भाषा

ENहिગુ
ग्रंथ पाठ

धर्मोत्तरप्रदीप · भाग 2140

[ध्प्र् प्.87] इइ क् अ प् इ त् ए ल्
द्वितीयः स्वार्थानुमानपरिच्छेदः ।
एवं प्रत्यक्षं व्याख्याय अनुमानं व्याख्यातुम् आह --
अनुमानं द्विधा इइ-1
अनुमानं द्विधा द्विप्रकारम् । अथ अनुमानलक्षणे वक्तव्ये किम् अकस्मात् प्रकारभेदः कथ्यते । उच्यते । परार्थानुमानं शब्दात्मकम्, स्वार्थानुमानं तु ज्ञानात्मकम् । तयोर् अत्यन्तभेदात् न एकम् लक्षणम् अस्ति । ततस् तयोह् प्रतिनियतं लक्षणम् आख्यातुं प्रकारभेदः कथ्यते । प्रकारभेदो हि व्यक्तिभेदः । व्यक्तिभेदे च कथिते प्रतिव्यक्तिनियतं लक्षणं शक्यते वक्तुम् । न अन्यथा । ततो लक्षणनिर्देशाङ्गम् एव प्रकारभेदकथनम् । अशक्यतां च प्रकारभेदकथनम् अन्तरेण लक्षणनिर्देशस्य ज्ञात्वा प्राक् प्रकारभेदः कथ्यत इति ।
प्रत्यक्षानुमानभेदेन द्वैधं प्रमाणम् उद्दिष्टम् । तत्र व्याख्यातं प्रत्यक्षम् । यथोद्देशम् अधुना ऽनुमानं व्याख्यातुम् अवसरप्राप्तम् इत्य् अभिसन्धायाह -- एवम् इति । एवम् अनन्तरोक्तेन चतुर्विधविप्रतिपत्तिनिराकरणप्रकारेण । प्रकारे धाप्रत्ययो ऽयम् इति दर्शयन्न् आह -- द्विप्रकारम् इति ।
ननु चानुमानस्य लक्षणं वक्तुकामेनास्य लक्षणम् एव वक्तव्यम् । तत् किम् इदम् अप्रस्तुताभिधानम् आस्थीयत इति पूर्वपक्षम् -- अर्थे त्यादिनोत्थापयति । अथ शब्दो ऽत्र प्रश्ने । अकस्माद् इति निपातो निर्निमित्तवचनः । उच्यत इत्यादिना परिहरति । तयोर् ज्ञानाभिधानात्मनोः । एकम् इति साधारणम् । यथा चतुर्णाम् अपि प्रत्यक्षाणां ज्ञानरूपत्वाद् एकं कल्पनापोढत्वादिसाधारणं लक्षणं सम्भवति, तथा यदि स्यात् प्रत्यक्षवल् लक्षणम् एव प्रथमम् उक्तं स्याद् इति भावः । प्रतिनियतं प्रातिस्विकम् । प्रकार स्य भेदो नानात्वम् ।
ननु प्रतिव्यक्तिनियतं लक्षणं व्यक्तिविशेषोपदर्शनं विना न शक्यते दर्शयितुम् इति व्यक्तिभेद एव कथयितव्यः । तत् किं प्रकारभेदः कथ्यत इत्य् आह -- प्रकारे ति । हि र् यस्मात् । यदि तस्मिन् दर्शिते ऽपि प्रतिनियतलक्षणाख्यानं न शक्यं तर्हि किं तेन कथितेनेत्य् आह -- व्यक्ती ति । चो यस्मादर्थे । प्रति शब्दो ऽत्र नियतार्थवृत्तिः, तेन प्रति विशिष्टा व्यक्ति स् तत्र नियतम् इति,
[ध्प्र् प्.88]
किम् पुनस् तद् द्वैविध्यम् इत्य् आह --
स्वार्थं परार्थं च इइ-2
स्वस्माय् इदं स्वार्थम् । येन स्वयम् प्रतिपद्यते तत् स्वार्थम् । परस्माय् इदं परार्थम् । येन परम् प्रतिपादयति तत् प्ररार्थम् ।
स्प्तमी [पाणिनि 2.1.40] इति योगविभागात् समासः । यद् वा नियतं विशिष्टं लक्षणां न शक्यं वक्तुम् । क्व च नियतम् इत्य् आशङ्क्योक्तं -- प्रतिव्यक्ती ति । व्यक्तौ व्यक्ताव् इत्य् अव्ययीभावः । यस्माद् अन्यथा प्रतिनियतलक्षणाख्यानस्याशक्यत्वं ततस् तस्मात् । लक्षणनिर्देशाङ्गम् एवेति लक्षणनिर्देशनिमित्तम् एव ।
एतेन यच् चोद्यते "लक्षणमात्रे कथिते विशिष्टलक्षणम् अनुमानम् एकम् अनेकं वा ऽस्तु । किं तस्य प्रकारभेदकथनेन" इति तत् परिहृतम् । यदि हि साधारणं लक्षणम् अभिप्रेत्येदम् उयते तदा तन् नास्तीति किं कथ्येत । अथ विशिष्टं लक्षणं तद् अपि व्यक्तिभेदकथनम् अन्तरेण वक्तुं यदि शक्येत किं न कथ्य्त । केवलम् इदम् एव नास्तीति । अत एवादाव् एव तद् अभिधानं न्याय्यम्, न तु पश्चाद् इति दर्शयितुम् आह -- अशक्यताम् इति । तद् अन्यतरेण लक्षणनिर्देशस्याशक्यतां ज्ञात्वा । चो ऽअवधारणे । प्राग् लक्षणकथनात् पूर्वम् ।
स्याद् एतत् -- स्वार्थानुमानम् एवंलक्षणं परार्थानुमानम् एवंलक्षणम् इति किं विशिष्टं लक्षणं न शक्यते वक्तुम्? एवम् अपि किम् अनुमानद्वैतं नावेदितं भवति येन ससंख्येया संख्या -- अनुमानं द्विधा स्वार्थं परार्थं चे त्य् उच्यत इति? सत्यम् एतत् । केवलं नियमार्थम् एतद् विभागवचनम् इति ब्रूमः । अनुमानं द्विधा -- द्विधैवैवम् आत्मकम् इति कथं नाम[37ब्] प्रतीयेतेति । इतरथेह तावद् एतावद् एव व्युत्पाद्यतया प्रस्तुतम्, अन्यत्र पुनर् अन्यद् अप्य् अनुमानं व्युत्पाद्यम् अस्तीत्य् आशङ्का नाहत्य निराकृता स्याद् इति ॥
पूर्ववच्छेषवदादिरूपेण अन्यथा ऽपि द्वैविध्यसम्भवात् संशयानः पृच्छति -- किं पुनर् इति । किम् इति सामान्यात् पृच्छति । पुनर् इति विशेषतः ।
स्वार्थ शब्दस्य विग्रहं दर्शयति -- स्वस्माय् इति । अर्थ शब्देन नित्यसमासाद् अस्य पदविग्रहम् आह । इदम् इत्य् अनुंआनन् । स्वार्थम् इति समस्तपदनिर्देश एषः । अस्य चात्मप्रतिपत्तिः प्रयोजनम् इत्य् अर्थः । अमुम् एवार्थं स्फुटयन्न् आह -- येने ति । येना नुमानेन करणभूतेनानुमाता स्वयं प्रतिपद्यते परोक्षम् अर्थम् इति शेषः, प्रकरणलभ्यं वा । तत् स्वार्थज्ञानम् आत्मप्रतिपत्तिप्रयोजनम् इति यावत् ।
अयम् आशयः -- त्रिरूपलिङ्गस्य ज्ञानं यस्य सन्तान उत्पद्यते तत् तदर्थम् एव । तेना ऽन्यस्याप्रतिपत्तेः । ततः स्वार्थम् उच्यते । न तु किञ्चिज् ज्ञानं क्वचित् पुंसि नियतम् अस्ति । यद् अपेक्षयाष् स्वार्थम् उच्येत । येन स्वयं प्रतिपद्यत इति ब्रुवतश् चायम् अभिप्रायः । यद्य् अपि प्रतिपत्तिर् अनुमानज्ञानात्मिका तथाप्य् एकस्यापि व्यवस्थाप्यव्यवस्थापनभावेन क्रियाकरणभेदो दर्शित इति सारूप्यभागः करणम् अनुमानम्, अधिगमरूपा फलावस्था प्रतिपत्तिर् इति ।
[ध्प्र् प्.89]
तत्र स्वार्थं त्रिरूपाल् लिङ्गाद् यद् अनुमेये ज्ञानं तद् अनुमानम् इइ-3
तत्र तयोः स्वार्थपरार्थानुमानयोर् मध्ये स्वार्थं ज्ञानं किं विशिष्टम् इत्य् आह -- त्रिरूपाद् इति । त्रीणि रूपाणि यस्य वक्ष्यमाणलक्षणानि तत् त्रिरूपम् । लिङ्ग्यते गम्यते ऽनेन अर्थम् इति
परार्थम् इत्य् अस्य विग्रहम् आह -- परस्माय् इति । पूर्ववद् अस्य पदविग्रहः । परराथम् इति समस्तं पदम् उक्तम् । अस्य च परप्रतिपत्त्ः प्रयोजनम् इत्य् अर्थः । अमुम् अर्थं येने ति । येन वाक्येन करणेन परं प्रति वाच्यं प्रतिपाद्यति परोक्षम् अर्थं बोधयति तत् त्रिरूपलैङ्गाख्यानं वाक्यं परार्थम् अनुमानम् ।
अत्राप्य् अयम् अस्याभिप्रायः -- यद्य् अपि अभिधानरूपम् अप्य् अनुमानं न नियतं पुंसि तथा ऽपि तत् परार्थम् एव । तथा हि यद् यद् उद्दिश्य प्रवर्त्तते तत् तद् अर्थम् उच्यते । परम् उद्दिश्य प्रवर्त्तते च शब्दो नात्मानम् । अतो नानवस्थितपारार्थ्यः शब्दः । प्रयोक्तृसमीहाविष्यस्यार्थस्य पर एव प्रयोजको यस्माद् इति । परोक्षार्थप्रतिपत्तिफलत्वेन पारम्पर्येणाविशिष्टविषयत्वे ऽपि स्वार्थाद् अस्य पृथग्वचनम्, साक्षाद् अनयोर् व्यापारभेदाद् इति च द्रष्टव्यम् ।

ननु च परार्थानुमानोत्पादकवाक्यवद् अस्ति किञ्चिद् वाक्यं यत् परप्रत्यक्षोपयोगि । यथा `एष कलभो धावतिऽ वाक्यम् । अतः परार्थानुमानवत् परार्थं प्रत्यक्षं किं न व्युत्पाद्यत इति? अत्रोच्द्यते -- परोक्षार्थप्रतिपत्तेर् या सामग्री -- लिङ्गस्य पक्षधर्मता साध्यव्याप्तिश् च -- तदाख्यानाद् वाक्यम् उपचारतः परार्थानुमानम् उच्यते । न तु तत्र कर्थञ्चिद् अङ्गभावमात्रेण, स्वास्थ्यादेर् अपि तथा प्रसङ्गात् । इदं पुनः `अयं कलभःऽ इत्यादिवाक्यं न प्रत्यक्षोत्पत्तेर् या सामग्रीन्द्रियालोकादि तदभिधानात् तन्निमित्तं भवत् तथा व्यपदेशम् अश्नुते येन व्युत्पाद्यताम् अप्य् अश्नुवीत । किं तर्हि? कस्यचिद् दिदृक्षामात्रजननेन । यथा कथञ्चित् परप्रत्यक्षोत्पत्ताव् अङ्गभावमात्रेण ताद्रूप्ये नेत्रोत्सवे वस्तुनि सन्निहिते ऽपि कथञ्चित् पराङ्मुखस्य परेण यद् अभिमुखीकरणं [38अ]शिरसस् तद् अपि वचनात्मकं परार्थप्रत्यक्षं व्युत्पादयितुर् व्युत्पाद्यम् आपद्येत । एतच् च कः स्वस्थात्मा मनसि निवेशयेत् । किञ् च भवतु तथाविधं वचनं परार्थं प्रत्यक्षम् । किं नश् छिन्नम्? तस्यापि व्युत्पादनार्थस्याव्युत्पादनात् प्रमाद एव महती क्ष्तिर् इति चेत् । न तथारूपस्य व्युत्पादनम्, अविप्रतिपत्तेः । विप्रतिपत्तिनिराकरणेन हि स्वरूपप्रतिपादनं व्युत्पादनम् । न तु केचित् तथाविधे वचने परार्थप्रत्यक्षोपयोगिनि विप्रतिपद्यन्ते । येन तद् अपि व्युत्पाद्येत । परार्थानुमाने[42]............... वस्तु प्रतिपद्यमाना अपि तद्धर्मव्याप्तिव्यतिरेकाभ्यां निगदन्तो दृष्टाः, अविनाभावावचनात्, उपनयसाध्यतदावृत्तिवचनानाञ् च प्रयोगाद् इति तद् व्युत्पाद्यते । यदि तु तत्रापि न विप्रतिपद्येरन् परे तदा तद् अपि नैव व्युत्पादितं स्याद्, इत्य् अलम् अतिविस्तरेण ॥
__________नोतेस्__________
[42] अस्पष्टम् -- सं-
इह यथैव स्वयं प्रतिपन्नः परोक्षार्थस् तथैव परस्मै पर्तिपाद्यत इति स्वार्थाणुमानपूर्वकत्वात् प्ररार्थानुमानस्य प्रथमं स्वार्थानुमानम् उक्तम् । यथोद्देशम् एव च लक्षणप्रणेयम् इति स्वार्थानुमानस्यैवं
[ध्प्र् प्.90]
लिङ्गम् । तस्मात् त्रिरूपाल् लिङ्गात् यत् जातं ज्ञानम् इति । एतद् हेतुद्वारेण विशेषणम् । तत् त्रिरूपात् च लिङ्गात् त्रिरूपलिङ्गालम्भनम् अप्य् उत्पद्यत इति विशिनष्टि -- अनुमेय इति । एतच् च विषयद्वारेण विशेषणम् ।
त्रिरूपाल् लिङ्गात् यद् उत्पन्नम् अनुमेयालम्भनम् ज्ञानम् तत् स्वार्थम् अनुमानम् इति ।
लक्षणविप्रत्तिम् निराकृत्य फलविप्रतिपत्तिं निराकर्तुम् आह --
प्रमाणफलव्यवस्था अत्र अपि प्रत्यक्षवत् इइ-4
प्रमाणस्य यत् फलं तस्य वा व्यवस्था सा अत्र अनुमाने ऽपि प्रत्यक्ष इव प्रत्यक्षवत् वेदितव्या ।
लक्षणं तत्रे त्यादिना ऽऽदित उपदिष्टम् आचार्येण तद् व्याचष्टे तत्रे ति । स्वार्थपरार्थानुमानसम्दायात् स्वार्थानुमानं स्वार्थत्वजात्या निर्धायते । तस्मात् त्रिरूपाल् लिङ्गाद् यज् जातम् इति व्याचक्षाणो मूले त्रिरूपाल् लिङ्गाद् इति या पञ्चमी सा गम्यमानजनिक्रियापेक्षया "जनिकर्त्तुः प्रकृतिः" [पाणिनि 1.4.30] इत्य् अनेन लब्धापादानसंज्ञकाद् अपादान एवेति दर्शयति । हेतुद्वारेण जनकमुखेन । त्रिरूपाल् लिङ्गाद् इति चाचक्षाणेन् आचार्येणै कद्विपदव्युदासेन षट्पक्षीं प्रतिक्षिप्य सप्तमपक्षपरिग्रहेण लिङ्गस्य लक्षणम् अभिप्रेतं प्रकाशितम् इति । यथा चैतत् तथा भट्ट् आर्चट निबन्धनम् अर्चटालोक संज्ञितं विधास्यन्तो विस्तरेण स्पष्टयिष्यामः ।
औमेयग्रहणस्य व्यावर्त्त्यं दर्शयति -- त्रिरूपाच् चे ति । चो यस्मादर्थे । इति र् हेतौ । त्रिरूपलिङ्गालम्बनम् इति धूमं दृष्ट्वा सर्वत्रायं वह्निनान्तरीयक इति ज्ञानं वाच्यम् । तद् धि परम्परया त्रिरूपाल् लिङ्गाज् जातम् इति । इति ना विशेषणस्य स्वरूपम् उक्तम् । विशेषितम् एव ज्ञानम् । किम् पुनर् विशिष्यत इत्य् आह -- एतच् चे ति । चो यस्मात् । विषयद्वारेणा वसीयमानविषयद्वारेण विशेषणं व्यवच्छेदकम् ।
अवयवार्थं व्याख्याय समुदायार्थं त्रिरूपे त्यादिना व्याचष्टे । अनुमेयो धर्मधर्मिसमुदायः आलम्ब्यत इत्य् आलम्बनं यस्येति विग्रहः । इति र् वाक्यार्थपरिसमाप्तौ एवम् अर्थः सन् नापरेण सम्बद्ध्यते -- एवम् उक्तेन पकारेणा लक्षणविप्रतिपत्तिं निराकृत्ये ति ॥
ननु च प्रमाणस्य फलम् इति यद्य् आचार्यस्य विवक्षितं धर्मोत्तरेण चैवं व्याख्यायते तदा प्रमाणभागव्यवस्थायां किम् उक्तम् आचार्येण , धर्मोत्तरेणा पि `नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम्ऽ इत्य् उपरिष्टात् [पृ-91] किम् इति दर्शयिष्यते इति चेत् । नैष दोषः । न हि प्रमानस्ये त्यादिना
[ध्प्र् प्.91]
यथा हि नीलसरूपं प्रत्यक्षम् अनुभूयमानं नीलबोधरूपम् अवस्थाप्यते, तेन नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम्, नीलबोधरूपं तु व्यवस्थाप्यमानं प्रमाणफलम्; तद्वद् अनुमानं नीलाकारम् उत्पद्यमानं नीलबोधरूपम् अवस्थाप्यते, तेन नीलसारूप्यम् अस्य प्रमाणम्, नीलविकल्पनरूपं त्व् अस्य प्रमाणफलम् । सारूप्यवषाद् धि तन् नीलप्रतीतिरूपम् सिद्ध्यते । न अन्यथा इति ।
एवम् हि संख्यालक्षणफलविप्रतिपत्तयः । प्रत्यक्षपरिच्छेदे तु गोचरविप्रतिपत्तिं निराकृता । लक्षणनिर्देशप्रसङ्गेन तु त्रिरूपं लिङ्गं प्रस्तुतम् । तद् एव व्याख्यातुम् आह --

त्रैरूप्यं पुनर् लिङ्गस्य अनुमेये सत्त्वम् एव सपक्ष एव सत्त्वम्, असपक्षे च असत्त्वम् एव निश्चितम् इइ- 5
त्रैरूप्यम् इत्यादि । लिङ्गस्य यत् त्रैरूप्यं यानि त्रीणि रूपाणि तत् इदम् उच्यते इति शेषः । किं पुनस् तत् त्रैरूप्यम् इत्य् आह -- अनुमेयं वक्ष्यमाणलक्षणम् । तस्मिन् लिङ्गस्य सत्त्वम् एव निश्चितम् -- एकं रूपम् । यद्य् अपि च अत्र निश्चित ग्रहणम् न कृतं तथा अपि अन्ते कृतं प्रक्रान्तयोर् द्वयोर् अपि रूपयोर् अपेक्षणीयम् । यतो न योग्यतया लिङ्गं परोक्षज्ञानस्य निमित्तम् । यथा
मौलस्य प्रमाण् शब्दस्य फल शब्देन विग्रहो दर्शितः । किन् त्व् [38ब्] अर्थप्रदर्शनं कृतम् । एतच् चोपलक्षणं तेन फलस्य साधनं च यत् तस्यापि या व्यवस्था सा ऽपि गृह्यते । मूले तु द्वन्द्वसमास एवाभिप्रेतो वार्त्तिककार स्य । पूर्वनिपातविधेश् चानित्यत्वात् न फलशब्दस्य पूर्वनिपातः । अत एव निश्चयः -- "न पर्माणफलयोर् विषयभ्देदः" इति ।[43]..... लक्षणगोचरफलविषय । नीलसारूप्यम् अस्पष्टनीलसारूप्यम्, अनुमान्स्यापरोक्षीकरणाभावात्, विजातीयमात्रव्यावृत्तस्यानुमानेन प्रतीतेः । नीलप्रतीतिरूपं नीलविकल्पनरूपं सिद्ध् यति निश्चीयते ॥
__________नोतेस्__________
[43] पङ्क्तिबाह्यं लिखितं न पष्ठ्यते -- सं-
ननु सङ्ख्यालक्षणफलविप्रतिपत्तय एवानुमानस्य निराकृता, न तु विषयविप्रतिपत्तिर् इत्य् आह -- एवम् इति । एवम् अनन्तरोक्तेन प्रकारेण इहानुमानपरिच्छेदे निराकृता इति शेषः, वक्ष्यमाणं वा नीराकृते ति पदं वचनविपरिणामेन सम्बन्धनीयम् ।
त्रैप्रूयम् इत्यादिग्रन्थस्य यत उत्थानम्, तत् लक्षणे त्यादिना दर्शयति । प्रसङ्गेन प्रस्ताव् एन यानि त्रीणि रूपाणि तान्य् एव तथेत्य् आवेदयति । तत् इदं त्रैरूप्यम् इति प्रकृतत्वात् शेषो ऽध्याहारः । अबाधितविषयत्वाद्यनेकरूपसम्भवे पृच्छति किं पुनर् इति । किम् इति सामान्यतः पृच्छति । पुनर् इति विशेषतः । कस्मात् पुनस् तद् अपेक्षनीयम् इत्य् आह -- यत इति । परोक्षो यो ऽर्थस् तस्य यज्ज्ञानं तस्य । बीजं वैधर्म्यदृप्टान्तः । कस्मान् न तथेत्य् आह -- अदृष्टाद् इति । अप्रतिपत्तेः परोक्षार्थस्येति प्रकरणात् । यद्य् अज्ञातं । लिङ्गं न परोक्षज्ञाननिमित्तं तर्हि पक्षधर्मतया ज्ञातम् एवास्तु परोक्षप्रकाशनं
[ध्प्र् प्.92]
बीजम् अङ्कुर्स्य । अदृष्टाद् धूमाद् अग्नेर् अप्रतिपत्तेः । नापि स्वविषयज्ञानापेक्षं परोक्षार्थप्रकाशनम् । यथा प्रदीपो घटादेः । दृष्टाद् अप्य् अनिश्चितसम्बन्धाद् अप्रतिपत्तेः । तस्मात् परोक्षार्थनान्तरीयकतया निश्चयनम् एव लिङ्गस्य परोक्षार्थप्रतिपादनव्यापारः । न अपरः कश्चित् । अतो ऽन्वयव्यतिरेकपक्षधर्मत्वनिश्चयो लिङ्गव्यापारात्मकत्वाद् अवश्यकर्तव्य इति सर्वेषु रूपेषु निश्चित ग्रहणम् अपेक्षणीयम् ।
तत्र सत्त्व वचनेन असिद्धं चाक्षुषत्वादि निरस्तम् । एव कारेण पक्षैकदेशासिद्धो निरस्तः । यथा चेतनास् तरवः स्वापाद् इति । पक्षीकृतेषु तरुषु पत्रसङ्कोचलक्षणः स्वाप एकदेशे न सिद्धः । न हि सर्वे वृक्षा रात्रौ पत्रसङ्कोचभाजः किन् तु केचिद् एव । सत्त्व वचनस्य
तत् किम् अन्वयव्यतिरेकनिश्चयेन तस्य? इत्य् आशक्याह -- नापी ति । लिङ्गम् इति सम्बध्यते । प्रदीपो ऽपि दृष्टा[द्] अनिश्चिताद् अपि । न केवलम् अदृष्टाद् इत्य् अपि शब्दः । यत एवं तस्माद् हेतोः । अन्तरं व्यवधानम्, न तथा नान्तरम् । "नभ्राड्" [पाणिनि 6.3.71] इत्यादिसूत्रे नेति योगविभागान् नलोपाभावः । नान्तरे भव इति गहादित्वाच् छ । ततः स्वार्थिकः कन् । परोक्षस्य वह्न्यादेर् नान्तरीयको ऽविनाभावीतस्य भावस् तत्ता तया निश्चयनम् -- सर्वत्रायम् एतद् अविनाभावीति विकल्पनम् । लिङ्गस्य गमकस्य व्यापृतं रूपं व्यापारः । तथा निश्चयारूढस्यैव रूपस्य लिङ्गत्वात् । एव कारेण व्यवच्छिन्नम् एवान्यस्य तद् व्यापाराररूपत्वं स्पष्टार्थं नापर इत्य् अनेनानूदितम् । यत् पुनर् अत्राप्य् अयम् एतन् नान्तरीयक इति ज्ञाणं तद् अनुमानज्ञानम् इति ज्ञेयम् । पूर्वकं तु लिङ्गज्ञानम् इति । अतः सत्त्वेनानिश्चिताल् लिङ्गाद् अनिश्चितसम्बन्धाच् चाप्रतिपत्तेः कारणाद् अन्वयादिनिश्चियो ऽवश्यकर्त्तव्यः । तथापि कथं कर्त्तय इत्य् आशङ्क्य व्यतिरेकमुखेणोक्तम् एव हेतुम् अन्व्ययमुखेनापि दर्शयन्न् आह -- लिङ्गे ति । लिङ्गव्यापार स्य परोक्षप्रतिपादने गमकव्यापारस्य् आत्मा स एव तथेति स्वार्थिकः कन् कर्त्तव्यः । तस्य भावस् तस्माद् इति हेतुपदं कृट्वा ऽयम् उपसंहारः । सर्वेष्व् अनुमेयसत्त्वादिषु रूपेषु लक्षणेषु । [39अ]
सम्प्रत्य् एकैकस्य रूपस्य यद् व्यावर्त्त्यं तत् क्रमेण दर्शयितुम् आह -- तत्रे ति । आदि ग्रहणाद् व्यधिकरणासिद्धविशेषणासिद्धविशेष्यासिद्धानां सङ्ग्रहः । अमीषाम् अपि स्वरूपासिद्ध एकान्तर्भावात् । यथा तु प्रभेदो यथा वान्तर्भावस् तथोपरिष्टाद् वक्ष्यामः । केचिद् एव तिन्तिङ्काप्रभृतयः ।
अथापि स्यात् स्वापवत् धूमो ऽप्य् अयम् एकदेशासिद्ध एव । तथा हि पर्वतादिर् इह पक्षस् तत्र च क्वचिद् एव देशे सिद्धो न सर्वत्र । न च पर्वतादिर् एको ऽवयव्यभ्युपगतः । अथैवंविधो ऽपि पक्षव्यापक उच्यते तर्हि स्वापेन किम् अपराद्धं येनासाव् एवैको न युक्त इति ।
[ध्प्र् प्.93]
पश्चात् कृतेन एव कारेण असाधारणो धर्मो निरस्तः । यदि हि अनुमेय एव सत्त्वम् इति कुर्यात् श्रावणत्वम् एव हेतुः स्यात् । निश्चित ग्रहणेन सन्दिग्धासिद्धः सर्वो निरस्तः ।
सपक्षो वक्ष्यमाणलक्षणः । तस्मिन्न् एव सत्त्वम् निश्चितम् इति द्वितीयं रूपम् । इह अपि
अत्र केचिद् एवं प्रतिविदधति । जिञासितधर्मविशेषवत्त्वेन हि रूपेण पक्ष उच्यते । यश् चासौ पर्वतादिस् तत्र न वह्निर् जिज्ञासितः । किन् तर्हि? यत्र तत्रोद्देशे । तत्रैकदेशस्थधूमदर्शने ऽप्य् एकदेशवह्निर् जिज्ञासितो ज्ञायत इति किं सर्वपर्वतव्यापिना धूमेन कार्यम्? यदि पुनः सर्वत्रैव वह्निमत्त्वं जिज्ञासितं स्यात्, स्याद् एवायं पक्षैकदेशासिद्धः । न चैतद् एवम् । ततः कथम् अस्य तथात्वं? अत्र पुनः सर्वेषाम् एव तरूणां चैतन्यं जिज्ञासितम् इति सकलपादपव्यापिनैव स्वापेन प्रयोजनम् । यथा वेदस्य सर्वस्यैव पौरुषेयत्वे साध्ये सकलाम्नायव्यापकेनैव वाक्यत्वेन पर्योजनम् । न चायं सर्वान् व्याप्नोति । ततः पक्षैकदेशासिद्ध उच्यते ।
एके तु -- लोकाध्यवसायसिद्धं महीधरादेर् एकत्वम् अवलम्ब्यायं व्यवहारः, न च सर्वेषां तरूणां तथैकत्वं लोको ऽध्यवस्यति, येन स्वापस्यापि तथा सिद्धिर् भवति, ततः किम् अवद्यं नामेति प्रतिपन्नाः ।
अथाभिधीयते -- यदि कश्चित् तिन्तिङ्काप्रभृतीन् एव पादपान् पक्षयित्वा स्वापं हेतूकरोति, तदा ऽयं न पक्षैकदेशासिद्ध इति किं न साधयेच् चैतन्यम् इति ।
असद् एतत् -- विकल्पानुपपत्तेः । यदि सर्वजनप्रसिद्ध इन्द्रियव्यापारविरोध्यवस्थाविशेषः स्वापो निद्रापरनामा हेतुर् अभिप्रेतस् तदा ऽयं तेष्व् अपि तरुष्व् अस्द्ध इति कथं चैतन्यम् अनुमापयेत्?

अथ येन केनचिद् उपाधिना स्वापशब्दमात्रवाच्यो ऽर्थो हेतुः; तथाविधस्य स्वापस्य चैतन्येन व्याप्त्यसिधेः सन्दिग्धविपक्षव्यावृत्तिकतया ऽनैकान्तिकः ।
"षष्ठ्य् अतसर्थप्रत्येयन" [पाणिनि 2.3.30] इत्य् अनेन पश्चाच् छब्दयोगे सत्त्व वचनात् षष्ठी । असाधारणः सपक्षासपक्षसाधारणो यो न भवति । पक्षस्यैव यो धर्म इति यावत् । निरस्तो हेतुत्वेन प्रतिक्षिप्तः । पूर्वावधारणे तु नायं निराकृतः स्याद् इति दर्शयति यदी ति । हि र् यस्मात् । अयम् अस्याशयः -- यद्य् अनुमेय एव सत्त्वं यस्येति लक्षणं स्यात् तदा सपक्ष एव सत्त्वम् इति वचनम् अतिरिच्यमानं लक्षणान्तरं भविष्यति । व्याघात एव वा भविष्यतीति । निश्चित ग्रहणस्येहापेक्षितस्य व्यवच्छेद्यं दर्शयति -- निश्चिते ति । सन्दिग्धश् चासाव् अस्य हेतुत्वेन विशेषणत्वेन चासिद्धो ऽनिश्चितशब्देति विग्रहः । सन्दिघ विशेषण् आसिद्धः , सन्दिग्धविशेष्यासिद्धश् च सन्दिग्धासिद्ध एवान्त[39ब्]र्भवतीति, सो ऽप्य् अनेनैव निरस्तः । यथा ऽनयोर् भेदो यथा चान्तर्भावस् तथा परस्तात् प्रदर्शयिष्यामः । इहाश्रितत्वादार्थेन न्यायेन हेतुसत्त्वस्य विशेषणरूपत्वाद् अनेन सहोदिति(त) एव कारो धर्मायोगस्य व्यवच्छेदको द्रष्टव्यः ।
[ध्प्र् प्.94]
सत्त्व ग्रहणेन विरुद्धो रिरस्तः । न हि नास्ति सपक्षे । एव कारेण साधारणानैकान्तिकः । स हि न सपक्ष एव वर्तते किन् तु उभयत्र अपि । सत्त्व ग्रहणात् पूर्वावधारणवचनेन सपक्षाव्यापिसत्ताकस्य अपि प्रयत्नानन्तरीयकस्य हेतुत्वं कथितम् । पश्चादवधारणे त्व् अयम् अर्थः स्यात् -- सपक्षे सत्त्वम् एव यस्य स हेतुर् इति प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् । निश्चित ग्रहणेन सन्दिग्धान्वयो ऽनैकान्तिको निरस्तः । यथा सर्वज्ञः कश्चिद् वक्तृत्वात् । वक्तृत्वं हि सपक्षे सन्दिघ्दम् ।
असपक्ष व्यक्ष्यमाणलक्षणः । तस्मिन्न् असत्त्वम् एव निश्चितम् -- तृतीयं रूपम् । तत्र असत्त्व ग्रहणेन विरुद्धस्य निरासः । विरुद्धो हि विपक्षे ऽस्ति । एव कारेण साधारणस्य विपक्षैकदेशवृत्तेर् निरासः । प्रयत्नानन्तरीयकत्वे साध्ये ह्य् अनित्यत्वं विपक्षैकदेशे विद्युदादौ अस्ति, आकाशादौ न अस्ति । ततो नियमेन अस्य निरासः । असत्त्वशब्दाद् धि पूर्वस्मिन्न् अवधारणे ऽयम् अर्थः स्यात् -- विपक्ष एव यो न अस्ति स हेतुः । तथा च प्रयत्नानन्तरीयकत्वं सपक्षे ऽपि सर्वत्र
साधारण श् चासौ सप्क्षासपक्षवृत्तित्वाद् अनैकान्तिक श् चैकस्मिन् साध्ये विपर्यये वा ऽव्यवस्थितश् चेति तथा निरस्त इति वर्त्तते । सपक्षाव्यापिनी सकलसपक्षावर्त्तिनी सत्ता यस्येति विग्रहः । प्रयत्नानन्तरीयकत्वम् अप्य् अनित्यत्वसिद्धौ समर्थो हेतुर् इति दर्शयितुं सकलसपक्षाव्यापि प्रयत्नानन्तरीयकत्वम् उदाहृतम् इति द्रष्टव्यम् । वस्तुतस् तु सर्व एव कार्यहेतुर् धूमादिः सपक्षैकदेशवृत्तिर् बोद्धव्यः । इति र् एवम् अर्थे । एवं सति प्रयत्नानन्तरीयकत्वम् उपलक्षणत्वाद् अस्य धूमादिकम् अपि न हेतुः स्यात् । सन्दिग्धो यस्य स तथा । इहाश्रयत्वादार्थेन न्यायेन सपक्षलक्षणस्य धर्मिणो विशेष्यत्वाद् अनेन सहोदितो निपातः पक्षे वृक्षे वृत्तौ लब्धायां समुच्चीयमानावधारणत्वाद् असपक्षलक्षणधर्म्यनतरयोगस्य व्यवच्छेदको द्रष्टव्यः ।
तृतीयं रूपं व्याख्यातुम् आह -- असपक्ष इति । वक्ष्यमाणं लक्षणम् अस्येति विग्रहः । कथम् अस्य निरास इत्य् आह -- विरुद्धो ही ति । हि र् यस्मात् । साधारणस्य सपक्षासपक्षसाधारणस्य । कस्मिन् साध्ये किन् तद् ईदृशम् इत्य् आह -- प्रयत्ने ति । प्रयत्नः पुरुषव्यापारः । नियमेना वधारणेन
[ध्प्र् प्.95]
न अस्ति । ततो न हेतुः स्यात् । ततः पूर्वं न कृतम् । निश्चित ग्रहणेन सन्दिग्धविपक्षव्यावृत्तिको ऽनैकान्तिको निरस्तः ।
ननु च सपक्ष एव सत्त्वम् इत्य् उक्ते विपक्षे ऽसत्त्वम् एव इति गम्यत एव । तत् किमर्थं पुनर् उभयोर् उपादानं कृतम्? उच्यते । अन्वयो व्यतिरेको वा [प्रयुज्यमानः] नियमवान् एव प्रयोक्तव्यो न अन्यथा इति दर्शयितुं द्वयोर् अप्य् उपादानं कृतम् । अनियते हि द्वयोर् अपि प्रयोगे ऽयम् अर्थः स्यात् -- सपक्षे यो ऽस्ति विपक्षे च यो न अस्ति स हेतुर् इति । तथा च सति स श्यामः तत्पुत्रत्वात् दृश्यमानपुत्रवद्
एवकारणेति यावत् । असपक्ष एवेति किं नावधार्यत इत्य् आह तथा चे ति । प्रयत्नानन्तरीयक ग्रहणं पूर्ववद् उपलक्षणाम् । निशिचित ग्रहणस्य व्यावृत्त्यर्थ्म् आह -- निश्चिते ति । विपक्षाद् व्यावृत्तिर् विपक्षव्यावृत्तिः । सन्दिग्धा विपक्षाव्यावृत्तिर् यस्य स तथा ।
ननु न सन्दिग्धविपक्षव्यावृत्तिकत्वं नामायं हेतुदोषः । तत् कथं निरस्यते? तथा हि -- य एव विपक्षे वीक्षितो हेतुः स एव प्रमेयत्वादिवद् अभिमतं न साधयेत् । यः पुनर् महता ऽपि प्रयत्नेन मृग्यमाणो ऽसपक्षे नोपलक्षितः स कथम् अङ्ग साध्यं न साधयेद् इति? तद् एतद् अवद्यम् । यतो यो ऽपि विपक्षे वीक्षितो हेतुः सो ऽपि इष्टो दुष्टः । कथं? साध्यं विना ऽप्य् उपलब्धेर् इति चेत् । ननु यदि नामासौ साध्यम् अन्तरेणान्यत्र दृष्टस् तथापि विवादाध्यासिते धर्मिणि साध्यं किं न साधयति? न हि अयम् अत्रापि साध्यं विनैव वर्र्तत इति प्रसाधकं प्रमाणम् अस्ति । न चैकत्र येन विना यो दृष्टः सर्वत्रासौ तेन विनैव वर्त्तते इति सिद्धम् । अन्यथा ऽपि बहुलं दर्शनात् । अथ साध्यम् अन्तरेण यो वृत्तः साध्ये सत्य् एवासौ वर्त्तत इति नियमाभावाद् विवादाध्यासिते सन्देहहेतुर् न सम्यग् हेतुर् भवितुम् अर्हति । हन्त तर्हि विपक्षे तस्य साध्यधर्मिणि साध्यविनाकृतां वृत्तिं सम्भावयद् हेतुम् अनिश्चियहेतूकरोतीति आयातम् । सति चैवं साध्यविपर्यये हेतुसत्ताबाधकप्रमाणादर्शनम् अपि -- यद्य् अयं च धर्मो भविष्यति, न च ततः साध्यम् इत्य् एवं विधां वृत्तिम् अस्य -- सम्भावयति तदा किम् अयं निश्चयहेतुर् भवितुम् अर्हति? ततो वि[40अ]पक्षे दर्शनं वा तथा शङ्काबीजम् अस्तु विपर्यये वा बाधकप्रमाणादर्शनं वेति को विशेषः? तथा चाह वार्त्तिककारः -- "न तु सपक्षविपक्षयोः सत्त्वम् असत्त्वं वा निशियापेक्षम् । निश्चये ऽपि सन्देहमुखेनैव दोषात् । सो ऽनिश्चये ऽपि तुल्य इति तथाविधोद्भावनम् अप्य् अत्र दूषणम् एव । तथा विपक्षप्रचाराशङ्काव्यवच्छेदेन लभ्यं गमकत्वं कथम् आत्मसात्कुर्याद्" इति ।
ननु चे त्यादिना लक्षणे चोद्यम् आशङ्कते । विपक्षे ऽसत्त्वम् एवेति गम्यत इति ब्रुबतो ऽयं भावः । पक्षे वृत्तौ लब्धायां सपक्ष एव सत्त्वं निश्चितम् इति खलु समुच्चीयमानावधारणो ऽयं निर्णयः । अयं चासपक्षे ऽसत्त्वे ऽनिश्चिते सन्दिग्धे वा न घटत इति अवश्यम् असपक्षे ऽसत्त्वम् एव
[ध्प्र् प्.96]

इति तत्पुत्रत्वं हेतुः स्यात् । तस्मान् नियमवतोर् एव अन्वयव्यतिरेकयोः प्रयोगः कर्तव्यो येन प्रतिबन्धो गम्येत साधनस्य साध्येन । नियमवतोश् च प्रयोगे ऽवश्यकर्तव्ये द्वयोर् एक एव प्रयोक्तव्यो न द्वाव् इति नियमवान् एव अन्वयो व्यतिरेको वा प्रयोक्तव्य इति शिक्षणार्थं द्वयोर् उपादानम् इति ।
त्रैरूप्यकथनप्रसङ्गेन अनुमेयः सपक्षो विपक्षश् च उक्तः । तेषां लक्षणं वक्तव्यम् । तत्र को अनुमेय इत्य् आह --
अनुमेयो ऽत्र जिज्ञासितविशेषो धर्मी इइ-6
निश्चितम् आक्षिपतीति । एवम् उपलक्षणत्वाद् अस्य् आसपक्षे चासत्त्वम् एव निश्चितम् इत्य् अनेन सपक्षे वृत्तिमात्रं लब्धम् एव । तेनैव च प्रयोजनम् इति किं सपक्ष एव सत्त्वम् इत्य् अनेनेति द्र्ष्टव्यम् ।
उच्यत इति परिहारः । साध्येनान्वीयमानत्वं तयेव साध्ये भवितृत्वं साधनस्य स्वगतो धर्मो ऽन्वयः । साध्याभावे व्यतिरिच्यमानत्वम् अभवितृत्वं हेतोः सवगतो धर्मो व्यतिरेकः । स चासश् च[44] प्रयुज्यमानः शब्देन प्रतिपाद्यमाणो नियमवान् अव्यभिचारवान् प्रयोक्तव्यो ऽन्यथा परोक्षप्रतीत्य् अङ्ग नोक्तं स्यात् । कथं च तथा प्रयुक्तो भवति? यदा ऽन्वयवाक्ये साध्ये नियतं साधनं व्यतिरेकवाक्ये च साधनाभावे नियतः साध्याभावः । साधनानुवादपूर्वसाध्यविधानेन साध्याभावानुवादपूर्वसाधनाभावविधानेन वीप्सापदयुक्तेन सर्वशब्दसंहितेन एव कारोपेतेन । अन्यथा न प्रतिपाद्यते ।
__________नोतेस्__________

[44] `प्रयुज्यमानःऽ इति पाट्ःअः मूले नोपलभ्यते । प्रदीपानुरोधात् तत्र कोष्ट्ःअके स्थापितः ।
अनियमेनापि प्रयोगे यद्य् अन्वयव्यतिरेकयोस् तादृशोः प्रतीतिर् अस्ति तदा किं नियमवत् प्रयोगेणेत्य् आह -- अनियते ही ति । हि र् यस्माद् अनियते विवक्षितनियमाख्यापके । आस्तां तावद् एकस्य प्रयोगे द्वयोर् अप्य् अयम् अर्थः स्याद् इत्य् अपि शब्दः । इति र् अर्थस्याकारं दर्शयति । अस्त्व् अयम् अर्थः । का क्षतिर् इत्य् आह -- तथा चे ति । काकतालीयन्यायेन चाश्यामेषु निकटवर्त्तिषु अतत्पुत्रेषु एतद् द्रष्टव्यम् । अन्यथा ह्य् अनियतो ऽपि व्यतिरेको ऽत्र नोक्त इति वचनावकाशः स्यात् । यत एवं तस्माद् येन नियमवत्प्रयोगेण पर्तिबन्धः प्रतिबद्धत्वम् आयत्तत्वम् । कस्येत्य् आकाङ्क्षायाम् आह -- साधनस्ये ति । कुत्रेत्य् अपेक्षायाम् आह -- साध्य इति ।
यद्य् एवम् एकस्मिन्न् एव साधनवाक्ये नियमवान् एवान्वयो व्यतिरेकश् च प्रयुज्यताम् इत्य् आह -- नियमवतोश् चे ति । चो वक्तव्यान्तरसमुच्चये । अयम् आशयः -- अन्वयवाक्येनापि तथाप्रयुक्तेन सामर्थ्याद् व्यतिरेकस्य, व्यतिरेकवाक्येनापि सामर्थ्याद् अन्वयस्य प्रकाशनात् किं प्रतीतप्रत्यायकेन द्वितीयवाक्येन कार्यम् इति? यत एवम् इति स् तस्माद् । द्वितीय इति शिक्षणस्य स्वरूपं दर्शयति । शिक्षण म् अज्ञम् उद्दिश्यज्ञापनम् । तद् अर्थं तन्निमित्तम् । अनेन प्रयो[40ब्]गसमास एव दर्शितो न रूपसमास इति दर्शितम् । प्रयोगदर्शनाभ्यासात् कश्चित् प्रयोगभङ्ग्यैव स्वयम् अपि परोक्षम् अर्थं प्रतिपद्यत इति स्वार्थे ऽप्य् अनुमाने निर्णीतम् इदं लक्षण कथनप्रसङ्गेन । ततो न दोष इति द्रष्टव्यम् । एतच् चोपरिष्टान् निवेदयिष्यते ॥
[ध्प्र् प्.97]
अनुमेयो ऽत्रे त्यादि । अत्र हेतुलक्षणे निश्चेतव्ये धर्मी अनुमेयः । अन्यत्र तु साध्यप्रतिपत्तिकाले समुदायो ऽनुमेयः । व्याप्तिनिश्चयकाले तु धर्मो अनुमेय इति दर्शयितुम् अत्र ग्रहनम् । जिज्ञासितो ज्ञातुम् इष्टो विशेषो धर्मो यस्य धर्मिणः स तथा उक्तः ।
कः सपक्षः ।
साध्यधर्मसामान्येन समानो ऽर्थः सपक्षः इइ-7
समानो ऽर्थः सपक्षः । समानः सदृशो यो ऽर्थः पक्षेण स पक्ष उक्त उपचारात् समानशब्देन विशिष्यते । समानः पक्षः सपक्षः , समानस्य च स शब्दादेशः ।
ननु यदि धर्मधर्मिसमुदायो मुख्यो ऽनुमेयो ऽत्र गृह्यते तदा न कस्यचित् साधनस्य तद्धर्मत्वं ग्रहीतुं शक्येत । ग्रहणे वा व्यक्तम् एव वैयर्थ्यम् इत्य् अभिप्रायवान् पृच्छति -- तत्र क इति तेषु मध्ये ।
अत्रे त्य् अस्य तात्पर्यार्थम् अत्रे त्यादिना निरूपयति । धमिधर्म्योश् चानुमेयत्वम् । तस्मिंश् तस्मिन् काले ऽनुमेयैकदेशत्वाद् उपचारतो द्रष्टव्यम् । तद् उक्तम् --
"समुदायस्य साध्यत्वात् धर्मात्रे च धर्मिणि ।
अमुख्ये ऽप्य् एकदेशत्वात् साध्यत्वम् उपचर्यते ॥" इति ॥
अथ यद् सह पक्षेण वर्त्तते इति सपक्षो ऽभिप्रेतस् तदा ऽर्थासङ्गतिः । अथापि समानः पक्षेणेति मतं तदा पक्षसमान इति प्राप्नोतीत्य् अभिप्रेत्य पृच्छति क इति । समानो ऽर्थ इति सिद्धान्ती । समान शब्दस्यार्थम् आह -- समानः सदृशो ऽर्थ इति । अर्थ शब्दो ऽत्र प्रतीयमानार्थो ऽर्थते गम्यत इति कृत्वा । न त्व् अर्थो ऽर्थक्रियासमर्थो वाच्यः । क्रमाक्रमायोगेनाक्षणिकस्य सामर्थ्याभाव(वे) साध्ये ऽम्बरारविन्दादेर् अपि सपक्षत्वेनेष्टत्वात् ।
ननु समानश् चासौ पक्षश् चेति किं नाभिप्रेतम्? तत्र पक्ष एवासौ दृष्टान्तधर्मी कथं येन समानशब्देन विशिष्यत इत्य् आह -- पक्ष इति । कथम् अन्यार्थेन तेन शब्देन स तथोच्यताम् इत्य् आह -- उपचाराद् इति । क्वचित् सपक्ष उक्त इति पाठः । तत्र सो ऽर्थः पक्ष उक्तः इति योज्यम् । उपचारे च साध्यधर्मयोगो निमित्तम् । स उपचाराद् यः पक्ष उक्तः विशि(शे)ष्यते व्यवच्छेद्यते तदसमानात् । यदि समानशब्दो विशेषणम् अस्य तर्हि स शब्दश्रुतिः कथम् इत्य् आह -- समानस्ये ति । समानस्य समानशब्दस्य स्थाने स शब्दादेशश् च "समानस्य" [पाणिनि 6.3.84] इति योगविभागात् । समानः पक्षो यस्य स तथेति बहुव्रीहिः किम् इति धर्मोत्तरेण नाश्रितो येनैवम् आत्मा प्रयासित इति चेत् । सत्यम् । केवलं विनिश्चया नुरोधाद् एवम्
[ध्प्र् प्.98]
स्यात् एतत् -- किं तत् पक्षसपक्षयोः सामान्यं येन समानः सपक्षः पक्षेन इत्य् आह -- साध्यधर्मसामान्येन इति । साध्यश् च असौ असिद्धत्वात्, धर्मश् च पराश्रितत्वात् साध्यधर्मः । न च विशेषः साध्यः, अपि तु सामान्यं । अत इह समान्यं साध्यम् उक्तम् । साध्यधर्मश् च असौ सामान्यं च इति साध्यधर्मसामान्येन समानः पक्षेण सपक्ष इति अर्थः ।
को ऽसपक्ष इत्य् आह --
न सपक्षो ऽसपक्षः इइ-8
न सपक्षो ऽसपक्षः । सपक्षो यो न भवति सो ऽसपक्षः ॥
कश् च सपक्षो न भवति ।
आचरितम् । विनिश्चये हि नवपक्षधर्मप्रवेदननिर्देशप्रकरणे[44*]साध्यधर्मसामान्येन समानः पक्षः सपक्षस् तद् अभावो ऽसपक्षच् इत्य् उक्तम् । अतो वार्त्तिककारस्ये व दृष्टान्तधर्मी पक्षो ऽभिप्रेत उपचाराद् इत्य् अत्राप्य् एवम् अयं व्याचष्ट इत्य् अदोषः ।
__________नोतेस्__________
[44*] चेऽए प्विन्
येन सामान्येन पक्षेण समानः सपक्ष इत्य् आहे ति योज्यम् । साध्य शब्देनोपचाराद् वह्न्यादिकम् अभिप्रेतम् । साध्यत्वे हेतुम् आह -- असिद्धत्वात् तत्रानिश्चितत्वात् ।
ननु साध्यधर्मश् चासौ सामान्यं चेति कर्मधारयगर्भः कर्मधारय इत्य् आभिप्रेतः, विशेषश् च साध्यत इति कथं सामान्यशब्देन साध्यधर्मशब्दस्य समास इत्य् आशङ्क्याह -- न चे त्यादि । चो यस्मादर्थे अवधारणे वा । सामान्यम् अतद्रूपव्यावृत्तवस्तुमात्रम् । तथाविधेनैव हेतोः [41अ] व्याप्यत्वाद् इत्य् अभिप्रायः । यत एवम् अतो ऽस्य्माद् धेतोर् हि सपक्षलक्षणकाले । सामान्यस्य साध्यताम् उक्त्वा साध्यधर्मशबेदेन सह सामान्यशब्दस्य विग्रहं दर्शयति -- साध्येति । साध्यधर्म्ये(मे) त्यादिनोपसंहरति । समान एवेत्य् अवधारणियम् न तु सामान्येनैवेति, अन्येनापि वस्तुत्वादिना सादृश्यात् दृष्टान्तधर्मिणः सपक्षत्वाभावप्रसङ्गाद् इति ।
यदि सपक्षाद् अन्यो ऽसपक्षो एवान्यधर्मयोगाद् अन्य इति तत्रासपक्षे वर्त्तमानो हेतुः सर्व एवानैकान्तिकत्वाद् अहेतुः प्रसज्येत । अथ विरुद्धे नञो विधानात् सपक्षविरुद्धो ऽसपक्षः सहानवस्थानलक्षणेन विरोधेन विरुद्धस् तदा ऽग्निलक्षणो हेतुर् औष्ण्यं न गमयेत् । अथाभावे नञ् इष्यते, तदा ऽभावे कस्यचित् सत्त्वासम्भवात् साधारणानैकान्तिको न कश्चित् स्याद् इति मनसि निवेश्य पृच्छति -- को ऽसपक्ष इति । अनीदृशाशयस्याज्ञस्यैव वा प्रश्नः ।

न सपक्ष इत्याद्य् उत्तरम् । सपक्षो यो न भवती ति साध्यधर्मवान् यो न भवतीत्य् अर्थः । एवञ् चाचक्षाणः प्रसज्यप्रतिषेधवृत्तिं नञं दर्शयति । यद्य् एवम्, समासः कथं इति चेत् । गमकत्वाद् असूर्यम्पश्यानीत्यादिवत् । अपुनर्ज्ञेयानि सामानि, अलवणभोजी, असूर्यम्पशानि मुखानि "सुड्नपुंसकस्य" [पाण्निनि 1.1.43] इति । प्रयोगसंख्यानियमस् तु भाष्यकारीयो यथा ऽनुपपन्नस् तथा चाचार्येणैव विनिश्चये "दुःखं बतायं तपस्वी" इत्याद्य् उपहासपूर्वकं -- "यथा निकेतेन प्रतिपत्तेः" इत्यादिना प्रतिपादित इति नेहोच्यते ।
[ध्प्र् प्.99]
ततो ऽन्यस् तद्विरुद्धस् तदभावश् च इति इइ-9
ततः सपक्षाद् अन्यः, तेन च विरुद्धः, तस्य च सपक्सय अभावः. सपक्षाद् अन्यत्वं तद्विरुद्धत्वं च न तावत् प्रत्येतुं शक्यम्, यावत् सपक्षस्वभावाभावो न विज्ञातः. तस्माद् अन्यत्वविरुद्धत्वप्रतीतिसामर्थ्यात्[45] सपक्षाभावरूपौ प्रतीताव् अन्यविरुद्धौ.
__________नोतेस्__________
[45] रेअदन्यत्वविरुद्धत्वे प्रतीति- ?
एवं सत्य् अन्यविरुद्धयोर् असपक्षत्वं न स्याद् इत्य् असपक्षशब्देन तदभावतदन्यतद्विरुद्धनां त्रयाणाम् अपि सङ्ग्रहं दर्शयितुं कश् चे त्यादिना प्रश्नपूर्वम् उपक्र[म]ते । च कारः पुनःशब्दस्यार्थे ।
अन्य इति विवक्षितधर्मानाधारः, अन्यविषये ऽपि नञि विभागेन नियोगवृत्तेः । न हि स एव ब्राह्मणस् तज्जातियोगाद्, अब्राह्मणश् च धर्मान्तरसमावेशाल् लोके प्रतीयत इति । विरुद्ध इति सहस्थितिलक्षणेनान्योन्यात्मपरिहारस्थितिलक्षणेन च विरोधेन विरुद्धः । चो ऽन्यापेक्षया विरुद्धर्मसपक्षत्वेन समुच्चिनोति । तस्य चाभावस् तुच्छरूपः प्रसज्यात्मा व्यववर्त्तव्यैकस्वभावः ।
अयम् अत्र प्रकरणार्थः -- सपक्षाभावो ऽसपक्षः । साध्यधर्मवान् यो न भवतीत्य् अर्थः । साध्यधर्माभावार्थत्वाद् असपक्षशब्दस्य । न चैवं निषेधमात्रम् असपक्षः । किन् तर्हि? सर्वः प्रतियोगी निषेधः पर्युदतश् च, अतत्त्वलक्षणत्वाद् असपक्षस्य । तद् विवक्षिते प्रतियोगिनि तुल्यं, व्यतिरेकगतेः सर्वत्र तुल्यत्वात्, साक्षाद् अर्थापत्त्या वेति । च ः पूर्वापेक्षः समुच्चये । अन्यविरुद्धयोर् अपि वस्तुसतोः कल्पितयोश् चासपक्षत्वात् । तत्र वर्त्तमानस्य साधारणानैकान्तिकत्वान् न तदभावदोषः, अन्यविरुद्धयोश् च स्वरूपकथनेन तदसपक्षत्वपक्षोक्तो दोषो निरस्त इति सर्वम् अवदातम् ।
ननु च सपक्षो यो न भवती ति वचनेन यस्य सपक्षाभावस्वभावत्वं तस्यैवासपक्षत्वं [41ब्] प्रतिपाद्यते । न चान्यविरुद्धयोस् तद्भावस्वभावता सम्भव(वि)नी, विधिरूपत्वात् । तत् कथं तयोस् तथात्वम् इत्य् आशङ्क्याह -- सपक्षाद् इति । अन्यत्वं ततो भिद्यमानत्वं पृथक्त्वम् इति यावत् । तेन च विरुद्धत्वं तावन् न शक्यं ज्ञातुम्, यावत् सपक्षाभावस्वभावो न विज्ञातो भवति । सो ऽन्यो विरुद्धश् चेत्य् अर्थात् ।
अयम् आशयः -- यदि तस्यान्यत्वाभिमतस्य यतो ऽन्यत्वं व्यवहर्त्तव्यं तद्रूपता चेत्तस्यासिद्धा सन्दिग्धा वा भवेत् तदा ऽन्यत्वम् एव न स्यात्, तदात्मवत्, धूमस्येव वा बाष्पादिभावेन सन्दिह्यमानस्य न बाष्पादेर् अन्यत्वनिश्चयः । येन च विरुद्धं यत् तद् रूपं चेत् सिद्धं सन्द्गिधं वा ताद्रूप्येण, तदा तेन सह तस्यावस्थितः, तदात्मपरिहारेण वा ऽवस्थानं कथम्, कथं च निश्चीयेत तदात्मवत् पूर्वोक्तधूमवत्?
यत एवं तस्मात् । तयोः साध्यधर्म्वत्त्वाभावाद् इत्य् अर्थः । यत एवं ततो हेतोः साक्षाद् अव्यवधानेन । अनेन यद्य् एक एवासपक्षो वक्तव्यः तदा तदभाव एवेति सूचितं । तु र् अभावाद्
[ध्प्र् प्.100]
ततो ऽभावः साक्षात् सपक्षाभावरूपः प्रतीयते । अन्यविरुद्धौ तु सामर्थ्याद् अभावरूपौ प्रतीयेते । ततस् त्रयाणाम् अप्य् असपक्षत्वं ।

त्रिरूपाणि च त्रीण्य् एव लिङ्गानि इइ-10
उक्तेन त्रैरूप्येण त्रिरूपाणि च त्रीण्य् एव लिङ्गानि इति । च कारो व्यक्तव्यान्तरसमुच्चयार्थः । त्रैरूप्यम् आदौ पृष्टं त्रिरूपाणि च लिङ्गानि परेण । तत्र त्रैरूप्यं उक्तम् । त्रिरूपाणि च उच्यन्ते । -- त्रिण्य् एव त्रिरूपाणि लिङ्गानि । त्रयस् त्रिरूप लिङ्गप्रकारा इत्य् अर्थः ।
कानि पुनस् तानि इत्य् आह
अनुपलब्धिः स्वभावः कार्यं च इति इइ-11
प्रतिषेध्यस्य साध्यस्य अनुपलब्धिस् त्रिरूपा । विधेयस्य साध्यस्य स्वभावश् च त्रिरूपः, कार्य च ।
अन्यविरुद्धयोर् वैधर्म्यम् आह । यतो ऽन्यो निरुद्धश् चोक्तया नीत्या सपक्षाभवरूपौ ततस् तस्मात् । आस्ताम् एकस्य द्वयोर् वा त्रयाणाम् अपीत्य् अपि शब्दः ।
त्रैरूप्येण त्रिरूपेणेत्य् अर्थः । त्रीणि रूपाणि लक्षणानि येषाम् इति विग्रहः । त्रिण्य् एव त्रिसंख्यान्य् एव । त्रिय्रूपाणी त्य् अनेनाबाधितविषयत्वादिरूपानतरयोगेन चतुर्लक्षणत्वं षड्लक्षणत्वं वा पराभिमतं हेतोः प्रतिषेधति, त्रीण्य् एवे त्य् अनेन संयोग्यादिभेदेन भूयिष्थसंख्यत्वम् ।
पृष्ट इति पाठे त्व् आचार्य इति शेसः । यत् त्रैरूप्यं पृष्टो यद् वा यत् त्रैरूप्यं पृष्टं तत् त्रैरूप्यम् उक्तम् उक्तेन ग्रन्थेन । अथ वा यद् यस्मात् त्रैरूप्यं पृष्ट आचार्यः, पृष्टं वा तत् तस्मात् त्रैरूप्यम् उक्तम् इति । च स् त्रैरूप्येण समं त्रिरूपाणाम् उक्तकरम्तां समुच्चिनोति ।
ननु न तावत् परस्यैतद् द्वितयप्रश्नवाक्यं श्रुतम् । तत् कथं परस्य द्वेधा प्रणः संकीर्त्त्यत इति चेत् । उच्यते । त्रिरूपाल् लिङ्गाद् इति श्रुतवता पूर्वपक्षवादिना ऽवश्यं किं तत् त्रैरूप्यं कियच् च त्रिरूपं लिङ्गम् इत्याकाङ्क्षितव्यम्, तेन पृष्टम् इत्य् उच्यते । एतद् एव कथम् अवसीयत इति चेत् । त्रैरूप्यं लिङ्गस्यैवम् आत्मकम् इत्य् अभिधानाद् आचार्यस्य पूर्वपक्षवादिन एवंरूप प्रश्नो ऽवसीयते । त्रिरूपाणि च त्रीण्येवे त्य् अभिधानाच् च सम्ख्याप्रश्नः । ततः साधूक्तं त्रैरूप्यम् आदाव् इत्यादि । लिङ्गप्रकारा लिङ्गस्वरूपाणि ॥
संयोग्यादिभेदेन त्रित्वासम्भवात् पृच्छति -- कानी ति । सामान्यविशेषाकाराभ्यां प्रश्नः । कार्यं च विधेयस्येति प्रकृतम् । केवलं विधेयस्ये ति पूर्वं सामर्थ्याद् अनर्थान्तरस्य विधेयस्य, अधुना त्व् अर्थान्तरस्य विधेयस्येत्य् अवसेयम् । विधेयस्यार्थान्तरस्य कार्यं त्रिरूपम् इति योजनीयम् । च कारौ पूर्वापेक्षया समुच्चयार्थौ ॥
[ध्प्र् प्.101]
अनुपलब्धिम् उदाहर्तुम् आह --
तत्र अनुपलब्धिर् यथा न प्रदेशविशेषे क्वचिद् घटः, उपलब्धिलक्षणप्राप्तस्य अनुपलब्धेर् इति इइ-12
यथा इत्यादि । यथा इत्य् उपप्रदर्शनार्थम् । यथा इयम् अनुपलब्धिस् तथा अन्या अपि । न त्व् इयम् एव इत्य् अर्थः । प्रदेश एकदेशः । विशिस्यत इति विशेषः प्रतिपत्तृप्रत्यक्षः । तादृशश् च न सर्वः प्रदेशः । तद् आह -- क्वचिद् इति । प्रतिपत्तृप्रत्यक्षे क्वचिद् एव प्रदेश इति धर्मी । न घट इति साध्यम् । उपलब्धिर् ज्ञानम् । तस्या लक्षणं जनिका सामग्री । तथा हि उपलब्धिर् लक्ष्यते । तत्प्राप्तो ऽर्थो जनकत्वेन सामग्र्यन्तर्भावात् । उपलब्धिलक्षणप्राप्तो दृश्य इत्य् अर्थः । तस्य अनुपलभ्देः -- इत्य् अयम् हेतुः ।
अथ यो यत्र न अस्ति स कथं तत्र दृश्यः । दृश्यत्वसमारोपड् असन्न् अपि दृश्य उच्यते । यश् च एवं सम्भाव्यते -- यद्य् असाव् अत्र भवेद् दृश्य भवेद् इति । स तत्र अविद्यमानो ऽपि दृश्यः समारोप्यः । कश् च एवं सम्भाव्यः? यस्य समग्राणि स्वालम्भनदर्शनकारणानि भवन्ति । कदा च तानि समग्राणि गम्यते? यदैकज्ञानसंसर्गिवस्त्वन्तरोपलम्भः । एकैन्द्रियज्ञानग्राह्यं लोचनादिप्रणिधानाभिमुखं वस्तुद्वयम् अन्योन्यापेकेषम् एकज्ञानसंसर्गि कथ्यते । तयोर् हि
न घट इति घटाभावव्यवहारयोग्यतेति द्रष्टव्यम् । घटाभावस्य प्रत्यक्षसिद्धत्वात् । एतच् च परस्ताद् अभिधास्यते । तया लक्ष्यत इति ब्रुवता लक्ष्यते ऽनेनेति लक्षणम् इति व्यक्तीकृतम् । तद् इत्य् उपलब्धिलक्षणम् । कथं तत्प्राप्त इत्य् आह जनकत्वेन । किं तेनैकेन सा जन्यते येनैवम् उच्यत इत्य् आह सामग्र्यन्तर्भावाद् इति ।
समुदायार्थं स्फुटयति । दृश्यो दर्शनयोग्यः । इति र् एवमर्थे । एवम् अभिधेयो यस्योपलब्धिलक्षणप्राप्तशब्दस्य ।
यद्य् अविद्यमानः समारोपाद् दृश्य उच्यते तदा भिन्नेन्द्रियग्राह्यम् अपि तत्रानेकम् अस्ति । तस्यापि तर्हि तथात्वम् आयातम् इत्य् आशङ्क्याह यश् चैवम् इति । चो ऽवधारणे । स तादृशो दृश्यतया समारोप्यो न सर्व इत्य् अर्थात् । कश् चैवं सम्भाव्य इति पृच्छति । पुनःशब्दार्थश् च कारः ।
यस्य् एति सिद्धान्ती । यस्य् एति प्रतिषेधस्य । स्वम् आत्मानम् आलम्बत इत्य् आलम्बनं । यस्य दर्शनस्य । तस्य कारणानि । तच् चेन् नास्ति कथं तद्दर्शनकारणसामग्र्यावगतिर् इत्य् आशयः पृच्छति कदे ति । च पूर्ववत् । एकस्मिञ् ज्ञाने संसर्गः प्रतिभासः स यस्यास्ति । तच् च तद्वस्त्वन्तरं चेति तथा तस्योपलम्भो यदे त्य् उक्तम् ।
[ध्प्र् प्.102]
सतोर् न एकनियता भवति प्रतिपत्तिः । योग्यताया द्वयोर् अप्य् विशिष्टत्वात् । तस्माद् एकज्ञानसंसर्गिणि दृश्यमाने सत्य् एकस्मिन्न् इतरत् समग्रदर्शनसामग्रीकं यदि भवेद् दृष्यम् एव भवेद् इति सम्भावितं दृश्यत्वम् आरोप्यते । तस्य अनुपलम्भो दृश्यानुपलम्भः । तस्मात् स एव घटविविक्तप्रदेशस् तदालम्भनं च ज्ञानम् दृश्यानुपलम्भनिश्चयहेतुत्वात् द्र्श्यानुपलम्भ उच्यते ।
यावद् धि एकज्ञानसंसर्गि वस्तु न निश्चितम् तज्ज्ञानं च न तावद् दृश्यानुपलम्भनिश्चयः । ततो वस्तु अनुपलम्भ उच्यते तज्ज्ञानं च । दर्शननिवृत्तिमात्रं तु स्वयम् अनिश्चितत्वाद् अगमकम् । ततो दृश्यघटरहितः प्रदेशः तज्ज्ञानं च वचनसामर्थ्याद् एव दृश्यानुपलम्भरूपम् उक्तं द्रष्टव्यम् ।
तत्र यदि निराकारं विज्ञानम् इति स्थितिस् तदैकशब्दो द्वयादिसंख्यानिरासार्थः । यदा तु साकारम् इति स्थितिस् तदा पक्षद्वयम् -- एकम् एव वानेकाकारम् अशक्यविवेचनं चित्रं ज्ञानम्, प्रतिवस्त्व् अनेकम् एव वा तत्तदाकारानुकारि । पूर्वस्मिन् पक्षे पूर्ववद् एकशब्दः । शेषपक्षे त्व् एकचक्षुरायतनप्रभवत्वाद् एकरूपालम्बनत्वाच् चैकशब्दो गौणः ।
ननु यदि तत् प्रतिषिध्यमानम् अनेन भूतलादिना सहैकस्मिन् ज्ञाने प्रतिभासेत तदपेक्षम् इदम् एकज्ञानसंसर्गि कथ्यते । यावतेदम् एव नास्तीत्य् आशङ्क्य तथात्वम् एव तयोर् एकेन्द्रिये त्यादिना दर्शयति । लोचनादीनां प्रणिधानं स्वज्ञानोपजनने योग्यीभवनं तत्र् आभिमुखम् अनुगुणम् । अन्योन्यापेक्षम् इति घटाद्यपेक्षं भूतलादि, तदपेक्षं च घटादीत्य् अर्थः ।

यदि नाम द्वयं तत्रावस्थितं तथाप्य् एकम् एव तत्रावभासिष्यत इत्य् आह -- तयोर् इति । हि र् यस्मात् । उपपत्तिम् आह -- योग्यताया इति । यत एव तयोर् घटादिभूतलाद्योर् एकज्ञानसंसर्गः सम्भवी तस्मात् । एकस्मिन् भूतलादिके दृश्यमाने सतीतरद् घटादिकं परिपूर्णदर्शनसामग्रीकं ज्ञातव्यम् । तथासद् अविद्यमानम् अपि समारोपाद् दृश्यम् उच्यत इति दर्शयति ।
भवेद् इति ना सम्भावनाया आकारः कथितः । तस्यै व सम्भावनार्हस्य् आनुपलम्भस् तदविविक्तान्योपलम्भरूपः । यस्मात् तस्यैकज्ञानसंसर्गिणो भूतलादेर् दर्शनात् तदनुपलम्भो निश्चीयते तस्मात् ।
ननु भूतलादिज्ञाननिश्चय एव तद् अनुपलम्भनिश्चयहेतुत्वाद् अनुपलम्भो ऽस्तु भूतलादिकं तु कथम् इत्य् आह -- यावद् इति । हि र् यस्मात् । अनेन ज्ञानविशिष्टं भूतलादि, भूतलाद्यवच्छिन्नञ् च ज्ञानं दृश्यस्यानुपलम्भम् उपलम्भाभावं व्यवहर्त्तव्यैकस्वभावं निश्चाययतीति दर्शितम् । वस्त्व् इति भूतलादि । ज्ञानम् इति तद्ग्राहि । च स् तुल्योपायत्वं समुच्चिनोति ।
[ध्प्र् प्.103]
का पुनर् उपलब्धिलक्षणप्राप्तिर् इत्य् आह --
उपलब्धिलक्षणप्राप्तिर् उपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश् च इइ-13
उपलब्धिलक्षणप्राप्तिः उपलब्धिलक्षणप्राप्तवं घातस्य उपलम्भप्रत्ययान्तरसाकल्यम् इति. ज्ञानस्य घटो ऽपि जनकः, अन्ये च चक्षुरादयः. घटाद् दृश्याद् अन्ये हेतवः प्रत्ययान्तराणि . तेषां साकल्यम् सन्नि धिः. स्वभाव एव विशिष्यते तद् अन्यस् म् आद् इति विशेष विशिष्त इत्य् अर्थः. तद् अयम् विशिष्टः स्वभावः प्रत्ययान्तरसाकल्यं च एतत् द्वयम् उपलब्धिलक्षनप्राप्तत्वं घटादेर् द्रष्टव्यम् ।
यद्य् एकस्मिन् ज्ञाने ययोः संसर्गो ऽस्ति तयोर् एकतरोपलम्भस् तदितरानुपलम्भनिश्चयहेतुत्वाद् अनुपलम्भस् तस्माच् च तस्याभावव्यहारस् तदा नीलज्ञानानुभवे पीतज्ञानाभावव्यवहारो न स्यात् तयोर् एकज्ञानसंसर्गाभावात् । न हि भवन् मते ज्ञानं ज्ञानान्तरेण वेद्यते, स्वसंवेदनत्वाभावप्रसङ्गाद् इति चेत् । सत्यम् एतत् । केवलम् एकज्ञानसंसर्गिशब्देनान्योन्याव्यभिचरितोपलम्भत्वम् इह विवक्षितम् । तच् च ज्ञाने ऽप्य् अस्ति । यदि हि तज्ज्ञानं विद्यमानं स्यात् तदा नीलज्ञानवत् संविदितम् एव भवेत् । न च संवेद्यते । तस्मान् नास्तीति व्यवह्रियत इति किम् अवद्यम् ।
स्याद् एतत् । किं पुनर् ज्ञातृज्ञेयधर्मोपलब्धिव्युदासेन पर्युदासवृत्तिना नञा ज्ञातृज्ञेयधर्मलक्षणा द्विविधोपलब्धिः प्रतिपाद्यते ? न तूपलम्भाभावमात्रं प्रसज्यप्रतिषेधाश्रयेणोच्यते यथ् एश्वरसेनो मन्यत इत्य् आशङ्क्याह -- दर्शन त्यादि । दर्शनम् उपलब्धिस् तस्य निवृत्तिर् अभावस् तुच्छरूपः सैव तन् मात्रं वस्त्वन्तरसंसर्गविरहः । तु ः पूर्वस्माद् अनुपलम्भाद् वैधर्म्यम् अस्य द्योतयति । स्वयम् अनिश्चितत्वाद् इति ब्रुवतानुपलम्भात् तत्प्रतिपत्ताव् अनवस्थादोषप्रसङ्गेन तस्य साधकाभावः सूचितः । अनिश्चितत्वाद् एव् आगमकः । एवञ् च व्याचक्षाणेन इदं सूचितम् -- तथाविधानुपलब्धिः प्रमाणनिवृत्ताव् अप्य् अर्थाभावाभावाद् अभावव्यवहारे साध्ये ऽनैकान्तिकीति । वचनसामर्थ्याद् इत्य् उपलब्धिलक्षणप्राप्तस्ये तिवचनसामर्थ्यात्, अन्यथैतद् अतिरिच्येतेति भावः ॥
ननूपलब्धिलक्षणप्राप्तः स उच्यते यस्योपलब्धिलक्षणप्राप्तिर् अस्ति । यथा यस्याप्तिर् यथार्थदर्शनादिरूपास्ति स आप्त इत्य् उच्यते । सा चोपलब्धिलक्षणप्राप्तिर् यद्य् आत्ममनःसन्निकर्षः, इन्द्रियमनःसंयोगः, इन्द्रियार्थसन्निकर्षः, विषयप्रकाशसंयोगः, अनेकद्रव्यवत्त्वम्, रूपं चोद्भूतं समाख्यातं तदा त्वन् मते ऽमीषाम् अभावाद् उपलब्धिलक्षणप्राप्तिर् असम्भविनीति मन्यमानः पृच्छति का पुनर् इति । सामान्यविशेषाकाराभ्याम् अयं प्रश्नः । आचार्यस्या पि नामून्य् उपलब्धिलक्षणप्राप्ति शब्देन विवक्षितानि ।
किं तर्हीयम् इत्यभिप्रायेण यद् उपलब्धिलक्षणे त्यादिप्रतिवचनं तद् उपलब्धीत्य् आदिना व्याख्यातुम् उपक्रमते । व्याख्येयम् एव् ओपलब्धिलक्षणप्राप्ति शब्दसामानार्थेन् ओपलब्धिलक्षणप्राप्तत्व शब्देनानुवदति । अयं चास्याशयः यस्योपलब्धिलक्षणप्राप्तिस् तस्यावश्यम् उपलब्धिलक्षणप्राप्तत्वम् अस्तीति । अत एवोपलब्धिलक्षणप्राप्तिर् उपलब्धिलक्षणप्राप्तत्वम् इत्य् उक्तम् । कस्येत्य् आकाङ्क्षायाम् आह घटस्ये ति ।
ननु साकल्यं नामानेकधर्मः । न च ज्ञानस्य हेतवो बहवः । किञ् च यदि प्रतिषेध्यो ऽपि ज्ञानस्य हेतुः स्यात् तदा तस्मात् प्रत्ययाद् अन्ये प्रत्ययाः प्रत्ययान्तराण्य् उच्यन्त इत्य् आशङ्क्याह ज्ञानस्ये ति ।
[ध्प्र् प्.104]
कीदृशः स्वभावविशेष इत्य् आह
यः स्वभावः सत्स्व् अन्येषु उपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स स्वभावविशेषः इइ-14
सत्स्व् इत्यादि । उपलम्भ स्य यानि घटाद् दृश्याद् प्रत्यया न्तरानि तेषु सत्सु विद्यमानेषु यः स्वभावः सन् प्रत्यक्ष एव भवति स स्वभावविशेषः । तद् अयम् अत्र अर्थः -- एकप्रतिपत्त्रपेक्षम् इदम् प्रत्यक्षलक्षणम् । तथा च सति द्रष्टुं प्रवृत्तस्य एकस्य द्रष्टुर् दृश्यमान उभयवान् भावः । अदृश्यमानास् तु देशकालस्वभावविप्रकृष्टाः स्वभावविशेषरहिताः प्रत्ययान्तरसाकल्यवन्तस् तु । यैर् हि प्रत्ययैर् स द्रष्टा पश्यति ते सन्निहिताः । अतश् च सन्निहिता यद् द्रष्टुं प्रवृत्तः सः ।

न केवलं प्रत्ययान्तरसाकल्यम् उपलब्धिलक्षणप्राप्तिः किन् त्व् अन्यद् अपीत्य् आह -- स्वभावे ति । च स् तुल्यबलत्वं समुच्चिनोति । तदन्यस्मात् पिशाचादेर् विशिष्यते । ज्ञानजननयोग्यतया विशेषणत्वे प्य् अस्य राजदन्तादिपाठाद् विशेष शब्दस्य पूर्वनिपाताभावः । कर्मसाधनस्यैव विशेषशब्दस्यार्थम् विशिष्ट इति ।
द्वयम् एतन् मिलितम् एवोपलब्धिलक्षणप्राप्तिशब्दवाच्यम् उपसंहारव्याजेन तद् इत्यादिना दर्शयति । यतः प्रत्ययान्तरसाकल्यं स्वभावविशेषश् चोपलब्धिलक्षणप्राप्तिर् विवक्षिता तत् तस्माद् उपलब्धिलक्षणप्राप्तिशब्दवाच्यम् उपलब्धिलक्षणप्राप्तत्वं घटादेः प्रतिषेध्यस्य ॥
अथ किं स्थवीयान् स्वभावः स्वभावविशेष उतस्वित् पररूपामिश्रस्वलक्षणात्मक इत्य् अभिप्रेत्य पृच्छति कीदृश इति । सत्स्व् इत्याद्य् उत्तरम् उपलम्भस्ये त्यादिना व्याचष्टे ।
ननु किम् अस्य सम्भवो ऽस्ति यद् उत प्रत्ययान्तरसाकल्ये सत्य् अपि स्वभावः प्रत्यक्ष एव भवतीति । तथा हि सत्य् अपि घटस्य तादृशे स्वभावे विदूरवर्त्तिनः पुरुषस्य लोचनादिप्रणिधाने पि नासौ प्रत्यक्षो भवतीत्य् आशङ्क्याह तद् अयम् इति । यस्माद् द्वयम् एतद् उपलब्धिलक्षणप्राप्तिम् अवोचद् आचार्यस् तत् तस्माद् अत्र प्रस्तवे ऽयम् अर्थो वाच्यो ऽभिमतः । को ऽसाव् इत्य् आह एके ति । एकश् चासौ विवक्षितः प्रतिपत्ता चेति तथा तद् अपेक्षम् इदं प्रत्यक्षलक्षणम् । यः स्वभावः सत्स्व् अन्येषूपलम्भप्रत्ययान्तरेषु सन् प्रत्यक्ष एव भवती त्य् एवं रूपं । एकश् च प्रतिपत्ता स एव वाच्यो यो ऽव्यवधानादिदेशो द्रष्टुं प्रवृत्तश् च । तथाविधे च द्रष्टरि तथाविधो ऽवश्यं प्रत्यक्ष एव भवतीति । तथापि कथं पूर्वपक्षातिक्रम इत्य् आह तथा चेति तस्मिंश् च प्रकारे सति । दृश्यमान इति हेतुभावेन विशेषणम् । उभयवान् स्वभावविशेषवान् प्रत्ययान्तरसाकल्यवांश् च । यद्य्
[ध्प्र् प्.105]
द्रष्टुम् अप्रऋत्तस्य तु योग्यदेशस्था अपि द्रष्टुं ते न शक्याः प्रत्ययान्तरवैकल्यवन्तः, स्वभावविशेषयुक्तास् तु । दूरदेशकालास् तु उभयविकलाः । तद् एवं पश्यतः कस्यचिन् न प्रत्ययान्तरविकलो नाम, स्वभावविशेषविकलस् तु भवेत् । अपश्यतस् तु द्रष्टुं शक्यो योग्यदेशस्थः प्रत्ययान्तरविकलः । अन्ये तु उभयविकला इति ।
अदृश्यमानापि स्वभावविशेषवन्तस् तदा किं स्वभावविशेषग्रहणेनेत्य् आह अदृश्यमाना इति । तु र् दृश्यमानेभ्यो ऽदृश्यमानान् भिनत्ति । देशादिविप्रकृष्टत्वम् अदृश्यमानत्वे निबन्धनम्, हेतुभावेन विशेषणात् । ते प्रत्ययान्तरसाकल्यवन्तः । तु ः स्वभावविशेषविरहात् प्रत्ययान्तरसाकल्यवत्त्वेन तान् विशिनष्टि । द्रष्टुं प्रवृत्तस्ये त्य् अस्यानुवृत्ताव् इदं द्रष्टव्यम् ।
अयम् अत्र प्रकरणार्थः एकप्रतिपत्त्रपेक्षया यस् तथाविधः स्वभावः सो ऽपि यद्य् उपलब्धिलक्षणप्राप्तिलक्षणत्वेन नोपादीयते, तदा तेषाम् अपि देशादिविप्रकर्षिणां प्रत्ययान्तरसाकल्यम् उपलब्धिलक्षणप्राप्तिर् अस्तीत्य् उपलब्धिलक्षणप्राप्तानाम् अनुपलम्भाद् अभावव्यवहारः प्रवर्त्तनीयः स्यात् । न चैतद् युज्यते । तस्माद् विशिष्टप्रतिपत्त्रपेक्षम् इदं स्वभावविशेषस्य लक्षणम् इत्य् उपलब्धिलक्षणप्राप्तिलक्षणं सूक्तम् इति ।
प्रत्ययान्तरसाकल्यवत्त्वम् एव तेषां साधयन्न् आह यैर् इति । हि र् यस्मादर्थे । एतद् एव कुतः सिद्ध्यतीत्य् आह अत इति । अत इत्य् अयं निपातो वक्षय्माणहेत्वर्थः । चो वक्तव्यम् एतद् इत्य् अस्मिन्नर्थे । सन्निहितास् ते प्रत्यया यद् यस्माद् द्रष्टुं प्रवृत्तस् तद्विविक्तं द्रष्टुं प्रवृत्तो यत इत्य् अर्थः । यद् वा तद् एव निरीक्षितुं प्रवृत्तो यत इति । तदा तु [43ब्] प्रेक्षापूर्वकारीति द्रष्टव्यम् । दर्शनप्रवृत्तपुरुषापेक्षया तावद् अर्थस्यैवंप्रकारवत्त्वं, द्रष्टुम् अप्रवृत्तस्य तु स कीदृश इत्य् आह द्रष्टुम् अप्रवृत्तस्ये ति । तु ना द्रष्टुं प्रवृत्ताद् अप्रवृत्तस्य भेदम् आह । यावत्य् एव देशे सति तस्मिन् प्रत्ययान्तरे दृश्यन्ते ऽर्थः स एव योग्यो देशः तत्र स्थाः ।
तस्माद् दृश्याद् अन्ये ये चक्षुरादयो हेतवस् तानि प्रत्ययान्तराणि । तेषां वैकल्यम् अभावस्, तद्वन्तः हेतुभावेन विशेषणाद् । अत एव द्रष्टुं ते न शक्याः । स्वभावविशेषस् तु तेषाम् अस्तीति दर्शयन्न् आह स्वभावे ति । तु ना प्रत्ययान्तरवैकल्यवत्त्वात् स्वभावविशेषयुक्तत्वेन तान् विशिनष्टि । तथाविधपुरुषापेक्षया देशकालविप्रकृष्टानां तु का वार्त्तेत्य् आह दूरे ति । दूरौ देशकालौ येषां ते तथोक्ताः । ये हि देशेन विप्रकृष्टास् ते दूरदेशा ये च कालेन ते दूरकाला भवन्तीति भावः । तु ः पूर्वेभ्य इमान् भिनत्ति । अत्रापि द्रष्टुम् अप्रवृत्तस्ये त्य् अनुवर्त्तते । तद् एवम् इत्यादिनोक्तम् एवोपसंहरति ।
अथवा एकप्रतिपत्त्रपेक्षम् इदम् इत्य् अन्यथा व्याख्यायते -- इहोपलब्धिलक्षणप्राप्तस्येत्य् अनेन देशकालस्वभावविप्रकृष्टतयानुपलब्धिलक्षणप्राप्ताः किल व्यावर्तयितव्याः । न च ते ऽप्य् अनुपलब्धिलक्षणप्राप्ताः शक्या वक्तुं यतो व्यवच्छिद्येरन् तथापि पिशाचो ऽपि सजातीयैर् उपलभ्यते एवं देशविप्रकृष्टो ऽपि तद्देशीयैः । तथा कालविप्रकृष्टो ऽपि तत्कालिकैर् इति व्यावर्त्त्याभावाद् उप--
[ध्प्र् प्.106]
अनुपलब्धिम् उदाहृत्य स्वभावम् उदाहर्तुम् आह --
स्वभावः स्वसत्तामात्रभाविनि साध्यधर्मे हेतुः इइ-15
स्वभाव इत्यादि । स्वभावो हेतुर् इति सम्बन्धः । कीदृशो हेतुः साध्यस्य स्वभाव इत्य् आह -- स्व स्य आत्मनः सत्ता । सा एव केवला स्वसत्तामात्रम् । तस्मिन् सति भवितुं शीलं यस्य इति । यो हेतोर् आत्मनः सत्ताम् अपेक्ष्य विद्यमानो भवति, न तु हेउत्सत्ताया व्यतिरिक्तं कञ्चिद् धेतुम् अपेक्षते स स्वसत्तामात्रभावी साध्यः । तस्मिन् साध्ये यो हेतुः स स्वभावः तस्य साध्यस्य न अन्यः ।
उदाहरणम् --
यथा वृक्षो अयं शिंशपात्वाद् इति इइ-16
यथा इति । अयम् इति धर्मी । वृक्ष इति साध्यम् । शिंशपात्वाद् इति हेतुः । तद् अयम् अर्थः -- वृक्षव्यवहारयोग्यो ऽयम्, शिंशपाव्यवहारयोग्यत्वाद् इति । यत्र प्रचुरशिंशपे देशे ऽविदितशिंशपाव्यवहारो जडो यदा केनचिद् उच्चां शिंशपां उपादर्श्य उच्यते `अयं वृक्षःऽ इति तदासौ जाड्याच् छिंशपाया उच्चत्वम् अपि वृक्षव्यवहारस्य निमित्तम् अवस्यति तदा याम् एव अनुच्चाम् पश्यति शिंशपां ताम् एव अवृक्षम् अवस्यति । स मुडः शिंशपामात्रनिमित्ते
लब्धिलक्षणप्राप्तस्येति विशेषणम् अनर्थकम् इत्य् आशङ्क्याह तद् अयम् अत्रार्थ इति ।
तदा तु प्रत्यक्षशब्देनोपलब्धिलक्षणप्राप्तत्वं वाच्यं तस्य लक्षणम् इदं पूर्वोक्तम् इति योज्यम् । एकप्रतिपत्त्रपेक्षम् इदं प्रत्यक्षलक्षणम् उपलब्धिलक्षणम् इत्य् अर्थः । तथापि कथं चोद्यातिक्रम इत्य् आह तथा चे ति । शेषं पूर्वं एव कृतव्याख्यानम् ॥

सम्प्रति स्वभावहेतुं विवरितुम् अनुपलब्धिम् इत्यादिनोपक्रमते । सामान्यवृत्तिर् अप्य् अयं स्वभाव शब्दः साध्यधर्मस्य श्रुतत्वात् तस्यैव स्वभावे वर्तते इत्य् अभिप्रायेण साध्यस्य स्वभाव इत्य् अभ्यवादीत् । हेतोः स्वरूपस्य चिन्तनात् स्व शब्देन तस्यैवात्मा विवक्षितः । एतद् एव यो हेतोर् इत्यादिना स्फुटयति । तस्मिन् साध्ये यो हेतुर् गमकः ॥
[ध्प्र् प्.107]
वृक्षव्यवहारे प्रवर्त्यते । न उच्चत्वादि निमित्तान्तरम् इह वृक्षव्यवहारस्य । अपि तु शिंशपात्वमात्रं निमित्तं -- शिंशपागतशाखादिमत्त्वम् निमित्तम् इत्य् अर्थः ।
कार्यम् उदाहर्तुम् आह --
कार्यं यथा वह्निर् अत्र धूमाद् इति इइ-17
वह्निर् इत्य् साध्यम् । अत्र इति धर्मी । धूमाद् इति हेतुः । कार्यकारणभावो लोके प्रत्यक्षानुपलम्भनिबन्धनः प्रतीत इति न स्वभावस्येव कार्यस्य लक्षणम् उक्तम् ।
उदाहरणम् अस्यार्थस्येति प्रकरणात् । उदाह्रियते प्रदर्श्यते स्वभावहेतुर् अनेनेत्य् उदाहरणं स्वभावहेतुप्रतिपादकं वाक्यम् । इदं च स्वभावहेतोर् अर्थकथनं न तु तत्प्रयोगोपदर्शनम् । प्रयोगस् तु यः शिंशपात्वव्यवहारयोग्यः स वृक्षत्वव्यवहारयोग्यः । यथा प्रवर्तितवृक्षत्वव्यवहारा पूर्वाधिगता शिंशपा । शिंशपाव्यवहारयोग्यश् चायम् इति ।
ननु च यः शिंशपा पश्यति स वृक्षं जानात्य् एव । तत् कथम् अत्र साध्यसाधनभाव इत्य् आह तद् अयम् इति । यस्मात् शिंशपा साधनत्वेनोपन्यस्ता, वृक्षः साध्यत्वेन । न चैतद् यथाश्रुति सङ्गच्छते तत् तस्मात् वृक्षो ऽयं वृक्षव्यवहारयोग्यो ऽयं शिंशपात्वात् शिंशपाव्यवहारयोग्यत्वाद् इत्य् अयम् अर्थो वाच्यः वृक्षो ऽयं शिंशपात्वाद् इत्य् अस्य वाक्यस्येति प्रकरणात् । इति र् वाक्यार्थस्यैव स्वरूपं दर्शयति ।
ननु यो विदितवृक्षव्यवहारः स स्वयं प्रत्यक्षेणैव तं व्यवहारं प्रवर्तयिष्यति तत् कथम् अस्यानुमानस्यावतार इत्य् आह तत्रे ति वाक्योपक्षेपे । निमित्तम् इत्य् अन्तं सुबोधम् ।
अनेन च प्रबन्धेन मूढं प्रत्य् एतद् व्यवहारसाधनम् अनुमानम् इति दर्शितम् । केवलम् इदम् अत्र निरूपणीयम् । [यदा च] वृक्षत्वव्यवहारव्युत्पत्तिं कार्यमाण एवारोपितोच्चत्वादिनिमित्तः, तदा केन दृष्टान्तेन बोधयितव्यः? आदित एव तेन शाखादिमत्त्वमात्रं निमित्तं न गृहीतम् इति । सत्यम् एतत् । केवलं बोधे यत्नः करणीयः । तदासौ जाड्याद् उच्चत्वम् अपि निमित्तम् अवस्यतीतीदम् एतस्मिन् मूढे प्रतिपत्तरि योजनीयम् । यः प्रथमं तावत् शिंशपागतं शाखादिमत्त्वमात्रम् एव निमित्तम् अवसाय वृक्षव्यवहारं प्रावर्तयत् पश्चाज् जाड्यवशात् तन्मात्रं निमित्तं विस्मृत्यान्यद् एव वृक्षव्यवहारकाले उच्चत्वम् अपि निमित्तम् आसीद् इति व्यामुह्य तदोच्चत्वम् अपि वृक्षव्यवहारनिमित्तम् अवकल्पयतीति । स चैवंभूतो जडः शिंशपाव्यवहारयोग्यत्वेन हेतुना प्रथमं प्रवर्तिततन्मात्रनिमित्तवृक्षव्यवहारया तदानीं तथास्मारितया शिंशपया दृष्टान्तेन वृक्षव्यवहारयोग्यतां बोधयितुं शक्यत एव । यः पुनर् आदित एवारोपितोच्चत्वादिनिमित्तस् तं प्रति हेतूपन्यास एव न युज्यते । किं तर्हि? वृक्षव्यवहारसमयम् एवासौ ग्राहयितव्य इति सर्वम् अवदातम् ।
[ध्प्र् प्.108]
ननु त्रिरूपत्वाद् एकम् एव लिङ्गः युक्तं । अथ प्रकारभेदाद् भेदः । एवं सति स्वभावहेतोर् एकस्यानन्तप्रकारत्वात् त्रिरूपम् अयुक्तम् इत्य् आह --
अत्र द्वौ वस्तुसाधनौ एकः प्रतिषेधहेतुः इइ-18
अत्र द्वौ इति । अत्र इत्य् एषु त्रिषु मध्ये द्वौ हेतू वस्तुसाधनौ -- विधेः साधनौ गमकौ । एकः प्रतिषेध स्य हेतु गमकः । प्रतिषेध इति च अभावो ऽभवव्यवहारश् च उक्तो द्रष्टव्यः ।
इदानीं कार्यहेतुं विवरीतुम् आह -- कार्यम् इति । हेतोः प्रकृतत्वात् कार्यम् इति कार्यहेतुम् इत्य् अवसेयं सुखप्रतिपत्त्य् अर्थम् ।
साध्यादिस्वरूपम् आह वह्निर् इति । एतद् अपि हेतोर् अर्थकथनम् । न तु प्रयोगप्रदर्शनम् । व्याप्तेर् दर्शयितव्याया अप्रदर्शनात् । अनिर्देश्यायाश् च प्रतिज्ञाया निर्देशात् । व्याप्तिवेदिन्य् अपि पुंसि हेतुर् अनुवाद्येनैव रूपेण निर्दिश्यमान प्रथमान्त एव निर्देश्यः अत्र धूम इति । न तु धूमाद् इति । न च तथाविधं प्रत्य् अपि प्रतिज्ञा अन्यथा क एनाम् असाधनाङ्ग ब्रूयात् । साधनाङ्गत्वे च शतमुखी बाधा वादन्याय स्यापद्येत ।
ईदृशस् तु प्रयोगः करणीयः -- यत्र धूमस् तत्र सर्वत्र वह्निर् यथा महानसे, धूमश् चात्रेति । स्वभावानुपलब्ध्योर् इव कार्यहेतोर् अपि कस्माल् लक्षणम् आचार्येण न प्रणीतम् इत्य् आशङ्काम् अपाकुर्वन्न् आह -- कार्ये ति । लोके व्यवहर्त्तरि जने । प्रतीतः प्रसिद्धः । इति र् हेतौ । नोक्तम् आचर्येणे ति शेषः ।
अयम् अभिप्रायः अनुपलब्धौ खलु बहवो विप्रतिपन्नाः । उपलब्ध्यभावमात्रम् अनुपलब्धिम् ईश्वरसेनो मन्यते । कुमारिलस् तु वस्त्वन्तरस्यैकज्ञानसंसर्गिताम् अनपेक्ष्यैवान्यमात्रस्य ज्ञानम् अनुपलब्धिम् अभावप्रमाणतया वर्णयति । तथा, विवक्षितज्ञानानाधारतालक्षणम् आत्मनो ऽपरिणामं स्वापादिसाधारणम् [44ब्] अपि तथात्वेन वर्णयति । यद् आह -- "सात्मनो ऽपरिणामो वा विज्ञानं वान्यवस्तुनि" इति ।[46]
__________नोतेस्__________
[46] श्व् अभावपरिच्छेद 11च्द्सात्मनः परिणामो वा विज्ञानं वाक्यवस्तुनि ।

तथा स्वभावे ऽपि हेतौ बहवो विप्रतिपेदिरे । केचिद् अर्थान्तरापेक्षिण्य् अपि धर्मे स्वभावं हेतुम् अध्यवसिताः । केचित् तु वस्तुनो धर्मिविशेषम् आश्रितं स्वभावम् इति ।
तद्विप्रतिपत्तिनिराकरणार्थं तयोर् लक्षणम् आख्यातम् । अत्र तु कार्यत्वरूपे न केचिद् विप्रतिपद्यन्त इति नास्य लक्षणाम् उक्तम् इति । कार्यकारणभावेन गम्यगमकभावे सर्वथा गम्यगमकभावप्रसङ्ग इत्यादिकायां विप्रतिपत्ताव् अपि न कार्यस्य लक्षणे विप्र्तिपत्ति । किन् तर्हि? तस्य गमकत्वे । सा चान्यत्र निराकृता ऽत्रापि प्राज्ञैः स्वयम् अभ्यूह्या प्राज्ञजनाधिकारेणास्य प्रारम्भाद् इति ॥
सम्प्रति त्रिरूपाणि च त्रीण्य् एवेत्य् असहमानः प्राह -- नन्व् इति । ननु प्रश्नः । अथ शब्दो यदि शब्दस्यार्थे । प्रकारस्य स्वरूपस्य भेदाद् विशेषात् भेदो नानात्वम् । एवम् अभ्युपगमे सति । एकस्ये ति अभिन्नस्य । अभिन्नत्वञ् चास्वभावहेतुत्वव्यावृत्तेः सर्वत्र भावात् । [ध्प्र् प्.109]
तद् अयम् अर्थः -- हेतुः साध्यसिद्द्यर्थत्वात् साध्याङ्गम्, साध्यं प्रधानम् । अतश् च साध्योपकरणस्य हेतुः प्रधानसाध्यभेदाद् भेदः, न स्वरूपभेदात् । साध्यश् च कश्चिद् विधिः, कश्चित् प्रतिशेधः । विधिप्रतिषेधयोश् च परस्परपरिहारेण अवस्थानात् हेयोर् हेतू भिन्नौ । विधिर् अपि कश्चिद् धेतोर् भिन्नः, कश्चिद् अभिन्नः । भेदाभेदयोर् अप्य् अन्योन्यत्यागेनात्मस्थितेर् भिन्नौ हेतू । ततः साध्यस्य परस्परविरोधात् हेतवो भिन्नाः, न तु स्वत एवेति ॥
कस्मात् पुनस् त्रयाणाम् हेतुत्वम्, कस्मात् च अन्येषाम् हेतुत्वम् इत्य् आशङ्क्य यथा त्रयाणाम् एव हेतुत्वम् अन्येषां च अहेतुत्वं तद् उभयं दर्शयितुम् आह --
स्वभावप्रतिबन्धे हि सत्य् अर्थो अर्थं गमयेत् इइ-19
अनन्तप्रकारत्वाद् इति ब्रुवतो ऽयं भावः -- सविशेषणनिर्विशेषणव्यतिरिक्ताव्यतिरिक्तविशेषणत्वादिभेदेनानन्तस्वभावत्वाद् इति । गमकाव् इति विवृण्वन् साधयत इति साधनाव् इति कर्तरि ल्युटं दर्शयति । अत्र च वस्तुनः साधनाव् एवेत्य् अवधारणीयं न तु वस्तुन एवेति । इतरव्यवच्छेदस्यापि ताभ्यां साधनात् । प्रतिपत्त्रध्यवसायानुरोधात् तु विधिसाधनत्वम् अनयोर् उच्यते । प्रतिषेधस्य हेतुर् एवेत्य् अवधारणीयं न त्व् अयम् एवेति पूर्वाभ्याम् अपि सामर्थ्यात् प्रतिषेधस्य साधनात् ।
ननु न दृश्यानुपलम्भेनाभावः साध्यते तस्य प्रत्यक्षसिद्धत्वात् । किन् तु व्यवहारः । तत् कथं प्रतिषेधो ऽनुपलम्भसाध्यः । अथाभावव्यवहारः प्रतिषेध उच्यते । तर्हि व्यापकानुपलम्भादिना व्याप्याद्यभावे साध्ये केनाभावः साधितः । ततः किम् अत्र प्रतिषेधशब्देन प्रतिपत्तव्यम् इत्य् आशङ्क्याह प्रतिषेध इति । इति ः प्रतिषेधशब्दं प्रत्यवमृशति ।
तेन प्रतिषेध इत्य् अनेन शब्देन् आभावो ऽभावव्यवहारश् चोक्तो द्रष्टव्य इत्य् अर्थः । एकस्य प्रतिषेधेन इति मुख्यया वृत्त्या सङ्ग्रहो ऽन्यस्य प्रतिषेधाश्रयतया गौण्या वृत्त्येति भावः । नास्तीति ज्ञानं नास्तीत्यभिधानं निःशङ्कात्र गमनागमनलक्षणा प्रवृत्तिर् व्यवहारः । स च हठात् प्रवर्त्तयितुं न शक्यत इति तद्योग्यतैव साध्येति द्रष्टव्यम् । एवं तु स्वभावहेताव् अन्तर्भावे ऽप्य् अनुपलम्भस्य ततः पृथक्करणं प्रतिपत्त्रध्यवसायवशाद् इत्य् अवसेयम् ।
ननु विधिप्रतिषेधसाधनत्वे ऽप्य् अमीषां त्रिरूपत्वम् अविशेष्टम् । तत्त्वाद् एव चाधेदश् चोदितः । तत् कथम् इदम् उत्तरं पूर्वपक्षम् इति वर्त्तताम् इत्य् आशङ्क्याह -- तद् अयम् इति । यस्माद् इदम् उत्तरीकृतम् आचार्येण यथाश्रुति च पूर्वपक्षं नातिक्रामति तत् तस्माद् अयम् अर्थो वाक्यस्यायं तात्पर्यार्थ् इत्य् अर्थः । एतम् एवार्थं हेतुर् इत्यादिना न तु स्वत एवे त्य् अन्तेन ग्रन्थे प्रतिपादयति ॥
अथ कथम् अन्यो ऽर्थो ऽन्यम् अर्थं न व्यभिचरति येनैते त्रयो हेतवः? य[45अ]था चामीषां स्वसाध्यसाधनाद् गमकत्वं तथा ऽन्येषाम् अप्य् अकार्यस्वभावानुपलम्भात्मनां किं न भवतीति मन्वानः प्रश्नेनोपक्रमते -- कस्माद् इति । कस्माद् इति सामान्यतो हेतुं पृच्छति पुनर् इति विशेषतः । त्रयाणाम् अनुपलब्ध्यादीनाम् । च ः पूर्वनिमित्तापेक्षया निमित्तान्तरसमुच्चयार्थः । अन्येषाम् अनीदृशात्मनां संयोग्यादीनाम् ।
[ध्प्र् प्.110]
स्वभावप्रतिबन्ध इत्य् । स्वभावेन प्रतिबन्धः । "साधनं कृता" [व्या-महा- 2.1.33.] इति समासः । स्वभावप्रतिबद्धत्वं प्रतिबद्धस्वभावम् इत्य् अर्थः । कारणे स्वभावे वा साध्ये स्वभावेन प्रतिबन्धः कार्यस्वभावयोर् अविशिष्ट इत्य् एकेन समासेन द्वयोर् अपि संग्रहः । हि र् यस्मादर्थे । यस्मात् स्वभावप्रतिबन्धे सति साधन् आर्थः साध्य् आर्थं गमयेत् तस्मात् त्रयाणां गमकत्वम् अन्येषाम् अगमकत्वम् ।
कस्मात् पुनः स्वभवप्रतिबन्ध एव सति गम्यगमकभावो न अन्यथेत्य् आह --
तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात् इइ-20
तदप्रतिबद्धस्ये त्य् । तद् इति स्वभाव उक्तः । तेन स्वभावेन अप्रतिबद्धः -- तदप्त्रतिबद्धः । यो यत्र स्वभावेन न प्रतिबद्धः तस्य तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात् । तस्याप्रतिभन्दविषयस्याव्यभिचारः तदव्यभिचारः तस्य नियमः तदव्यभिचारनियमः तस्याभावात् ।
तद् अयम् अर्थः -- न हि यो यत्र स्वभावेन न प्रतिबद्धः, स तम् अप्रतिबन्धविषयम् अवश्यम् एव न व्यभिचारतीति नास्ति तयोर् अव्यभिचारनियमः -- अविनाभावनियमः । अव्यभिचार--
स्वभावेन स्वरूपेण । "साधनं कृता" [व्या-महा-2.1.33.] इति पाणिनीयभाष्यकारस्ये दं सूत्रम् । तेन "कर्त्तृकरणे कृता बहुलम्" [पाणिनि 2.1.32] इति सूत्रम् अपनीय गलेचोपक इत्यादिसिद्ध्य् अर्थ "साधनं कृता" इति सूत्रं कृतम् । वार्त्तिकसूत्रिकाणां तु "तृतीया" [पाणिनि 2.1.30] इति योगविभागात् समासो ऽवसेयः । अनेन च तृतीयासमासेनैव कार्यस्वभावयोः संग्रहाद् आवृत्त्या षाष्ठीसप्तमीसमासाभ्यां कार्यस्वभावयोः संग्रह इति यत् पूर्वैर् व्याख्यातं तद् अपव्याख्यानम् इति ख्यापितम् ।
समस् तस्य पदस्यार्थम् आह-- स्वभावे ति । अनेन प्रतिबन्धशब्देन प्रतिबद्धत्वम् आयत्तत्वम् उच्यत इति दर्शयति । अस्यैवार्थं स्पष्टयति । प्रतिबद्धे ति यः स्वरूपेण क्वचिद् आयत्तस् तस् तस्य स्वभास् तत्र प्रतिबद्ध आयत्त इत्य् अर्थाभेदेन प्रतिबद्धस्वभावत्वम् इत्य् अर्थ इति स्पष्टीकृतम् ।
ननु पूर्वेषाम् अभिमतसमासव्युदासेन तृतीयासमासं दर्शयता किं स्विद् अति यो लब्धः? केवलम् आहोपुरुषिका प्रकाशितेत्य् आशङ्क्य पूर्वं बुद्धिस्थम् एव स्फुटयितुम् आह -- कारण इति । कस्यासौ
[ध्प्र् प्.111]
नियमाच् च गम्यगमकभावः । न हि योग्यतया प्रदीपवत् परोक्षार्थप्रतिपत्तिनिमित्तम् इष्टं लिङ्गम् अपि त्व् अव्यभिचारित्वेन निश्चितम् । ततः स्वभावप्रतिबन्धे सत्य् अविनाभावित्वनिश्चयः, ततो गम्यगमकभावः । तस्मात् स्वभावप्रतिबन्धे सत्य् अर्थो ऽर्थं गमयेन् नान्यथेत्य् स्थितम् ।

ननु च परायत्तस्य प्रतिबन्धो ऽपरायत्ते । तद् इह साध्यसाधनयोः कस्य क्व प्रतिबन्ध इत्य् आह --
स च प्रतिबन्धः साध्ये अर्थे लिङ्गस्य इइ-21
प्रतिबन्ध इत्य् अकाङ्क्षायाम् आह -- कार्यस्वभावयोस् तयोर् एव प्रकृतत्वात् । अविशिष्टः साधारणः । द्वयोर् अपि कार्यस्वभावयोर् अतिशये सङ्ग्रहः स्वीकारः । अयम् एवातिशय इति भावः । साधनलक्षाणो ऽर्थः साध्यलक्षणम् अर्थं गमयेत् बोधयतुं शक्नोति । यत एवं तस्माद् अन्येसां तद्व्यतिरिक्तानाम् ।तेषां स्वभावप्रतिबन्धाभावात् । तदभावश् च तादात्म्यतदुत्पत्त्यभावात् । तदन्यस्य च सम्बन्धस्याभावात् । तादात्म्यतदुत्पत्तिभावे च कार्यस्वभावयोर् एवान्तर्भाव इति भावः ॥
तद् इत्यादिना समासं प्रदर्श्य तदप्रतिबद्धस्ये ति योजयता धर्मोत्तरेण मूले तदपतिबद्धस्ये ति पाठो दर्शितः । दृश्यते च बहुशस् तदप्रतिबद्ध स्वभाव स्ये ति पाठः । तत्रापि पाठे तदप्रतिबद्धः साध्याप्र्तिबद्धः स्वभावः स्वरूपं यस्य लिङ्गस्येति विग्रहः कार्यः । प्रतिबन्धः प्रतिबद्धत्वम् आयत्तत्वं यत्साधनस्य, तस्य विषयो ऽव्यभिचारस् तेन विना ऽभवितृत्वम् । तस्य नियमो ऽवस्य(श्य)न्ता ।
ननु तद् अप्रतिबद्धत्वे ऽपि अद्यतन आदित्योदयो ऽस्तमयम् अप्रतिबन्धविषयं न व्यभिचरतीत्य् आशङ्क्याह -- तद् अयम् अर्थम् इति । यत एवं उक्तम् तत् तस्माद् अयं तात्पर्यार्थः । आदित्योदयो ऽपि हि भविष्यति । न च तदहरस्तमयः, महर्षिणा ऽन्येन वा महर्धिना केनचित् तस्यास्तमयविबन्धसम्भवात् । तस्माद् आदित्यस्य तस्माद् अस्तमययोग्यतैव साध्या -- अयम् आदित्योदयो ऽस्तमययोग्य उदयत्वात् । श्वस्तनोदयवद् इति । सति चैवं स्वभावहेतुत्वम् अस्यायातम् इति भावः ।
ननु चाव्यभिचारमात्रेण प्रयोजनम्, तत् किं नियमेनेत्य् आह । अव्यभिचारे ति । चो ऽवधारणे हेतौ वा । एतद् एव कुत इत्य् आह -- न ही ति । [45ब्] हि र् यस्मात् । प्रदीपो वैधर्म्यदृष्टान्तः । अपि तु किन् त्व् व्यभिचारित्वेन साध्यस्य प्रकृतत्वात् साध्याविनाभावित्वेन निश्चितम् । नियमाभावे च कुतो ऽव्यभिचारनिश्चय इत्य् अस्य तात्पर्यार्थः । निश्चीयतां तद् अव्यभिचारो ऽन्येषाम् अपि, प्रतिबन्धस् तु कस्मान् मृग्यत इत्य् आह -- तत इति । यतो ऽवश्यम् अव्यभिचारो निश्चेतव्यस् ततस् तस्मात् । अन्यथा ऽव्यभिचार एव न शक्यते निश्चेतुम् इत्य् अर्थाद् अनेन दर्शितम् । एतावता ऽपि कथं गमकत्वं इत्य् आह -- तत इति ततो निश्चिताद् अव्यभिचाराल् लिङ्गस्य गमकत्वे सिद्धे साध्यस्यापि गमक(गम्य)त्वं सिद्ध्यतीति द्वयोर् उपन्यासः । उक्तम् अर्थम् उपसंहरन्न् आह -- तस्माद् इति । अर्थो लिङ्गलक्षणः, अर्थं लिङ्गलक्षणम् ॥
तत् तस्माद् इहा नुमानानुमेयचिन्तायां स्वभावप्रतिबन्धचिन्तायां वा ।
[ध्प्र् प्.112]
स चे ति । स च स्वभाव प्रतिबन्धो लिङ्गस्य साध्ये ऽर्थे । लिङ्गं परायत्तत्वात् प्रतिबद्धम् । साध्यस् त्व् अर्थो ऽपरायत्तत्वात् प्रतिबन्धविषयो न तु प्रतिबद्ध इत्य् अर्थः । तत्रायम् अर्थः -- तादात्म्याविशेषे ऽपि यत् प्रतिबद्धं तद् गमकम् । यत् प्रतिबन्धविषयः तद् गम्यम् । यस्य च धर्मस्य यो नियतः स्वभावः स तत्प्रतिबद्दः । यथा प्रयत्नानन्तरीयकत्वाख्यो ऽनित्यत्वे । यस्य तु स चान्यश् च स्वभावः च प्रतिबन्धविषयः, न तु प्रतिबद्धः । यथानित्यत्वाख्यः प्रयत्नानतरीयकत्वाख्ये । निश्चयापेक्षो हि गम्यगमकभावः । प्रयत्नान्तरीयकत्वम् एव चानित्यत्वस्वभावं निश्चितम् । अतस् तद् एव अनित्यत्वे प्रतिबद्धम् । तस्मान् नियतविषय एव गम्यगमकभावः नान्यथेति ।
ननु भिन्नयोर् गम्यगमकभावे लिङ्गं तदुत्पत्त्या परायत्तत्वात् प्रतिबद्धम् । साध्यस् त्व् अपरायत्तत्वात् प्रतिबन्धविषयः । तदाश्रयश् च साध्यसाधनभावनियमः स्यात् । स्वभावयोस् तु तद्भावे हेतोस् तादात्म्यप्रतिबद्धत्वम् । तादात्म्यं चोभयोर् अविशिष्टम् । ततः प्रतिबद्धत्वं प्रतिबन्धविषयत्वं वा द्वयोर् अविशिष्टम् आयाति । तदाश्रयश् च नियतः साध्यसाधनभावः प्रसक्त इत्य् आह -- तत्रायम् अर्थ इति । न केवलम् अर्थान्तरत्व इत्य् अपि शब्दः । यत् प्रतिबद्धम् इति यत् साध्यप्रतिबद्धतया तदायत्ततया निश्चितम् इति द्रष्टव्यम् । प्रतिबन्धविषयो ऽपि तत्त्वेन निश्चितो द्रष्टव्यः ।
ननु तादात्म्याविशेषाद् एकस् तत्र प्रतिबन्धविषयतया न तु प्रतिबद्धतयेत्य् अयम् एव विभागः कुत इत्य् आह -- यस्ये ति । यद् वा तादात्म्यानुभाविनि द्वये किन् तत्र प्रतिबद्धं यद् गमकं किञ् च प्रतिबन्धविषयो यद् गम्यम् इत्य् अजानन्तम् प्रत्य् आह -- य्स्ये ति । चो हेतौ द्वितीयपक्षे ऽवधारणे । यस्य धर्मस्य व्यावृत्तिकल्पितस्य यो नियतः प्रतिनियतः स एव स्वभावो न तद् अन्यो ऽपि । स इति यस्ये ति षष्ठ्यन्तेनोक्तः परामृष्टः । तद् इति य इति प्रथमान्तेनोक्तः प्रत्यवमृष्टस् तस्मिन् प्रतिबद्ध इति विग्रहः । निश्चीयत इति शेषः । प्रकरणलभ्यं वा । कः पुनरीदृश इत्य् आह -- यथे ति । प्रय्त्नः पुरुषव्यापारस् तस्य् आनन्तरम् अव्यवधानम् । तत्र भव इति दिगादित्वाद् यत् । ततः स्वार्थे कन् । तस्य भावस्तत्त्वम् । तदाख्या नाम यस्य स तथा । प्रयत्नानन्तर्यकत्वस्य ह्य् अनित्यत्वम् एव स्वभावो न तु नित्यत्वम् अपि । ततो ऽनित्यत्वे प्रतिबद्धं निश्चीयते ।
ईदृशस्य तावद् इयं गतिर् अन्यस्य तु का वार्त्तेत्याह -- यस्ये ति । धर्मस्ये त्य् अनुवृत्तेर् यस्ये ति धर्मस्य । तु र् विशिष्टं धर्मं दर्शयति । स च सो ऽपि प्रयत्नानन्तर्याख्यो ऽन्यश् च सश् च(चा)प्रयत्नानन्तरीयको वनकुसुमादिर् अपि । स प्रतिबध स्य साधनगतप्रतिबद्धत्वस्य विषयो गोचरः । एतद् एव व्यतिरेकमुखेण द्रढयति -- न त्व् इति । पुनर् अर्थे तु शब्दः । को ऽसाव् ईदृश इत्य् आह -- यथे ति । अनित्यत्वाख्यः प्रयत्नानन्तर्यत्वाख्येन प्रतिबद्ध इति योज्यम् । एवञ् चार्थात् प्रतिबन्धविषये चेत्य् अव[46अ]तिष्ठते । एतच् चानित्यत्वस्य तद् असत्स्वभावत्वेनानियतस्वभात्वम् अनित्यत्वसामान्याभिप्रायेणोक्तम् । अन्यथा घटादिगतानित्यत्वस्य प्रयत्नानन्तरीयकत्वम् अन्तरेण कुतो ऽवस्थानम् । येनान्यस्वभातया ऽस्यानियतत्वं स्याद् इति ।
[ध्प्र् प्.113]
कस्मात् पुनः स्वभावप्रतिबन्धो लिङ्गस्येत्य् आह --
वस्तुतस् तादात्म्यात् तदुत्पत्तेश् च इइ-22
वस्तुत इत्यादि । स साध्यो ऽर्थ आत्मा स्वभावो यस्य तत् तदात्मा । तस्य भावस् तादात्म्यम् । तस्मात् हेतोः । यतः साध्यस्वभावं साधनं तस्मात् तत्र स्वभावप्रतिबन्ध इत्य् अर्थः ।

यदि साध्यस्वभावं साधनं साध्यसाधनयोर् अभेदात् प्रतिज्ञार्थैकदेशो हेतुः स्याद् इत्य् आह -- वस्तुत इति । परमार्थसत्ता रूपेणाभेदस् तयोः । विकल्पविषयस् तु यत् समारोपितं रूपम् । तदपेक्षः साध्यसाधनभेदः । निश्चयापेक्ष एव हि गम्यगमकभावः । ततो निश्चयारुद्धरुपापेक्ष एव तयोर् भेदओ युक्तः वास्तवस् त्व् अभेद इति । न केवलात् तादात्म्याद् अपि तु ततः साध्याद् अर्थाद् उत्पत्तिर् लिङ्गस्य -- तदुत्पत्तेश् च साध्ये ऽर्थे स्वभावप्रतिबन्धो लिङ्गस्य ।
स्याद् एतत् तादात्म्यं तावत् तयोर् अस्ति । तत् किं प्रतिबद्धत्वप्र्तिबन्धविषयत्वनिश्चयेन गम्यगमकत्वव्यवस्थानिबन्धनीकृतेनेत्य् आह -- निश्चये ति । ही ति यस्मात् । तद् अपेक्षायाम् अपि किम् इति प्रयत्नानन्तरीयकत्वम् एव गमकम् इत्य् आह -- प्रयत्ने ति । चो यस्मादर्थे । यतस् तत्स्वभावं निशितम् अतो ऽस्तो ऽस्मात् तद् एवाव्नित्यत्वे प्रतिबद्धम् उच्यत इति शेषः । यतस् तादात्म्याविशेषे ऽपि यत्पतिब्द्धतया निश्चितं तद् एव गमकम् इतरद् गम्यं तस्मान् नियतः पतिनियतः प्रयत्नान्तरीयकम् एव गमकम्, अनित्यत्व च गम्यम् एवेत्य् एवंरूपो विषयो यस्य गम्यगमकभावस्य स तथा । एतद् एव व्यतिरेकमुखेन द्रढयति नान्यथे ति ॥

ननु च य एकस्यान्यत्र प्रतिबन्धस् तदायत्तत्वं स तावन् नाहेतुकः । कश् चासौ हेतुर् इत्य् अभिप्रेत्य प्रश्नयति -- कस्माद् इति । निमित्तप्रश्नश् चैषः । तादात्म्याद् इति मौलम् उत्तर व्याख्यातुम् आह -- यत इति । तत्र साध्ये स्वभावेन प्रतिबन्धः प्रतिबद्धत्वं लिङ्गस्येति शेषः ।
प्रतिज्ञा साध्यनिर्देशः । तस्या अर्थो धर्मधर्मिसमुदायः । अत्र च साध्यसाधनयोर् ऐकात्म्यस्य प्रतुतत्वात् साध्यलक्षणस्य प्रतिज्ञार्थस्य हेतुवमासक्तम् । ततश् च साध्यधर्मवत्साधनधर्मस्याप्य् असिद्धिः । सिद्धौ वा हेतुवैयर्थ्यम् इति भावः । यदि परमार्थतो ऽभेदः, कथं तर्हि भेदनिबन्धनो गम्यगमकभाव इत्य् आह -- विकल्पे ति । तु ः पारमार्थिकाद् अभेदाद् वैधर्म्यम् आह । को ऽसौ विकल्पविषयः? यदि बाह्यस् तदा तदवस्थो दोष इत्य् आह -- यद् इति । तम् अपेक्षत
[ध्प्र् प्.114]
कस्मान् निमित्तद्वयात् स्वभावप्रतिबन्धो लिङ्गस्य नान्यस्माद् इत्य् आह --
अतत्स्वभावस्य अतदुत्पत्तेश् च तत्र अप्रतिबद्धस्वभावत्वात् इइ-23
अतत्स्वभावस्ये ति । स स्वभावो अस्य सो ऽयं तत्स्वभावः । न तत्स्वभावो ऽतत्स्वभावः । तस्माद् उत्पत्तेर् अस्य सो ऽयम् तदुत्पत्तिः । यो यत्स्वभावो यदुत्पत्तिश् च न भवति तस्य अतत्स्वभावस्यातदुत्पत्तेश् च । तत्र अतत्स्वभावे अनुत्पादके चाप्रतिबद्दः स्वभावो ऽस्येति सो ऽयम् अप्रतिबद्धस्वभावः । तस्य भावो अप्रतिबद्धस्वभावत्वं । तस्माद् अप्रतिबद्धस्वभावत्वात् । यद्य् अतत्स्वभावे ऽनुत्पादके च कश्चित् प्रतिबद्धस्वभावो भवेद्, भवेद् अन्यतो ऽपि निमित्तात् स्वभावप्रतिबन्धः । प्रतिबद्धस्वभावत्वं हि स्वभावप्रतिबन्धः । न चान्यः कश्चिद् आयत्तस्वभावः । तस्मात् तादात्म्यतदुत्पत्तिभ्याम् एव स्वभावप्रतिबन्धः ।
इति तदपेक्षः । इदं साधनम् इदं साध्यम् इति साध्यसाधनरूपो भेदो नानात्वम् इत्य् अर्थः । यदि नाम कल्पनानिर्मितो भेदस् तथापि कथं गम्यगमकभाव इत्य् आह -- निश्चये ति । हि र् यस्मात् । निश्चयापेक्ष इति निश्चयविषयीकृतरूपापेक्ष इत्य् अर्थः । यत एवं ततस् तस्यात् तयोः साध्यसाधनयोर् भेदो नानात्वं युक्त्या सङ्गतो युक्तः । वस्तुनो ऽकृत्रिमाद् रूपाद् आगतो वास्तवः ।
स्यान् मतम् -- भेदेन कल्पितयोर् न तादात्म्यं गम्यगमकभावनिबन्धनम् अस्ति । वास्तवेन च रूपेणैकत्वान् न गम्यगमकभाव इति कथं स्वभावहेतोर् गमकत्वम्? नाहेतुत्वम् । यद् दर्शनद्वारायाताव् एतौ धर्मौ तथाप्रतीयमानौ तत् तावत् परमार्थतस् तदात्मकम् इत्य् एकस्य धर्मस्य धर्मान्तराव्यभिचारः । वास्तवं तदात्म्यगतं च यस्य गमकत्वं स स्वभावहेतुर् उच्यत इति को विरोधः?
अयं प्रकरणार्थः -- न निश्चयस्थे समारोपिते रूपे समारोपितत्वेनाध्यवसीयमाने गम्यगमके किन् तु स्वलक्षणत्वेनाध्यवसीयमाने । तत्र तादात्म्यम् अस्ति । एतद् उक्तं भवति -- आरोप्यमाणं रूपमारोपितभेद[46ब्]म् । आरोपितसदृशं च स्वलक्षणम् । तेनारोपितेन रूपेणानुगम्यमानं भिन्नम् अध्यवसीयते । तद् अवध्यवसितभेदनिबन्धनो गम्यगमकभावस् तस्य स्वतश् च तादात्म्यम् इति
द्वितीयं प्रतिबन्धकारणं व्याख्यातुम् आह -- न केवलाद् इति । च ः साधारणं निमित्तं समुच्चनोति ॥
ननु च समवायादितो ऽपि निमित्तात् प्रतिबन्धो नासम्भवी । तत् कथं तादात्म्यात् तदुत्पत्तेर् एव च स उच्यते इत्य् अभिप्रायवान् पृच्छति -- कस्माद् इति । अन्यनिमित्तस्यानभिधानान् निमित्तद्वयाद् इत्य् आह ।
अतत्स्वभास्ये त्यादि ब्रुवतश्चाचार्यस्यायमाशयः -- भवेदेवान्यतः सम्बन्धात् प्रतिबन्धो
[ध्प्र् प्.115]
यदि समवायादिर् अन्यः सम्बन्धः प्रमाणबाधितो न भवेत् । न चासौ न बाध्यते । तत् कुतो ऽसाव् असन्न् अस्य निमित्तं भवेति ।
समुदायार्थं व्याचष्टे -- यो यत्स्वभाव इति । अप्रतिबद्धस्वभावत्वाद् इति मूलस्य भावप्रत्ययं त्यक्त्वा विग्रहम् आह -- अप्रतिबद्ध इति । तस्य भावस् तत्त्वम् । तस्माद् इति तु योज्यम् । अमुम् एवार्थं यदी त्यादिना स्फुटयति । कस्मात् पुनर् अन्यतो निमित्तान् न भवतीय् आह -- प्रतिबद्धे ति । हि र् यस्मात् । प्रतिबद्धस्वभावत्वम् एवान्यस्यान्यत्र भ्वविष्यतीय् आह -- न चे ति । चो ऽवधारणे हेतौ वा । अन्यस्य सम्बन्धस्याभावात् तादात्म्यतदुत्पत्त्यभावे चेति प्रकरणलभ्यं कृत्वा न चान्यः क्श्चिद् आयत्तस्वभाव इत्य् उक्तम् ।
ननु चासत्य् अपि तादात्म्ये तदुत्पत्तौ चान्यत्रास्वभावे ऽनुत्पादके चान्यत् प्रतिबद्धं यथा -- आतपो वृक्षच्छायायाम् । तुलाया अर्वाग्भागनमनावनमने परभागोन्नमनावनमनयोः । अर्वाग्भागः परभागे । रसो रूपे । पाणिः पादयोः । अपतज्जलम् आधारे । बलाका सलिले । नदीपूर उपरिवृत्तायां वृष्टौ । चन्द्रोदयः समुद्रवृद्धौ कुमुदविकासे च । कृत्तिकोदयो रोहिण्युदये । पिपिलिकोत्सरणं मत्स्यविकारश् च वृष्टौ । शरदि जलप्रसादो ऽगस्त्योदये । विशिष्तो मेघो[द]यो वर्षकर्मणि । अद्यादित्योदयो ऽस्तमये श्वस्तनोदये च । कुष्माण्डगुडको ऽन्तः स्थितबीजे । परिव्राजको दण्डे । सन्त्रस्तो नकुलः सर्पे । कियद् वा शक्यते निदर्शयितुम्? एतावत् तूच्यते -- यद् येनाविनाभूतं दृश्यते तत् तत्र प्रतिबद्धम् । तस्य च लिङ्गम् । अत एव त्रीण्य् एव लिङ्गानीति संख्यानियमो ऽप्य् अयुक्तः । केवलं लिङ्गस्य रूपाण्य् एव वक्तव्यानि । यद् दर्शनात् हेतुत्वम् असीयत इति ।

नैष दोषः । अमीषां मध्ये येषां प्रतिबन्धो ऽस्ति तेषां तादात्म्यतदुत्पत्त्योर् अन्यतरम् सम्भवाद्, येषु च तद् अभावस् तेषाम् अप्रतिबन्धाद् अगमकत्वात् । तथा हि वृक्षस्य छायायाम् एकसामग्र्यधीनतयैव प्रतिबन्धः । ततस् तत्प्रतिपत्तिः कार्यलिङ्गजैव । छाया हि प्रतिभासमानरूपसंस्थानवती शैत्याद्यर्थक्रियाकारिणी वस्त्व् एव, न त्व् एवालोकाभावः । सा च पूर्वस्माद् आलोलोपादानात् पूर्ववृक्षक्षणाद् वृक्षक्षणेन सार्धम् उत्पद्यते । तथा ऽर्वाग्भागनमनावनमने अपि तुलायाः परभागोन्नमनावनमनाभ्याम् एव समं पुरुषप्रयत्नाद् एव तथाविधात् तदुपादानसह[47अ]कारिण उत्पद्येते । तथा ऽर्वाग्भागपरभागयोर् असरूपयोर् अप्य् एकसामग्र्यधीनतैव । पाणिस् त्व् अप्रतिबद्ध एव, व्यङ्गस्यापि सम्भवात् । अव्यभिचारे चैकसंसर्गाधीनतैव निबन्धनम् । तादृशं च जलमाधारस्य कार्यम् एव, तादृशी च बलाका सलिकस्य । नदीपूरो ऽपि तथाविध उपरिवृष्टेः । दृश्यादृश्यसमुदायश् च यथायोगं सर्वत्र धर्मी कर्त्तव्यः । नदीपूरे चान्यो ऽपि प्रकारो वक्तुं शक्यः । नदी धर्मिणी । उपरिवृष्टिमद् देशसंबन्धित्वम् अस्याः साध्यम् । तथाविधपूरत्वमात्रं हेतुः । एवं चन्द्रोदयसमुद्रवृद्धिकुमुदविकाशा(सा)नाम् अप्य् एकसामग्र्यधीनतैव । एकस्माद् एव महाभूतविशेषात् कालव्यवहारविषयाद् एतद् उत्पादापेक्षिणस् तेषाम् उत्पादात् । तथा य एव कृत्तिकोदयहेतुर् महाभूतविशेषः कालसंज्ञितः स एव कतिपयकालव्यवधानेन रोहिण्युदयहेतुर् इति तद् दर्शनाद् हेतोस् तज्जननयोग्यताधर्मो ऽनुमीयते एव । तथा पिपीलिकोत्सरणस्य मत्स्यविकारस्य च यो हेतुः स एव कतिपयकालव्यवधानेन वर्षकरणयोग्यस् ततः पूर्ववद् हेतुधर्मानुमानम्, रूपरसयोर् इवैकसामग्र्यधीनतयैव वा तत् समकालिकवर्षणानुमानम् । तदा त्व् अश्रवणीयबहिःस्थितशब्दगर्भगृहादिव्यवस्थितो ऽनुमाता प्रत्येतव्यः । तथा शरदादिजलप्रसादो ऽगस्त्योदयस्य कार्यम् एव । अथ जलप्रसादं दृष्ट्वोदेष्यतीत्य् अनुमीयते, तदा तस्माद् एव महाभूतात् कालसंज्ञिताज् जलप्रसादः । स
[ध्प्र् प्.116]
भवतु नाम तादात्म्यतदुत्पत्तिभ्याम् एव स्वभावप्रतिबन्धः । कार्यस्वभावयोर् एव तु गमकत्वं
कथं इत्य् आह --
ते च तादात्म्यतदुपत्ती स्वभावकार्ययोर् एव इति ताभ्याम् एव वस्तुसिद्धिः इइ-24
ते चे ति । इति ः तस्मादर्थे । यस्मात् स्वभावे कार्ये एव च तादात्म्यतदुत्पत्ती स्थिते तन्निबन्धनश् च गम्यगमकभावस् तस्मात् ताभ्याम् एव कार्यस्वभाव्यां वस्तुनो विधेः सिद्धिः ।
अथ प्रतिषेधसिद्धिर् दृश्यानुपलम्भाद् अपि कस्मान् नेष्टेत्य् आह --
प्रतिषेधसिद्धिर् अपि यथोक्ता या एव अनुपलब्धेः इइ-25
प्रतिषेध व्यवहारस्य सिद्धिर् यथोक्ता या दृश्यानुपलब्धिस् तत एव भवति यतस् तस्माद् अन्यतो नोक्ता ।
ततस् तावत् कस्माद् भवतीत्य् आह --
सति वस्तुनि तस्या असम्भवात् इइ-26
सति तस्मिन् प्रतिष्ध्ये वस्तुनि यस्माद् दृश्यानुपलब्धिर् न सम्भवति तस्माद् असम्भवात् ततः प्रतिषेधसिद्धिः ॥
च कतिपयकालव्यवधानेन तदुदयनिमित्तम् इति पूर्ववद् हेतुधर्मानुमानम् । मेघस्यापि तथाविधस्यात्यन्तायोग्यताव्यावृत्त्या वृष्टकरणायोग्यता ऽनुमेया । न तु भाविवर्षव्यभिचारसम्भवात् । सा च स्वभावभूतैवानुमीयत इति तादात्म्यम् एव निबन्धनम् । आदित्योदयस्य तु प्रभावातिशयवता योग्यादिना विबन्धसम्भवात् नास्त्य् एवाविनाभावः । अन्यथाद्य गर्दभदर्शनस्याप्य् अस्तमयश्वस्तनोदययोस् तथात्वं स्यात् । एवं तु युक्तम् -- अयम् उदेता अस्तमयश्वस्तनोदययोग्य इति । तथा चोदयतथाविधयोग्यतयोस् तादात्म्यम् एव निबन्धनम् । कुष्माण्डस्यापि बीजेनैकसामग्र्यधीनतैव । परिव्राजकनकुलौ दण्डसर्पयोर् अप्रतिबद्धाव् एव । अन्यथापि सम्भवात् । कियद् वा शक्यते परिहर्त्तुम्? एतावद् उच्यते -- असति तादाम्ये तदुप्तत्तौ वा कस्यचित् क्वचित् प्रतिबन्धे ताद्रूप्येण च गमकत्वे सर्वं सर्वत्र प्रतिबद्धं तद्गमकं प्रसज्येतेति ॥
कार्यस्वभावयोर् एव तु गमकत्वं कथम् इति ब्रुवतः पूर्वपक्षवादिनो ऽयम् आशयः -- तादात्म्यतदुपत्ती एवान्यस्य भविष्यतः, ततश् च गमकत्वम् इति । कार्यस्वभावयोर् इति द्वयो[र् उ]च्चारणे चायं तस्य भावः -- भवदिभर् एवानुप्ललम्भो ऽनयोर् अन्तर्भावित इति ॥
........................................... नुपलब्धिर् इत्य् उक्ते कुतो ऽस्य पूर्वपक्षस्योत्थानम्? सत्यम् एतत्, केवलं तद् एवा ......................................... म् इत्य् अस्याप्य् अनुपलब्धेः
[ध्प्र् प्.117]
अथ तत एव कस्माद् इत्य् आह --
अन्यथा च अनुपलब्धिलक्षणप्राप्तेषु देशकालस्वभावविप्रकृष्टेष्व् अर्थेष्व् आत्मप्रत्यक्षनिवृत्तेर् अभावनिश्चयाभावात् इइ-27
अन्यथा चे ति । सति वस्तुनि तस्या अदृश्यानुपलब्धेः सम्भवाद् इत्य् अन्यथाशब्दार्थः । एतस्मात् कारणात् नान्यस्या अनुपलब्धेः प्रतिषेधसिद्धिः ।
कुत एतद् -- सत्य् अपि वस्तुनि तस्याः सम्भव इत्य् आह -- अनुपलब्धिलक्षणप्राप्तेष्व् इत्यादि । इह प्रत्ययान्तरसाकल्यात् स्वभावविशेषाच् चोपलब्धिलक्षणप्राप्तो ऽर्थ उक्तः । द्वयोर् एकैकस्याप्य् अभावे ऽनुपलब्धिलक्षणप्राप्तो ऽर्थ उच्यते ।
तद् इह् आनुपलब्धिलक्षणप्राप्तेष्व् इति प्रत्ययान्तरवैकल्यवन्त उक्तः । देशकालस्वभाव विप्रकृष्टेष्व् इति स्वभावविशेषरहिता उक्ताः । देशश् च कालश् च स्वभावश् च तैर् विप्रकृष्टा इति विग्रहः । तेष्व् अभावनिश्चयस्याभावात् । सत्य् अपि वस्तुनि तस्या भाव इष्टः ।
कस्मान् निश्चयाभाव इत्य् आह -- तेषु प्रत्पत्तुर् आत्मनो यत् प्रत्यक्षम् तस्य निवृत्तेः कारणात् निश्चयाभावः । यस्माद् अनुपलब्धिलक्षणप्राप्तेषु आत्मप्रत्यक्षनिवृत्तेर् अभावनिश्चयाभावः, तस्मात् सत्य् अपि वस्तुनि आत्मप्र्त्यक्षनिवृत्तिलक्षणाया अदृश्यानुपलब्धेः सम्भवः । ततो यथोक्ताया एव प्रतिषेधसिद्धिः ।
प्रतिषेधसम्भवाद् इत्य् अभिप्रायेण पूर्वपक्षप्रवृत्तेर् अदोष एषः । प्रतिषेध शब्देन व्यवहारो ऽभिप्रेत इति प्रतिषेधव्यवहार इति विवृतम् । मूले त्व् अपि शब्दः साध्यान्तरसमुच्चये । कासौ यथोक्तेत्य् आह ये ति ।
मूलसामर्थ्यस्थितम् अभिव्यनक्ति तस्माद् अन्यतो ऽदृश्यस्यानुपलब्धेर् नोक्ता प्रतिषेधसिद्धिर् इति प्रकृतेन सम्बन्धः ।

यद्य् अदृश्यानुपलब्धेर् न भवति तदानुपलब्धित्वाविशेषे विवक्षितायापि मा भूद् इत्य् अभिप्रेत्याह ततस् तावद् इति । तस्माद् असम्भवात् कारणात् तत इति तत एव दृश्यानुपलब्धेर् इति विवक्षितम् इतरथा न्यस्यापि प्रतिषेधसिद्धिकथनप्रसङ्गात् ॥
ननु ततो ऽप्य् अस्त्य् अन्यतो ऽपि । कथं पुनस् तत एवे ति नियमो लभ्यते इत्य् अभिप्रायवान् आह अथे ति । अथ शब्दः प्रश्ने । अन्यथा चे त्य् उत्तरं व्याचक्षाण इहैव च्छेदं दर्शयति च शब्दञ् च यस्मादर्थे । दृश्यानुपलब्धेर् उक्तात् प्रकाराद् अदृश्यानुपलब्धेर् अन्यप्रकारत्वम् अन्यथात्वं विवक्षितम् आचार्य स्येति
[ध्प्र् प्.118]
अथेयं दृश्यानुपलब्धिः कस्मान् काले प्रमाणम्, किंस्वभावा, किंव्यापारा चेत्य् आह --
अमूढस्मृतिसंस्कारस्यातीतस्य वर्त्तमानस्य च प्रतिपत्तृप्रत्यक्षस्य निवृत्तिर्[47]अभावव्यवहारप्रवर्त्तनी[48] इइ-28
__________नोतेस्__________
[47] निवृत्तिर् अनुपलब्धिर् च्द्
[48] -हारसाधनी ब्च्द्फेन्
अमूढेत्यादि [49] । प्रतिपत्तुः प्रत्यक्षो घटादिर् अर्थः, तस्य निवृत्तिर् अनुपलब्धिः तदभावस्वभावेति यावत् । अत एवाभावो न साध्यः स्वभावानुपलब्धेः सिद्धत्वात् ।[50]अविद्यमानो ऽपि च[51]घटादिर् एकज्ञानसंसर्गिणि भूतले[52]भासमाने समग्रसामग्रीको ज्ञायमानो दृश्तया[53]सम्भावितत्वात् प्रत्यक्ष उक्तः । अत एकज्ञानसंसर्गी[54]दृश्यमानो ऽर्थस् तज्ज्ञानं च प्रत्यक्षनिवृत्तिर् उच्यते । ततो हि दृश्यमानाद् अर्थात् तद्बुद्धेश् च समग्रदर्शनसामग्रीकत्वेन प्रत्यक्षतया सम्भावितस्य निवृत्तिर् अवसीयते । तस्माद् अर्थज्ञाने एव प्रत्यक्षस्य घटस्याभाव उच्यते । न तु निवृत्तिमात्रम् इहाभावः निवृत्तिमात्राद् दृश्यनिवृत्त्यनिश्चयात् ।
__________नोतेस्__________
[49] अमूढेति अपे अमूढेत्यादि; ओम्. ह्न्.
[50] यथा च प्रतिपत्तृप्रत्यक्षनिवृत्त्र् अनुपलब्धिः प्रदेशस् तज्ज्ञानं चोच्यते तथा अविद्यमानो ऽपीत्यादिना दर्शयाति -- टि-
[51] च ओम्. च्
[52] भूतले ओम्. अएप्
[53] दृश्यमानतया ब्ध्न्
[54] एकज्ञानसंसर्गात् -- ब्
दर्शयन्न् आह सती ति । एतस्मात् सति वस्तुनि तत्सम्भवात् । मूले त्व् अन्यथा चानुपलब्धिलक्षणप्राप्तेष्व् इत्य् एकवाक्यतयैवार्थः सङ्गच्छते । ना यशब्दार्थव्याख्या, नाप्य् उत्तरपदव्याख्याने पूर्वपक्षवचना(न)प्रयासः कश्चित् । तथा तु न प्रक्रान्तं धर्मोत्तरेणे ति किम् अत्र कुर्मः? कुत एतद् इति सामान्येनोक्त्वा विशेषनिष्ठं करोति सत्य् अपी ति । एतच् च विग्रह इत्य् अन्तं सुगमम् ।
तेष्व् अनुपलब्धिलक्षणप्राप्तेष्व् अभावनिश्चयाभावात् । सत्य् अपि वस्तुनि अस्यानुपलब्धेर् भाव इष्टः । अनेनैतद् आह -- नास्माकम् अत्र प्रमाणम् अस्ति यत् सत्य् एव वस्तुनि सा भवतीति । किन् तु तस्यां सत्याम् अपि यस्मात् प्रत्ययो दोलायते तस्माद् एवम् उच्यत इति ।
सम्प्रति निश्चयाभावस्यावधिं प्रयेषमाण आह कस्मात् सकाशाद् इति । परप्रत्यक्षनिवृत्तेर् अशक्यनिश्चयत्वे तन्निवृत्त्यर्थम् आत्मप्रत्यक्ष ग्रहणम् । ननु यद्य् अयम् अपादानप्रश्नो न तु हेतुप्रश्नस् तदा कथम् इदम् आह तस्य निवृत्तेः कारणान् निश्चयाभाव इति चेत् । न । अन्यार्थत्वात् कारणशब्दस्य । निश्चयाभावस्य शब्देन न्यायेन जायमानस्यैषा प्रकृतिः कारणम् । "जनिकर्तुः प्रकृतिः" [पाणिनि 1.4.30] इत्य् अनेन लब्धापादानसंज्ञकाद् अस्माद् इत्य् अर्थस्य विवक्षितत्वात् । अन्यथा त्व् असमञ्जसं स्यात् । यस्माद् इत्यादिनोक्तम् अर्थम् उपसंहरति । एतच् च प्रतिषेधसिद्धिर् इत्य् एतद् अन्तं सुगमम् ॥
सम्प्रत्य् अनुपलब्धेर् अनुमानज्ञानहेतुत्वात् प्रामाण्यं स्वभावविशेषो व्यापारश् चोक्तो ऽपि कालपुरुषविशेषपरिग्रहणेन वक्तुम् अथे त्यादिना प्रश्नपूर्वम् उपक्रमते । अथ शब्द आरम्भे पूर्ववत् ।
[ध्प्र् प्.119]
ननु च दृश्यनिवृत्तिर् अवसीयते दृश्यानुपलम्भात् । सत्यम् एवैतत् । केवलम् एकज्ञानसंसर्गिणि दृश्यमाने घटो यदि भवेद् दृश्य एव भवेद् इति दृश्यः सम्भावितः । ततो दृश्यानुपलब्धिर् निश्चिता । दृश्यानुपलब्धिनिश्चयसामर्थ्याद्[55]
एव च[56]दृश्याभावो निश्चितः । यदि हि दृश्यस् तत्र भवेद् दृश्यानुपलम्भो न भवेत् । अतो दृश्यानुपलम्भनिश्चयाद् दृश्याभावः सामर्थ्याद् अवसितः न[57]व्यवहृत इति दृश्यानुपलम्भेन व्यवहर्त्तव्यः । तस्माद् अर्थानत्रम् एकज्ञानसंसर्गि दृश्यमानम् तज्ज्ञानं च प्रत्यक्षनिवृत्तिनिश्चयहेतुत्वात् प्रत्यक्षनिवृत्तिर् उक्तं द्रष्टव्यम् ।
__________नोतेस्__________
[55] -अनुपलम्भ- च्द्
[56] च ओम्. ए
[57] न तु व्यव- अफेन्
प्रत्यक्षपरिच्छेद्यत्वात् प्रत्यक्षो घटादिः । निवृत्ति शब्देन् आचार्यस्या नुपलब्धिर् विवक्षितेति दर्शयति तस्य निवृत्तिर् अनुपलब्धिर् इति । अनुपलब्धिशब्देना पि विवक्षितकर्तृकर्मधर्मोपलब्धिपर्युदासेनान्यद् एकज्ञानसंसर्गि वस्तु तज्ज्ञानं च विवक्षितम् । एतद् एव स्पष्टयति तदभावस्वभावेति यावद् इति । तस्य प्रतिषेध्यस्य घटादेर् अभावो विशिष्टो भावस् तत्स्वभावा । तदभावस्वभावशब्देन यावान् अर्थ उक्त तदनुपलब्धिशब्देनापीति इति यावद् इत्य् अस्यार्थः । यतो ऽन्योपलब्धिर् एव तदनुपलब्धिः । सैव च तदभावो नान्यो ऽत एवास्माद् एव कारणाद् अभावो घटादेर् न साध्यः । कुतो न साध्य इति स्वभावानुपलब्धेर् लिङ्गात् । कुतो न साध्य इत्य् आह सिद्धत्वात् निश्चितत्वाद् घटाभावस्येति प्रकरणात् ।
एवं मन्यते -- तदेकज्जानसंसर्गि वस्तु तज्ज्ञानं च घटाद्यनुपलब्धिस् तदभावश् च । तच् चेन्द्रियजेन प्रत्यक्षेण स्वसंवेदनेन च सिद्धम् इति न लिङ्गाद् अभावः साध्यत इति । नन्व् अविद्यमानो घटादिः कथं प्रत्यक्षः ? अथ प्रत्यक्षः, कथं तदनुपलब्धिर् उच्यत इत्य् आह अविद्यमानो ऽपि चे ति । न केवलं विद्यमानः प्रत्यक्ष उच्यते इत्य् अपि शब्दः । [ समग्रा समस्ता सामग्री ] कारणकलापो यस्येति विग्रहः । शेषाद् विभाषा [पाणिनि 5.4.154] इति कप् । न कपि [पाणिनि 7.4.14] इति ह्रस्वत्वप्रतिषेधः । ज्ञायमानो निश्चीयमानो [घटादिर् एकज्ञान]संसर्गिणि प्र ... तदनुपलब्धेर् एवेत्य् अवधारणीयम् । प्रत्यक्षनिवृत्तिर् घटाद्यनुपलब्धिः । कस्मात् तु द्वयं तथोच्यत इत्य् आह ततो ही ति । ही ति यस्मात् । यस्माद् अमू एव दृश्यघटादितुच्छरूपनिवृत्त्यवसेयहेतू तस्मात् करणात् । अर्थ एकज्ञानसंसर्गिवस्त्वन्तरम्, ज्ञानं च तस्यैव । एतद् एव व्यतिरेकमुखेण द्रढयति न त्व् इति । निवृत्तिमात्रम् उपलब्ध्यभावमात्रम् । तस्य तथात्वे को दोष इत्य् आह निवृत्तिमात्राद् इति । दृश्यनिवृत्त्यनिश्चयाद् दृश्याभावनिश्चयात् ।

इह निवृत्तिमात्रस्य प्रसज्यप्रतिषेधात्मनो निश्चेतुम् अशक्यत्वान् न हेतुत्वं युज्यत इति धर्मोत्तरस्या शयो निवृत्तिमात्राद् दृश्यनिवृत्त्यनिश्चयाद् इति ब्रुवतः । पूर्वपक्षवादिना त्व् एवं ज्ञातम् निवृत्तिमात्रान् निर्विशेषणाद् अयम् एवं प्रतिषेधति । तद् अहं सविशेषणं निवृत्तिमात्रम् एव दर्शयामीति प्रमोदमान आह ननु चे ति । दृश्यनिवृत्तिर् दृश्याभावः । दृश्यानुपलम्भाद् इत्य् अत्रानुपलम्भशब्देनोपलम्भाभावमात्रं विवक्षितम् इतरथा पूर्वपक्षवादिनः प्रकृतं हीयेत । अनेन सविशेषणम् एवोपलम्भाभावमात्रं प्रसज्यप्रतिषेधरूपं
[ध्प्र् प्.120]
यथा चैकज्ञानसंसर्गिणि प्रत्यक्षे घटस्य प्रत्यक्षत्वम् आरोपितम् असतो ऽपि तथा तस्मिन्न् एकज्ञानसंसर्गिण्य् अतीते चामूढस्मृतिसंस्कारे वर्त्तमाने च घटस्य[58]तत्तद्रूपम्[59]आरोपितम् असत इति द्रष्टव्यम् । अनेन च[60]दृश्यानुपलब्धिः प्रत्यक्षघटनिवृत्तिस्वभावोक्ता । सा च सिद्धा । तेन न[61]घटाभावः साध्यः अपि तु अभावव्यवहार इत्य् उक्तम् ।
__________नोतेस्__________
[58] अतीते वर्त्तमाने चामूढस्मृतिसंस्कारे च घटस्य
[59] तद्रूपम् अब्फेन्
[60] च ओम्. -- अनेन दृश्या अब्फे
[61] न ओम्. -- तेन घटा --ब्
लिङ्गम् अस्तु, न तु नञः पर्युदासवृत्त्या तदेकज्ञानसंसर्गि वस्तु, तज्ज्ञानं चेति पूर्वपक्षवादी दर्शयति । सत्यम् इत्यादिना प्रतिविधत्ते । किन् त्व् एकज्ञानसंसर्गिणि भूतलादौ दृश्यमाने सति दृश्यः सम्भावित आरोपितः स प्रतिषेध्य इति प्रकरणात् । ततो दृश्यत्वसमारोपात् दृश्यानुपलब्धिर् दृश्यज्ञानाभावस् तुच्छरूपो व्यवहर्तव्यमात्रं निश्चिता भवति । निश्चीयताम् उपलब्ध्यभावो ज्ञेयाभावस् तावन् न निश्चित इति तन्निश्चयार्थं निवृत्तिमात्रं व्यापरिष्यत इत्य् आह दृश्ये ति । दृश्यज्ञानाभावनिश्चयसामर्थ्याद् अन्यथानुपपत्तेः । चो हेतौ । दृश्यस्य ज्ञेयस्याभावो व्यवहर्तव्यैकरूपः । सामर्थ्यम् एव यदी त्यादिना दर्शयति । हि र् यस्मादर्थे । दृश्यानुपलम्भ इति दृश्योपलम्भाभाव इत्य् अर्थः । अतो ऽस्माद् दृश्यानुपलम्भनिश्चयात् । दृश्यस्य ज्ञेयस्य् आभाव उक्तात् सामर्थ्याद् अवसितः । दृश्योपलम्भाभावनिश्चयस् त्व् एकज्ञानसंसर्गिवस्त्वन्तरोपलम्भेनेति द्रष्टव्यम् ।
ननु यदि ज्ञेयाभावो ऽप्य् अवसितस् तर्हि कथं लिङ्गेन साध्यत इत्य् आह न व्यवहृत इति । अदृष्टानाम् अपि सत्त्वशङ्कया न प्रत्यक्षं व्यवहारयितुं शक्नोतीति भावः । केन तर्हि व्यवह्रियत इत्य् आह दृश्यानुपलम्भेन लिङ्गभूतेन । ......भावव्यवहार एव ........ ज्ञानं चे ति । च कारस् तुल्यकक्षताम् दर्शयति । द्वयोश् च निवृत्तिनिश्चयहेतुत्वम्; ज्ञानम् अन्तरेण यस्माद् अयं केवलः प्रदेशस् तस्मात् घटादिर् नास्तीत्य् अध्यवसातुम् अशक्यत्वात्; तथा विषयम् अन्तरेण यस्मात् केवलप्रदेशापरोक्षीकरणं तस्मात् तज्ज्ञानं नास्ति इति निश्चेतुम् अशक्यत्वाद् इति द्रष्टव्यम् । प्रत्यक्षस्य घटादेर् निवृत्तिनिश्चयहेतुत्वात् प्रत्यक्षनिवृत्ति[र् उक्तं द्रश्तव्यम् ] ।
ननु च प्रतिषेध्यस्य घटादेर् असतो ऽपि तथास्तु प्रत्यक्षत्वम् । यत् पुनस् तत्र नासीद् एव तस्य कथम् अतीतत्वम्; यच् च तत्र नास्त्य् एव तस्य कथं वर्त्तमानत्वम्, कथं च तत्रानुपलब्धेर् व्यापार इत्य् आशङ्काम् उपाकुर्वन्न् आह -- यथेति । येन प्रकारेण घटो यदि भवेद् दृश्य एव भवेद् इत्य् एवंरूपेण । चो हेतौ । तस्मिन्न् एकज्ञानसंसर्गिण्य् अतीते ऽमूढस्मृतिसंस्कारे । चो वक्तव्यान्तरसमुच्चये । वर्त्तमाने च । समुच्चये च कारः । तथा तेन प्रकारेण यदि तत्र पूर्वं घटः स्थितो यदि स्यात्, उपलब्धः स्यात्; न चोपलभ्यते इत्य् एवम् आत्मना घटस्यारोपात् प्रत्यक्षस्य तदानीम् असतस् तद्रूपम् अतीतत्वं वर्त्तमानत्वञ् च् आरोपितम् आरोपसिद्धम् इतिर् एवं द्रष्टव्याकारं दर्शयति । द्रष्टव्यं ज्ञातव्यम् इति योजनीयम् इदम् ।

[ध्प्र् प्.121]
अमूढो ऽभ्रष्टो दर्शनाहितः स्मृति जननरूपः संस्कारो यस्मिन् घटादौ स तथोक्तः । तस्य अतीतस्य प्रतिपत्तृप्रत्यक्षस्येति सम्बन्धः । वर्त्तमानस्य च प्रतिपत्तृप्रत्यक्षस्येति सम्बन्धः । अमूढस्मृतिसंस्कार ग्रहणं तु न वर्त्तमानविशेषणम् । यस्माद् अतीते घटविविक्तप्रदेशदर्शने स्मृतिसंस्कारो मूढो दृश्यघटानुपलम्भे दृश्ये च घटे मूढो भवति । वर्त्तमाने तु[62]घटरहितप्रदेशदर्शने न स्मृतिसंस्कारमोहः । अत एव न घटाभावे नापि घटानुपलम्भे मोहः । तस्मान्[63]न वर्त्तमाननिषेध्यविशेषणम् अमूढस्मृतिसंस्कारग्रहणम् स्मृतिसंस्कारव्यभिचाराभावाद्[64]वर्त्तमानस्यार्थस्य । अत एव वर्त्तमानस्य चे ति च शब्दः कृतः विशेषणरहितस्य वर्त्तमानस्य विशेषणवतातीतेन समुच्चयो यथा विज्ञायेतेति[65]।
__________नोतेस्__________
[62] वर्त्तमाने च घट अब्फेन्
[63] अत एव न घटानुपलम्भे नापि घटे मोहः -- अच्द्फेन्. अत एव न घटानुपलम्भे नापि घटे मोहः -- ब्
[64] -ग्रहणम् व्यभिचार- -- च्.
[65] इति ओम्. -- विज्ञायेतेति । तद् -- ब्.
तद् अयम् अर्थः अतीतो ऽनुपलम्भः स्फुटः[66]स्मर्यमाणः प्रमाणम् वर्त्तमानश् च । ततो `नासीद् इह घटः अनुपलब्धत्वात्ऽ `नास्ति अनुपलभ्यमानत्वात्ऽ इति शक्यं ज्ञातुम् । `न तु न भविष्यत्य् अत्र घटः अनुपलप्स्यमानत्वात्ऽ इति[67]शक्यं ज्ञातुम्[68]। अनागताया अनुपलब्धेः सत्त्वसन्देहाद् इति कालविशेषो ऽनुपलब्धेर् व्याख्यातः ।
__________नोतेस्__________
[66] स्फुटं -- ब्फेन्.
[67] अनुपलभ्यमानत्वात् -- अ
[68] ज्ञातुम् शक्यम् -- च्
ननु दृश्यानुपलब्धिः कस्मिङ् काले प्रमाणं किंस्वभावा किंव्यापारा चेति त्रितयं पृष्ट आचार्यस् तत्रानेन किम् आख्यातम् आचार्येणे त्य् आशङ्काम् अपाकुर्वन्न् आह अनेने ति । अनेन प्रतिपत्तृप्रत्यक्षस्य निवृत्तिर् इति वचनेन । चो ऽवधारणे । स्वभावस्ये (-भावे)त्य् अस्यानन्तरं द्रष्टव्यः । प्रत्यक्षस्य घटस्य । प्रसज्यप्रतिषेधलक्षणनिवृत्तिनिश्चयहेतुत्वात् प्रत्यक्षघटनिवृत्तिः प्रत्यक्षघटानुपलब्धिः । नञः पर्युदासवृत्त्या । तदेकज्ञानसंसर्गि वस्तु तज्ज्ञानं च द्वयं स्वभावो रूपं यस्या दृश्यानुपलब्धेः सा तथोक्ता व्याख्यातेति शेषः ।
ननु दृश्यानुपलब्धिरूपं लिङ्गम् अस्तु पर्युदासरूपम्, साध्यस् तु प्रसज्यप्रतिषेधरूपः किं न भवतीत्य् आह से ति । चो यस्मात् । सा तथाविधानुपलब्धि .............. उक्तम् आचार्येण सा भावव्यवहारप्रवर्तनी त्य् अनेन शब्देनेति भावः । धर्मोत्तरेण चात एव अभावो न साध्य इत्य् अनेन ।
घटविविक्तप्रदेश[49अ]दर्शनेन् आहित आरोपितः संस्कारो विशिष्टशक्तियुक्तविज्ञानात्मिका वासना, न तु पराभिमतो भावनाख्यः । अनुरूपस्मरणं जनयितुम् अनीशानो मूढ इति व्यपदिश्यते । दृश्यघटानुपलम्भे दृश्यस्य घटस्योपलब्ध्यभावे तुच्छरूपे । अत एव च दृश्ये घटे । अमूढस्मृतिसंस्कारग्रहणं कस्मान् न वर्त्तमानविशेषणम् इत्य् आह वर्त्तमाने त्व् इति । तु र् अतीताद् वर्तमानस्य वैधर्म्यम् आह । अतो मोहाभावान् न घटाभावे व्यवहर्तव्यैकरूपे । नापि घटानुपलम्भे घटोपलब्ध्यभावे तुच्छरूपे । प्रत्यक्षवद् आरोपाद् वर्तमानस्यार्थस्य घटादेः । अत एव वर्तमानग्रहणस्य निर्विशेषणत्वाद् एव ।
[ध्प्र् प्.122]
व्यापारं दर्शयति । अभावस्य व्यवहारः नास्तीत्य् एवम् आकारं ज्ञानम् शब्दश् चैवम् आकारः निःशङ्कं गमनागमनलक्षणा[69]च प्रवृत्तिः कायिको ऽभावव्यवहारः । घटाभावे हि ज्ञाते निःशङ्कं गन्तुम् आगन्तुं च प्रवर्तते ।
__________नोतेस्__________
[69] निःशङ्कगमनागमलक्षणा -- द्ब्; निःशाङ्का गमनागमनयो (?) लक्षणा -- च्.
तद् एतस्य[70]त्रिविधस्याप्य् अभावव्यवहार स्य[71]दृश्यानुपलब्धिः प्रवर्त्तनी [72]साधनी प्रवर्त्तिका ।
__________नोतेस्__________
[70] तद् एवम् अस्य-- च्द्; तद् एवम् एतस्य, तद् एव तस्य -- ब्.
[71] अप्य् अभावस्य व्यवहारस्य] -- च्.
[72] [प्रवर्त्तनी ओम्. अब्च्द्फेन्.
यद्य् अपि च नास्ति घटः इति ज्ञानम् अनुपलब्धेर् एव भवति अयम् एव चाभावनिश्चयः तथापि यस्मात् प्रत्यक्षेण केवलः प्रदेश उपलब्धस् तस्मात् इह घटो नास्तीत्य् एवं च[73]प्रत्यक्षव्यापारम् अनुसरत्य् अभावनिश्चयः तस्मात् प्रत्यक्षस्य केवलप्रदेशग्रहणव्यापारानुसार्यभावनिश्चयः प्रत्यक्षकृतः ।
__________नोतेस्__________
[73] च ओम्. -- च्.
ननु यथा विकल्पेन विषयीक्रियमाणो ऽतीतो ऽनुपलम्भः प्रमाणम् उच्यते तथा विकल्पस्याव्याहतप्रसरत्वाद् अनागतो ऽप्य् अनुपलम्भो विकल्प्यमानः किं न तथा प्रमाणम् इत्य् आह तद् अयम् इति । यस्मात् केवलप्रदेशदर्शनाहितः संस्कारो ऽतीते घटादाव् अमूढो गृह्यते, वर्तमाने तु तस्मिन् स्मृतिसंस्कारे मोहो न सम्भवत्य् एव तत् तस्माद् अयं तात्पर्यार्थः । अनुपलम्भनिश्चयहेतुत्वाद् अनुपलम्भः केवलप्रदेशादिः स्फुटो यथासौ केवलो ऽनुभूतस् तथा स्मृत्वा विषयीक्रियमाणः प्रमाणम् । वर्तमानश् च तादृग् अनुपलम्भः स्फुटो ऽभ्रान्तेन ज्ञानेन गृह्यमाण इति द्रष्टव्यम् । यत ईदृशो ऽनुपलम्भः प्रमाणं ततस् तस्मात् । कुतो न शक्यते ज्ञातुम् इत्य् आह् आनागताया इति । तथात्वेन निश्चितो हि हेतुर् गमको ऽन्यथा सन्दिग्धासिद्धता हेतुदोषः स्याद् इत्य् अभिप्रायः । प्रत्यक्षनिवृत्तिशब्देन तावद् दृश्यानुपलब्धेः स्वभावो दर्शितो ऽमूढेत्य् आदिना तु किं दर्शितम् इत्य् आह काले ति । [इतरेवम् अर्थेते] नैवं कालविशेषो ऽनुपलब्धेर् व्याख्यात इति । कालविशेषो ऽतीतो वर्त्तमानश् च व्याख्यातः कथितो नेनेति शेषः । एतच् चातीते वर्त्तमाने च काले ऽनुपलब्धेः प्रमाणाख्यानम् अस्योपलक्षणं द्रष्टव्यम्, कार्यस्वभावहेत्वोर् अपि तयोः कालयोः प्रामाण्यात् । तथा ह्य् आसीद् अत्र वह्निर् धूमस्योपलब्धत्वात् । अस्ति वह्निर् इह धूमस्योपलभ्यमानत्वात् । तथासीद् इह पादपः शिंशपाया उपलब्धत्वात् । अस्तीह वृक्षः शिंशपाया उपलभ्यमानत्वाद् इत्य् अपि भवत्य् एव ।
ननु दृश्यानुपलम्भे भवतु ज्ञानाभिधानलक्षणो व्यवहारः । कायिकस् तु कथम् इत्य् आह घटे ति । हि र् यस्मात् । प्रवर्तत इति योग्यतयोच्यते । प्रवृत्तियोग्यस् तावद् भवतीति । अत एव चाभावयोग्यता साध्योच्यते । तदेतस्ये ति लोकोक्तिर् एषा । तच् चैतच् चेति विग्रहः कार्यः । यद्वा यतो ऽभावनिश्चयो नुपलब्धिनिमित्तकस् तत् तस्मात् । अपिर् अतिशये । आस्ताम् एकस्य द्वयोर् वा प्रवर्तनी, त्रिविधस्य यावत् प्रवर्तनीत्य् अर्थः । प्रवर्तनी त्य् अस्य द्वयम् एतद् विवरणं स्पष्टार्थं साधनी प्रवर्त्तिकेति प्रवर्तयतीति प्रवर्तनी ति योग्यतयोक्तम् । साभावत्रितयम् अभावव्यवहारं प्रवर्तयितुं योग्या तावन्मात्रनिमित्तकत्वात् तस्य । सत्य् अर्थित्वे पुरुषस् तान् व्यवहारान् आचरतु मा वा । अत एवाभावव्यवहारयोग्यता प्रदेशादेः साध्यते दृश्यानुपलम्भेनेति परमार्थः ।
[ध्प्र् प्.123]

किञ् च । दृश्यानुपलम्भनिश्चयकरणसामर्थ्याद् एव पूर्वोक्तया नीत्या प्रत्यक्षेणैवाभावो निश्चितः । केवलम् अदृष्टानाम् अपि सत्त्वसम्भवात् सत्त्वशङ्कया न असत्त्वं[74]व्यवहर्त्तुम् । अतो ऽनुपलम्भो ऽभावं[75]व्यवहारयति दृश्यो यतो ऽनुपलम्भः तस्मान् नास्तीति । अतो दृश्यानुपलम्भो ओ ऽभावज्ञानं कृतं प्रवर्त्तयति न तु अकृतं करोतीत्य्[76]अभावनिश्चयो ऽनुपलम्भात् प्रवृत्तो ऽपि प्रत्यक्षेण कृतो ऽनुपलम्भेन प्रवर्त्तित उक्त इत्य् अभावव्यवहारप्रवर्त्तन्य् अनुपलब्धिः[77]॥ कस्मात् पुनर् अतीते वर्त्तमान चानुपलब्धिर् गमिकेत्य् आह
__________नोतेस्__________
[74] शक्नोत्य् अभावं -- च्
[75] [ऽभावं ओम्. -- अ
[76] इति ओम्. -- च्.
[77] अभावव्यवहारे प्रवर्त्तन्य् अनुपलब्धिः -- च्; प्रवर्त्तन्य् उपलब्धिः -- अ; प्रवर्तिन्य् उपलब्धिः -- फ्. प्रवर्तिन्य् अनुपलब्धिः -- ब्.
तस्या एवाभावनिश्चयात् इइ-29
तस्या एव यथोक्तकालाया अनुपलब्धेर् अभावनिश्चयात् । अनागता ह्य् अनुपलब्धिः स्वयम् एव सन्दिग्धस्वभावा । तस्या असिद्धाया ना ऽभावनिश्चयो ऽपि त्व् अतीतवर्त्तमानाया इति ॥
ननु यदि नास्तीत्य् एवम् आकारं ज्ञानम् अनुपलब्धेर् लिङ्गाद् भवति, कथं तर्हि प्रत्यक्षावसितो ऽभाव उक्त इत्य् आह -- यद्य् अपि चे ति निपातसमुदायो यद्य् अपि शब्दवद् विशेषाभिधाननिमित्ताभ्युपगमे वर्त्तते । अभावनिश्चयशब्दसामानाधिकरण्याद् अयम् एवेति निर्देशः । च शब्दो वक्तव्यम् एतद् इत्य् अस्यार्थे त्र वर्त्तते ।
अभावनिश्चयस्य तदा स्थैर्यलाभाद् अनुपलम्भाद् एवेत्य् उक्तं द्रष्टव्यम् । तथापी ति लौकिकोक्तिर् इयं निगदाभिधानारम्भे । तस्माच् छब्देन यस्माच् छब्द आक्षिप्तः । तेनायम् अर्थः । यस्मात् केवलप्रदेशग्रहणलक्षणव्यापारानुसारी घटो नास्तीत्य् अभावनिश्चयः तस्मात् प्रत्यक्षकृत उच्यत इति शेषः । कस्य व्यापारानुसारीत्य् आकाङ्क्षायाम् उक्तम् -- प्रत्यक्षस्य प्रमाणविशेषस्येति ।

अथ स्याद् -- यद्य् अयं प्रत्यक्षकृतस् तदा प्रत्यक्षप्रवर्त्तितो ऽपि । तत् किं दृश्यानुपलम्भेन क्रियत इत्य् आशङ्क्याह -- किञ्चे ति वक्तव्यान्तरसमुच्चये । तद्विविक्तप्रदेशादिग्राहिणा प्रत्यक्षेणाइवाभावो निषेध्याभावः प्रसज्यप्रतिषेधात्मा निश्चितः । कथं? दृश्यस्यानुपलम्भ उपलम्भाभावस् तुच्छरूपस् तन्निश्चयकरणसामर्थ्याद् अन्यथानुपपत्तेः । पूर्वोक्तया नीत्या युक्त्या यदि हि दृश्यस् तत्र भवेत्, दृश्यानुपलम्भो न भवेद् इत्य् एवमात्मिकया । यदि प्रत्यक्षम् इत्थं प्रतिषेध्याभावं निश्चाययति, व्यवहारयितुम् अपि शक्नोत्य् एवेत्य् आह -- केवलं किन् तु न शक्नोति व्यवहर्तुम् इत्य् अन्तर्भूतणिजार्थत्वान् निर्देशस्य व्यवहारयितुम् इत्य् अर्थः । कुतो न शक्नोतीत्य् आह -- सत्त्वशङ्कये ति प्रतिषेध्यसत्त्वस्य स्वरूपस्य सत्त्वशङ्कया सन्देहेन हेतुना । नन्व् अदर्शने ऽपि कथं सन्देह इत्य् आह -- अदृष्टे ति । तेन प्रत्यक्षेण् आदृष्टानाम् अपि पिशाचादीनां सत्त्वस्य सद्भावस्य सम्भवात् सम्भाव्यमानत्वात् नित्यं शङ्क्यमानानुपलम्भव्यभिचारो ह्य् अभाव इति भावः । अतः प्रत्यक्षस्य तत्राशक्तत्वात् सापि कथं व्यवहारयतीत्य् आह -- दृश्य इति । अतो ऽस्मात्कारणात् कृतं प्रत्यक्षेणेति प्रकरणात् । एतद् एव व्यतिरेकमुखेण द्रढयति -- न त्व् इति । यस्मात् प्रत्यक्षव्यापारानुसार्यभावनिश्चय इतिस् तस्मात् । अभावनिश्चयो
[ध्प्र् प्.124]
सम्प्रत्य् अनुपलब्धेः प्रकारभेदं दर्शयितुम् आह --
सा च प्रयोगभेदाद् एकादशप्रकारा इइ-30
सा च एषानुपलब्धिः एकादशप्रकारा -- एकादश प्रकारा अस्या[78]इत्य् एकादशप्रकारा । कुतह् प्रकारभेदः ? प्रयोगभेदात् । प्रयोगः प्रयुक्तिः शब्दस्याभिधाव्यापार[79]उच्यते । शब्दो हि साक्षात् क्वचिद् अर्थान्तराभिधायी, क्वचित् प्रतिषेधान्तराभिधायी । सर्वत्रैव तु दृश्यानुपलब्धिर् अशब्दोपात्तापि गम्यत इति वाचकव्यापारभेदाद् अनुपलम्भप्रकारभेदो न तु स्वरूपभेदाद् इति यावत् ॥
__________नोतेस्__________
[78] -धिः एकादशप्रकारा अस्या -- अपे.
[79] अभिधानव्या- -- अब्च्द्फेन्.
प्रकारभेदान् आह --
स्वभावानुपलब्धिर् यथा -- नात्र धूम उपलब्धिलक्षणप्राप्तस्यानुपलब्धेर् इति इइ-31
नुपलम्भात् प्रवृत्तो ऽपि दृढीभूतो ऽपि प्रत्यक्षेण केवलप्रदेशादिवेदिना सामर्थ्यात् कृत उत्पादितो ऽनुपलम्भेन दृश्यानुपलम्भेन प्रवर्तितः साधित उक्त आचार्येणा भावव्यवहारप्रवर्तनीत्य् अनेन शब्देनेति बुद्धिस्थम् । इती त्यादिनोपसंहारः । इति र् एवम् उक्तेन क्रमेणानुपलब्धिर् दृश्यानुपलब्धिस् तस्या एव प्रकृतत्वात् ।
कस्माद् इत्यादि वर्तमानाया इत्य् अन्तं सुगमम् । अनागताया अप्य् अनुपलब्धेर् अभावनिश्चयः कस्मान् न भवतीत्य् आह -- अनागते ति । हि र् यस्मादर्थे । तस्या इति पञ्चम्यन्तम् इदम् । अयम् एव च सामर्थ्यावसितो मौलो[र्थो ऽनागता हि] इत्यादिना धर्मोत्तरेण ....काङ्क्षोपशमार्थं पुरस्ताद् उक्तः । स्याद् एतत् -- प्रतिषेधसिद्धिर् {न्ब् इइ 25} इत्यादिना निश्चयाभावाद् {न्ब् इइ 27} इत्य् अन्तेन ग्रन्थेनास्यार्थस्य गतत्वात् तस्या एवाभावनिश्चयाद् {न्ब् इइ 29} इत्य् अयम् आचार्यीयो ग्रन्थः पुनरुक्त इति । न पुनरुक्तः । यतो यथातीते ऽपि काले घटादेस् तत्कालवर्तिदृश्यानुपलब्धेर् अतीतायाः स्मृत्यारूढाया स्व(अ)भावनिश्चयस् तथानगते ऽपि काले घटादेर् अभावनिश्चयः किं न भवतीति केनापाकृतं येनायं पुनरुक्तः स्याद् इति ॥
सम्प्रति [अनुपलब्धेः] प्रकारस्य स्वरूपस्य भेदं नानात्वं.......प्रकारभेद........द्रष्टव्यम् । चो वक्तव्यान्तरसमुच्चये । से ति मूलानुवादः । एषे ति तस्य व्याख्यानम् । एकादश ग्रहणं च् आचार्यस्यो पलक्षणार्थं यथा प्रमाणवार्त्तिके ...ग्रहणं...... षोडशरकारेति तु द्रष्टव्यम् । एतच् च कारणविरुद्धकार्योपलब्धिव्याख्यानान्तरं दर्शयिष्यामः । विवक्षितान्योपलम्भैकरूपत्वाद् दृश्यानुपलब्धेः, कथम् अयं भेद उपपद्येतेत्य् अभिप्रेत्य पृच्छति कुत इति ।
[ध्प्र् प्.125]
स्वभावेत्यादि । प्रतिषेध्यस्य यः स्वभावस् तस्य् आनुपलब्धिर् यथे ति । अत्रे ति धर्मी । न धूम इति साध्यम्, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेर् इति हेतुः, अयं च हेतुः पूर्ववद् व्याख्येयः ॥ प्रतिषेध्यस्य यत् कार्यं तस्यानुपलब्धिर् उदाह्रियते
कार्यानुपलब्धिर् यथा -- नेहाप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभावाद् इति[80] इइ-32
__________नोतेस्__________
[80] इति ओम्. -- ब्फेन्
यथे ति । इहे ति धर्मी । अप्रतिबद्धम् अनुपहतं धूमजननं प्रति सामर्थ्यं येषां तान्य् अप्रतिबद्धसामर्थ्यानि न सन्तीति साध्यम् । धूमाभावाद् इति हेतुः ।
प्रयोगभेदाद् इत्य् आचार्यीयम् उत्तरम् अनूद्य प्रयोगशब्दं व्याचष्टे प्रयोग इति । प्रयुक्त्यर्थम् आह शब्दे ति । शब्द शब्देन प्रकरणाद् वाचकः शब्दो गृह्यते । अभिधा अर्थप्रकाशनम् । तत्र व्यापारो व्यापत्तिः प्रवृत्तिर् यद्वाभिधा अर्थप्रकाशनं तल्लक्षणो व्यापारस् तस्य प्रयोगस्य भेदाद् भिद्यमानत्वाद् इति तु सुबोधत्वात् धर्मोत्तरेण न व्याख्यातम् ।
ननु शब्दस्यैवानुपलम्भवाचकस्यानुपलम्भ एव वाच्यस् तत् कथं प्रयोगभेदो येनानुपलम्भस्य प्रकारभेद उच्यत इत्य् आह शब्दो ही ति । हिर् यस्मात् । साक्षाद् अव्यवधानेन । क्वचिद् विरुद्धोपलम्भादौ प्रतिषेध्याच् छीतस्पर्शादेर् अर्थान्तरम् अग्न्याद्यभिधत्ते । क्वचित् व्यापकानुपलब्धादौ विवक्षितात् शिंशपादिप्रतिषेधात् प्रतिषेधान्तरं वृक्षादिप्रतिषेधम् अभिधत्ते । यद्य् अर्थान्तरविधिर् अर्थान्तरप्रतिषेधश् च क्रियते तर्हि ...................... द्यत इत्य् आह -- सर्व् अत्रेति । तुर् विशेषार्थः । अशब्दोपात्ता स्ववाचकपदानुपात्ता । यथा च शब्दोपात्तापि सा प्रतीयते तथा पुरस्ताद् अभिधास्यते । अपिर् अवधारणे अतिशये वा । इति स् तस्मादर्थे एवमर्थे...................अत एवार्थी गतिम् आश्रित्योक्तं न तु शाब्दीम् इति द्रष्टव्यम् ॥
अनुपलम्भस्य प्रकृतत्वात् प्रकारभेदान् इति मन्तव्यम् । तस्यानुपलब्धिः पुर्वोक्तया नीत्या तद्विविक्तः प्रदेशस् तज्ज्ञानं चावसेयम् । एवं कार्यानुपलब्ध्यादिषु द्विरूपैवानुपलब्धि ..................ति निदर्शनेन ।
ननु कीदृश्युपलब्धिलक्षणप्राप्तिः ? कथं चाविद्यमान................. अयञ् चे ति । पूर्वस्मिन्न् अनुपलब्धिलक्षणाख्यान इव । चो [50ब्] यस्मादर्थे ऽवधारणार्थे वा पूर्ववद् इत्य् अस्यानन्तरं द्रष्टव्यः । एतच् च स्वभावानुपलम्भस्यार्थकथनं कृतम् आचार्येण न प्रयोगो दर्शितः, असाधनाङ्गस्य प्रतिज्ञाया उपादानात् साधनाङ्गस्य च व्याप्तेर् अप्रदर्शनात् हेतोश् चानुवाद्य रूपस्य प्रथमान्तस्यानिर्देशात् । एवम् इतरासु सर्वास्वेनानुपलब्धिषु बोद्धव्यम् ।

प्रयोगः पुनर् ईदृशः -- यद् यत्रोपलब्धिलक्षणप्राप्तं सन् नोपलभ्यते तत् सर्वं तत्रासद्व्यवहारयोग्यम् -- यथा -- तुरङ्गमोत्तमाङ्गे शङ्गम् । नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो धूम इति । अनेन सामान्यादिनिराकरणे दृश्यानुपलम्भः प्रयोक्तव्य इति दर्शितम् आचार्येण तुल्यन्यायत्वाद् इत्य् अवसेयम् ।
[ध्प्र् प्.126]
कारणानि च नावश्यं कार्यवन्ति भवन्तीति कार्यादर्शनाद् अप्रतिबद्धसामर्थ्यानाम् एवाभावः साध्यः[81]न त्व् अन्येषाम् । अप्रतिबद्धशक्तीति चान्त्यक्षणभावीन्येव, अन्येषां प्रतिबन्धसम्भवात् ।
__________नोतेस्__________
[81] साध्यते -- च्.
कार्यानुपलब्धिश् च यत्र कारणम् अदृश्यम् तत्र प्रयुज्यते । दृश्ये तु कारणे दृश्यानुपलब्धिर् एव गमिका । तत्र धवलगृहोपरिस्थितो[82]गृहाङ्गणम् अपश्यन्न् अपि चतुर्षु पार्श्वेष्व् अङ्गणभित्तिपर्यन्तं पश्यति । भित्तिपर्यन्तसमं चालोकसंज्ञकम् आकाशदेशं धूमविविक्तं पश्यति । तत्र धूमाभावनिश्चयात् । यद्देशस्थेन वह्निना जन्यमानो धूमस् तद्देशः स्यात् । तस्य च वह्नेर् अप्रतिबद्धसामर्थ्यस्याभावः प्रतिपत्तव्यः । तद्गृहाङ्गणदेशेन च वह्निना जन्यमानो धूमस् तद्देशः स्यात् । तस्मात् तद्देशस्य वह्नेर् अभावः प्रतिपत्तव्यः । तद्गृहाङ्गणदेशं भित्तिपरिक्षिप्तं भित्तिपर्यन्तपरिक्षिप्तेन चालोकात्मना धूमविविक्तेनाकाशदेशेन सह धर्मिणं करोति ।
__________नोतेस्__________
[82] धवल- ओम्. -- ब्च्द्
इह -- नुपलम्भः केवलप्रदेशादिर् अभावव्यवहारयोग्यता च साध्या दृश्यानुपलम्भस्य तादात्म्यलक्षण एव प्रतिबन्धो गम्यगमकभावनिबन्धनम् इति केषाञ्चिन् मतम् । केचित् तु अनुपलम्भाभावव्यवहारयोग्यतयोर् गम्यगमकभावे विपर्ययतादात्म्यलक्षणः प्रतिबन्धो निमित्तम् इति प्रतिपदिरे । अत एवानुपलम्भः कार्यस्वभावाभ्यां भेदेन निर्दिष्टः, स्वसाध्ये प्रतिबन्धानपेक्षणाद्, इतरयोश् च तद्वैपरीत्याद् इति च । एवं चैतत् समादधतीति । तथा हि उपलब्ध्यव्यभिचारात् तादृशी अनुपलब्धेर् एव सत्ता । तत उपलब्धिलक्षणप्राप्तसत्त्वे तदुपलम्भयोस् तादात्म्याद् एवानुपलम्भासद्व्यवहारयोर् गम्यगमकभावः । यदि तु तद्विविक्तप्रदेशाद्युपलम्भरूपस्यानुपलम्भस्य तदसद्व्यवहारयोग्यतायाश् च यत् तादात्म्यं तन्निमित्तम् उच्येत, तदा तस्य भूतलादेर् अनुपलब्धिलक्षणप्राप्तासद्व्यवहारयोग्यताप्य् आत्मभूतैवेति पिशाचाद्यभावव्यवहारम् अप्य् अनुपलम्भः साधयेत् तत्प्रतिबन्धाद् इति ॥
ननु कार्याभावात् कारणाभावः साध्यताम् । किम् अप्रतिबद्धसामर्थस्येति साध्यधर्मविशेषणेनेत्य् आह कारणानी ति । चो यस्माद् । इतिस् तस्मात् । साध्यः साधयितुं युज्यत इत्य् अर्थः । एतद् एव व्यतिरेकमुखेण द्रढयति न त्व् इति । तुर् वैधर्म्यार्थं एवकारार्थो वा । नान्येषां कारणकारणतयोपचरितकुर्वद् रूपाणाम् ।
अथ परिपूर्णयापि सामग्र्या विधारकसम्भवात् प्रतिबन्धः सम्भाव्यते । तद् असम्भवीदं
[ध्प्र् प्.127]
तस्माद् दृश्यमानादृश्यमानाकाशदेशावयवः[83]प्रत्यक्षाप्रत्यक्षसमुदायो वह्न्यभावप्रतीतिसामर्थ्यायातो धर्मी, न दृश्यमान एव[84]। इह इति तु प्रत्यक्षनिर्देशो दृश्यमानभावापेक्षः । न केवलम् इहैव दृश्यादृश्यसमुदायो धर्मी, अपि त्व् अन्यत्रापि । शब्दस्य क्षणिकत्वे साध्ये कश्चिद् एव शब्दः प्रत्यक्षो ऽन्यस् तु परोक्षस् तद्वद् इहापि । यथा चात्र धर्मी साध्यप्रतिपत्त्यधिकरणभूतो दृश्यादृश्यावयवो दर्शितस् तद्वद् उत्तरेष्व् अपि प्रयोगेषु स्वयं प्रतिपत्तव्यः ॥
__________नोतेस्__________
[83] दृश्यमानाकाश- -- च.
[84] इव -- च्
विशेषणम् इत्य् आह अप्रतिबद्धे ति च शब्दस् तुशब्दस्यार्थे हेतौ वा । कुत एतद् इत्य् आह अन्येषाम् इति । अन्त्यक्षणप्राप्तानि च कारणानि योगिनापि प्रतिबद्धु(-बन्धु)म् अशक्यानि, इतरथा ताद्रूप्यम् एव हीयेत । अतस् तथाविधानि कारणानि कार्याव्यभिचारीणि कार्येण व्याप्यन्ते । ततः कार्यं निवर्तमानं कारणानि तादृशानि निवर्त्तयतीति द्रष्टव्यम् ।

इह यद्य् अप्य् अनेनान्त्यक्षणेनेदं कार्यं कृतम् इति नावगतं तथापि वस्तुनः काचिद् अवस्था कार्यं कुर्वतो प्रतीतैव यद् अनन्तरं कार्यम् उपलब्धम् । सैव चावस्थात्रापि निषिध्यते । अत एवायं क्षणिकाक्षणिकसाधारणावस्थातिशयनिषेधः ।
ननु कार्यस्य तावद् दृश्यस्यात्रानुपलम्भो हेतुर् उपादातव्यः । तत् किम् अस्य सम्भवो ऽस्ति यत् कार्यम् एव दृश्यं न तु कारणं येन कार्यानुपलब्धिः प्रयुज्यत इत्य् आशङ्क्य विषयम् अस्या दर्शयितुम् आह कार्ये ति । को ऽसाव् एवंविधो विषय इत्य् आह तत्रेति वाक्योपक्षेपे । यदि पुनर् गृहाङ्गणं पश्येत् दृश्यानुपलब्धिर् एव प्रयुक्ता स्याद् इत्य् अभिप्रायेणाह गृहङ्गणम् अपश्यन्न् अपी ति । अपि र् अवधारणे । अङ्गणभित्तेः पर्यन्तम् अवसानं । भित्तिपर्यन्तेन समं तुल्यम् । सौत्रान्तिकानाम् अलोकतमःस्वभाव एवाकाश इति । तन्मयत्या(-तन्मत्या) आलोकसंज्ञकम् इत्य् उक्तम् । अत्राकाशे किं प्रत्येतव्यम् इत्य् आह यद्देशे ति । यदा यद्देशे चेति पाठस् तदा यो देशो ऽस्येति विग्रहः । यदा तु यद्देशस्थेनेति तदा यश् चासौ देशश् च तत्र तिष्ठतीति तद्देशस्थ इति । स देशो ऽस्येति विग्रहः । एतावतापि न ज्ञायते कस् तेन प्रतिपत्त्रा धर्मी कृत इत्य् आह तद्गृहे ति । स चासौ गृहाङ्गणदेशश् चेति समासः । अङ्गणस्य प्रकृतत्वाद् भित्तिः तस्यैव तया परिक्षिप्तं परिच्छिन्नं धर्मिणं करोतीति सम्बन्धः । किम् एतावद् एवेत्य् आह भित्ती ति । भित्तिर् अङ्गणस्यैव । भित्तेश् च प्रान्तो वाच्यस् तस्याः पर्यन्तो ऽवसानं निष्ठा तेन परिक्षिप्तं परिच्छिन्नं तेन । चस् तुल्यबलत्वसमुच्चयार्थः ।
तस्माद् इत्यादिनोपसंहारव्याजेन लोकाध्यवसायसिद्धं धर्मिणं दर्शयति । दृश्यादृश्यसमुदायो लोकेनैकत्वेनाकलितः । तावान् देशो दृश्यमानः किम् आत्मकः ? देशावयवो भागो यस्य
[ध्प्र् प्.128]
प्रतिषेधस्य व्याप्यस्य यो व्यापको धर्मस् तस्यानुपलब्धिर् उदाह्रियते --
स तथा । कथम् एवंविधो धर्मीत्य् आह -- वह्न्यभावे ति । वह्निर् इति विशिष्टो धूमजनने ऽव्यवधेयशक्तिः । तस्याप्य् उपलक्षणत्वाद् अन्यस्य धूमजनने ऽप्रतिबद्धस्याभावप्रतीतिर् ग्रहीतव्या । अयम् अर्थः -- लोकस् तावत् तथाविधदेशे धूमम् अनुपलभमानस् तावति देशे तथाभूतवह्न्यभावं प्रत्येति । न चैतद् एवंविधं धर्मिणम् अन्तरेण घटत इति सामर्थ्यम् अन्यथानुपपत्तिस् तस्माद् आयात उपस्थितः । अत एवाचार्येणा पि इष्टं विरुद्धकार्ये ऽपि देशकालाद्यपेक्षणम् । (प्व् इ 6=8) इति ब्रुवतैवं धर्मीष्ट एवेति भावः ।
नन्व् अप्रत्यक्षस्यापि धर्मित्वे कथम् इहेतीदम् ??? इहप्रत्ययान्तरस्य निर्देश इत्य् अशङ्क्याह -- इहे ति । तु शब्दो यस्मादर्थे । इतिर् इहशब्दस्य निर्दिष्टस्याकारं प्रत्यवमृशति । प्रत्यक्षवस्तुप्रतिपादको निर्देशस् तथोक्तः । ननु यदि दृश्यादृश्यसमुदायो धर्मी घटते तदा कार्यस्वभावहेत्वोर् अपि किम् अयं न सम्भवतीत्य् आह -- न केवलम् इति । इहैव कार्यानुपलम्भ एव । अपि तु किन् त्व् अन्यत्रापि कार्यविशेषे स्वभावविशेषे च तत्र तत्र कार्यहेतोर् धूमवाक्याद् अग्निपौरुषेयत्वाद् असिद्धौ तथाविधो धर्मी सुव्यक्त इति न तत्र दर्शितस् तुल्यत्वा(-न्या)यतया वा द्रष्टव्यः ।
कथं हेताव् अप्य् एवंविधस्य धर्मिणः सम्भव इत्य् [वेर्ब्. इत्थ्--] आह -- शब्दस्ये ति । कश्चिद् एव श्रूयमाणः प्रत्यक्षो ऽन्यस् त्व् अश्रूयमाणः परोक्षः । अनेनावश्यं दृश्यादृश्यशब्दसमुदायो ऽत्र धर्मीति दर्शितम् । दृश्यादृश्यात्मना च शब्देन धर्मिणा भाव्यम् इति प्रतिपाद्यजनसंशयारोपाभ्याम् आयातम् । न हि प्रतिपाद्यः शब्दस्यानित्यत्वे संशयानो विपर्यस्यति, अर्थात् घटशब्द एव, श्रूयमाण एव च सन्देग्धि, विपर्यस्यति वा । किन् त्व् अहे(ह)घटपटादिशब्दे श्रूयमाणे श्रुते श्रोष्यमाणे च । ततस् तदनुरोधात् प्रत्यक्षाप्रत्यक्षशब्दसमुदायो ऽनित्यत्वे साध्ये धर्मी प्रसह्य पतितः । तद्वद् इहापि कार्यानुपलम्भे । अमुम् एव न्यायम् अन्यत्राप्य् अतिदिशन्न् आह -- यथा चे ति । चो ऽवधारणे साध्यप्रतिपत्त्यधिकरणभूत इति विशेषणव्याजेन धर्मिणो लक्षणम् उक्तम् । कार्यानुपलब्धिप्रयोगस् त्व् एवं कर्त्तव्यः । यत्र यस्य कार्यम् उपलब्धिलक्षणप्राप्तं नोपलभ्यते तत् तु तज्जननाप्रतिबद्धसामर्थ्यं नास्ति । यथा क्वचिद् दृश्यमाने ऽङ्कुरे तथाविधं बीजम् । नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो धूम इति । अनेन च कार्यानुपलम्भप्रदर्शनेन यज् जल्पितं जल्पमहोदधिना निःशब्दे देशे शब्दमात्राभावे साध्ये कस् तदेकज्ञानसंसर्गिवस्त्वन्तरोपलम्भो येन शब्दाभावव्यवहारो बौद्धानां भवेद् इति तत् प्रत्युक्तं द्रष्टव्यम् । तथा हि नेहाप्रतिबद्धसामर्थ्यानि श्रोत्रज्ञानकारणानि सन्ति । श्रोत्रज्ञानाभावाद् इति कार्यानुपलब्धिः स्फुटैव । श्रोत्रज्ञानानुपलम्भश् च तदन्यज्ञानोपलम्भरूपः संविदितो ऽस्त्य् एव । एकज्ञानसंसर्गित्वं चान्योन्याव्यभिचरितोपलम्भत्वम् इत्य् उक्तं पुरस्तात् । प्रयोगस् त्व् अनन्तरवद् विज्ञानत्व्य इति ॥
[ध्प्र् प्.129]
व्यापकानुपलब्धिर् यथा न अत्र शिंशपा वृक्षाभावाद् इति इइ-33
यथेति । अत्रेति धर्मी । न शिंशपेति शिंशपाभावः साध्यः । वृक्षस्य व्यापकस्याभावात् इति हेतुः । इयम् अप्य् अनुपलब्धिर् व्याप्यस्य शिंशपात्वस्यादृश्यस्याभावे प्रयुज्यते । उपलब्धिलक्षणप्राप्ते तु व्याप्य दृश्यानुपलब्धिर् गमिका । तत्र यदा पूर्वापराव् उपश्लिष्टौ देशौ भवतः, तयोर् एकस् तरुगहनोपेतो ऽपरश् चैकशिलाघटित्प् निर्वृक्षकक्षकः । द्रष्टापि तस्थान् वृक्षान् पश्यन्न् अपि शिंशपादिभेदं यो न विवेचयति, तस्य वृक्षत्वं प्रत्यक्षं अप्रत्यक्षं तु शिंशपत्वम् । स हि निर्वृक्ष एकशिलाघटिते वृक्षाभावं दृश्यत्वाद् दृश्यानुपलम्भाद् अवस्यति । शिंशपात्वाभावं तु व्यापकस्य वृक्षत्वस्याभावाद् इति । तादृशो विषये ऽस्या अभावसाधनाय प्रयोगः ।
स्वभावविरुद्धोपलब्धिर् यथा न अत्र शीतस्पर्शो वह्नेर् इति इइ-34
प्रतिषेधस्य स्वभावेन विरुद्धस्योपलधिर् उदाह्रियते यथेति । अत्रेति धर्मी । न शीतस्पर्श इति शीतस्पर्शप्रतिषधः साध्यः । वह्नेर् इति हेतुः । इयं चानुपलब्धस् तत्र प्रयोक्तव्या यत्र शीतस्पर्शो दृश्यः, दृश्ये दृश्यानुपलब्धिप्रयोगात् ।

व्यापकानुपलब्धिं व्याख्यातुम् आह -- प्रतिषेध्यस्ये ति । तादात्म्याविशेषे ऽपि यथा कश्चिद् एव धर्मी व्याप्य इतरो व्यापकश् च तथा प्राग् एव धर्मोत्तरेण निर्णीतम् । धर्म इति च धर्म्यपेक्षया वृक्षत्वादि । न शिंशपेति न शिंशपात्वम् इत्य् अर्थः । वृक्षस्ये ति च धर्मिणा धर्मस्य वृक्षत्वस्य निर्देशः । ननूपलब्धिलक्षणप्राप्तस्य तावद् वृक्षत्वस्यानुपलब्धिः प्रयोक्तव्या । तथा च शिंशपात्वम् अपि दृश्यम् एव निषेध्यम् इति दृश्यानुपलब्धिर् एव प्रयोगार्हत्य् आह -- इयम् अपी ति । न केवलं पूर्विका विशिष्टे विषये किन् त्व् अयम् अपीत्य् अपिशब्दः । शिंशपात्वस्यादृश्यस्ये ति -- यदि स्याद् दृश्यम् एव स्याद् इति सम्भावनाम् अतिवृत्तस्येत्य् अर्थः । एवम् उत्तरत्राप्य् अदृश्यत्वम् ईदृश्यम् एव द्रष्टव्यम् । तस्याभावे साध्य इत्य् अध्याहारः ।
[ध्प्र् प्.130]
तस्माद् यत्र वर्णविशेषाद् वह्निर् दृश्यः शीतस्पर्शो दूरस्थत्वात्[85]सन्न् अप्य् अदृश्यः तत्रास्याः प्रयोगः ॥
__________नोतेस्__________
[85] दूरत्वात् -- ब्द्
विरुद्धकार्योपलब्धिर् यथा नात्र शीतस्पर्शो धूमाद् इति इइ-35
प्रतिषेध्येन यद् विरुद्धं तत्कार्यस्योपलब्धिर् गमिका यथेति । अत्रेति धर्मी । न शीतस्पर्श इति शीतस्पर्शाभावः साध्यः । धूमाद् इति हेतुः । यत्र शीतस्पर्शः सन् दृश्यः
को ऽसाव् एवंविधो विषय इत्य् आह -- त् अत्रेति वाक्योपन्यासे । उपश्लिष्टौ प्रत्यासन्नौ समुन्नताव् उच्चौ । तरूणां गहणं गह्वरं तेनोपेतो युक्तः । द्वितीय एकया शिलया घटते निमित्त एकशिलारूपस् तूप इति यावत् । तत्त्वेनैव च निर्वृक्षकक्षकः । कक्षस् तृणम् । निर्गतौ वृक्षकक्षौ यत इति विग्रहः । भवत्य् एवं तथापि कथम् अस्याः प्रयोग इत्य् आह द्रष्टापी ति । अपिर् अवधारणे न विवेचयती त्य् अस्यानन्तरं द्रष्टव्यम् (-व्यः) । तस्य तादृशस्य द्रष्टुः । भवतु द्रष्टु[स्] तावद् दूरदेशस्थायितया शिंशपायाविवेकस् तथापि येनैव वृक्षाभावं प्रतिपद्यते तेनैव शिंशपाभावम् अपि किं न प्रतिपद्यत इत्य् आह स ही ति । हिर् यस्मात् । कथं दृश्यानुपलम्भाद् अवस्यतीत्य् आह दृश्यत्वाद् वृक्षत्वस्ये ति प्रकरणात् । कुतस् तर्हि शिंशपात्वाभावम् अवैतीत्य् आह शिंशपे ति । तु शब्दो वैधर्म्ये । इतिस् तस्मादर्थे ।
अभाव शब्देनाभावो ऽभावव्यवहारश् चोक्तो द्रष्टव्यः । एवम् उत्तरत्रापि प्रत्येयम् । प्रयोगः पुनर् ईदृशः कार्यः यत्र यस्य व्यापकं नास्ति न तत् तत्रास्ति । यथाअसति प्रमेयत्वे प्रामाण्यम् । नास्ति च वृक्षत्वं शिंशपात्वस्य व्यापकम् इति । अनेन व्यापकानुपलम्भस्य व्याप्याभावे गमकत्वप्रतिपादनेन नित्यानाम् अर्थक्रियाकारित्वाभावः क्रमयौगपद्ययो व्यापकयोर् अभावाद् इत्यादि दर्शितं द्रष्टव्यम् ॥
प्रतिषेध्ये त्यादिना स्वभावविरुद्धोपलब्धिं व्याचष्टे मूले तूदाह्रियत इत्य् अध्याहार इति दर्शयन्न् आह उदाह्रियत इति । सुखप्रतिपत्त्यर्थं मौलं धर्म्यादिप्रविभागं दर्शयन्न् आह अत्रेति । एतेनेश्वरे ऽप्य् एकोपादानादिविकल्पे सम्प्रदानादिविकल्पाभावो विरुद्धोपलब्धिप्रसङ्गेन दर्शितः । विकल्पस्य विकल्पान्तरेण सहास्थितिलक्षणस्य विरोधस्य स्वसन्ताने सिद्धत्वात् । ततश् च तस्यानिरूप्यकर्त्तृत्वम् आयातम् । अन्यथा युगपद् दृष्टोत्पादानाम् अनुत्पत्तिः प्रसज्येत । अनिरूप्यकर्त्तृत्वे चधिपत्यमात्रेण कर्त्तृत्वं स्यात् । तथा च कर्मणा सिद्धसाधनत्वम् ईश्वरसाधनानां कार्यत्वादीनाम् इत्यादि दर्शितम् ॥
विरुद्धकार्योपलब्धिं व्याचक्षाण आह प्रतिषेध्येने ति । मूलगमिका विवक्षिताभावप्रतिपादकेति विवक्षितम् इति दर्शयितुम् आह गमिके ति । पूर्ववद् धर्म्यादिकथनम् ।
[ध्प्र् प्.131]
स्यात् तत्र दृश्यानुपलब्धिर् गमिका । यत्र विरुद्धो वह्निः प्रत्यक्षः तत्र विरुद्धोपलब्धिर् गमिका[86]। द्वयोर् अपि तु परोक्षत्वे विरुद्धकार्योपलब्धिः[87]प्रयुज्यते । तत्र[88]समस्तापवरकस्थं शीतं निवर्तयितुं समर्थस्याग्नेर् अनुमापकं यदा विशिष्टं धूमकलापं निर्यान्तम् अपवरकात् पश्यति तदा विशिष्टाद् वह्नेर् अनुमितात् शीतस्पर्शनिवृत्तिम् अनुमिमीते[89]। इह दृश्यमानद्वारप्रदेशसहितः सर्वो ऽपवरकाभ्यन्तरदेशो[90]धर्मी साध्यप्रतिपत्त्य् अनुसरणात् पूर्ववद् द्रष्टव्य इति[91]॥
__________नोतेस्__________
[86] -उपलब्धिः -- अब्फेन्
[87] विरोधकार्योपलब्धिः -- अ.
[88] यत्र -- अ
[89] -निवृत्तिर् अनुमीयते -- अच्.
[90] सर्वापवरक- -- अफेन्.
[91] इति ओम्. -- अफेन्.
विरुद्धव्याप्तोपलब्धिर् यथा न ध्रुवभावी भूतस्यापि भावस्य विनाशः हेत्वन्तरापेक्षणाद् इति[92]इइ-36
__________नोतेस्__________
[92] इति ओम्. -- ए.
प्रतिषेध्यस्य यद् विरुद्धं तेन व्याप्तस्य धर्मान्तरस्य उपलब्धिर् उदाहर्तव्या । यथेति । ध्रुवम् अवश्यं भवतीति[93]ध्रुवभावी नेति ध्रुवभावित्वनिषेधः[94]साध्यः । विनाशो धर्मी ।
__________नोतेस्__________
[93] इति ओम्. -- ब्च्द्.
[94] -प्रतिषेधः -- च्.

तस्मिन्न् इयं प्रयोक्तव्येत्य् आह -- यत्रेति । द्वयोर् विरुद्धशीतस्पर्शयोः । अपिर् अवधारणे । तु पुर्वस्माद् वैधर्म्ये । कः पुनर् ईदृशो विषय इत्य् आह -- तत्रेति । ननु च प्रदीपशिखाप्रभावे(-भवे) धूमे ऽपि न शीतस्पर्शाभावः, तत् कथम् इयं गमिकेत्य् आह समस्ते ति । अपवरक ग्रहणं शीतस्थानोपलक्षणार्थम् । अपवरकात् निर्यान्तं निर्गच्छन्तम् । अन्यत्र च गम्यमानो धूमः कथम् अन्यत्र शीताभावं साधयतीत्य् आह इहे ति । इह विरुद्धकार्योपलब्धौ । दृश्यमानश् चासौ द्वारदेशश् च तेन सहितः । उपपत्तिम् आह -- साध्ये ति । साध्यस्य शीतस्पर्शाभावस्य प्रतिपत्तिर् अवबोधस् तस्य प्रतिपत्तेर् अनुसरणं निरूपणं तस्मात् । पूर्ववद् इति यथापूर्वं कार्यानुपलम्भे वह्न्याद्यभावप्रतीतिसामर्थ्यायातस् तादृशो धर्मी तद्वत् । अयम् अस्य भावः शीतस्पर्शाभावप्रतीतिर् एवेयं विमृश्यमाणावश्यम् एवंविधधर्मिणम् आकर्षतीति । प्रयोगः पुनर् अस्या एवं कर्त्तव्यः यत्र धूमविशेषस् तत्र शीतस्पर्शाभावः । यथा महानसादौ । तथाविधश् चात्र धूम इति । एतच् चात्यन्ताभ्यासाज् झगिति धूमदर्शनाच् छीतस्पर्शाभावप्रतीत्युदये विरुद्धकार्योपलम्भजम् एकम् अनुमानम् आचार्येणोक्तम् इति द्रष्टव्यम् । अनभ्यासदशया
[ध्प्र् प्.132]
भूतस्यापि भावस्येति धर्मिविशेषणम् । भूतस्य जातस्यापि विनश्वरः स्वभावो नावश्यंभावी किम् उताजातस्येति अपिशब्दार्थः । जनकाद्[95]धेतोर् अन्यो हेतुः हेत्वन्तरं मुद्गरावि[96]। तद् अपेक्षते विनश्वरः । तस्यापेक्षणाद्[97]इति हेतुः । हेत्वन्तरापेक्षणं नामाध्रुवभावित्वेन[98]व्याप्तं यथा वाससि रागस्य रञ्जनादिहेत्वन्तरापेक्षणम् अध्रुवभावित्वेन व्याप्तम्[99]। ध्रुवभावित्वविरुद्धं चाध्रुवभावित्वम् । विनाशश् च विनश्वरस्वभावात्मा हेत्वन्तरापेक्ष इष्टः । ततो विरुद्धव्याप्तहेत्वन्तरापेक्षणदर्शनाद् ध्रुवभावित्वनिषेधः ।
__________नोतेस्__________
[95] जननाद् -- अफे.
[96] मुद्गरादिः -- च्.
[97] विनश्वरस्यापेक्षणाद् -- अ.
[98] नाध्रुव- -- ब्.
[99] तद्वद् -- च्.
इह ध्रुवभावित्वं नित्यत्वम् अध्रुवभावित्वं चानित्यत्वम्[100]। नित्यत्वानित्यत्वयोश् च परस्परपरिहारेणावस्थानाद् एकत्र विरोधः । तथा[101]च सति परस्परपरिहारवतोर् द्वयोर् यदैकं दृश्यते तत्र द्वितीयस्य तादात्म्यनिषेधः कार्यः । तादात्म्यनिषेधश् च दृश्यतया[102]ऽभ्युपगतस्य संभवति । यत एवं[103]तादात्म्यनिषेधः क्रियते यद्य् अयं दृश्यमानो नित्यो भवेन्न् इत्य् अरूप दृश्येत । न च नित्यरूपो दृश्यते । तस्मान् न नित्यः । एवं च प्रतिषेध्यस्य नित्यत्वस्य दृश्यमानात्मकत्वम्[104]अभ्युपगम्य प्रतिषेधः कृतो भवति ।[105]वस्तुनो ऽप्य् अदृश्यस्य पिशाचादेर् यदि[106]दृश्यघटात्मकत्वनिषेधः[107]
__________नोतेस्__________
[100] च ओम्. -- ब्द्.
[101] स्वभावानुपलब्धिरूपता स्यात् । स्वभावानुपलब्धिरूपा चाभ्युपेता पूर्वाचार्यैर् इत्य् आह -- टि-
[102] तया -- अ.
[103] य एवं -- अ.
[104] दृश्यमानात्मत्वम् -- अफेन्.
[105] अथ न वस्त्व् एकत्वविरोधो ऽनयोः परं यो विषेधो ध्रुवभावित्वस्य विधीयते स । यद्य् अया (?) दृश्यत्वे सति पूर्वानुपलब्धिष्व् इव भवेत् तदा नास्यानुपलब्धेः । अथ भवतु नित्यत्वस्यावस्तुन एवं निषेधः, पिशाचादीनां तु सतां कथं निषेध इत्य् आह -- टि-
[106] यदैव -- ब्.
[107] -आत्मत्वनिषेधः -- अफेन्.
पुनर् अज्ञाते ऽनुमाने कार्यलिङ्गजविरुद्धोपलम्भजे भवतः । तथा हि यत्र धूमस् तत्र सर्वत्र वह्निर् यथा यस्कारकुट्यां धूमश् चात्रेति कार्यलिङ्गजम् एकम् अत्र नियतप्राग्भावि, तदनु यत्र वह्निर् न तत्र शीतस्पर्शो यथा रसवतीप्रदेशे वह्निश् चात्रेति विरुद्धोपलम्भजं द्वितीयम् इति ॥
प्रतिषेध्यस्ये त्यादिना विरुद्धव्याप्तोपलब्धिं [52ब्] व्याचष्टे । पूर्ववत् साध्यादिप्रदर्शनं ।
किम् उते ति निपातसमुदायः किम् पुनर् इत्य् अस्यार्थे वर्त्तते ।
ननु किम् अजातस्यापि वस्तुनो नाशम् अवश्यं भाविनं केचिद् इच्छन्ति येनापिशब्दः समुच्चयो व्याख्यात इति ? नैष दोषः । अजातस्य तावद् अनिष्टत्वाद् एव नावश्यम्भावी विनाशः, जातस्यापि नावश्यम्भावीतीत्थं मूले ऽपि शब्दः । केवलं किम् उताजातस्ये ति व्याचक्षाणेन धर्मोत्तरेणायम् अर्थो न व्यक्तीकृतः । तत्रापि किम् पुनर् अजातस्य यस्य विनाश एव नेष्ट इत्य् अभिप्रायेण
[ध्प्र् प्.133]
क्रियते दृश्यात्मकत्वम्[108]अभ्युपगम कर्तव्यः । यद्य् अयं घटो[109]दृश्यमानः पिशाचात्मा भवेत् पिशाचो दृष्टो भवेत् । न च दृष्टः । तस्मात् न पिशाच इति । दृश्यात्मत्वाभ्युपगमपूर्वको दृश्यमाने घटादौ वस्तुनि[110]वस्तुनो ऽवस्तुनो वा दृश्यस्यादृश्यस्य च तातात्म्यप्रतिषेधः[111]। तथा च सति यथा घटस्य दृश्यत्वम् अभ्युपगम्य प्रतिषेधो दृश्यानुपलम्भाद् एव तद्वत् सर्वस्य परस्परपरिहारवतो ऽन्यत्र दृश्यमाने निषेधो दृश्यानुपलम्भाद् एव । तथा चास्यैवञ्जातीयकस्य प्रयोगस्य स्वभावानुपलब्धाव् अन्तर्भावः ॥
__________नोतेस्__________
[108] -आत्मत्वम् -- अफेन्.
[109] घटो ओम्. -- अफेन्.
[110] वस्तुनि घटादौ -- च्.
[111] -निषेधः -- अब्पेह्न्.
योजनीयः । यद्वा प्रागभावस्यानादेर् अजातस्यापि नाशम् अवश्यम्भाविनं केचिद् इच्छन्तीति तदपेक्षया अपि शब्दः समुच्चये । तन्मुद्गराद्यपेक्षते विनश्वरो विनंष्टुम् इति शेषः । तस्य हेत्वन्तरस्य । प्रयोगः पुनर् ईदृशः कर्त्तव्यः यद्यदवस्थाप्राप्तौ हेत्वन्तरम् अपेक्षते न तद् अवश्यं तद्रूपं भवति । यथा वस्त्रं रक्तरूपतापत्तौ रागद्रव्यसंयोगापेक्षं नावश्यं रक्तं भवति । अपेक्षते च भावो विनंष्टुं हेत्वन्तरम् इति विरुद्धव्याप्तोपलब्धिप्रसङ्ग एषः । अत एव मूले ऽपि शब्दः प्रसङ्गसाधनत्वप्रसङ्गार्थो लक्ष्यते । स्वतन्त्रसाधनं तु विरुद्धव्याप्तोपलम्भाख्यम् एवं द्रष्टव्यम् -- यो विरुद्धधर्मसंसर्गवान् नासाव् एको यथा द्रवकठिने । विरुद्धधर्मसंसर्गवांश् च सामान्यादिर् इति । ननु च को ऽर्थयोर् विरोधः, किञ् चास्य विरोधस्य साधकं प्रमाणम् इत्य् आशङ्काम् अपकार्त्तुम् आह इहे ति । नित्यत्व शब्देनावश्यम्भावित्वम् अनित्यत्व शब्देनानवश्यम्भावित्वम् उक्तं द्रष्टव्यं । अन्यथा केन नित्यो विनाशो ऽभ्युपेतो येनास्यानित्यतापि (प)द्येत । यच् च पूर्वं ध्रुवभावित्वशब्दं विवृण्वतानेन ध्रुवम् अवश्यं भवतीति विवृतं तच् च व्याहन्येत । सम्प्रति विरोधम् उपपादयति नित्यानित्ययोर् इति । चो हेतौ ।

इदानीं परस्परपरिहारस्थितलक्षणविरोधव्यवस्थापकं दृश्यानुपलम्भं दर्शयितुम् आह तथा चे ति । कथं दृश्यतयाभ्युप[ग]तस्य निषेध इत्य् आह यत इति । एवम् वक्ष्यमाणेन प्रकारेण । तम् एवाह यद्य् अयम् इति । न च नैवं नित्यरूप वश्यम्भाविस्वरूपो दृश्यते प्रतीयते । यद्य् अप्य् एवं तथापि दृश्यात्मकाभ्युपगम इत्य् आह एवम् इति । चो यस्मात् । एवम् अनन्तरोक्तेन क्रमेण दृश्यमानस्यादृश्येनावस्तुनान्योन्यपरिहारस्थितलक्षणविरोधव्यवस्थायां तावद् एवं दृश्यानुपलम्भ उपायः । वस्तुनाप्य् अदृश्येन तथात्वव्यवस्थायाम् एवोपाय इति दर्शयितुं वस्तुनो ऽपी त्यादिनोपक्रमते । न केवलं कल्पितस्यावस्तुन इत्य् अपि शब्दः । इतिर् हेताव् एवमर्थे वा । दृश्यस्ये ति वस्त्वपेक्षया ।
[ध्प्र् प्.134]
कार्यविरुद्धोपलब्धिर् यथा नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति वह्नेर्[112]इति इइ-37
__________नोतेस्__________
[112] अग्नेर् -- ब्च्फेन्.
प्रतिषेध्यस्य यत् कार्यं तस्य यदिव्रुद्धं तस्योपलब्धेर् उदाहरणम् यथेति । इहेति धर्मी । अप्रतिबद्धं सामर्थ्यं येषां शीतकारणानां शीतजननं प्रति तानि न सन्तीति[113]साध्यम् । वह्नेर् इति हेतुः ।
__________नोतेस्__________
[113] प्रति न तानि सन्तीति -- अफेन्.
यत्र शीतकारणानि अदृश्यानि शीतस्पर्शो ऽप्य् अदृश्यः तत्रायं हेतुः प्रयोक्तव्यः । दृश्यत्वे तु शीतस्पर्शस्य तत्कारणानां वा कार्यानुपलब्धिर् दृश्यानुपलब्धिर् वा गमिका । तस्माद् एषाप्य् अभावसाधनी । ततो यस्मिन् उद्देशे[114]सद् अपि शीतकरणम् अदृश्यम् शीतस्पर्शश् च दूरस्थत्वात् प्रतिपत्तुर् वह्निर्भास्वरवर्णत्वाद् दूराद् अपि दृश्यस् तत्रायं प्रयोग इति[115] ॥

__________नोतेस्__________
[114] देशे -- अब्च्द्फेन्.
[115] इति ओम्. -- अब्फेन्.
वा शब्दार्थश् चकार इति केचित् । अन्ये तु अवस्तुनो ऽदृश्यत्वस्य सिद्धत्वात् किं तदनुवादेन कार्यम् ? ततो द्वयम् अप्य् एतद् वस्त्वपेक्षया योज्यं । वस्तुनो दृश्यस्य घटादेर् अदृश्यस्य पिशाचादेः । अन्यथा पिशाचादिवस्तुनस् तथात्वं नोक्तं स्यात् । प्रकृतं च तद् एव इति प्रतिपन्नाः । भवत्य् एवं ततः किं सिद्धम् इत्य् आह -- तथा च सती ति । तद्वद् घटवत् । अन्यत्र अन्यस्मिन् दृश्यमाने वस्तुनि । ननु भवतु दृश्यानुपलम्भाद् दृश्यामानेङ्गुल्यादौ सर्वस्य सुमेर्वादेस् तादात्म्यनिषेधस् तथाप्य् उक्तास्वनुपलब्धिषु कुत्रायम् अन्तर्भवतीत्य् आशङ्काम् अपकार्त्तुम् उपसंहारव्याजेनातिदेशम् अप्य् आह एवम् इति । एवंजातीयकस्यैवम् प्रकारवतः । एवम् प्रकारस्येत्य् उक्ते वचनभं (वचनलभ्यं ?) स्यात् । तत्रान्तर्भावो दर्शित एवेति भावः । अथ यदि दृश्यानुपलम्भाद् अन्यत्रान्यस्य दृश्यस्यादृश्यस्य वा तादात्म्यनिषेधः कथं विरुद्धे(-द्ध)व्याप्तोपलब्धेर् अवतार इति चेत् । न दोषः । विरोधप्रतिपत्तिकाले दृश्यानुपलम्भस्य व्यापारात् । तदवगतविरोधेन तु व्याप्तं यत्र दृश्यते विरुद्धव्याप्तोपलम्भाद् एव विवक्षिताभावप्रतीतिर् इति किम् अवद्यं ॥ प्रतिषेध्यस्ये त्यादिना कार्यविरुद्धोपलब्धिं विवृणोति । पूऋववद् धर्म्यादिप्रदर्शनं । वह्नेर् इति शीतनिवर्त्तनक्षमाद् विशिष्टाद् इति द्रष्टव्यं । अन्यथा प्रति(दी)पाद्यात्मनः शीतनिवर्त्तकत्वेनानैकान्तिकतापत्तेः ।
[ध्प्र् प्.135]
व्यापकविरुद्धोपलब्धिर् यथा नात्र तुषारस्पर्शो वह्नेर्[116]इति इइ-38
__________नोतेस्__________
[116] अग्नेर् -- ब्च्फेन्.
प्रतिषेध्यस्य यद् व्यापकं तेन यद् विरुद्धं तस्योपलब्धिर् उदाहर्तव्या यथेति । अत्रेति धर्मी । तुषारस्पर्शो नेति साध्यम् । वह्नेर्[117]इति हेतुः । यत्र व्याप्यस् तुषारस्पर्शो[118]व्यापकश् च[119]शीतस्पर्शो न दृश्यस् तत्रायं हेतुः । तयोर् दृश्यत्वे स्वभावस्य व्यापकस्य चानुपलब्धिर् यतः प्रयोक्तव्या । तथा च[120]सत्य् अभावसाधनीयम् । दूरवर्तिनश् च प्रतिपत्तुस् तुषारस्पर्शः शीतस्पर्शविशेषः शीतमात्रं च[121]परोक्षम् । वह्निस् तु रूपविशेषाद् दूरस्थो ऽपि प्रत्यक्षः । ततो वह्नेः शीतमात्राभावः । ततः शीतविशेषतुषारस्पर्शाभावनिश्चयः । शीतविशेषस्य शीतसामान्येन व्याप्तत्वाद् इति विशिष्टविषये[122]ऽस्याः प्रयोगः ॥
__________नोतेस्__________
[117] अग्नेर् -- अफेन्.
[118] प्रतिषेध्यतुषारस्पर्शो -- च्.
[119] व्यापकं च द्.
[120] च ओम्. ब्पे.
[121] च ओम्. -- ब्.
[122] विशिष्टे विषये -- ब्.
कारणानुपलब्धिर् यथा नात्र धूमो वह्न्यभावाद्[123]इति इइ-39
__________नोतेस्__________
[123] अग्न्यभावाद् -- ब्च्फ्ने.
प्रतिषेध्यस्य यत् कारणं तस्यानुपलब्धेर् उदाहरणं यथेति । अत्रेति धर्मी । न धूम
कीदृशि विषये ऽस्याः प्रयोग इत्य् आह यत्रेति । न केवलं पूर्वं इत्य् अपि शब्दः । अभावो भावव्यवहारश् च् आभाव शब्देनोक्तः । स्यान् मतं । कथं पुनः शीतस्पर्शशीतकारणे ऽदृश्ये वह्निस् तु दृश्यः सम्भवति येनास्याः प्रयोगो घटत इत्य् आह यस्मिन्न् इति । उद्देशे प्रदेशे प्रतिपत्तुर् दूरस्थत्वाद् इति शीतस्पर्शशीतकारणयोर् अदृश्यत्वे कारणं । भास्वरवर्णत्वाद् इति वह्नेर् दृश्यते निबन्धनं । भास्वरो भासनशीलो वर्णो यस्य तद्भावस् तस्मात् । न केवलं निकट इत्य् अपि शब्दः । तत्र तस्मिन् देशे । प्रयोगः पुनर् एवं कार्यः यत्र विशिष्टो वह्निर् न तत्र शीतोपजननाप्रतिबद्धशक्तीनि शीतकारणानि । यथा क्वचिद् अनुभूते प्रदेशे । तथाभूतश् चात्र वह्निर् इति । एतच् चाभ्यासाज् झगिति वह्निदर्शनेन तथाभूतशीतकारणाभावप्रतीतिजन्मन्य् एकं कार्यविरुद्धोपलम्भजम् अनुमानम् उक्तम् आचार्येणेति द्रष्टव्यं । अन्यथा तु विरुद्धोपलम्भकार्यानुपलम्भजे द्वे एते अनुमाने । तथा हि यत्र वह्निर् न तत्र शीतस्पर्श इति स्वभावविरुद्धोपलम्भजम् एकम् अनुमानं । यत्र च यत्कार्यं नास्ति न तत्र तत्कारणं तज्जननाप्रतिबद्धसामर्थ्यम् अस्तीति कार्यानुपलम्भजं द्वितीयम् इति ॥
[ध्प्र् प्.136]
इति साध्यम् । वह्न्यभावाद् इति हेतुः । यत्र कार्यं सद् अपि अदृश्यं[124]भवति तत्रायं प्रयोगः । दृश्ये तु कार्ये दृश्यानुपलब्धिर् गमिका । ततो ऽयम् अप्य् अभावसाधनः[125]। निष्कम्पायतसलिलपूरिते ह्रदे हेमन्तोचितबाष्पयोद्गमे विरले सन्ध्यातमसि सति सन्न् अपि तत्र धूमो न दृश्यत इति कारणानुपलब्ध्या प्रतिषेध्यते[126]। वह्निस् तु यदि तस्यासम्भव उपरि प्लवमानो भवेत् प्रज्वलितो[127]रूपविशेषाद् एवोपलब्धो भवेत् । अज्वलितस् तु इन्धनमध्यनिविष्टो भवेत् । तत्रापि दहनाधिकरणम् इन्धनं प्रत्यक्षम् इति स्वरूपेण आधाररूपेण वा दृश्य[128]एव वह्निर् इति तत्रास्य[129]प्रयोग इति[130]।
__________नोतेस्__________
[124] न दृश्यं, दृश्यं न अफेन्.
[125] -साधकः -- च्.
[126] प्रतिषिध्यते -- ब्.
[127] भवेज् ज्वलितो रूप- -- अफेन्.[भवेज् ज्वलितरूप- -- ए.
[128] [दृश्यमानरूप एव -- च्.
[129] अस्याः -- अब्च्द्फेन्.
[130] इति ओम्. व्ल्.] -- अब्फेन्.
व्यापकविरुद्धोपलब्धिं व्याख्यातुम् आह प्रतिषेध्ये त्यादि । पूर्ववद् धर्म्यादिप्रदर्शनं । अत्रापि विशिष्टाद् वह्नेर् इति द्रष्टव्यं । अस्यापि प्रयोगविषयम् आह यत्रे ति । कथं तयोर् अदृश्यत्वं वह्नेश् च दृश्यत्वं कथं च न शीतस्पर्श एव तुषारस्पर्श इत्य् आशङ्कात्रितयम् अपाकुर्वन्न् आह दूरे ति । चो हेतौ नियमे वा । तयोर् भेदम् उपपादयति तुषारे ति । शीतमात्रम् अशीतव्यावृत्तिमात्रं । ततः शीतमात्राभावात् । शीतविशेषश् चासौ तुषारस्पर्शश् चेति विग्रहः । कथं तदभावनिश्चय इत्य् आह शीतविशेषस्ये ति । एष च वास्तवो निवृत्तिक्रमः परामर्शदशायां दर्शितो न तु तत्प्रयोगकालिकः । तथात्वे हि नैकम् अनुमानम् इदं स्यात् । इती त्यादिनोपसंहरति । इतिर् एवमर्थे । तस्मादर्थे वा । एतेन यद् यत्र नियतसहोपलम्भं तत् ततो न भिद्यते । यथैकस्माच् चन्द्रमसो द्वितीयश् चन्द्रमा । नियमसहोपलम्भस् तु नीलादिज्ञानेनेत्यादि दर्शितं द्रष्टव्यं ॥ कारणानुपलब्धिं विवरिषुर् आह प्रतिषेध्ये ति । ननु द्वयोर् अपि तुल्यस्वज्ञानजननयोग्यतारूपत्वात् तुल्यदृश्यत्वम् इति कथम् अस्याः प्रयोग इत्य् आशङ्क्य विषयम् अस्या दर्शयितुं यत्रे त्यादिनोपक्रमते । ननु मनोमोदकोपयोग्य्मात्रम् एतत् न पुनर् ईदृशो विषयो ऽस्ति यत्राग्निर् एव दृश्यो न धूम इति कथं पूर्वोक्तातिक्रम इत्य् आह निष्कम्पे ति । ह्रदो जलाधारविशेषः । निर्गतः कम्पश् चलनं यस्मात् स तथा स चासाव् आयतो महान् इति तथा । स चासौ सलिलपूरितश् चेत्य् एवं विग्रहः कार्यः । आयत ग्रहणेन ह्रदस्य महत्त्वाद् वाष्पे भूयस् त्व् अमत एव धूमस्य ततो भेदेनानुपलक्षणम् इति दर्शयति । पुनः किं विशिष्टे ? हेमन्ते हेमन्तसंज्ञके काले । उचितो ऽधिकृतश् चासौ वाष्पश् चेति
[ध्प्र् प्.137]

कारणविरुद्धोपलब्धिर् यथा -- नास्य रोमहर्षादिविशेषाः, सन्निहितदहनविशेषत्वाद् इति इइ-40
प्रतिषेध्यस्य यत् कारणं तस्य यद् विरुद्धं तस्योपलब्धेर् उदाहरणं यथेति । अस्येति धर्मी । रोम्णां हर्ष उद्भेदः । स आदिर् येषां दन्तवीणादीनां शीतकृतानाम्, ते विशिष्यन्ते[131]तद् अन्येभ्यो भयश्रद्धादिकृतेभ्य इति रोमहर्षादिविशेषाः । ते न सन्तीति साध्यम् । दहन एव विशिष्यते तदन्यस्माद्[132]दहनाच् छीतनिवर्तनसामर्थ्येनेति दहनविशेषः । कश्चिद् दहनः सन्न् अपि न शीतनिवर्तनक्षमो यथा प्रदीपः । तादृशनिवृत्तये विशेषग्रहणम् । सन्निहितो दहनविशेषो यस्य स तथोक्तः । तस्य भावस् तस्माद् इति हेतुः । यत्र शीतस्पर्शः सन्न् अप्य् अदृश्यो दहनविशेषो यस्य स तथोक्तः । तस्य भावस् तस्माद् इति हेतुः । यत्र शीतस्पर्शः सन्न् अप्य् अदृश्यो रोमहर्षादिविशेषाश् चादृश्याः, तत्रायं प्रयोगः । रोमहर्षादिविशेषस्य दृश्यत्वे दृश्यानुपलब्धिः प्रयोक्तव्या । शीतस्पर्शस्य दृश्यत्वे कारणानुपलब्धिः । तस्माद् अभावसाधनो ऽयम् । रूपविशेषाद् धि दूराद्
__________नोतेस्__________
[131] विशेष्यन्ते -- ब्.
[132] विशेष्यन्ते ऽन्यस्माद् -- ब्.; विशिष्यन्ते ऽन्यस्माद् -- च्.द्.
तथा तस्य् ओद्गम ऊर्ध्वं गमनं यस्मिन् यस्माद् वा स तथा । कालविशेषे ऽप्य् अस्याः प्रयोग इति दर्शयति विरले । सन्ध्याकालोचितं तमः सन्ध्यातमः तस्मिन् विरले मन्दप्रचारे । कुत्र ? ह्रदे तथाविधे च तमसि सति । इतिस् तस्माद् । वह्नेर् अपि तत्रेयं गतिर् भविष्यतीत्य् आह -- वह्निस् त्व् इति । तुः पूर्ववत् । अम्भस इति षष्ठी पुनः षष्ट्य् अतस् अर्थेत्यादिना (पाणिनि 2.3.30) उपरि शब्दस्यातसर्थप्रत्ययान्तरत्वात् । तथा हि ऊर्ध्वं[र्ध्व]शब्दाद् उपर्युपरिष्ठाद् (पाणिनि 5.3.39) इतिर् इत्प्रत्ययो निपातितः । तेनैव सूत्रेणोर्ध्वशब्दस्योपादेशो ऽपि । प्लवमानो ऽवतिष्ठमानः । अनेकार्थत्वाद् धातोर् गच्छन्न् इति वा । स्वरूपेण ज्वालारूपेण् आधाररूपेण् एन्धननिविष्टेन । इतिर् हेतौ । तत्र तस्मिन् स्थानविशेषे । अस्य कारणानुपलम्भस्य । तमिस्रायाम् एव तु रात्रौ निराधारके प्रदेशे कारणानुपलब्धेः प्रयोगः सुकरः तत्र वह्नेर् दृश्यत्वाद् धूमस्य सतो ऽप्य् अदृश्यत्वात् । अनेन पुनर् एवंविधं विषयं परित्यज्यान्यं विषयम् उपपादयता किम् इत्य् आत्मायासति इति न प्रतीमः । एवं तु प्रयोगः कार्यः -- यत्र यस्य कारणं नास्ति न तत् तत्रास्ति । यथा बीजाभावे ङ्कुरः । नास्ति चात्र धूमस्य कारणं वह्निर् इति । एतेन यत्र यत्र विज्ञानस्य कारणं विज्ञानं नास्ति न तत्र विज्ञानम् उपपद्यते । यथोपलशकले । नास्ति च प्राग्भवीयं विज्ञानं कललावस्थायाम् इति कारणानुपलब्धिप्रसङ्गः सुचितस् तुल्यन्यायार्थः ॥ कारणविरुद्धोपलब्धिं व्याख्यातुम् आह प्रतिषेध्यस्ये ति । पूर्ववद् धर्म्यादिप्रदर्शनं । उद्भेदः पुलक इत्य् अर्थः । दन्तवीणा धरोपरिस्थितदन्तपङ्क्तिभ्यां सत्वरम् अभिहन्यमानाभ्यां कटकटकारणं । आदि शब्देन शरीरकम्पस्य ग्रहणं । सुखाद् इत्य् आदिग्रहेण हर्षवीररसयोर् ग्रहणं ।
[ध्प्र् प्.138]

वहनं पश्यति । शीतस्पर्शस् त्व् अदृश्यो रोमहर्षादिव्शेषाश् च । तेषां कारणैरुद्धोपलम्ब्ध्या ऽभावं[133] प्रतिपद्यत इति तत्रास्य प्रयोग[134] इति ॥
__________नोतेस्__________
[133] भावः प्रति -- फेन्. भाव प्रति -- अ.
[134] तत्रास्याः प्रयोग -- अब्च्द्फेन्.
कारणविरुद्धकार्योपलन्धर् यथा -- न रोससर्षादिविशेषयुक्तपुरुषवानयं प्रदेशः, धूमादिति इइ-41
प्रतिषेध्यस्य यत् कारणं तस्य यद् विरुद्धं तस्य यत कार्यं तस्य् ओपपब्धिर् उदारर्त्तव्या -- यथे ति अयं प्रदेश इति[135]धर्मी । योगो युक्तम् । योमहर्षादिविशेषैर् युक्तं रोमहर्षादिविशेषयुक्तम्[136]। तस्य सम्बन्धी पुरुषो[137][138] रोमाहर्षादिविशेषयुक्त पुरुषः । तद्वान् न वह्बतीति साध्यम् । धूमादिति हेतुः ।
__________नोतेस्__________
[135] अयं देश इति अफेन्.
[136] -हर्षविशेष- -- च्. `रोमहर्षादिविशेषयुक्तम्ऽ नास्ति -- ब्.
[137] `पुरुषोऽ नास्ति -- च्.
[138] विशेषयुक्त -- ब्.
किं शीतनिवर्त्तनाक्षमो ऽप्य् अस्ति दहनो येन ततो विशिष्यत इत्य् आह -- कश्चिद् इति । सन्निहितो दहनविशेषो यस्येति विग्र्ःणन् सन्निहितश् चासौ दहनविशेषश् चेति यद् अन्येन व्याख्यतुं तदपहस्तयति । तदा हि व्यधिकरणासिद्धो हेतुः स्याद् इति । क्व पुनर् अस्याः प्रयोग इत्य् आह -- यत्रे ति । ननु शीतस्पर्शरोमहर्षविशेषाणाम् अदृश्यत्वे कथं वह्नेर् दृश्यत्वम् इत्य् आह -- रूपे ति । हिर् यस्मात् । इतिर् एवम् अनन्तरोक्तेन न्यायेन । तत्र विशेषे ऽस्य कारणविरुद्धोपलम्भस्य । एष तु प्रयोगो ऽभिधानीयः -- यत्र यत्कारणविरुद्धम् अस्ति न तत् तत्रास्ति । यथा श्लेष्मविरुद्धे पित्ते न श्लैष्मिको व्याधिः । अस्ति च रोमहर्षादिकारणविरुद्धो वह्निर् अत्रे ति । एतद् अप्य् अत्यन्ताभ्यासाञ् झग् इति सन्निहितदहनविशेषत्वावगममात्रे रोमहर्षादिविशेषाभावप्रतीत्युदये सत्य् एकम् आचार्येणोक्तं । धर्मोत्तरेणापि तथा व्याख्यात इति द्रष्टव्यं । अन्यथा तु विरुद्धोपलम्भकारणानुपलम्भसम्भवे द्वे इमे अनुमाने । तथा हि -- यत्र वह्निर् न तत्र शीतस्पर्श इति विरुद्धोपलम्भजम् एकम् अनुमानं । यत्र शीतस्पर्शाभावो न तत्र तत्कार्यरोमहर्षादीति कारणानुपलम्भजं द्वितीयम् इति ॥ प्रतिषेध्यस्येत्यादिना कारणविरुद्धकार्योपलब्धिं व्याचष्टे । पूर्ववद् धर्म्यादिप्रदर्शनं । रोमहर्षादिविशेषैर् युक्तश् चासौ पुरुषश् चेति कर्मधारयं कृत्वा स विद्यते यत्र स तद्वान् इति शान्तभद्रेन व्याख्यातं । तच् चावद्यं । यतः कर्मधारयमत्त्वर्थीयाद् बहुव्रीहिर् एव लाघवेन इति वचनाद् रोमहर्षादिविशेषयुक्तः पुरुषो यत्रेत्य् एवं विशिष्टे प्रदेशे ऽवगते किं मत्वर्थीयेनेति मन्यमानो महावैयाकरणो यं धर्मोत्तरः प्राह -- योगो युक्तम् इति भावे निष्ठा । यद्य् एवं कृष्णः सर्पो
[ध्प्र् प्.139]
रोमहर्षादिविशेषस्य[139]प्रत्यक्षत्वे दृश्यानुपलब्धिः । कारणस्य शीतस्पर्शस्य प्रत्यक्षत्वे कारणानुपलब्धिः । वह्नेस् तु[140]प्रत्यक्षत्वे कारणविरुद्धोपलब्धिः प्रयोक्तव्या । तर्याणाम् अप्य् अदृश्यत्वे ऽयं प्रयोगः । तस्माद् अभावसाधनो ऽयम् । तत्र[141]दूरस्थस्य प्रतिपत्तुर् दहनशीतस्पर्शरोमहर्षादिविशेषा अप्रत्यक्षाः सन्तो ऽपि, धूमस् तु प्रत्यक्षो यत्र, तत्रैतत् प्रमाणम् । धूमस् तु यादृशस् तद्देशे[142]स्थितं शीतं निवर्तयितुं समर्थस्य वह्नेर् अनुमापकः स इह ग्राह्यः । धूममात्रेण तु[143]वह्निमात्रे ऽनुमिते ऽपि न शीतस्पर्शनिवृत्तिः, नापि रोमहर्षादिविशेषनिवृत्तिर्[144]अवसातुं शक्येति न धूममात्रं[145]हेतुर् इति द्रष्टव्यम् इति॥
__________नोतेस्__________
[139] रोमहर्षविशेष -- द्ब्.
[140] वह्नेः -- च्द्.
[141] यत्र -- अ.
[142] तस्मिन् देशे -- अच्फेन्.
[143] तु ओम्. -- अ.
[144] हर्षादि- -- द्ब्.
[145] शक्यत इति -- च्.; शक्येति धूम- -- अ.; शक्येते न धूम- -- ह्.
यस्मिन् वल्मीके लोहितः शालिर् यस्मिन् ग्रामे गौरः खरो यस्मिन् नरण्य इति बहुव्रीहिणा भवितव्यं । ततश् च कृष्णसर्पवान् वल्मीको लोहितशालिमान् ग्रामो गौरखरवद् अरण्यम् इति न स्यात् । साधवश् चामी प्रयोगस् तत् कथम् अनेनैवं व्याख्यातम् इति चेत् । नैष दोषः । यस्मात् कर्मधारयमत्वर्थीयाद् बहुव्रीहिर् लाघवेन इतीदं वचनं संज्ञाशब्दं वर्जयित्वा वेदितव्यं । संज्ञाशब्दाश् चैते कृष्णसर्पलोहितशालिगौरखरशब्दा इति साधूक्तं योगो युक्तम् इति । रोमहर्षादिविशेषयुक्तम् इति रोमहर्षादिविशेषयोग इत्य् अर्थः । तस्य तद्युक्तस्य तद्योगस्य सम्बन्धी । सम्बन्धीत्य् अनेन सम्बन्धषष्ठीयं समस्यत इति दर्शयति । यतो ऽयं रोमहर्षादिविशेषयोगः स्वात्मना पुरुषं व्यवच्छिनत्ति । ततो व्यवच्छेदकः सन् पुरुषं स्वसम्बन्धिनम् उपपादयति । कदायं प्रयोगो द्रष्टव्य इत्य् आह -- त्रयाणाम् इति वह्निशीतस्पर्शरोमहर्षादिविशेषाणां । अपिर् अवधारणे । कस्माद् एवम् इत्य् आह -- रोमहर्षादिविशेषस्ये त्यादि । हि शब्दार्थश् चात्रार्थाद् द्रष्टव्यः । यत एवं तस्मात् । अयम् इत्य् अयम् अपीति द्रष्टव्यं । क्व पुनस् त्रयाणाम् अप्रत्यक्षत्वं धूमस्य तु प्रत्यक्षत्वम् इत्य् आह -- तत्रे ति वाक्योपेक्षेपे । विद्यमाना प्य् अप्रत्यक्षा यद्य् अभविष्यन् नियतम् उपालप्स्यन्तेति सम्भावनाम् अतिवृत्ताः । दूरस्थस्ये ति हेतुभावेन विशेषणं । ततो ऽयम् अर्थः -- दूरस्थत्वात् प्रतिपत्तुस् ते सन्तो ऽप्य् अप्रत्यक्षा इति । तत्र स्थाने । एतत् कारणविरुद्धकार्यरूपं साधनं प्रमाणम् इत्य् अनुमानाख्यप्रमाणजनकवात् । अदूरस्थत्वे तु प्रतिपत्तुः प्राकारादिव्यवहितोद्देशे ऽयं प्रयोगो द्रष्टव्यः । धूमशब्देन विशिष्टो धूमो विवक्षित इति दर्शयति -- धूमस् त्व् इति । तु शब्दो विशेषार्थः । एतद् एव व्यतिरेकमुखेण द्रढयन्न् आह -- धूममात्रेणे ति । तुः पूर्वस्माद् वैधर्म्यम् आह । इतिर् हेतौ । द्वितीय इतिर् एवम् अर्थः ।
[ध्प्र् प्.140]
यद्य् एकः प्रतिषेधहेतुर् उक्तथ् कथम् एकादशा ऽभावहेतव इत्य् आह
इमे सर्व कार्यानुपलब्ध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धौ सङ्ग्रहम् उपयान्ति इइ- 42
इमे सर्वे इत्यादि[146]। इमे ऽनुपलब्धिप्रयोगाः । इदम् आनन्तरप्रक्रान्ता निर्दिष्टाः । तत्र कियताम् अपि ग्रहणे प्रसक्त आह -- कार्यानुपलब्ध्यादय इति । कार्यानुपलब्ध्यादीनाम् अपि त्रयाणां चतुर्णां वा ग्रहणे प्रसक्त आह[147]-- दशेति । तत्र[148]दशानाम् अप्य् उदाहृतमात्राणां ग्रहणप्रसङ्गे सत्य् आह[149]-- सर्व इति । एतद् उक्तं भवति अप्रयुक्ता[150]अपि प्रयुक्तोदाहरणसदृशाश् च सर्व एवेति । दशग्रहणम् अन्तरेण सर्वग्रहण क्रियमाणे प्रयुक्तोदाहरणकार्त्स्न्यं गम्येत[151]। दःअग्रहणात्[152]तूदाहरणकार्त्स्न्ये[153]ऽवगते सर्वग्रहणम् अतिरिच्यमानम् उदाहृतसदृशकार्त्स्न्यावगतये[154]जायते[155]।
__________नोतेस्__________
[146] इमे सर्वे इत्यादि ओम्. -- ह्न्. इम इत्यादि -- अब्देप्.
[147] प्रसक्ते सत्याह -- फेन्.; प्रसक्तेत्य् आह -- अ.
[148] तत्र ओम्. -- अब्फेन्.
[149] प्रसङ्गे आह -- फेन्.

[150] भवति । प्रयुक्ता -- च्.
[151] गम्यते -- अब्च्द्फेन्.
[152] दशग्रहणोदाहरण- -- ब्.
[153] -ग्रहणाद् आहृतका- -- ब्.
[154] -अधिगतये] -- च्.
[155] जातम् -- ए.
प्रयोगः पुनर् ईदृशो वाच्यः -- यत्र यत्कारणविरुद्धकार्यम् अस्ति तत्र तन् नास्ति । यथा रुदितविशेषे सति न स्मितविशेषः । रोमहर्षादिविशेषयुक्तपुरुषवत्त्वकारणशीतस्पर्शविरुद्धवह्निकार्यञ् चात्र धूम इति । एतद् अप्य् अत्यन्ताभ्यासाञ् झग् इति धूमदर्शनेन रोमहर्षादियुक्तपुरुषवत्त्वाभावप्रतीत्युदये सति कारणविरुद्धकार्योपलब्धिजम् एकम् अनुमानम् उक्तम् आचार्येणेति द्रष्टव्यं । अन्यथा कार्यहेतुविरुद्धोपलम्भकारणानुपलम्भसम्भवानि त्रीण्य् अमून्य् अनुमानानि । तथा हि -- तदेयं परिपाटिः -- यत्र धूमस् तत्राग्निर् इति कार्यहेतुजम् एकम् अनुमानं । यत्र वह्निर् न तत्र शीतस्पर्श इति विरुद्धोपलम्भजं द्वितीयं । यत्र शीतस्पर्शाभावो न तत्र तत्कार्यरोमहर्षादिविशेषयुक्तपुरुषभाव इति कारणानुपलम्भजं तृतीयम् इति । एते च प्रकारा अनुपलब्धेर् उपलक्षणं वेदितव्याः । अन्यासाम् अपि विधानसम्भवात् । तथा हि व्यापकविरुद्धकार्योपलब्धिर् अप्य् अस्ति -- यथात्र तुषारस्पर्शो धूमाद् इति । कार्यविरुद्धकार्योपलब्धिर् अप्य् अस्ति -- यथा नायं नित्यः कदाचित्कार्यकारित्वाद् इति । प्रतिषेध्यस्य नित्यत्वस्य व्यापकं निरतिशयत्वात् । तस्य विरुद्धं सातिशयत्वं । तेन व्याप्तं कदाचित्कार्यकारित्वम् इति । आसाञ् च यथास्वं यथायोगं प्रयोगाः स्वयम् ऊह्याः ।
[ध्प्र् प्.141]

ते स्वभावानुपलब्धौ सङ्ग्रहं तादात्म्येन गच्छन्ति । स्वभावानुपलब्धिस्वभावा इत्य् अर्थः ॥ ननु च स्वभावानुपलब्धिप्रयोगाद् भिद्यन्ते कार्यानुपलब्ध्यादयः । तत् कथम् अन्तर्भवन्ति इत्य् आह --[156]
__________नोतेस्__________
[156] अन्तर्भाव इत्य् आह -- च्.
पारम्पर्येणार्थान्तरविधिप्रतिषेधाभ्यां प्रयोगभेदे ऽपि इइ- 43
प्रयोगभेदे ऽपि प्रयोगस्य शब्दव्यापारस्य भेदे ऽपि अन्तर्भवन्ति । कथं प्रयोगभेद इत्य् आह अर्थान्तरविधीति[157]। प्रतिषेध्याद् अर्थाद्[158]अर्थान्तरस्य विधिर् उपलब्धिः स्वभावविरुद्धाद्युपलब्धिप्रयोगेषु । प्रतिषेधः कार्यानुपलब्ध्यादिषु प्रयोगेषु । अर्थान्तरविधिना, अर्थान्तरप्रतिषेधेन
__________नोतेस्__________
[157] विधीत्यादि -- फेह्.
[158] अर्थाद् ओम्. -- ब्.
केचित् तु नेहाप्रतिबद्धसामर्थ्यानि वह्निकारणानि सन्ति तुषारस्पर्शाद् इति कार्यविरुद्धव्याप्तोपलब्धिम् इच्छन्ति । नात्र धूमस् तुषारस्पर्शाद् इति कारणविरुद्धव्याप्तोपलब्धिम् अपीति ॥ सा च प्रयोगभेदाद् एकादश प्रकारेति यद् उक्तं तदसहमानश् चोदयति यदीति । अत्र [न्ब् इइ 17, एदितोर्] द्वौ वस्तुसाधनाव् एकः प्रतिषेधहेतुर् इत्य् अनेनैकः प्रतिषेधहेतुर् उक्त इति चोदयितुर् आशयः । कार्ये त्यादिना दशग्रहणस्य तात्पर्यार्थं व्याचष्टे । अपि शब्दः शङ्कायां । सर्व ग्रहणस्यापि तात्पर्यार्थम् आह -- तत्रे ति वाक्योपन्यासे । अपिः पूर्ववत् । उदाहृत एवोदाहृतमात्राणि तेषां । अनेन द्रव्यकार्त्स्न्यवृत्तः सर्वशब्दो गृहीत इति दर्शितं । तर्हि सर्वग्रहणम् एवास्तु किं दशग्रहणेनेत्य् आह -- दशे ति । प्रयुक्तोदाहरणकार्त्स्न्यं गम्येतेति लोके सर्वे पदातु(त)यो ऽत्र योद्धारः इत्यादौ सर्वशब्दस्योपदर्शितकार्त्स्न्यवृतस्य दर्शनाद् उक्तं । यद्य् एवं दशग्रहणे ऽप्य् एवं किं न स्याद् इत्य् आह -- दशग्रहणाद् इति । तुर् शब्दग्रहणरहितपक्षाद् वैधर्म्यम् आह । अतिरिच्यमानम् अधिकीभवद् गतार्थं सद् इति यावत् उपदर्शिततुल्याव् अबोधाय सम्पद्यते । स्याद् एतत् -- इमे सर्वे दशानुपलब्धिप्रयोगा इत्य् एतावतैव क्रियतां ग्रहणप्रसङ्गो निराकृत एवेति कथं कार्यानुपलब्ध्यादिग्रहणम् आचार्यस्य नातिरिच्यते कथं च धर्मोत्तरस्यैषा तात्पर्यार्थव्याख्या -- तत् कियताम् अपि प्रसक्त आहेत्य् अपर्यालोचितव्याख्यानं [न] भवतीति चेत् । नैष दोषः । तथा हि -- प्राक्तनैकादशग्रहणस्योपलक्षणार्थत्वेनान्येषाम् अपि व्यापकविरुद्धव्याप्तोपलब्ध्यादिप्रयोगाणाम् अभिमतत्वाद् आद्याङ् कार्यानुपलब्ध्यादिप्रयोगान् विहाय दशसंख्यापूरणं कृतं भवत्य् एवेति तदाशङ्कानिवृत्त्यर्थं कार्यानुपलब्ध्यादिग्रहणं कृतम् आचार्येण । धर्मोत्तरेणापि तथा व्याख्यातम् इति । न तर्हि दशग्रहणं कर्त्तव्यम् इति चेत् । न -- अस्योपलक्षणार्थत्वाद् अदोष एषः ।
[ध्प्र् प्. 142]
च प्रयोगो भिद्यन्ते । यदि प्रयोगान्तरेष्व् अर्थान्तरविधिप्रतिषेधौ कथं तर्हि[159]अन्तर्भवन्ति इत्य् आह पारम्पर्येणेति प्रणालिकयेत्य् अर्थः । एतद् उक्तं भवति न साक्षाद् एते प्रयोगा दृश्यानुपलब्धिम् अभिदधति दृश्यानुपलब्ध्यव्यभिचारिणं त्व् अर्थान्तरस्य विधिं निषेधं वा ऽभिदधति । ततः प्रणालिकयामीषां स्वभावानुपलब्धौ सङ्ग्रहो न साक्षाद् इति ॥ यदि प्रयोगभेदाद् एष भेदः[160]परार्थानुमाने वक्तव्य एषः । शब्दभेदो हि प्रयोगभेदः । शब्दश् च[161]परार्थानुमानम् इत्य् आशङ्क्याह --
__________नोतेस्__________
[159] तर्हि ओम्. -- च्.
[160] प्रयोगभेदेन भेदः -- अफेन्.; प्रयोगभेदाद् एव भेदः -- ब्च्.
[161] तु -- ब्च्.
प्रयोगदर्शनाभ्यासात् स्वयम् अप्य् एवं व्यवच्छेदप्रतीतिर् भवतीति स्वार्थे ऽप्य् अनुमाने ऽस्याः प्रयोगनिर्देशः[162] इइ-44
__________नोतेस्__________
[162] व्यवच्छेदप्रतीतिर् इति स्वार्थानुमाने ऽप्य् अस्याः प्रभेदनिर्देशः -- च्.
प्रयोगदर्शनेत्य् आदि । प्रयोगाणां शास्त्रपरिपठितानां[163]दर्शनम् उपलम्भः । तस्याभ्यासः पुनः पुनर् आवर्त्तनम् । तस्मान् निमित्तात् । स्वयम् अपीति प्रतिपत्तुर् आत्मनो ऽपि । एवम् इत्य् अनन्तरोक्तेन क्रमेण[164]। व्यवच्छेदस्य प्रतिषेधस्य प्रतीतिर् भवतीति[165]इतिशब्दस् तस्माद् अर्थे ।
__________नोतेस्__________
[163] शास्त्रघटितानाम् -- अफेन्.; शास्त्रपरिघटितानाम् -- ब्.; शास्त्रगदितानां पाठान्तरम्, --टि-
[164] प्रयोगदर्शनाभ्यासक्रमेण -- टि-
[165] इति ओम्. -- च्ब्.
कथं सङ्ग्रहम् अन्तर्भावं गच्छन्तीत्य् आह -- तादात्म्येनेति । तस्याः स्वभावानुपलब्धेर् आत्मा तदात्मा तस्य भावस् तेन स्वभावानुपलब्धित्वेन । अनुपलब्धिस्वभावा इत्य् अर्थः -- इतीदं स्पष्टीकरणम् अपि स्वभावानुपलब्धिस्मारकत्वेन तत्स्वभावा इति द्रष्टव्यं ॥ ...र् एव किं न शब्दाख्या यत इति चेत् न -- परम्पर्यग्रहणव्याघातप्रसङ्गात्, न साक्षाद् एत इत्यादिवक्ष्यमाणधर्मोत्तरीयव्याख्यानव्याघातप्रसङ्गाच् चेति । शब्दस्य व्यापारो ऽभिघातलक्षणः तस्य भेदे भिद्यमानत्वे ऽपि । स्वभावविरुद्धादीत्यादिग्रहणेन कारणविरुद्धादीनां ग्रहणं । कार्यानुपलब्ध्यादीत्यादिग्रहणेन व्यापकानुपलब्ध्यादीनां ग्रहणं । अर्थान्तरविधिप्रतिषेधाभ्याम् इति मूले कारणतृतीयाद् विवचनान्तम् एतद् इति दर्शयन्न् आह -- अर्थान्तरेति । चस् तुल्यबलत्वं समुच्चिनोति । भिद्यन्ते नानारूपा भवन्ति । प्रयोगान्तरेष्व् इत्य् अन्तरशब्दो ऽन्यवचनः स्वभावानुपलब्ध्यपेक्षया । परम्परा परिपाटिः । सैव पारम्पर्यम् इति स्वार्थिकः प्रत्ययः । एतद् एव स्पष्टयति -- प्रणालिकयेति । ननु यद्य् अमीषां दृश्यानुपलब्धाव् अन्तर्भावस् तदा साक्षात् तदभिधानं तथात्वे च कथं पारम्पर्येणेत्य् आशङ्क्याह -- एतद् उक्तं भवति । यदि नाभिदधति तदा -- न साक्षाद् इति न कर्त्तव्यं ।
[ध्प्र् प्. 143]
तद् अयम् अर्थः यस्मात् स्वयम् अप्य् एवम् अनेनोपायेन[166]प्रतिपद्यते प्रयोगाभ्यासात् तस्मात् स्वप्रतिपत्ताव् अप्य् उपयुज्यमानस्यास्य प्रयोगभेदस्य स्वार्थानुमाने निर्देशः ।[167]यत् पुनः परप्रतिपत्ताव् एवोपयुज्यते तत् परार्थानुमान एव वक्तव्यम् इति ॥
__________नोतेस्__________
[166] अनेन मेयेन -- पाठः -- टि-
[167] यत् पुनस् त्रिरूपं लिङ्गाख्यानम् -- टि-

सङ्ग्रहश् च कथम् इत्य् आह -- दृश्येति । तुर् विशेषार्थे यस्मादर्थे वा । विधिम् अग्न्यादेः । निषेधं व्यापकादेः । चकारो वाशब्दार्थे । ततस् तदव्यभिचारिविधिनिषेधाभिधानात् । न साक्षात् नाव्यवधानेन । अर्थान्तरविधिप्रतिषेधयोश् च दृश्यानुपलम्भाव्यभिचारित्वं कार्यकारणभावादिग्रहणकालप्रवृत्तदृश्यानुपलम्भस्मारकादि द्रष्टव्यं । एष भेद इति स्वभावानुपलब्ध्यादिरूपः । कस्मात् तत्र वाच्य इत्य् आह शब्देति । हिर् यस्मात् । शब्दभेदस् त्रिरूपलिङ्गवाक्यनानात्वं । यद्य् अप्य् एवं तथापि कथं तत्र वक्तव्य इत्य् आह -- शब्दश् चेति । चो हेतौ । शास्त्रपरिपठितानाम् इति शास्त्रपरिपठितद्द्वारेण परिज्ञातानां स्वभावाद्यनुपलब्ध्यादिवाचकानां वाक्यानाम् इति द्रष्टव्यं । उपलम्भो द्विविधो वाच्यरूपो वाचकरूपश् च । अत एवावर्त्तनम् अपि द्वेधा शब्दरूपावर्त्तनम्, अर्थावर्त्तनं च । तत्रार्थावर्त्तनं पुनः पुनश् चेतसि विवेशनं । शब्दावर्त्तनं पुनः पुनर् उच्चारणं । मूले स्वयंशब्द आत्मन इति षष्ट्यर्थे वर्त्तमानो गृहीत इत्य् आशयेनाह -- प्रतिपत्तुर् आत्मन इति । स्वार्थानुमानप्रस्तावात् प्रतिपत्तृशब्देन यस् त्रिरूपेण लिङ्गेन परोक्षम् अर्थं प्रतिपद्यते स गृह्यते । अपिशब्दात् परो ऽपि तस्मात् प्रतिपद्यत इति सम्बन्धनीयं । मूले तु न केवलं परस्येति योजनीयं । अनन्तरोक्तेन परिपठितस्वभावानुपलब्ध्यादिसूचितेन स्वभावानुपलब्ध्यादिप्रयोगक्रमेण । यत इतिशब्दस् तस्मादर्थे ततस् तस्माद् अयं वक्षमाणो ऽर्थः । तस्माच् छब्देन यस्माच् छब्दस्यान्वयाद् यस्माद् इत्य् उक्तं । अनेन स्वभावानुपलब्ध्यादिप्रयोगलक्षणेनोपायेन प्रतिपद्यत इत्य् आशङ्क्य पूर्वम् एव स्मरयति प्रयोगाभ्यासाद् इति । स्यान् मतम् -- न स्वयम् उच्चरितः शब्दस् तत्प्रतिपत्तेर् निमित्तं । प्रतिपन्ने शब्दप्रयोगात् ॥ अन्यथा प्रतिनियतप्रयोगायोगात् । तत् कथं पिष्टपेषणकारी शब्द उपायत्वेनोच्यत इति नैतद् अस्ति । यतो लिङ्गदर्शनेनान्यतो वा निमित्तात् प्रबुद्धवासनो मन्दप्रचारार्थस्मरणो ऽत्यन्राभ्यस्तप्रयोगस् तथाविधप्रयोगम् उच्चार्यैवं तत्त्वम् अवगाहमानस् तदर्थं प्रतिपद्यते -- यथा कश्चिद् अभ्यासात् सति धर्मिणि धर्माणां लोके चिन्ता प्रवर्त्तत इत्य् उच्चार्यैवास्यार्थं प्रतिपद्यते, तद्वत् त्रिरूपाख्यानं वाक्यम् उच्चार्यैव कश्चिद् अभ्यस्तप्रयोगः परोक्षम् अर्थं प्रतिपद्यते । ततो ऽयम् उपायो भवत्य् एव । ततो परस्यापि प्रतीत्युदयात्
परार्थानुमानम् अपि स्याद् इति चेत् । भवतु । का क्षतिः ? स्वप्रतिपत्तिप्रयोजनं सत्व्सार्थानुमानं तदैव च तेनान्यः प्रतिपद्यत इति परप्रतिपत्तिप्रयोजनं सत् परार्थानुमानं । अत एवम् अशब्दे ऽपि कश्चिन् नियतो ऽस्तीत्य् अवाचामेति ।
[ध्प्र् प्. 144]
ननु च कार्यानुपलब्ध्यादिषु कारणादिनाम् अदृश्यानाम् एव निषेधः[168]दृश्यनिषेधे स्वभावानुपलब्धिप्रयोगप्रसङ्गात्[169]। तथा च सति[170]न तेषां दृश्यानुपलब्धिनिषेधः । तत् कथम् एषां प्रयोगाणां दृश्यानुपलब्धाव् अन्तर्भाव इत्य् आह --
__________नोतेस्__________
[168] प्रतिषेधः -- अफेन्.
[169] स्वभावानुपलम्भ- -- अब्फेन्.
[170] अदृश्यानां निषेधे सति -- टि-
सर्वत्र चास्याम् अभावव्यवहारसाधन्याम्[171]अनुपलब्धौ येषां स्वभावविरुद्धादीनाम्[172]उपलब्ध्या कारणादीनाम् अनुपलब्ध्या च प्रतिषेध उक्तस् तेषाम् उपलब्धिलक्षणप्राप्तानाम् एवोपलब्धिर् अनुपलब्धिश् च वेदितव्या इइ- 45
__________नोतेस्__________
[171] अभावाभावव्यवहारसाधन्याम् -- ए

[172] -विरुद्धानाम् -- च्.
सर्वत्र चे त्य् आदि[173]। अभावश् च तद्व्यवहारश् च अभावव्यवहारौ[174]। स्वभावानुपलब्धाव् अभावव्यवहारः साध्यः । शिष्टेष्व् अभावः । तयोः साधन्याम् अनुपलब्धौ । सर्वत्र चेति चशब्दो हिशब्दस्यार्थे । यस्मात् सर्वत्रानुपलब्धौ[175]येषां प्रतिषेध उक्तस् तेषाम् उपलब्धिलक्षणप्राप्तानां दृश्यानाम्[176]एव[177]प्रतिषेधस् तस्माद् दृश्यानुपलब्धाव् अन्तर्भावः ।
__________नोतेस्__________
[173] सर्वत्र चेत्य् आदि ओम्. -- ह्न्
[174] तस्य च व्यवहारो ऽभावव्यवहारौ -- अफे
[175] सत्यां -- भ्ल्
[176] दृश्यमानानाम् -- ब्
[177] स -- अफेन्
कुत एतद् दृश्यानाम् एवेत्य् आह स्वभावेत्य् आदि । अत्रापि चकारो हेत्वर्थः । यस्मात् स्वभावविरुद्धादिर् येषां तेषाम् उपलब्ध्या कारणमादिर् येषां तेषाम् अनुपलब्ध्या प्रतिषेध उक्तस् तस्माद् दृश्यानाम् एव प्रतिषेध इत्य् अर्थः ।
यदि नाम स्वभावविरुद्धाद्युपलब्ध्या कारणाद्यनुपलब्ध्या[178]च प्रतिषेध उक्तस् तथापि कथं डृश्यानाम् एव प्रतिषेध इत्य् आह उपलब्धिर् इत्य् आदि । अत्रापि चकारो हेत्वर्थः । यस्माद् ये विरोधिनः व्याप्यव्यापकभूताः कार्यकारणभूताश् च ज्ञातास् तेषाम् अवश्यम् एवोपलब्धिः उपलब्धिपूर्वा चानुपलब्धिर् वेदितव्या ज्ञातव्या[179]। उपलब्ध्यनुपलब्धी च द्वे येषां स्तस् ते दृश्या एव । तस्मात् स्वभावविरुद्धाद्युपलब्ध्या कारणाद्यनुपलब्ध्या चोपलब्ध्यनुपलब्धिमतां विरुद्धादीनां प्रतिषेधः क्रियमाणो दृश्यानाम् एव कृतो द्रष्टव्यः ।
__________नोतेस्__________
[178] कारणानुपलब्ध्या -- च्
[179] ज्ञातव्या ओम्. -- अब्फेन्
केचित् पुनर् एवं व्याकषते -- स्वयम् इत्यादिना ग्रन्थेन वार्त्तिककृतेदम् उक्तम् -- स्वभावादीनाम् अनुपलब्ध्या विरुद्धादीनाञ् चोपलब्ध्या यथायोगम् अभावं तद्व्यवहारं च प्रयोगनिरपेक्ष एव प्रतिपत्ता प्रत्येति । न केवलं प्रयोगाभ्यासात् प्रतिपत्तिसमय एव प्रयोगम् उच्चारयति । न तु ततो पूर्वम् अवगच्छतीतरथा प्रतिनियतशब्दोच्चारणं न भवेद् इति । अनेनोपायेनेति चोपाय इहोपायस् तथाशब्दोच्चारणक्रमस् तेनेति वर्णयन्ति । एतेन चानुपलब्धिप्रयोगसमर्थनन्यायेन ।
[ध्प्र् प्. 145]
बहुषु चोद्येषु प्रक्रान्तेषु परिहारसमुच्चयार्थश् चकारो हेत्वर्थो भवति । यस्माद् इदं चेदं च समाधानम् अस्ति तस्मात् तत्तच्चोद्यम् अयुक्तम् इति चकारार्थः ॥ कस्मात् पुनः प्रतिषेध्यानां विरुद्धादीनाम् उपलब्ध्यनुपलब्धी वेदितव्ये इत्य् आह
अन्येषां विरोधकार्यकारणभावाभावासिद्धेः[180] इइ-46
__________नोतेस्__________
[180] -कारणभावासिद्धेः -- ए; -कारणभावासिद्धिः -- ब्फ्
अन्येषाम् इति । उपलब्ध्यनुपलब्धिमद्भयो ऽन्ये ऽनुपलब्धा एव ये तेषां विरोधश् च कार्यकारणभावश् च केनचित् सहाभावश् च व्याप्यस्य व्यापकस्याभावे[181]न सिध्यति यस्मात् ततो विरोधकार्यकारणभावाभावासिद्धेः[182]कारणाद् उपलब्ध्यनुपलब्धिमन्त एवं विरुद्धादयो निषेध्याः । उभयवन्तश् च दृश्या एव । तस्माद् दृश्यानाम् एव प्रतिषेधः । तद् अयम् अर्थः । विरोधश् च[183]कार्यकारणभावश् च व्यापकाभावे व्याप्याभावश् च दृश्यानुपलब्धेर् एवेति । एकसंनिधाव् अपराभावप्रतीतौ[184]ज्ञतो विरोधः । कारणाभिमताभावे च कार्याभिमताभावप्रत्यये ऽवसितः कार्यकारणभावः[185]। व्यापकाभिमताभावे च[186]व्याप्याभिमताभावे
__________नोतेस्__________
[181] व्यापकाभावे -- च्
[182] विरोधिकार्य- -- अब्पेह्न्
[183] च ओम्. -- अफेन्
[184] एकसंनिधाने पराभावप्रतीतौ -- च्
[185] अवसितकार्यकारणभावः -- अफे
[186] च ओम्. -- अब्च्फेन्
अन्ये पुनर् अन्यथा व्यवस्थिताः -- स्वयम् अपीत्यादिकं नाविर्भूतप्रयोगम् अधिकृत्योक्तम्, किन् त्व् अन्तर्जल्पाकारप्रवृत्तं स्वप्रतिपत्तिकालभाविनम् इति । अत्र च साध्व् असाधु वा व्याख्यानं साधुभिर् एव ज्ञातव्यम् इति । स्याद् एतत् -- यथा प्रयोगभेदः स्वार्थानुमाने कथ्यते तथा च न किञ्चिद् वाच्यं परार्थानुमाने स्याद् इत्य् आशङ्क्याह -- यत् पुनर् इति । परप्रतिपत्ताव् एव, न तु स्वप्रतिपत्ताव् अपीत्य् अवधारणार्थः ॥ सम्प्रति दृश्यानुपलब्धाव् अन्तर्भावं सर्वानुपलब्धीनाम् असहमान आह -- ननु चेति । तथा च सति कारणादीनाम् अदृश्यानां निषेधप्रकारे सति । शिष्टेषु परिशिष्टेषु अभाव इत्य् अभावो ऽपीति द्रष्तव्यं । न त्व् अभाव एव व्यवहारस्यापि साधनात् । कारणा[द्य्]अनुपलब्ध्या च करणभूतया । कार्यकारणभावादिग्रहणकाले योपलब्धिर् अनुपलब्धिश् च पूर्वम् आसीत् तद्वतां प्रतिषेधः क्रियमाणो दृश्यानाम् एव कृतो द्रष्टव्यो ज्ञातव्यः । यथा अर्थविरोधादिग्रहणकाले ऽवश्यंभाविनी दृश्यानुपलब्धिस् तथानन्तरम् एव धर्मोत्तरेण प्रसाधयिष्यते । ननु च कारणादीनां चेत्य् अनेन प्र(च)कारणेनावश्यं समुच्चयार्थेन भाव्यम्, तत् कथं हेत्वर्थे व्याख्यायत इत्य् आशङ्क्य पूर्वं बुद्धिस्थं स्पष्टयन्न् आह -- बहुष्व् इति । एवम् मन्यते -- समुच्चयार्थे वर्त्तमान एवायं हेत्वर्थे वर्त्तते । न त्व् एवं समुच्चयार्थो निराक्रियते, हेतूनां परस्परसमुच्चयस्य प्रतीयमानत्वात् । तथा स न हेत्वर्थो भवति । इतिर् एवं चकारस्यार्थः प्रयोजनं ॥
[ध्प्र् प्. 146]
मताभावे मिश्चिते निश्चतो व्याप्यव्यापकभावः । तत्र[187] व्याप्यवयापकभावप्रतीतेर् निमित्तमभावः प्रतिपत्तव्यः । इह गृहीते वृक्षाभावे हि शिशपात्वाभावप्रतीतौ [188]प्रतीतो व्याप्यवापकभावः । अभावप्रतिपत्तिश् च सर्वत्र दृश्यानुपलब्धेर् एव । तस्माद् विरोधम् कार्यकारणभावम्, व्याप्यव्यापकभावं च स्मरता विरोध--कार्यकारणभाव--व्याप्यव्यापकभाविविषयाभावप्रतिपत्ति[189] निबन्धनं दृशानुपलब्धिः स्मर्तव्या । दृश्यानुपलब्ध्यस्मरणे विरोधाकीनाम् अस्मरणम् । तथा च सति न निरुद्धादिविधिप्ल्रत्षेधाभ्यामितराभावप्रतीतिः स्यात् । व्चिरोधादिग्रहणकालभाविन्यां च दृशानुपलब्धाववश्यस्मर्तव्यायां तत एवाभावप्रतीतिः ।
__________नोतेस्__________
[187] तत् -- च्.
[188] -भावप्रतीतौ व्या- -- ब्.
[189] देशकालस्वभावविप्रकृष्टाः पिशाचाद्ययस् तेषां पिशाचादीनां विरोधश् च केनचिद् अग्निना सह न सिध्यतीति सम्बन्धः । तथा कार्यकारणभावश् च पिशाचादीनां केनचिद् धूमेन सार्धं न सिध्यति । -- टि-
तत्र यद्य् अपि संप्रतितनी[190] नास्ति दृश्यानुपलब्धिर् विरोधादिग्रहणकाले त्व् आसीत् । या दृश्यानुपलब्धिः सम्प्रति स्म्र्यमाणा सैवाभावप्रतिपत्तिनिबन्धनम् । ततः सम्प्रति नास्ति [191]दृश्यानुपलब्धिर् इत्य् अभावसाधनत्वेन दृश्यानुपलब्धिप्रयोगाद् भिद्यन्ते कार्यानुपलब्ध्यादिप्रयोगाः ।
__________नोतेस्__________
[190] संप्रति सास्ति -- अ.ब्.प्.ह्.ए.न्.
[191] दृश्योपलब्ध- -- अ.ब्.प्.ह्.ए.न्.

विरुद्ध शब्देन प्रतिषेध्यस्य विरुद्धं ग्राह्यं । आदिशब्देन विरुद्धकार्यादीनां ग्रहणं । येषाम् एकदोपलब्धिस् तेभ्यो --न्ये --नुपलब्धा एव । कदाचित् क्वचिद् अज्ञाता एव । व्यापकस्याभावे ऽभावश् च व्याप्यस्य न सिद्ध्यिति (?) यस्मात् । अयम् आशयः -- यदि पूर्वं व्यापकाभिमतस्याभावे व्याप्याभिमताभावो निश्चितो भवेत् तदा व्याप्यव्यापकभावः सिद्ध्येत्, तदा च व्यापकानुपलब्धिर् गमिका स्यात्, नान्यदेति । अयम् अत्र प्रकरणार्थः -- प्रबन्धेन भवतो यद्भावे यस्याभावस् तस्य विरोधगतिर् यत् स्वभावश् च येनोपलभ्यते तेन सह कार्यकारणभावो ऽपि पञ्चप्रत्यक्षानुपलम्भम् अधिगम्यः, व्याप्यव्यापकभावो पि प्रत्यक्षानुपलम्भावसेय इति कथम् अदृश्यस्य सिध्यन्तीति । ननु भवन्तु ते ऽन्यत्र दृश्याः, तत्र तावद् अदृश्या एव वक्तव्याः । दृश्यत्वे दृश्यानुपलम्भप्रयोगात् । तत् कथं दृश्यानुपलब्धावितरासाम् अनुपलब्धीनाम् अन्तर्भाव इत्य् आशङ्क्य तथा तत्रान्तर्भावस् तथा दर्शयितुम् आह -- तद् इति । यस्माद् अन्यत्र दृश्यत्वे ऽपि विरुद्धादीनां दृश्यानुपलम्भे ऽन्तर्भावो न घटते, स चाचार्येणोक्तस् तत् तस्माद् अयम् अर्थः -- सर्वत्र चेत्यादेर् वाक्यस्य तात्पर्यार्थः । कथं दृश्यानुपलब्धेर् इत्य् अयम् अमुम् अर्थं तावत् प्रसाधयति -- एकेति । कार्यकारणभावे का वार्त्तेत्य् आह -- कारणेति । यद्य् एवं व्याप्यव्यापकभावस्य का गतिर् इत्य् आह -- व्यापकेति । ननु च व्याप्यव्यापकभावनिश्चये तयोर् एकत्वात् किम् अभावनिश्चयेनेत्य् आह -- तत्र व्याप्यव्यापकभावनिश्चये कर्त्तव्ये । कथम् अभावप्रतीतिर् व्याप्यव्यापकभावप्रतीतेर् निमित्तम् इत्य् आह -- इहे ति ।
[ध्प्र् प्. 147]

विरुद्धविधिना, कारणादिनिषेधेन च यतो दृश्यानुपलब्धिर् आक्षिप्ता ततो दृश्यानुपलब्धेर् एव[192]कालान्तरवृत्तायाः स्वृतिविषयभूताया अभावप्रतिपत्तिः । अभीषां च प्रयोगाणां दृश्यानुपलब्धावन्तर्भावः । तद् अनेन सर्वेण दृश्यानुपलब्धावन्तर्भावो दशानामनुपलभ्धिप्रयोगाणां पारब्प्र्येण दर्शित इति वेदितव्यम् ॥
__________नोतेस्__________
[192] -लब्धिर् एव -- च्
आस्तां सर्वत्र विरोधादाव् अभावप्रतीतिः, दृश्यानुपलब्धिस् तु क्वोपयुज्यत इत्य् आह -- अभावेति । चो हेतौ । ननु यदि नाम विरोधादिग्रहणकाले दृश्यानुपलब्धिर् आसीत्, तथापि न सा विरुद्धोपलब्धिव्यापकानुपलब्ध्याद्प्रयोगविषये सम्प्रत्य् अनुवर्त्तते । तत् कथं विरुद्धोपलब्ध्यादीनां तत्रान्तर्भाव इत्य् आह -- तस्माद् इति । यतो ऽभावप्रतीतिम् अन्तरेण न विरोधादिसिद्धिः, अभावसिद्धिश् च दृश्यानुपलब्धेस् तस्माद् हेतोर् विरोधादिकं स्मरतेति विरुद्धोपलम्भव्यापकानुपलम्भादिप्रयोगकाल इति द्रष्टव्यं । तदस्मरणे हि यतो विरुद्धादिर् इहास्ति, यतो ऽयं व्यापकादिर् नास्ति, तस्मात् तत् तन्नास्तीत्य् अस्याः प्रतीतेर् अयोगात् -- इत्य् अपि द्रष्टव्यं । स्मरतेति च तदानीं विरोधादेर् ग्रहणाद् गृहीतस्यैव विकल्पनाद् उक्तं । कुतः पुनर् अवश्यस्मर्त्तव्या सेत्य् आह -- दृश्येति । अथ स्यात् -- प्राक्तनी दृश्यानुपलब्धिः सदा स्मर्यताम्, तथापि कथम् असौ विवक्षिताभावसिद्धाव् उपयोगं भजते, येनात्मनीतरा अनुपलब्धौ(-ब्धी)र् अन्तर्भावयतीत्य् आह -- विरोधेति । चो यस्मात् तस्यां नियतस्मरणायां सत्यां । ननु विरुद्धोपलब्धिकारणाद्यनुपलब्धिप्रयोगविषये सा नास्ति तत् कथम् अविद्यमाना सैवाभावप्रतीतेर् निबन्धनम् इत्य् आह -- त् अत्रेति वाक्योपन्यासे । सम्प्रतीदानीं स्मर्यमाणा सैवाभावप्रतीतेर् निबन्धनं विरुद्धाद्यभावज्ञानस्य करणं । कथं तर्हि दृश्यानुपलब्धेर् विरुद्धोपलब्ध्यादीनां भेद इत्य् आह -- तत इति । ततो विरोधादिग्रहणकालप्रवृत्ताया दृश्यानुपलब्धेः स्मर्यमाणत्वात्, सम्प्रति सा नास्ति । इतिस् तद्माद् अत्राभावः साध्यते तेनाभावसाधनत्वेन ततो भिद्यन्ते विरुद्धोपलब्ध्यादिप्रयोगः । विरुद्धविधिनेत्यादिनोक्तम् अर्थम् उपसंहरति । विरुद्धविधिनेत्य् उपलक्षणं । विरुद्धकार्यादिविधिनापि दृश्यानुपलम्भाक्षेपात् । अन्यथा तासां तत्रान्तर्भावो न स्यात् । ननु स्वातन्त्र्येण त्वया तस्या एव प्राक्प्रवृत्ताया अभावनिश्चयो दर्शितस् तत्र चानुपलब्धीनाम् अन्तर्भावः, न त्व् आचार्यस्यायम् अभिप्रेत इत्य् आशङ्क्याचार्यस्यैवायम् अभिप्रेतो ऽर्थ इति दर्शयन्न् आह -- तदनेनेति । अनेन इमे सर्व (न्ब् इइ 42) इत्यादिना व्यापकभावसिद्धेर् इत्य् अन्तेन । अयम् अत्र प्रकरणार्थः -- दृश्यानुपलम्भस्यावक्तव्यत्वेन दशानाम् अप्य् अनुपलब्धीनां तत्रान्तर्भावः, विरुद्धाद्यभावप्रतीताव् अनुपयोगश् चेति ।
[ध्प्र् प्. 148]
उक्ता दृश्यानुपलभ्दिर् अभावे, अभावव्यवहारे च साध्ये प्रमाणम् । अदृश्यानुपलब्धिस् तु[193] किं स्वभावा, किंव्यापारा[194] चेत्य् आह--
__________नोतेस्__________
[193] लब्धिः किं -- अ.प्.ह्.ए.
[194] विषन्यानुप--- ब्छेन्
विप्रकृष्टविषया पुनर् अनुपलब्धीः प्रत्यक्षानुमाणनिवृत्तिलक्षणा संशयहेतुः इइ-47
विप्रक्ष्टे त्यादि । विप्रकृष्टस्त्रिभिर् देशकालस्वभावविप्रकर्षैर् यस्या विषयः सा विप्रकृष्टविषयेति संशयहेतुः । किंस्वभावा सेत्य् आह -- प्रत्यक्षानुमाननिवृत्तिर् लक्षणं स्वभावो य्स्याः सा प्रत्यक्षणा । न ज्ञानज्ञेयस्वभावेति यावत् ॥
केचित् पुनर् अत्रैवं ब्रुवत् -- इहैकज्ञानसंसर्गिवस्त्वन्तरोपलम्भो ऽनुपलम्भः । न च शीतस्य निषेधे साध्ये दूरत्वाद् वह्नेर् भास्वररूपोपलब्धिः शीतस्पर्शानुपलब्धिर् युज्यते । येनानुपलब्धिः सिद्ध्येत्, रूपस्पर्शयोर् एकज्ञानसंसर्गित्वाभावात् । न च विरोधग्रहणकालप्रवृत्तदृश्यानुपलम्भस्मारकत्वेन दृश्यानुपलम्भत्वं वाच्यम्, प्राक्प्रवृत्तप्रत्यक्षस्मारकत्वेनापि प्रत्यक्षत्वप्रसङ्गात् । अत एव विरोधादिग्रहणकालप्रवृत्तदृश्यानुपलम्भस्मारकत्वेनानुपलब्धीनां तत्रान्तर्भावो न युज्यते । नापि स्मृतायास् तस्या एवाभावनिश्चयः, व्याप्तिग्राहकप्रमाणस्मारकत्वेन परार्थानुमानस्य तत्प्रमाणान्तर्भावप्रसङ्गात् , तत एव स्मर्यमाणात् प्रमाणाद् विवक्षितप्रतीतिप्रसङ्गाच् च । तस्मात् सर्वत्रैव सम्प्रतितनो दृश्यानुपलम्भो दर्शनीयस् तद्बलेनैवाभावनिश्चयो वाच्यः, न तु प्राक्प्रवृत्ताद् दृश्यानुपलम्भात् स्मृत्या विषयीकृताद् अभावनिश्चयः । नापि तत्स्मारकत्वेनानुपलब्धीनां तथात्वम् इति । यद्य् एवं कथङ्कारं स प्रदर्श्यताम् इति चेत् । उच्यते । दूराद् वह्ने रूपविशेषं दृष्ट्वा यत्रैवंविधरूपविशेषस् तत्र तावद् देशव्यापकस् तुषारस्पर्शविशेषो ऽस्ति । यथा महानसादौ तथाविधम् एवरूपम् इत्य् आनुमानिकी विशिष्टोष्णस्पर्शप्रतीतिः । सैव च शीतस्पर्शानुपलब्धिर् उष्णशीतस्पर्शयोर् एकज्ञानसंसर्गित्वात् । विवक्षितोपलम्भाद् अन्य उपलम्भो ऽनुपलम्भः । स क्वचित् प्रत्यक्षात्मा क्वचिद् अनुमानात्मेति न शास्त्रविरोधो न युक्तिविरोधः । तत एव तद्दृश्यानुपलम्भाच् छीतस्पर्शाभावप्रतीतिः । आहत्यन्तं (आहत्य)दृश्यानुपलब्धेर् अनुदयाद् दृश्यानुपलब्धेर् भेदेन निर्देशः । अत एव चानुमिता नुमानम् एतत् । केवलम् अत्यन्ताभ्यासाग् झटिति तथाप्रतीत्युदये सत्य् एकम् अनुमानम् उक्तं । वस्तुतस् त्व् अनेकम् अनुमानम् एतत् । एवं व्यापकविरुद्धकार्योपलब्ध्यादाव् अपि सर्वं द्रष्टव्यं । तथा च व्यापकविरुद्धोपलब्ध्यादिष्व् अपरम् अनुमानम् एकं प्लवमानम् अवसेयं । ययोश् च परस्परपरिहारस्थितलक्षणो विरोधस् तत्र दृश्यानुपलब्धिः स्फुटैव । तेन विरुद्धव्याप्तोपलब्ध्यादिषु सम्प्रत्य् एव दृश्यानुपलब्धिर् अस्ति । भेदस् तु पारम्पर्येण तदुदयात् । एवं व्यापककारणानुपलब्धादिष्व् अकारणाव्यापकादेर् धर्मस्यैवानुपलम्भाद् अभावे (सिद्धे तत
एव सामर्थ्यात् कार्यादेर् अभावाव् असाव् इतीदानीन् तनस्यैव दृश्यानुपलम्भस्योपयोगो) न प्राक्तनस्य स्मृत्यादिविषयीकृतस्य । दृश्यानुपलम्भस्य च साक्षात्कारणे व्यापारात् पार्यम्पर्येण च विरुद्धाद्यभावे भावे व्यापारात् दृश्यानुपलब्धेर् भेदेन कारणानुपलब्ध्यादीनां प्रयोग इति ॥
[ध्प्र् प्. 149]
ननु च प्रमाणात् प्रमेयसत्ताव्यवस्था । ततः प्रमाणाभावात् प्रमेयाभावप्रतित्तिर् युक्तेत्य् आह ।
प्रमाणनिवृत्ताव् अप्य् अर्थाभावासिद्धेर् इति इइ-48
॥[195] स्वार्थानुमानपरिच्छेदो द्वितीयः समाप्तः ॥
__________नोतेस्__________
[195] ॥द्वितीयपरिच्छेदः ॥ -- द्ब्; न्यायबिन्दुप्रकरणे द्वितीयः परिच्छेदः समाप्तः ॥ -- ए.
***

प्रमाणनिवृत्ताव् अपीत्य् आःअ । कारणः व्याकं च निव्र्त्तमानं कार्यं व्याप्यं च निवर्त्तयेत् । न च प्रमाणं प्रमेयस्य कारणं नापि व्यापकम् । अतः प्रणाण योर् निवृत्ताव् अपि अर्थस्य प्रमेयस्य निवृत्तिर् अन् सिध्यति । ततो असिद्धेः संxअयहेतुर् अदृश्यानुपलब्धिः, न निश्चयहेतुः । यत् पुनः प्रमाणसत्तया प्रमेयसत्ता सिध्यति तद् युक्तम् । प्रमेयकार्यं हि प्रमाणम् । न च कारणम् अन्तरेण कार्यम् अस्ति । न [196]तु कारणान्यवश्यं कार्यवन्ति भवन्ति । तस्मात् प्रमाणात् प्रमेयसत्ता व्यवस्थाप्या, न प्रमाणाभावात् प्रमेयाभावव्यवस्थेति ॥
__________नोतेस्__________
[196] न च -- ब्द्
॥ [197]आचार्यधर्मोत्तरकृतायां न्यायबिन्दुटीकायां स्वार्थानुमाणो द्वितीयः परिच्छेदः ।
__________नोतेस्__________
[197] ॥ न्यायबिन्दुटीकायां द्वितीयः परिच्छेदः समाप्तः ॥ -- अब्फे; ॥ न्यायबिन्दुटीकायां परिच्छेदः द्वितीयः समाप्तः ॥ -- द्
सम्प्रत्य् अदृश्यानुपलब्धिम् अधिकृत्योक्तं व्याचक्षाण आह -- उक्तेति । ननु यदि प्रत्यक्षानुमाननिवृत्तिमात्ररूपादृश्यानुपलब्धिर् अभावे साध्ये संशयहेतुर् अनैकान्तिकी तर्हि सा ततश् च हेत्वाभासावसर एव वक्तव्या । तत् किम् इहोच्चयत इति चेत् । नैतम्(-तद्) अस्ति । यतो न सा वचनव्यक्त्यानुपलब्धिलक्षणप्राप्तस्यानुपलब्धिर् असद्व्यवहारे साध्ये न प्रमाणम्, एकान्तिकसद्व्यवहारनिषेधे तु प्रमाणम् इति प्रदर्शनात् । न ज्ञानज्ञेयस्वभावेति यावद् इत्य् आर्थं न्यायम् आश्रित्योक्तं न शाब्दम् इति द्रष्टव्यं ॥ यदि प्रमाणनिवृत्त्या प्रमेयानिवृत्तिस् तर्हि तत्सत्तयापि न प्रमेयसत्ता सिद्ध्येद् इत्य् आशङ्क्य तत्रोपपत्तिं दर्शयन्न् आह -- यत् पुनर् इति । ननु कारणम् अप्य् अवश्यं कार्यवद् भवति ततश् च सति ज्ञेये ज्ञानेनाप्य् अवश्यभाव्यं । तच् चेन् नास्ति ज्ञेयम् अपि नास्त्य् एव । ततः सिद्ध्यत्य् एवादृश्यस्याप्य् अभाव इत्य् आशङ्क्याह -- न त्व् इति । तुना कार्यधर्मात् कारणधर्मस्य वैधर्य्म्यम् आह । एतच् च कारणमात्राभिप्रायेणोक्तम्, तथा चैत्तथा प्राग् एव निर्णीतं । तस्माद् इत्यादिनास्यैव प्रकृतसोपसंहार इति ॥ पण्डितजितारि शिष्य दुर्वेकमिश्र विरचित धर्मोत्तर निबन्धनस्य द्वितीयः परिच्छेदः ॥
पण्दित जितारि शिष्य दुर्वेकमिश्र विरचित धर्मोत्तर निबन्धस्य द्वितीयः परिच्छेदः ॥
[ध्प्र् प्. 150] कपितेल् इइइ
तृतीयः परार्थाणुमाणपरिच्छेदः ।
***
स्वार्थपरार्थानुमान्योः स्वार्थं व्याख्याय परार्थं व्याख्यातुकाम आह ---
त्रिरूपलिङ्गाख्यानं[198]परार्थम् अनुमानम् इइइ-1
__________नोतेस्__________
[198] परार्थानुमानम् --- ब्फेन्
_ __________________________
त्रिरूपलिङ्गाख्यानम् इति । त्रीणि रूपाणि --- अन्वयव्यतिरेकपक्षधर्मत्वसंज्ञकानि यस्य तत् त्रिरूपम् । त्रिरूपं च [199] तल्लिङ्गं च तस्य् आख्यानम् । आख्यायते प्रकाश्यते ऽनेनेति --- त्रिरूपम् [200] इति आख्यानम् । किं पुनस् तत्? वचनम् । वचनेन हि त्रिरूपं [201] लिङ्गम् आख्यायते । परस्माय् इदम् परार्थम् ॥
__________नोतेस्__________
[199] च लिङ्ग च --- अ
[200] त्रिरूपलि- --- ए

[201] परस्माय् इति परा- --- ए
ननु [202]च सम्यग्ज्ञानात्मकम् अनुमानम् उक्तम् । तत् किमर्थं संप्रति वचनात्मकम् अनुमानम् उक्त इत्य् आह ---
__________नोतेस्__________
[202] ननु सम्य- --- अ
कारणे कार्योपचारात् इइइ-2
कारणे कार्योपचाराद् इति । [203]त्रिरूपलिङ्गाभिधानात् त्रिरूपलिङ्गस्मृतिर् उत्पद्यते[204] । स्मृतेश् चानुमानम् । तस्माद् अनुमानस्य परम्परया त्रिरूपलिङ्गाभिधानं कारणम् । तस्मिन् कारणे वचने कार्यस्य अनुमानस्य् ओपचारः समारोपः क्रियते । ततः समारोपात् कारणं वचनम्
__________नोतेस्__________
[203] त्रिरूपलिङ्गालम्बना स्मृतिः --- च्द्ब्
[204] श्रोतुः --- टि-
त्रिरूपं लिङ्गं ज्ञातम् अपि वक्तुम् अविदुषो बालस्य व्युत्पादनार्थं त्रिरूपलिङ्गाख्यानलक्षणं यत् परार्थम् अनुमानम् उक्तं तद् व्याख्यातुं स्वार्थेत्यादिना प्रस्तौति । द्वयो रूप्योर् अभिधानाद् एकस्य गम्यमानत्वाद् आख्यायते प्रकाश्यते ऽनेनेति त्रिरूपं लिङ्गम् इति विवृतं न त्व् अभिधीयते ऽनेनेति । अभिधेयस्य गम्यमानस्य च प्रकाश्यत्वं तुल्यम् इति प्रकाश्यते इत्य् अनेन द्वयोः सङ्ग्रहः । येनार्थक्रमेणात्मनः परोक्षार्थज्ञानम् उत्पन्नं तेनैव क्रमेण परसन्ताने लिङ्गिज्ञानोत्पपादयिषया त्रिरूपस्य लिङ्गस्य ख्यापकं यद् वचनं तत्परार्थम् अनुमानम् इति द्रष्तव्यम् ॥
कारणे वचने कार्यस्य ज्ञानस्य् ओपचारात् समारोपात् ।
कथं पुनर्वचनस्यानुमानहेतुत्वम् इत्य् आह --- त्रिरूपे ति
[ध्प्र् प्. 151]
अनुमानशब्देनोच्यते । औपचारिकं[205] वचनम् अनुमानम्, न मुख्यम् इत्यर्थः । न यावत्[206] किंचिद् उपचाराद् अनुमानशब्देन वक्तुं शक्यं तावत् सर्वं व्याख्येयम् । किन् त्व् अनुमानं व्याख्यातुकामेनानुमानस्वरूपस्य[207] व्याख्येयत्वान् निमित्तं व्याख्येयम् । निमित्तं च त्रिरूपं लिङ्गम् । तच् च स्वयं वा प्रतीतम् अनुमान्स्य निमित्तं भवति, परेण वा प्रतिपादितं भवति[208] । तस्माल् लिङ्गस्य स्वरूपं च [209]व्याख्येन्यम्, तत्प्रतिपादकश् च शब्दः । तत्र स्वरूपं स्वार्थानुमाने व्याख्यातम् । प्रतिपादकश् च[210] शब्द इह व्याख्येयः । ततः प्रतिपादकं शब्दम् अव्श्यं वक्तव्यं दर्शयन् अनुमानशब्देनोक्तवान् आचार्य इति परमार्थः ॥
__________नोतेस्__________
[205] औपचारकं --- अ
[206] न च यावत् --- अब्द्फेन्
[207] स्वरूपस्यैव --- च्
[208] भवति ओम्. अच्पेन्
[209] च ओम्. अच्पेन्
[210] च ओम्. अच्पेन्
परार्थानुमान्स्य प्रकारभेदं दर्शयितुम् आह ---
तद् द्विविधम् इइइ-3
ननु च त्रिरूपलिङ्गाभिधानाद् अवगते सति धर्मिणि लिङ्गं ज्ञायते । तस्य तु व्याप्तिः स्मर्यते । तत् कथं `त्रिरूपलिङ्गवचनात् तत्स्मृतिर् उत्पद्यतेऽ इत्य् उच्यत इति चेत् । उच्यते । गृह्यमाणम् अपि धूमादिवस्तु न तावल् लिङ्गं यावद् वह्न्यादिसाध्याविनाभूततया न ज्ञायते । तथात्वं च तस्य न तदा ग्राह्यम् अपि तु पूर्वगृहीतम् एव स्मर्त्तव्यम् इति सूक्तं त्रिरूपलिङ्गस्मृतिर् उत्पद्यत इति । स्मृतेर् इति पक्षधर्मग्रहणसहिताया इति द्रष्टव्यम् ।
अयम् अर्थः --- वचनम् अपि त्रिरूपं लिङ्गं स्मरयत् परोक्षार्थज्ञानस्य परम्परया कारणं भवद् उपचाराद् अनुमानम् उच्यत इति ।
अथाबाधितत्वाद्य् अपि लिङ्गस्य लक्षणम् इत्य् आचक्षते केचिद् इति विप्रतिपत्तिदर्शनात् तद्व्युत्पादनं युक्तम्, न तु तद्वचनम्, तस्य विप्रतिपत्त्यभावाद् इति चेत् । न अत्राप्य् अव्याप्तिव्यतिरेकाभ्यां निगदन्तो विप्रतिपन्ना इत्य् अस्यापि व्युत्पादनं न्याय्यम् ।
अथाऽपि स्यात्, यदि परम्परयाऽनुमानहेतुत्वेन वचनम् उपचाराद् अनुमानम् इति व्युत्पाद्यते तर्हि जिज्ञासास्वास्थ्यादिकम् अपि परम्परयाऽनुमानहेतुत्वाद् अनुमानशब्देन वक्तुं शक्यम् इति तद् अपि किं नोच्यत इत्य् आह --- न यावद् इति ।
ननु स्वास्थ्यादिकम् अपि निमित्तम् इति तदवस्थो दोषः । न । निमित्तं व्याक्येयम् इत्य् अव्यहितम् असाधारणं निमित्तम् आख्येयम् इत्य् अर्थः ।
ननु स्वयं प्रतीतं लिङ्गम् अनुमानस्य निमित्तम् । तत्किं तद्वचनेन व्याख्यातेनेत्य् आह --- तच् चे ति । चो यस्मादर्थे । वा शब्दो विकल्पार्थः । यतः परेण प्रतिपादितम् अपि तल् लिङ्गम् अनुमान्स्य निमित्तं ततस् तस्माद् अवश्यं वक्तव्यं प्रतिपादकं [58अ] लिङ्गप्रतिपादकं वचनं दर्शयन्न् अन्मुमान्शब्देनोक्तवान् आचार्यः ।
[ध्प्र् प्. 152]
तद् द्विविधम् इति । तद् इति परार्थानुमानम् । द्वौ विधौ प्रकारौ यस्य तद् द्विविधम् ॥
कुतो द्विविधम् इत्य् आह ---
प्रयोगभेदात् इइइ-4
प्रयोगस्य शब्दव्यापारस्य भेदात् । प्रयुक्तः प्रयोगोर्थाभिधानव्यापारभेदाद् द्विविधम् अनुमानम् ॥
तद् एवाभिधानव्यापारनिबन्धनं[211] द्वैविध्यं दर्शयितुम् आह ---
__________नोतेस्__________
[211] अ भिधानस्य व्यापारो निबन्धनं यस्य --- टि-
_ __________________________
साधर्म्यवद् वैधर्म्यवच् चेति[212] इइइ-5
__________नोतेस्__________

[212] वच् च ॥ --- च्
साधर्म्यवद् वैधर्म्मवच् चेति । समानो धर्मो ऽस्य[213] सो ऽयं सधर्मा । तस्य भावः साधर्म्यम् । विसदृशो धर्मो । विधर्मणो भावो वैधर्म्यम् । दृष्टान्तधर्मिणा सह साध्यधर्मिणः सादृश्यं हेतुकृतं साधर्म्यम् उच्यते । असादृश्यं च हेतुकृतं वैधर्म्यम् उच्यते । तत्र यस्य साधनवाक्यस्य साधर्म्यम् अभिधेयं तत् साधर्म्यवत् । यथा --- यत कृतकं तद् अनित्यं यथा घटः, तथा च कृतकः शब्द इत्य् अत्र कृतक्त्वकृतं दृष्टान्तसाध्यधरिमिणोः सादृश्यम् अभिधेयम् । यस्य तु वैधर्म्यम् अभिधेयं तद् वैधर्म्यवत् । यथा --- यन् नित्यं तद् अकृतकं दृष्टं यथाकाशम् । शब्दस् तु कृतक इति कृतकत्वाऽकृतकत्वकृतं[214] शब्दाकाशयोः साध्यदृष्टान्तधर्मिणोर् असादृश्यम् इहाभिधेयम् ॥
__________नोतेस्__________
[213] धर्मो यस्य --- चफेन्
[214] इति अकृतकत्वकृतम् --- च्
यद् अनययोः प्रयोगयोर् अभिधेयं भिन्नं कथं तर्हि त्रिरूपं लिङ्गम् अभिन्नं प्रकाश्यम् इत्य् आह ---
नानयोर् अर्थतः कश्चिद् भेदः इइइ-6
नानयोर् अर्थत इति अर्थः प्रयोजनम् । यत् पयोजनं प्रकाशयितव्यं वस्तु उद्दिश्यानुमाने प्रयुज्येते, ततः प्रयोजनाद् अनयोर् न भेदः[215] कश्चित् । त्रिरूपं हि लिङ्गं प्रकाशयितव्यम् । तदुद्दिश्य द्वे अप्य् एते प्रयुज्येते । द्वाभ्याम् अपि त्रिरूपं लिङ्गं प्रकाश्यते एव । ततः प्रकाशयितव्यं प्रयोजनम् अनयोर् अभिन्नम् । तथा च न ततो भेदः कश्चित् ॥
__________नोतेस्__________
[215] प्रयोजनान् नानयोर् भेदः --- ब्द्
अनेनैतद् आह --- न स्वास्थ्यादि प्रतिपन्नम् अपि परोक्षार्थप्रतिपादकं येन तद् उच्येत । तद् वचनम् अवश्यं दर्शयितव्यम् अनुमानशब्देना भिलप्येत । स्वयम् अशक्तम् अपि तु हेतुवचनं परोक्षप्रकाशनवस्तुसूचकत्वाद् अनुमानशब्देनोक्तम् इति । इति परमार्थ एवम् अस्योपचारस्य परमः प्रकृष्टो ऽर्थः प्रयोजनम् ॥
विध शब्देन च विगृह्णतो ऽभिप्रायः प्राग् एव प्रदर्शितः ॥
अभिधानम् अर्थप्रकाशनम् ॥
[ध्प्र् प्. 153]
अभिधेयभ्देदो ऽपि तर्हि न स्याद् इत्य् आह ---
अन्यत्र प्रयोगभेदात् इइइ-7
अन्यत्र प्रयोगभेदाद् इति । प्रयोगो ऽभिधानं वाचकत्वम् । वाचकत्वभेदाद् अन्यो भेदः प्रयोजनकृतो नास्तीत्य् अर्थः ।
एतद् उक्तं भवति । अन्यद् अभिधेयम् अन्यत् प्रकाश्यं प्रयोजनं । तत्राभिधेयापेक्षया वाचकत्वं भिद्यते । प्रकाश्यं त्व् अभिन्नम् । अन्वये हि कथिते वक्ष्यमाणेन न्यान्येन व्यतिरेकगतिर् भवति । व्यतिरेके चान्वयगतिः । ततस् त्रिरूपं लिङ्गं प्रकाश्यम् अभिन्नम् । न च यत्राभिधेयभ्देदस् तत्र सामर्थ्यगम्यो ऽप्य् अर्थो[216] भिद्यते । यस्मात् `पीनो देवदत्तो दिवा न भुङ्क्तेऽ `पीनो देवदत्तो रात्रौ भुङ्क्तेऽ इत्य् अन्योर् वाक्ययोर् अभिधेयभ्देदेपि गम्यमानम् एकम् एव[217] तद्वद् इहाभिधेयभेदे ऽपि गम्यमानं वस्त्व् एकम् एव ॥
__________नोतेस्__________
[216] प्रयोजनम् --- टि-
[217] गम्यं दिवा भोजनाभावविशेषं पीनत्वं रात्रिभोजनकार्यम् एकम् एव --- टि-
केन कस्य किम् कृतं च साधर्म्यं वैधर्म्यं चेत्य् आह --- दृष्टान्ते ति । सादृश्यं हेतुकृतम् इति हेतुसद्भावद्वारकम् । असादृश्यं च हेतुकृतम् इति हेतुसद्भावासद्भावद्वारकं द्रष्टव्यम् । वतुबर्थं प्रयोजयितुम् आह --- तत्रे ति वाक्योपन्यासे । यस्य वाक्यस्य साधर्म्यं सादृश्यम् अभिभेयम् अस्ति । एतद् एवोदाहरणेन दर्शयन्न् आह --- यथे ति । यत् कृतकम् इति । यद् यद् कृतकम् इति वीप्सार्थो विवक्षितः, तद् इत्य् अत्रापि । तथा च कृतकः शब्द इति पक्षधर्मताकथनम् इदम् । न त्व् एवं पक्षधर्मो दर्शनीयः । `कृतकश् च शबदःऽ इत्य् एतावतैव गतार्थत्वेन तथाशब्दस्य वैयर्थ्यात् । ततः `कृतकश् च शब्दःऽ इत्य् एव दर्शनीयः । इतरथा परेषाम् इवोपनयप्रयोगः स्यात् । स चायुक्त इति । यन् नित्यम् इति साध्याभावानुवादस् तद् अकृतकम् इति साधनाभावविधिः ॥
अभिधेयं भिन्नम् इति ब्रुबतो ऽयम् आशयः --- साधर्म्यवत् प्रयोगस्यान्वयः पक्षधर्मता चाभिधेया । अभिन्नं साधारणं प्रकाश्यं द्वयोः प्रयोगयोः ।
अर्थः प्रयोजनवाच्य् आचारेणो क्तो नाभिधेयवाचीति दर्शयति यद् उद्दिश्ये ति स्पष्टयन् प्रयुज्यते ऽनेनेति प्रयोजनं साधनवाक्यस्य प्रवर्त्तकं लिङ्गवस्तूक्तं न फलं प्रयोजनम् इति दर्शयति । प्रकाशयितव्यं रूपत्रययोगिलिङ्गं तच् च् आभिन्नं साधारणं द्वयोर् अपि प्रयोगयोः, द्वाभ्याम् अपि तस्यैव प्रतिपादनात् । अनुमानहेतुत्वाद् अनुमाने साधर्म्यवैधर्म्यवती वाक्ये कथिते । तत इति प्रयोजन समानाधिकरणं न हेतुपदम् एतत् ॥
नन्व् अभिधेयम् एव प्रकाश्यं त त्कथं प्रकाश्याभेद इत्याशङ्क्याह --- एतद् उक्तं भवती ति । अन्यत् प्रकाश्यम् इति सामर्थ्यगम्यं प्रकाश्यम् । न तु तत्राभिधाव्यापार इत्य् आकूतम् । तत्रे ति वाक्योपक्षेपे ।
यदि साधर्म्यवद्वाक्ये ऽन्वयो ऽभिधेयस् तर्हि कथं व्यतिरेकः प्रकाश्यतां गतः? वैधर्म्यवाक्ये
[ध्प्र् प्. 154]
तत्र साधर्म्यवत् प्रयोगः[218]--- यद् उपलब्धिलक्षणप्राप्तं सन् न उपलभ्यते सो असद्व्यवहारविषयः सिद्धः, यथा अन्यः कश्चिद् दृष्टः शशविषाणआदिः । न उपलभ्यते च क्वचित् प्रदेशविशेष[219]उपलब्धिलक्षणप्राप्तो घट[220]इत्य् अनुपलब्धिप्रयोगः इइइ-8
__________नोतेस्__________
[218] -वत् यदुप-
[219] विषये उप-
[220] घट इति
तत्रे ति तयोः साह्दर्म्यवैधर्म्यवतोर् अनुमानयोः साधर्म्यवत् [221] तावद् उहारन्न् अनुपलब्भिम् आह --- यद् इतियादिना । यद् उपलब्ध्दिलक्षणप्राप्तं --- यद् दृश्यं सन् नोपलभ्यते इत्य् अनेन दृश्यानुपलम्भो ऽनूद्यते । सो ऽसद्व्यवहारविषयः[222] सिद्धः --- तद् असद् इति व्यवहर्तव्यम् इत्य् अर्थः । अनेनासद्व्यहारयोग्यत्वस्य विधि[223] कृतः । ततश् चासद्व्य्वहारयोग्यत्वे दृश्यानुपलम्भो नियतः कथितः । दृश्यम् अनुपलब्धम् असद्व्यवहारयोग्यम्[224] एवेत्य् अर्थः । साधनस्य च साध्ये ऽर्थे नियतत्वकथनं व्याप्तिकथनम् ।
__________नोतेस्__________
[221] तावद् उहारम् {उदाहरम्} उदाहर्त्तुम् अनु-
[222] विषयस् तद्-
[223] योग्यत्वे दिधि
[224] -हरय योग्य-
च यदि व्यतिरेको ऽभिधेयः, कथम् अन्वयः प्रकाश्यताम् आपन्न इत्य् आह --- अन्वय इति । हि र् यस्मात् । वक्ष्यमाणेन " साधर्म्येणापि ही " त्यादिना प्रतिपादयिष्यमाणेन न्यायेन युक्ता ।
स्यान् मतं --- ययोर् अभिधेयं भिन्नं तयोः सामर्थ्यगम्यम् अप्य् अवश्यं भिद्यते --- यथा गङ्गायां घोषः, कूपे गर्गकुलम् इत्य् आशङ्क्याह --- न चे ति । चो यस्मादर्थे । अर्थः प्रयोजनं यदुद्दिश्य प्रवृत्तं वाक्यम् ।

उपपत्तिम् आह --- यमाद् इति । एकस्य वाक्यस्य दिवा भोजनाभावो ऽभिधेयो ऽन्यस्य रात्रिभोजनम् इत्य् अनयोर् वाक्ययोर् [58ब्] अभिद्धेयभेदो ऽस्ति । तस्मिन् सत्य् अपि यथा भोजनविशिष्टं देवदत्तस्य पीनत्वं प्रतिपाद्यं न भिद्यते तद्वद् अत्र् आभिधेय स्यान्वयपक्षधर्मतालक्षणस्य व्यतिरेकपक्षधर्मतालक्षणस्य भेदे ऽपे गम्यमानम् एकम् अभिननम् ।
अथ गम्ययानं सामर्थ्यात् प्रतीयमानम् उच्क्यते । तच् च दृष्टान्तदान्तिकयोर् भिद्यत एव । तथा हि दिवा भोजननिषेधवाक्यस्य गम्यमानं रात्रिभोजनं रात्रिभोजनविधानवाक्यस्य तु गम्यनानं दिवा भोजननिषेधनम्, तथा दार्षान्तिके ऽपि साधन(साधर्म्य)वद् वाक्ये व्यतिरेको गम्यमानो वैधर्म्यवद् वाक्ये चान्वयो गम्यमानः । यद् एकस्याभिधेयं तद् एकस्य गम्यमानम्, यद् अन्यस्य गम्यनानं तद् इतरस्याभिधेयम् इति संक्षेपः । ततः कथम् उच्यते वाक्ययोर् गम्यमानम् एकम् इति । किन् नोच्यते? गम्यमानशब्दस्येहान्यार्थस्य विक्षितत्वात् । तथा हि गम्यमानशब्देनात्राभिधेयं सामर्थ्यप्रकाश्यञ् च । यत् तु द्वयं प्रतीयमानतामात्रेणोपाधिना विवक्षितं तच् च दृष्टान्तवाक्ययोर् भोजननिमित्तपीनत्वलक्षणं दार्ष्टान्तिकवाक्ययोश् चान्वयव्यतिरिक्तपक्षधर्मतात्मकरूपत्रययोगलिङ्गलक्षणम् एकम् अभिन्नम् इत्य् अन्वद्यम् एतत् ॥
साधर्म्यम् अभिधेयं यस्य विद्यते तद् उदाहह्रणेन दर्शयन्न् अनुपलब्धिम् आह । तावच् छब्दः क्रमे ।
[ध्प्र् प्. 155]
यथोक्तम् "व्याप्तिर्[225]व्यापकस्य तत्र भाव एव, व्याप्यस्य[226]वा तत्रैव भावः" इति । [हेतु- पृ-53] व्याप्तिसाधनस्य प्रमाणस्य विषयो दृष्टान्तः । तम् एव दर्शयितुम् आह --- यथान्य इति । साध्यधरिमिणो ऽन्यो दृष्टान्त इत्य् अर्थः । दृष्ट इति प्रमाणेन[227]निश्चितः । शशविषाणं हि न चक्षुषा विषयीकृतम् अपि तु प्रमाणे दृश्यानुपलम्भेनासद्व्यवहारयोग्यं विज्ञातं । शशविषाणादिर् यस्यासद्व्यवहारविषयस्य स तथोक्तः । शशविषाणादौ हि दृश्याणुपलम्भमात्रनिमित्तो ऽसद्वयवहारः प्रमाणेन सिद्धः । तत एव प्रमाणाद् अनेन वाक्येनाभिधीयमाना[228]व्याप्तिर् ज्ञातव्या ।
__________नोतेस्__________
[225] वाप्तिव्या-
[226] स्य च
[227] प्रतियक्षेणनिश्चित इति न व्याकरव्यम् --- टि-
[228] [228]व्याप्तिसाधकेन --- टि-
संप्रति व्याप्तिं कथयित्वा दृश्यानुपलम्भस्य पक्षधर्मत्वं दर्शयितुम् आह --- नोपलभ्यते चे ति ।
स च द्विरावृत्त्या ऽनुपलब्धिम् इत्य् अत्रापि द्रष्तस्व्यः । तेनायम् अर्थः --- साधर्म्यवत् तावद् उदाहरन्न् अनुपलब्धिम् आह । पश्चाद् वैधर्म्यवद् उदाहरन् वक्ष्यति । तथा ऽनुपलब्धिं तावद् आह पश्चात् स्वभावकार्ये वक्ष्यतीति ।
नन्व् आचार्येणै व साधर्म्यवद् वैधर्म्यवच् चोदाहृतम् अत्रेति किम् इति धर्मोत्तरेन --- यथा यत् कृतकम् इत्यादिना साधर्म्यवद् वैधर्म्यवच् चोदाहृतं प्राग् इति चेत् । नैष दोषः । दृष्टान्तसाधयधर्मिणोः सादृश्याख्यं साधर्म्यम्, वैसदृश्याख्यां वैधर्म्यं च हेतुद्वारकम् एव न तु सामान्येन, अन्यथा प्रतियोग्यपेक्षया ऽपि साधर्म्यं वैधर्म्यं च केनचिद् आकारेनास्तीति न तन् निराकृतं स्याद् इति दर्शयितुं तद् उदाहृतम्, न त्व् आचार्येण नोदाहृतम् इत्य् उदाहृतम् इति । तेनात्राप्य् आचार्यीये निदर्शने हेतुकृतम् एव तत् प्रत्येतव्यं व्यवस्थितम् ।
असद्व्यवहारः --- असद् इति ज्ञानम् असद् इत्य् अभिधानं निःशङ्का च गमागमादिका प्रवृत्तिः । यतो दृश्यानुपलम्भो ऽभूद् अतो ऽसद्व्यहारयोग्यतं विहितम् । ततस् तस्मात् । चो अवधारणे ।
अयम् आशयः --- यद् अनूद्यते तद् व्याप्यम् । यद् विधीयते तद् व्यापकम् । व्याप्यं च व्यापके नियतं भवतीति । एवम् उत्तरत्राप्य् अनुवादविधिक्रमो द्र्ष्टव्यः ।
अथ द्व्यवयवे साधनवाक्ये दर्शितव्ये व्याप्तिः पक्षधर्मता च दर्शनीया । न चात्र व्याप्तिर् उपदर्शिता, केवलम् अनुवादविधिक्रमो दर्शितः, पक्षधर्मता च दर्शयिष्यते । तत् कथं परिपर्णं साधनवाक्यम् इदं भविष्यतीत्य् आशङ्क्याह --- साधनस्ये ति । चो हेतौ ।
ननु परोक्षार्थप्रतिपत्तौ सर्वथा ऽनुपयोगी दृष्टान्तस् तत् किं तेनाख्यातेनेत्य् आह व्याप्ती ति । व्याप्यवापकधर्मलक्षणा [59अ] व्याप्तिः साध्यते निश्चीयते येन प्रमाणेन तस्य विषयो यत्र
[ध्प्र् प्. 156]
प्रदेश एकदेशः पृथिव्याः । स एव विशिष्यते ऽन्यस्माद् इति विशेषः एकः । प्रदेशविशेष इत्य् एकस्मिन् प्रदेशे । क्वचिद् इति । प्रतिपत्तुः प्रत्यक्ष[229] एको ऽपि प्रदेशः । स एवाभावव्यवहाराधिकरणं यः प्रतिपत्तुः प्रत्यक्षो नान्यः । उपलब्धिलक्षणप्राप्त इति दृश्यः । यथा चासतो ऽपि घटस्य समारोपितम् उपलब्धिलक्षणाप्राप्तत्वं तथा व्याख्यातम् ॥
__________नोतेस्__________
[229] प्रतियक्षे । एको
स्वभावहेहोः साधर्म्यवन्तं प्रयोगं दर्शयितुम् आह ---
तथा स्वभावहेतोः प्रयोगः --- यत् सत् तत् सर्वम् अनित्यम्, यथा घटादिर् इति शुद्धस्य[230] स्वभावहेतोः प्रयोगः इइइ-9
__________नोतेस्__________
[230] शुद्धस्वभावस्य प्रयोगः
तथे ति । यथा ऽनुलब्धेस् तथा स्वभावहेतोः साधर्म्यवान् प्रयोग इत्य् अथः । यत् सद् इति
प्रवृत्तं प्रमाणं साध्यसाधनयोर् व्याप्तिम् अवस्यति । स च विषयो दृष्टो निश्चितः साध्यसाधनयोर् अन्तो ऽवसानं यथायोगं नियतत्वनियमविषयत्वनिपुणो यस्मिन्न् इति व्युत्पत्त्या दृष्टान्तशब्दो ऽभिलप्यः । तम् एव ख्यापयितुम् आह् आचार्यः । अनेनैतद् आकूतम् --- व्याप्तिसाधकप्रमाणस्याधिकरणतां गच्छन् दृष्टान्तः साधनावयवस्य व्याप्तेः प्रतिपत्त्यङ्गम् । न तु साक्षात् साधनस्य । नापि साध्यसिद्धेः । तद्वचनम् अपि तत्स्मारकत्वेन साधनवाक्य उपयुज्यते । अत एव वचनसाधनवाक्यस्यावयवो ऽथ च प्रयोक्तवय इति । कुतो ऽन्य इत्य् आह --- साध्यधर्मिण इति । शशविषाणादेश् च व्याप्तिसाधकप्रमाणाधिकरणत्वेन दृष्टान्तरूपत्वाद् दृष्टान्त इत्य् अर्थ इति स्पष्टयति ।

ननु दृष्टश् चक्षुषा ज्ञात इति किं न व्याख्यायते? किं पुनर् एवं व्याख्यात इत्य् आह--- शशे ति । ही ति यस्मात् । विषयीकृतं विज्ञातम् इति चातीते निष्ठां प्रयुञ्जानः प्राग्भावि व्याप्तिग्रहणं दऋशयति । कथं पुनः शशविषाणादि दृष्टान्तो येन सा ख्याप्यत इत्य् आह --- शशे ति । हि र् यस्मात् । दृश्यानुपलम्भ एव तन्मात्रं तन् निमित्तं यस्य स तथा । अनेन व्याप्तिसाधकप्रमाणाधिकरणत्वात् तस्य दृष्टान्तरूपताम् आह । किं तत् प्रमाणं येन तत्र प्रवृत्तेन दृश्यानुपलम्भाभावव्यवहारयोग्यत्वयोर् व्याप्तिः साध्यत इति चेत् । उच्यते । वादन्यायो क्तेन न्यायेन बुद्धिव्यपदेशाभावादेर् असद्व्यवहारानिमित्तत्वेन निमित्तान्तराभावे दृश्यानुपलम्भ एवान्यनिरपेक्षो निमित्तम् । यच् च यन् मात्रनिमित्तं ततस्मिन् सति भवति । यथा बीजादिसामग्रीमात्रनिमित्तो ऽङ्कुरः सति तस्मिन् भवति । दृश्यानुपलम्भमात्रनिमित्तश् चासद्व्यवहार इत्य् अनुमानं तत्र प्रवृत्तं साध्यसाधनयोर् व्यापितिम् अवस्यतीति ।
अनेन वाक्येन यद् उपलब्धिलक्षणप्राप्तम् इत्यादिना ऽभिधीयमाना प्रकाश्यमाना । तत एव प्राक्प्रवृत्ताद् अनन्तरोक्ताद् अनुमानात्मनः प्रमाणाद् व्याप्तिर् ज्ञातव्या ।
एतद् उक्तं भवति तत्प्रमाणसिद्धैव व्याप्तिर् अनेन वाक्येन स्मर्यत इति ॥
स्वभावे त्यादिना स्वभावहेतोः साधर्म्यवत् प्रयोगं विवरितुम् उपक्रमते । सर्व शब्दस्या ऽशेषता ऽर्थः । तयैव प्रतिपादितया साधनस्य साध्यायत्तताख्यो यो नियमः स प्रतिपादितो
[ध्प्र् प्. 157]
सत्त्वम् अनूद्य तत् सर्वम् नित्यम् इत्य् अनित्यत्वं विधीयते । सर्व ग्रहणं च नियमार्थम् । सर्वम् नित्यम् । न किञ्चिन् नित्यम् । यत् सत् तद् अनियम् एव । अनित्यत्वाद् अन्यत्र नित्यत्वे सत्त्वं नास्तीत्य् एवं सत्त्वम् अनिय्त्यत्वे साध्ये नियतं ख्यापितं भवति । तथा च सति व्याप्तिप्रदर्शनवाक्यम् इदम् । यथा घटादिर् इति [231]व्याप्तिसाधकस्य प्रमाणस्य विषयकथनम् एतत् । शुद्धस्ये ति निर्विशेषणस्य स्वभावस्य [232]प्रयोगः ।
__________नोतेस्__________
[231] व्याप्तिसाधकस्य; नित्यक्रमयोगपद्याभ्याम् अर्थक्रियाविरोधाद् इति विपर्ययबाधकं प्रमाणम् --- टि-
[232] प्रयोगस्य विशेषणं दर्श-
सविशेषणं दर्शयितुम् आह ---
यद् उत्पत्तिमत् तद् अनित्यम् इति स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः इइइ-10
यद् उत्पात्तिमद् इति ।[233] उतपत्ति ः स्वरूपलाभो[234] यस्यास्ति तद् उतपत्तिमत् । उत्पत्तिमत्त्वम् अनूद्य तद् अनित्यम् इत्य् अनित्यत्वविधिः[235] । तथा च सत्य् उत्पत्तिमत्त्वम् अनित्यत्वे नियतम् आख्यातम् ।
__________नोतेस्__________

मूल पाठ: Dharmottarapradīpa subcommentary on Dharmottara's Nyāyabinduṭīkā on Dharmakīrti's Nyāyabindu · Edition: Dalsukhbai Malvania, Patna: Kashiprasad Jayaswal Research Institute 1971 (Tibetan Sanskrit Works, 2) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc