्था इत्य् अनुक्ताव् अप्य् आत्मार्थता साध्या । [411]तेन नोक्तमात्रम् एव साध्यम् इत्य् उक्तं भवति इइइ-47
__________नोतेस्__________
[410] इति । आत्मार्था इत्य् अनुत्था(क्ता)प्यात्मार्थता साध्यते तेन
[411] साध्या । अनेन
पराथा इति । चक्षुर् आदिर् येषां श्रोत्रादीनां ते[412] चक्षुरादय इति धर्मी । परस्मायिमे परार्था इति साध्यं पारार्थ्यम् । सङ्घातत्वाद् इति हेतुः । व्याप्तिविषयप्रदर्शनं [413]च शयनासनाद्यङ्गवद् इति । शयनम् आसनं च ते आदी[414] यस्य तच्छयनादि पुरुषोपभोगाङ्ग संघातरूपम् । तद्वद् अत्र [415]प्रमाणे यद् अप्य् आत्मार्थाश् चक्षुरादय इत्य् आत्मार्थता नोक्ता [416] अनुक्ताव् अप्य् आत्मार्थता साध्या ।
__________नोतेस्__________
[412] ते --- ओम्.
[413] च --- ओम्.
[414] आदिर् यस्य
[415] तद्वद् अत्र यत् प्रमाणे
[416] नोक्ताप्या-; अनुक्ताप्या
अनुक्तो ऽपि तु वचनेन । वचनेन साक्षाद् अभिधाव्यापारविषयत्वम् अनापादितो ऽपि । तु र् विशेषदीपने । साध्यः साध्य एव । कुत इत्य् आह --- सामर्थ्योक्तत्वात् तस्य बुद्धिस्थस्यात्मादेः ।
एतद् उक्तं भवति --- परार्थानुमाने उक्तो ऽर्थः साध्यः । उक्तश् च प्रकाशित उच्यते । प्रकाश्यमानता च साक्षाद् अभिधाव्यापारविषयतया च सामर्थ्यम्यतया च । उक्तम् (उक्तता) तु प्रकाशितताख्या द्वयोर् अप्य् अविशिष्टेति ॥
कुत एतद् इति सामर्थ्योक्तत्वम् इति हेतोर् आह वार्त्तककारः ।
[ध्प्र् 181]
तथा हि --- सांख्येनो क्तम् --- अस्ति आत्मा । तद् विरुद्धं बौद्धेनोक्तं --- नास्त्यात्मेति । ततः साङ्ख्येन स्ववादविरुद्धं बौद्धवाद हेतूकृत्य विरूद्धवादनिराक्रणाय स्ववादप्रतिष्ठापनाय च साधनम् उपन्यस्तम् । अतो ऽनुक्ताव् अप्य् आत्मार्थता[417] साध्या, तद् [418]अधिकरणत्वाद् विवादस्य ।[419] शयनासनादिषु हि पुरुषोपभोगाङ्गेष्व् आत्मार्थत्वेनान्वयो[420] न प्रसिद्धः । सङ्घात त्वस्य [421]पारार्थ्यमात्रेण तु सिद्धः । ततः परार्था इत्य् उक्तम् ।
__________नोतेस्__________
[417] -नुक्ताप्या-
[418] य आत्मप्रतिषेधवादो ऽधिकरणं यस्य --- टि-
[419] शयनादिषु
[420] -अर्थत्वेन प्रसिद्धः
[421] परार्थमा-; परार्थादिषु
चक्षुरादय इत्यादिग्रहणादिविज्ञानम् अपि[422] परार्थं साधयितुम् इष्टम् । विज्ञानाच् च पर आत्मैव स्यात् ।
__________नोतेस्__________
[422] बौद्धानां मते परमाणुरूपं ज्ञाणमतः साङ्घातरूपत्वम् --- टि-
[423]परस्यार्थकारि विज्ञानं सेत्स्यतीति सामर्थ्याद् आत्मार्थत्वं सिध्यते चक्षुरादीनाम् इति मत्वा पराथ ग्रहणं कृतम् । [424]तेनेष्टसाध्यत्वचन्चन नोक्तमात्रम्, अपि तु प्रतिवादिनो विवादास्पदत्वाद् वादिनः[425] साधयितुम् इष्टम् --- उक्तम्, अनुक्तं वा प्रकरणगम्यं साध्यम् इत्य् उक्तं भवति ॥
__________नोतेस्__________
[423] परस्य --- ओम्.
[424] साध्यवच-
[425] वादिना
यद्य् अपि तन्मूलो विवादस् तथापि अभिधाव्यापारविश्रामभूमिर् एवार्थः षध्यः । न चात्मादिर् विवादाधिकरणम् । तथाभूतस् तत् कथं साध्य इत्य् आशङ्क्याह --- एतद् उक्तं भवती ति । यद् आत्मादि अधिरकणम् आस्पदं विवादस्य --- अस्तीदं नास्तीदम् इत्य् आत्मकस्य प्ररस्परविरुद्धस्य वादस्य । अत्रोपप[65अ]त्तिम् आह --- यत इति । विरुद्धं स्वपक्षप्रत्यनीकं नास्तीदम् इति वादम् । तद् विरुद्धवादापनेतृहेतूपन्यासविषयं चेद् यदि न साध्यं न जिज्ञापयिषितम् इदानीम् एतस्मिन्न् अभ्युपगमे किं जातिनियतं साध्यत्वजातिनियतं जातिवशं किञ्चिद् वस्तु साध्यं स्याद् भवितुम् अर्हति । क्षेपे किम् अःप्रयोगान् न किञ्चिद् इत्य् अर्थो ऽवतिष्ठते ॥
अनुक्तम् अपि साक्षाद् अभिधाव्यापाराविषयो ऽपि । संहा(घा)तत्वाद् अनेकरूपत्वात् । कालविशेषानपेक्षं चैतद् द्रष्टव्यम् । तेन क्रमेण युगपद् वा संहतं तद् इति संहतरूपं विज्ञानम् अपि क्रमेणानेकरूपम् अतस् तत्रापि संहा(घा)तत्वं सिद्धिम् इति तद् अप्य् आदि शब्देन सङ्गृहीतं धर्मि कर्त्तव्यम् । अत एवानन्तरम् ` अत्र् आदि शब्दाद् विज्ञानम् अपि ऽ इति वक्ष्यते । अन्यथा तु चक्षुरादीनां विज्ञानलक्षणपरार्थतासिधाव् आ(अ)पि नाभिप्रेतं सांख्य स्य सिद्ध्येत् । अनुक्ताव् अप्य् अनभिधाने ऽपि तस्येत् अर्थात् । क्वचित् पुनर् अनुक्ताप्य् आत्मार्थते ति पाठः । तत्रार्जवेनै[व] सम्बन्धः । साधनोपन्यासाश्रत्वेन प्रकृतत्वात् तस्या इति भावः ।
तथा ही त्यादिनैतद् एव प्रतिपादयति । हेतूकृत्य निमित्तीकृत्य । च ः फलसमुच्चये अनुक्ताव् अपी ति पूर्ववद्वाच्यम् । यद्य् अय्ं तस्याभिप्रायस् तदा ऽऽत्मार्था इत्य् एव किं न ब्रवीतीत्य् आशङ्क्य येनाभिप्रायेणैवम् अवादीत्तं दर्शयितुम् आह --- शयने ति । ही र् यस्मादर्थः ।
[ध्प्र् 182]
अनिराकृत इति --- एतल्लक्षणयोगे अपि यः साधयितुम् इष्टो अप्य् अर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर् निराक्रियते, न स पक्ष[426]इति प्रदर्शनार्थम् इइइ-48
__________नोतेस्__________
[426] पक्षः दर्शन-
अनिराकृत इति व्याख्येयम् । एतद् इति अनन्तरप्रकान्तं य पक्षणम् उत्कं साध्यतेनेष्टेत्यादि[427] --- एतल्लक्षणे न योगे ऽपि अप्य् अर्थो न पक्ष इति प्रदर्शनार्थम् [428] प्रतिपादनाय अनिराकृत ग्रणं कृतम् ।
__________नोतेस्__________
[427] साध्यत्वेनेष्टत्वादि
[428] प्रदर्शनाय
कीदृशो ऽर्थो न पक्षः साधय्तुम् इष्टो ऽपीत्य् आह --- यः साधयितुम् इष्टो ऽर्थो --- प्रत्यक्षं चानुमानं च प्रतीतिश् च स्ववचनं च --- [429] एतैर् निराक्रियते --- विपरीतः साध्यते [430]न स पक्ष इति ॥
__________नोतेस्__________
[429] तैर् निर्-
[430] साध्यते स न पक्ष
तत्र प्रत्यक्षनिराकृतो यथा, अश्रावणः शब्द इति इइइ-49
तत्रे ति । तेषु चतुर्षु प्रतक्षादिनिरार्कृतेषु[431] प्रक्षनिर्राकृतः कीदृशः? यथे ति । यथा ऽयं प्रत्यक्षनिराकृतस् तथाऽये ऽपि द्रटव्या इति यथा शब्दार्थः ।
__________नोतेस्__________
[431] -कृतेषु निर्-
श्रवणेन ग्राह्यः श्रावणः । न श्रावणो ऽश्रावणः । श्रोत्रेण न ग्राह्य इति प्रतिज्ञार्थः । श्रोत्राग्राह्यत्वं शब्दस्य प्रत्यक्षसिद्धेन [432]श्रोत्रग्राह्यत्वेन बध्यते ॥
__________नोतेस्__________
[432] श्रोत्रज्ञानग्राह्य- --- टि-
ननु चक्षुरादीनां विज्ञानलक्षणप्ररार्थता सेत्स्यति । तत् कथम् आत्मार्थतासिद्धिर् इत्य् आह चक्षुरादय इत्य् अत्रे ति । तथापि कुतस् तत्सिद्धिर् इत्य् आह विज्ञानाच् चे ति । चो यस्मात् । अथ विज्ञान्स्यापि धर्मित्वे कथम् आत्मार्थतासिद्धिर् इत्य् आशङ्क्य स्पष्टयितुम् आह --- परस्ये ति । सामर्थ्याद्
आत्मार्थत्वं सिद्ध्यात् चक्षरादीनाम् इत्य् एवं मत्वा परार्थग्रहणं कृतं सांख्येने ति प्रस्तावात्, अध्याहारे वा, तेषां विज्ञानार्थताया अपि सम्भाव्यत्वात् । तत् सिद्धैकं सामर्थ्यम् इत्य् आशङ्क्य परस्ये ति योज्यम् ।
अर्थकारि प्रयोजनकारि विज्ञानम् अपीति द्रष्टव्यम् । सेत्स्यती ति ब्रुवतो ऽयं भावः । आदि शब्दाद् विज्ञास्यापि तथात्वे साध्ये विज्ञानं परार्थकारि सेत्स्यतीति । इति र् हेतौ । अनेन सामर्थ्यं चक्षुरादीनाम् आत्मार्थतासिद्धौ दर्शितम् ।
तेने त्य् अस्य मूलस्य व्याख्यानम् इष्टसाधन(साध्यत्व)वचनेनेति वादिनः साधयितुम् इच्छया विषयीकृतम् ।
तच् च द्वविधम् इति दर्शयन्न् आह --- उक्तम् इत्यादि । उक्तं साक्षाद् अभिधाविषयीकृतम् । तद् विपरीतम् अनुक्तम् । कथं तर्हि तत्साध्यम् इत्य् आह --- प्रकरणे ति । प्रकरणे न साध्योपन्यासाश्रयतया प्रकृतत्वेन गम्यं प्रकाश्यं साध्यं साध्यम् एवेत्य् उक्तं भवति ॥
[ध्प्र् 183]
अनुमाननिराकृतो यथा --- नित्यः शब्द इति इइइ-50
[433]अनुमाननिराकृतो यथा[434] नित्यः शबद इति । शब्दस्य प्रतिज्ञातं नित्यत्वम् अनित्यत्वेनानुमानसिद्धेन निराक्रियते ॥
__________नोतेस्__________
[433] श्रवणेन्दिर्य प्रभवज्ञानेनेत्य् अर्थः --- टि-
[434] यथा --- ओम्.
प्रतीतिनिराकृतो यथा --- अचन्द्रः शशी इति इइइ-51
प्रतीत्या निराकृतः अचन्द्र इति चन्द्रशब्दवाच्यो न भवति शशी ति प्रतिज्ञातार्थः[435] । अयं च प्रतीया निराकृतः । पतीतो ऽर्थ उच्यते विकल्पविज्ञानविषयः । प्रतीतिः प्रतीतत्वं
__________नोतेस्__________
[435] पर्तिज्ञार्थः
एतल्लक्षणयोगे ऽपी त्य् अस्यार्थकथनम् इदम् एतल्लक्षणेन योगे ऽप्य् अर्थ इति ।
ननु च प्रत्यक्षादिभिर् निराक्रियते ऽपसार्यते इति किल मतम् । न चाक्षा(र्था)पसारणं प्रत्यक्षादिधर्मो ऽपि तु वस्तुव्यवस्थापनम् इत्य् आह --- विपरीत इति ॥
श्रूयते ऽनेनेति श्रवणं श्रोत्रेन्द्रयं तेन ग्राह्यः उपलब्धः । तज्ज्ञाणग्राह्यत्वाच् च तद्ग्राह्यत्वम् उक्तम् । नञा समासम् आह --- ने ति । समस्तस्यार्थम् आह --- श्रोत्रे ति । अयम् अस्याशयः --- अश्रावणः शब्दः --- श्रोत्रजे [65ब्] न ज्ञानेन नानुभूयत इति यः प्रतिजानीते तस्य सा प्रतिज्ञा श्रवणेन्द्रियजेन प्रत्यक्षेण शब्दालम्बनेन बाध्यते शब्दगता ऽप्रतिभासनविपरीतस्य तत्प्रतिभासनस्य तेनोपस्थापनाद् इति ।
एतेन तन् निर्कृतम्, यद् उद्द्योतकरेणो क्तम्[436]--- `अश्रावणः शब्द इति प्रत्यक्षविरुद्धोदाहरण वर्णयति । न प्रत्यक्षस्य विषयो ज्ञातो नानुमानस्य । किं कारणम्? इन्द्रियवृत्तीनाम् अतीन्द्रियत्वात् । श्रावणत्वञ् चेन्द्रियवृत्तिः । सा कथं प्रत्यक्षा भविष्यति? तस्माद् अनुमानविरुद्धस्योदाहरणम् इदम् । अनुष्णो वह्निः कृतक्ताद् इति प्रत्यक्षविरुद्धस्येति ।ऽ
__________नोतेस्__________
[436] न्यायवार्त्तिकं द्रष्टव्यम् --- 1,1,33, प्. 113.
न ह्य् अश्रावणशब्देन शब्दाख्ये विषये ज्ञानोत्पत्तौ श्रोत्रेन्द्रियस्य वृत्तेर् अभावो ऽभिमतो यस्य वादिनस् तम् प्रति शब्दविषयश्रवणेन्द्रियवृत्तेः प्रत्यक्षविरुद्धत्वात् प्रत्यक्षनिराकृतम् इदम् आचार्येनोक्तम्, येनोच्यते ऽतीन्द्रियेन्द्रियववृत्तिः कथं प्रत्यक्षा येनेदम् उदाहरणं संगच्छेतेति । किन् तर्हि? यः कश्चिद् व्यामोहमाहात्म्याद् यद् एतच् छ्रोत्रग्राह्यं रूपम् अद्वयं तन् नास्तीति प्रतीजानीते तं वादिविशेषं प्रतीति कथं न प्रत्यक्षविरुद्धोदाहरणम् इदम् इति ।
एतद् उक्तं भवति । शब्दो नास्तीत्य् एवं ब्रुवाणस्यास्ति प्रत्यक्षबाधा । केवलं विषयो निषेधो ऽनेकमार्गः । शब्दो नास्ति व्यापितया नित्यतयेत्यादि । तत्रासति श्रावणशब्दे सर्वस्यैव निषेधे प्रत्यक्षबाधा शङ्क्येत । श्रावणशब्देन तु श्रुतिमात्रग्राह्यम् एव यद्रूपं तन्निषेधे प्रत्यक्षबाधा न तु सामान्यधर्मनिषेध इति ख्याप्यत इति ॥
[ध्प्र् 184]
विकल्पविज्ञानविषयत्वम् उच्यते । तेन विकल्पज्ञानेन[437] प्रतीतिरूपेण शशनश् चनद्रशब्दवाच्यत्वं सिद्धम् एव । तथा हि --- यद् विकल्पविज्ञानग्राह्यं[438] तच् छब्दाकारसंसर्गयोग्यम् । यच् छशदाकारसंसर्गयोग्यं तत् साङ्केतिकेन शब्देन वक्तुं शक्यम् । अतः प्रईतिरूपेण विकल्पविज्ञानविषयत्वेन सिद्धं चन्द्रशब्दवाच्यत्वम् अचन्द्रत्वस्य बाधकम् । स्वभावहेतुश् च प्रतीतिः । यस्माद् विकल्पविषयत्वमात्रानुबन्धिनी साङ्केतिकशब्दवाच्यता, ततः स्वभावहेतुसिद्धं चन्द्रशब्दवाच्यत्वम् वाच्यत्वस्य बाधकं द्रटव्यम् ॥
__________नोतेस्__________
[437] विकल्पविज्ञानविषयत्वेन; विकल्पज्ञानविषय्त्वेन; विकल्पविज्ञानेन
[438] यद् विकल्पज्ञान-; यज् ज्ञानग्राह्यं
प्रतीत्या विकल्पविज्ञानरूपेण विषयिणा विषयस्य निर्देशात् । एतद् एव दर्शयति प्रतीत इति । प्रतित उच्यते व्यवह्रियते, साक्षात् कृतस्याप्य् अजाताध्यवसायस्य तथाव्यवहाराभावाद् इति भावः । विषयिणा विषयगतो धर्म उक्त इति स्फुटयते प्रतीतिः प्रतीतत्वरूपेण पतीतत्वम् इति । तेन विकल्पज्ञानेनेति विकल्पविज्ञानविषयत्वेनेति ज्ञेयं प्रतीतरूपेण । तथा हीत्य् अनेनैतद् एवोपपादयति ।
भवतु शब्दाकारसंसर्गयोग्यत्वम् । तच्छब्दवाच्यता तु कथम् इत्य् आह --- यद् इति । अत इत्यादिना पतीतेर् बाधकत्वं दर्शयति । अचन्द्रत्वस्या चन्द्रशब्दववाच्यत्वस्य । किं साधनसिद्धिम् इदं चन्द्रशब्दवाच्यत्वम् इत्य् आह --- स्वभावे ति । स्वभावहेतुलक्षणं योजयन्न् आह --- यस्माद् इति । तत इत्यादिनोपसंहारः ।
एवं तु प्रयोगो द्रष्टव्यः --- यो ऽर्थो विकल्पविज्ञानविषयः स साङ्केतिकेन शब्देन वक्तुं शक्यः । यथा शाखादिमान् अर्थो वृक्षशबेन । विकल्पविज्ञानविषयश् च शशीति ।
इह केनचिच् छब्देन कस्यचिद् अभिधातुम् अशक्यत्वं वास्तवे प्रतिनियतार्थशब्दसम्बन्धे सति स्यात् । स चान्यत्र प्रतिषिद्धः । पारिशेष्याज् ज्ञानात्मन्य् आरूढस्यार्थस्य शब्दसम्बन्धः कर्त्तुं कस्य शक्यो यस् तेन शब्दाकारेण सह नैकस्मिन् ज्ञानेन संसृजुयते । अनियतार्थं च विज्ञानम् इति तदारूढो ऽर्थस् तदभिधानाकारसंसर्गयोग्य एव । तस्मात् तेन शब्देनाभिधातुम् अशक्यत्वम् अतदाकारसंसर्गयोगत्वेन व्याप्तम् । व्या[66अ]पकविरुद्धं च तदभिधानाकारसंसर्गयोग्यत्वम् । तेन च विकल्पविज्ञानविषयत्वं व्याप्तम् । तद् एवं विकल्पविज्ञानविषयत्वं तद्व्यापकविरूद्धव्याप्तत्वात् तेनापि विरुद्ध्यते । ततश् च तद्विरुद्धेन शक्यत्वेन व्याप्त इति स्वभावहेतुः । तस्माद् विकल्पविज्ञानविषयत्वम् एव प्रतीतिः प्रसिद्धिर् व्यवहारश् चोच्यते । अनया पतीत्या यत् साधितं शशिनश् चन्द्रशब्दवाच्यत्वं तत् स्वविरुद्धस्य तदनभिधेयत्वस्य बाधकं बह्वति । तेन प्रतीतेर् विकल्पविज्ञानलक्षणाया जातो धर्म इष्टशब्दाभिधेयत्वलक्षणस् तेनानभिधेयत्वस्य बाधनात् प्रतीतिबाधोच्यत इति परमार्थः ।
यद् वा प्रतीतेस् तथारूपाया जात एवेष्टशब्दाभिधेयत्वलक्षणो धर्मः प्रतीतिशब्देनोक्तः,
[ध्प्र् 185]
स्ववचननिराकृतो यथा --- नानुमानं प्रमाणम् इइइ-52
स्ववचनं प्रतिज्ञार्थस्यात्मीयो वाचकः शब्दः । तेन निराकृतः प्रतिज्ञार्थो न साध्यः । यथा नानुमानं प्रमाणम् --- इत्य् अत्र[439] अनुमान्स्य प्रामाण्यनिषेधः प्रतिज्ञार्थः । स[440] नानुमानं प्रमाणम् --- इत्य् अनेन स्ववाचकेन वाक्येन बाध्यते । वाक्यं हि एतत् प्रयुज्यमानं वक्तुः [441]शाब्दप्रत्ययस्य सदर्थत्वम् इष्टं सूचयते । तथा हि --- मद्वाक्याद् यो ऽर्थसम्प्रत्ययस् तवोत्पद्यते सो ऽसत्यार्थ इति दर्शयन् वाक्यम् एव नोच्चारयेद् वक्ता, वचनार्थश् चेद् अस्त्यः परेण ज्ञात्व्यो वचनम् अपार्थकम् । यो ऽपि हि सर्वं मिथ्या ब्रवीमीति[442] वक्ति सो ऽप्य् अस्य वाक्यस्य सत्यार्थत्वम् आदर्शयन्न् एव वाक्यम् उच्चारयति । यद्य् एतद् वाक्यं सत्यार्थम् आदर्शितम्, एवं वाक्यान्तराण्य् आत्मीयान्य् असत्यार्थानि दर्शितानि भवन्ति । [443]एतद् एव तु यद्य् अस्त्यार्थम्, अन्यान्यसत्यार्थानि न दर्शितानि भवन्ति । ततश् च न किञ्चिद् उच्चारणस्य फलम् इति नोच्चारयेत् । तस्माद् वाक्यप्रभवं वाक्यार्थालम्बनं विज्ञानं सत्यार्थं दर्शयन्न् एव वक्ता [444]वाक्यम् उच्चारयति । तथा[445] च सति बाह्यवस्तुनान्तरीयकं शब्दं दर्शयता शब्दजं विज्ञानं सत्यार्थं दर्शयितव्यम् । ततो बाह्यार्थकार्याच् छब्दाद् उत्पन्नं विज्ञानं सत्यार्थम् आद्र्शयता [446]कार्यलिङ्गजम् अनुमानं प्रमाणं शाब्दं दर्शितं भवति ।
__________नोतेस्__________
[439] प्रमाणम् । अत्र
[440] स चानुमा-
[441] शाब्दस्य प्रत्य्-
[442] ब्रवीति वक्ति
[443] `एतद् एवऽ इत्यादि `भवन्तिऽ इत्य् अन्तं सूत्रत्वेन मुद्रितम् । किन् तु नास्त्य् एतत् सूत्रम् --- सं-
[444] अनुमानप्राआण्यनिषेधलक्षणम् --- टि-
[445] यथा
[446] आदर्शयिता
प्रतीतिमात्राद् एव सिधो यो ऽर्थः स इह बाधक इति दर्शयितुम् । एतच् च स्वभावहेतुत्वं कल्पितम् इष्टम्, न वास्तवम्, शशिनो विकल्पविज्ञानविषयत्वस्या ऽऽध्यवसानिकत्वात् । अन्यथा ऽनुमाननिराकृतान् नास्य पृथङ्निर्देशः स्याद् इति ॥
स्व शब्देनात्मवचनेन प्रकृतत्वात् साध्यस्यात्मा गृह्यत इति अभिप्रायेणाह --- प्रतिज्ञार्थस्यात्मीय इति । तेन निराकृत इति तदुपस्थापि तेनानुमानप्राणाण्येन निराकृत इति द्रष्टव्यम् । कथं निराक्रियत इत्य् आह --- वाक्यम् इति । यस्माद् एतद् वाक्यं प्रयुज्यमानं सद् वक्तुः शाब्दप्रत्ययस्य शब्दप्रभवस्य ज्ञानस्य सदर्थत्वं सत्यार्थ्वम् इष्टं सूचयति प्रकाशयति ।
प्रत्युक्तम् अपि कथं तथाकरोतीय् आह --- तथा ही ति । नोच्चारयेद् उच्चारय्तुं नार्हति, अपार्थकत्वाद् इति बुद्धिस्थम् । वचने त्यादिना त्व् एतद् एव व्यनक्ति --- न सर्वं वचनं प्रयुज्यमानं तथाकारि यथा सर्वं मिथ्या ब्रवीमीति वचनम् इत्य् आह --- यो ऽपी ति । हि र् यस्मात् । यद्य् एतद् इत्यादि । भवतु वाक्यप्रभवं वाक्यार्थलम्बनं ज्ञानं सत्यार्थम्, तथापि कथम् अनुमानप्रमाण्यं वचनेनोपस्थाप्यते येनानुमानप्रामाण्यप्रतिषेधस् तद्वचनोपस्थापितानुमानप्रमाण्येन
[ध्प्र् 186]
तस्मात् `नानुमानं प्रमाणम्ऽ --- इति ब्रुवता शाब्दस्य प्रत्ययस्यासन्न् अर्थो[447] ग्राह्य उत्कः । असदर्थत्वम् एव ह्य् अप्रामाण्यम् उच्यते, नान्यत् । शब्दोच्चारणसामर्थ्याच् चार्थाविनाभावी स्वशब्दो दर्शितः । तथा च [448]सन्न् अर्थो दर्शितः । [449]ततः [450]कल्पिताद् अर्थकार्याच् छब्दाच् [451]छाब्दप्रययार्थस्यानुमितं सत्त्वं प्रतिज्ञायमानसत्त्वं प्रतिबध्नाति ।
__________नोतेस्__________
[447] -स्यासन् ग्राह्य उक्तो
[448] सन् नर्थो
[449] `नानुमानं प्रमाणंऽ इत्य् अस्माच् छबाद्यो ऽथो बुध्यते तेन जनितो `नानुमानऽ इत्यादिकः शब्दः न प्रत्येष्यति नासित्को व्यभिचारात् --- टि-
[450] अध्यारोपित- --- टि-
[451] -छब्दप्र-
तद् एवं स्ववचनानुमितेन सत्त्वेनासत्त्वं[452] बाध्यमानं स्ववचनेन बाधितम् उक्तम् इत्य् अयम् अत्रार्थः ।
__________नोतेस्__________
[452] वाच्यमानं
अन्ये त्व् आहुः --- अभिप्रायकार्याच् छब्दाज् जातं ज्ञानम् अभिप्रायालम्बनम् । सदर्थम् इच्छतः शब्दप्रयोगः । तेनाप्रामाण्यं प्रतिज्ञातं बाध्यत इति ।
निराक्रियमाणः स्ववचननिराकृतो भवतीत्याशङ्क्याह --- तथा च सती ति --- शाब्दज्ञानस्य सत्यार्थत्वप्रतिपादनाभिप्रायेण वाक्योच्चारणप्रकारे सति । बाह्यवस्तुनानतरीयकं तदविनाभाविनं दर्शयता सत्यार्थं दर्शयितव्यं दर्शयितुं युज्यते शक्यत इत्य् अर्थः । यत एवं ततस् तस्मात् । बाह्यार्थकार्याद् इति सति भेदे तदुत्पत्त्यैव नान्तरीकत्वसम्भवाद् इति भावः । शाब्दम् इति प्रकृतत्वाज् ज्ञानं कार्यलिङ्गजं शब्दरूपकार्यलिङ्गजम् इति हेतुभावेन विशेषणम् अनुमानं प्रमाणं दर्शितं प्रकाशितं भवति ।
तस्माद् इत्यादिनोपसहरति ।
नन्व् अनुमानस्याऽसन् ग्राह्य इति युज्यते वक्तुम् । तत् किं शाब्दस्य प्रत्ययस्येत्य् उक्तम् इति चेत् । नैष दोषः । शाब्दस्यापि प्रययस्योक्तेन न्य्यायेनानुमानत्वात् । सर्वानुमानप्रामाण्यप्रतिषेधे चास्यापि प्रतिषिद्धत्वात् । अस्यैव चानुमानस्यानुमानप्रामाण्यप्रतिषेधलक्षणप्रतिज्ञार्थबाधकत्वाद् उपन्यासो युक्तरूपः ।
यद्य् एवम् अप्रामाण्यम् उक्तम् तच् च बाध्य[66ब्]त इति वक्तुं युज्यते । तत् किम् एवम् उक्तम् इत्य् आह --- असदर्थत्वम् इति । ही ति यस्मात् । आस्ताम् असन् ग्राह्यो ऽभितः किम् अत इत्य् आह --- शब्दे ति । चो हेताव् अवधारणे वा । शब्दो ऽप्य् अतस् तथा दर्शितस् तथापि किम् आयातम् इत्य् आह --- तथा चे ति शब्दस्य बाह्यार्थाविनाभाविप्रदर्शनप्रकारे सति सन्न् अर्थो ऽध्यवसेयो दर्शितः । सदर्थत्वं प्रामाण्यलक्षणं दर्शितम् इति यावत् । तस्य सदर्थत्वण् प्रदर्श्यतां बाधा तु कथम् इत्य् आह --- तत इति । शाब्दप्रत्ययस्य यो ऽर्थो ज्ञाप्यो ऽनुमानप्रामाण्यलक्षणस् तस्यानेनैव शब्दलिङ्गेनानुमानेनानुमितं सत्त्वं कर्त्तृ प्रतिज्ञायमानम् असदर्थम् अप्रामाण्यलक्षणं कर्मभूतं पतिबध्नाति । निराकरोतीति वक्त्व्ये प्रतिबध्नाती ति ब्रुवाणः परमार्थतो ऽस्यावास्तवत्वान् न बाधा किन् त्व् एतदुपस्थापितेतरयोः परस्परप्रतिबन्ध इति सूचयति ।
[ध्प्र् 187]
तद् अयुक्तम् । यत इह प्रतीतेः स्वभावहेतुत्वम्, स्ववचनस्य च कार्यहेतुत्वं कल्पितम् इष्टम् । न वास्तवम्[453] । अभिप्रायकार्यत्वं च वास्तवम् एव शब्दस्य । ततस् तद् इह न गृह्यते ।
__________नोतेस्__________
[453] वास्तवम् इति
किञ् च । यथा --- अनुमानम् अनिच्छन्[454] वह्न्यव्यभिचारित्वं धूमस्य न प्रत्येति, तथा शब्दस्याप्य् अभिप्रायव्यभिचारित्वं न प्रत्येष्यति । बाह्यवस्तुप्रत्यायनाय च शब्दः प्रयुज्यते । तन् न शब्दस्याभिप्रायाविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रयोगः । [455]अपि च, न स्वाभिप्रायनिवेदनाय शब्द उच्चार्यते, अपि तु [456]बाह्यसत्त्वप्रतिपादनाय, तस्माद् बाह्यवस्त्वविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रयोगः । ततः पूर्वकम् एव[457] व्याख्यातम् अनवद्यम्[458] ॥
__________नोतेस्__________
[454] अग्न्यव्य-
[455] `अपि चऽ इति यस्मादर्थे ऽव्ययम् --- टि- । `अपि चऽ इत्य् आरभ्य `शब्दप्रयोगःऽ इत्य् अन्तः पाठो नास्ति ।
[456] बाह्यवस्तुसत्त्व-
[457] पूर्वम् एव
[458] व्याख्यानम्-
इति चत्वारः पक्षाभासा निराकृता भवन्ति इइइ-53
एवं[459] च सति --- अनिराकृत ग्रहणेनान्तरोक्ताश् चत्वारः पक्षवदाभासन्त इति पक्षाभासा निरस्ता भवन्ति ॥
__________नोतेस्__________
[459] एवं सति
सम्पति पक्षलक्षणपदानि येषां व्यवच्छेदकानि तेषां व्यवछेदेन यादृशः [460]पक्षार्थो लभ्यते तं दर्शयितुं व्यवच्छेद्यान् संक्षिप्य दर्शयति ---
__________नोतेस्__________
[460] पक्षो
नन्व् अनुमानप्रामाण्यम् असत्त्वं बाधते न तु स्ववचनं तत् कथं स्ववचननिराकृतोदाहरणम् इदम् उक्तम् इत्य् आशङ्क्य स्ववचननिरार्कृत इत्य् अत्र यादृशो ऽर्थो विवक्षितस् तं दर्शयति तद् एवम् इति । अत्रे ति स्ववचननिराकृते । यथानुमानं न प्रमाणम् इत्य् अत्र ।
स्वाभिप्रायेणैव व्याख्याय अन्ये त्व् इत्यादिना पूर्वव्याख्यानं दूषायितुम् आह । तु ना स्वव्याख्यानाद् वैसदृश्यम् आह ।
न वास्तवम् इति ब्रुवतो यदीदं वास्तवम् अनुमानं स्यात् तदानुमाननिराकृतोदाहरणानन पृथग् उच्यतेइति । किञ् चे ति वक्तव्यानतराभ्युच्चये । बाह्यवस्तुप्रत्यायनाय चे ति च कारो ऽपि वक्तव्यान्तरसमुच्चये । यत एवं तत् तस्मात् । स्व स्योच्चारयितुम् अभिप्रायो वक्तुम् कामता, तद् अव्यभिचारित्व् आभ्युपगमः पूर्वो यस्य तथा न भवति । पूर्वं बाह्यवस्तुप्रत्यायनाये त्य् अनेन सामर्थ्यान् न स्वाभिप्रायप्रत्यायनायेत्य् उकम् अपि स्फुटं दर्शयितुम् तन् न शब्दस्याभिप्रायाविनाभावित्वाभ्युपगमपूर्वकः शब्दप्र्योग इत्य् अनेन सामर्थ्याद् बाह्यवस्त्वविनाभावित्वाभ्युपगमपूर्वक इति दर्शितम् अपि साक्षाद् दर्शयितुम् अपि चे ति पूर्वोक्तस्य वक्तव्यान्तर द्योतकस्य स्पष्टीकरणम् । यत्राप्य् असत्त्वप्रतिपादनाय शदः प्रयुज्यते तत्रापि विवक्षितसत्त्वविविक्तस्यान्यसत्त्वस्य प्रतिपादनाद् बाह्यसत्त्वप्रतिपादनाये त्य् उक्तम् । यद् वा सत्त्व ग्रणस्योपलक्षणत्वाद्
[ध्प्र् 188]
[461]एवं सिद्धस्य, असिद्धस्यापि साधनत्वेन अभिमतस्य, स्वयं वादिना तदा साधयितुम् अनिष्टस्य, उक्तमात्रस्य निराकृतस्याच विपर्ययेण साध्यः । तेन एव स्वरूपेणाभिमतो वादिन इष्टो अनिराकृतः पक्ष इति पक्षलक्षणम् अनवद्यं[462]दर्शितं भवति इइइ-54
__________नोतेस्__________
[461] एवं --- ओम्.
[462] लक्षणम् अवद्यं
एवम् --- इत्य् अनन्तरोक्तक्रमेण[463] । सिद्धस्य विपरियेण विपरीतत्वेन हेतुना साध्यो द्रष्टव्यः । यस्माद् अर्थात् सिद्धो ऽर्थो विपरीतः, स साध्य इत्य् आर्थः । सिद्धश् च विपरीतो ऽसिद्धस्य तस्माद् असिद्धः साध्यः । असिद्धो ऽपि न सर्वो ऽपि तु साधनत्वेनो क्तस्य् आसिद्धस्यापि विपर्ययेण । स्वयं वादिना साधयितुम् अनिष्टस्य असिद्धस्य विपर्ययेण । तथा उक्तमात्रस्य असिद्धस्यापि विपर्ययेण । तथा निराकृतस्या सिद्धयापि विपर्ययेण साध्यः ।
__________नोतेस्__________
[463] -रोक्तेन
यश् चायं पञ्चभिर् व्यवच्छेद्यै रहितो ऽर्थ ऽसिद्धो[464] ऽसाधनं वादिनः स्वयं साधयितुम् इष्ट उक्तो ऽनुक्तो वा प्रमाणैर् अनिराकृतः साध्यः, स एवासौ स्वरूपेणैव स्वयम् इष्टो ऽनिराकृत एतैः पदैर् उक्त इत्य् अर्थः । यश् चायं साध्यः स पक्ष [465]इति उच्यते । इति शब्द एवम् अर्थे । एवं पक्षलक्षणम् अनवद्यम् इति । अविद्यमानम् अवद्यं दोषो यस्य तद् अनवद्यम् । दर्शितं कथितम् ।
__________नोतेस्__________
[464] `असिद्धोऽ इत्यादिपदानन्तरं संख्याङ्काः दत्ता वर्त्तन्ते --- सं-
[465] `इतिऽ --- ओम्.
त्रिरूपलिङ्गाख्यानं परिसमापय्य[466] प्रसङ्गागतं च पक्षलक्षणम् अभिधाय हेत्वाभासान् वक्तुकामस् तेषां प्रस्तावं रचयति त्रिरूपे त्यादिना---
__________नोतेस्__________
[466] समाप्य
त्रिरूपलिङ्गाख्यानं परार्थानुमानम् इत्य् उक्तम् । तत्र त्रयाणां रूपाणाम् एकस्य अपि रूपस्य अनुक्तौ साधनाभासः इइइ-55
एतद् उक्तं भवति --- त्रिरूपलिङ्गं[467] वक्तुकामेन स्फुटं तद् वक्तव्यम् । एवं च तत् स्फुटम् उक्तं
__________नोतेस्__________
[467] लिङ्गाख्यानं वक्तु-
बाह्यसत्त्वप्रैत्पादनाये त्य् अपि द्रष्टव्यम् । सर्वथा न स्वाभिप्रायस्य सत्त्वम् असत्त्वं वा प्रत्पादयितुं शब्दप्रयोग्त इत्य् अने[न] हेतुम् । यत एवं ततस् तस्मात् पूर्वकम् एव यन् मया व्याख्यातम् अनवद्यम् अपगतदोषम् ॥
इति चत्वारः पक्षाभासा निराकृता भवन्ती ति मूलं व्याचक्षाण आह --- एवम् इति ।
निरस्ता भवन्ति पक्षत्वेनेति प्रस्तावात् ॥
पक्ष इत्य् उच्यते व्यकतीक्रियत इति व्युत्पत्त्येति भावः ॥
ननु त्रिरूपलिङ्गाख्यानं प्रकृतम् उक्तम् एव । तत् किं हेत्वाभासाख्यानम् अप्रकृतं क्रियत
[ध्प्र् 189]
भवति यदि तच् च, तत्प्रतिरूपकं[468] चोच्यते । हेयज्ञाने[469] हि तद्विविक्तम् उपादेयं सुज्ञातं भवतीति । त्रिरूपलिङ्गाख्यानं [470]परार्थम् अनुमानम् ऽ [3.1.] इति प्राग् उक्तम् ।
__________नोतेस्__________
[468] प्रतिरूपं बोध्यते; लिङ्गाभासम् --- टि-
[469] हेयज्ञाते
[470] परार्थानु
तत्रे ति तस्मिन् सति । त्रिरूपलङ्गाख्याने[471] परार्थानुमाने स्तीत्य् अर्थः । त्रयाणाम् रूपाणां मध्य एकस्याप्य् अनुक्तौ । अपि शब्दाद् द्वयोर् अपि । साधन स्य आभास सदृशं साधनस्य्, न साधनम् इत्य् अर्थः । त्रयाणां रूपाणां न्यूनता नाम साधनदोषः ॥
__________नोतेस्__________
[471] परार्थे ऽनुमाने
उक्ताव् अप्य् असिद्धौ सन्देहे वा प्रतिपाद्यप्रतिपादकयोः इइइ-56
न केवलम् अनुक्त्वाव् उक्ताव् अप्य् असिद्धौ सन्देने वा । कस्येत्य् आह --- प्रतिपाद्यस्य प्रतिवादिनः, प्रतिपादक स्य चवादिनो हेत्वाभासः ॥
अथ [472]कस्यैकस्यारूपस्यासिद्धौ सन्देहे[473] वा किं संज्ञको हेत्वाभास इत्य् आह ---
__________नोतेस्__________
[472] कस्य रूप-; हेत्वाभासो ऽप्य् एकस्य रूप-
[473] सन्देहे वाक्यं सं-
एकस्य रूपस्य धर्मिसम्बन्धस्य असिद्धौ सन्देहे[474]वा असिद्धो हेत्वाभासाः इइइ-57
__________नोतेस्__________
[474] सन्देहे चासिद्धो
इत्य् आशङ्क्य् आह --- एतद् उक्तं भवती ति । त्रिरूपलिङ्गाख्यानस्य स्फुटाभिधानार्थत्वं चोपलक्षणं तेन विप्रतिपत्तिनिराकरणार्थं चेति द्रष्टव्यम्, सन्दिग्धविपक्षव्यावृत्तिकत्वादोष(दिषु) विपरतिपत्तिदर्शनात् ।
सदृ[67अ]शं साधनस्ये तिय् अर्थकथनम् एतद् । व्युत्पत्तिस् त्व् आभासनम् आभासः प्रतिभासः, साधनस्येवाभासः प्रतिभासो ऽस्येति तथा । न्युनता ऊनत्वम् अपूर्णता । कस्येत्य् आकाङ्क्षायाम् आह --- त्रयाणाम् इति । यस्माद् एकस्य द्वयोर् वा ऽनुक्तौ त्रीणि परिपूर्णं प्रतिपादितानि न भवन्ति तस्मात् त्रयाणाम् न्यूनतेत्य् अर्थः ।
ननु हीनाङ्गत्वं न साधनदोषः । विद्यमाने ऽपि हि रूपत्रये द्वयोर् एकस्य वा वक्त्रा ऽनभिधाने सति न्यनतायाः सम्भवात् । तत् कथं वक्तृदोषः साधनदोष इत्य् उच्यत इति चेत् । सत्यम्; केवलं नात्र साधनशब्देन लिङ्गम् अभिप्रेतम् । किं तर्हि? तत्प्रतिपादकं वाक्यं तस्य चापरिपूर्णता दोषो भवत्य् एव । वक्तृदोषस् तु निमित्त[म्] परिपूर्णताया इति किम् अवद्यम्?
एवम् उपलक्षणार्थत्वाद् अस्य यथा ऽन्यतम् एवापि रूपेणा हीनत्वान् न्यूनता साधनदोषस् तथा हेतूवचनाद् वादिना निग्रहो विवक्षित इत्य् अपीति ॥
प्रतिपाद्यस्ये तादिना प्रतिपाद्यप्रतिपादक शब्दयोर् एवार्थं व्याचष्टे ।
आचार्य स्यस् तु प्रतिपाद्यस्य प्रतिपादकस्य च प्रतिपाद्यप्रपादकयोश् चेति व्यस्तसमस्तनिर्देशो ऽभिप्रेतः ।
[ध्प्र् 190]
एकस्य रूपस्ये ति । धर्मिण् आ सह सम्बन्धः धर्मिन्सम्बन्धः । धर्मिणि सत्त्वं हेतोः । तस्य असिद्धौ सन्देहे वा असिद्ध ससञ्ज्ञको हेत्वाभासः । असिद्धत्वाद् एव च धर्मिण्य् अप्रतिपत्तिहेतुः । न साध्यस्य, न विरुद्धस्य, न संशयस्य हेतुर् अपि त्व् अप्रतिपत्तिहेतुः । न कस्य्चिद् अतः प्रतिपत्तिर् इति कृत्वा । अयं चार्थो ऽसिद्ध सम्ज्ञाकरणाद् एव प्रतिपत्तव्यः ॥
उदाहरणाम् आह ---
यथा, अनित्यः शब्द इति साध्ये चाक्षुषत्वम् उभयासिद्धम् इइइ-58
यथे त्यादि । [475] अनित्यः शब्द इत्य् अनित्यत्वविशिष्टे शब्दे साध्ये चाक्षुषत्वं चक्षुर्ग्राह्यत्वं शब्दे [476]द्वयोर् अपि वादिप्रतिवादिनोर् असिद्धम् ॥
__________नोतेस्__________
[475] नित्यः
[476] द्वयोर् द्वयोर् अपि
चेतनास् तरव इति साध्ये सर्वत्वगपहरणे मरणं[477]प्रतिवाद्यसिद्धम्, विज्ञानेन्द्रियायुर् निरोधलक्षणस्य मरणस्य[478]अनेन अभ्युपगमात्, तस्य च तरुष्व् असम्भवात् इइइ-59
__________नोतेस्__________
[477] मरणाद् इति प्रति-
[478] -स्यानेन मरणस्याभ्यु-
चेतनास् तरव इति तरूणां चैतन्ये साध्ये । सर्वा त्वक् सर्वत्वक् । तस्य अपहरणे सति मरणं दिगम्बरैर् उपन्यस्तं प्रतिबादिनो बौद्धस्या सिद्धम् ।
कस्माद् असिद्ध इत्य् आह --- विज्ञानं च इन्द्रियं च् आयुश् चेति द्वद्वः[479] । तत्र विज्ञानं[480] चक्षुरादिजनितम्[481] । रूपादिविज्ञानोत्पत्त्या यद् अनुमितं [482]कायान्तर्भूतं चक्षुर्गोलकादिस्थितं[483] रूपं
__________नोतेस्__________
[479] चायुश् च रूपा-; चायुश् च तत्र;
[480] विज्ञानचक्षु-
[481] जयित; चक्षुरादिविज्ञानं रूपा-; चक्षुरादिज्ञानम् रूपा-
[482] कार्यान्त
[483] स्थितरूपम्
अयं हेत्वाभासः कीदृशीं प्रतिपत्तिं प्रसूत इत्य् आह --- असिद्धत्वाद् एवे ति । तु शब्दार्थश् च कारः । कथम् एतत् प्राप्यत इत्य् आह --- अयञ् चे ति । चो यस्मादर्थे । कस्याश्चिद् अपि प्रतिपत्तेर् हेतुतया न सिद्ध इति असिद्ध उक्त इत्य् अभिप्रायः ॥
द्वयोर् अपि वादिप्रतिवादिनोर् असिद्धम् अनिश्चतम् । अनेन व्यधिकरणासिद्धो ऽप्य् उक्तो द्रष्टव्यः । यथा राज्ञो ऽयं प्रासादः, काकस्य कार्ष्ण्याद् इति । तस्यापि कार्ष्ण्यस्य प्रासादे धर्मिणि उभयोर् असिद्धत्वात्, केवलं तत्रासिद्धो ऽप्य् अर्थधर्मिगतत्वेनोपादानात् तथा व्यपदिश्यते ।
ननु व्यधिकरणम् अपि लिङ्गं गमकं दृष्टम् । यथा प्रत्यग्रशरावदर्शनं भ्रान्तिम[त्]प्रत्यग्रशरावत्वस्य भ्रान्तिमच्चक्रवत्त्वे । अस्य च हेतुत्वाद् । देश एव हि धर्मी अविदूरकुलालसम्बन्धित्वं साध्यम् तस्य च धर्मिणः प्रत्य्ग्रशरावसम्बन्धित्वं भ्रानिमच्चक्रसम्बन्धित्वञ् च धर्मो भवत्य् एव । न त्व् अत्र कुलालस्य धर्मिणः सद्भावः साध्यते, येनैव तद् उच्येतेति ।
तथा, विशेषणासिद्धविशेष्यासिद्धाव् अप्य् अनेनैवोक्तौ द्रष्टव्यौ । यथाऽनित्यः शब्दो ऽनभिधेयत्वे
[ध्प्र् 191]
तद् इन्द्रियम् । आयुर् इति लोके प्राणा [484]उच्यन्ते । न चागमसिद्धम् इह युज्यते वक्तुम् । अतः [485]प्राणस्वभावम् आयुर् इह । तेषां निरोधो निवृत्तिः । स लक्षणं तत्त्वं यस्य तत् तथोक्तम् । तथाभूतस्य मरणस्य अनेन बौद्धेन पर्तिज्ञातत्वात् ।
__________नोतेस्__________
[484] उच्यते
[485] प्रमाणस्व-
यदि नामैवं तथापि कथम् असिद्धम् इत्य् आह --- तस्य च विज्ञानादिनिरोधात्मकस्य [486] तरुष्व् असम्भआत् । सत्तापूर्वको निरोधः । ततश् च यो विज्ञाननिरोधं तरुष्व् इच्छेत् स कथं विज्ञानं नेच्छेत् । तस्माद् विज्ञानानिष्टेर् निरोधो ऽपि नेष्ट्स् तरुषु ।
__________नोतेस्__________
[486] तरुष्वभावात्
ननु च शोषो ऽपि मरणम् उच्यते । स च तरुषु सिद्धः । सत्यम् । केवलं विज्ञानसत्तया [487]व्याप्तं यत् मरणं तद् इह हेतुः । विज्ञाननिरोधश् च तत्सत्तया व्याप्तः, न शोषमात्रम् । ततो[488] यन् मरणं[489] हेतुस् तत् तरुष्व् असिद्धम् । यत् तु[490] सिद्धं शोषात्मकं तद् अहेतुः ।
__________नोतेस्__________
[487] सत्ताया
[488] तत्र
[489] मरणहेतुः
[490] यच् च
दिगम्बर स् तु साध्येन [491]व्याप्तम् अव्याप्तं[492] वा मरणाम् अविविच्य मरणमात्रं हेतुम् आह । तद् अस्य वादिनो हेतुभूतं[493] मरणं न ज्ञातम् । अज्ञानात् सिद्धं शोषरूपम्, शोषरूपस्य मरणस्य तरुषु दर्शनात् । प्रतिवादिनस् तु ज्ञातम् अतो ऽसिद्धम् । यदा तु वादिनो ऽपि ज्ञातं तदा वादिनो ऽप्य् असिद्धं स्याद् इति न्यायः ॥
__________नोतेस्__________
[491] विज्ञानेन्द्रियायुर् निरोधलक्षणम् --- टि-
[492] शोषलक्षणम्
[493] हेतुज्ञात्ततम्; विज्ञानेन्द्रियायुर् निरोधलक्षणम् --- टि-
सति प्रमेयत्वात् । अनित्यः शब्दः प्रमेयत्वे सति अनभिधेयत्वाद् इति विशेषणविशिष्टस्य रूपस्य तत्र धर्मिणि द्वयोर् अपि वादिप्रतिवादिनोर् असिद्धत्वात् । केवलं तत्रासिद्धो विशेषणविशिष्टतयोपात्तस्य रूपस्य तथा ऽसिद्धेस् तथा तथा व्यपदिश्यत इति ॥
चेतना इति । चेतयन्त इति चेतनाः । दिश एवाम्वरं येषाम् इति व्युप्तत्त्या दिगम्बराः क्षपणका उच्यन्ते । तैः किम् प्रमाणसमधिगतम् इन्द्रियम् इत्य् आह --- रूपादी ति । सत्स्व् अन्येषु कारणेष्व् अव्यापृते चक्षुरादौ रूपादिज्ञानम् अनुत्पद्यमानं स्वोत्पत्तौ कारणा[67ब्]न्तरम् अपेक्षणीयं सूचयति । प्रणिहिते तु चक्षुरादौ जायमानं तत्रस्थं तत् किम् अपि कारणम् अस्तीति ख्यापयति । अत एवाह --- कायान्तर्भूतं कायाश्रितम् । सामान्येनोक्तं कायाश्रितत्वम् । विशिष्टज्ञानाभिप्रायेनोक्तं विशिष्टाश्रयाश्रितत्वं दर्शयति चक्षुर् इति । आदि शब्देन रसनादिपरिग्रहः । प्रसन्नार्थादेर् अपि सद्भावान् न गोलकादिर् एवेन्द्रियम् इति भावः । किम् आयुर् इत्य् आह --- आयुर् इति आयुःशब्देनेत्य् अर्थः । लोके व्यवहर्त्तरि जने प्राणो ऽन्तरः शरीरे रसमलधातूनां प्रेरणादिहेतुर् एकः सन् क्रियाभेदोद्(-भेदाद्) अपानादिसम्ज्ञां लभत इति तत् तद् अवस्थाविवक्षया प्रणा इति बहुवचनम् ।
नन्व् आगमे जीवितेन्द्रियम् आयुर् इत्य् उक्तम् । तत् किम् एवं व्याख्यायत इत्य् आह --- न चे ति । चो ऽवधारणे हेतौ वा । यत एवम् अतः कारणात् । इह प्रमाणसिद्धवस्तूपदर्शनप्रस्तावे तथा
[ध्प्र् 192]
अचेतनाः सुखादय इति साध्ये उत्पत्तिमत्वं अनित्यत्वं[494]वा सांख्य स्य स्वयं वादिनो असिद्धम् इइइ-60
__________नोतेस्__________
[494] अनित्यं
अचेतनाः सुखादय इति --- सुखम् आदिर् येषां दुःखादीनां ते सुधादयः । तेषाम् अचैतन्ये साध्ये उत्पत्तिमत्वं, अनित्यत्वं वा लिङ्गम् उपन्यस्तम् । य उत्पत्तिमन्तो ऽनित्या वा ते न चेतनाः । यथा रूपादयः । तथा चोत्पत्तिमन्तो ऽनित्या वा सुखाद्यस् तस्माद् अचेतनाः । चैतन्यं तु पुरुषस्य [495]स्वरूपम् । अत्र चोत्पत्तिमत्त्वम् अनित्यत्वं वा पर्यायेण हेतुर् न युगपत् । तच् च द्वयम् अपि सांख्य स्य वादिनो न सिद्धम् । परार्थो[496] हि हेतूपन्यासः । तेन यः परस्य सिद्धः स हेतुर् वक्तयः । परस्य चासत उत्पाद उत्पात्तिमत्त्वम् , सतश् च निरन्वयो विनाशो ऽनित्यत्वं सिद्धम् । तादृशं च द्वयम् अपि सांख्य स्यासिद्धम् । इहाप्य् अनित्यत्वोत्पत्तिमत्त्वसाधनाद् वादिनो ऽसिद्धम् । यदि त्व् अनित्यत्वोत्पत्तिमत्त्वयोः [497]प्रमाण्यं वादिनो [498]ज्ञातं स्याद् [499]तदा वादिनो ऽपि सिद्धं स्यात् । ततः प्रमाणापरिज्ञानाद् इदं वादिनो ऽसिद्धम् ॥
__________नोतेस्__________
[495] स्वं रूपम्
[496] परार्थादिहे-
[497] प्रमाणं
[498] विज्ञानं
[499] तदा --- ओम्.
संदिग्धासिद्धं दर्शयितुम् आह ---
तथा स्वयं तदाश्रयणस्य वा सन्देहे असिद्धः इइइ-61
स्वयम् इति हेतोर् आत्मनः सन्देहे ऽसिद्धः । तदारयणस्य [500]वे ति --- तस्य हेतोर् आश्रयणम् --- आश्रीयते ऽसिमिन् हेतुर् इत्य् आश्रयणं हेतोर् व्यतिरिक्त आश्रयभूतः[501] साध्यधर्मी कथ्यते । तत्र हि
__________नोतेस्__________
[500] -स्य चेति
[501] आश्रयभूतसा-
तस्यैव रूपस्य । विज्ञानसत्तया व्याप्तं यद् इति यस्मिन् मरणे ऽवश्यं प्रागासीद् विज्ञानम्, तद् विज्ञान्सत्तया व्याप्तम् उक्तम् । तच् च श्वासोष्मपरिस्पन्दादिविगमलक्षणम् । दिगम्बर स्यापि कथं सिद्धम् इत्य् आह --- अज्ञानाद् इति । चैतन्याव्यभिचारिणो मरणस्य् आज्ञानात् । अनेनैतद् आह --- यदि तेन साध्यव्याप्तं मरणं मरणशब्दमात्रसमतां बिभ्रतः शोषमात्राद् भेदेन विवेकितं स्यात् केवलम् अज्ञानात् तत्सिद्धम् उच्यत इति ।
एतद् एवाह --- यदा त्व् इति । एवम् उत्तरत्रापि द्रष्ट्व्यम् ।
सुखम् अनुकूलवेदनीयम् । आदि शब्दाद् इच्छाद्वेषादिपरिग्रहः । पुरुषस्य सांख्य परिकल्पितस्यात्महण् । `पुरुषश् चेतयते बुद्धिर् अध्यवस्यातीतिऽ सिद्धान्तात् । सांख्य स्य संख्यया पञ्चविशतितत्त्वानीत्यन्या व्यवहरतीति सांख्यो योगरूढिश् चैषा, कपित एवतथोच्यते ।
ननूत्पत्तिमत्त्वं कृतकत्वम् वा स्वसिद्धम् एव तेनोपन्यसनीयम् उपन्यस्तं च । तत् कथं वाद्यसिद्धतेति आह --- परार्थो हीति । हिर् यस्मात् । परार्थः परप्रतिपत्तिप्रयोजनः । निरन्वयः सर्वथोच्छेदः ।
[ध्प्र् 193]
हेतुर् वर्त्तमानो गमकत्वेनार्श्रीयते । तस्याश्रयणस्य सन्देहे सन्दिग्धः ॥
[502]आत्मना सन्दिह्यमानम् उदाहर्त्तुम् आह ---
__________नोतेस्__________
[502] स्वात्मना
यथा बाष्पादिभावेन सन्दिह्यमानो भूतसंघातो अग्निसिद्धाव् उपदिश्यमानः[503]सन्दिग्धासिद्धः इइइ-62
__________नोतेस्__________
[503] संदिग्धासिद्दः --- ओम्.
यथे ति । बाष्प आदिर् यस्य स बास्पादिः । तद्भावेन बाष्पादित्वेन सदिह्यामानो भूतसंघात इति भूतानां पृथिव्यादीनां संघातःम् समूहः । अग्निसिद्धौ --- अग्निसिद्ध्यर्थं उपादीयमानो ऽसिद्धः ।
एतद् उक्तं भवति --- यदा धूमो ऽपि बाष्पादित्वेन संदिग्धो भवति तदा ऽसिद्धः, गमकरूपानिश्चयात् । धूमतया निश्चितो [504]वह्निजन्यत्वाद् गमकः । यदा तु संदिग्धस् तदा न गमक इत्य् असिद्धताख्यो दोषः ॥
__________नोतेस्__________
[504] वह्निकार्यत्वाद् गमकः
आश्रयणासिद्धम् उदाहरति ---
यथा इह निकुञ्जे[505]मयूरः केकायिताद् इति इइइ-63
__________नोतेस्__________
[505] निगुञ्जे
यथे ति । इह निकुञ्ज इति धर्मी । पर्वतोपरिभागेन तिर्यङ्निर्गतेन प्रच्छादितो भूमागो निकुञ्जः । मयूर इति साध्यम् । केकायिताद् इति हेतुः । केकायितं --- मयूरध्यनिः ॥
न तु विनष्टस्यापि सत्त्वरजस्तमोरूपेणानुगम इष्टः । न केवलं पूर्वम् एवेत्य् अपि शब्दः । अनित्यत्वोत्पत्तिमत्त्व योर् यत् साधनं प्रमाणं तस्य(स्या ऽ)ज्ञानाद् अनित्यात् यदीत्यादिनैतद् एव द्रढयति ॥
स्वयम् इत्यात्मन इति षष्ठ्यन्तस्यानुवर्त्तते । हेतोश् च प्रकृतत्वाद् हेतोर् इति विवृणोति ।आश्रीयते साधनत्वेनोपादीयते अस्मिन्न् इति ॥
यस्यात्मनः सन्देहः स आत्मना सन्दिह्यमानो भवतीत्य् अभिप्रायेणाह --- आत्मना सन्दिह्यमानम् इति । आदि शब्देन नीहारादिपरिग्रहः ।
ननु यद्य् असौ परमार्थतो धूमस् तदा सन्देहे ऽपि किं न गमक इत्य् आह --- एतद् उक्तं भवती ति । किं तद् गमकं रूपं येनानिश्चित इत्य् आह --- वह्नीति । यदा त्व् इत्यादिनोक्तम् एव स्पष्टयति । तदा न गमक इति ब्रुवतश् चायम् आशयो विह्निजन्यत्वस्यैव गमकत्वनिबन्धनस्य तदा ऽनिश्चितत्वात् ।
एतेन सन्दिग्धविशेषणासिद्धः सन्दिग्धविशेष्यासिद्धश् चोक्तो द्रष्टव्यः [68अ] यथा षड्जादिसत्त्वसन्देहे मयूरशब्दो ऽयम् षड्जादिमत्त्वे सति अवर्णात्मकत्वात् । अवर्णात्मकत्वे सति
[ध्प्र् 194]
[506]कथम् अयम् आश्रयणासिद्ध इत्य् आह ---
__________नोतेस्__________
[506] कथमाश्र-
तदापातदेशविभ्रमे इइइ-64
तदापात[507] इति । तस्य केकायितस्य् आपात [508]आगमनं तस्य देशः स उच्यते यस्माद् देशाद् आगच्छति केकायितम् । तस्य विभ्रमे व्यामोहे सत्य् अयम् आश्रयणासिद्धः । निरन्तरेषृ बहुषु निकुञ्जेषु सत्सु यदा केकायितापातनिकुञ्जे[509] विभ्रमः --- किम् अस्मान् निकुज्ञात् केकायितमागतम् । आहोस्विद् अन्यस्माद् इति[510], [511]तदायम् आश्रयणासिद्ध इति ॥
__________नोतेस्__________
[507] तदघात
[508] आगमः
[509] केकायितापातविभ्रमः
[510] आहोस्विद् अस्माद् इति
[511] तादाश्रय-
धर्मिणो ऽसिद्धाव् अप्य् असिद्धत्वम् उदाहरति ---
धर्म्यसिद्धाव् अप्य् असिद्धः, यथा सर्वगत आत्मा इति साध्ये सर्वत्रोपलम्भमानगुणत्वम् इइइ-65
यथे ति । सर्वसिमिन् गतः स्थितः सर्वगतो व्यापीति यावत् । व्यापित्व आत्मनः साध्ये सर्वत्रोपलभ्यमानगुणत्वं लिङ्गम् । सर्वत्रदेश उपलभ्यमानाः सुखदुःखेच्छाद्वेषादयो गुणा यस्यात्मनस् तस्य भावस् तत् त्वम् । न गुणा गुणिनम् अन्तरेण वर्त्तन्ते । गुणाणां गुणीनि समव्यायात् । निष्क्रियश् चात्मा । ततश् च यदि व्यापी न भवेत् कथं दाक्षिणापथ उपलब्धाः सुखादयो मध्यदेश उप्लभ्येरन् । तस्मात् सर्वगत आत्मा ।
तद् इह बौद्ध स्यात्मैव न सिद्धः, किम् उत सर्वत्रोपलभ्यमानगुणत्वं सिध्येत् तस्येत्य् असिद्धौ[512] हेत्वाभासः । पूर्वम् आश्रयणसंदेहेन धर्मिणि संदेह उक्तः । संप्रति त्व् असिद्धो धर्म्य् उक्त इत्य् अननयोर् विशेषः ।
मूल पाठ: Dharmottarapradīpa subcommentary on Dharmottara's Nyāyabinduṭīkā on Dharmakīrti's Nyāyabindu · Edition: Dalsukhbai Malvania, Patna: Kashiprasad Jayaswal Research Institute 1971 (Tibetan Sanskrit Works, 2) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0