भाषा

ENहिગુ
ग्रंथ पाठ

धर्मोत्तरप्रदीप · भाग 120

दुर्वेकस्य धर्मोत्तरप्रदीपः
आचार्य धर्मकीर्त्ति प्रणीतो
न्यायबिन्दुः ।
प्रथमः प्रत्यक्षपरिच्छेदः ।
ऊं नमो वीतरागाय[1]
__________नोतेस्__________
[1] ऊं नमः सर्वज्ञाय -- बेह्न् । नास्ति अप्.
सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिर् इति तद् व्युत्पाद्यते इ-1
आचार्य धर्मोत्तर विरचिता
न्यायबिन्दुटीका ।
जयन्ति जातिव्यसनप्रबन्धप्रसूतिहेतोर् जगतो विजेतुः ।
रागाद्यरातेः सुगतस्य वाचो मनस्तमतानवम् आदधानाः ॥
आचार्य दुर्वेकमिश्र विरचितो
धरोत्तरप्रदीपः ।
[1ब्][[2]सूत्रभिधर्म]विनयाः सुगतस्य वाचो बाधा विना द्भुततया सततं जयन्ति ।
__________नोतेस्__________
[2] पत्रम् अत्र त्रुटितम् -- सं-
आभान्ति दर्पण इव प्रतिबिम्बितानि तत्त्वानि यत्र सकलस्य पदार्थराशेः ॥
श्रीधर्मकीर्त्य् अभिमुखानि जगद्धितानि धर्मोत्तर स्य विपुलानि पदान्य् अमूनि ।
सम्यक्प्रकाश्य सुकृतं समुपार्जयामि तेनापि दुःखजलधेर् जगद् उद्धरामि ॥
मात्सर्यादिमलोपेतैः [[3]शक्यं न गुणदर्शनम् ।
__________नोतेस्__________
[3] पत्रम् अत्र त्रुटितम् -- सं-
यतो हे]मपरीक्षायाः सन्तो हि निकषोपलाः ॥
न्यायबिन्दुटीका ं चिकीर्षुर् एष धर्मोत्तरो भगवत्पूजापुण्ययोः साध्यसाधनभावम् अतीन्द्रयम् ईदृशि विषये गत्यन्तरविरहाद् अभ्युपेयप्रामाण्याद् आगमाद् अवगम्य, पुण्यस्य चापुण्यविरोधित्वाद् अपुण्यफलविघ्नाद्यभावो व्यापकविरुद्धविधिना सम्भवी, तेनाविघ्नेन ग्रन्थकरण[4][तत्समाप्तौ
__________नोतेस्__________
[4] पत्रम् अत्र त्रुटितम् -- सं-
[ध्प्र् प्.2]
तदध्ययने] च भगवद्गुणगणश्रवणजनितातिशयविशेषासादितपुण्यस्य तथैवाविघ्नेन जिज्ञासितशास्त्रार्थतत्त्वावगमो भविष्यति, दृष्टशिष्टाचारो ऽप्य् अनुपालितो भविष्यतीत्य् अभिसन्धाय वाग्विजयाख्यानद्वारां भगवतः पूजां स्तुतिमयीम् आरभते ।
स्याद् एतत् -- पूजायाः पुण्योपजननमात्रप्रयोज[5][नस्य सम्पादकत्]वाद् आरिप्सितारम्भात् प्राक् कायमयीम् एवेष्टदेवतापूजाम् आरच्य्य, किम् इति न तदारभ्यते? अथोच्यते -- तत्पूर्विकायाम् अपि प्रवृत्तौ `स्तुतिपूजैव प्रवृत्तिपुरःसरी किं न कृताऽ इति चोद्यम् आपद्येत । तथा चाशोकवनिकाचोद्यसदृशम् इदम् इति नानुवाद्यम् अपि विदुषाम् इति । असद् एतत् । एवं हि [कायपूजायारचने स्तुति]पदानि प्रयुञ्जानस्या ऽतद्व्याख्यानभूतस्यास्य श्लोकस्याप्रकृतस्य करणं नापद्येत । कायपूजा तु सुखासनोपदेशनादीतिकर्तव्यतास्थानीयत्वान् नाप्रकृतकरणचोद्येनोपद्रूयत इति ।
__________नोतेस्__________
[5] पत्रम् अत्र त्रुटितम् -- सं-
अत्रोच्यते -- स्याद् एवैतद् यदि स्वार्थम् उद्दिश्य स्तुतिर् ईदृशी पूजा विधीयते । किं तर्हि? श्रोतृजना[र्थम् उद्दिश्यापि] भगवतो गुणकीर्त्तने कृते श्रोतृभिर् अन्ततः काव्यगुणजिज्ञासयापि श्लोकओ ऽवश्यं ज्ञातव्यः । तज्ज्ञानात् तथागतगुणास् तावत् कालं तावच् छोतृसन्तानम् अध्यासते । तत्र ये तावद् भगवति प्रागतिप्रसन्नमनसस् तेषाम् एवंविधगुणातिशयशालिनि `स्थान एवास्माकं मनः प्रसन्नम्ऽ इति निश्चिन्वतां स्थे[6][मानम् आसादयते चित्तम् ।] ये च मध्यस्थास् तेषाम् `एवंभूतगुणरत्नालङ्कृते महतो महीयसि चित्तम् आवर्जयितुम् उचितं स्वहितावहितैः, तद् वयम् इयन्तं कालं प्रमाद्यन्त एवोदास्महे स्मऽ इति निर्विद्यमानानां चित्तं प्रतिष्ठते । ये ऽप्य् अनतिप्रसन्नास् तेषाम् अपि -- `एवंविधगुणनिकेतने किम् अस्माभिर् अकस्माद् विद्विष्यतेऽ इति मननान् मनागावर्जनं माध्यस्थ्यं वा[7][स्याद् इत्य् अतिप्रसन्नमध्यस्थ]योः पुरुषयोश् चित्तप्रसादस्थैर्यमनःप्रसादोपजननाभ्यां पुण्यातिशयो जायते । तृतीयस्यापि मनागावर्जनने ऽपि पुण्यप्रसवः । माध्यस्थ्ये तु भगवद्विद्वेषोपचयोपनेयनरकेष्व् अनतिपतनं विद्वेषोपशमाद् भवति । असत्यां तु स्तुतिमयपूजायाम् इत्थं त्रिविधश्रोतृजनप्रयोजनं यत् तन् न कृतं स्यात् -- इति स्वपरार्थो[2अ]द्देशेन स्तुतिमयी पूजा विधीयत इति स्थितम् ।
__________नोतेस्__________
[6] पत्रम् अत्र त्रुटितम् -- सं-
[7] प्रतौ दुष्खानि इत्य् एवं वर्त्तते -- सं-
तत्रानेन श्लोकेन भगवान् स्वार्थसम्पदा परार्थ्सम्पदुपायसम्पदा परार्थ्सम्पदा च स्तूयते । तासां तिसृणाम् अपि सम्पदाम् अवश्यवक्तव्यत्वात् । तथा हि चिरकालाभ्याससात्म्यीकृतमहाकृपस्य भवतः परार्थसम्पत् प्रधानं प्रयोजनम्, इतरद् अप्रधानं, आनुषङ्गिकं तथागतत्त्वम् अपीति सा तावद् अवश्याभिधेया ।
तद् आह भट्टवराहस्वामी --
"साक्षात्कृताशेषजगत्स्वभावं प्रासङ्गिकं यस्य तथागतत्वम् ।" इति ।
सा चोपायसम्पदम् अन्तरेणासम्भविनीति तद् अभिधानम् अप्य् आवश्यकम् । इयञ् चानधिगतस्वार्थसम्पदो न सिध्यतीति तद् अभिधानम् अपि नियतम् आपतितम् । तद् आह सैव --

"तीर्णः स्वयं याति जगत् समग्रं मार्गोपदेशे ऽधिकृतो हि नाथः ।" इति ।
तत्र स्वार्थसम्पन्नस्य परार्थसम्पादनोपायसम्पत् तत्साध्या च परार्थसम्पादनसम्पद् इति प्रथमं जाति त्यादिना सुगतस्ये त्य् अन्तेन स्वार्थसम्पत्तिर् उक्ता । अनुपायस्य परार्थसम्पत्तिर् न सम्पद्यत
[ध्प्र् प्.3]
इति तदनु वाच इत्य् अनेन परार्थोपायसम्पद् उक्ता । `ईदृशं वस्तुनो रूपम्, इदञ् चानुष्ठेयम्ऽ इत्यादिरूपेण धर्मदेशनैव हि भगवतो जगद्धितावगमनलक्षणपरार्थसम्पादनोपायसम्पद् वैद्यवरस्येव व्याधिस्वरूपप्रतीतिशक्तिभैषज्योपदेशो रोगोपशमसम्पादनोपायसम्पत् । तद् अनन्तरं तदुपायसम्पत्तिसाध्या परार्थसम्पद् अन्येन पदेनोक्ता ।
तत्र वाचो जयन्ति -- इति सम्बन्धः । अविवक्षितकर्मत्वाद् अकर्मत्वम् । वाचः सूत्राभिधर्मविनयलक्षणाः । जयन्ति उत्कृष्यन्ते प्रकृष्टा भवन्ति । उत्कर्षश् च सजातीयापेक्षयेति सामर्थ्याद् ईश्वरादिवचनेभ्यः प्रकृष्टा भवन्तीत्य् अर्थः । यद् वा जयन्ति अभिभवन्ति । अभिभवश् च प्रतियोगिगोचर इति । अर्थात् तीर्थिकशास्त्राभिभवं कुर्वन्तीत्य् अर्थः । प्रमाणोपपन्नार्थप्रतिपादकत्वाद् आसाम् । तेषां तु तद्वैपरीत्याद् इति बुद्धिसिद्धं कृत्वा केवलम् एतद् अत्रोक्तम् । विनिश्चियटीकायां पुनर् अनेन `युक्तिप्रभावेऽत्यादि हेतुभावेन विशेषणम् उपात्तम् ।
कस्य ता इत्य् आकाङ्क्षायाम् आह -- सुगतस्य इति । सु शब्दो ऽयम् अर्थत्रयवृत्तिर् द्रष्टव्यः । प्रशस्तं गतः सुगतः । प्रशस्तं यथा भवति तथा गतः । संसारात् प्रक्रान्तः । कथं तथा गमनं तस्य? नैरात्म्यदर्शनेन संसारातिक्रमात् । तस्य च प्रज्ञानिश्रयात् । अथ वा गत्यर्थानां ज्ञानार्थत्वाद् अपि प्रशस्तं गतः ज्ञातवान् इत्य् अर्थः । प्रशस्तञ् च तत् तत्त्वं नैरात्म्यलक्षणम् । तत्त्वरूपत्वञ् च तस्य प्रमाणोपपन्नत्वात् । दृष्टश् चायं सुशब्दः प्रशस्तार्थवृत्तिः । सुरूपा रूपाजीवेते यथा । अपुनरावृत्त्या वा गतः सुगतः । गतः प्रयातः संसारात् । पुनरावृत्तिशब्दवाच्ययोर् जन्मदोषयोर् आत्मदर्शनबीजोपघातेन भगवता समूलघातं निहतत्वात् । एतदर्थे ऽपि सुशब्दो दृष्टः । सुनयो ज्वर इति यथा । निःशेषं वा गतः सुगतः । निःशेषं यावद् गन्तव्यं तावद् गतः प्राप्तः । अक्लेशनिर्जरकायवाग्बुद्धिवैगुण्यलक्षणशेषलक्षणप्रहाणेन मुनेस् तत्पदप्राप्तेः । एवंवृत्तिर् अपि सुशब्दो दृश्यते । सुपूर्णो घट इति यथा ।
तस्य सुगतस्य किम्भुतस्येत्य् आह -- विजेतुः अभिभवितुः । कस्यासौ विजेतेत्य् आह -- जगतो जीवलोकस्य । विजयश् च जगदपेक्षया परमपदप्राप्त्या तस्य प्रकृष्टत्वं द्रष्टव्यम् । अत एव जगदभिभूतं भवति । तस्य तद्वैपरीत्यात् । न पुना राजविजय इव राजान्तरापेक्षया कायादितिरस्कारो ऽभिभवो ऽवसेयः ।
जगतः कीदृशस्य? जायते संसरत्य् अनयेति जातिः तृष्णा । व्यस्यते विविधेन प्रकारेणेतस्ततो अस्यते(-तो ऽस्यते) क्षिप्यते अनेनेति, अस्यतीति वा व्यसनं । जातिर् एव व्यसनम् इत्य् अन्तर्नीतनियमः समासः कर्तव्यः । तृष्यन्न् एव हि प्राणी तत् तद् आचरति येन संसारे संसरति । ततस् तयैवासौ इतस्तत उत्पादद्वारेण व्यस्तः क्षिप्तो भवतीति सैव व्यसनं युक्तम् । अथ वा जातौ उत्पत्तौ निकायविशिष्टायां व्यसनम् आसक्तिः `विद्याधरो ऽहं भूयासंऽ , ` देवो ऽहं भूयासम्ऽ इत्याद्याकारो ऽभिनिवेषः । यद् वा जाद्या श्रितानि व्यसनानि दूःखानि[8]रोगशोकादीणि । प्राक्तनव्याख्याने तस्य, अन्तिमव्यख्याने तेशां प्रबन्धः प्रवाहः । तद् एव वा प्रकृष्टो बन्धः । प्रवाहपक्षे प्रबन्धेन । बन्धपक्षे प्रबन्ध स्य । प्रसूतेः कारणस्य । एवञ् च प्रबन्धप्रसूति श्रुतिसहितं हेतु पदम् उपाददानः परमतनिराकरणञ् चाभिप्रैति । तथा ह्य् एवमभिधाने सत्य् अयं
[ध्प्र् प्.4]
__________नोतेस्__________
[8] प्रतौ दुष्खानि इत्य् एवं वर्त्तते -- सं-
तात्पर्यार्थः -- जदद् एवानन्यसत्त्वनेयं स्वयम् एव तथा तत् तद् आचरति येन तथा संसारे संसरति । न तु परप्रेरितं यथा ऽन्ये मन्यन्ते --
"अज्ञो जन्तुर् अनीशो ऽयम् आत्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत् स्वर्ग वा स्व (श्व) भ्रम् एव वा ॥" [महाभा- वन- 30,28] इति ।
इतरथा ज् आतिव्यसना श्रयस्येति तदन्यविशेषणसहितम् एव ब्रूयाद् इति ।
किम्भूतस्य सुगतस्य? रागदी नां श्लेशानाम् अरातेः शत्रोः सत्कायदृष्टिविगमेन, तेन तेषां स्वसन्ताने समूलम् उन्मूलितत्वात् । यत एव भववान् रागाद्यरातिः, जगच् च जातिव्यसनप्रबन्धप्रसूतिहेतुः, अत एवासौ ततः प्रकृष्टो भवति विजेता तस्य । अथ वा रागाद्यरातेर् इति जगतो विशेषणम् । रागादयो ऽरातयः प्रतिपक्षा नित्यम् उपघातका यस्येति कृत्वा । तदा तु तद्विजेता भवान् सुगतत्वाद् एव बोद्धव्यः । जगतो ये रागादयस् तेषाम् अराते इत्यादिव्याख्यानं तु क्लिष्टत्वात् नोक्तम् ।
किंविशिष्टा वाच् इत्य् आह -- मन इत्यादि । सदसदर्थविवेकविबन्धकत्वात् तम इव तमो ऽज्ञाणम् अविद्या । तच् च मनसो विकल्पविज्ञानस्य कयाचिद् व्यपेक्षया धर्म इव भिन्नः कथ्यते । वस्तुतस् तु क्लिष्टम् एव ज्ञानम् अविद्या । यद् वा क्लिष्टं मन एव तम इव तमः पूर्ववत् ।
केचित् तु मनस्तम इति शब्दसमुदायम् अज्ञानार्थवाचकम् आचक्षते ।
तस्य तानवं तनुत्वं मन्दीभवनम् इत्य् अर्थात् । तद् आदधानाः कुर्वाणाः । तानवग्रःअणेन चेदम् आचष्टे -- न भवतो वाचः सर्वथा जगदज्ञानम् उपघ्नन्ति, तच्छ्रवणमात्रेण मोहहान्या मुक्तत्वात् मार्गभावनावैयर्थ्यप्रसङ्गात् । किन् तु तियन्तं कालम् आलोच्यमानाः समुदाचारतो मोहस्य मान्द्यापादनेन तं तनूकुर्वन्तीति ।
अथ वा अन्यथा व्याख्यायते -- ता वाचस् तमो जयन्ति अभिभवन्ति[9] ...................... ............... [3अ]....................................मोहप्रचारम् आदधानाः । शेषं समानं पूर्वेण ।
__________नोतेस्__________
[9] लेखो ऽत्र घृष्टः ।
यद् वा मनसि तमो यस्य स मनस्तमा मूढ उक्तः । तस्य भावो मनस्तमस्ता । तस्या अनवो निष्ठा । तथा हि -- नूतिर् नवः । तद्विरुद्धेन[10] ........................................................... तम् आदधानाः मूढत्व[11] ...................................................... प्रवर्त्तनात् । शेषं समानं पूर्वेणेति व्याख्यातः श्लोकः ।
__________नोतेस्__________
[10] लेखो ऽत्र घृष्टः ।
[11] लेखो ऽत्र घृष्टः ।
केवलम् इदम् आलोच्यताम् -- तथागत म् अभिस्तुवता धर्मोत्तरेणा स्यैव विजयो मुख्यवृत्त्या किं न कथितः? किं पुनर् धर्मविशेषणत्वेनानुषङ्गतः प्रतिपादित इति? अत्र समाधीयते । आचायश्री धर्मकीर्त्तिना भगवत्प्रवचनार्थसमर्थन[12] ......................................................................................................प्रकृतत्वात् विजयो मुख्यतः प्रतिपाद्यते ।
__________नोतेस्__________
[12] लेखो ऽत्र घृष्टः ।

यद् वा यस्य वाच एव तथा जयन्ति तस्य विजयो दण्डाज् जयन्यायेनातिशयेन प्रतिपादितः । सूचितश् चासौ विजेतृ पदेन ।
[ध्प्र् प्.5]
सम्यग्ज्ञानपूर्विके त्यादिनास्य प्रकरणस्याभिधेयप्रयोजनम् उच्यते ।
अथ वा गमिकानां मतेन निरुपधिशेषे निर्वाणधातौ परिनिर्वृतो भगवान् । परिनिर्वृतस्यास्य प्रवचनम् अयम् एव वपुर् विद्यत इति आगमिको वाग्विजयम् एव प्रतिपादयते स्मेति ।
सम्यग्ज्ञाने त्यादिना प्रकरणस्य यत् प्रयोजनं सम्यग्ज्ञानव्युत्पत्तिः, तस्या यत् प्रयोजनं पुरुषार्थसिद्धरूपं तद् उच्यते । न च सम्यग्ज्ञानव्युत्पत्तेः सम्यग्ज्ञानपरिज्ञानं प्रयोजनं न पुरुषार्थसिद्धिर् इति शक्यम् अभिधातुम् । विप्रतिपत्तिनिराकरणेन स्वरूपप्रतिपत्तिर् इव(एव) हि सम्यग्ज्ञानस्य व्युत्पत्तिः । सा कथम् आत्मन एव प्रयोजनं भवेद् इत्य् अभिप्रायेण व्याख्यातवन्तौ विनीतदेवशान्तभद्रौ । तद् व्याख्यानम् अवमन्यमानो ऽभिधेय प्रयोजनम् उच्यते इति व्याचष्टे । अवज्ञाने चायम् आशयः -- अस्येदं प्रयोजनम् इति खल्व् अन्व्यव्यतिरेकाभ्याम् अवधार्यते । नान्यथा । इयञ् च स्वरूपा प्रसिद्धिः (पुरुषार्थसिद्धिः) सम्यग्ज्ञानव्युत्पत्तिम् अन्तरेणापि गोपालाङ्गनादीनां भवन्ती सति सम्यग्ज्ञानि(-ने), सत्याम् अपि तद्व्युत्पत्तौ अस्ति सम्यग्ज्ञाणे मनीषिणाम् अभवन्ती न तद्व्युत्पत्तेर् अन्वयव्यतिरेकाव् अनुविधत्ते । किं तर्हि? सम्यग्ज्ञानस्येति तस्यैव पयोजनं भवितुम् अर्हतीति ।
सम्यग्ज्ञानेत्यादिना वाक्येन करणेन प्रकरणाभिधेयस्य सम्यग्ज्ञानलक्षणस्य प्रयोजनं दृष्टं पुरुषार्थसिद्धिलक्षणम् उच्यते वार्त्तिक कृता कर्त्त्रेत्य् अर्थात् ।
ननु च यत्राभिधाव्यापारः समाप्यते स वाक्यार्थः । न चासौ पुरुषार्थसिद्दौ विश्राम्यति । किं तर्हि? श्रोतुः सम्यग्ज्ञानव्युत्पत्तौ । तत् कथं सा वाक्यार्थत्वेनओच्यते? उच्यते । यद्य् अपि शब्दाभिधाव्यापारापेक्षया तत् सम्यग्ज्ञानं व्युत्पाद्यते शिष्य इति शिष्यसम्यग्ज्ञानविषया व्युत्पत्तिक्रिया प्राधान्याद् वाक्यार्थः, तथाप्य् अस्य तात्पर्यार्थसम्भवे तन्निरूपणेनेदम् उच्यते । तथा हि तद्व्युप्तत्तिम् एवासौ किम् अति कार्यते? यतः सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः[13] ......................................................म् उच्यते । यत्र पुनर् अभिधाविषय एवार्थः सम्भवी न तु तात्पर्यार्थो [3ब्][14]...।स् तत्र स एव वाक्यार्थः कल्प्यते । द्वितयसम्भवे तु यत् परं वाक्यं तथा च तस्यार्थ इत्य् आर्थेन न्यायेनाभिधेयस्य प्रयोजनं पुरुषाथसिद्धिर् वाक्यार्थत्वेनोच्यत इति व्याख्यायत इति ।
__________नोतेस्__________
[13] -पूर्विका सर्वेत्यादिना -- अपे
[14] लेखो ऽत्र घृष्टः ।
केचित् पुनर् इदं धर्मोत्तरीयं वाक्यम् अन्यथा व्याचक्षते । नात्र पयोजनशब्देन फलम् अभिप्रेतं किं तु प्रयुज्यते प्रवर्त्त्यते ऽनेनेति, प्रयोजयतीति वा प्रयोजनम् । तच् च पुरुषार्थसिद्धिहेतुत्वम् । अभिधेयस्य हि सम्यग्ज्ञानस्य पुरुषार्थसिद्धिहेतुत्वेन प्रयुक्तः पुरुषः प्रवर्त्तत इति । उत्तरत्रापि प्रयोजनम् इदम् एव विवक्षितम् । अत एव -- अत्र चे त्यादिवाक्ये सर्वपुरुषार्थसिद्धिहेतुत्वं प्रयोजनं प्रवर्त्तकम् उक्तम् इति स्पष्टीकरणं घटत इति । तच् च नातिश्लिष्टम् उत्पश्यामः । तथा हि अत्र च प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य पुरुषार्थसिद्ध्हिहेतुत्वं प्रयोजनम् उक्तम् इति वक्ष्यमाणेन व्यक्तीकृतत्वाद् इहापि अभिधेय स्य प्रयोजनम् इति षष्टीतत्पुरुषो ऽवश्यकार्यः । तथा चायम् असमर्थः पदविधिर् भवेत् । तद् धि पुरुषार्थसिद्धिहेतुत्वं नाभिधेयस्य सम्यग्ज्ञानस्य प्रवर्त्तकम् अपि तु पुरुषस्य । तत् कथम् अभिधेयपदेन समस्येत प्रयोजनपदम्? न च केनचिद् रूपेणाभिधेयसम्बन्धि--

[ध्प्र् प्.6]
त्व ऽस्य समर्थयोर् एकार्थीभावो भवतीति । न हि यज्ञदत्तपुत्रो भृत्यत्वादिना रुपेण देवदत्तसम्बन्धी भवन् देवदत्तपुत्र इति षष्टीसमासस्य विषयो भवितुम् अर्हति ।
अथ भावप्रधानत्वान् निर्देशस्य प्रयोजनं प्रयोजकत्वम् इत्य् अथः । तच् चाश्रितस्य प्रयोजकतया अभवति सम्बन्धीति समर्थविधिः कल्प्यते ।
ननु यदि सम्यग्ज्ञानगतं पुरुषार्थसिद्धिहेतुत्वं प्रयोजनं प्रयोजकत्वं तर्हि सम्यग्ज्ञाणं प्रयोजनम् इत्य् आपन्नम् । यतो न प्रयोजनत्वम् एव प्रयोजनं भवितुम् अर्थति । न च सम्यग्ज्ञानेन प्रयुक्तः पुरुषः सम्यग्ज्ञाने प्रवर्त्तते, किं तु पुरुषार्थसिद्धिहेतुत्वेन । तत् कथं प्रोयोजनं भवितुम् अर्हति? किञ् च वृद्धव्यवहारो हि शब्दार्थव्यवहारभूमिः । न च वृद्धैः प्रयोजकः सत्य् अपि प्रयोजयितृत्वे प्रयोजक इति सम्यग्ज्ञानव्युत्पत्तेः प्रयोजनम् उच्येत । अन्यथा सम्यग्ज्ञानं व्युत्पद्यमानानाम् आत्मानं कर्त्तुं प्रवर्त्तमान आचार्यः प्रयोजक इति सम्यज्ञाणयुत्पत्तेः प्रयोजनम् उच्येत । यो ऽपि कटं कुर्वन्तं कर्त्तुं प्रयुङ्क्ते सो ऽपि तत् प्रयोजनम् उच्येतेत्य् एवंवादी न लौकिको न प्रईक्षक इत्य् उपेक्षणीय एव ।
अपि च किम् एतद् अन्यथा नोपपद्यत एव येनैवं मृत्वा शीर्त्वोपपाद्येत । न चैवम्, अन्यथापि सूपपादत्वात् । प्रयोजकत्वम् इति निर्देशे च धर्मोत्तरः किं गौरवं पश्यति येनैवम् अवाचकम् आचक्षीत? कथञ् च प्रकरणस्ये ति दुरुपपादं प्रयुञ्जीत? किं च यद् ईप्सञ् जिहासन् वा पुरुषः प्रवर्त्तते तद् उपादानपरित्यागाभ्यां प्रवर्त्तितो भवति । यथाह अक्षपादः -- यम् अर्थम् अधिकृत्य प्रवर्त्तते तत् प्रयोजनम्[न्सू 1,1,28]इति । अधिकृत्य उद्दिश्येत्य् अर्थः । न च सम्यग्ज्ञानस्य भिन्नं सद् अपि पुरुषार्थसिद्धिहेतुत्वम् ईप्सन् जिहासन् वा प्रवर्त्तते । किं तर्हि? हिताहितप्राप्तिपरिहाराव् उद्दिश्येति ताव् एव प्रयोजने युक्ते । किञ्चिद् अजिहासोर् अनुपादित्सोर् अर्थनिरीह[4अ]स्य सत्य् अपि पुरुषार्थसिद्धिहेतुत्वे अप्रवर्त्तनात् । स्मरणाद् अभिलाषेण व्यवहारः प्रवर्त्तते इत्य् अलं शब्दमात्रसमर्थनदृष्टेर् अर्थतत्त्वानवगाहिनो वचने ऽन्धादरेण ।
अथाभिधेयप्रयोजनं प्रवर्त्तकम् इति समस्यते । ततो ऽयम् अदोष इति चेत् । तद् अवद्यम् । न हि पुरुषार्थसिद्धिह्तेउत्वेन प्रयुक्तः पुरुषः सम्यग्ज्ञानलक्षणे अभिधेये प्रवर्त्तते किं तु प्रकरणे प्रवर्त्तते -- ग्रन्थश्रवणलक्षणां प्रवृत्तिम् अनुतिष्ठति ।
अथ ग्रन्थस्य शब्दार्थस्वभावत्वाद् । एवम् अप्य् असौ शब्दे ऽभिधेये च समुदाये प्रवृत्तो भवति । तद् ग्रन्थस्य प्रकरणस्येति षष्ठी कथम्? अथ पुनर् अयम् अर्थो ऽस्य प्रकरणस्याभिधेये ऽर्थाद् अभिधानाभिधेयसमुदाये प्रयोजनं प्रवर्त्तकम् इति । तथा च प्रकरणे प्रवर्त्तकम् इत्य् असङ्गतम् उक्तं स्यात् । यदि चोक्तया व्युत्पत्त्या प्रयोजनशब्देन प्रयोजकं तथाभूतम् अस्य बुबोधयिषितं भवेत् तदा सम्यग्ज्ञानपूर्विके त्यादिना अभिधेयप्रयोजनम् उच्यत इत्य् उक्तं स्यात् । मुख्यश् च सम्बन्धी पुरुषः पुरुषस्येति दर्शितः स्यात् । न चैवम्, तस्मात् प्रयोजनशब्देन फलम् एवास्याभिप्रेतम् अत्रोत्तरत्रापि ।
अथोच्यते । फलार्थी चेत् प्रतिपत्ता फल एव किं न प्रवर्त्तते? किं श्रमः सम्यग्ज्ञान इति । हेयोपादेययोर् हानानोपादानलक्षणफलार्थितैव तन्निबन्धनं ज्ञानं मृगयते । अन्यथा विसंवादनम् आत्मीयम् आशङ्कमान इति का क्षतिः? फलपक्षे तु पुरुषप्रवृत्त्य् उपयोगि चास्याभिधेयम् इति तद् दर्शितं भवति ।
[ध्प्र् प्.7]
द्विविधं हि प्रकरणशरीरम् -- शब्दः, अर्थश् च ।
तत्र शब्दस्य स्वाभिधेयप्रतिपादनम् एव प्रयोजनम् । नान्यत् । अतस् तन् न निरूप्यते ।
अभिधेयं तु यदि निष्प्रयोजनं स्यात् तदा तत्प्रतिपत्तये शब्दसन्दर्भो ऽपि नारम्भणीयः स्यात् ।
ननु च नायं प्रत्यस्तमितावयवार्थः संज्ञाशब्दः । किं तर्हि? प्रयुज्यते ऽनेन इति, प्रयोजयतीति वा व्युत्पत्त्या फले ऽपि वर्त्तते । तत् कथम् एतद् व्याख्यायत इति चेत् । सत्यम् एतत् । केवलं न पुरुषार्थसिद्धिहेतुत्वं सम्यग्ज्ञानस्यात्मन एव प्रयोजकं किं तु पुरुषस्य । तत्र चोक्ता दोषमात्रा । अभिधेये प्रयोजनम् इति विग्रहे च भूयान् दोषो दर्शितः । तस्मात् तथाभूतव्युत्पत्तिनापि प्रयोजनशब्देनात्र न तथाभूतं प्रयोजकं चावाद्यम्, अपि तु फलम् एवेति सर्वम् अवदातम् ।
ननु च प्रकरणे श्रोतॄन् प्रविवर्त्तयिषुर् अयम् अभिधेयप्रयोजनम् अभिधत्ते तद् अनेनास्यैव तद् आख्यातुम् उचितम् । तच् च यथास्वम् अभिधेयप्रत्यायनलक्षणम् इत्य् आशङ्क्याह -- द्विविधं हि इत्यादि । हि र् यास्माद् द्विप्रकारं प्रकरणस्य शरीरं स्वभावः । तद् उक्तं काव्यालङ्कारे " शब्दार्थौ सहितौ काव्यं"[15][का 1,16] इति । तस्माद् अभिधेयप्रयोजनम् उच्यत इति ।
__________नोतेस्__________
[15] काव्यालङ्कारवृत्तौ -- "काव्यशब्दो ऽयम् गुणालङ्कारसंस्कृतयओः शब्दार्थयोर् वर्त्तते" 1 ।1 । इति ।
कथं द्वैविध्यम् इत्य् आह । शब्द इति । च ः शब्देन सहार्थं प्रकरणशरीतत्वेन समुच्चिनोति । एतद् उक्तं भवति -- शब्दार्थयोर् अवच्छेद्यावच्छेदकत्वेन स्थितयोः प्रकरणत्वं नान्यथेत्य् उभयस्वभावत्वात् प्रकरणस्याभिधेयप्रयोजनाभिधाने प्रकरणस्यैवाभिहितं भवतीति ।
यद्य् एवं शरीरत्वाविशेषात् अभिधेयस्येवाभिधानात्मनो ऽपि तत् किं नोच्यते? किं च, न निष्कृष्टरूपे ऽभिधेये पुरुषः प्रवर्त्तते किं तु ग्रन्थ एव श्रवणलक्षनां प्रवृत्तिम् आचरति अभिधेयज्ञानाय । तद् अस्यैव प्रयोजनं वाच्यम् इति पूर्वपक्षद्वितयं पश्यन्न् आह -- तत्रेति निर्धा[4ब्]रणे चैतत् । नान्यद् इति पुरुषप्रवृत्त्य् उपयोगि अयम् अस्याशयः -- न हि शब्दस्य स्वार्थप्रत्यायनलक्षणं फलम् अस्तीति शब्दसन्दर्भ आरभ्यते श्रूयते वा, तस्य काकदन्तप्रीक्षासाधारणत्वेनागण्यमानत्वात् । किं तर्हि? तद् अर्थस्य सप्रयोजनत्वेन । अतः किम् अनेनोक्तेनापीति? तर्हि अभिधेयस्यापि तत् किम् उच्यत इत्य् आह -- अभिधेयं तु इत्यादि । तु र् अभिधानाद् अभिधेयं भेदवद् दर्शयति । अपि शब्दो नारम्भणीय इत्य् अस्मात् परो द्रष्टव्यः । तद् अयम् अर्थः -- तत्प्रतिपत्तये शब्दानां सन्दर्भो नारम्भणीयो ऽपि स्यात्, किं पुनः श्रवणीय इति ।
[ध्प्र् प्.8]
यथा काकदन्तप्रयोजनाभावात् न तत्परीक्षा आरम्भणीया प्रेक्षावता ।
तस्माद् अस्य प्रकरणस्यारम्भणीयत्वं दर्शयता अभिधेयप्रयोजनम् अनेनोच्यते । यस्मात् सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः, तस्मात् तत्प्रतिपत्तये इदम् आरभ्यत इत्य् अयम् अत्र वाक्यार्थः ।
अत्र च प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य सर्वपुरुषार्थसिद्धिहेतुत्वम् प्रयोजनम् उक्तम् ।
यथे ति सामान्येनोक्तस्यार्थस्य विषयोपदर्शने । यथैतद् दर्शितं तद्वत् सर्वं द्रष्ट्व्यम् इति यथाशब्दार्थः ।

तत्परीक्षेती क्षेत्थम् इत्थञ् चेति कर्मोपदेशः । पदसंहतिर् इति च बुद्धिस्थम् । परीक्षणं वा परीक्षा विमृष्यावधारणं तादर्थ्यात् शास्त्रम् अपि तथा ।
ननु निष्प्रयोजनाभिधेयं मारम्भि, वचनेन त्व् अनेन किं क्रियत इत्य् आह -- तस्माद् इत्यादि । यस्मान् निष्प्रयोननाभिधेयं नारभ्यते तस्माद् आरम्भणीयत्वं दर्शयता आरम्भयोग्यम् एवेदं मयारभ्यत इति प्रकाशयता, आरम्भणीयते च दर्शिते श्रवणीयत्वम् अपि निमित्तसाम्याद् दर्शितं भवतीति ते प्रवर्त्तिता भवन्ति ।
ननु च सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिर् इत्य् अनेनैकदेशेनाभिधेयप्रयोजनम् उक्तम्, न समुदितेन । तत् कथम् अनेन "वाक्येनोच्यते" इत्य् उच्यते? उच्यते । वाक्यं हि नामैकस्मिन्न् अर्थे प्राधान्येन प्रतिपाद्ये गुणगुणिभावम् अनुभवताम् अर्थद्वारेणान्योन्यापेक्षिणां सम्बद्धानां पदानां समूह उच्यते । तत्र यदि सर्वेषां पदार्थानां प्राधान्यं स्यात् तदा परस्परानुपकारात् सम्बन्ध एव पदानां न स्याद् इति वाक्यरूपतैव हीयेतेति सूक्तम् अनेनेति । अभिधेयप्रयोजनाभिधानम् एवास्य सम्यग्ज्ञाने त्यादिपदसमूहात्मकस्य यथा तथा यस्माद् इत्यादिना कण्ठोक्तं करोति । तस्य सम्यग्ज्ञानस्य प्रतिपत्तये शिष्यस्येत्य् अर्थात् । एतच् च तद् व्युत्पाद्यत इत्य् अस्य सामर्थ्यावस्थितार्थकथनं द्रष्टव्यम् । इति ना वाक्यार्थस्य स्वरूपम्, इदम् आ च बुद्धिसिद्धत्वेन तद् एवाङ्गुलीव्यपदेशयोग्यम् इव दर्शयति । अनेन च पुरुषार्थसिद्देर् उपेयत्वात् प्राधान्यम्, प्रतिपाद्यमानस्य च सम्यग्ज्ञानस्य तदुपायत्वाद् अप्राधान्यम् । अत एव चार्थेन न्यायेन पुरुषार्थसिद्देर् वाक्यार्थत्वम् । शाब्द्या तु वृत्त्या शिष्यसम्यग्ज्ञानविषया व्युप्तत्तिक्रिया वाक्यार्थ इति दर्शितम् ।
ननु सम्यग्ज्ञाने त्यादिना वाक्येन सम्यग्ज्ञानस्य पुर्षार्थसिद्धौ हेतुभावः परं प्रदर्शितो न पुनर् इदं तस्य प्रयोजनम् इति दर्शितम् । तस्यैव प्रयोजनम् अनेनोच्यत इति चोक्तम् । तत् कथं युज्यते? अथ न (चै)तावतापि न ज्ञायते कस्य किं तद् अभिधेयं किं च तस्य प्रयोजनम् इत्य् आशङ्क्याह -- अत्र चे त्यादि ।
अथ सम्यग्ज्ञानस्य पुरुषार्थसिद्धिहेतुत्वं प्रयोजनम् इत्य् अवद्यम् । मूलविरोधाद् युक्तिविरोधाच् च । तथा हि पुरुषार्थसिद्धिम् एव् आचार्यीयं सम्यग्ज्ञाने त्यादिवचनं प्रयोजनम् अनुजानाति न तु पुरुषार्थसि[5अ]द्धिहेतुत्वम् । अवयवार्थव्याख्याने तस्य ताम् एव प्रयोजनतया व्यक्तीकरष्यति । न च हेतुत्वं हतोर् भिन्नम् इष्यते युज्यते वा । तत् कथम् अस्यैव सम्यग्ज्ञानस्य प्रयोजनं
[ध्प्र् प्.9]
अस्मिंश् चार्थ उच्यमाने सम्बन्धप्रयोजनाभिधेयानि उक्तानि भवन्ति ।
भविष्यति । न चात्र प्रयोजनं प्रयोजकं वाच्यम्, उक्तन्यायात् । इहापि प्रवृत्तिसम्बन्धिन उपादानप्रसङ्गाच् च । न च राजशासनं सामान्यं किञ्चिद् अस्ति येन भावप्रधानः प्रयोजनशब्दः कल्प्येत । तदिष्तौ पूर्वोक्तं दूषणं परावर्त्तेतेति ।
सत्यम् । न पुरुषार्थसिद्धिहेतुत्वं सम्यज्ञानस्य प्रयोजनम् अभिप्रेतम् । किं तर्हि? पुरुषार्थसिद्धिर् एव ।
अशाब्दिका ऽसौ कथम् उच्यताम् इति चेत् । च शब्दो ऽत्र यस्मादर्थे । ततो यस्मात् प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य पुरुषार्थसिद्धिहेतुत्वम् उक्तम्, तस्य्मात् प्रयोजनम् उक्तम् इति द्विर् आवर्तनीयम् । तच् चात्रार्थात् पुरुषार्थसिद्धिर् एवावतिष्ठ्ते । सम्यग्ज्ञानस्य तां प्रति हेतुत्वोक्तौ च सा प्रयोजनम् उक्तेति किं साक्षाद् वाचकेन पदेन क्रियत इति भावः एतावतैव तावद् इदं साधीयते । बहवः पुनर् अत्रायास्यन्ति ।
सर्वा पुरुषार्थसिद्धिर् यतो हेतुत्वात् तत् सर्वपुरुषार्थसिद्धि, तथाविधं हेतुत्वं यत्र प्रयोजनं तत् तथा । तच् च पुरुषार्थसिद्धिर् एवेति । अनया व्युत्पत्त्या अनेन शब्देन सैवोक्ता ।
कस्य तादृशम् इत्य् अपेक्षायाम् इदम् उक्तम् -- प्रकरणाभिधेयस्य सम्यग्ज्ञानस्येति केचित् प्रतिपद्यन्ते । अन्ये त्व् अर्ष(-श)[16]आदित्वे प्रयोजनम् अस्यास्तीति मत्वर्थीयमतं विधाय प्रधानवन् निर्देशं विवक्षित्वा प्रयोजनवत्त्वम् इति प्रतिजानते । एवं चार्तह्ं समर्थयन्ति -- यत एव पुरुषार्थसिद्धिः सम्यग्ज्ञानसाध्या तत एव सा प्रयोजनम् । तस्यापि यद् एव ताम् प्रति हेतुत्वं तद् एव प्रयोजनवत्त्वम् इति ।
__________नोतेस्__________
[16] पाणिनि 5,2,127 ।
एक तु यतः सम्यग्ज्ञाने सति पुरुषार्थसिद्धिहेतुत्वं व्यवस्थाप्यते, ततः प्रमाणफलवद् व्यवस्थाप्य् अव्यवस्थापनभावम् आश्रियेदम् उक्तं ततो न किञ्चिद् अवद्यम् इति मयन्ते ।
अपरे तु च शब्दं भिन्नक्रमं कृत्वा पुरुषार्थसिद्धिहेतुत्वम् उक्तम्, प्रयोजनं चोक्तम् इति योजयन्ति ।
इतरे तु पुरुषार्थसिद्धिहेतुशब्देन कारणे कार्यम् उपचर्य पुरुषार्थसिद्धिम् एवाभिदधति । अनन्योपायसाध्यतादर्शनार्थं चोपचारकरणं समादधते ।

केचित् तु निबन्धकृतः कथञ्चिद् अपीदं समर्थयितुम् अनीशानाः सहितशब्दपातात् प्रमादपाठा एवेति वर्णयन्ति ।
अत्र सारासारं सन्त एव विवेचयिष्यन्ति ।
स्याद् एतत् । यथा प्रवृत्त्य् अङ्गतया अभिधेयप्रयोजनम् उच्यते, तद्वत् सम्बधादिकम् अपि किं नोच्यत इत्य् आह -- अस्मिंश् चे ति । चो यस्मादर्थे ।
[ध्प्र् प्.10]
तथा हि प्रुर्षार्थोपयोगि सम्यग्ज्ञानं व्युत्पादयितव्यम् अनेन प्रकरेणेति ब्रुवता सम्यग्ज्ञानम् अस्य शब्दसन्दर्भस्य अभिधेयम्, तद्व्युत्पादनं प्रयोजनम्, प्रकरणम् च इदम् अपायो व्युत्पादनस्य इत्य् उक्तम् भवति ।
तस्माद् अभिधेयभागप्रयोजनाभिधानसामर्थ्यात् सम्बन्धादीनि उक्तानि भवन्ति । न त्व् इदम् एकं वाक्यं सम्बन्धम्, अभिधेयम्, प्रयोजनं च वक्तुं साक्षात् समर्थम् । एकं तु वदत् त्रयं सामर्थ्यात् दर्शयति । तत्र
कथं पुनर् अन्यस्योक्तान्यद् उक्तं भवतीत्य् आह -- तथा हि इति । निपातसमुदायश् चायं यस्माद् इत्य् अस्यार्थे सर्वत्र वर्त्तते ।
पुरुषार्थो हेयोपादेयहानोपादानलक्षण उपयोगो व्यापारः । सो ऽस्यास्तीति तथा ।
एवं सति किं सिद्धम् इत्य् आह -- तस्माद् इति । तच् छब्देनानन्तरोक्तो वाक्यार्थः प्रत्यवद्र(-म्र)ष्टव्यः ।
अभिधेयभागो ऽङ्ग एकदेशः । सम्बन्धादिभागापेक्षया ।
सम्बन्धादी तिय् आदि ग्रहणेनाभिधेयप्रयोजनयोः संग्रहः । [5ब्] उक्तानी ति उक्तानीव उक्तानि प्रकाशितानि । न तु तत्रा ऽभिधा ऽस्य सम्भविनी ।
अथाभिधेयप्रयोजनं यथा वाक्येन साक्षाद् उच्यते, तथा सम्बन्धादीन्य् अपि किं नोच्यन्त इत्य् आह -- न त्व् इति । तु र् अवधारयति विशिनष्टि वा ।
अयम् आशयः -- यदि सर्वे पदार्थाः प्राधान्यम् अश्नुवीरन्, वाक्यम् एव तदा विशीर्येतान्योन्या ऽव्यपेक्षाभावेनैकार्थाप्रत्यायनात् । ततो वाक्यम् एकार्थम् अभिधेयतया उपादातुं कल्प्यते नानेकम् ।
यदि साक्षान् न समर्थम्, कथं नासमर्थम्? अथासमर्थम् एव । न साक्षात् समर्थम् इति तर्हि न वाच्यम् इति । आह -- एकं त् व् इति । तुर् अत्रापिवद् ग्राह्यः । साक्षाद् वाच्यत्वेन एकं व्यवच्छिनत्ति । दर्शयति प्रकाशयति, तत्र वाक्यस्याभिधाव्यापारासंभवात् । अत एवोक्तानी विक्तानीति तथा ऽसमाभिर् व्याख्यातम्, नयथा तद् अनेन विरुध्येत ।
ननु यदि नामाभिधेयादिकं वाक्यस्य प्रकाश्यम्, नाभिधेयम्, तहापि पदार्थेन तेनावश्यं भाव्यम् । तथा च कस्य किं वादकं पदम् इत्य् आशङ्क्य् आह -- तत्र इत्यादि -- तेशु अभिधेयादिषू ।
[ध्प्र् प्.11]
तद् इति अभिधेयपदम् । व्युत्पाद्यत इति प्रयोजनपदम् । प्रयोजनं च अत्र वक्तुः प्रकरणकरणव्यापारस्य चिन्त्यते, श्रोतुश् च श्रवणव्यापारस्य ।
तथा हि -- सर्वे प्रेक्षावन्तः प्रवृत्तिप्रयोजनम् अन्विष्य प्रवर्तन्ते । ततश च आचार्येण प्रकरणं किम् अर्थं कृतम्, श्रोतृभिश् च किम् अर्थम् श्रुयत इति संशये व्युत्पादनं प्रयोजनाभिधीयते । सम्यग्ज्ञानं व्युत्पद्यमानानाम् आत्मानं व्युत्पादकं कर्तुं प्रकरणम् इदम् कृतम् । शिष्यैश् च आचार्यप्रयुक्ताम् आत्मनो व्युत्पत्तिम् इच्छद्भिः प्रकरणम् इदं श्रुयत इति प्रकरणकरणश्रवणयोः प्रयोजनं व्युत्पादनम् ।
तद् इति द्वितीयान्तम् एतत् । यतो व्युत्पाद्यत इत्य् अत्र लकारः प्रयोज्यकर्मणि विहितो न प्रयोज्यक्रियाकर्मणीति । वाक्ये ऽपि लोके पद्यते गम्यते ऽनेनार्थ इति व्युत्पत्त्या पदप्रयोगो दृश्यते । ततो व्युत्पाद्यत इति प्रयोजनपदम् इत्य् आह । अन्यथा पदवृन्दम् इदं न पदम् । यद् वा व्युत्पाद्यत इत्य् अत्रेति द्रष्टव्यम् ।
ननूक्तम् -- `प्रयोजनं पुरुषार्थसिद्धिःऽ । तत् किं पुनश् चिन्त्यते । कथं च तद् अन्यतोच्यत इत्य् आह -- प्रयोजनं चात्र इति । चो वक्तव्यान्तरसमुच्च्ये । तद् अयम् अर्थः -- नोक्तं प्रयोजनम् इति चिन्त्यते किं तु गुणभूतार्थप्रयोजकपदस्य व्युत्पाद्यत इत्य् अस्य प्रयोजनम् । तद्व्युत्पत्तिः क्रियत इति णिचः किं प्रयोजनम् इति प्रश्ने तस्य प्रयोजनं चिन्त्यत इति यावत् ।
अत्रे ति गुणभूतार्थ्निरूपणे प्रकरणकरणम् एव व्यापारः ।
ननु कस्माद् इयम् आशङ्का -- `वक्त्रा किमर्थं क्रित्यते, श्रोतृभिश् च किमर्थं श्रूयतऽ इति । तौ खल्व् एवम् एव प्रवर्त्तेयाताम् इत्य् आशङ्क्याह -- तथा ही ति यस्मात् ।
अथ कथम् उभयोर् व्युत्पादनं प्रयोजनम् उच्यत्गे? यद्य् अतो व्युत्पद्यते तस्य व्युत्पत्तिः प्रयोजनम् । यस् तु व्युत्पादयति तस्य व्युत्पादनम् इति । नैतद् अस्ति । प्रयोजकव्यापारवती हि व्युत्पत्तिः प्रयोजनम् इष्टेत्य् उभयोर् व्युत्पादनम् एव प्रज्योजनम् । केवलम् एको ऽन्यथा प्रवर्त्तते ऽन्यश् चान्यथा । कथं नाम मद्व्यापारवशेन श्रोतृसन्तानवर्त्तिनी व्युत्पत्तिर् भूयाद् इति आचार्यः प्रवर्त्तते । अत एव स्वप्रयोजकव्यापाराधिष्ट्ःइता श्रोतृसन्तानवार्त्तिनी व्युत्पत्त्ः कर्त्तुः प्रयोजनम् । एवम् एवासौ व्युत्पादको भवति । श्रोता तु कथं नामैतद् आचार्यव्यापारवसेन(-शेन) मत्संतानवर्त्तिनी व्युत्पत्तिर् भूयाद् इति प्रवर्त्तते ।
अत एवाचार्यव्यापाराधिष्ट्ःइता व्यत्पत्तिः श्रोतुर् अपि प्रयोजनम् । एवम् एवासौ तद्व्युत्पाद्यो
[ध्प्र् प्.12]
सम्बन्धप्रदर्शनपदम् तु न विद्यते । सामर्थ्याद् एव तु स प्रतिपत्तव्यः ।
प्रेक्षावता हि सम्यग्ज्ञानाव् अव्युत्पादनाय प्रकरणम् इदम् आरब्धवता अयम् एव उपायो न अन्यः इति दर्शित एव उपायोपेयभावः प्रकरणप्रयोजनयोः सम्बन्ध इति ।
भवति । ततो व्युत्पादनं प्रयोजकव्यापारवशवर्त्तिनी व्युप्तत्तिर् द्वोयोर् अपि प्रयोजनम् इति इति शब्दं हेतुपदं कृतोपसंहरन्न् आह -- प्रकरणकरणश्रवणयोः प्रयोजनं व्युत्पादनम् इति ।
ननु च णिचि कृते व्युत्पादनं कथम् उभयोः प्रयोजनम्, इत्थम् इति [6अ] प्रश्नविसर्जने स्याताम् । तेनैव तावता दर्शितेन किं प्रयोजनम्? सम्यग्ज्ञानव्युत्पत्तौ कथञ्चिन् निमित्तमात्रात् दधिभोजनादेर् आचार्यस्यासाधारणकारणताप्रतिपत्तिः प्रयोजनम् । अयम् अर्थः -- अस्ति पर्योजकव्यापारप्रदर्शने सम्यग्ज्ञानव्युत्पत्ताव् उपयोगित्वमात्रेण स्वास्थ्यादिना साम्यम् आचार्यस्य दर्शितं स्यात् । अस्ति चास्य तद्व्युत्पात्ताव् उपदेशलक्षणो ऽसाधारणो व्यापारः । स कथां नाम प्रतीयेतेति णिचा निर्देशः कृत इति ।
अथ भोजनादेस् तद्व्युत्पत्तौ साक्षाद् व्यापारा ऽसम्भवाद् आचार्यव्यापारः प्रतिपत्स्यत इति चेत् । नैतत् । एवं हि व्याख्यातॄणाम् इदं प्रतिपादनकौशलं स्यान् न कर्त्तुर् इति न्याय्यो णिचा निर्देशः ।
ननूक्तम् -- अभिधानस्य प्रयोजनं न निरूप्यत इति । तत् किम् इदानीं तद् एव व्याजान्तरेण निरूप्यते? सत्यम् । केवलं वाक्यार्थत्वेन न निरूप्यत इत्य् अभिसन्धिना` `तन् न निरूप्यतेऽ इत्य् उक्तम् । न तु पदार्थत्वेनापीति किं निरोधः?
सम्यग्ज्ञानं व्युत्पद्यमानाम् इत्य् असाधुर् अयं शब्दः -- `व्युत्पत्त्यर्थस्य पदेर् अकर्मत्वाद्ऽ इति भागवृत्तिकारः । तन् नातिश्लिष्टम्, ज्ञानार्थस्य पदेः सकर्मकस्य `व्युत्पन्नः सङ्केतःऽ इत्यादौ बहुशः प्रयोगदर्शनात् । यथा ऽवादि प्रमाणावर्त्तिके वार्त्तिककृता --

मनो ऽव्यु(-मनो व्यु)त्पन्नसंकेन्तम् अस्ति तेन स चेन् मत[प्व् इइ 143]इति ।
यद्य् अभिधेयाद्यः पदार्थाः, सम्बन्धस् तर्हि कस्य पदस्यार्थ इत्य् आह -- सम्बन्धे इत्यादि ।
सामर्थ्याद् इति नाभिधाव्यापारेण । एव कारेण पदस्याभिधाम् अपोहति । तु शब्दः केवलम् इत्य् अस्यार्थे ।
कथं सामर्थ्याद् इत्य् आह -- प्रेक्षावता इति । उपायः कारणम् । उपेया सम्यग्ज्ञानवुत्पत्तिः साध्या । तयोर् भवः । यद्वशेनोपायोपेयज्ञानाभिधाने भवतः । एव कार उपाय शब्दात् परो द्रष्टव्यः । प्रतियोगिनोपायायोगस्यैव शङ्कितत्वात् । तदन्ययोगस्य च शङ्किष्यमाणत्वात् । अनर्थाशङ्कोपस्थापितान्ययोगनिरासे तु कर्त्तव्ये सामर्थ्यगम्यम् अवधारणान्तरं कार्यम् । न त्व् इदम् एव वाच्यम् । नान्य इति च नान्य एवेत्य् अवसेयम् ।
[ध्प्र् प्.13]
ननु च प्रकरणश्रवणात् प्राग् उक्तान्य् अपि अभिधेयादीनि प्रमाणाभावात् प्रेक्षावद्भिर् न ग्रह्यन्ते ।
तत् किम् एतैर् आरम्भप्रदेशे उक्तैः ।
सत्यम् । अश्रुयते प्रकरणे कथितान्य् अपि न निश्चीयन्ते । उक्तेषु त्व् अप्रमानकेश्व् अप्य् अभिधेयादिशु संशय उत्पद्यते । संशयाच् च प्रवर्तन्ते । अर्थसंसयो ऽपि हि प्रवृत्त्यङ्गं प्रेक्षावताम् ।

एवंरूपस्य सम्बन्धो व्युत्पाद्यत इति प्रयोजनाभिधानाद् एव दर्शतम् । तद् उक्तम् --
"शास्त्रं प्रयोजनं चैव सम्ब्धस्याश्रयाद् अगतौ ।[17]
__________नोतेस्__________
[17] उक्तान्यभिधे- ब्
तदुक्त्यन्तर्गतस् तस्माद् भिन्नो नोक्तः प्रयोजनाद् ॥" [श्लोकवा- 1,18] इति
अभिधेयादिप्रकाशनद्वारेणादिवाक्यं प्रवर्त्तकम् इति असहमान आह -- ननु च इति । निपातसमुदायश् चायं `चोदयामिऽ, `अभिमुखो भवऽ इत्य् अस्यार्थस्य द्योतकः । श्रवणानन्तरं तेषां प्राक्शब्दाश्रयेण प्रवर्त्तमानम् अनुमानम् अन्यद् वा शब्दस्यार्थनान्तरीयतायां प्रवर्त्तयितुम् अर्हति । असम्बन्धनिबन्धनायाः परोक्षार्थप्रतिपत्तेः प्रामाण्यायोगात् । सा च शब्दस्यासम्भविनी । आचार्यस्य चाप्तभावो दुर्बोधो येनाप्तोपदेशतया शब्दो ऽर्थतथात्वं प्रत्याययेद् इति । आरभ्यत इत्य् आरम्भः प्रकरणम् । तस्य प्रदेशः एकदेशः । सामर्थ्यात् तदादिः ।
सच्चोद्ये सत्यम् इत्य् आह । यदि सत्यम् इदं किमर्थं तर्हि [6ब्] ते कथ्यन्त इति? उक्तेषु इति । तु र् अनुक्तपक्षाद् उक्तपक्षस्य विशेषं दर्शयति । अनेनैतद् आह -- साधकबाधकप्रमाणाभावे येन र्ते व्याहारात् प्रतिनियताधिकरणो यौक्तः संअयो भवितुम् अर्हतीति । अपि न्यायतः सम्भावनां दर्शयति, अतिशयं वा । अन्यथा किं सप्रमाणकेष्व् अपि संशयो जायते येन् आपि श्रुतिः सम्गच्छेत् ।
ननु प्रवृत्तिफलम् आदिवाक्यं, प्रवृत्तिश् चेन् नास्ति किं संशयेनोत्पादितेनापीत्य् आह -- शंशयाच् च इति । चो यमादर्थे ।
अथ ये तावन् मदाः श्रद्धया वा ऽऽचार्यम् उपसन्नास् ते तद्वचनाद् अर्थं निश्चित्यैव प्रवर्त्तमाना न संशयात् प्रवर्त्तन्ते । ये ऽपि तद्विपरीताः संशेरते तेषाम् अपि न शंशयात् प्रवृत्तिः । प्रवृत्तौ वा प्रेक्षावत्त्वहानिर् इत्य् आशङ्क्याह -- अर्थसंशयो ऽपीति । न केवलम् अर्थनिश्चिय इत्य् अपिशब्देनाह । शक्यनिश्चये हि निश्चयम् अन्तरेण प्रवर्त्तमानाः प्रेक्षावत्ताया हीयेरन् । यत्र त्व् अर्थसंशयेनार्थितया प्रवर्त्तमानाः, नोपालम्भम् अर्हन्तीति भावः । यदि च युक्त्या द्वितीयाकारानुप्रवेशेन संशयानस्य न क्वचित् प्रवृत्तिः, तर्हि न कस्यचिद् वचनात् क्वचित् प्रवर्त्तितव्यम् इति भूयान् व्यवहारो विलुप्येत ।
ननु निवृत्तिर् अनर्थनिश्चयनिबन्धना । अनर्थनिश्चयश् च प्रमाणात् । तच् चेह नास्ति । निवृत्तीतरस् तु प्रवृत्तिव्यतिरेकी प्रकारो नास्ति । ततो ऽयत्नसिद्धा प्रवृत्त्ः । तत् किं तदर्थेनादि--
[ध्प्र् प्.14]
अनर्थसंशयो ऽपि निवृत्त्यङ्गम् अत एव शास्त्रकारेण एव पूर्वम् सम्बन्धादीनि युज्यन्ते वक्तुम् ।
व्याख्यातॄणां हि वचनं क्रीडाद्यर्थम् अन्यथा अपि सम्भाव्यते । शास्त्रकृतां तु प्रकरणप्रारम्भे न विपरीताभिधेयाद्यभिधाने प्रयोजनम् उत्पश्यामो न अपि प्रवृत्तिम् । अतस् तेषु संशयो युक्तः । अनुक्तेषु तु प्रतिपतृभिर् निष्प्रयोजनम् अभिधेयं सम्भाव्येत अस्य प्रकरणस्य काकदन्तपरीक्षाया इव, अशक्यानुष्ठानं वा ज्वरहरतक्षकचूडारत्नालङ्कारोपदेशवत्, अनभिमतं वा प्रयोजनं मातृविवाहक्रमोपदेशवत्, अतो वा प्रकरणात् लघुतर उपायः प्रयोजनस्य, अनुपाय एव वा प्रकरणं सम्भाव्यते ।
वाक्येनेतिय् आह -- अनर्थे त्य् आदि । न केवलम् अनर्थनिश्चयो ऽपीत्य् अपि शब्दः ।
यद्य् अवश्यं वक्तव्यान्यभिधेयादीनि तर्हि व्याख्यातार एव तानि वक्ष्यन्ति । तत् किं शास्त्रकृतो व्याहारेणेतिय् आह -- शास्त्रकारेणैव न व्याख्यातृभिः ।
अथोच्यते -- प्रवृत्त्यङ्गत्वाच् च व्याचक्षते । अभिधेयाद्यनभिधाने तु प्रवृत्तेर् एवासम्भवात् कथं सम्भविनो व्याख्यातारो येनाशङ्क्य तेषां व्याहारम् अयं निरस्यतीति । अत्रोच्यते । न सर्वथा ऽभिधेयादिप्रकाशनं केनचिन् न कर्त्तव्यम् एवेति चोद्यं प्रवृत्तम्, किन् त्व् आदिवाक्यं तदर्थं न कर्त्तव्यम् इत्य् अभिसन्धिना । तत्र ये तावत् साक्षाद् आचार्योपसन्नास् तेषां तद्वचनाद् एव तत्प्रतीतौ प्रवृत्तिज्ञानयोः सम्भवात् सम्भवि व्याख्यातृत्वम् । तेभ्यो ऽपि तद् उपसन्नानाम् इति किम् अवद्यम्?
ननु च न शास्त्रकृद्वचनम् अपि प्रसह्य प्रवर्त्तयति, किं तर्हि प्रयोजनाद्यभिधानेन प्रवृत्तिविषयोपदर्शनात् । तच् च व्याख्यातृवचने ऽपि सम्भवतीति किम् उच्यते शास्त्रकारेणैवेत्य् अत आह -- व्याख्यातॄणां हि इति । हि र् यस्मादर्थे । शास्त्रकारेष्व् अपीदं समानम् इत्य् आह -- शास्त्रकृताम् इति । तु ना व्याख्यातृभ्यः शास्त्रकृतां वैधर्म्यम् आह । विपरीतं च तद् अभिधेयाद्यभिधानं चेति विग्रः । अथ वा विपरीतं च तदसत्यत्वाद् अभिधेयञ् चाभिधेयतया प्रकाशनात् । तस्य् आभिधानम् इति विग्रहीतव्यं । उत्पश्याम उत्प्रेक्षामहे । अनेनैतद् आह -- तेषाम् अपि तथाभिधाने किम् अस्माकं बाधकं प्रमाणं? केवलम् एषां महीयसाशयेन शास्त्रं प्रणेतुम् इच्छतां परार्थप्रवृत्तानां नैतत् सम्भावयाम इति ।
प्रकरण स्य प्रारम्भ आदौ । एतच् च प्रयोजनाद्यभिधाननियतसन्निधेर् यथाभूतार्थचिन्ताविधानविषयस्य कालस्य निर्देशो न तु प्रकरणस्य [7अ] मधे ऽवसाने वा तत् सम्भवति सप्रयोजनं चेति ।
[ध्प्र् प्.15]
एतासु च अनर्थसम्भावनास्व् एकस्याम् अप्य् अनर्थसम्भावनायां न प्रेक्षावन्तः प्रवर्तन्ते ।
अथ यद्य् एवंविधा प्रवृत्तिः शास्त्रकृतां दृश्यते, त्वयाप्य् अस्य किं न सम्भाव्यत इत्य् आह -- नापि इति । अपि र् अप्रयोजनापेक्षया समं प्रवृत्तिदर्शनं समुच्चिनोति । तद् एव् ओत्पशाम इति सम्भध्यमानम् इह पश्याम इत्य् अस्यार्थे सम्बद्ध(-बन्ध)व्यम् । पश्याम इति वा ऽध्याहार्यम् । अनेनैतद् आह -- तथापि सम्भावयामो यदि तेषाम् ईदृशी पश्यामो न त्व् एवम् इति । अतो हेतोस् तेष्व् अभिधेयादिषु यद् वा तेषु शास्त्रकारेषु वक्तृषु सत्सु तदुक्तेष्व् अभिधेयादिष्व् इति प्रकरणात् संशयो ऽर्थोन्मुख इति द्रष्टव्यम् ।
ननु सत्य् अप्य् अर्थसंशये ऽर्थत्वाभावे प्रवृत्तिर् नास्ति । तन्निमित्ता तु सा संशयमात्राद् अपि भवति । तन्मात्रञ् च साधकबाधकविरहाद् अप्य् अर्थे सिद्धम् । तत् किं तदुत्पादार्थेन वाक्येनेत्य् आह -- अनुक्तेषु -- इति । तु र् उक्तावस्थाया अनुक्तावस्थां भेदवतीं दर्शयति ।
निर्गतं प्रयोजनं यस्मान् निष्कान्तं वा प्रयोजनात् । काकदन्ता ह्य् अभिधेयाः । ते च न क्वचित् पुरुषार्थ उपयुज्यन्ते । सप्रजोजनं वाभिधेयम् अशक्यानुष्ट्ःआनं सम्भाव्येत । किंवद् इत्य् आह -- ज्वर् एत्यादि । ज्वरं हरतीति ज्वरहरः । तक्षका ख्यस्य नागराजस्य चूडा शिखा । तस्या रत्नं रतिं तनोतीति विशिष्टं वस्तु । तेनालङ्करणं अलङ्कारः । ज्वरहरश् चासाव् एवेंभूतश् चेति विग्रहः । स उपदिश्यते येन ग्रन्थेन तद्वत् ।
सतोर् वा सप्रयोजनशक्यानुष्ठानत्वयोर् अस्य प्रयोजनम् अनभिमतम् एवास्तिकानां सम्भायेत । मातुर् विवाहस्य क्रमः परिपाटिर् उपदिश्यते येन पारसीकशास्त्रेण तद्वत् । पारसीकशास्त्रेण हि मृते पितरि माता प्रथमम् अग्रजेन पुत्रेण परिणेतव्या, तदनु तदनुजेनेत्य् उपदिश्यते ।

अतो वा प्रकरणाल् लघुर् अल्पग्रन्थः प्रयोजनस्य सम्यग्ज्ञानव्युत्पत्तिलक्षणस्य । अनुपाय एव अनिमित्तम् एव ।
चत्वारो ऽपि वा शब्दाः पूर्वपूर्वापेक्षया पक्षान्तरम् अवद्योतयन्ति । सम्भावना च सर्वा वर्णिता ऽनर्थोन्मुखा प्रतिपत्तिः युक्त्या द्वितीयाकारानुप्रवेशाच् च संशयपदाभिलाप्या प्रत्येतव्या, सर्वत्रैवाकारान्तरस्य प्रतियोगिनः समुदाचारतो ऽदर्शनात् । तथाविधा ऽनर्थसम्भावनायाश् च बीजम् इदम् असत्यादिवाक्ये -- यद्य् अस्य प्रयोजनादिकं भवेद् बहुभिर् अन्यैर् इवानेनाप्य् आदाव् उक्तं भवेत् । न चानेन किञ्चिद् अवादीति मतिः ।
कामम् अमूर् अनर्थसम्भावना भवन्तु का नो हानिर् इत्य् आह -- एतास्व् इति । न केवलं सर्वा इत्य् अपि शब्देनाह । प्रयोजनाद्यनभिधान इव यद्य् अभिधाने ऽपि भवन्ति तास् तदा किम् अभिधेयादिभिर् अभिहितैर् अपीत्य् आह -- अभिधेया दिषु इति । तु र् उक्तेषु इत्य् अस्याननतरं द्रष्टव्यः, अनुक्तपक्षाच् च विशेषस्य द्योतकः ।
अथ कथम् अनयोर् अर्थानर्थसम्भावनयोर् विरोधो यतः सम्भावना संशय उच्यते । स चोभयां
[ध्प्र् प्.16]
अभिधेयादिषु तु उक्तेष्व् अर्थसम्भावना अनर्थसम्भावनाविरुद्धा उत्पद्यते । तया प्रेक्षावन्तः प्रवर्तन्ते इति प्रेक्षावताम् प्रवृत्त्यङ्गम् अर्थसम्भावना कर्तुं सम्बन्धादीन्य् अभिधीयन्त इति स्थितम् ।
शावलम्बन इत्य् अन्योन्यस्याम् अन्याकारो ऽस्तीति कुतः सहानवस्थानम् । उच्यते । एकस्याम् अनर्थाकार उद्रिक्तो ऽनुभूयते, युक्तेस् तु द्वितीयाकारानुप्रवेशः । इतरस्यां नू(तू)द्रिक्तो ऽ[7ब्]र्थाकारो ऽनुभूयते, युक्तेस् त्व् अनथाकारानुप्रवेश इत्य् उभयोर् अप्य् अन्योन्यवैपरीत्येनानुभवाद् कथम् अविरोधः ।
भवत्व् एवम्, तथापि कथम् अस्याभिधाने ऽनर्थाशङ्का निरस्तेति चेत्, उच्यते -- पुरुषार्थसिद्धिरूपाभिधेयप्रयोजनाभिधानेनाऽऽदिमा ऽनर्थसम्भावना निरस्ता । अभिधेयतत्प्रयोजनयोर् उपनिरूपणेन च द्वितीयतृतीये निरस्ते । अन्तिमा ऽपि सामर्थ्यगतिसम्बन्धप्रतिपादनान् निरस्ता । तुरीयां तु परमविवेकशालिन आचार्यस्य प्रकरणारम्भसामर्थ्यान् निरस्यते । तथा हि न समाने ऽप्य् उपायान्तरे सम्भवति महतो महान् अयं प्रेक्षापूर्वकारी प्रकरणम् ईदृशम् आरभते, किम् अङ्ग पुनर् लघूनीति ।
अथ स्यात् -- समसमयसम्भवी देशान्तरवर्ती च कश्चद् एतदग्रतो लघूपयान्तरकाकः(-तरग्रन्थः?) स्यात् । तत् कथं तत्प्रणितलघूपायान्तरनिरासः? अत्रापि तत्प्रेक्षावत्तैव महती निबन्धनम् । प्रेक्षापूर्वकारित्वाद् एव तथाभूतात् तेनास्मिन् नार्यावर्ते ऽन्यत्र वा लोके नेदानीन्तनेनैतदर्थं प्रकरणं प्रणीतम् इति बहुधा ऽनुसर्त्तव्यम् । अनुसृत्य दृष्ट्वा तल् लघुर् उपाय इति च निश्चित्येदं प्रणेतुम् उचितं नान्यथेति । सर्वत्रैव प्रकरणे सत्य् आदिवाक्ये लघूपायान्तरनिरासे गतिर् इयम् एव । न हि अन्यत्राप्य् अभिधेयतत्प्रयोजनादिप्रकाशनम् अन्तरेण लघूपायान्तरनिरासाभिधानम् अस्तीति किं नानुमन्यते?
यद्य् एवम् इतरासाम् अप्य् अनर्थसम्भावनानाम् एवम् एवास्तु निरासस् तत् किम् आदिवाक्येन? नैतत् । न हि सूचीप्रवेश इत्य् एव मूष(मूस)लप्रवेशः । तथा हि -- असत्य् आदिवाक्ये प्रेक्षापूर्वकारिप्रयुक्तत्वम् एव प्रकरणस्य न शक्यते कल्पयितुम्, प्रत्युताप्रेक्षापूर्वकारिप्रयुक्तत्वम् एव शक्यकल्पनम् । दृश्यन्ते हि प्रेक्षापूर्वकारिणः प्रकरणादौ सर्वत्र प्रयोजनाद्यभिधायकम् आदिवाक्यं
प्रणयन्ते(-तः) । न चानेनादिवाक्यं तदर्थम् अकारि । तस्मान् नायं प्रकरणकारः प्रेक्षापूर्वकारीति सङ्कल्पाद् उ(-न् नो)पाददीति(-त) ।
ननु च प्रवृत्त्यर्थो ऽयं प्रयासः । सा चेन् नास्ति किं तयोत्पन्नयापीत्य् आह तया -- इति । यद्य् अर्थसम्भावना प्रकरणे पुरुषस्य प्रवर्त्तयित्री तर्हि किम् अभिधेयाद्य् अभिधीयत इत्य् आह -- इति -- इति । यस्माद् अर्थसम्भावनया प्रवर्त्तन्ते इति स् तस्माद् अर्थसम्भावनां कर्त्तुम् । किम्भूतां? प्रवृतेर् अङ्गं निमित्तम् । अङ्गादिशब्दानाम् असति बहुव्रीहौ परलिङ्गाग्रहणात् स्वलिङ्गेन निर्देशः । इति र् एवम् अर्थे स्थितं निश्चितम् ।
[ध्प्र् प्.17]
अविसंवादकं ज्ञानं सम्यग्ज्ञान म्.
लोके च पूर्वम् उपदर्शितम् अर्थं प्रापयन् संवादक उच्यते. तद्वज् ज्ञानम् अपि [स्वयं][18]प्रदर्शितम् अर्थं प्रापयत् संवादकम् उच्यते. प्रदर्शिते चार्थे प्रवर्तकत्वम् एव प्रापकत्वम्, न अन्यत्. तथा हि -- न
__________नोतेस्__________

[18] स्वयम् ओ.ए. त्
एवम् अनेन प्रबन्धेन सम्यग्ज्ञाने त्यादिवाक्यस्य समुदायार्थ व्याख्यायावयवार्थम् इदानीं अविसम्वादकम् इत्यादिना व्याचष्ते ।
अत्रायं पूर्वपक्षः । किम् इदं सम्यक्त्वं ज्ञानस्याभिप्रेतं? यद्योगात् सम्यग्ज्ञानम् उच्यते । यद्य् एवं वस्तुतत्त्वग्रहणं सम्यक्त्वं, अथापि गृहीतवस्तुप्रापणं? उभयथा ऽपि अनुमानम् अवस्तुग्रहणाद् असम्यग्ज्ञानम् । अगृहीतप्रापणाद् वा सम्यग्ज्ञानत्वे जलज्ञानम् अप्य् उपदर्शितमरीचिकाः प्रापयतीति न किञ्चित् सम्यजानं न स्याद् इति ।
सिद्धान्तवाद्य् अप्य् अमीषां पक्षाणाम् अनभ्युपगमेन निरासं मन्यमानः -- अविसंवादकत्वं सम्यक्त्वं विवक्षितम् इति [8अ] दर्शयति । अविसंवादकं संवादकम् उच्यते । वि शब्दो हि संवाकप्रतिषेधे वर्त्तते । तत्प्रतिषेधस्य विधिरूपत्वात् सम्वादक एवावतिष्ट्ःअत इति संवादकार्थो ऽविसंवादकशब्दः । तद् अयम् अर्थः -- अविसंवादकं प्रवृत्तिविषयवस्तुप्रापक्ं स्म्यग्ज्ञानम् इति ।
स्याद् एतत् -- वृद्धव्यवहारो हि शब्दार्थनिश्चयभूमिः । तत्र च सम्वांदकशब्दो नोपदर्शतार्थप्रापके वर्त्तते । किं तर्हि? सत्यादिनि । न च ज्ञानस्य ताद्रूप्यम् अस्ति । तत् कुतस् तत्र संवादकशब्द इत्य् आह -- लोके च । च यस्मादर्थे अपिशब्दार्थे वा । लोके व्यवहर्त्तरि जने । अयम् आशयो यथा लोके सत्यादिशब्दप्रवृत्तिनिमित्तस्योपदर्शितार्थप्रापणस्य पुरुषे सम्भवात् संवादकशब्दः प्रवर्त्तते, तथा ज्ञाने ऽपि तत्सम्भवाद् इति ।
अथोच्यते नोपदर्शितार्थप्रापणनिमित्तकः पुरुषे संवाद[क]शब्दः किन् तु प्रतिज्ञातार्थप्रापणमित्तकः । तत् कथं इह निमित्तसम्भव इति? तद् अवद्यम् । तत्रापि प्रतिज्ञयोपदर्शनस्योपलक्षणात् । तद् एव तूपदर्शनं क्वचिद् वचनेन, क्वचिद् अध्यवसायेना[19] ............पि क्वचिद् वस्तुप्रतिभासपूर्वकेण क्वचिद् अन्यथा वृत्तेनेति विशेषः । संवाद[क]शब्दः (-बद)प्रवृत्तिनिमित्तं तु सर्वत्र समानम् इति ।
__________नोतेस्__________
[19] पाट्ःओ ऽत्र पश्चाद् वर्धितो दृश्यते किन् तु सूक्ष्मत्वात् न पट्ःयते ।
प्रापयन् इति[20]लक्षणहेत्वोर् इति हेतौ शतुर्विधानात् प्रापणाद् इत्य् अर्थः । एवम् उत्तरत्राप्य् अवसेयम् ।
__________नोतेस्__________
[20] पाणिनि 3 ।2 ।126 ।
[ध्प्र् प्.18]
ज्ञानं जनयद् अर्थं प्रापयति, अपि त्व् अर्थे पुरुषं प्रवर्तयत् प्रापयत्य् अर्थम्. प्रवर्तकत्वम् अपि प्रवृत्तिविषयप्रदर्शकत्वम् एव. न हि पुरुषं हठात् प्रवर्तयितुं शक्नोति विज्ञानम्.
______________________________
ननूपदर्शितार्थप्रापकं संवादकम् इति ब्रुवता ज्ञानस्यैकस्योपदर्शकत्वप्रापकत्वे प्रतिज्ञाते । प्रवृत्तिम् अन्तरेण प्राप्तेर् अनुपपत्तेर् अर्थतः प्रवर्त्तकत्वम् अपि । न चैकस्यैते व्यापाराः सम्भवन्ति । यतो ऽन्यत् प्रदर्शति येन जानीते, अन्यत् प्रवर्र्त्तयति यद् अनन्तरं प्रवृत्तिम् आचरति, अन्यच् च प्रापयति यतः प्राप्त्याभिसम्बध्यते पुरुष इत्य् आशङ्क्याह -- प्रदर्शिते च -- इति । चो यस्मादर्थे ।
प्रवर्त्तकत्वम् एव प्रापकत्वं ब्रुवतो ऽयम् अभिप्रायः -- यद्य् अप्य् अर्थं साक्षात्कृत्यानुरूपं निश्चयं जनयत् प्रदर्शकं किञ्चित्, अपरं प्रदर्शयद् वा बाह्यायाः प्रवृत्तेः कारणां भवत् प्रवर्त्तकम्, इतरत् प्रवर्त्तनद्वारेण बाह्यायाः प्राप्तेर् निमित्तं भवत् प्रापकं व्यपदिश्यते, तथापि स एव बाह्यप्रवृत्तिकारणभावः प्रवर्त्तयितृत्वादिप्रयोजकव्यापाररूपो ज्ञानस्य पुरुषप्रेरणेनार्थजननेन च प्रवर्त्तनप्रापणयोर् असम्भवेन प्रदर्शनाद् अन्यो नोपयुज्यत इति वस्तुतः सर्वस्यैव ज्ञानस्य निश्चयानुगतस्याधिगमान् नापरौ प्रवर्र्तनप्रापणव्यापारौ । अत एव तत्राद्यम् एव ज्ञानं प्रमाणं व्यवस्थाप्यते । ततो वस्तुतः प्रदर्शकत्वादीनाम् अभेदः, व्यावृत्तिनिबन्धनस् तु भेदो ऽस्त्य् एव । अत एवैते प्रदर्शकप्रवर्त्तकप्रापकशब्दाः कृतकत्वानित्यत्वादिवन् न पर्याया इति ।
स्यान् मतम् -- किं पुनः प्रयोजनं येन प्रवर्त्तनात् नाऽपरः प्रापणव्यापारो ज्ञानस्य, अधिगमाच् च नान्यत् प्रवर्त्तन प्रयत्नेन साध्यते? यद्य् उत्तरज्ञानस्य प्रामाण्यनिषेधार्थम्, तदा गृहीतग्राहितैव तन् निषेत्स्य[8ब्]तीति किं तदर्थेन प्रयासेनेति? अत्रोच्यते । यदि प्रवर्त्तयितृत्वं प्रापयितृत्वं च प्रदर्शकत्वात् परमार्थतो ऽन्यत् स्यात्, तदा गृहीतग्राहितैव न शक्यते प्रतिपादयितुम् इति केन प्रामाण्यं निषेध्येत? तथा हि -- न तज् ज्ञानं गृहीतं गृह्णाति, अपि तु गृहीते प्रवर्त्तयति । अपरं तु गृहीतं प्रापयति । तथाकारिणोश् च भिन्नोपयोगत्वात् प्रामाण्यं कथम् अपाक्रियते? यदा तु प्रवर्त्तनान् नापरः प्रापणव्यापारो ज्ञानस्य प्रदर्शनाच् च नान्यत् प्रवर्त्तनम्, प्रथमेनैव च प्रत्यक्षानुमानक्षणेनार्थक्रियासमर्थो वस्तुसन्तानः प्रवृत्तिविषयीकर्त्तुं निशचयात् शक्यते, तदोत्तरेषां तत्सन्तानभाविनाम् अभिन्नयोगक्षेमतया प्रामाण्यम् अपास्यत इति ।
एतेन तद् अपि प्रत्युक्तं यत् केनचिद् अभ्यधायि धर्मोत्तरे -- "यद्य् उपदर्शकत्वम् एव प्रापकत्वं तर्हि यद् उक्तं उपदर्शितम् अर्थं प्रापयत् संवादकम् इति तस्यायम् अर्थः स्यात् -- उपदर्शितम् उपदर्शयद् इति । न चैतद् युक्तम् अर्थभेदाभावात् । तथा हि यदि परमार्थतो ऽर्थाभेद उच्यते तदा न किञ्चिद् अवद्यम् । अथ तदापि नैवं वक्तयः । अत्यल्पम् इदम् उच्यते । कृतकत्वम् अनित्यत्वं प्रतिपादयतीत्य् अपि न वक्तव्यम्, अर्थाभेदाद् इत्य् अपि किं नोच्यते? अथ शब्दप्रवृत्त्यपेक्षया ऽर्थाभेद उच्यते तदा ऽसाव् असिद्धो व्यावृत्तिभेदस्य दर्शितत्वात् । तेनायम् अर्थः -- उपदर्शितं साक्षात्कृत्य जनितानुरूपनिश्चयम् अर्थं प्रवर्त्तनद्वारेण बाह्यायाः प्राप्तेः साक्षाद् योज्यतया वा निमित्ततां गच्छत् संवादकम् इति । वास्तवस् तु प्रवर्त्तकप्रापकयोः प्रमेयाधिगतिलक्षणात् प्रदर्शनव्यापाराद् अन्यो व्यापारो नास्तीति न प्रवर्त्तयितृत्वं पापयितृत्वं च प्रयोजकव्यापारो ऽनयोर् भिन्नः" इति ।
[ध्प्र् प्.19]
अत एव च अर्थाधिगतिर् एव प्रमानफलम्. अधिगते चार्थे प्रवर्तितः पुरुषः प्रापितश् चार्थः. तथा च सति अर्थाधिगमात् समाप्तः प्रमाणव्यापारः. अत एव चानधिगतविषयं प्रमाणम्. येन एव हि ज्ञानेन प्रथमम् अधिगतो ऽर्थः, तेन एव प्रवर्तितः पुरुषः प्रापितश् च अर्थः. तत्र एव च अथ किम् अन्येन ज्ञानेन अधिकं कार्यम्? अतो ऽधिगतविषयम् अप्रमाणम्.
___________________________________
स्यान् मतम् -- यद्य् अधिगतिर् एवोत्तरेशाम् अपि फलं स्यात् तदोपयोगान्तराभावाद् भवेद् अप्रामाण्यं यावता प्रवर्त्तकस्य प्रवृत्तिः फलम्, प्रापकस्य प्राप्तिर् इति फलभेदनिष्पत्तेर् भिन्नो व्यापार इत्य् आह -- अत एव -- इति । यतो नार्थजननद्वारेणार्थप्रापणं ज्ञानस्य, यतश् च न प्रसह्य प्रेरणेन प्रवर्त्तनम्, अत एवा स्माद् एव कारणाद् अर्थस्याधिगतिः परिच्छित्तिः फलम्, न प्रवृत्त्यादि ।

ननु तत् प्रमाणस्य फलं व्यवस्थाप्यते, यस्मिन् सति तद्व्यापारः परिसमाप्यते । न चाधिगताव् अपि प्रवृत्तिप्राप्त्योर् अभावे स परिसमाप्यत इत्य् आह -- अधिगते च -- इति । चो यस्मादर्थे । यस्माद् येनार्थः सम्यग्ज्ञानेन दर्शितस् तत्र तेनाप्रवर्त्तितो ऽपि पुरुषः प्रवृत्तियोग्योपदर्शनात्, तद्गतस्य च व्यापारान्तरस्याभावात् प्रवर्त्तित इत्य् उच्यते । सत्य् अर्थत्वे प्रवर्त्तनम् एव । ज्ञानेन तावत् प्रवृत्तियोग्यः कृत इति यावत् ।
अस्तु पुरुषस् तथा प्रवर्त्तितो ऽर्थस् तु न प्रापितः, तथा च व्यापारान्तरम् अन्याश्रीनम् अस्तीत्य् आह -- प्रापित इति । च ः पूर्ववत् । अर्थो ऽप्य् असाव् अप्राप्तो ऽपि शक्यप्राप्तिको दर्शित इति प्रापित उच्यते । अत एव प्रापणशक्तिर् एव ज्ञाणस्य प्रामाण्यम् । सा च प्राप्याद् अर्थाद् आत्मलाभनिमित्तेति, यतो [9अ] येन प्रवर्त्तते तद् अपि प्रापणयोज्यम् एव । शक्तिनिश्चयस् त्व् अर्थक्रियानिर्भासस्य सर्वस्यानुमानस्य च स्वत एव । प्रवर्त्तकाध्यक्षस्य च कस्यचित् स्वत एव यद् अभ्यासेन परितो निरस्तविभ्रमाशङ्कम्, यन् निद्राद्यनुपप्लुतं सद् आसन्नदेशम् अनाशङ्क्य व्यञ्जकाधीना ऽन्यथाभिव्यक्ति च वस्तु गृह्णाति । तद्रूपसंवेदनाद् एव सत्यार्थं निश्चीयते । कस्यचित् तु परतो ऽर्थक्रियानिर्भासात्मकात् स्वतः प्रमाणाद् अन्यतो वा यतः कुतश्चिन् नान्तरीयकार्थदर्शनान् मध्यकालवर्त्तिभ्रान्तिशङ्कापनोदेन निश्चीयत इति । प्रापितश् चार्थम् इति क्वचित् पाठः । स तु युक्तरूपः प्रवृत्तियोग्यीकरणात् प्रवर्त्तितः प्राप्यार्थोपदर्शनात् प्रापितो ऽर्थम् इत्य् एकवाक्यतयोपदर्शनात् । एवम् उत्तरत्राऽप्य् एष एव पाठो ऽवदात इति । तथा च सति तस्मिंश् च प्रकारे सति । समाप्तः पर्यवसानं गतः । तसमाद् अधिगमस्य फलत्वं युक्तम् इति भावः । यतो ऽधिगमाद् अन्यत् फलं नोपपद्यते, जाते च तस्मिन् समाप्यते व्यापारः, अतो ऽस्मात् कारणाद् अनधिगतो ज्ञानान्तरेणापरिच्छिन्नो विषयो ऽर्थो यस्य तत् प्रमाणं भवति ।
ननु अधिगतविषयम् उदीचीनं ज्ञानं तत्रार्थे किञ्चिद् अधिकम् आदधानं प्रमाणं भविष्यति. न हि विषयभेदाद् एव प्रमाणभेदो ऽपि तूपयोगभेदाद् अपीत्य् आह -- येनैव इति. हि र् यस्मात्. पूर्वाद् योग्यतया प्रवर्त्तितः प्रापित इति चोक्तं तत्रैव पूर्वज्ञानाद् अधिगते किम् अधिकम् अतिरिक्तं कार्यं कर्त्तव्यम्?
[ध्प्र् प्.20]
तत्र यो अर्थो दृष्टत्वेन ज्ञातः, स प्रत्यक्षेण प्रवृत्तिविषयीकृतः. यस्मात् यस्मिन्न् अर्थे प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेन अनुगम्यते, तस्य प्रदर्शकं प्रत्यक्षम्, तस्मात् दृष्टतया ज्ञातः प्रत्यक्षदर्शितः. अनुमानं तु लिङ्गदर्शनान् निश्चिन्वत् प्रवृत्तिविषयं दर्शयति.
न किञ्चित् । आद्येनैव कर्त्तव्यस्य कृतत्वाद् इति भावः । अतो ऽस्माद् हेतोर् अधिगतविषयं[21] तदधिगन्तृसजातीयं विजातीयं वा न प्रमाणम् । तेन प्रमाणसम्प्लवो नाम नास्त्य् एवेति प्रकाशितम् ।
__________नोतेस्__________
[21] अधिगत-एम्.: इधगत-
ननु च प्रबन्धेनानेन प्रवृत्तिविषयोपदर्शकं सम्यग्ज्ञानम् इति दर्शीतम् । वक्ष्यमाणया नीत्या प्रत्यक्षानुमाननामनी द्वे सम्यग्ज्ञाने । तत्र यदि समानम् अनयोः प्रवृत्तिविषयोपदर्शनं तद् इदं प्रत्यक्षं सत्प्रमाणं, इदम् अनुमानं सद् इति भेदो न स्यात् । अतस् तद् अनयोर् असमानविषयत्वम् एव कथितव्यम् । एवं च कस्य कथं तद् इति वक्तव्यम् इत्य् आह -- तत्र इति । तयोः प्रत्यक्षानुमानयोर् मध्ये दृष्टत्वेन ज्ञातो निश्चितः । यदि ज्ञात इत्य् एव क्रियते तदा ऽनुमेयो ऽपि निश्चितः सन् प्रत्यक्षेण प्रवृत्तिविषयीकृतः प्रसज्येतेति दृष्टत्वेने ति कृतं । अथ यो दृष्ट इति किं नोच्यते? नोच्यते । क्षणिक्तत्वादेर् अपि दृष्टत्वेन प्रत्यक्षविषयत्वाद् अनुमानावताराभावप्रसङ्गाद् इति ।
ननु न प्रत्यक्षस्य निश्चयनाद् प्रहणम् अपि तु प्रतिभासात् । तत् किम् उच्यते ज्ञातो निश्चित इत्य् आशङ्क्याह -- यस्माद् इति । विकल्पेनानुगम्यते ऽनुस्त्रियते ऽध्यवसीयते पश्यामीत्य् आकारेण । तस्माद् दृष्ट्वेन ज्ञात इत्य् उच्यते । विकल्पेने ति तत्पृष्ठभाविना ऽनुरूपेणेति द्रष्टव्यम् । अननुरूपविकल्पानुगतव्यापारस्य तत्राप्रामाण्यात् क्षणिकत्व इव । एवं ब्रुवतश् चायम् अभिप्राय्ः -- सांव्यवहारिकस्य प्रमाणस्येदं लक्ष[9ब्]णम् उच्यते । ततो वस्तुवृत्त्या प्रकाशमानम् अप्य् अनुरूपविकल्पेनाविषयीकृतं सद् अप्रतिभासमानं नातिशेते, व्यवहारायोग्यत्वात् । एवं तद् ग्राहकम् अपि तथाविधविकल्पेनाननुगम्यमानव्यापारं व्यवहारयितुम् अपर्याप्तं सत् तृणस्यापि कुब्जीकरणे ऽसमर्थम् अग्राहकं नातिवर्त्तते । तेन यद् उक्तं प्रदऋशकत्वम् एकत्वम् एव प्रवर्त्तकत्वादीति, यच् चोक्तम् -- अधिगतिर् एव फलम् इति तद् अनुरूपनिश्चयानुगतव्यापारम् अनुरूपनिश्चयानुगताव् इति द्रष्टव्यम् । एवं यत्र यत्रोच्यते प्रत्यक्षं वस्तूपदर्शकं वस्तुग्राहकम् इत्यादिना शब्देन तत्र सर्वत्रानुरूपनिश्चयानुगतव्यापारम् एव बोद्धव्यम् ।
अथैवं सति विकल्पस्यापि प्रामाण्यं प्रसज्येतेति चेत् । एतत् स्वयम् एव धर्मोत्तरेणा शङ्क्य निराकरिष्यत इति नेहोच्यते । यदि प्रत्यक्षम् एवं प्रवृत्तिविषयम् उपदर्शयति अनुमानम् अप्य् एवं तदा
[ध्प्र् प्.21]
तथा च प्रत्यक्षं प्रतिभासमानं[22] नियतम् अर्थं दर्शयति. अनुमानं च लिङ्गसम्बद्धं नियतम् अर्थं दर्शयति. अत एव नियतस्य अर्थस्य प्रदर्शके. तेन ते प्रमाणे, न अन्यद् विज्ञानम्.
__________नोतेस्__________
[22] प्रतिभासमानंएम्.(स्. ध्प्र् 21,14): प्रतिभासनं
प्राप्तुं शक्यम् अर्थम् आदर्शयत् प्रापकम्. प्रापकत्वाच् च प्रमाणम्.
_______________________________________
कथं भेदव्यवस्थेति? आह -- अनुमानं तु इति । तु ः प्रत्यक्षाद् अनुमान्स्य वैधर्म्यम् आह । प्रत्यक्षं न स्वयं निश्चिन्वत् प्रवृत्तिविषयं दर्शयति किन् तु निश्चाययत् । अनुमानं तु स्वयम् एव निश्चिन्वद् इति ।

कथम् अप्र्तिभासमानं निश्चेतुम् ईष्टे तद् इत्य् आह -- लिङ्गदर्शनाद् इति । लिङ्गस्य साध्याविनाभूतस्य धूमादेर् दर्शनात् । दर्शनं च स्वरूपग्रहणपूर्वकं `सर्वत्रेदं साध्याविनाभूतम् इतिऽ ज्ञानम्, `सर्वत्र साध्याविनाभूतम् इतिऽ स्मरणपुरःसरं वा क्वचित् स्वरूपग्रहणम् इह विवक्षितम् ।
ननु च प्रत्यक्षानुमानज्ञानवद् अन्यस्यापि ज्ञानस्य यथा प्रवृत्तिविषयप्रदर्शनं तथा किं न प्रदर्श्यते? अथाप्रामाण्यान् नोपदर्श्यते । कथं पुनर् अप्रामाण्यम् अन्यस्य? अनियतप्रवृत्तिविषयप्रदर्शकत्वाद् इति? चेत् । तर्हि प्रत्यक्षानुमान्योर् अपि तथात्वेन प्रामाण्यं न स्याद् इत्य् आगूर्य ज्ञानान्तराद्[:-अन्तरद] भेदम् अन्ययोर् दर्शयन्न् आह -- तथा च -- इति । तस्मिंश् च प्रत्यक्षस्य स्वव्यापारानुसारिविकल्पोपजननेन निश्चयनात्, प्रवृत्तिविषयप्रदर्शनप्रकारे[23] ..................म् अन्यदा लिङ्गदर्शनात् स्वयं निश्चयेन प्रवृत्तिविषयप्रदर्शनप्रकारे । प्रत्यक्षं ज्ञानं प्रतिभासमानं स्वरूपेण प्रकाशमानं नियतम् अर्थक्रियाक्षमे भावरूप एव व्यवस्थितं दर्शयति । तेन नानर्थं नाप्य् अनियतं दर्शयतीत्य् आकूतम् । अनुमानं च नियतम् अर्थं दर्शयति । च ः प्रत्यक्षेण समम् अनुमानं नियतप्रदर्शकत्वेन समुच्चिनोति । लिङ्गसम्बद्धम् इति हेतुभावेन विशेषणम् । तद् अयम् अर्थः -- यस्माल् लिङ्गं विजातीयव्यावृत्ते ऽर्थे ऽर्थक्रियाकारिणि तादात्म्येन तदुत्पत्त्या वा सम्बन्द्धम् आयत्तं तस्मात् तत्प्रभवम् अप्य् अनुमानं नियतं दर्शयति अध्यवस्यतीति । तेनानुमानम् अपि नानर्थं न्याप्य् अनियतं भावात्मन्य् अभावात्मनि वा दर्शयतीति प्रकाशितम् । इयांस् तु विशेषो ऽनुमानं सम्बन्धग्रहणकालदृष्टसाधारणं रूपम् आश्रित्योदयमानं स्वलक्षणम् अध्यवस्यद् अपि न सन्तानान्तरासाधारणम् अध्यवस्त्यतीति प्रवृत्तिविषापेक्षम् अपि सामान्यविषयम् एव । प्रत्य्क्षं तु प्रवृत्तिविषयापेक्षम् अप्य् असाधारणाविषयम् एव । सन्तानान्तरासाधा[10अ]अणेनैव रूपेण विषयस्य निश्चायनाद् इति ।
__________नोतेस्__________
[23] सूक्ष्मत्वात् न पट्ःयते ।
इदानीं यस्यायम् आशयः -- `अस्तु प्रत्यक्षं नियतार्थदर्शकम्, अर्थस्य साक्षत्क्रणात्, औमानं तु परोक्षार्थस्यासाक्षात्करणात् कथं नियतं दर्शयति? तस्मान् न द्वयोर् नियतार्थप्रदर्शकत्वम्, अपि तु एकस्यैवऽ इति । तं सामस्त्यनिषेधवादिनं प्रत्युपसंहरन्न् आह -- अत इति । यस्माद् वस्तुप्रकाशात् प्रत्यक्षं नियतं दर्शयति । परोक्षस्यान्तरा साक्षाद् अनवभासे ऽपि तत्सम्बद्धतया चानुमानं कार्यस्वभावजम् एकान्तनियतं भावम्, अनुपलम्भजम् एकान्तनियतम् अभावं तथाभूतं दर्शयति । अतो ऽस्माद् हेतोर् एते द्वे अपि तथारूपे । ततो ऽनेन सामस्त्यनिषेधस्य निषेध उप्संहृतः । अन्यथा व्याख्यायमाने तु यतो ऽस्तु (-यत् अस्तु) नियतम् अर्थं प्रदर्शयतो ऽत एते नियतार्थोपदर्शके इत्य् अर्थः स्यात् । एत्च् च परिस्फुटस्यैव स्फुटीकरणम् अनर्थकम् आपद्येतेति
[ध्प्र् प्.22]
आभ्यां प्रमाणाभ्याम् अन्येन च दर्शितो ऽर्थः कश्चिद् अत्यन्तविपर्यस्तः, यथा मरीचिकासु जलम्. स च असत्त्वात् पाप्तुम् अशक्यः. कश्चिद् अनियतो भावाभावयोः, यथा संशयार्थः. न च भावाभावाभ्यां युक्तो ऽर्थो जगत्य् अस्ति. ततः प्राप्तुम् अशक्यस् तादृशः ।
सर्वेण च अलिङ्गेन विकल्पेन नियामकम् अदृष्ट्वा प्रवृत्तेन भावाभावयोर् अनियत
_____________________________________
भवताम् एते नियतार्थोपदर्शके, प्रमाणे तु कथम् इत्य् आह -- तेन -- इति । तेन नियतार्थप्रदर्शकत्वेन । नियतार्थप्रदर्शकत्वाभावात् किलाप्रामाण्यम् अनयोः शङ्कितम् । सत्य् अपि तस्मिन् कथं तत् स्याद् इति भावः । अनयोः प्र्वृत्तिविषयप्रदर्शनप्रकारोपदर्शने तदन्यस्य ज्ञाणस्य च तदप्रदर्शने यद् बुद्धिस्थम् आसीत्, तद् इदानीं नान्यद् इत्य् आदिना ऽभिव्यनक्ति । नान्यद् विज्ञानं प्रमाणम् इति वचनविपरिणामेन सम्बन्धः ।
यद्य् एवं ज्ञानत्वाविशेषाद् अमू अपि प्रमाणे मा भूताम् इत्य् आह -- प्राप्तुम् इति । आदर्शयद् इति हेतौ शतुर् विधानाद् धेतुपदम् एतत् । तेनायम् अर्थः -- यतः प्राप्तुं शक्यम् अर्थम् आदर्शयति तेन प्रयक्षादिकं प्रापकम् इति । भवतु प्रापकम्, प्रमाणं तु कस्माद् इत्य् आह -- प्रापकत्वाद् च -- इति । चो ऽवधारणे ।
ननु आभ्यामन्ये नापि दर्शितो ऽर्थः शक्यप्रापण एव ततस् तदुपदर्शकम् अपि किं न प्रापकं प्रापकत्वाच् च किं न प्रमाणम् इत्य् आह -- प्रमाणाभ्याम् इति । चो यस्मात् । अत्यन्त ग्रहणेन संशयज्ञानविषयाद् विशेष दर्शयति । तथाविधो ऽपि किं न प्राप्येत इत्य् आह -- स च इति । चो यस्मादर्थे । नियतोपदर्शकत्वे ऽप्य् अनर्थोपदर्शकत्वाद् अप्रमाण्यम् अस्य दर्शितम् । यदि कश्चिद् ईदृशस् तदन्यज्ञानविषयो ऽन्यादृशो भविष्यति । तदुपदर्शकं च प्रमाणं भविष्यतीत्य् अत आह -- कश्चिद् इति । शंशयार्थः संशयालम्बनः । `स्थाणुर् वा पुरुषो वाऽ इति हि प्रत्ययः स्थाणुम् उल्लिख्य पुरुषो वेत्य् आलम्बयंस् तदभावम् उल्लिखति । ततः स्थाण्वभावाव्यभिचारिणं पुरुषं पुरुष(-षा)भावाव्यभिवारिणं च स्थाणुम् अवस्यन्न् अभावे नाप्य् अभाव(वे) नियतं स्थाणुं पुरुषं वा दर्शयतीति भावाभावयोर् अनियतं दर्शयति । यत एवायम् एकान्तनियतं दर्शयितुम् अनीशानो दोलायते, तत एव संशय इत्य् उपपद्यत इति ।
अथ विपर्ययार्थो ऽसत्त्वान् न प्राप्यताम्, अयं तु कस्मान् न प्राप्यत इत्य् आह -- न च इति । चो यस्मादर्थे ।
ननु भवतु संशयविपर्यययोर् अप्रामाण्यं [10ब्] किं नश् च्छिन्नम्? एतद् अतिरिक्तं प्रत्यक्षानुमानाभ्याम् अन्यत् प्रमाणं भविष्यतीत्य् आशङ्क्याह -- सर्वेण च -- इत्यादि । चो यस्मात् । सर्वान्तर्गतत्वाद्
[ध्प्र् प्.23]
एव अर्थो दर्शयितव्यः. स च प्राप्तुम् अशक्यः. तस्माद् अशक्यप्रापणम् अत्यन्तविपरीतं भावाभावानियतं च अर्थं दर्शयद् अप्रमाणम् अन्यज् ज्ञानम्.
अर्थक्रियार्थिभिश् च अर्थक्रियासमर्थवस्तुप्राप्तिनिमित्तं ज्ञानम् मृग्यते. यच् च तैर् मृग्यते, तद् एव शस्त्रे विचार्यते. ततो ऽर्थक्रियासमर्थवस्तुप्रदर्शकं सम्यग्ज्ञान म्.
अनुमानस्यापि तथात्वं स्याद् इत्य् आह -- अलिङ्गेन -- इति । नास्य लिङ्गम् उत्पादकत्वेन विद्यत इत्य् अलिङ्गम् । यद्य् अलिङ्गेन सर्वेण तत् करणीयं तदा प्रत्यक्षपृष्ट्ःअभाविनो ऽपि विकल्पस्य तदा ऽऽयातम् इत्य् आह -- नियामकं इति । विषयाधीनो हि नियतार्थपरिग्रहो ज्ञानस्येत्य् अर्थो नियामकः । तद् अदृष्ट्वा ।

ननु किं प्रत्यक्षपृष्ट्ःअभाव्य् अपि नियामकम् अर्थं दृष्ट्वा प्रवर्त्तते, येन ताद्रूप्यविरहाद् अन्येषां विकल्पानां तथात्वम् आशङ्क्यते । उच्यते । प्रवत्तेने त्य् अत्रान्तर्भूतो णिजर्थो द्रष्टव्यः । ततो ऽयम् अर्थः नियामकम् अदृष्ट्वा प्रवर्त्तितेनेति । तथा च सति प्रत्यक्षपृष्ठभावी विकल्पो नियामकं दृष्ट्वैव प्रत्यक्षेण प्रत्ययेन प्रवर्त्त्यत इति तथात्वेन परिहृतो भवति । इतरे त्व् अलिङ्गविकल्पा येन प्रवर्त्त्यन्ते जायन्ते न तेन साक्षान् नियामको दृष्ट इति तेषां तथात्वानुषङ्गः ।
अन्ये तु अनुमाननिवृत्त्यर्थम् अलिङ्गेति योजयित्वा कथं पुनर् अवसायात्मकेनाप्य् अलिङ्गेन तेनैवं करणीयम् इत्य् आशङ्क्य नियामकम् अदृष्ट्वेत्य् अस्य तु हेतुभावेन विशेषणत्वान् नियामकम् अदृष्ट्वा प्रवृत्तत्वाद् इत्य् अर्थः, इति व्याख्याय तात्पर्यार्थम् अपि दर्शयन्ति । यद्य् अपि शब्दादिजन्मानो विकल्पा नोभयपक्षसंस्पर्शेन दोलायन्ते, तथापि ते नियामकानाश्रयेण प्रवर्त्तमाना न यौक्ति(-क्त)संशयरूपताम् अतिवर्त्तन्त इति । पूर्वव्याख्याने ऽप्य् अयम् एवाशयः । सर्वस्य तस्य समुदाचरतोर् विरुद्धयोर् आकारयोर् अभावे ऽपि युक्त्या द्वितीयाकारानुप्रवेशात् संशयरूपत्वेन भावाभावानियतार्थोपदर्शकत्वम् इति ।
एके तु नियामकं विकल्पयितव्यं वस्तुनान्तरीयकं वस्त्व् अदृष्ट्वा प्रवृत्तेनेति योजयन्ति । अलिङ्गेने ति चास्यैवार्थस्य हेतुभावेन विशेषणम् आहुः । उभये ऽपि तु प्रत्यक्षपृष्ठभाविविकल्पेनातिप्रसङ्गम् अनधिगतार्थाधिगन्तुर् विकल्प्य(-ल्प)स्य प्रामाण्यचिन्ता ऽधिकारेण निराकुर्वते । तेनायम् अर्थः -- सर्वेण तेनानधिगतत्वा(-गतार्था)धिगन्तृतया ऽभिप्रेतेनैवम् अवश्यकरणीयम् इति ।
अनियतार्थप्रदर्शकम् अपि तत्प्रापकं स्याद् इत्य् आह -- स च इति । चो यस्माद् अर्थे । अशक्य इत्य् अस्यानन्तरं स अवधारणार्थो द्रष्टव्यः । सो ऽनियतो ऽर्थो न प्राप्तुं शक्यो ऽशक्यत्वाद् इति भावः ।
ननु च तादृशं सर्वं मा भूत् प्रापकम्, प्रमाणं तु कस्मान् न भवतीत्य् आशङ्क्य पूर्वोक्तम् एवोपसंहरति तस्माद् इति । यस्मात् प्रापकत्वाद् एव प्रमाणं तस्मात् । अर्थस्याशक्यप्रापणत्वे ऽत्यन्तविपरीतत्वानित्य(-त्वानियत)त्वे हेतू हेतुभावेनान्ययोर् विशेषणत्वात् । चो ऽप्राप्तिकार्थसमुच्चये । कश्चिद् अत्यन्तविपर्यस्तः, कश्चिद् अनियत इत्यादेर् यथाक्रामम् उपसंहारः -- अन्यज् ज्ञानम् इति नान्यज् ज्ञानम् इत्य् अस्य ।
[ध्प्र् प्.24]
यच् च तेन प्रदर्शितम्, तद् एव प्रापणीयम्. अर्थाधिगमात्मकं हि प्रापकम् इत्य् उक्तम्.
____________________________
स्याद् एतत् -- शक्यप्राप्तिकार्थोपदर्शकम् एव सम्यग्ज्ञानं [11अ] नान्यद् इति निर्निमित्तम् इदम् । तथा चान्यद् अपि किं न परीक्ष्यत इत्याह -- अर्थक्रियार्थभिः -- इति । चो यस्मात् । अर्थ स्य दाहादेः, क्रिया निष्पत्तिः । ताम् अर्थ्यन्तीति तथा । एतैर् अर्थक्रियायां शक्तस्य वस्तुनः प्राप्तेर् यन् निमित्तं तन् मृग्यते ऽन्विष्यते । अर्थक्रियार्थित्वाद् एव च तद् अन्वेषणम् एषाम् अवसेयम् । तैश् च प्रेक्षावद्भिर् इति प्रकरणाद् द्रष्टव्यम् । इतरथार्थक्रियार्थिभिर् अप्य् प्रेक्षावद्भिर् मिथ्याज्ञानम् अपि निभाल्यत इति तत्परीक्षा ऽप्य् आपतेत् ।
यदि नाम तैस् तन् मृग्यं तथापि तद् इतरद् अपि ज्ञानं किं न परीक्ष्यत इत्य् आह यच् च -- इति । चो ऽवधारणे । विचार्यते परीक्ष्यते । ईदृशं तत् सम्यग्ज्ञानं प्रवर्त्तकं यद् अनुसरन्ति भवन्त इति विभज्य प्रतिपाद्यते । अयम् अस्याशयः -- न व्यसनितया ऽऽचार्येणा ज्ञानं विचार्यते । किन् तर्हि? अर्थक्रियार्थिजनानुरोधेन । ते तथाभूतम् एव ज्ञानं मृगयन्ते नान्यद् इति तद् एव विचार्यत इति । तद् एवे ति च मुख्यवृत्त्यभिप्रायेणोक्तम् न तु मिथ्याज्ञानं शास्त्रे ऽस्मिन् न विचार्यते एव । प्रसङ्गात् तु तस्यापि कल्पनाप्रभृतौ विचारसम्भवाद् इति ।
ननु शक्यप्रापणार्थोपदर्शकम् एव सम्यग्ज्ञानार्थोपदर्शकम् एव सम्यग्ज्ञानं कुतो व्यवस्थाप्यते प्रश्ने किम् इदम् अप्रकृतम् उच्यत इत्याह -- तत इति । यतो ऽर्थक्रियार्थिनां प्रेक्षावतां नान्यन् मृगयणीयम्, तद् अन्वेषणीयम् एव विचारणीयम्, व्यसनितया विचारासम्भवात् । ततो ऽर्थक्रियासमर्थस्य वस्तुनः वस्तुनः प्रदर्शकं सम्यग्ज्ञानं नान्यद् इति अर्थात् ।
अस्तु सम्यग्ज्ञानम् ईदृशम् एव । तत् पुनर् अन्यद् उपदर्श्य अन्यत् प्रापयद् अपि किं न सम्यग्ज्ञानं तत् प्रमाणं व्यवह्रियते? तथा च पीतसंख्या(-शङ्खा)दिज्ञानम् अपि प्रामाण्यान् नापैति । आह -- यच् च इति । चो ऽवधारणे । अनेन पीतशं(-शङ्)खादिज्ञानम् अप्य् अंशे संवादात् प्रमाणम् इति यत् कैश्चिद् इष्टिं तद् अपि सम्यग्ज्ञानव्यवच्छेद्यम् इति दर्शयति ।
ननु चानुक्तसमम् इदं पीतशङ्खादिज्ञाणेनानुपदर्शतस्यापि शुक्लशङ्खस्य, जलज्ञाणेनानुपदर्शितस्यापि मरीचिकानिचयस्य प्रापणदर्शनात् । नैतद् अस्ति । यतो न तज्ज्ञानपूर्विका सा प्राप्तिः, तस्याऽज्ञातवस्तुविषयत्वात् । न च तेन शुक्लशङ्खवस्तु मरीचिवस्तु वा ज्ञातम् । यथा तु ज्ञानान्तराद् एव तथाविधार्थप्राप्तिर् न ततस् तथा अनेनैव प्रामाण्यपरीक्षायां निर्लोठितम् इति नेहोच्यते ।
[ध्प्र् प्.25]
तत्र प्रदर्शिताद् अन्यद् वस्तु भिन्नाकारम्, भिन्नदेशम्, भिन्नकालं च. विरुद्धधर्मसंसर्गाद् धि अद्यद् वस्तु. देशकालाकारभेदश् च विरुद्धधर्मसंसर्गः.
तस्मात् अन्याकारवद् वस्तु ग्राहि न आकारान्तरवति वस्तुनि प्रमाणम्, यथा पीतशङ्खग्राहि शुक्ले शङ्खे. देशान्तरस्थग्राहि च न देशान्तरस्थे प्रमाणम्, यथा कुञ्चिकाविवरदेशस्थायां मणिप्रभायां मणिग्राहि ज्ञानं न अपवरकस्थे मणौ. कालान्तरयुक्तग्राहि च न कालान्तरवति वस्तुनि प्रमाणम्, यथा अर्धरात्रे मध्याह्नकालवस्तुग्राहि स्वप्नज्ञानं न अर्धरात्रकाले वस्तुनि प्रमाणम्.
तद् एव तेन प्रापणीयम् इति कुत एवद् इत्य् आह -- अर्थाधिगमे ति । हि र् यस्मात् । उक्तम् इति प्रदर्शनादीनां वस्तुतो ऽभेदं प्रतिपाद्य अतो एवार्थाधिगतिर् एव प्रमाण्फलम् इति अनेन प्रकाशितत्वात्, न तु साक्षाद् अभिहितम् । यद्य् अन्यद् अधिगम्यान्यत् प्रापयेत्, तदा प्रदर्शनप्रापणयोर् भेद एव स्यात्, अभेदश् च प्रतिपादित इति भावः ।
कथं पुनर् अधिगतिर् एव फलम् इत्य् अनेन तथात्वम् अस्योक्तम्? यतः प्रापकत्वं प्रामाण्यम्, फलं च तदव्यतिरिक्तम् इति । अथ वा प्राप्तुं शक्यम् अर्थम् आदर्शयत् प्रापकम् इत्य् अनेनैवम् उक्तम् । तथा हि तादृशम् अर्थम् आदर्शयद् इति परिच्छिन्दद् इत्य् अर्थः । परिच्छेदश् च प्रापकत्वान् न भिद्यत इति ।

भवतूपदर्शतार्थप्रापकत्वम् एव सम्यग्ज्ञानम् । यत् तु तद् एव प्राप्य वस्तु शङ्खादिकं पीतरूपतया प्रदर्शयति तत्कथम् असम्यग्ज्ञानम् इत्य् आह -- तत्र इति । तत्रे ति वाक्योपक्षेपे चैतद् । प्रदर्शताद् रूपाद् भिन्नाकारादि सद् वस्त्व् अन्यद् इत्य् अन्यत्वं विधेयम् । आकारादिभिन्नम् अपि न ततो ऽन्यत्, तद् एवेदम् इत्य् अध्यवसायाद् इत्य् आह -- विरुद्धे ति । हि र् यस्मात् । यदि विरुद्धधर्माध्यासाद् अन्यत्वम्, न तर्हि देशादिभेदाद् इत्य् आह । देशे ति । चो यस्मात् । भवत्व् एवं तथाप्य् आकारादिभिन्नग्राहिज्ञानम् आकारान्न्तरादियोगिनि वस्तुनि किं न प्रमाणम् इत्य् आह -- तस्माद् इति । यस्मात् सम्यग्ज्ञानेन यद् एव हि दर्शितं तद् एव प्रापणीयम्, आकारादिभिन्नं च ततो ऽन्यत् तस्मात् । किम् इव क्व न प्रमाणम् इत्य् आह -- यथे ति । भिन्नदेशग्राहिणः का वार्तेत्य् आह -- देशान्तरे ति । किंवन् न प्रमाणम् इत्य् आह -- यथे ति । अव(-प)वरक शब्देन देशविशेषो लयनोदरादिशब्दवाच्य उच्यते । अपवरक शब्दस्याप्य् एतद् अर्थस्य भावात् । अपवरकदेशस्थ इति पाठे ऽपि न दोषः ।
भिन्नकालग्राहिणः का व्यवस्था इत्य् आह -- कालान्तरे ति । उपदर्शनकालाद् अन्येन कालेन व्यावहारिकेणा युक्तं सम्बद्धं तद् ग्राहि भिन्नकालवस्तुग्राहीति यावत् । चः पूर्ववत् पूर्वेण सहेदम् अप्रामाण्येन समुच्चिनोति । तद् उदाहरन्न् आह -- यथे ति । अयम् अस्यार्थः -- अधरात्रे निद्राणस्य मध्याह्नकालप्रतिभासम् अनुभवतो वणिज्यागतसुतवस्तुदर्शनहृषितरोम्ण एव झटिति बोधे काकतालीयन्यायेन च सत्य् अपि पुत्रोपलम्भे तज्ज्ञाणं न प्रमाणम् । तत् खलु परमार्थेनार्धरात्रकालसम्बन्द्धं मध्याह्नकालाकलितं च प्रतीतम् इति मध्याह्नकालत्वेनावभासनाद् एव च मध्याह्णकालं तद् वस्तूक्तम् ।
[ध्प्र् प्.26]
ननु च देशनियतम् आकारनियतं च प्रापयितुं शक्यम्, यत्कालं तु परिच्छिन्नम्, तत्कालं न शक्यं प्रापयितुम्. न उच्यते -- यस्मिन्न् एव काले परिच्छिद्यते, तस्मिन्न् एव काले प्रापयितव्यम् इति. अन्यो हि दर्शनकालः, अन्यश् च प्राप्तिकालः. किं तु -- यत्कालं परिच्छिन्नम्, तद् एव तेन प्रापणीयम्. अभेदाध्यवसायाच् च सन्तानगतम् एकत्वं द्रष्टव्यम् इति.

अर्धरात्रः काल आगमनकालो यस्य तस्मिन् न प्रमाणम् । अथ वा यो ऽर्धरात्रे सुप्तो ऽह्नो मध्यम् उद्गते सवितरि पुत्रम् आगतं दृष्टवा प्रभातायां रात्रौ सम्पन्ने मध्यन्दिने तस्मिन्न् एव च देशे तम् एव सुत(-तं) प्रागतं प्रबुद्धो ऽपि पश्यति । तस्य तज् ज्ञानं संवादमात्रभाग् अपि न प्रमाणम्, यतो ऽर्धरात्रे मध्याह्नम्, तदानीम् अनागतम् अपि पुत्रम् आगतं, तेनावगतम् । न चार्धरात्रे देशकालनियतस्य पुत्रस्य, तस्य च कालस्यास्ति सद्भावः । तदा त्व् अर्धरात्रः परमार्थतः प्रतिभासकालो यस्य मध्याह्नकालयुक्तवस्तुन इति योज्यम् ।
एतेन सुप्तस्य केनचित् पठ्यमानं ग्रन्थं शृण्वतो ज्ञानम् असत्यार्थं व्याख्यातम् अवसेयम् । यस्माद् देशकालभिन्नात्मानं श्रोतारं ग्रन्थं च श्रोतव्यं पश्यति निद्रोपहतः । न च तद्देशकालसम्बद्धौ स्तः । यद्देशकालौ च स्तस् तथा न गृह्णातीति ।
अनयैव च दिशा वाजिस्वप्नो ऽपि व्याख्यातो द्रष्तव्यः । यतस् तत्रापि घोटकस्वप्ने यत्कालदर्शनवि[12अ]षया भावा दृश्यन्ते न तथा सन्ति, यत्कालाश् च सन्ति तत्काला न दृश्यन्ते । अर्धरात्रादिषु हि स्वप्नदर्शनम्, सूर्योदयादिसम्बद्धाश् च ते भावा दृश्यन्ते । तस्मात् स्वप्ने केषाञ्चिद् अनुभूतानां अत्यन्तम् अभावाद् अर्थक्रियाया नास्ति सत्त्वम् । केचित् तु अर्थक्रियाकारितया अभिमताह् सत्य् अस्वप्ने विषया दृष्टकालभेदव्यभिचारिणो न सन्त्य् एवेति प्रकरणार्थः ।
इदम् ईदृग्विशिष्टं स्वप्नज्ञानम् उदाहरतो धर्मोत्तर स्यायम् आशयः -- एवंविधस्य स्वप्नज्ञाणस्य सदर्थत्वाभिमानः केषाञ्चित् सत्यस्वप्नवादिन् आम् अस्तीति तद् अभिमानशमनायेदं मयोदाहरणीकृतम् । न त्व् अस्माद् अन्यस्य स्वप्नज्ञानस्य कशिच्द् विशेषः । सर्वस्यैव स्वप्नज्ञाणस्य निरालम्बनतया मिथ्याज्ञानत्वाद् इति ।
इदानीं `परिच्छिद्यमानस्य यत्कालं परिच्छेदनं तत्कालम् एव प्राप्यमाणस्य प्रापणं अभिमतम्ऽ -- एवं ब्रुवत इति मत्वा ऽस्यार्थस्यानुपपत्तिं चोद्यति -- ननु च -- इति । देशे नियतम् आकारे नियतं च शक्यं प्रापयितुम् इत्य् अभिदधानो ऽनयोर् अविप्रतिपत्तिम् आह । इदं तु न सम्भाव्यत इत्य् आह -- यत्कालं तु -- इति । तु ना ऽनन्तरोक्ताभ्यां विधाभ्यां वैधर्म्यम् आह । यः कालो स्य परिच्छेदनस्य तद् यथा भवति तथा परिच्छिन्नम् । स कालो यस्य प्रापणस्य तद् यथा भवति । तथा न शक्यं प्रापयितुम् । यस्मिन् काले परिच्छिन्नम् तस्मिन् काले न शक्यते प्रापयितुम् इत्य् अर्थः । एवं च ब्रुवता ऽनेन कालान्तरग्राही ति यद् उक्तं तद् अयुक्तम् इति दर्शितम् । सर्वस्यैव ज्ञानस्य एवंशीलत्वाद् इति ।
नोच्यत इत्यादिना सिद्धान्तवादी चोदकस्यानुक्तोपालम्भम् आह । अनेनापि न किञ्चित्
[ध्प्र् प्.27]
सम्यग्ज्ञानम् पूर्वं कारणं यस्याः सा तथा उक्ता । कार्यात् पूर्वं भवत् कारणं पूर्वम् उक्तम् । कारणशब्दोपादाने तु पुरुषार्थस्हिद्धिः साक्षात्कारणं गम्येत । पूर्वशब्दे तु पूर्वमात्रम् ।
कारणम् उक्तम् । तत् किं त्वयैवं नोच्यत इति पार्श्वस्थं प्रत्य् अस्यैवाभिप्रायं प्रकाशयति -- अन्यो हि -- इति । ःई ति यस्मात् । यद्य् एवं नोच्यते तर्हि किं नामोच्यत इत्य् आह -- किन् तु -- इति । निपातानिपातसमुदायो ऽयं केवलम् इत्य् अस्यार्थे ।
ननु असङ्गतम् इदं वाक्यं । न हि यद् एव परिच्छिन्नम् इत्य् अस्ति येनैवम् उच्यते । यत्कालं तु प्ररिच्च्छिन्नं तत्कालम् इति तु युक्तं वक्तुम्, न तद् एवे ति । सयम् एतत् । केवलं बोधे यत्नः करणीयः । यत्कालम् इत्य् अनेन हि तकालम् इति प्राप्तम्, तद् एवे ति तच् छब्देन वस्तुविषयो यच् छब्द आकृष्यते । ततो ऽयम् अर्थः -- यत्कालं परिच्छिन्नं यद् वस्तु तकालं तद् एव वस्तु प्रापनीयम् इति । अहो गडुप्रवेशे ऽक्षतारानिर्गमो जातः । एवं खलु वाक्यं स्यात् समर्थितम्, पूर्वपक्षात् पुनर् अस्याविशेषः प्राप्तः । अस्ति विशेषो महान्, केवलं भवता न समीचीनं निरूपितः । तथा हि पूर्वपक्षावस्थायां यत्कालं तत्कालं इति चात्र बहुव्रीहिणा परिच्छेदनलक्षणा प्रापणलक्षणा च क्रिया ऽभिधीयते । इदानीं पुनर् वस्तुतो नायम् अर्थः । यद् वस्तु येन कालेन सम्बद्धं परिच्छिन्नं तद् एव तेन कालेन सम्बद्धं स्वरूपेण प्रापणीयं तदा ऽन्यदा वा । परिच्छेदस्य यादृशः कालस् तस्मिन् काले यद् विद्यमानं तद् एव प्रापणीयम् इति यावत् । ततश् च परिच्छेदका[12ब्]ला ऽसतो यद् ग्राहकं तन् न प्रमाणम् इत्य् अवतिष्ठते । नोच्यते यस्मिन् काल इत्यादिना च यद् एतद् उक्तं तद् बाह्यप्रापणाभिप्रायेण द्रष्टव्यम् । परमार्थतस् तु ज्ञानस्य प्रदर्शनाद् अन्यः प्रानपणाव्यापारो नास्तीति यस्मिन्न् एव काले परिच्छिद्यते ऽर्थस् तस्मिन्न् एव काले प्राप्यत इति । एतच् चानन्तरम् एवानेनैव विस्तरेण प्रतिपादितम् इति स्ववचनव्याघातो ऽन्यथा ऽस्य स्याद् इति ।
नन्व् एवम् अपि परिच्छेदकालवर्त्तिनः प्रापणं न सम्भवत्य् एव । सर्वस्यैव विषयस्य क्षणिकत्वात् । तथा चोपदर्शितार्थप्रापकत्वं नाम कस्यचिद् अपि ज्ञानस्य नास्तीत्य् असम्भवितैव सम्यग्ज्ञानत्वलक्षनस्य स्याद् इत्य् आशङ्क्याह -- अभेदे ति । अभेदेनै करूपत्वेन तद् एवेदम् इत्य् आकारेण् आध्यवसायात् । उपादानोपादेयकृतक्षणप्रबन्धः सन्तानस् तदाश्रितः ।
अयम् अस्य भावः -- सांव्यवहारिकस्येह प्रमाणस्य लक्षणाम् उच्यते । तेन नैकान्तेन वस्तुस्थितिर् अपेक्ष्यते । तत्र यद्य् अपि वस्तुस्थित्या परिच्छिन्नप्राप्ययोर् नानात्वं तथापि व्यवहर्त्तारो निरन्तरापरापरोत्पत्तेर् अविद्यावशाच् च हेतुफलरूपं क्षणप्रचयं तद् एवेदम् इत्य् एकत्वेनाधिमुञ्चन्ति ततः परिच्छेदकालभाविनः प्रापणं सम्भवत्य् एव । इति ः सम्यग्ज्ञानपदव्याख्यानपरिसमाप्तौ ।
तद् अनेन प्रबन्धेन समयग्ज्ञनपदं व्याख्यायाधुना पूर्व शब्दं व्याचिख्यासुस् तेन साधर्मस्य विग्रहम् आह -- सम्यग्ज्ञानम् इति ।
[ध्प्र् प्.28]
द्विविधं च सम्यग्ज्ञानम् अर्थक्रियानिर्भासम्, अर्थक्रियासमर्थे च प्रवर्तकम् । तयोर् मध्य यत् प्रवर्तकम्, तद् इह परीक्ष्यते. तच् च पूर्वमात्रम्. न तु साक्षात्कारणम्. सम्यग्ज्ञाने हि सति पूर्वदृष्टस्मरणम्, स्मरणाद् अभिलाषः, अभिलाषात् प्रवृत्तिः, प्रवृत्तेश् च प्राप्तिः. ततो न साक्षाथेतुः.
___________________________________________________________________________
ननु पुरुषार्थसिद्धिः सम्यग्ज्ञानस्य प्रयोजनं कार्यत्वेन । तथा च सम्यग्ज्ञानकारणिकेति वक्तुम् उचितं तत्किम् एवम् उक्तम् इत्य् आह -- कार्याद् इति । अनेन व्यवस्थावाची सन्न् एव पूर्वशब्दः कारणे वर्त्तत इति दर्शयति ।

भवद् इति `लक्षणहेत्वोः क्रियायाःऽ [पाणिनि 3.2.126] इति हेतौ शतुर् विधानात् हेतुपदम् एतत् । यद्य् एवं कारणशब्द एव क्रियताम् इत्य् आह -- कारणे ति । अयं भावः -- करोतीति कारणम् उच्यते, न त्व् अकुर्वद् रूपम् । अकुर्वति पुनः कारणव्यपदेशः कारणकारणत्वाद् औपचारिकः । न च मुख्ये सम्भवति अमुख्ये प्रत्ययो युज्यते । ततो यद् एव ज्ञानम् अव्यवधानेन पुरुषार्थसिद्धेर् निबन्धनम्, तद् एव कारणशब्देन प्रतीयेतेति. यदि पूर्वग्रहणे ऽप्य् एवं प्रत्ययस् तदा को विशेष इत्य् आह -- पूर्वशब्द इति । तु ः कारणशब्दाद् विशेषम् अस्याह -- पूर्वमात्रम् इति साक्षात्कारणम् इतरश् च ।
ननूभयोः सम्भवे साक्षात्कारणपरिहारेणेतरग्रहणाय पूर्वशब्दः शोभते । न चैवम् अस्ति, सर्वस्यैव पुरुषार्थसिद्धिं प्रति साक्षात्कारणत्वाद् इत्य् आह -- द्विविधं च -- इति । चो यस्मादर्थे । कथं द्वैविध्यम् इत्य् आह -- अर्थक्रिये ति. निर्भासते ऽस्मिन्न् इति निर्भासः. अर्थक्रियाया निर्भासो यस्मात् तत् तथा. यतः साधनज्ञानाद् अनन्तरं दाहादिप्रतिभासज्ञाणम् उत्पद्यते, तद् एवम् उच्यते.
केचित् तु क्षणेन कार्यकारणाव्यवहारस्यार्वाग्दर्शनेन कर्त्तुम् अशक्यत्वाद् दाहादिप्रतिभासम् एव ज्ञानम् एवं ब्रुवते । अर्थक्रियाया[13अ]निर्भासो ऽस्मिन्न् इति कृत्वा । अपरम् अर्थक्रियासमर्थे च प्रवर्त्तकम् । यत् प्रवृत्तिसमधिगम्यार्थक्रियागोचरं तद् एवम् उक्तम् । चो ऽर्थक्रियानिर्भासापेक्षया समुच्चये । अन्योः किं परीक्ष्यत इत्य् आह तयोः -- इति । प्रवर्त्तकम् अपि साक्षात्कारणं तत् को ऽन्यत्र विद्वेषो येनेदम् एव विचार्यते? किं वा पूर्वशब्देनेत्य् आह -- तच् च इति. चो यस्मात्.
अयम् आशयः -- यतः प्रवर्त्तन्ते तत् सर्वम् अर्थप्राप्तेर् व्यवहितं कारणम् । अतश् च सम्भवत् प्रतिबन्धं तत् प्रवृत्त्यङ्गत्वात् पूर्वमात्रम्, न त्व् अनन्तरं कारणम् इति । पूर्वमात्राभिधानेन सान्तरम् । अमुम् एव द्रढ्यन्न् आह -- न तु -- इति । तु र् विशेषार्थः । कुत एतद् इत्य् आह -- सम्यग्ज्ञान इति । हि र् यस्मात् । तस्मिन् सम्यग्ज्ञाने प्रकरणात् साधननिर्भासे सति । स्मृतिबीजोपजननयोग्यज्ञानज्ञातस्य दाहादेः स्मरणम् । ततो ऽभिलाषः -- तत्प्राप्तीच्छा । ततः प्रवृत्तिः प्रवर्त्तकज्ञानोपदर्शितम् अर्थं प्राप्तुकामा व्यापारसहाया बुद्धिः । तस्याश् च प्राप्तिर् उपादित्सितलाभः । यस्मात् स्मरणादिना व्यवधानं ततः तस्मात् न साक्षाट् हेतुः प्राप्तेर् उपायः पुरुषार्थसिद्देर् इति प्रकरणात् ।
[ध्प्र् प्.29]
अर्थक्रियानिर्भासां[24]तु यद्य् अपि साक्षात्प्राप्तिः, तथा अपि तन् न परीक्षणीयम्. यत्र एव हि प्रेक्षावन्तो ऽर्थिनः साशङ्काः, तत् परीक्ष्यते. अर्थक्रियानिर्भासे च ज्ञाने सति सिद्धः पुरुषार्थः. तेन तत्र न साशङ्का अर्थिनः. अतस् तन् न परीक्षणीयम्. तस्मात् परीक्षार्हम् असाक्षात्कारणं सम्यग्ज्ञानम् आदर्शयितुं कारणशब्दं परित्यज्य पूर्व ग्रहणं कृतम्.
__________नोतेस्__________
[24] -निर्भासे तु अच्फ्न्;-निर्भासात् तु बेद्
यदि परम्परया ऽपि प्राप्तिहेतुः परीक्ष्यते तर्हि साक्षात् हेतुर् अतितरां परीक्षणीय इत्य् आह -- अर्थक्रियानिर्भासम् इति । तु ः प्रवर्त्तकाध्यक्षाद् अर्थक्रियानिर्भासं भेदवद् दर्शयति ।
यद प्राप्तिहेतुर् इति पाठस् तदा अर्थक्रियानिर्भासम् इत्य् अस्यान्त्यव्याख्यानपक्षे भिन्ना सन्तोषादिप्राप्तिर् लोकाध्यवसायसिद्धा या तस्या हेतुः । प्राप्ति पाठे तु तद्व्याख्यानानवद्यता । पूर्वव्याख्याने तूपचारात् प्राप्तिहेतुः प्राप्तिशब्देन वक्तव्यः । करणासाधनो वा प्रात्पिशब्दो द्र्ष्टव्यः ।
कस्मात् तत् न परीक्ष्यत इत्य् आह -- यत्रैव हि -- इति । हि र् यस्मात् । साशङ्काः ससन्देहाः । आशङ्काग्रहणस्योपलक्षणत्वात् सविपर्यासा इत्य् अपि द्रष्टव्यम् ।
एवं ब्रुवतश् चायम् आशयः -- न व्यसनम् एतच् छास्त्रकृतो येन ज्ञानम् अप्रीक्षमाणः स्वास्थ्यम् अलभमानः परीक्षते । किन् तर्हि? व्युत्पाद्यजनप्रयोजनोद्देशेनायम् अस्यारम्भः । संशयविपर्यासापसारणं च व्युत्पाद्यजनप्रयोजनम् । ततो यत्रैव ते तथाप्रवृत्तयस् तद् एव परीक्ष्यत इति । अर्थक्रियानिर्भासे ऽपि ते तथावृत्तय इत्य् आह -- अर्थक्रिये ति । च शब्दस् तुशब्दस्यार्थे ।
कुतो न तथावृत्तयः? येन साक्षात्कारणे ऽस्मिन् सति सिद्धः पुरुषार्तः, तेनानन्तरम् एव फलस्यानुभूयमानत्वात्, तद् एव सन्तोषादिगमनाद् वा । व्याख्यानद्वये ऽपि अर्थक्रियानिर्भासशब्दवाच्यद्वये स्थिते द्वयम् एतत् शङ्कायाः कारणम् -- अनन्तरफलादर्शनम्, अध्यवसायसिद्धभिन्नप्राप्त्यभावो वा । तदभाबे तु कथं शङ्केरन्न् इति भावः ।
मा भूवंस् तत्र साशङ्कास् तत् किं सिद्धम् इत्य् आह-- अत इति ।
यदि व्यवहितं प्रवर्त्तकं पुरुषार्थसिद्धेर् न कारणं तर्हि कथम् उक्तम् -- `कार्यात् पूर्वं भवत् कारणं पूर्वम् उक्तम्ऽ इति? असाक्षात्कारणे चाकारणे कारण[13ब्]विशेषणं साक्षाद् इति निरर्थकम् इत्य् आशङ्क्याह -- तस्माद् इति । यस्मात् साक्षात्कारणम् आशङ्कानास्पदं सद् अपरीक्षणीयं तस्माद् यद् असाक्षात्कारणम् अत एव च परीक्षार्हं परीक्ष्क्षायोग्यं प्रवर्त्तकं सम्यग्ज्ञानम् आदर्शयितुम् आदर्शयिष्यामि -- इति कारणशब्दं विहाय पूर्वगहणं कृतम् आचार्येणे त्य् अर्थात् ।
एतद् उक्तं भवति -- यो ऽयं कारणशब्दो व्यवहिते कारणकारणे वर्त्तते नायं तत्राभिधायकत्वेन वर्त्तते करोतीति कारणम् इति व्युत्पत्तेः । किन् तर्हि? तादर्थ्याद् उपचारत इति ।
[ध्प्र् प्.30]
पुरुषस्य अर्थः पुरुषार्थ ः. अर्थ्यत इत्य् अर्थः काम्यत इति यावत्. हेयो ऽर्थ उपादेयो वा. हेयो ह्य् अर्थो हान्तुम् इष्यते, उपादेयो ऽपि उपादातुम्. न च हेयोपादेयाभ्याम् अन्यो राशिर् अस्ति. उपेक्षणीयो ह्य् अनुपादेयत्वात् हेय एव. तस्य सिद्धिः हानम् उपादानं च. हेतुनिबन्धना हि सिद्धिर् उत्पत्तिर् उच्यते, ज्ञाननिबन्धना तु सिद्धिर् अनुष्ठानम्. हेयस्य च हानम् अनुष्ठानम्, उपादेयस्य च उपादानम्. ततो हेयोपदेययोर् हानोपादानलक्षणानुष्ठितिः सिद्धिर् इत्य् उच्यते.
स्याद् एतत् -- सत्य् अपि कारणग्रहणे विचारार्हम् एव सम्यग्ज्ञाणं प्रतिपत्स्यते । यतस् तद् व्युत्पाद्यत इत्य् अर्थः, साध्यत्वात् । प्रातिपदिकार्थस् तु कारकत्वाद् गुणः प्रधानानुयायी । तेन प्रधानानुरोधात् तच् छब्दो वर्णितया नीत्या मुख्यस्य कारणस्य सम्यग्ज्ञानस्य व्युत्पत्तिकर्मताऽनुपपत्तेस् तत्परित्यागेन लक्षणया तादर्थ्यभूतया प्रत्यासत्त्या ऽर्थक्रियासमर्थप्रवर्त्तक एव प्रवर्त्तिष्यते । यथा मञ्चाः क्रोशन्तीत्य् अत्र प्रधानानुरोधात् मञ्चशब्दः क्रोशनक्रियाकर्त्तृत्वानुपपत्तेऋ मुख्यम् अर्थं त्यक्त्वा लक्षणया तात्स्थ्यभूतया प्रत्यासत्त्या पुरुषेषु वर्त्तत इति । सत्यम् एतत् । केवलम् एवं सति व्याख्यातॄणाम् इदं कौशलं स्यान् न शास्त्रकृत इति सर्वम् अनवद्यम् ।

इदानीं पुरुषार्थसिद्दि पदं विवरिषुः पुरुष शब्देन सार्धम् अर्थ शब्दस्य विग्रहम्, अर्थस्य च स्वरूपं पुरुषस्ये त्यादिना चाष्टे । अर्थ्यत इत्य् आचक्षाणो[25]`अर्थ याच्ञायाम्ऽ इत्य् अतो णिजन्तात् कर्मण्यचं दर्शयति । अर्थ्यत इत्य् अस्यार्थं स्पष्टयति -- काम्यत इष्यत इत्य् अनेन यावान् एवार्थं उक्तस् तावान् एवार्थ्यत इत्य् अनेनापीति इति यावद् इत्य् अस्यार्थः ।
__________नोतेस्__________
[25] अर्थ उपयाच्ञायाम् -- धातुपाठ 10,373 । {नछ् औस्गबे इन् ब्öथ्लिन्ग्क् इस्त् एस् इन् 10,357}
को ऽसाव् अर्थं इत्य् आह -- हेय इति । वा शब्दश् च शब्दस्यार्थे । अर्थ्यमान इष्यमाणो ऽर्थः । न तर्हि हेयो ऽर्थ इत्य् आह -- हेय इति । हि र् यस्मात् । हेयो हातुं त्यक्तुम् इष्यते तस्माद् अर्थः । अयम् आशयः -- इष्यमाणः खल्व् अर्थः । अत्र यद्य् अपि स्वीकरणेच्छा नास्ति तथापि परिहारेच्छा तावद् अस्तीति । यदि हातुम् इष्यमाणो ऽर्थः कथम् उपादेयो ऽर्थ इत्य् आह -- उपादेयो ऽपी ष्यते केवलम् उपादातुम् । न केवलं हेय इष्यते इत्य् अपि शब्दः ।

ननु च न हेयोपादेयाव् अर्थो ऽपि त्व् अन्यो ऽपि । ततः सो ऽपि कस्मान् न प्रदर्श्यत इत्य् आह -- न चे ति । चो ऽ वधारणे यस्माद् अर्थे वा ।
ननूपेक्षणीयो ऽपि राशिर् अस्ति । यत्र न प्रवृत्तिर् यतश् च न निर्वृत्तिः । तत् कथम् अनुभवसिद्धस्यापह्न्व इत्य् आह -- उपेक्षणीय इति । हि र् यस्मात् ।
अत्र कश्चिद् आह -- "यथा ऽसाव् अनुपादेयस् तथा ऽहेयो ऽपि । तत्त्र यद्य् अनुपादेयत्वाद् धेयस् तदा ऽहेयत्वाद् उपादेयः किं न भवति" इति । साधूक्तं तेन भदन्तेन केवलं हेयशब्दार्थविचारे मनो न
[ध्प्र् प्.31]
सर्व् आ चासौ पुरुषार्थसिद्धिश् चेति. सर्व शब्द इह द्रव्यकार्त्स्न्ये वृत्तः, न तु प्रकारकार्त्स्न्ये. ततो न अयम् अर्थः -- द्विप्रकारा अपि सिद्धिः सम्यग्ज्ञाननिबन्धना एव इति. अपि त्व् अयम् अर्थः -- या काचित् सिद्धिः, सा सर्वा कृत्स्ना एव असौ सम्यग्ज्ञाननिबन्धना इति. मिथ्याज्ञानाद् धि काकतालीयापि नास्त्य् अर्थसिद्धिः. तथा हि -- यदि प्रदर्शितम् अर्थम् प्रापयत्य् एवम् ततो भवत्य् अर्थसिद्धिः.
प्रणिहितम् । तथा हि । हीयते, त्यज्यते, न स्वीक्रियते इति हेयः । हानञ् चास्वीकरणम् । न तु गृहीत्वा परित्यागः । तेन अहिविषकण्टकादीनाम् अपि हानं तत्रा [14अ] ऽप्रवृत्तिर् एव । सा चोपेक्षणिये ऽप्य् अस्ति । तथा च यदि तस्य स्वीकारो भवेत्, तदा ऽहेयत्वं सिद्धिम् अध्यासीत । न च तत् स्वीक्रियत इति व्यक्तम् अयं हेतुर् असिद्धस् तस्य । न त्व् अस्माकम् असिद्धः । अनुपादेयत्वस्य अस्वीकर्त्तव्यत्वस्य सिद्धत्वात् ।
अथानुभवसिद्धस्य तृतीयराशेर् उपेक्षणियस्यास्वीकरणमात्राद् धेयेन सार्धम् ऐक्यप्रतिपादनम् अयुक्तम् इति चेत् । प्रियम् उक्तं प्रयेण । न हि वयम् अपि प्रसिद्ध्योर् हेयोपेक्षणिययोर् अर्थयोर् एकस्वभावताम् आतिष्ठामहे । किन् तु क्रियानिमित्तेन हेयशब्देनैकाभिधानम् तथा ऽस्वीकरणार्थेन हानशब्देनोपेक्षाया अभिधानम् इति किम् अवद्यम्? एतच् च हेयोपादेयत्वम् अर्ह्तयैकपुरुषैककालापेक्षया प्रत्येयम् ।
अधुना सिद्धि शब्दस्यार्थपदेन विग्रहं ब्रुवन्न् अर्थम् आह -- तस्य -- इति ।
ननु लोके सिद्धिर् निष्पत्तिर् उच्यते, यथौदनस्य सिद्धिर् इति. तत् कथम् एवं वर्ण्यत इत्य् आह -- हेतुनिबधने ति. हेतु ः कारणं निबद्ध्यते ऽस्मिन्न् इति निबन्धनं प्रतिबन्धविषयः । हेतुर् निबन्धनम् अस्या इति विगृह्य हेतुप्रतिबद्धेत्य् अर्थो वक्तव्यः ।
यदि जनकनिबन्धना सिद्धिर् ईडृशी तर्हि ज्ञाननिबन्धना कीदृशी भविष्यतीत्य् आह -- ज्ञाने ति । तु ः पूर्वस्याः सिद्धेर् अस्या भेदं दर्शयति । एवं च व्याचक्षाण अर्थ पदव्याख्याने "अर्थः प्रयोजनं दाहादि", सिद्धिपदव्याख्याने च "तस्य दाहादेर् निष्पत्तिः" इति यद् विनीतदेवशान्तभद्रौ व्याचक्षातां तद् द्वयम् अप्य् अपास्यति । यतः स्वहेतोर् एव वह्न्यादेर् दाहादेर् निष्पत्तिर् न तु ज्ञानात् तस्य तदकारकत्वाद् इति ।
ननु यदि सिद्धिर् अनुष्ठानम्, तर्हि हानम् उपादानं सिद्धिर् इत्य् आह -- हेयस्य च -- इति. चो हेतौ, अवधारणे वा हानम् इत्य् अस्मात् परो द्रटव्यः. द्वितीयश् च कारः समुच्चयार्थः । किम् एवं सति सिद्धम् इत्य् आह -- तत इति । यतो ज्ञाननिबन्धना सिद्धिर् ईदृशी ततस् तस्मात् कारणात् ।
पुरुषार्थसिद्धि शब्दानां विग्रहम् अर्थं व्याख्याय सम्प्रति सर्व शब्दं व्याख्यातुं विग्रहम् आह -- सर्वा च -- इति । एवं च विगृह्णन् यद् विनीतदेवेन व्याख्यातम् -- "सर्वश् चासौ लौकिको लोकोत्तरश् चासन्नदेशो दूरदेशश् च पुरुषार्थश् चेति, तथा तस्य सिद्धिः" इति, तद् दूषयति. एवं हि
[ध्प्र् प्.32]
प्रदर्शितं च प्रापयत् सम्यग्ज्ञानम् एव. प्रदर्शितं च अप्रापयत् मिथ्याज्ञानम्. अप्रापकं च कथम् अर्थसिद्धिनिबन्धनं स्यात्. तस्माद् यन् मिथ्याज्ञानम्, न ततो अर्थसिद्धिः. यतश् च अर्थसिद्धिः, तत् सम्यग्ज्ञानम् एव. अत एव सम्यग्ज्ञानम् यत्नतो व्युत्पादनीयम्. यतस् तद् एव पुरुषार्थसिद्धिनिबन्धनम्,
व्याख्यायमाने सर्व शब्देन पुरुषार्थसिद्धेर् अविशेषणाद् मिथ्याज्ञानात् काकतालीयार्थसिद्धिर् निवारिता स्यात् । न च सा सम्भयिनी । यथा च सा न सम्भवति, तथा ऽनन्तरम् एव प्रतिपादयिष्यते ।
यो ऽपि शान्तभद्रः "सर्वश् चासौ पुरुषार्थश् च, सर्वेषां वा पुरुषाणाम् अर्थस् तस्य सिद्धिः" इति व्याचष्टे, सो ऽप्य् अनयैव द्वारा निराकृतः ।
ननु सर्वशब्दस्य प्रकारकात्स्नर्यवृत्तेर् अपि दर्शनान् न ज्ञायते किं वृत्तिर् अत्राभिप्रेत इत्य् आह -- सर्वशब्द इति. द्रव्यस्य निःशेषतायां वृत्तः प्रवृत्तो वाचकभावेन । यथा "सर्वोत्पत्तिमताम् ईश्वरो निमित्तकारणम्" इत्य् अ[14ब्]त्र । द्रव्य शब्देन चेदं तद् इति व्यपदेशयोग्यं ग्रहीतव्यम् । न तु वैशेषिक सिद्धान्तप्रसिद्धं पृथिव्यादि । तद् उक्तम् --
"वस्तूपलक्षणं यत्र सर्वनाम् प्रसज्यते ।
द्रव्यम् इत्य् उच्यते सो ऽर्थो भेद्यत्व विवक्षितः" इति
पुरुषार्थसिद्धिर् अपीदं तद् इति व्यपदेशयोग्या । तेन सा ऽपि द्रव्यम् । तथावृत्तेर् अस्य ग्रहणाद् अन्यवृत्तितया प्रसिद्धस्यापि प्रतिषेधं कण्ठोक्तं करोति । वृत्त इति वर्त्तते । यथा पूर्वे व्याचक्षते "सर्वरसभोक्ता ऽयं भिक्षाकः" इति । यथा ऽयम् सर्वशब्दः प्रकारकार्त्स्न्यवाची तद्वद् अत्रापीति । प्रकारकार्त्स्न्यवृत्तेर् अग्रहणे को गुण इत्य् आह -- तत इति । ततः प्रकारकार्त्स्न्यवृत्तस्याग्रहणत् । तथापि कथम् अयम् अर्थो भवतीति चेत् । भवति हि प्रकारकार्त्स्न्यवचने सर्वशब्दे सत्य् अयम् अर्थः -- न सो ऽस्ति पुरुषार्थसिद्धेः प्रकारः फललक्षणो वा यो न सम्यग्ज्ञाननिबन्धन इति । सति चैवं द्विप्रकारा ऽपि सिद्धिः सम्यग्ज्ञानपूर्विकेत्य् अयम् अर्थो भवति ।
ननु चास्मिन्न् अप्य् अर्थे प्रकारद्वितयस्य संगृहीतत्वात् किम् असंगृहीतं नाम येनायम् अर्थो यत्नेन महता हीयत इति? कथं न हीयतां कस्याश्चित् तत्प्रकारान्तःपतिताया हानव्यक्ते[26].....................न हि षड् अपि रसप्रकारान् भुञ्जानः कश्चिन् मधुराम्लादिरसव्यक्तीः सर्वा एव भुङ्क्ते । न च तथा ऽकुर्वन् सर्वरसभोक्ता न भवतीति ।
__________नोतेस्__________
[26] सम्यक्{-ङ्} न पठ्यते ।
यद्य् अयं नार्थः कस् तर्हीत्य् आह -- अपि तु -- इति । निपातसमुदायो ऽयं किन् त्वत् यस्यार्थे सर्वत्र वर्त्तते ।
ननु कृत्स्नैवासौ सम्यग्ज्ञाननिबन्धने त्य् उच्यमाने मिथ्याज्ञानात् काकतालीया ऽप्य् अर्थ सिद्धिर् नास्तीति दर्शितं स्यात् । न चैतद् युज्यते । यतो यद्य् अपि मिथ्याज्ञानान् नियमवती नास्त्य् अर्थसिद्धीह्, तथापि कादाचित्की विद्यते एव । यथा कश्चित् दहनोपरिवर्त्तिं मशकवर्त्तिं धूमम् अवसायाग्निम् अनुमाय यदि प्रवृत्त्या ऽग्निम् आसादयति । अत एव च मिथ्याज्ञानस्य कादाचित्कार्थ--
[ध्प्र् प्.33]

सिद्धिनिबन्धनत्वात्, सम्यग्ज्ञानस्य तु नियमेनार्थसिद्धिनिबन्धनहेतुत्वात् सम्यग्जानम् एव यत्नतो व्युत्पाद्यते । न त्व् एतावता मिथ्यज्ञानान् नास्त्य् एवार्थसिद्धिः । प्रकारकार्त्स्न्यवृत्तग्रहणे तु नायं दोषः । एवं हि सम्यग्ज्ञानासाध्यः परप्रकारो निराक्रियते । न तु तत्प्रकारान्तःपातिन्याः कस्याश्चित् सिद्धिव्यक्तेर् मिथ्याज्ञानसाध्यत्वम् । न च हानोपादानव्यक्तयः प्रत्येकं प्रकारशबदवाच्याः प्रकारानन्त्यप्रसङ्गात् । तस्मात् सर्वशबदः प्रकार्कार्त्स्न्यवृत्तिर् एव प्रहीतव्यः -- इति पुर्वेषां मतम् आशङ्क्याह -- मिथ्येति । काततालयोः संयोग इवाकस्मकी काकतालीया । कुतो नास्तीत्य् आह -- तथा हीत् इ । तत इति मिथ्याज्ञानात् । तद् अपि प्रापयत्य् एवेत्य् आह -- प्रदर्शितम् इति । चो यस्मात् ।
प्रदर्शितं प्रापयद् अपि मिथ्याज्ञानं भविष्यति । ततः सम्यग्ञानम् एवे त्य् अवधारणम् अयुक्तम् इत्य् आह -- प्रदऋशितम् इति । चो ऽवधारणे अप्रापयद् इत्य् अतः परो द्रष्टव्यः । `लक्षणहेत्वोःऽ [पाणिनि 3 ।2 ।126] इति हेतौ शतुर् विधानात् । प्रदर्शितार्थाप्रापणाद् एव मिथ्याज्ञान[15अ]म् इत्य् अर्थः । मिथ्याज्ञाणस्य हीदम् एव तत्त्वं यत् प्रदर्शिताप्रापत्वं नाम । प्रापके तु मिथ्याजानव्यपदेशः समारोपितः स्याद् इति भावः । मा भूत प्रापकम्, तद् अर्थसिद्धेस् तु बिबन्धनं किंन स्याद् इत्य् आह अप्रापकम् इति । चो यस्माद् अर्थे ।
तस्माद् इत्यादिनोक्तार्थोपसंहारं करोति । यस्माद् उपदर्शिताप्रापकम् एव मिथ्याञाणम् तस्माद् यत् किञ्च्न् मिथ्याञाणं ततः सरत एव नार्थसिद्धिः । यः पुनर् अकस्माद् वह्नेर् उपरि मशकवर्त्तिं धूमम् अवसाय वह्निम् अस्वस्यति, सो ऽप्य् अनुमाकालात् पूर्वं यावन् मशकवर्त्त्यादिभ्यो व्यावृत्तं वह्निकार्यं नियतं धूमरूपं निरूप्य विवेचितं तदानीम् अनुमानकाले नानुसरति, तदनुसरणे भ्रान्त्ययोगात्, तावद् अनिवर्त्तिते संशयहेतौ, तिष्ठतु तावन् मशकर्वर्त्तिदर्शनम्, सत्य् अधूमदर्शने ऽपि सन्दिग्धवह्निकार्यत्वात् कथं निःशङ्को नाम सचेतनः । तस्मान् निश्चितनियतरूपाद् एव धूमाद् वह्निनिश्चियः । अन्यस्मात् त्व् एकांशावग्रहो ऽप्य् अनिवर्तितशङ्काहेतुः संशय एव । संशयश् च भावाभावानियतस्यार्थस्याशक्यप्रापणस्य दर्शको नार्थसिद्धेर् निबन्धनम् । ज्ञाणातराद् एव तु सा प्राप्तिर् इत्य् अस्याभिप्रायः । एवम् अन्यत्रापि मिथ्याज्ञाने यथा प्रामाण्यं न युज्यते, यथा च ज्ञानान्तराद् एव सा प्राप्तिस् तथा धरमोत्तरेण इव विनिश्चयटीकायां विपञ्चितम् इति नेह प्रतन्य्ते ।
कुतश्चिद् अर्थसिद्धिर् अपि स्याद् इत्य् आह -- यतश् च -- इति । चो ऽन्यस्माद् भेदवद् रूपम् उपदर्शयति । अर्थसिद्धिनिबन्धनं मिथ्याज्ञानम् आचार्यस्या पि नाभिमतम् इति सामर्थ्याद् दर्शयति । यदा ऽऽह -- अत एवे ति । यत एव मिथ्याज्ञानाद् अर्थसिद्धिर् नास्ति, सम्यग्ज्ञानाच् चास्त्य् एव । अतो ऽस्माद् एव हेतोः । यत्न ग्रहणम् अनुषङ्गेण मिथ्याज्ञानव्युत्पादनं दर्शयति । मिथ्याज्ञाणस्यापि कस्यचिद् व्युत्पादनाद् इत्य् उक्तप्रायम् । अत एवे त्य् एनेन यद् एव हेतुत्वेनापेक्षितं तद् एव यत इत्यादिना सुखप्रतिपत्त्यर्थं कण्ठोक्तं करोति । अयम् आशयः -- यद्य् आचार्यो मिथ्याज्ञानाद् अप्य् अर्थसिद्धिं भवित्रीम् अभिप्रेयात्म् तदा न सम्यग्ज्ञानम् एव प्रस्तारेण व्युत्पादयेत् । तद् एव च तथा व्युत्पादितवान् । अतो ऽवसीयते नैव तस्येदम् अभिप्रेतम् इति.
ननु सम्यग्ज्ञानपूर्विकैवेत्य् अवधारणे सति मिथ्याज्ञानाद् अर्थसिद्धिर् नास्तीति लभ्यते. न चोपात्तम् अवधारणम्, तत् कथम् अयम् अर्थो लभ्यत इत्य् आह -- तत इति । यतः सर्व शब्दे दर्व्यकार्त्स्न्य--
[ध्प्र् प्.34]
ततो यावद् ब्रूयात् -- या काचित् पुरुषार्थसिद्धिः, सा सम्यग्ज्ञाननिबन्धना एव इति, तावद् उक्तं सर्वा सा सम्यग्ज्ञानपूर्विका इति. इति शब्दस् तस्माद् इत्य् अस्मिन्न् अर्थे. यत्तदोश् च नित्यम् अभिसम्बन्धः. तद् अयम् अर्थः -- यस्मात् सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः, तस्मात् तत् सम्यग्ज्ञानं व्युत्पाद्यते.
यद्य् अपि च समासे गुणीभूतम् सम्यग्ज्ञानम्, तथा अपि इह प्रकरणे व्युत्पादयितव्यत्वात् प्रधानम्. ततस् तस्य एव तत् शब्देन सम्बन्धः.
व्युत्पाद्यत इति विप्रतिपत्तिनिराकरणेन प्रतिपाद्यत इति.
____________________________________________________
वृत्तौ सति सर्वा कृत्स्ना पुरुषार्थसिद्धिः सम्यग्ज्ञानपूर्विका, न तु काचिद् व्यक्तिर् अस्ति या न तत्पूर्विकेत्य् अयम् अर्थो लभ्यते, ततः कारणात् पूरुषार्थसिद्धिः सम्यग्ज्ञाननिबन्धनैवेति सावधारणं वाक्यम् । यत् परिमाणम् अभिधेयं ब्रूयाद् वक्तुं शक्नोति, तावत् परिमाणम् उक्तम् सर्वा सम्यग्ज्ञानपूर्विके त्य् अनेन । वर्त्तताम् इतिशशब्दस् तस्माद् इत्य् अस्यार्थे । क्व पुनर् यत्शब्दो ऽस्ति येन वक्ष्यमाणार्थसङ्गतिर् इत्य् आह -- यद् इति । चो [15ब्] व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे । शब्दयोः साक्षाद् अन्योन्यापेक्षाभावात् यत्तद् अर्थयोर् इति द्रष्टव्यम् । अभिसम्बन्धो व्यपेक्षा । एवं सति कीदृशो ऽर्थो व्यवतिष्ठत इत्य् आह -- तद् इति ।
ननु बहुव्रीहौ गुणीभूतं सम्यग्ज्ञानम्, तत् कथं तस्याप्रधानस्य प्रधानप्रत्यवमर्शिना तच् छब्दे परामर्शः स्याद् इत्य् आह -- यद्य् अपि चे ति । यद्य् अपि चे ति निपातसमुदायो विशेषाभिधानार्थाभ्युपगमे वर्त्तते । महाभाष्ये चायं प्रायेण दृश्यते । समास इति समासार्थ इत्य् अर्थः । व्युत्पादयितव्यत्वात् प्रधानम् इत्य् अभिदधतो ऽयम् आशयः -- द्वेधा हि प्राधान्यं शब्दतो ऽर्थतश् च । तत्र शाब्देन न्यायेनासत्य् अपि प्राधान्ये सम्यग्ज्ञानस्य व्युत्पादयितव्यतया बुद्ध्यन्तरेणोपस्थापितस्य स्वतन्त्रस्याऽऽर्थेन न्यायेन प्राधान्यं को ऽपहस्तयेद् इति तच् छब्देन तस्य परामर्शो न विरुद्ध्यत इत्य् एवं व्याचक्षाणो विनीतदेव व्याख्यां तिरस्करोति । एवं ह्य् असौ व्याचष्टे -- " तद् इति नपुंसकलिङ्गेन निर्देशात् सम्यग्ज्ञानं परामृश्यत" इति । सम्यग्ज्ञानस्याप्राधान्येन परामर्शानुपपत्तौ तल्लिङ्गप्रहणस्यैवायोगात् कथम् असिद्धेन साध्यताम् इत्य् आशयः । ततः प्राधान्यात् तस्यैव सम्यग्ज्ञानस्य
[ध्प्र् प्.35]
चतुर्विधा च अत्र विप्रतिपत्तिः संख्यालक्षणगोचरफलविषया. तत्र संख्याविप्रतिपत्तिम् निराकर्तुम् आह --

द्विविधं सम्यग्ज्ञानम् । न्ब् इ 2
द्विविधम् इति -- द्वौ विधौ प्रकाराव् अस्य इति द्विविधम्. संख्याप्रदर्शनद्वारेण च व्यक्तिभेदो दर्शितो भवति.
________________________________________
तच् छब्देन सम्बन्धनं सम्बन्धः स्वीकार इति यावत् । ततो ऽयम् अर्थः -- तत् सम्यग्ज्ञानं करमभूतं विप्रतिपत्तिनिराकरणेन प्रतिपाद्यते बोध्यते शिष्यजन इत्य् अर्थात् । अत एव तद् इति द्वितीयान्तम् एतद् इति सोपपत्तिकम् आह ।[27]"सम्यं स्व(-स्मा)र्यते परः"[प्व् इव् 267]इति यथा । विप्रतिपत्तिनिराकरणेन प्रतिपाद्यत इति ब्रुवता लक्षणं न विरुध्यते । "प्रसिद्धानि प्रमाणानि" [च्f. प्स्ट् म्स् अ 12ब्1; न क्.2; प्व्ट् 96अ7f]इत्यादि तद् अपहस्तितं वेदितव्यम् ।
__________नोतेस्__________
[27] "स्मार्यते समयं परः" प्व् इव् 267 -- सं-
ननु वार्त्तिका दिनैव सम्यग्ज्ञानस्य व्युत्पादनात् कथम् अस्य न वैयर्थ्यम् इति चेत् संक्षिप्तरुचीन् प्रज्ञान् अधिकृत्येदं प्रकरणं प्रणीतम् इत्य् अदोषः ।
अथ का ऽत्र विप्रतिपत्तिः यन्निराकरणेनेदं प्रतिपाद्यत इत्य् आह -- चतुर्विधे ति । चो यस्मात् । चतुर्विधा चतुःप्रकारा । अत्र सम्यग्ज्ञाने विरुद्धा प्रतिपत्तिर् विप्रतिपत्तिः । किंविषया सेत्य् आह । संख्ये ति । अनेन विषयभेदाच् चातुर्विध्यं विप्रतिपत्तेर् दर्शितम् । तथा हि संख्याविप्रतिपत्तिस् तावत् प्रत्यक्षम् एवैकं प्रमाणम् इति लोकायतिकानाम् । प्रत्यक्षानुमानाप्तवचनानि त्रीण्य् एव प्रमाणानीति सांख्यानाम् । आर्षस्य ज्ञानस्य प्रतिभाप्रनाम्नः कदाचिद् इह लौकिकानाम् उत्पद्यमानस्य प्रत्यक्षानुमानयोर् एकत्राप्य् अन्तर्भावाप्रदर्शनात् प्रत्यक्षानुमानार्षाण्य् एवेति चिरन्तनवैशेषिकाणाम् । प्रत्यक्षानुमानोपमानशब्दा एवेति नैयायिकानाम् । प्रत्यक्षानुमानोपमानशब्दार्थापत्तय एवेति प्रभाकराणाम् इति । प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यभावा एवेति कौमारिलानाम् ।
लक्षणविप्रतिपत्तिर् अपि -- सविकल्पकम् एव प्रत्यक्षम् इति वैयाकरणबार्हस्पत्यादीनाम् । सविकल्पकं निर्विकल्पकं चेति नैयायिक [16अ] मीमांसकादीनाम् । पीतशङ्खादिज्ञानं भ्रान्तम् अपि प्रत्यक्षम् इत्य् अंशवादवादिनाम् । एकलक्षणहेतुजम् अनुमानम् इत्य् अह्रीकाणाम् । षड्लक्षणहेतुजम् इति पूर्वयौगानाम् । पञ्चलक्षणहेतुजं चतुर्लक्षणहेतुजं चे(वे)ति नैयायिकानाम् ।
विषयविप्रतिपत्तिर् अपि -- सामान्यविषये प्रत्यक्षानुमाने इति नैयायिकमीमासकादीनाम् ।
फलविप्रतिपत्तिर् अपि -- सर्वेषां प्रमाणा(-ण)व्यतिरिक्तम् एव प्रमाणरू(प्रमारू)पं फलम् इति ।
तत्र तासु मध्ये संत्ख्या त्व् अजात्या निर्धार्यते । ततो निर्धारणे युक्तं द्वौ विधौ प्रकाराव् अस्ये ति विगृह्णन् विधशब्दो ऽप्य् अस्ति प्रकारवाचीति दर्शयति । तथा हि प्रकीर्णवृत्ति कृद धर्मपालेना पि
[ध्प्र् प्.36]
द्वे एव सम्यग्ज्ञानव्यक्ती इति. व्यक्तिभेदे च प्रदर्शिते प्रतिव्यक्तिनियतं सम्यग्ज्ञानलक्षणम् आख्यातुं शक्यम्. अप्रदर्शिते तु व्यक्तिभेदे सकलव्यक्त्यनुयायि[28]सम्यग्ज्ञानलक्षणम् एकम् न शक्यं वक्तुम्. ततो लक्षणकथनाङ्गम् एव संख्याभेदकथनम्. अप्रदर्शिते तु व्यक्तिभेदात्मके संख्याभेदे लक्षणभेदस्य दर्शयितुम् अशक्यत्वात्. लक्षणनिर्देशाङ्गत्वाद् एव च प्रथमं संख्याभेदकथनम्.
__________नोतेस्__________
[28] -व्यक्त्य्-एम्.: -व्यक्तत्य्-ध्प्र्
_____________________________________________________
विध शब्दः प्रकारवाची प्रदर्शितः । न पुनर् अस्यायम् अभिप्राहः -- विधा(-ध)शब्दो जातिवाचित्वात् प्रकारवाची न भवतीति । अनेकार्थत्वात् तस्य प्रकारवाचिनो ऽपि प्रयोगस्य "चतसृषु चैवेंविधासु तत्त्वं परिसमाप्यते" [न्यायभा- पृ- 2] इत्यादाव् अनेन प्रायशो दृष्टत्वात् ।
ननु कथं नाम प्रमाणाद् एव प्रवर्त्तेय नाप्रमाणाद् इति प्रवर्त्तितुमनाः प्रमाणस्य लक्षणम् एव जिज्ञासते, न सङ्ख्याम्. ततो लक्षणम् एव व्युत्पाद्यं न सङ्ख्या. तच् च लक्षनं यद्य् एकस्यैवास्ति, तद् एकम् एव प्रमाणम्. अथ बहूनाम्, तदा प्रमाणबाहुल्यम् अनिवार्यम् एव. अथ तल् लक्षणं नैकस्यैवास्ति नापि बहूनाम्, तर्हि लक्षणव्युत्पत्तौ सामर्थ्यात् संख्याविप्रतिपत्तिर् निराकृता भवतीति किं पृथक् संख्याविप्रतिपत्तिनिराकरणेनेतिय् आह -- संख्ये ति. चो यस्मादर्थे. द्वार म् उपायः.
केनाकारेण दर्शितो भवतीत्य् आह -- द्वे इति. इति ना व्यक्तिभेदस्य स्वरूपम् आह. व्यक्तिभेदेनैव दर्शितेन किं प्रयोजनम् इत्य् आह -- व्यक्तिभेदे चे ति. चो यस्मादर्थे. यद्य् अदर्शिते ऽपि व्यक्तिभेदे लक्षणाख्यानं शक्यम्, तथापि किं दर्शितेनेत्य् अन्वयमात्राद् अप्रतिपत्तेर् व्यतिरेकम् अपि दर्शयितुम् आह -- अप्रदर्शित इति. तु ः प्रदर्शनपक्षाद् अप्रदर्शनपक्षस्य भेदम् आह. सकलव्यक्त्यनुयायी ति ब्रुवतो ऽयं भावः -- व्यक्तिभेदानुपदर्शने प्रतिव्यक्तिनियतस्य लषणस्याख्यातुम् अशक्यत्वात्. लक्षणम् उच्यमानं सकलव्यक्त्यनुयायि तद् एकं वक्तव्यम् । न च तद् वक्तुं शक्यम्, असम्भवाद् एवेति.
ननु किम् उच्यते -- सकलव्यक्त्यनुयायि वक्तुम् अशक्यम् इति यावता ऽविसंवादिज्ञानं प्रमाणम् इत्य् अस्ति लक्षणम् एकं सुवचम् अपीति. सत्यम्. केवलं ज्ञानानां यत् प्रातिस्विकं रूपं प्रवृत्तिकामानां प्रवृत्त्युपयोगि, तद् उपलक्षणं नास्तीत्य् अभिप्रायाद् अदोषः. यद् वा विप्रतिपत्तिनिराकरणप्रवणं यत्साधारणं लक्षणम्, तन् नास्ति. यच् चाविसंवादित्वं लक्षणम्, न तेन विप्रतिपत्तिर् निराकृता भवति. अन्यत्रा पि परैर् अविसंवादित्वस्येष्टत्वाद् इत्य् अनेनाभिप्रायेणोक्तम् -- न शक्यम् एकं वक्तुम् इति विशेषप्रतिषेधसामर्थ्यात् शेषविधिसिद्धौ च तथाभूतस्य साधारणस्य सम्भवाद् एव सकल शब्दो ऽयम् उपयुक्तकार्त्स्न्ये प्रवर्त्त [16ब्] नीयः. तेनायम् अर्थः -- प्रदर्शितव्यक्तिभेदात्मकचतुर्विधप्रत्यक्षानुयायि कलपना ऽपोढाभ्रान्तत्वम्, प्रदर्शितव्यक्तिभेदात्मकद्विविधानौमानानुयायि त्रिरूपलिङ्गजत्वं शक्यं वक्तुम् इति. यदि नामैवम्, ततः किम् इत्य् आह -- तत इति. यतो ऽप्रदर्शिते न शक्यम् एकं तथाविधं दर्शयितुम्, ततस् तस्मात्. लक्षणकथनाङ्गम् इति प्रतिव्यक्तिनियतलक्षणकथनाङ्गम् इत्य् अवसेयम्.
[ध्प्र् प्.37]
किं पुनस् तद् द्वैविध्यम् इत्य् आह --
प्रत्यक्षम् अनुमानं च इति ॥ न्ब् इ 3
______________________________________________________
अथ तथाविधं लक्षणम् एकं वक्तुं न शक्यतां नाम । किम् अतः? केवलम् अदर्शिते ऽपि संख्याभेदे लक्षणभेदो दर्शयितुं शक्यताम् । तत् कस्मात् तत्कथनाङ्गं संख्याभेदकथनम् इत्य् आशङ्क्यान्वयमुखेनोक्तम् अर्थं द्रढयितुं व्यतिरेकमुखेणाह -- लक्षणे ति । लक्षण भेदस्य प्रतिव्यक्तिभिन्नस्य दृष्टस्य । कदा दर्शयितुम् अशक्यत्वं यत एवं भवतीत्य् आकाङ्क्षायाम् -- अप्रदर्शित इति पश्चाद् योजनीयम् । तु र् अवधारयति, प्रदर्शिताद् वा भिनत्ति ।

ननु च न संख्याभेद एव व्यक्तिभेदः, तत् कथं व्यक्तिभेदात्म्क इत्य् उच्यत इति चेत्. वस्तुतः संख्येयाद् अन्यस्याः संख्याया वास्तव्या अभावेन संख्यासंख्येययोर् एकत्वविवक्षया चैवम् उच्यते । पूर्वं तु कल्पनानिर्मितात्मनां(-ना)भिन्नाम् अवलम्ब्य संख्याप्रदर्शनद्वारेणे त्युक्तम् । संख्यासम्ख्येययोर् एकत्वविवक्षयैव च संख्येयविप्रतिपत्तिर् एव निराकृतेति । अथ वा वस्तु(व्यक्ति)भेदस् तदात्मा तथाविधः कल्पनाशिल्पिनिर्मितो यस्य संख्याभेदस्य स तथोक्तः । परमार्थतो भिन्ने हि वस्तुनि संख्याभेदः कल्प्यत इति वास्तवरूपानुवादम् इदम् उक्तम् इति किम् अवद्यम्? सर्वेण चानेन नै(चानेनै)तद् उक्तम् -- प्रवृत्तिकामानाम् उपयोगित्वाल् लक्षणम् एव वक्तुं युक्तं तद् एतत् त्व् अन्यथा न शक्यम् आख्यातुम् इति संख्याभेदप्रदर्शनम् इति ।
नन्व् असत्य् अपि द्विविधम् इति संख्याभेदप्रदर्शने तत् सम्यग्ज्ञानं चेत्य् उक्ते ऽपि व्यक्तिभेदो दर्शितो भवत्य् एव । सति चैवं लक्षणाभ्देदाख्यानम् अपि सुकरम् इति कृतं द्विविध शब्देनेति चेत् । सिद्धे सतीदं वचनं द्विविधम् एवेति नियमार्थम् इति ब्रूमः । इतरथेह तावद् एतावद्व्युप्ताद्यतया प्रस्तुतम् अन्यत्र पुनर् अन्यद् अप्य् अस्ति व्युत्पत्त्यं सम्यग्ज्ञानम् इत्य् आशङ्काहत्य न निराकृता स्याद् इति । यत् पुनर् उक्तम् -- तर्हि लक्षणव्युत्पत्त्यैव संख्याविप्र्तिपत्तिर् निराकृता भवतीति तद् अत्यन्तम् असङ्गतम् । यतो यदि विशेषलक्षणम् अभिप्रेत्येदम् उच्यते; तदा व्यक्तिभ्देदानुपदर्शने प्रतिव्यक्तिनियतं तद् एवाशक्यं(-य) कथनम् इत्य् उक्तम् । न चोक्तम् इति तथा कर्तुम् ईष्टे । यतस् तद् ईदृशं प्रत्यक्षम् अनुमाणं चेत्य् एतत् कर्तुं शक्नोति । न त्व् आभ्याम् अन्यन् न सम्यग्ज्ञाणम् इति । अथ सामान्यलक्षणम् । तद् अपि तथाविधं साधारणं वक्तुम् अशक्त्यम् इति केन तथा क्रियताम्? न च तेनोक्तेनापि तादृशी विप्रतिपत्तिर् निराक्रियत इत्य् उक्तम् । अथापि स्यात् -- द्विविधम् इत्य् उक्ते ऽपि कथ[17अ]म् आभ्याम् अन्यस्यासम्यग्ज्ञानत्ववि(-त्वाधि)गमः? उच्यते । ये तावद् आचार्य प्रमाणका व्युत्पत्सवस् ते तद्वचनमात्रेणैव विवक्षितम् अर्थं बोध्यन्ते । ये ते युक्त्यनुसारिणस् तेभ्यो ऽपि प्रकरणान्तरेषूपपत्तिर् उदाहृता । प्रज्ञजनाधिकारेण चास्य प्रकरणस्य प्रारम्भात् स्वयम् एव तैर् उपपत्तिर् उक्तेति न संख्यावचनम् अनुपादेयम् इति । अस्तु लक्षणनिर्देशाङ्गम्, आदौ तु कस्माद् उच्यत इत्य् आह -- लक्षण इति । च स् तुल्योपायत्वं समुच्चिनोति ।
यथाकथञ्चिद् द्वैविध्यसम्भवे पृच्छति -- किं पुनर् इति । किम् इति सामान्यतः, पुनर् इति
[ध्प्र् प्.38]
प्रत्यक्षम् इति प्रतिगतम् आश्रितम् अक्षम्. अत्यादयः क्रान्ताद्यर्थे द्वितीयया[वा 4 अद् पाण् 2.2.18]इति समासः. प्राप्तापन्नालङ्गतिसमासेषु परवल् लिङ्गप्रतिशेधाद् अभिदेयवल् लिङ्गे सति सर्वलिङ्गः प्रत्यक्षशब्दः सिद्धः.[29]अक्षाश्रितत्वं च व्युत्पत्तिनिमित्तं शब्दस्य, न तु प्रवृत्तिनिमित्तम्. अनेन त्व् अक्षाश्रितत्वेन एकार्थसमवेतम् अर्थसाक्षात्कारित्वम् लक्ष्यते. तद् एव शब्दस्य प्रवृत्तिनिमित्तम्. ततश् च यत्किञ्चिद् अर्थस्य साक्षात्कारि ज्ञानं तत् प्रत्यक्षम् उच्यते.
__________नोतेस्__________
[29] ननु चास्यां व्युत्पत्तौ इन्द्रियज्ञानस्यैव प्रत्यक्षशबवाच्यता स्याद् न योगिज्ञानादेर् इत्य् आह -- टि-
___________________________________________
विशेषत । अभिमतम् आह -- प्रत्यक्षं इति । प्रत्यक्षम् इत्य् अत्र कः समासः, केन च सूत्रेणेत्य् आशङ्क्य सुखप्रतिपत्त्यर्थं विप्रतिपत्तिनिराकरणार्थं चाह प्रतिगतं इत्यादि । अक्षम् इन्द्रियं गतम् आश्रितं जन्यतया, न त्व् आधेयभावेन । एवं च विगृह्णन्[29*]अक्षम् अक्षं प्रति वर्त्ततअ इति व्युत्पत्तिप्रकारेणाव्ययीभावं निरस्यति । समास एकार्थीभावः । स चायं समासस् तत्पुरुषसंज्ञको ज्ञातव्यः । केन सूत्रेणायम् इत्य् आह -- अत्यादय इति । आहोपुरुषिकयायम् प्रकारस् त्वया दर्शितो न त्व् अस्य कश्चिद् गुणो ऽस्तीत्य् आह -- सर्वलिन्ग इति । अव्ययीभावपक्षे प्रत्यक्षो वृक्षः प्रत्यक्षा मृगाश् चेति न स्यात् । प्रत्यक्षस्येति श्रुतिश् च न स्याद् इत्य् अभिप्रायः । कथं पुनः सर्वलिङ्गता ऽस्येत्य् आह -- अभिधेयवद् इति । अभिधेयस्येव् आभिधेयवत् । अभिधेयवल् लिङ्ग यस्य, तत् तथा. तस्मिंश् च सत्य् अयं प्रत्यक्षशब्दः सर्वलिङ्गः.
__________नोतेस्__________
[29*] अ च्f. न्भ् ...
ननु च परवल् लिङ्गं द्वन्द्वतत्पुरुषयोः[पाण् 2.4.26]इति समस्तेन प्रत्यक्षशब्देन प्रतिशब्दो(-ब्दा)पेक्षया परस्थानस्थितस्याक्षशब्दस्य लिङ्गपरिग्रहात् कथम् अस्याभिधेयवल् लिङ्गतेत्य् आह -- प्राप्ते ति.
ननु केनास्य परवल् लिङ्गनिषेधः? न तावत् प्राप्तापन्नालङ्गतिसमासेन तेषां स्वरूपग्रहणात् तत्र. अत्र च तदभावात्. गतिसमासाद् इति चेत्, तद् अप्य् असत्, उपसर्गाः क्रियायोगे[पाण् 1.4.59]इत्य् अतः क्रियायोगे वर्त्तमाने गतिश् च[पाण् 1.4.60]इत्य् अनेन क्रियायोग एव गतिसंज्ञाविधानात्. न चायं प्रतिशब्दः क्रियायोगी, न च गमनक्रियायोगो ऽत्रास्तीति वाच्यम्. प्रति शब्दस्यैव तत्रार्थे वर्त्तमाना(-नत्वा)त् नायं दोषः, गतिग्रहणेन तत्र येषां गतिसंज्ञा दृष्टा तेषां अर्हणात् । प्रत्यादीनां सा दृष्टेति तेषाम् अपि तथात्वेन सङ्ग्रह इति ।
यद्य् एवं समासस् तर्हि कथम् आचार्य दिग्नागेन अक्षम् अक्षं प्रति वर्त्तत इति प्रयक्षम्[न्मु]इत्य् उक्तम्? तदर्थमात्रं कथितम् इत्य् अदोषः ।

[ध्प्र् प्.39]
यदि त्व् अक्षाश्रितत्वम् एव प्रवृत्तिनिमित्तम् स्याद् इन्द्रियविज्ञानम् एव प्रत्यक्षम् उच्येत, न मानासादि । यथा गच्छति गौः इति गमनक्रियायाम् व्युत्पादितो ऽपि गोशब्दो गमनक्रियोपलक्षितम् एकार्थसमवेतं गोत्वं प्रवृत्तिनिमित्तीकरोति । तथा च गच्छत्य् अगच्छति च गवि गोशब्दः सिद्धो भवति ।
मीयते ऽनेन इति मानम् । करणसाधनेन मानशब्देन सारूप्यलक्षणम् प्रमाणम् अभिधीयते । लिङ्गग्रहणसम्बन्धस्मरणस्य पश्चात् मानम् अनुमानम् । गृहीते पक्षधर्मे स्मृते च साध्यसाधनसम्बन्धे ऽनुमानं प्रवर्तत इति पश्चात्कालभाव्य् उच्यते ।
___________________________________
अथ प्रतिगतम् आश्रितम् अक्षम् इत्य् अस्याम् अपि व्युत्पत्तौ मानसस्वसंवेदनयोगिप्रत्यक्षाणां न स्यात् प्रत्यक्षशब्दवाच्यतेत्य् आह -- अक्षाश्रितत्वम् इति । चो यस्मात् । प्रकृत्यादिविभागेन शब्दस्य निष्पत्तिर् व्युत्पत्तिः । प्रवृत्तिर् अर्थाभिधानम् शब्दस्ये ति प्रकृतस्य प्रत्यक्षशब्दस्य । तु र् अवधारणे । किं तर्हि प्रवृत्तिनिमित्तम् इत्य् आह -- अनेन -- इति । तु ना व्युत्पत्तिनिमित्ताद् अस्य भेदं द [17ब्] र्शयति. यत्तदोर् नित्यम् अभिसम्बन्धात् यद् अक्षाश्रितत्वेनार्थसाक्षात्कारित्वम् अर्थापरोक्षीकरणम् उपलक्ष्यते तद् एव तु प्रत्यक्षशब्दस्य प्रवृत्तिनिमित्तम् । कथं पुनर् अन्येनासम्बद्धेनान्यस्योपलक्षणम्? मा भूद् इ(अ)तिप्रसक्तिर् इत्य् आह -- एकार्थसमवेतम् इति हेतुभावेन विशेषणात् । यत एकार्थसमवेतं ततो लक्ष्यत इत्य् अर्थः । एकस्मिन्न् अर्थे ज्ञानलक्षणे ऽर्थसाक्षात्कारित्वम् अक्षाश्रितत्वेन समं समवेतम् । यद्य् अपि परमार्थतः समवायसमवायिनौ न स्तः, तथापि तद्व्यावृत्तिनिबन्धनयोस् तथाभूतवस्त्वाश्रयेण कल्पितयोर् अक्षाश्रितत्वार्थसाक्षात्कारित्वयोर् एकार्थसमवायस्य च कल्पितस्य सम्भवाद् एवम् अभिधाने को विरोधः? परप्रसिद्ध्या वा एवम् उक्तम् इति का क्षतिः? एवम् अपि कथं पूर्वदोषातिवृत्तिर् इय आह -- ततश् चे ति । साक्षात्कारित्वस्य प्रवृत्तिनिमित्तत्वात् । च शब्द एव तस्माद् इदम् उच्यत इत्य् अर्थं द्योतयति ।
अक्षाश्रितत्वे प्रवृत्तिनिमित्ते को दोष इति पार्श्वस्थस्याश्रुतचोदकवाक्यस्य वचनम् आशङ्क्याह -- यदि -- इति । तु ना भेदवद् एतद् दर्शयति ।
अथाभिधीयते -- यद् अर्थसाक्षात्करणम् अक्षाश्रितत्वेन समवेतं तद् एवानेनोपलक्षाणीयम् इति तदवस्थे(-स्थो) मानसादेर् असङ्ग्रह इति । न । अक्षजत्वस्योपलक्षणत्वेनाप्राधान्याद् अर्थसाक्षाकारित्वम् उपलक्ष्यमाणं प्रधानम् उपलक्ष्यैव निवृत्तेर् अदोष एव । यथा काकेभ्यो दधि रक्ष्यताम् इत्य् अत्र । अन्यथा ऽत्रापि काकत्वेनैकार्थसमवेतस्योपघातकत्वस्योपलक्षणात्, श्वादिभ्यो दधिरक्षा न स्यात् । अथ यद् एवोपघातकं(-कत्वं) काकेषु समवेतं तद् एवान्यत्रापि । तच् चोपलक्षितम् इति तद् अन्यतो ऽपि दधिरक्षोच्यते । अर्थसाक्षात्कारित्वे ऽपि समानम् इति कथं न मानसादेः प्रत्यक्षशब्दाभिलाप्यत्वम् इति । किं दृष्टम् इदं यद् अन्यत्र व्युत्पादितो ऽपि शब्दो ऽन्यत्र तत्प्रवृत्तिविषयीकरोतीत्याह -- यथे ति । सुगमम् एतत्, केवलम् अपि र् अवधारणे गोत्वम् (म् इत्य् अ)स्मात् परो द्रष्टव्यः ।
प्रत्यक्षमूलत्वाद् अनुमानस्यादौ प्रत्यक्षम् उपात्तं प्रत्येयम् । यत्र हि निमित्तान्तरं दर्शयतुम्
[ध्प्र् प्.40]
च कारः प्रत्यक्षानुमानयोस् तुल्यबलत्वं समुच्चिनोति । यथा अर्थाविनाभावित्वाद् अर्थं प्रापयत् प्रत्यक्षं प्रमाणम्, तद्वद् अर्थाविनाभावित्वाद् अनुमानम् अपि परिच्छिन्नम् अर्थं प्रापयत् प्रमाणम् इति ।
तत्र प्रत्यक्षं कल्पनापोधम् अभ्रान्तम् इ-4
तत्र इति सप्तम्य् अर्थे वर्तमानो निर्धारणे वर्तते । ततो ऽयम् वाक्यार्थः -- तत्र तयोर् प्रत्यक्षानुमानयोर् इति समुदायनिर्देशः । प्रत्यक्षम् इत्य् एकदेशनिर्देशः । तत्र समुदायात् प्रत्यक्षत्वजात्येकदेशस्य पृथक्करणं निर्धारणम् । तत्र प्रत्यक्षम् अनुद्य कल्पनापोढत्वम् अभ्रान्तत्वं च विधीयते । यत् तत् बवताम् अस्माकं अर्थेषु साक्षात्कारि ज्ञानं प्रसिद्धं तत् कल्पनापोढाभ्रान्तत्वयुक्तं द्रष्टव्यम् ।
अशक्यं तत्र क्रमप्रवृत्तित्वाद् वाचः, क्रमस्य न्यायप्राप्तत्वाद् इत्य् उच्यते, न तु सत्य् अपि निमित्तान्तरे यथोद्देशम् एव व्याख्यानं युक्तम् इति ।
प्रत्यक्षपदं व्याख्यायाधुना ऽनुमानपदं व्याचिख्यासुः मान शब्दस्य तावद् अर्थम् आचष्टे मीयत इति । एवं व्युत्पादितेनानेअ शब्देन किं प्रतिपाद्यत इति? करणे ति । करण स्यानुमानलक्षणक्रियासिद्धौ साधकतमस्य साधनेन वाचकेन । सारूप्य(-रूप्यं) लक्षणं स्वभावो यस्य तत् तथा । हेतुभावेन चैतद् विशेषणम् ।
यद्य् एवं कथं तर्हि क्वचित् "त्रिरूपाल्लिङ्गाद् यद् अनुमेये ज्ञानं तद् अनुमानम्" इति? सारूप्योपलक्षितं ज्ञानम् एव तथा ऽभिधास्यत इति को विरोधः? एवं तावन् मानम् । अनुमानं तु कथम् इत्य् आह -- पश्चाद् इति । अनेन पश्चाद् अर्थवृत्तेनानुशब्दस्य मानशब्देन सह "गतिप्रादय" इत्य् अनेन तत्पुरुषस्मासं दर्शयति । न च मानस्य पश्चाद् इति [18अ] विवक्ष्तिअम्, येनानुरथादिवद् अव्ययीभावो भवेत् । अत्र हि मानम् एव पक्षधर्मग्रहणादेः पश्चाद्भावि विवक्षितम् । न मानस्य पश्चाद्भावि किञ्चिद् इति । अययीभावपक्षे तु न केवलं विवक्षितार्थक्षतिः, किन् त्व् अनु मानस्येति षष्ठी च न श्रूयेत । कस्य पश्चाद् इत्य् आह -- लिङ्गे ति । "षष्थ्य् अतसर्थप्रत्ययेन" [पाणिनि -- 2.3.30] इत्य् अनेन पश्चात् शब्दयोगे षष्ठीयम् । कथम् एतद् द्वयस्य पश्चाद्भाव्य् अनुमानम् इत्य् आह -- गृहीत इति । तुल्यबलत्वं तुल्यसामर्थ्यम् । प्रामाण्यासादनायेति प्रकरणवशात् । यथे त्यादिनैतद् एव समर्थयते । अनुमानस्य त्व् अर्थाविनाभावित्वं पारम्पर्येणा द्रष्टव्यम् । न चैवं प्रापणे प्रामाण्यावहे कश्चिद् विशेषः । परिच्छिन्नम् इत्य् अध्यवसितम् । एवं ब्रुवतः प्रत्यक्षम् अप्य् अध्यवसितम् एव सन्तानं प्रापयत् प्रमाणम् । इदम् अपि तथेति कथम् अस्य न तथात्वम् इति भावः । तुल्यबलप्रदर्शने ऽप्य् अयम् भावः । प्रत्यक्षस्यापि यद् अर्थाविनाभावित्वं तत् तदुत्पत्तिनिमित्तकम् एव । तच् चानुमान्स्यापि समानम् इति अर्थाव्यभिचारेणापि निमित्तिना समानेन भाव्यम् इति ।
[ध्प्र् प्.41]
न च एतन् मन्तव्यम् -- कल्पनापोढाभ्रान्तत्वम् चेद् अप्रसिद्धम्, किम् अन्यत् प्रत्यक्षय ज्ञानस्य रूपम् अवशिष्यते यत् प्रत्यक्षशब्दवाच्यं सद् अनूद्येतेति । यस्माद् इन्द्रियान्वयव्यतिरेकानुविधाय्यर्थेषु साक्षात्कारिज्ञानं प्रत्यक्षशब्दवाच्यं सर्वेषां प्रसिद्धम्, तद् अनुवादेन कल्पनापोढाभ्रान्तत्वविधिः ।
कल्पनाया अपोढम् अपेतं कल्पनापोढं । कल्पनास्वभावेन रहितम् इत्य् अर्थः । अभ्रान्तम्
अनेन "प्रत्यक्षम् एकं प्रमानम्" इति ब्रुवाणश् चार्वाकः , "अनुमानाद् अर्थनिश्चयो दुर्लभः । कनिष्ठं च तत्प्रमाणम्" इत्य् आचक्षाणो मीमांसकश् च निरस्तः । सर्वत्रायम् इति र् वाक्यार्थपरिसमाप्तौ । यत्र त्व् अर्थविशेषे वर्त्तते स कथ्यत एव ।

तत्रे त्यादि निर्धारणम् इत्यन्तं सुगमम् । केवलम् इन्द्रियज्ञानादिप्रत्यक्षानुयायित्वात् प्रत्यक्षत्वाख्या जातिर् या व्यवहारसिद्धा तयेति द्रष्टव्यम् ।
तत्रे त्य् अयम् एवं व्यवस्थिते सतीति वाक्योपन्यासे । एवं चानुवादविधिक्रमेण यद् अन्यद् अन्येन व्याख्यातम् "प्रत्यक्षम् इति संज्ञा कल्पनापोढत्वादि संज्ञ्य् एव । तेन संज्ञासंज्ञिसम्बन्धः प्रतिपाद्यते" इति तद् विप्रतिपत्तिनिराकरणे प्रस्तुते ऽप्रस्तुतम् । ततो ऽपव्याख्यानम् इति प्रकाशयति । यद् अप्य् अपरेण व्याख्यातं "प्रदेशान्तरप्रसिद्धयोः कल्पनापोढ्त्वाभ्रान्तत्वयोर् अनुवादेन प्रत्यक्षत्वं विधीयते" इति तद् अपि न चतुरस्रम् इति प्रतिपादयते । यतः प्रसिद्धे लक्ष्यलक्षणभावे लक्षणानुवादेन लक्ष्यं विधेयम्, अप्रसिद्धे तु लक्षणवाक्येन लक्षणम् एव विधेयम्, न लाक्ष्यम् इति न्याय इति । अन्योश् च पक्षयोर् यावान् समर्थनदूषणप्रकारस् तावान् अनेनैव विनिश्चयटीकायां स्वयं विवेचित इति नेहोच्यते । कथं प्रत्यक्षत्वानुवादेन कल्पनापोढत्वादिविधानम् इत्य् आह । प्रदिद्धम् इति । अनेन पूर्व प्रसिद्धस्य पश्चाच् छब्देनाभिधानम् अनुवाद इति दर्शयति । तद् एवं द्रष्टव्यम् इति विदधानो ऽज्ञातस्य शब्देन ज्ञापनं विधिर् इति दर्शयति ।
न चैतद् इत्यादीतिशब्दान्तं सुबोधम् ।
इन्द्रियान्वयव्यतिरेकानुविधायि ग्रहणं मानसाद्यसाधारणतया ऽनुपन्यासार्हम् अपि प्रत्यक्षशब्दप्रवृत्तिनिमित्तस्यार्थसाक्षात्कारित्वस्य यद् उपल्षकं तद् उपदर्शनार्थम् उपन्यस्तम् इति ज्ञातव्यम् । परिपाट्या प्रसिद्धत्वप्रदर्शनार्थं वा । तथा हि प्रथमं यत् तद् इन्द्रियान्वयव्यतिरेकानुविधायितया प्रत्यक्षं प्रसिद्धम् इति प्रतिपाद्यते । तदनु यदीदम् इन्द्रियाश्रितं ज्ञानं भवतां प्रत्यक्षं प्रसिद्धं तत्रापि प्रत्यक्षश[18ब्]ब्दप्रवृत्ताव् अर्थसाक्षात्कारित्वम् एव निमित्तं जानीते इति प्रतिपादते । तदनुवादेने ति ।
यत् कल्पनया ऽपोढं रहितं तत् कल्पनाया अपोढम् अपगतं भवतीत्य् अर्थाभेदं मत्वा कल्पनाया अपोढम् इति कर्त्तरि निष्ठाम् आह । न तु कल्पनापोढम् इति कर्त्तरि निष्ठैव । एवं हि तया रहितम् इत्य् आचार्य विवरणविरोधः स्यात् ।
[ध्प्र् प्.42]
अर्थक्रियाक्षमे वस्तुरूपे ऽविपर्यस्तम् उच्यते । अर्थक्रियाक्षमं च वस्तुरूपं सन्निवेशोपाधिवर्णात्मकम् । तत्र यन् न भ्राम्यति तद् अभ्रान्तम् ।
ननु किम् एकस्मिन् ज्ञाने ज्ञानान्तरसम्भवो ऽस्ति येनायं प्रतिषेधः शोभेत? कल्पनाज्ञाने ऽपि च कल्पनान्तरं नास्तीति तद् अपि कल्पनापोढं प्रसज्येतेति वचनावकाशं पश्यन् कल्पनास्वभावेने[30] त्यादिना ऽस्य विविक्षितम् अर्थं स्फुट्यति ।
__________नोतेस्__________
[30] धर्मोत्तरे सर्वत्र प्रतिषु `कल्पनास्वभावरहितम्ऽ इत्य् एव पाठो लभ्यते न तु `कल्पनास्वभावेन रहितम्ऽ इति ।
एवञ् च ब्रुवन् कल्पनाऽपोढम् इत्य् अत्र् आचार्ये लक्षणवाक्ये भावप्रधानो ऽयं कल्पनाशब्दः, तेन कल्पनात्वेन रहितम् इत्य् अर्थ इति दर्शयति । धर्मणा वा क्लपनाख्येन धर्मस्याभिलापसंसर्गयोग्यप्रतिभासत्त्वाख्यस्य निर्देशं दर्शयति । उभयथा ऽपि ` कल्पनास्वभावरहितम् इत्य् अर्थः ऽ इत्य् अस्य स्फुटीकरणस्य घटनात् । कल्पना च चक्ष्यमाणा ग्राह्या । एवं च शब्दार्थं स्फुटयता ऽनेन यद् आचार्य दिग्नागीय प्रत्यक्षलक्षणदूषणावसरे -- "कल्पना नामजात्यादियोजना । तेन यन् नाम्ना नाभिधीयते, जात्यादिना च न व्यपदिश्यते विषयभेदानुविधायि यज् ज्ञानं तत्प्रत्यक्षम्" [न्यायवा- पृ- 41] इत्य् अर्थं परिकल्प्य "अथ प्रत्यक्षशब्देन को ऽर्थो ऽभिद्दीयते । यदि प्रत्यक्षं कथम् अवाच्यम्? अथ न प्रत्यक्ष्म् अवाचकस् तर्हि प्रत्यक्षशब्दः । प्रत्यक्षत्वसमान्याभिद्धाने ऽपि यदि तद्व्यतिरेकि; न प्रत्यक्षम् उक्तम् । अथाव्यतिरेकि । कथं नोक्तम्? कल्पेनापोढशब्देनापि यदि तद् उच्यते कथं न व्याघातः? अथ नोच्यते तस्योच्चारणवैयर्थ्यम्? प्रत्यक्षं कल्पनाऽपोढ्म् इति च व्यपदिश्यते, न चाभिधेयम् इति को ऽन्यो भदन्ताद् कतुम् अर्हति" [न्यायवा- पृ- 41] इत्यादि यद् अवादीद् उद्द्योतकरस् तत् सर्वं कल्पनापोढशब्दार्थाऽपरिज्ञानविलसितं तस्य तपस्विन् इति सूचितम्
"इहाविषम्वादकत्वम् अभ्रान्तत्वम् अभिप्रेतम् । तेन द्विचन्द्रादिज्ञानं व्यवच्छिन्नम्, योगाचार मतम् अपि सगृहीतं भवती"ति पूर्वयाख्यानम् अवमन्यमानो ऽभ्रान्तशदस्यार्थम् आह -- अभ्रान्तम् इति । अभ्रान्तम् अर्थक्रियाक्षमे ऽविपर्यस्यस् तं यत् तद् उच्यते । न त्व् अविसंवादकम् इह ग्रहीतव्यम् इति बुद्धिस्थं पश्चाद् व्यक्तीकर्तव्यम् । अनर्थो ऽपि वस्तुतया ऽध्यवसीयत इत्य् अर्थक्रियाक्षम इति विशेषेषणम् । तर्ह्य् अर्थक्रियाक्षम इत्य् एवास्तु । न । अर्थक्रियाक्षमस्यैव वस्तुत्वज्ञापनार्थत्वात् । किं तद् अर्थक्रियाक्षमम्? किम् अव्यवि? अथान्यद् एवेत्य् आह -- अर्थक्रिये ति । सन्निवेशश् चतुरस्रत्वादिः प्रतिभासधर्मः । स उपाधिर् विशेषणम् यस्य वर्ण स्य वस्तुशब्दवाच्यस्य शुक्लादिपरमाणुसंघातस्य तथोत्पन्नस्य स तथा । सन्निवेशविशिष्टस्यैव वर्णस्यान्वयव्यतिरेकाभ्याम् अर्थक्रियायाम् उपयोगदर्शनाद् एतद् आह । स एवात्मा स्वभावो यस्येति तत् तथा । एतच् च चाक्षुषज्ञानविषयाभिप्रायेणोक्तं द्रष्टव्यम् । अन्यथा बह्वसमञ्जसं स्याद् इति । अनेन परमाणुप्रचयमात्रस्यैवार्थक्रि[19अ]याकारित्वं नावयविनस् तस्यासत्त्वाद् इति सूचितम् । न भ्राम्यति न विपर्यस्यति -- अन्यथाग्राहि न भवति ।
स्यात् एतत् -- परमाण्वर्थ एव भवन्मते बाह्यं वस्तु । सर्वं च विज्ञानं तेषु परमसूक्ष्मेषु
[ध्प्र् प्.43]
स्थूलाभासम् आजायते । तत् कथं किञ्चिद् अभ्रान्तं नामेति? अत्रोच्यते । एकसामग्रीजन्मनां परमाणुनां भिन्नदेशस्वभावनां तद्धेत्वभावतच्छायालोकपरमाणुस्वभावेनान्तरेण रहितत्वान् निरन्तरत्वेन प्रतिभास एव देशवितानावभासात्मा स्थौल्यं नापरं किञ्चित् । तत्र तथाभूतपरमाणुसमुदायनिष्ठं निर्विकल्पकं विज्ञानं कथं भ्रान्तं स्यात्? यद्य् एकैकं परमाणुम् अनेकदेशावष्टम्भेन गृह्णीयान् न पुनर् अनेकम् अनेकदेशावष्टम्भेन गृह्णत् । इतो ऽपि विपर्यस्येद् यदि भिन्नदेशान् परमाणून् एकदेशान् गृणीयात् । न चैतद् अस्ति, अणुमात्रकपिण्डप्रतिभासाभावात् । एकदेशग्रहणे हि पिण्डो भासेत अणुमात्रको न तु विततदेशः । न चानेकग्रहो भ्रमः । अतस्मिंस् तद् इति प्रत्ययस्य तादात्म्यात् । तद् अयम् अर्थः -- एकज्ञानग्राह्यास् तथाविधा बहवः परमाणवः स्थूल इति । एको ऽयं स्थूल इति तु तथाभूतप्रतिभासाश्रयेण व्यवस्थाप्यमानत्वात् प्रतिभासधर्म इत्य् उच्यते । न वस्तुधर्मः, प्रत्येकम् अपरिसमाप्तेर् इत्य् अलम् इह विस्त्रेण ।

ननु चैवम् अप्य् अन्योन्यम् असंसृष्टस्वभावान् प्रमाणून् संसृष्टान् गृह्णद् विज्ञानं कथम् इवाविपर्यस्तं नामेति । अत्राप्य् उच्यते । किं इदम् असंषृष्टत्वम् इष्टं भवता, यद् विपर्ययग्रहणाद् भ्रान्तं ज्ञानम् उपवर्ण्यते? किं नानारुपत्वम्, अथ नानादेशत्वम्, उत रूपेणैव विजातीयेन व्यवहितत्वम्, आहोस्विद् इन्द्रियान्तरग्राह्येणार्थेन व्यवकीर्णत्वम्? तत्र यदि नानारूपत्वम् असंसृष्टत्वम् इष्टं तदा न कश्चित् संसृष्टग्रहो नाम सम्भावति यतो ऽसंसृष्टा एव परमाणवः सर्वदा गृह्यन्ते । विततदेशस्वभावानाम् एव तेषाम् अवभासनात् । यदि ह्य् एकरूपा भासेरन्, अणुमात्रकः पिण्डो भासेत । न तु विततदेशभासनं स्यात् ।
अथ नानादेशत्वम् अस्ंसृष्टत्वम् अभिप्रेतं तद् अपि नतराम् संसृष्टग्रहो यतो नानादेशा नीला परमाणवो नानादेशा एव च गृह्यन्ते । एकदेशत्वभासने हि पिण्डो भासेताणुमात्रक इत्य् उक्तम् ।
अथ रूपेणैव विजातीयेन व्यवहितत्वम् असंसृष्टत्वं विवक्षितम्; तदा तु तद् असम्भवाद् एव न तद् विपरीतग्रहः । यतो रूपान्तरव्यवधानरहिता एव निरन्तरा नीलाः परमाणावः, भासन्ते च तथाभूता इति कथं विभ्रमः । मध्यवर्त्तिनो विजातीयस्यालोकादिपरमाणोर् अनुत्पत्तेर् अप्रतिभासनाच् च । अथ च्छायालोकपरमाणुर् उत्पद्यमानः केन प्रतिबद्धो यतो नोत्पद्यते । न च शक्यं वक्तुम् -- मध्ये परमाण्वोर् नास्ति परमाण्वन्तरस्यावकाश इति । यतो निरवयवः परमाणुः सर्वत्र सावकाश इति । सत्यम् एतत् । केवलं नावकाशाभावात् तद् अनुत्पत्तिर् अपि तु हेत्वभावात् । कस्माद् हेतुर् न भवति? स्वहे[19ब्]त्वभावाद् इत्य् अपर्यनुयोग एव ।
अथ भिन्नेन्द्रियग्राह्यस्पर्शादिव्यवकीर्णत्वम् असंसृष्टत्वम् अभिमतम् । तदा संसृष्टान् परमाणून् गृह्णाति विज्ञानम् इति इन्द्रियान्तरग्राह्यशून्यान् गृह्णातीत्य् उक्तं भवति । तथा च न किञ्चिद् अनिष्टम् । तथा हि यदि नामेन्द्रियान्तरग्राह्यस्पर्शादिर् न गृह्यते तथापि नीलरूपं तावत् स्वदेशस्वभावस्थितं गृह्यत एव । न च भिन्नेन्द्रियग्राह्यशून्यानां स्वरूपं गृह्यमाणं विपरीतं गृहीतं भवति । देशकालाकाराणाम् एकस्याप्य् अविपर्यासात् । न चाग्रहो भ्रम इति । ननु च प्रमाणूनाम् अन्तराण्याकाशात्मकानि सन्ति । न च ते सान्तराः प्रतिभासन्ते । तत् कथम् अविपर्यास इति । अथ किम् इदम् आकाशं नाम । यदि रूपान्तरात्मकं तन् नास्तीत्य् उक्तम् । अथापि स्पर्शाद्यात्मकं तत्राप्य् उक्तम् । अथ सप्रतिघद्रव्याभावः । एवम् अप्य् अवस्त्व् आकाशम् । ततश् चाकाशम् अन्तरम् इत्य् अन्यवस्त्व् अन्तरं न किञ्चिद्
[ध्प्र् प्.44]
एतच् च लक्षणद्वयं विप्रतिपत्तिनिरासार्थम्, न त्व् अनुमाननिवृत्त्यर्थम् । यतः

अन्तरम् इत्य् उक्तं स्यात् । तथा निरन्तराः परमाणव इत्य् उक्तं भवति । ततो निरन्तराश् च परमाणवो निरन्तरा एव भासन्ते । तत् किम् उच्यते ऽन्तरम् आकाशम्, न च तत् प्रतिभासत इति? यत् खल्व् अत्यन्तम् असत् शशविषाणप्रख्यं तत् कथं भासेत?
नन्व् आकाशात्मनो ऽप्य् अन्तरस्याभावे रूपसंसर्गः परमाणूनां प्रसज्येत । नैष दोषः । नास्माभिर् उच्यते रूपम् एकं परमाणूनां देशो नैक इति । अपि तु भिन्नरूपदेशा उत्पन्ना मध्यवर्त्तिविजातीयरूपरहितास् तथैव भासन्त इति तत् कथं रूपसंसर्गप्रसङ्गः?
ननु च रसादिदेशे नीलरूपं प्रत्भासते । ततश् चातद् देशं तद्देशतया गृह्णद् विज्ञाणं कथम् अभ्रान्तं नामेति? तत्राप्य् उच्यते । यदा देशः प्रतिभासते तदा तस्मिन् देशे प्रतिभासमाने यः प्रतिभासते ऽर्थः स देशविशिष्ट उच्यते । यदि च रसादिश् चक्षुर्विज्ञाणे प्रतिभासेत तदा तद्देशव्यापिनि नीले गृह्यमाणे स्याद् भ्रान्तं विज्ञानम् । न च तत्र रसादिः प्रतिभासते, इन्द्रियान्तरग्राह्यस्येन्द्रियान्तरज्ञाने प्रतिभासायोगात् । तत् कुतस् तद्देशनीलग्रहणम्? नीलम् एव हि भासमानं देशः नापरो देशः कश्चिद् आभासते । इन्द्रियान्तरग्राह्याप्रतिभासे च शुद्धरूपप्रतिभासः । शुद्धरूपप्रतिभास एव च निरन्तरप्रतिभासः । ततो निरन्तरा नीलाः परमाणवो गृह्यन्ते । तस्मात् स्वदेशस्थायिनो नीलपरमाणवः स्वरूपेणैव गृह्यन्ते । ततो देशकालाकाराणाम् एकस्याप्य् अपरित्यागान् नीलाभासं विज्ञानम् अभ्रान्तम् एव । सर्वं चैतद् ग्राह्यतत्त्वं विनिश्चये धर्मोत्तरेणै व निस्तरेण निरूपितम् इति नेह प्रतन्यते ।
नन्व् एवम् अभ्रान्तत्वे योगाचार मतम् असङ्गृहीतं स्यात् । ग्राह्यग्राहकाकारतया प्रवृत्तेः सर्वस्यैवासर्वज्ञविज्ञानस्यालम्बने भ्रान्तत्वात् । तत् कथं पूर्वव्याख्यानावज्ञा न क्रियत इति चेत् । उच्यते । न योगाचारनये लक्षणम् इदम्, किन् तु सौत्रान्तिकनय एव । न च सर्वं विज्ञानवादे योजयि[20अ]तुं शक्यम् । "तस्य विषयः स्वलक्षणम्" इत्यादेर् अशक्ययोजनत्वात् । तस्मिन् किं प्रत्यक्षलक्षणम् इति चेत् । कल्पनापोढत्वम् एव । द्विचन्द्रादिनिरासः कथम् इति चेत् सम्यग्ज्ञानं सद् एवम् इत्य् अभिप्रायाद् अदोषः । सौत्रान्तिकनये ऽपि किं नैवं? ततश् चाभ्रान्तग्रहणम् अतिरिच्यत इति चेत् । सत्यम् एतत् । केवलं विप्रतिपत्तिनिरासार्थं वर्णयिष्यत इति । "इहाभ्रान्तपदं तैमिरिकादिज्ञानव्यवच्छेदार्थम् । कल्पनाऽपोढग्रनणं तु अनुमाननिरासार्थम् इति" यत् पूर्वकैर् व्यख्यातं तद् व्यक्तम् एवापहस्तयन्न् आह -- एतच् च -- इति । चो ऽवधारणे । विप्रतिपत्तिनिरासार्थम् इत्य् अतः परो द्रष्टव्यः । पूर्वेषाम् अभिप्रेतं प्रतिषेधति । न त्व् इति भेदार्थः । ननु किम् उच्यते न त्व् अनुमाननिवृत्त्यर्थम् इति? यावतैकैकेनानुमाननिवर्त्तनाद् इति चेत् । उच्यते । लक्षणद्वयम् इति द्वयोर् उपादानं विप्रतिपत्तिनिराकरणार्थम्, एकैकेनानुमानव्यवच्छेदसिद्धेर् इति समुदितफलम् एतत् । ततो नानुमाननिवृत्त्यर्थम् इति नानुमाननिवृत्त्यर्थम् एवेति सावधारणं निषिध्यते । यदि तु विप्रतिपत्तिनिराचिकीर्षया क्रियमाणम् अनुमानं व्यवच्छिनत्ति न तदर्थम् एव द्वयम् इति ।
ननु नेदं लक्षणद्वयम् अनुमानव्यवच्छेदार्थं पूर्वकैर् व्याख्यातम् । किन् तु कल्पनाऽपोढ ग्रहणम् एव । अभ्रान्त ग्रहणं तु द्विचन्द्रादिज्ञानव्यवच्छेदार्थम् । तत् कथं ` न त्व् अनुमाननिवृत्त्यर्थम् ऽ तथ
[ध्प्र् प्.45]
कल्पनापोढ ग्रहणेन एव अनुमानं निवर्तितम् । तत्र असत्य् अभ्रान्त ग्रहणे गच्छद्वृक्षदर्शनादि प्रत्यक्षम् कल्पनापोढत्वात् स्यात् । ततो हि प्रवृत्तेन वृक्षमात्रम् अवाप्यते इति संवादकत्वात् सम्यग्ज्ञानम्, कल्पनापोढत्वाच् च प्रत्यक्षं इति स्याद् आशङ्का । तन्निवृत्त्यर्थम् अभ्रान्त ग्रहणम् । तद् धि भ्रान्तत्वात् न प्रत्यक्षम् । त्रिरूपलिङ्गजत्वाभावाच् च न अनुमानम् । न च प्रमाणान्तरम् अस्ति । अतो गच्छद्वृक्षदर्शनादि मिथ्याज्ञानम् इति उक्तं भवति ।
`यतः कलप्नापोढ ग्रणेनैवानुमानं निर्वर्त्तितम्ऽ इत्य् उच्यत इति चेत् । सत्यम् । केवलं यद्य् अभ्रान्त ग्रहणं व्यवच्छेदार्थम् एव तदानुमानव्यवच्छेदार्थम् एव युज्यते । न तु द्विचन्दादिज्ञाननिरासार्थम्, तस्य सम्यग्ज्ञानाधिकाराद् एव व्यवच्छेदसिद्धेः । तथा हि द्विदिधं सम्यग्ज्ञानम् इति प्रस्तुत्य लक्षणम् इदं विधीयमानं तद् अधिकारेणैव विहितं भवति ।
नन्व् एवं सति कल्पनापोढ ग्रणेनैव निवृत्ते अभ्रान्त ग्रहणम् अतिरिच्यते । अयम् अपरस् तेषां दोषो ऽस्ति । न तु द्विचन्द्रादिज्ञाननिवृत्त्यर्थम् इदं युज्यत इति धर्मोत्तर स्याशयः । यद्य् एतद् अर्थम् अभ्रान्त ग्रहणं न भवति तर्हि किम् अनेनेत्य् आह -- तत्र -- इति ।
ननु गच्छद्वृक्षदर्शणादेः कल्पनापोढस्यापि विसंवादकत्वेन सम्यग्ज्ञानत्वाभावाद् एव व्यवच्छेदे सिद्धे किम् एतद् अर्थेन् आभ्रान्त पदेनेत्य् आह -- ततो हि -- इति । वृक्षमात्रम् इति गमनेनाऽनवच्छिन्नम् । इति हेतौ । अस्तु सम्यग्ज्ञानम्, प्रत्यक्षसम्भावना त्व् अस्य कथम्? न हि यद् एव सम्यग्ज्ञानम् तद् एव प्रत्यक्षम् इत्य् आशङ्क्य पूर्वोक्तम् एव प्रसङ्गेनाह -- कल्पना -- इति । चः संवादकत्वापेक्षया समुच्चयार्थः । इति करणाशङ्कायाः स्वरूपं दर्शयति । आशङ्का चेयम् ईदृशी यौक्ती द्रष्टव्या । यद् वा चो यमादर्थे । .................... असत्य् अभ्रान्त ग्रहणे स्याद् इयम् आशङ्का । यदि सत्य् अपि स्यात् तदा किम् अनेनेत्य् आह -- तन्निवृत्त्यर्थम् इति शङ्कानिवृत्त्यर्थमात्रम् । अनेन एतद् दर्शति -- यद्य् अपि परमार्थतः सम्यग्ज्ञानाधिकाराद् एवमादिज्ञानं व्यवच्छेद्यते । तथाप्य् अंशसंवादवादिनाम् आहत्य विप्रतिपत्तिनिराकरणार्थं क[20ब्]र्त्तव्यम् एव् आभ्रान्त ग्रहणम् इति ।
स्याद् एतत् -- किम् आभ्रान्त ग्रणेनाधिकं कृतम् । येनैतद् विप्रतिपत्तिनिराकरणार्थं भवतीत्य् आशङ्कायां दूरस्थितम् अपि गच्छद्वृक्षदर्शनादि मिथ्याज्ञानम् इत्य् उक्तं भवती ति योजनीयम् । इति ना उक्तेनाकारं कथयति । उक्तं प्रकाशितं भवत्य् अभ्रान्त ग्रहणेनेति प्रकरणात् । कुतो मिथ्याज्ञाणं तद् उक्तम् इत्य् अपेक्षायां प्रथमम् उक्तं तद् इति योजनीयम् । हि र् यस्मात् ततो ऽयम् अर्थः -- यस्मात् तद् गच्छद्वृक्षदर्शनादिभ्रान्तत्वात् न प्रत्यक्षम्, अतो मिथ्याज्ञानम् इत्य् अभ्रान्त ग्रहणेनोक्तं भवति । भवतु भ्रान्तत्वाद् अप्रत्यक्षम्, अनुमानरूपत्वे त्व् अनिर्वर्त्तते कथम् अस्य तथात्वम् इत्य् आशङ्कायां योज्यम्, चो यस्मान् नानुमानम् । कथं नानुमानम्? त्रिरूपलिङ्गजवाभावात् । यद्य् एवम् अन्यत् प्रमाणम् भविष्यति, तथापि कथं मिथ्याज्ञानम् इत्य् आशङ्कायां वाच्यम् । चो यस्मान् ना भ्यां प्रमाणान्तरम् अस्ति । अतः प्रत्यक्षत्वादिस्वाभावत्वाभावात् । यद् वा ऽतो ऽभ्रान्त ग्रहणाद् इत्य् अर्थः ।

नन्व् अनुमानादिरूपनिराकरणे यद्य् अभ्रान्त ग्रहणस्य व्यापारो भवेत्, भवेद् एव मिथ्याज्ञानत्वाभिधाने सामर्थ्यं यावतो(-ता) यथा स्वयम् उपपत्त्यैवानुमानादिभावो व्युदस्तस् तत् कथम् अभ्रान्त
[ध्प्र् प्.46]
यदि मिथ्याज्ञानं कथं ततो वृक्षावाप्तिर् इति चेत्, न ततो वृक्षावाप्तिः । नानादेशगमी हि वृक्षस् तेन परिच्छिनः । एकदेशनियतश् च वृक्षो ऽवाप्यते । ततो यद्दृशो गच्छद्वृक्षो दृष्टः, तद्दृशो न अवाप्यते । यद्देशश् च अवाप्यते स न दृष्ट इति न तस्मात् कश्चिद् अर्थो ऽवाप्यते । ज्ञानान्तराद् एव तु वृक्षादिर् अर्थो ऽवाप्यते । इत्य् एवं अभ्रान्त ग्रहणम् विप्रतिपत्तिनिरासार्थम् ।
तथा अभ्रान्त ग्रहणेन अप्य् अनुमाने निवर्तते कल्पनापोढ ग्रहणं विप्रतिपत्तिनिराकरणार्थम् ।
ग्रहणेन तन् मित्याज्ञानम् इत्य् उक्तं भवतीय् उच्यते । सत्यम् । किन् त्व् अनुमानादिरूपतानिराकरणहेतुना दत्तसाहायकेन सता ऽभ्रन्त ग्रहणेन तन् मिथ्याज्ञानम् इत्य् उक्तं भवतीत्य् उक्तम् इति बोद्ध्यव्यम् ।
ननु प्रत्यक्षलक्षणशून्यस्याप्रत्यक्षतैव दर्शयितव्या, तत् किम् अनुमानादिरूपतानिराक्रणम् अप्रकृतं कृतम् इति चेत् । अप्रत्यक्षत्वप्रदर्शने प्रसङ्गेन कृतम् इति का क्षतिः?
यदी त्यादि सुगमम् । केवलं तत इति गच्छद्वृक्षदर्शनरूपान् मिथ्याज्ञानात् परिच्छिन्नो दृष्टः । वृक्ष इति वृक्षत्वेन प्रथनाद् उच्यते न त्व् असौ तथा ऽवभासमानो वृक्ष एव । एकदेशनियत इति प्राप्यमाणपरमार्थवृक्षाभिप्रायेणोक्तम् । चो हेतौ । ततस् तस्माद् अनन्तरोक्तात् कारणात् ।
ननु ततो ऽपि प्रवृत्तस्यास्ति च्छायाद्यर्थक्रियाकारिरूपस्य पादपस्य प्राप्तिस् तत्कथम् अपह्नूयत इति? आह -- ज्ञानान्तराद् -- इति । तद्देशोपसर्पणजन्मनः स्थितवृक्षप्रतिभासात्मनो ज्ञानान्तरात् । तत्र मिथ्याज्ञानम् अर्थिनः प्रवृत्तिमात्रहेतुर् न तु वृक्षप्रापकम् इति संक्षेपार्थः । यदि मिथ्याज्ञानत्वप्रतिपादनार्थम् अभ्रान्त ग्रहणं न तर्हि विप्रतिपत्तिनिराकरणार्थम् इत्य् आह -- एवम् इति । एवम् इत्य् अनेनानन्तरोक्तस्योपपत्तिप्रकारस्याकारो दर्शितः । ततो ऽयम् अर्थः -- एवम् अनन्तरोक्तेन युक्तिप्रकारेण । एतादृशम् अपि प्रत्यक्षम् इति विरुधायाः प्रतिपत्तेर् निरासार्थम् अभ्रान्त ग्रणाम् इति । यद्य् एवं अभ्रान्त ग्रहणम् एव विप्रतिपत्तिनिराकरणार्थम् । न तु कल्पनापोढ ग्रहणं । उक्तं च द्वयम् एतत् तन्निरासार्थम् इत्य् आशङ्क्याह -- तथे ति । यथा ऽभ्रान्त पदं तथेदम् इत्य् अर्थः ।
विप्रतिपत्तिनिराकरणार्थम् इति प्रत्यक्षपृष्ठभाविनो ऽपि विकल्पस्य व्यावहारिकलोकाध्यवसायेनाभ्रान्तस्य यत् प्रत्यक्षत्वं कैश्चिद् इष्टम्, तन्नि[21अ]राकरणार्थम् इति द्रष्टव्यम् । तत्रासति कल्पनापोढ् ग्रहणे घटो ऽयम् इत्यादिज्ञानं प्रत्यक्षम् अभ्रान्तत्वात् स्यात् । ततो हि प्रवृत्तेन घटादिर् अर्थः प्राप्यत इति संवादकत्वान् सम्यग्ज्ञानम् अभ्रान्तत्वाच् च प्रत्यक्षं स्यादा[द् इत्य् आ]शङ्का । तन्निवृत्त्यार्थम् । कल्पनात्मकत्वान् न प्रत्यक्षम्, त्रिरूपलिङ्गजत्वाभावाच् च नानुमानम् ।
[ध्प्र् प्.47]
अभ्रान्तम् हि अनुमानं स्वप्रतिभासे ऽनर्थे ऽर्थाध्यवसायेन प्रवृत्तत्वात् [प्विन् इइ 2,8] । प्रत्यक्षम् तु ग्राह्ये रूपे न विपर्यस्तम् ।
न त्व् अविसंवादकम् अभ्रान्तम् इह ग्रहीतयम् । यतो सम्यग्ज्ञानम् एव प्रत्यक्षम्, न अन्यत् । तत्र सम्यग्ज्ञानत्वाद् एव अविसंवादकत्वे लब्धे पुनर् अविसंवादकग्रहणम् निष्प्रयोजनम् एव । एवं हि वाक्यार्थः स्यात् -- प्रत्यक्षाख्यम् यद् अविसंवादकं ज्ञानं तत् कल्पनापोढम् अविसंवादकं च इति । न च अनेन द्विरविसंवादकग्रहणेन किञ्चित् । तस्माद् ग्राह्ये ऽर्थक्रियाक्षमे वस्तुरूपे यद् अविपर्यस्तम् तद् अभ्रान्तम् इह वेदितव्यम् ।
कीदृशी पुनः कल्पना इह गृह्यते इत्य् आह --
अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना इ-5
[31] अभ्लाप इत्यादि । अभिलाप्यते ऽनेन इत्य् अभिलापः वाचकः शब्दः । अभिलापेन संसर्गः अभिलापसंसर्गः एकस्मिन् ज्ञाने ऽभिधेयाकारस्य अभिधानाकारेण सह ग्राह्याकारतया
__________नोतेस्__________
[31] अह्बिलापेति -- ए.प्. `अभिलापेत्यादिऽ इति नास्ति -- अ.ब्.ह्.न्.
न च प्रमाणातरम् अस्ति । अतो घटो ऽयम् इत्यादिज्ञानम् असम्यग्ज्ञानं भवतीति पूर्ववद् वचनीयं योजनीयं च ।
ननु च संवादिनो ऽस्य कथम् असम्यग्ज्ञानत्वम्? यदि नाम विसंवादकत्वलक्षणम् असम्यग्ज्ञानत्वं नास्ति तथापि गृहीतार्थग्राहिणो ऽस्यापूर्वाधिगमाभावात् करणार्थाभावरूपम् असम्यग्ज्ञान्त्वं स्मरणादेर् इव किं नानुमन्यते? जात्यादिविशिष्टवस्तुग्राहिणो ऽस्यापूवार्थाधिगमो ऽस्तीति चेत् । इदम् अन्यत्र विस्तरेण निरस्तम् इत्य् आस्तां तावद् इहेति । स्वप्रतिभास् अ इत्यादेर् ग्रन्थस्य तु सत्यम् अर्थं विषयविप्रतिपत्तिनिराकरणवाक्यविवरणं विवेचयिष्यन्तो विवेचयिष्यामः । सम्प्रति यद् दोषदर्शनात् पूर्वेषां व्याख्यानम् अवमन्यान्यथा ऽयम् अभ्रान्तार्थं व्याचष्टे तं कण्ठोक्तम् कर्त्तुं तेषाम् अभिमतम् अभ्रान्तार्थं पूर्वं सामर्थ्यान् निषिद्धम् अपि साक्षान् निषेधन्न् आह -- न तु -- इति । तु र् अतिशये । यत इत्यादि वेदितव्यम् इत्य् अन्तं सुबोधम् ।
यदि जात्यादियोजनात्मिका कल्पना । सा जात्याद्यभावाद् एव न सम्भवति । अथ ग्राह्यग्राहकभावेन प्रवर्त्तमानं ज्ञानं कल्पना तदा सर्वम् असर्वज्ञज्ञाणं तथा प्रवृत्तम् इति किम् अवशिष्यते यद् अविकल्पकं स्याद् इत्य् अभिप्रेत्य कल्पनायाः स्वरूपं पृच्छति -- कीदृशी ति सामाण्यतः पृच्छति । पुनर् इति विशेषतः । इहे ति प्रत्यक्षलक्षणे ।
अभिलप्यते उच्यते ऽनेनेत्य् अभिलापो वाचकः शब्दः । स च सङ्केन्त -- मिलनम् ।
[ध्प्र् प्.48]
ततो यदा एकस्मिञ् ज्ञाने ऽभिधेयाभिधानयोर् आकारौ संनिविष्टौ भवतस् तदा संसृष्टे अभिधानाभिधेये भवतः । अभिलापसंसर्गाय योग्यो अभिधेयाकाराभासो यस्यां प्रतीतौ सा तथा उकता ।
तत्र काचित् प्रतीतिर् अभिलापसंसृष्टाभासा भवति । यथा व्युत्पन्नसङ्केतस्य घटार्थकल्पना घटशब्दसंसृष्टावभासा भवति । काचित् त्व् अभिलापेन असंसृष्टा अपि अभिलापसंसर्गयोग्याभासा भवति । यदा बालकस्य अव्युत्पन्नसङ्केतस्य कल्पना । तत्र अभिलापसंसृष्टाभासा कल्पना इत्य् उक्ताव् अव्युत्पन्नसङ्केतस्य कल्पना न संगृह्येत । योग्यग्रहणे तु सा अपि संगृह्यते । यद्य् अप्य् अभिलापसंसृष्टाभासा न भवति तदहर्जातस्य बालकस्य कल्पना, अभिलापसंसर्गयोग्यप्रतिभासा तु भवत्य् एव । या च अभिलापसंसृष्टा सा अपि योग्या । तत उभयोर् अपि योग्य ग्रहणेन संग्रहः ।

कालेन दृष्टेन रूपेणैक्यम् आपादितो ऽन्तर्जल्पाकारस् तथा प्रतिभासमानो वाच्यः । संसर्ग पदेन सार्धम् अस्य विग्रहं प्राह -- अभिलापेन -- इति । अभिलापेन वादकेन संसर्गः सम्बन्धः । "तृतीये"ति [पाणीनि -- 2.1.30.] योगविभागात् समासः । अथ वा ऽर्थकथनम् इदं कृतम्, ससासस् तु षष्ठीतत्पुरुषः कार्यः । कथं पुनर् वाच्यवाचकयोः संसर्गः सम्भवतीत्याह -- एकसिमिन् इति । ग्राह्याकारतया मिलनम् इत्य् एकज्ञानग्राह्याकारतया ऽवस्थानम् इति वाच्यम् । अर्थाकारश् चेद् वाचकशब्दाकारेण सहैकज्ञानारूढो भवति तदा वाच्यवाचकयोः संसर्ग इति यावत् । भवत्व् अभिधानाभिधेयाकारयोर् एकज्ञानारोहः । किम् एतावता ऽभिधानाभिधेये वाच्यवाचकतया सम्बद्धे भवतः, येन तद् ग्राहि विज्ञानं सविकल्पकं स्याद् इत्याशङ्क्योपसंहारव्याजेनाह -- तत इति । यदाकारौ संनिनिविष्टौ प्रतिभासितौ भवतस् तदा संसृष्टे तथातया सम्बद्धे भवतः । एकस्मिन् ज्ञाने विशेष्यविशेषणत्वेनाकारप्रतिभास एवानयोर् वाच्यवाचकत्वग्रहणम् इति भावः । अभिलापसंसर्गाय योग्य इत्य् अर्थकथनम् इदं [21ब्] कृतम् । समासस् त्व् अभिलापसंसर्गस्य योग्य इति कर्त्तव्यः । तादर्थ्यचतुर्थ्याः प्रकृतिविकार एव समासात् ।
यद्य् एवम् अभिलापसंसृष्टप्रतिभासेत्य् एवास्तु किं योग्यग्रहणेनेत्य् उपालम्भं पश्यन् यथा ऽस्य साफल्यं तथा दर्शयितुम् उपक्रमते -- तत्रे ति । वाक्योपन्यासे चैतत् । अभिलापसंसृष्ट आभासो यस्याः सा तथा । कस्येवेत्य् आह -- यथे ति । `इदम् अस्य वाच्यम् इदम् अस्य वाचकम्ऽ इत्य् उभयांशावलम्बिज्ञानं
[ध्प्र् प्.49]
असत्य् अभिलापसंसर्गे कुतो योग्यता अवसितिर् इति चेद् । अनियतप्रतिभासत्वात् । अनियतप्रतिभासत्वं च प्रतिभासनियमहेतोर् अभावात् । ग्राह्यो ह्य् अर्थो विज्ञानं जनयन् नियतप्रतिभासं कुर्यात् । यथा रूपं चक्षुर्विज्ञानं जनयद् नियतप्रतिभासं जनयति । विकल्पविज्ञानं त्व् अर्थान् न उत्पद्यते । ततः प्रतिभासनियमहेतोर् अभावाद् अनियतप्रतिभासं ।
सङ्केतः , शब्दार्थप्रयोगप्रतिपत्त्योः कार्यकारणभावरूपो वा । व्युत्पन्नो ज्ञातः संकेतो येन स व्युत्पन्नसंकेतः । तस्य यदि सर्वैव तादृशी तदा काचिद् इति न वाच्यम्, योग्य ग्रहणेअन् च न किञ्चिद् इत्य् आह -- काचिद् इति । तु ः व्युत्पन्नसंकेतप्रतीतेर् बालप्रतीतिं भेदवतीम् आह । कस्य सदृशी सम्भवतीत्य् आह -- यथे ति । बालक इत्य् अल्पार्थे कन् । यद्य् अभिलापसंसृष्टाभासेति कृते ऽपि तथाभूतायाः प्रतीतेः सङ्ग्रहः, कृतं तर्हि योग्य ग्र्हणेनेत्य् आह-- तत्रे ति । तयोर् मध्ये ऽव्युप्तन्नसंकेतस्य या सा न सङ्गृह्यते । कदा तु सङ्गृह्यतेत्य् आह -- अभिलापे ति । अर्थप्रदर्शनत्वाद् अस्य् आभिलापसंसृष्टाभासा प्रतीतिः कल्पनेत्य् उक्तौ वचने सतीत्य् अर्थः । इति नोक्तेर् आकारः कथितः । असति तावद् अयं दोषः । यदि सत्य् अपि योग्यग्रहणे तदसंग्रहस् तथापि किं तेनेत्य् आह -- योग्ये ति । तु र् अकरणावस्थाया विशेषम् आह । न केवलं तत्संसृष्टाभासेत्य् अपि शब्दः । तथाविधबालस्य च कल्पना ऽनुमानसिद्धा । तेन सा ऽवश्यं ग्राह्येति भावः । कथं पुनर् योग्यग्रहणेन तस्याः सङ्ग्रह इत्य् आह -- यद्य् अपी ति । निपातसमुदायो ऽयं विशेषाभिधानार्थाभ्युपगमे सर्वत्र । अह्नि जातं जन्मास्येति तथा । अह्नि वा जात उत्पन्न इति तथा । अहर्जातस्य् ऐतदहर्जातस्ये ति द्रष्टव्यम् । यद्य् एवं व्युत्पन्नसङ्केतस्य सा कथं सङ्गृह्यत इत्य् आह -- या चे ति । च पूर्वापेक्षया समुच्चये । यदि सा तत्संसर्गयोग्या न स्यात् कथं तत्संसर्गम् अनुभवेद् इति भावः । यत एवं तस्मात् ।

ननु प्रतीतप्रतिभासस्य तत्संसर्गानुभवान्यथानुपपत्त्या योग्यता कल्पनीया । न च बालकल्पनाया अभिलापसंसर्गो ऽस्ति, संकेताव्युत्पत्तेः । तत् कथं योग्यता कल्प्यताम् इत्य् अभिसन्धिना असती त्यादिना पूर्वपक्षम् उत्थापयति । एवं चोदयित्वा ऽनुमानतः सा सिद्ध्यतीति मन्वानः साधनम् आह -- अनियते ति । प्रतिनियताकारत्वाभावाद् इत्य् अर्थः । प्रकरणापन्ने साध्ये हेतौ चाभिहिते सुकरः साधनप्रयोग इति प्रयोगं न जगौ । एवम् उत्तरत्रापि हेतुमात्राभिधाने ऽस्यायम् अभिप्रायः प्रत्येतव्यः । प्रयोगस् त्व् एवम् इह कर्त्तव्यः -- यो ऽनियतप्रतिभासो विकल्पः, स शब्दसंसर्गयोग्यो यथाच्छात्रविकल्पः । बालस्य विकल्प एव कुतः सिद्धो येनेदम् उत्तराणि चैतदङ्गानि साधनानि ना[22अ]श्रयासिद्धानि स्युर् इति? नैष दोषः । अनुमानसिद्धं विकलपं धर्मिणं कृत्वा ऽमीषाम् उपादानस्याभिप्रेतत्वात् । तत् पुनर् अनुमानम् अनेन सुज्ञातत्वान् नोपन्यस्तम् इति वेदितव्यम् । एवं तद् द्रष्टव्यम् -- या नियमवती प्रवृत्तिः क्वचित् प्राणिनः, सा विकल्पपूर्विका । यथा व्युत्पन्नसङ्केतव्यवहारस्यान्नादिविषया प्रवृत्तिः । नियमवती च तदितरपरिहारेण स्तनादौ प्रवृत्तिर् बालकस्येति कार्यहेतुः । सा च तादृशी प्रवृत्तिः प्रत्यक्षाधिगतेति स्वसिद्धौ न प्रमाणान्तरं
[ध्प्र् प्.50]
कुतः पुनर् एतद्विकल्पो र्थान् न उत्पद्यत इत्य् अर्थसन्निधिनिरपेक्षत्वात् । बालो ऽपि हि यावद् दृश्यमानं स्तनं स एव अयम् इति पूर्वदृष्टत्वेन न प्रत्यवमृशति तावन् न उपरतरुदितो
प्रयोजयति । न पुनर् अनेन बालो ऽपि ही त्यादिना विकल्पसाधनम् उपन्यस्तम् इति मन्तव्यम्, यथा ऽन्यैर् व्याख्यातम्, अर्थसन्निधिनिरपेक्षत्वसिद्धिप्रदर्शनोन्मुखत्वात् तस्य ग्रन्थस्येति ।
ननु च परोक्षत्वात् तस्यानियतप्रतिभासत्वसन्देहे सन्दिग्धासिद्धो ऽयं हेतुर् इति । आह -- अनियतप्रतिभासत्वं च -- इति । चो यस्माद् इत्य् अस्मिन्न् अर्थे । प्रतिभासस्य ज्ञानाकारस्य नियमः -- अर्थाकार एवायं शब्दाकार एव वा, रूपाकार एवायं रसाकार एव वेत्यात्मको वा तस्य हेतुर् जनकः तस्माद् । अभावाद् अनुत्पादात् । भवनं भाव उत्पादस् तन्निषेधाद् अभावो ऽनुत्पाद एव । प्रतिभासनियमहेतोर् अभावाद् -- अविद्यमानत्वाद् इति व्याखाने तु यथाश्रुति व्यधिकरणासिद्धो हेतुः स्यात् । अन्यथा हेतुवचने तु क्रियमाणे तत्रार्थे हेतुर् अनभिहित एव स्यात् । साधनस्वरूपमात्रकथने चात्र धर्मोत्तर स्य शैली लक्ष्यते । कुतः पुनर् एतद् विकल्पो ऽर्थान् नोत्पद्यते इति च पूर्वपक्षः सूत्थानो न स्यात् । मृत्वा शीर्त्वा यथा कथञ्चित् सर्वस्यास्य समर्थने च वक्तुर् अकौशलं स्याद् इति ।
ननु प्रतिभासनियमहेतुर् यः कश्चन स च तत्र भविष्यति । अथ विशिष्टः । वक्तव्यस् तदा ऽसौ यतः सकाशाद् अनुत्पादात् तथात्वं ज्ञातव्यम् इत्य् आह -- ग्राह्य इति । यद्य् अर्थ इत्य् एव क्रियते तदेन्दिर्यम् अप्य् अर्थो ज्ञानं जनयतीति तस्याप्य् आकारनियामकत्वं स्यात् । न चापोद्धारद्वारेण तस्याकारविशेषहेतुत्वं व्यवस्थापितम्, अपि तु विषयग्रहणप्रतिनियमहेतुत्वम् इति ग्राह्यग्रहणम् । ग्राह्य आलम्बनः । यद्य् एवं ग्राह्य इत्य् एवास्तु । अपोहस्यापि ग्राह्यता ऽस्ति । न चाऽसौ प्रतिभासनियमहेतुः । अतस् तन्निवृत्त्यर्थम् अर्थो ऽर्थक्रियासमर्थ इति कृतम् । कुर्यात् कर्तुं शक्नोति । अपोद्धारेण तत्रैव तच्छक्तेर् अवधृतत्वात् । अत्र निदर्शनं यथे ति । नियतप्रतिभासम् इति शब्दाकारपरिहारेणार्थाकारधार्येव रसाकारपरिहारेण रूपाकारधार्येव चेति । यद्य् एवं बालविकल्पो ऽपि अर्थाद् एवोत्पत्स्यते, ततो नियतप्रतिभासो भविष्यतीत्य् आशङ्क्य पूर्वोक्तम् एव प्रसङ्गेन स्मारयति -- विकल्पे ति । तु र् उदाहृताद् विज्ञान भिनत्ति । एवं तु प्रयोगः कार्यः -- यद् अर्थान् नोत्पद्यते ज्ञानं तन्नियतप्रतिभासं न भवति । यथा व्युत्पन्नव्यवहारस्यातीतादिस्मरणम्, रूपरसादिसङ्कलनाज्ञानं वा । नोत्पद्यते चा[22ब्]र्थाद् बालकस्य विकल्प इति व्यापकानुपलब्धिः ।
ननु बालविकल्पस्य परोक्षत्वात् तत् उत्पत्तिर् अनुपत्तिर् वा न शक्यते निश्चेतुम् । अतो ऽयं सन्दिग्धासिद्धो हेतुर् इत्य् अभिप्रेत्य चोदयति कुत इति सामान्यहेतोः प्रश्नः । पुनर् इति विशेषस्य । विदर्भ्योक्त्या चायं क्षेपे किमः प्रयोगः । तेन न कुतश्चिद्धेतोर् इदम् इत्य् अर्थः । हेतुम् आह अर्थे ति । एवं तु प्रयोगः करणीयः -- यज् ज्ञानं स्वोत्पत्ताव् अर्थसन्निधिनिरपेक्षं तद् अर्थान् नोत्पद्यते । यथा व्युत्पन्नसंकेतस्य चिरनष्टवस्तुविषयं विज्ञानम् । अर्थसन्निधिनिरपेक्षं च बालविकल्पविज्ञानम् इति विरुद्धव्याप्तोपलब्धिः । असिद्धिम् अस्याः परिहत्तु भूमिकां रचयन्न् आह -- बालो ऽपि हि -- इत्यादि ।
[ध्प्र् प्.51]
मुखम् अर्पयति स्तने । पूर्वदृष्टापरदृष्टं च अर्थम् एकीकुर्वद् विज्ञानम् असन्निहितविषयम्, पूर्वदृष्टत्वस्यासन्निहितत्वात् । असन्निहितविषयं च अर्थनिरपेक्षम् । अनपेक्षं च प्रतिभासनियमहेतोर् अभावाद् अनियतप्रतिभासम् । तादृशं च अभिलापसंसर्गयोग्यं ।
न केवलं व्युत्पन्न इत्य् अपि शब्दः । हि र् यस्मात् । यावद् इति निपातो ऽवधौ । पूर्वदृष्टत्व ं पूर्वदर्शनविषयत्वम् । तेन यो मया पूर्वं क्षुत्प्रतिघातहेतुत्वेन प्रतिपन्नः स एवाऽयम् इति प्रत्यवमर्षस्य रूपम् आचष्टे । न प्रत्यवमृशति प्रत्यभिजानाति । तावद् इत्य् अप्य् अवधौ । उपरतं रुदितं यस्मात् स तथा सन् न् आयर्पति । सर्वैर् एव स्वसन्तताव् एवमादिव्यवहारस्य दृष्टदृश्यमानयोर् एकीकरणकारणात्वेनावगत्वाद् एवम् उच्यते । तस्यैव चान्यत्र लोष्टादौ ढौकिते ऽपि तथा ऽदर्शनाच् च ।
ननु बालस्य करणानाम् अपाटवात् संकेताग्रहणाच् च नान्तर्जल्पाकारो ऽपि शब्दः सम्भवति । सम्भवे वा योग्यग्रहणानर्थक्यम् । तत् कथम् एवं यावन् न प्रत्यवमृशति -- इत्य् उच्यते? उच्यते । अन्यैव हि भङ्ग्या अस्ति सा काचिद् दृष्टदृश्यमानयोर् एकीकरणावस्था या तत्र निमित्तम् इति प्रतिपाद्यते । सा च शब्देन प्रतिपाद्यमाना अभ्यस्तेनामुना शब्देन प्रतिपाद्यते । न पुनर् एवम् एवासौ प्रत्यवमृशतीत्य् उच्यते ।

ननु द्वितीयादिदर्शनकाले भवतु पूर्वदृष्टापरदृष्टयोर् एकीकरणेन मुखार्पणम्, भूमिपातानन्तरं तु कथम्? न खलु स्तनम् अद्राद्षीद् असौ येन दृष्टेन दृश्यमानम् एकीकृत्यार्पयेत् । तदा तु जन्मान्तरानुभवाद् इति ब्रूमः । तत्रापि जन्मनि जन्मान्तरानुभवबलात् । न चादिमान् संसार इति का क्षतिः? शब्दाकारो ऽपि तत्रास्त्य् एव । तत् किम् अनेन योग्यग्रहणसफलीकरणप्रयासेनेति चेत् । अस्तु तत्र जन्मान्तराभ्यासात् मूर्च्छितः शब्दाकारः, मा च भूत् सर्वथा पश्चाद् व्युत्पत्स्यमानेन विशिष्टेन शब्देन संसृष्टार्थप्रतिभासः, न भवति तस्य विकल्पप्रत्यय इत्य् उच्यते । `स एवायम्ऽ इति पूर्वदृष्टत्वेन स्तनं प्रत्यवमृशतु । किम् अत इत्य् आह -- पूर्वदृष्टे ति । पूर्वदृष्टं चापरदृष्टां चेति द्वन्द्वैकवद्भावः । चो ऽवधारणे कुर्वद् इत्य् अस्मात् परो द्रष्टाव्यः। हेतौ वा शतृप्रत्ययः ।
तेनायम् अर्थः -- यस्मात् पूर्वदृष्टम् एकीकरोत्य् एव तस्माद् असन्निहितविषयम् इति । तथा कुर्वद् अपि कथम् अस्न्निहितविषयम् इत्य् आह -- पूर्वदृष्टत्वस्य [32] -- इति । अयम् आशयः -- पूर्वदर्शनविषयत्वं पूर्वदृष्टत्वम् उच्यते । निवृत्ते च पूर्वदर्शने पूर्वदर्शनविषयत्वं वस्तुनो नास्ति । तद् उत्तरकालभाविना ज्ञानेन पूर्वज्ञानविष[23अ]यत्वम् असन्निहितम् एव वतुनो दृश्यत इति । भवत्व् असन्निहितविषयम्, अर्थसन्निधिनिरपेक्षं तु कथं सिद्धम् इत्य् आह -- असन्निहिते ति । चो यस्मात् । असन्निहितविषयम् अर्थसन्निधिनिरपेक्षम् । अनेनार्थसन्निधिनिरपेक्षत्वे ऽर्थसन्निधिनिरपेक्षत्वं हेतुम् आह । ईदृशस् तु प्रयोगो ज्ञातव्यः -- यद् असन्निहितविषयं ज्ञानं तद् अर्थसन्निधिनिरपेक्षम्, यथा ऽतीतानागतविषयो ऽस्मदादिविकल्पः । पूर्वदृष्टत्वेन प्रत्यभिज्ञानाच् च बालविज्ञानम् असन्निहितविषयम् इति स्वभावः ।
__________नोतेस्__________
[32] धर्मोत्तरे सर्वप्रतिषु `पूर्वदृष्टस्यऽ इति पाठः । किन् त्व् अत्र प्रदीपानुसारी पाठो गृहीतः । -- सं-
सम्प्रति शिष्याणां सुखप्रतिपत्त्यर्थं यथोत्तरोत्तरस्य हेतोः सिद्धौ पूर्वपूर्वस्य हेतोः सिद्धिर् भवति तथा दर्शयति -- अनपेक्षं च -- इति ।
[ध्प्र् प्.52]
इन्द्रियविज्ञानं तु सन्निहितार्थमात्रग्राहित्वाद् अर्थसापेक्षम् । अर्थस्य च प्रतिभासनियमहेतुत्वान् नियतप्रतिभासम् । ततो न अभिलापसंसर्गयोग्यम् ।
अत एव स्वलक्षणस्य अपि वाच्यवाचकभावम् अभ्युपगम्य एतद् अविकल्पकत्वम् उच्यते । यद्य् अपि हि स्वलक्षणम् एव वाच्यं वाचकं च भावेत् तथा अप्य् अभिलापसंसृष्टार्थविज्ञानं सविकल्पकम् । न च इन्द्रियविज्ञानम् अर्थेन नियमितप्रतिभासत्वाद् अभिलापसंसर्गयोग्यप्रतिभासं भवति इति निर्विकल्पकम् ।
श्रोत्रज्ञानं तर्हि शब्दस्वलक्षणग्राहि शब्दस्वलक्षणं च किण्चिद् वाच्यं किञ्चिद् वाचकम् इत्य् अभिलाप
अंसर्गयोग्यप्रतिभासं स्यात् । तथा च सविकल्पकं स्यात् ।
न एष दोषः । सत्य् अपि स्वलक्षणस्य वाच्यवाचकभावे सङ्केतकालदृष्टत्वेन ग्रह्यमाणं
ननु किम् अनियतप्रतिभासत्वे साध्ये ऽर्थनिरपेक्षत्वं हेतुर् येन तथा सद् अनियतप्रतिभासम् इत्य् उच्यते । प्रतिभासनियमहेतोर् इति च मध्यवर्त्ती च ग्रन्थः कथं नेयः? उच्यते । नायम् अनपेक्षम् इत्यादिर् एकवाक्यतया नेयः । किं तर्हि? वाक्यभेदो ऽत्र कर्त्तव्यः । तत्र चो यस्मात् । अनपेक्षम् अर्थसन्निधिनिरपेक्षं सत्प्रतिभासनियमहेतो अनुत्पन्नम् इति प्रतिभासनियमहेतोर् अभावाद् इत्य् अस्य सामर्थ्याद् वाक्यभेदं कृत्वा । ततः प्रतिभासनियमहेतोर् अभावाद् अनुत्पादाद् अनियतप्रतिभासम् इति योजनीयम् । तादृशम् इत्य् अप्रतिभासम् । चो वक्तव्यम् इत्य् एतद् इत्य् अस्मिन्न् अर्थः ।
सर्वम् एतद् इन्द्रियज्ञाने ऽपि प्ररः कदाचिद् आशङ्कयेद् इति तन्निरासार्थम् आह -- इन्द्रिये ति । तु र् विकल्पज्ञानं विशिनष्टि । ततो नियतप्रतिभासत्वात् ।
इह पूवव्याख्यातृभिः "असामर्थ्यवैयर्थ्याभ्यां स्वलक्षणस्य संकेतयितुम् अशक्यत्वाद् अवाच्यवाचकत्वम् । अवाच्यावाचकस्वलषणग्राहित्वाच् चेन्द्रियज्ञानम् अविकल्पकम् इति" व्याख्यातम् । तच् चावद्यम्, अन्यथा ऽप्य् अविकल्पत्वस्य सुसाधत्वात् किम् अन्यापोहानयनेनाप्रकृतेनेति मन्यामान आह -- अत एव -- इति । यस्माद् इन्दिर्यज्ञानं नियतप्रतिभासम् -- अत एव अस्माद् एव हेतोः । स्वलक्षणं वक्ष्यमाणलक्षणम् । अपि र् अवधारणे । वाच्यग्रहणे कथम् अविकल्पकम् इत्य् आह -- यद्य् अपि हि -- इति । यद्य् अपि ही ति निपातसमुदायो `यदि नामऽशब्दस्यार्थे वर्त्तते । हि र् वाक्यालङ्कारो वा । अभिलापसंसृष्टार्थं सद् विज्ञानं विकल्पकं भवति । एवं ब्रुवतो ऽयं भावः -- कोष्ठशुद्ध्या वाच्यम् अस्तु स्वलक्षणं तथापि तदिन्द्रियज्ञाणं केवलम् एव स्वलक्षणम् आत्मन्य् आदर्शयति, न तु वाचकम् अपीति कथम् अभिलापसंसृष्टार्थप्रतिभासत्वं विकल्पकत्वम् आत्मसात् कुर्याद् इति?
[ध्प्र् प्.53]
स्वलक्षणं वाच्यं वाचकं च गृहीतं स्यात् । न च सङ्केतकालभावि दर्शनविषयत्वं वस्तुनः सम्प्रत्य् अस्ति । यथा हि सङ्केतकालभावि दर्शनम् अद्य विरुद्धम्, तद्वद् तद्विषयत्वम् अप्य् अर्थस्य अद्य न अस्ति । ततः पूर्वकालदृष्टत्वम् अपश्यच् छ्रोत्रज्ञानं न वाचकभावग्राहि वाच्यवाचकभावग्राहि।
अनेन एव न्यायेन योगिज्ञानम् अपि सकलशब्दार्थावभासित्वे ऽपि सङ्केतकालसृष्टत्वाग्रहणान् निर्विकल्पकम् ।
भवतु रूपाद्यालम्बनम् इन्द्रियज्ञानम्, वाचकस्याप्रतिभासाद् वाच्यस्यैव प्रतिभासाद् अविकल्पकम् । यत् पुनर् एतद्द्वयप्रतिभासीन्द्रियज्ञानं तद् द्वयप्रतिभासाद् विकल्पकं प्राप्तम् इत्य् अभिप्रेत्य चोदयति -- श्रोत्रे ति । तर्हि र् अक्षमायाम् । सर्वम् इन्द्रियज्ञानम् अविकल्पकम् इति न क्षम्यत एतद् इत्य् अर्थः । श्रोत्रज्ञाणम् अभिलापसंसर्गयोग्यप्रतिभासं स्याद् इति सम्बन्धः । किम् भूतं? शब्दस्वलक्षणाग्राहि । हेतुभावेनास्य विशेषणत्वात् शब्दस्वलषणग्राहित्वाद् इत्य् अर्थः । शब्दग्राहिणो ऽपि वाच्याग्रहणे कथं तथात्वम् इत्य् आह -- शब्दे ति [23ब्] । चो यस्मात् । किञ्चिद् वाचकं किञ्चिद् वाच्यम् । यथा `तरप्तमपौ घःऽ [पाणिनि -- 1.1.22] इत्यादि बुद्धिस्थम् । इति स् तस्मात् । अस्तु तथाप्रतिभासं किम् अत इत्य् आह -- तथा चे ति । तथा च सति तस्मिंश् चोक्तप्रकारे सति । एवं चैतद् द्रष्टव्यम् -- यदैकेन तरप्तमपौ संज्ञिनाव् उच्चार्येते तदैव च कथञ्चिद् अन्येन `घःऽ इति संज्ञोच्चार्यते । तदा तद् द्वितयम् एकेन श्रोत्रज्ञानेन प्रतियतः पुंसः श्रोत्रधीर् विकल्पिका प्रसज्येतेति ।
कथं तर्हि नैष दोष इत्य् आह -- सत्य् अपी ति । चो यस्मात् तद् एवेदं यन् मया संकेतकालत्वेन गृह्यमाणं तथा गृहीतं भवति । यद्य् एवम् अस्तु संकेतकालदृष्टत्वेन ग्रहणम् इत्य् आह -- न चे ति । चो ऽवधारणे हेतौ वा । दर्शनविषयत्वम् इति ब्रुवन् पूर्वदृष्टत्वशब्दस्यार्थम् आह । कथं नास्तीत्य् आह -- यथे ति । हि र् यस्मादर्थे ।

अर्थस्ये ति सम्प्रतिदृश्यमानस्य । तद्भावे निगडाकर्षणन्यायेन प्राक्तनदर्शनस्यापि स्थितिः प्रसज्येतेति भावः । मा ग्रहीत् संकेतकालदृष्टत्वं तयोर् गृह्यमाणयोः शब्दयोस् तथापि कथं न वाच्यवाचकभावग्राहि तज्ज्ञानम् इत्य् आशङ्क्योपसंहरन्न् आह -- तत इति । यतः सम्केतकालत्वेन गृह्यमाणं वाच्यं वाचकं च गृहीतं भवति ततः कारणात् श्रोत्रविज्ञानं न वाच्यवाचकभावग्राहि । भवतु तथागृह्यमाणस्य स्वलक्षणास्य तथावम् । किम् अतः? एतत् पुनर् एनं तथैव ग्रहीष्यतीत्य् आह -- पूर्वे ति । हेतौ शतुर्विधानात् पूर्वकालदृष्टत्वाग्रहणाद् इत्य् अर्थः ।
स्याद् एतत् -- संकेतदृटात्वेनापि न ग्रहीष्यते ऽर्थः शब्दो वा । अथ च विशिष्टवाचकवाचकत्वेन विशिष्टार्थवाचकत्वेन च ग्रहीष्यत इति । असद् एतत् । एवं हि ब्रुवतेदम् अभिप्रतम् -- येन ज्ञानेन यो अर्थः संकेतकालोपलब्धो यच् छब्दसंसर्गिणा रूपेण नैकीक्रियते, न स तेन तद्च्छब्दवाच्यो गृह्यते । तथा गोज्ञानेन संकेतकालोपलब्धाश्वशब्दसंसर्गिणा ऽश्वरूपेण सहैकत्वेनाप्रतीयमानो गौर् नाश्वशब्दवाच्यो गृह्यते । श्रोत्रज्ञानेन संकेतकालोपलब्ध`घऽशब्दसंसर्गिणा च रूपेण नैकीक्रियेते च तदा तरप्तमपाव् इति व्यापकानुपलब्धिः । तथा येन ज्ञानेन यः शब्दः
[ध्प्र् प्.54]
तया रहितं तिमिराशुभ्रमणनौयानसंक्षोभाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम् इ-6
तया कल्पनया कल्पनास्वभावेन रहितं शून्यं सज्ज्ञानं यद् अभ्रान्तं तद् प्रत्यक्षम् इति परेण सम्बन्धः । कल्पनापोढत्वाभ्रान्तत्वे परस्परसापेक्षे प्रत्यक्षलक्षणम्, न प्रत्येकम् इति दर्शयितुं तया रहितं तत् प्रत्यक्षम् इति लक्षणयोः परस्परसापेक्षयोः प्रत्यक्षविषयत्वं दर्शितम् इति ।
संकेतकालदृष्टयदर्थसंसर्गिणा रूपेण नैकीक्रियते, न तेनासौ तदर्थवाचको गृह्यते । यथा गोशब्दज्ञानेन संकेतकालोपलब्धाश्वार्थसंसर्गिणाश्वशब्देन सहैकत्वेनाप्रतीयमानो गोशब्दो नाश्वार्थवाचको गृह्यते । श्रोत्रज्ञानेन संकेतदृष्टतरप्तमबर्थसंसर्गिणा रूपेण नैकीक्रियते च तदा `घऽशब्द इति सैव असिद्धिर् अनुभवेन निराकृता । वास्तवसम्बन्धनिराकरणाच् च व्याप्तिः सिद्धेति । यदा तु पूर्वदृष्टत्वेन ग्रहो ऽस्ति तदा तज्ज्ञानम् अभिलापसंसृष्टार्थप्रतिभासं सद् विकल्परूपम् एवेति सर्वम् अवदातम् ।
श्रोत्रज्ञाणे यथा ऽभिलापसंसर्गयोग्यप्रतिभासत्वं चोदितं तथा योगिज्ञाने ऽपि चोदयितुं शक्यम् इति तत्राप्य् अमुम् एव परिहारम् अतिदिशन्न् आह -- अनेने ति । यज् ज्ञानं सकेतकालविषयत्वं गृह्यमाणस्य न गृह्णाति, न तद् वाच्यवाचकभावग्राहीत्य् अनेन न्यानेन युक्त्या योगिज्ञानं वक्ष्यमाणलक्षणां सकलशब्दार्थावभासित्वे सत्य् अपि निर्विकल्पकम् ।
ननु चायस्य वाच्यवाचकभावग्राहिणो ज्ञानस्यास्तु निर्विकल्पकत्वम्, अस्य तु सर्वशब्दार्थग्राहिणः कथं तथात्वम् इत्य् आह -- संकेते ति । तथा ऽग्रहणम् उक्तेन न्यायेन योगिनं प्रत्य् अपि पूर्वदर्शनविषयत्वस्यासत्त्वाद् इति भावः ।
तया रहितं इत्य् आचार्यीयं विवरणं व्याच[24अ]ष्टे -- तये ति ।
ननु विकल्पे ऽपि विकल्पान्तरं नास्ति । ततस् तस्यापि कल्पनापोढत्वं किं न भवति? अथ कपनया रहितम् इति यन् न विकल्प्यते इत्य् उच्यते, तद् अपि कल्पनापोढम् इत्य् अनेनैवाकारेण विकल्प्यत इति कथम् एतद् उच्यत इति पश्यन् कल्पनया रहितम् इत्य् अस्य विवक्षितम् अर्थम् आह -- कल्पनास्वभावेने ति । कल्पनायाः स्वभावो ऽभिलापसंसर्गयोग्यप्रतिभासत्वम्, तेन । यथा विषाणी ककुद्मान् प्रान्ते वालधिर् इति विषाणादिमता(-तो) विषाण्दीन्य् एव गोत्वलिङ्गानि व्यपदिश्यन्ते । तद्वत् कल्पनाख्येन धर्मिणा धर्मो ऽभिलापसंसर्गयोग्यप्रतिभासत्वाख्यो निर्दिष्ट इति दर्शयति । अत एव चाचार्य दिग्नागीय प्रत्यक्षलक्षणे कल्पणापोढत्वाख्ये यद् उद्द्योतकर चोद्यम् इहैव पूर्वम् उपदर्शितं तत् खलु धर्मकीर्ति चोद्यसदृशम् इति स्थितम् । परेणे ति परदेशस्थितेन तद् अनाहितविभ्रमं ज्ञानं प्रत्यक्षम् इत्य् अनेन । अभ्रान्तग्रहणस्यैव तद् विवरणं इति अभ्रान्त ग्रहणम् इह । दूरस्थितेन सम्बन्धकरणे किम् प्रयोजनम् इत्य् आह -- कल्पनापोढे ति । मिलितयोर् अनयोस् तल्लक्षणत्वात् प्रत्यक्षलक्षणम् इत्य् एकवचनेन निर्देशः । इति ना दर्शनीयस्य रूपम् आह । कथं परस्परसापेक्षतेत्य् आह -- तया रहितं यद् अभ्रान्तं तत् प्रत्यक्षम् व्यवहर्तव्यम् इति शेषः । इती त्यादिनैव चोपसंहरति । यस्माद् एवम् इति स् तस्मात् । प्रत्यक्षविषयत्वं दर्शितम् अन्ते प्रत्यक्षग्रहणसामर्थ्यात् ।

[ध्प्र् प्.55]
तिमिरम् अक्षनोर् विप्लवः । इन्द्रियगतम् इदं विभ्रमकारणम् । आशुभ्रमणम् अलातादेः । मन्दं हि भ्रम्यमाणे ऽलातादौ न चक्रभ्रान्तिर् उत्पद्यते । तदर्थम् आशु ग्रहणेन विशेष्यते भ्रमणम् । एतच् च विषयगतं विभ्रमकारणम् । नावा गमनं नौयानम् । गच्छन्त्यां नावि स्थितस्य गच्छद्वृक्षादिभ्रान्तिर् उत्पद्यते इति यान ग्रहणम् । एतच् च बाह्याश्रयस्थितंर विभ्रमकारणम् । संक्षोभो वातपित्तश्लेष्मणाम् । वातादिषु हि क्षोभं गतेषु ज्वलितस्तम्भादिभ्रान्तिर् उत्पद्यते एतच् च अध्यात्मगतं विभ्रमकारणम् ।
सर्वैर् एव च विभ्रमकारणैर् इन्द्रियविषयबाह्याध्यात्मिकाश्रयगतैर् इन्द्रियम् एव विकर्तव्यम् । अविकृते इन्द्रिये इन्द्रियभ्रान्त्ययोगात् । एते सम्क्षोभपर्यन्ता आदयो येषां ते तथोक्ताः । आदि ग्रहणेन काचकामलादय इन्द्रियस्था गृह्यन्ते । आशुनयनानयनादयो विशयस्थाः । आशुनयनानयने हि कार्यमाने ऽलाते ऽग्निवर्णदण्डाभासा भ्रान्तिर् भवति । हस्तियानादयो बाह्याश्रयस्थाः, गाडमर्मप्रहारादय आध्यात्मिकाश्रयस्था विभ्रमहेतवो गृह्यन्ते ।
तैर् अनाहितो विभ्रमो यस्मिंस् तथाविधं ज्ञानं प्रत्यक्षम् ।
तिमिरम् अक्ष्णोर् विप्लवहेतुत्वाद् विप्लवः । इन्द्रियगतम् इन्द्रियाश्रितम् । विभ्रम स्य भ्रान्तत्वस्य कारणं साक्षात् कारणत्वेन । अलातं विदग्धकाष्ठम् । आशु ग्रहणस्य फलम् आह -- मन्दम् इति । यद्य् अपि मन्दं भ्रम्यमाणस्यालातस्य विभ्रमकारणत्वादर्शनाद् आशुभ्रमणं लभ्यते, तथापि शाश्त्रकृता स्वकीयवचनाकौशलपरिहारार्थम् आशु ग्रहणं कृतम् इत्य् अवसेयम् । पूर्वस्माद् एतद्भेदेन कथम् उक्तम् इत्य् आह -- एतद् इति । चो यस्मादर्थे । आशु ग्रहणेन नौयानम् अपि विशेषणीयम् । मन्दं हि गच्छन्त्यां नावि न गच्छद्वृक्षादिदर्शनं भवतीत्य् अनुभ्वसिद्धम् एतत् । इति र् हेतौ । एतत् कस्मात् पृथग् उक्तम् इत्य् आह एतच् चे ति । चो यस्मात् । संक्षोभ उपचयः । प्रकोप इति यावत् । स केषाम् इत्य् आकाङ्क्षायाम् आह -- वाते ति । नासौ विभ्रमकारणम् इत्य् आशङ्काम् अपनुदन्न् आह -- वातादिषु -- इति । हि र् यस्मात् । क्षोभं प्रकोपं गतेषु संक्षुब्धेष्व् इति यावत् ।
स्याद् एतत् -- अस्तु तिमिरस्येन्द्रियोपघातहेतुकत्वाद् भ्रान्तज्ञानहेतुत्वम् । नौयानादीनां तु कथं सत्स्व् अपि तेषु तदवस्थत्वाद् इन्द्रियस्येत्य् आह -- सर्वैर् एवे ति । इन्दिर्यगतस्य तिमिरादेर् इन्द्रियविकारत्वेन सम्मतस्याप्य् उपादानं दृष्टान्तार्थम् । तेनायम् अर्थः -- यथेन्द्रियगतं तिमिरादीन्द्रियविकुर्वद् विभ्रमहेतुः, तथा अन्यैर् अपि तद्विकुर्वद्भिर् एव विभ्रमहेतुभिर् भाव्यम् इति ।
कस्मात् पुनर् अमीभिर् इन्द्रियविकारो ऽवश्यकर्तव्य इत्य् आह -- अविकृत इत्यादि । एतद् उक्तं भवति । तद्विकारविकारित्वाद् आश्रयाश् चक्षुराद्य इति । प्रयोग[24ब्]स् त्व् एवं कर्तव्यः । यदि
[ध्प्र् प्.56]
तद् एव लक्षणम् आख्याय यैर् इन्द्रियम् एव द्रष्टृ कल्पितं मानसप्रयक्षलक्षणे च दोष उद्भावितः, स्वसंवेदनं च न अभ्युपगतम्, योगिज्ञानं च; तेषां विप्रतिपत्तिनिराकरणार्थम् प्रकारभेदं प्रत्यक्षस्य दर्शयन्न् आह --
तत् चतुर्विधम् इ-7
तत् चतुर्विधम् इति
इन्द्रियज्ञानम् इ-8
इद्रियस्य ज्ञानम् इन्द्रियज्ञानम् । इन्द्रियाश्रितं तत् प्रत्यक्षाम् ।
इन्द्रियजभ्रमकारणं तद् इन्द्रियं विकरोत्य् एव तथा तिमिरादि । इन्द्रियजभ्रमकारणं च नौयानादीति स्वभावहेतुः । एवंविधस्य ज्ञानस्य भ्रमरूपत्वं बाधवशाद् अवसितम् इन्द्रियान्वयव्यतिरेकानुविधानाच् चेन्द्रियजत्वम् । तथाभूतविभ्रमकारणात्वं च नौयानादेः स्वान्वयव्यतिरेक्तानुविधानात् सिद्धम् । उपयुक्तकार्त्स्न्ये वा ऽयं सर्व शब्दः प्रवर्त्तनीयः । एत इत्यादि विभ्रमहेतवो गृह्यन्त इत्य् अन्तं सुबोधम् । केवलं पर्यन्तो ऽन्तो वाच्यः । काचो ऽक्षिविकारहेतू रोगविशेषः । कामलो च (-लो ऽत्र) नयनवदनादिविकारकारणं व्याधिविशेष एवेति द्रष्टव्यम् ।
तैर् अनाहितो विभ्रमो यस्मिन्न् इति विगृह्णंस् त्रिपदं बहुव्रीहिं दर्शयति । अनाहितओ विभ्रमो यस्मिंस् तत्तथेति प्रसाध्य तेषाम् अनाहितविभ्रम इति षष्ठीततपुरुषः कार्यः । इदन् त्व् अर्थकथनम् इति बोद्धव्यम् । यो हि तैर् अनाहितविभ्रमः स तेषां भवतीति । ज्ञानाधिकारेण लक्षणविधानाल् लब्धं ज्ञानम्, तेन ज्ञानम् इत्य् उक्तम् ॥
सम्प्रत्य् आचार्यस्या वान्तरप्रत्यक्षभेदव्युत्पादने निमित्तं दर्शयन्न् आह -- तद् एवम् इति । निपातसमुदायश् चायम् उक्तेन प्रकारेणेतिय् अस्यार्थे वर्त्तते । यैर् इति प्रत्येकं योजनीयम् । यैः स्वयूथ्यैर् वैभाषिकैः । यदि ज्ञानं द्रष्टृ स्यात्, तस्याप्रतिघत्वाद् व्यवहितम् अपि गृह्णीयात् । ततः चक्षुः पश्यति रूपाणि अभिध- 1.42] इत्यादि वादिभिर् इन्द्रियम् एव द्रष्टृ कल्पितम् । यैर् मीमांसकैर् आचार्य दिग्नागी ये मानसप्रत्यक्षलक्षणे गृहीतग्राहित्वलक्षणो ऽप्रामाण्यनिमित्तो दोष उद्भावितः । लक्षणग्रहणस्योपलक्षणत्वान् मानसप्रत्यक्षाभ्युपगमे ऽपि यो दोषो ऽन्धबधिराद्यभावलक्षणः, सो ऽपि द्रष्टव्यः । यैश् च मीमांसकैः कुमारिल मतानुसारिभिर् नैयायिकवैशेषिकै श् च स्वात्मनि क्रियाविरोधेन स्वसंवेदनं नाभ्युपगतम् । यैश् च चार्वाकमीमांसकैर् योगिन एव न सम्भवन्ति, कुतस् तेषां ज्ञानम् इति वादिभिर् योगिज्ञानं च नाभ्युपगतम् इति वर्तते । त्रयो ऽपि च कारा वक्तव्यान्तरं समुच्चिवन्ति । तेषाम् अमीषां तत्र तत्र या विमतिस् तन् निराकरणार्थं प्रत्यक्षस्योक्तलक्षणस्य प्रकारो विशेषस् तस्य भेदं नानात्वम्, अवान्तरजातिभेदम् इति यावत् ।
तद् इति प्रत्यक्षं चतुर्विधं चतुर्ष्प्रकारम् ॥
तत्रैकं तावद् इन्द्रियज्ञाणम् उक्तं व्याचक्षाण आह -- इन्दिर्यस्ये ति । ज्ञायते ऽनेनेति ज्ञानम् ,
[ध्प्र् प्.57]
मानसप्रत्यक्षे परैर् यो दोष उद्भावितस् तं निराकर्तुं मानसप्रत्यक्षलक्षणम् आह --
स्वविषयानन्तरविषयसहकारिणा इन्द्रियज्ञानेन
समनन्तरप्रत्ययेन जनितं तन् मनोविज्ञानम् इ-9
इन्द्रियं च तज्ज्ञानं चेति कृत्वा शक्यम् इन्द्रियज्ञानम् इति वक्तुम्, तत् कथं विप्रतिपत्तिर् निराकृतेत्य् आशङ्काम् अपाकर्तुम् इन्द्रियज्ञानम् इत्य् अत्र् आचार्यस्य् ए न्द्रियस्य ज्ञानम् इति षष्ठीतत्पुरुषो विवक्षित इति दर्शयति -- इन्दिर्यस्य ज्ञानम् इति । यद् इन्दिर्येण जन्यते तद् इन्द्रियस्य भवतीति भावः ।
ननु चेन्द्रियानुमानम् अपि कार्यप्रभवं भवतीन्द्रियस्य ज्ञानम् । ततस् तस्यापि प्रत्यक्षत्वं प्रापतम् इत्य् आह -- इन्द्रियाश्रितम् इति । आश्रितं जन्यतया तस्मिन् सत्य् एव भावात् । न चेन्द्रियानु[25अ]आमम् इन्द्रियेण साक्षाज् जन्यते, येन तस्य प्रत्यक्षत्वं स्याद् इति भावः । अनेकहेतुत्वे ऽपि ज्ञानस्येन्द्रियेण व्यपदेशो ऽसाधारणत्वात् तस्येति द्र्ष्टव्यम् । इन्दिर्यस्य ज्ञानं प्रत्यक्षम् इति कथयता नेन्दिर्यस्य द्रष्टृत्वम् इति दर्शितम् । ततो विप्रतिपत्तिर् निराकृता ।

ननु इन्द्रियज्ञानस्य द्रष्टृत्वे तस्याप्रतिघत्वाद् व्यवहितस्यापि ग्रहणं प्रसज्येतेति तैर् उक्तो दोषः । स कथं परिहृतो येन विप्रतिपत्तिर् निराकृतेति चेत् । अयम् आशयः -- न ज्ञानं गत्वा गत्वा ऽर्थं गृह्णाति, येन गमनविबन्धाभावात् व्यवहितम् ऽपि गृह्णीयात् । किन् तर्हि? यदाकारम् उत्पद्यते तद् गृह्णातीत्य् उच्यते । न चायोग्यदेशस्थो ऽर्थस् तत्स्वरूपको ऽन्वयव्यतिरेकाभ्यां विज्ञातः । तत् कथं तस्य तेन ग्रह इति सुज्ञानम् एतद् इति किम् अत्रोपपत्त्याभिहितयेति? इन्द्रियज्ञानं प्रत्यक्षम् इन्द्रियादिसामग्रीजन्यज्ञानं प्रत्यक्षम्, एकस्य जनकत्वविरोधात् । नाज्ञानम् इत्य् अर्थात् ।
एवं च दर्शयता वार्त्तिककारेण यद्वेन्द्रियं प्रमाणं स्यात् तस्य वार्थेन सङ्गतिर्[श्व् 4.60]इत्यादि वचनात् तस्यापि या प्रत्यक्षप्रमाणता मीमांसका दिभिर् अभ्युपगता सा निरस्ता वेदितव्या । तथा हि -- प्रापकं प्रमाणं भवेत् । नान्यत् । प्रापकत्वं च प्रवर्त्तकर्त्वेना[व्यवधानेन न्यान्यथा] । प्रवर्त्तकत्वं चाधिगमात्मकत्वेन, नान्यथा । न च तस्य तथात्वम् अस्ति । अधिगमोपगमेन प्रवर्त्तकत्वे च नैव व्यवधीयते । यतश् चाव्यवधानेन प्रवृत्तिः स एव प्रवर्त्तकत्वात् प्रमाणं युक्तम् । तच् च ज्ञानम् एव । तद् उक्तम् -- धीप्रमाणता, प्रवृत्तेस् तत्प्रधानत्वाद् धेयोपादेयवस्तुनि [प्रमाणवा- 1.5] इति ।
यद्वा प्रमायाः करणात् प्रमाणम् । प्रमा च नीलस्येयं न पीतस्येति विशिष्टेनैवाधिकरणेनावच्छिन्ना प्रतीयत इति तत्करणं भवितुम् अर्हति । यत इयम् अव्यवधाना ताद्रूप्येण व्यवस्थां लभते । इन्द्रियार्थसन्निकर्षादिश् च नीलपीतादि[33]................स्य भेदव्यवस्थाङ्गम् । स्वभेदेन क्रियाभेदनिबन्धनं च करणं ततो ज्ञानात्मकम् एव सारूप्यम् अधिगतिक्रियाभेदव्यवस्थाङ्गं प्रमाणं युज्यत इति । द्वयी चेयं विधा ऽन्यत्र् आचार्येन विपञ्चितेति नेहोच्यते, प्राज्ञजनाधिकारेणास्य प्रकरणस्य प्रारम्भात् । दिङ्मात्रं तूक्तम् इति ।
__________नोतेस्__________
[33] असपष्टम् -- सं-
[ध्प्र् प्.58]
स्व आत्मीयो विषय इन्दिर्यज्ञानस्य तस्य अनन्तर ः -- न विद्यते ऽन्तरम् अस्य इति । अन्तरं च व्यवधानं विशेषश् च उच्यते । ततश् च अन्तरे प्रतिषिद्धे समानजातीयो द्वितीयक्षणभाव्युपादेयक्षण इन्द्रियविज्ञानविषयस्य गृह्यते । स सहकारी यस्य इन्द्रियज्ञानस्य तत् तथोक्तम् । द्विविधश् च सहकारी -- परस्परोपकारी एककार्योपकारी च । इह च क्षणिके वस्तुन्य् अतिशयाधानायोगाद् एककार्यकारित्वेन सहकारी गृह्यते ।
ननु चतुर्विधप्रत्यक्षाभिधाने निमित्तम् उक्तम् एव धर्मोत्तरेण तत् कथं तद् एव मानसे त्यादिना पुनर् आचष्टे । अथ् आचार्य स्य चतुष्टयाभिधाने निमित्तं यद् आसीत् बुद्धिस्थं तत् प्राग् उक्तम्, तद् एव तु यथायोगं प्रत्यक्षव्यक्तिविशेषाभिधाने ऽभिधानीयम् इति । तर्हि यैर् इन्द्रियं द्रष्टृ कल्पितं तन्निराकरणार्थम् आह -- इन्द्रियज्ञानम् इति तथा ऽन्यत्रापि स्वसंवेदनादौ तत्तन्निमित्तम् अनेन किन्नोक्तम्? तद् अत्रापि मानसं व्याख्यातुम् आहेति वक्तुं युक्तम् इति । सत्यम् एतत् । केवलं मानसस्य प्रत्यक्षस्याशक्यनिश्चयत्वेनाव्यवहाराङ्गत्वात् प्ररोक्तदोषनिराकरणमात्रम् एवास्य लक्षणाख्याने निमित्तं नान्यद् इति प्रतिपाद्यितुम् उक्तम् एव निमित्तम् अनूदितम् इति न किञ्चिद् अवद्यम् । अथेन्द्रियज्ञानस्यापि लक्षण[25ब्]म् अन्येषाम् इव किं नोक्तम्? नोक्तम् । तल्लक्षणविप्रतिपत्त्यभावात् । इन्दिर्यज्ञानम् इति निगदेनैव व्याखातत्वाच् चेति ।
स्यान् मतम् । अभिमतं चतुर्विधं प्रत्यक्षं दर्शयितव्यम् । तच् चैकदा वक्तुम् अशक्यत्वात् क्रमेण वचनीयम् । क्रमश् चैवंविधो ऽस्त्व् अन्यादृशो वा किम् अत्रादरेणेति इन्द्रियज्ञाणादिर् ईदृशः क्रमः कृतः, अथान्यद् अप्य् अस्य निमित्तम् अस्तीति? अन्यद् अप्य् अस्तीत्य् उच्यते । तथा हि सर्वस्य सर्वव्यवहाराङ्गम् इन्द्रियज्ञानम् इति तदादितो ऽभिहितम् । तेनैवेन्द्रियज्ञानेन तथाभूतेन मानसं जन्यत इति तदनु मानसं व्याख्यातम् । तस्य पश्चात् प्रत्यात्मवेद्यतया ऽस्तिवेन शक्यनिश्चयतया च स्वसंवेदनम् उदितम् । ततः सर्वज्ञज्ञानस्य सामग्रीमात्रप्रदर्शनतयऽन्तिमपुरुषार्थतया चान्ते योगिज्ञानम् उपदर्शितम् इति ।
स्व इत्यादिना स्वविषये त्यादिलक्षणं व्याचष्टे । तच् च तत् तथोक्तम् इत्य् एतद् अन्तं सुगमम् ।
नन्व् अनुकारकस्य सहकारित्वे ऽतिप्रसङ्गाद् उपकारिणा सहकारिणा भाव्यम् । समसमययोश् चोपकार्योपकारकभावाभावात् कथम् असौ विषयक्षणस् तस्य सहकारीत्य् आशक्याह -- द्विविधश् चे ति । परश्परे त्यादि । चो यस्मात् । द्विविधो द्विप्रकारः सहकरणशीलो भावः । कथं द्वैविध्यम् इत्य् आह -- परस्परे त्यादि । परस्परोपकारितया च सहकारित्वम् एकत्वाध्यवसायाधीनं सन्तानगतम् अमुख्यम् । मुख्यं तु एकार्थक्रियाकारित्वेन । यदि द्वैविध्ये ऽपि प्राक्तनस्य ग्रहणं तदा तदवस्थो दोष इत्य् आह -- इहे ति । इह मानसक्रियायाम् । चो ऽवधारणे । एकार्थक्रियाकारित्वेने त्य् अस्मात् परो द्रष्टव्यः । सहकारी हि गृह्यते विषयक्षण इति प्रकरणाद् अवसेयम् । पूर्वं कस्मान् न गृह्यत
[ध्प्र् प्.59]
विषयविज्ञानाभ्यां हि मनोविज्ञानम् एकं क्रियते यतस् तन् अनयोः परस्परसहकारित्वम् ।
ईदृशेन इन्द्रियविज्ञानेन आलम्बनभूतेन अपि योगिज्ञानं जन्यते. तन् निरासार्थं समनन्तरप्रत्यय ग्रहणं कृतम्. सम श् च असौ ज्ञानत्वेन, अनन्तर श् च असौ अव्यवहिततत्वेन, स च असौ प्रत्यय श् च हेतुत्वात् समनन्तरप्रत्यय ः, तेन जनितम् ।
इत्य् आह -- क्षणिक इति । हेतुभावेन विशेषणम् । अथ यदि वस्तुनः क्षनिकत्वेनातिशयाधानासम्भवात् परस्परोपकारित्वेन न सहकारी गृह्यते द्विविधश् च सहकारी त्य् अनन्तरम् उदितम् अनेन व्याहन्येत । हेतुबिन्दुश् च विरुध्येतेति सर्वम् असमञ्जसम् । न । अभिप्रायापरिज्ञानात् । तथा हि क्षनिके वस्तुनी ति धारया ऽप्रवाहिणि सजातीयाप्रसवधर्मिण्य् अन्तिमे मानसोत्पादकतया ऽभिमत इन्द्रियज्ञाननाम्नि निरोधोन्मुख इत्य् अभिप्रेतम् । न त्व् अक्षणिकव्यावृत्त्या क्षणीकपदाभिलाप्ये ऽवस्तुमात्रव्यावृत्त्या च वस्तुमात्र इति
एतद् उक्तं भवति । यदीदं मानसोपजननोन्मुखम् इन्द्रियज्ञानम् एकजातीयप्रवाहवाहि स्यात् तदा सन्तानोपकारद्वारकातिशयाधायकत्वे विषयो ऽस्य सहकारीति कल्पेयेत । केवलम् इदम् अपेतसजातीयप्रसवशक्तिकं सन्तानवर्त्तीति कथम् अस्य विषयस् तथा सहकारी कल्प्येतेति । ननु किं तद् एकं यत् कुर्वतोर् एतयोस् तथासहकारित्वम् उच्यत इत्य् आह विषये ति । हि र् अवधारेणे । यतो यस्माद् आभ्याम् एव तद् एकं किर्यते, तस्मात् । तद् इत्य् अयं तस्माद् इत्य् अस्मिन्न् अर्थे । अन्योन्यस्य सहकारित्वम् एकार्थक्रियाकारित्वेनेति प्रकरणात् ।

ईदृशेने त्यादिना समनन्तरप्रत्यय ग्रहणस्य व्यवच्छेदं दर्शयति । ईदृशेन स्वविषयानन्तरविषयग्रह[26अ]णसहकारिणा । आलम्ब्यत इति आलम्बनभूतं रूपं यस्य तेन ग्राह्यस्वभावेन सता जन्यत इत्य् अर्थः । तस्य योगिज्ञानस्य निरासर्थं मानसत्वनिराकरणार्थम् । एवञ् च व्याचक्षाणेन "समनन्तरप्रत्ययग्रहणम् अन्धबधिराद्यभावप्रसङ्गनिराकरणार्थम् इति" यद् अन्येन व्याख्यातम् -- तद् अपहस्तितम् । इन्द्रियज्ञानग्रहणेनैव तत्प्रसङ्गस्य निराकृतत्वाद् इति ।
समश् चे त्यादिना समनन्तरप्रत्यय शब्दस्य विग्रहम् अर्थं चाह । हेत्व् अर्थः प्रत्यया र्थः । शकन्ध्वादिपाठाच् च न दीर्घत्वम् । यदि नामैवं व्युत्पत्तिस् तथापि प्राक्तनम् एव विज्ञानम् उपादानभूतम् आगमे तथा रूढं नान्यत् । तद् उक्तम् अभिधर्मकोषे -- "चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः" [2.6.2] इति । सिद्धान्तप्रसिद्धया चामुया संज्ञया व्यवहरता ऽऽचार्येण सिद्धान्तप्रसिद्धत्वम् अस्य दर्शितम् ।
[ध्प्र् प्.60]
तद् अनेन एकसन्तानान्तर्भूतयोर् एव इन्द्रियज्ञानमनोविज्ञानयोर् जन्यजनकभावे मनोविज्ञानं प्रत्यक्षम् इत्य् उक्तम् भवति । ततो योगिज्ञानं परसन्तानवर्तिम् निरास्तम् ।
ननु किं कृतं समन्तरप्रत्यय ग्रहणेन येन योगिज्ञानस्य तथात्वेन निरास इत्य् आह -- तद् इति । यस्मात् समनन्तरप्रत्ययरूपेणेन्द्रियज्ञानेन यज् जनितं तन् मानसं तत् तस्मात् कारणाद् अनेन समनन्तरप्रत्यय ग्रहणेन् ऐकसन्तानान्तर्भूतयोर् एकसन्ततिपतितयोर् एव जन्यजनकभावे सति मनोविज्ञानम् इति । साक्षाद् इन्द्रियाजन्यतया मनोमात्राश्रितत्वान् मानसम् एवोक्तम् । आगमे ऽपि मनःशब्देनैतद् एवोच्यत इति प्रदर्शनार्थं चैवम् अभिधानं मन्तव्यम् । तथापि कथं योगिज्ञानं तथात्वेन निरस्तम् इत्य् आह -- तत् इति । यस्माद् उपादानोपादेयभूतयोर् ग्रहणं भिन्नसन्तानवर्त्तिनोश् चोपादानोपादेयभावाभावः, तस्माद् योगिज्ञानं निरस्तं मानसत्वेन प्रतिक्षिप्तम् । यदि पुनर् इन्द्रियज्ञानेन जनितम् इत्य् एतावद् उच्येत तदा ऽऽलम्बनभूतेनापि तेनादौ जन्यत इति निरस्तं न स्याद् इति भावः ।
स्याद् एतत् -- यद्य् एतद् अर्थं सम्ननतरप्रत्यय ग्रहणं तर्हि नितरां न कर्त्तव्यम् । स्वविषयानन्तरविषयक्षणसहकारिणे त्य् अनेनैव योगिज्ञानस्य निरस्तत्वात् । न हि तद् इन्द्रियज्ञानं योगिज्ञाने कर्त्तव्ये स्वविषयानन्तरविषयक्षणसहकारी ति । अथोच्यते -- यदेन्द्रियज्ञानं योगिज्ञानं जनयति तदा स्वोपादेयम् अपि ज्ञानं जनयत्य् एव । ततः स्वसन्ततिपतितजन्यक्षणापेक्षया तद् भवति स्वविषयानन्तरविषयक्षणासहकारी त्य् अस्ति तज्जानितस्य तस्य मानसत्वलक्षणम् इति । अहो शब्दार्थव्यवस्थापनकौशलम्? यद् एव हि जन्यतया प्रकृतं तद् अपेक्षम् एव सहकारिणः सहकारित्वं चिन्तनीयम् । न तु यत् किञ्चिद् अपेक्षम् । न च तद् एव योगिज्ञानं प्रति तत् सहकारि तद् इन्द्रियज्ञानं येन तथात्वम् अस्योच्यमानं शोभेत । अथ तत् सहकारि तद्वस्तुवृत्त्या तद् इन्द्रियज्ञानं । तत् किम् तदपेक्षया चिन्तयेति चेत् । यद्य् एवं कृते ऽपि समनन्तरप्रत्यय ग्रहणे योगिज्ञानं निरसितुम् अशक्यं तथापि यथा तद् इन्द्रियज्ञानं स्वोपादेयज्ञानापेक्षं स्वविषयानन्तरविषयसहकारि तथा तदेवापेक्ष्य समन्तरप्रत्ययो ऽप्य् अदो भ[26ब्]वत्य् एव । ततस् तथाभूतेन तेन जन्यमानस्य योगिज्ञानस्य कथं तथात्वेन निरासः । ननु न तदपेक्षं तस्य समननतरप्रययत्वम् । हन्त तत् सहकारित्वम् अपि किम् अस्य तदपेक्षम् अस्ति? अथ समननतरप्रययत्वं प्रकृतजन्यापेक्षं ग्राह्यम्, न तु वास्तवं रूपम् उपादेयं फलाभावेन तस्यानुवाद्यताऽनुपपत्तेः । अन्यथा समस्तवास्तवरूपानुवाद्यताप्रसं[गा]द् इति चेत् । समानम् इदं स्वविषयाननतरविषयक्षणसहकारिग्रहणे ऽपि । न च राजशासनसमानं किञ्चिद् उत्पश्यामो येन समनन्तरप्रत्ययजन्यत्वम् एव प्रकृतजन्यापेक्षम् इह ग्राह्यम्, न तु स्वविषयानन्तरविषयक्षणसहकारित्वम् इति कल्पनीयम् इति ।
अत्रोच्यते । यदा -- योगी इन्द्रियज्ञाणं तत्सहभुवं चार्थक्षणं च कुतश्चित् कारणाद् दिदृक्षमाणो योगिज्ञानेन तद् द्वयम् अपि पश्यति तदा तेनेन्दिर्यज्ञानेन स्वविषयानन्तरविषयक्षणसहकारिणा तद् योगिञानं जन्यत इति असति समनन्तरन्प्रयय ग्रःअणे मानसप्रत्यक्षं समासज्येत । ततस् तन्निर्वृत्त्यर्थं कर्त्तयम् एव समनन्तरप्रयय ग्रहणम् । एवंविधम् एव च योगिज्ञानम् अभिप्रत्येत्य् एदृशेने त्य् एभिहितं धर्मोत्तरेणे ति सर्वम् अवदातम् ।
[ध्प्र् प्.61]
यदा च इन्द्रियविज्ञानाद् अन्यो विषयो मनोविज्ञानस्य तदा गृहितग्रहणात् आसञ्जितो ऽप्रामाण्यदोषो निरस्तः ।
यदा च इन्द्रियविषयोपादेयभूतः क्षणो गृहीतः, तदा इन्द्रियज्ञानेन अगृहीतस्य विषयान्तरस्य ग्रहणाद् अन्धबधिराद्यभावदोषप्रसङ्गो निरस्तः ।
सम्प्रति यथा गृहीतग्राहित्वद्वारको दोषः परस्य परिह्रियते तथा दर्शयन्न् आह -- यदा चे ति । चो व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे । यदैवं तदा निरस्तः । इन्द्रियज्ञाण विषयाद् अन्यो ऽस्य विषय इत्य् एतद् एव कुतो येनासौ निरस्तो भवति इत्य् आश्ङ्क्याह -- यदा चे ति । चो ऽवधारणे । इन्द्रियविज्ञानविषयोपादेयभूत इत्य् अस्मात् परो द्रष्टव्यः । इन्द्रिय ज्ञानस्य विषयो यस् तस्य् ओपादेयभूतो यः क्षणः स गृहीत इन्द्र्यज्ञानस्य मानसोपजनने सहकारिकारणत्वेन स्वीकृतस् तदेतीहैव च्छेदः कर्त्तव्यः । एवं ब्रुवतेदम् आकूतम् -- जनकविशेषस्य विषयत्वान् मानसप्रत्यक्षस्य विषयेण भवता जनकेनावश्यभाव्यम् । जनकश् चेन्द्र्यज्ञानसहभूः क्षणस् तस्येति । सो ऽस्येन्द्रियज्ञानविषयात् प्राक्तनार्थक्षणाद् अन्यो विषय इति । अनेन च स्वविषयानन्तरविषयक्षणसहकारिग्रहणस्योपयोगो दर्शितः ।

अथेत्थं गृहीतग्राहित्वाद् अप्रमाण्यप्रसङ्गो निराक्रियताम् । अन्धबधिराद्याभावदोषप्रसग्ङ्गस् तु कथङ्कारं निराक्रियेतेत्य् आशङ्क्याह -- इन्द्रियज्ञानेने ति । अमुना गृहीतस्य विष्यान्तरस्य ग्रहणान् मानसेनेति प्रकरनात् । तस्माद् हेतोर् इन्द्रियज्ञानेनागृथीतं मानसेन गृह्यत इति दर्शयता चानेन यस्यैवेन्द्रियम् अस्ति तस्यैव तेनेन्द्रियज्ञानेन सहभूविषयक्षणसहकारिणा जनितत्वान् मानसं प्रत्यक्षम् । तेनागृहीतं तत्सहभुवः विषयक्षणं गृह्णाति । यस्य पुनः पुंसो ऽर्थविषयम् इन्द्रियज्ञाणम् एव सास्ति तस्य कथं माणसम् उत्पद्यते, गृह्णीयाद् वा तम् विष्यक्षणम् इति दर्शितम् । अतो ऽन्धबधिराद्यभावदोषप्रसङ्गो निरसत इति । अनेनेन्द्रियज्ञाणग्रहणस्य स्वविषयानन्तरविषयक्षणसहकारिसचिवस्योपयोगो दर्शितः । केवले ऽपि ज्ञानेनेति ग्रहणे [स्व][27अ]विषयानन्तरविषयक्षणसहकारिणेति विशेषणबलाद् यदि नामेन्द्रियज्ञानेनेति लभ्यते तथापि प्रतिपत्तिगौरवपरिहारार्थम् इन्देर्य ग्रहणम् कृतम् इत्य् अवसेयम् । अन्धबधिरादी त्य् अत्र् आदि ग्रहणात् काप्ति(कुष्ट)रोगिणो ग्रहणम् तस्यापि मानसेन स्पर्शज्ञानात् ।
इह शान्तभद्रेण सौत्रान्दिकानां मतं दर्शयता "पूर्वं चक्षूरूपे चक्षुर्विज्ञानं ततस् तेनेन्द्रियविज्ञानेन सहजक्षणसकारिणा तृतीयस्मिन् क्षणे मान्सप्रत्यक्षं जन्यते" इति व्याख्यातं ।
[ध्प्र् प्.62]
एतच् च मनोविज्ञानम् उपरतव्यापारे चक्षुषि प्रत्यक्षम् इष्यते । व्यापारवति तु चक्षुषि यद् रूपज्ञानं तत् सर्वं चक्षुराश्रितम् एव । इतरथा चक्षुराश्रितत्वानुपपत्तिः कस्यचिद् अपि विज्ञानस्य ।
तद् अवमन्यमान आह -- एतच् चे ति । चो ऽवधारणे । उपरतव्यापार इत्य् अस्यानन्तरं द्रष्तव्यः । चक्षुषो व्याप्रियमाणावस्था प्रणिधानम् एव । एतन् मनोविज्ञानं प्रमाणं प्रमाणत्वेनोपगतम् उपरतव्यापार एव चक्षुषि भवतीतीष्यत इति समुदायार्थो द्रष्टवः । यदि प्रणिहिते नयने मनोज्ञानं न जन्यते तर्हि किं नाम जायत इत्य् आह -- व्यापारे ति । तु र् निर्व्यापारावस्थाया व्यापारवतीम् अवस्थाम् भिनत्ति । रूपज्ञानम् इति वास्तवानुवादो न पुनर् अन्यज्ञानसम्भवेन तद्व्यवच्छेदार्थम् । यद् वा रूप शब्दः स्वभाववचनस् तेने यत् स्वभावज्ञानम् इत्य् अर्थः । सर्व ग्राहणेन व्याप्तिम् आह । चक्षुराश्रितं चक्षुर्जन्यं चक्सुर्विज्ञानम् इति यावत् । उपपत्तिम् आह इतरथे ति ।
ननु व्यापारवत्य् अपि चक्षुषि मानसोत्पत्तौ न चक्षुराश्रितत्वानुपपत्तिरादिम् अस्यैव ज्ञाणस्य चक्षुराश्रितत्वोपपत्तेः । सत्यम् । केवलम् अ[यम्] अभिप्रायः -- यद् अपि तद् आद्यं चक्षुर्विज्ञानं तद् अपि चक्षुरन्वयव्यतिरेके ऽ(का)नुविधानाद् एव तदाश्रितं व्यवस्थापनीयम् । सत्य् अपि तदन्वयव्यतिकेर्कानुविधाने यदि कस्यचिन् मानसत्वं तदा चक्षुरन्व्यव्यतितेकौ चक्षुराश्रितत्वव्यवस्थाया अनङ्गम् इत्य् आद्ये ऽपि तद्व्यवस्था न स्याद् इति साधीयान् प्रसङ्गः ।
स्याद् एतत् -- किम् एतन् मानसं चक्षुर्विज्ञानेनैव रूपविषये जन्यते किं वा रसादिज्ञानेनापि रसादिविषय इति? किं चातः? यदि रूप एव तदा[34]"द्विविधज्ञानविज्ञेयाह् पञ्च बाह्यविसयाः" इत्य् आगमो विरुद्ध्येत । अथ समस्तरूपादिविषयम् इष्यते तदा शब्दविषयत्वेन तस्यासम्भवः । न हि रसादिर् इव ताल्वादिजन्मा शब्दः प्रवाहवाही, येन श्रोत्रेन्द्रियज्ञाणेन स्वाविषयानन्तरविषयक्षणसहकारिणा तत्र मानसं जन्येतेति । उच्यते -- रूपादिपञ्चविषयम् एतत्, न तु रूपमात्रविषयम् । तद् आह् आचार्यः -- इन्द्रियज्ञानेन, न तु चक्षुर्विज्ञानेनेति । यत् पुनर् अवादीद् भगवान् -- "द्वाभ्यां भिक्ष्वो रूपं गृह्यते, चक्षुर्विज्ञानेन तदाकृष्टेन च मनसेति" तद् रूपस्य ग्रहणप्रसङ्गेनोक्तम्, न तु रूपम् एव द्विधा गृह्यत इति विवक्षितम् ।
__________नोतेस्__________
[34] द्रष्टव्यो ऽभिधर्मकोषः -- "पञ्च बाह्या द्विविज्ञेयाः" -- 1.48.
ननूक्तं न तस्य शब्दविषयत्वेन सम्भवस् तत् कथम् एवम् अभ्युपगमः? सत्यम् एतत् । केवलं यदाभिहन्यमानं घण्टाटि रणति तदा तदुक्तः(-त्थः) शब्दः कियन्तं कालं सन्तानेन प्रवहतीति श्रोत्रज्ञानेन स्वविषयानन्तरविषयक्षणसहकारिणा तद्विषयं मानसं जन्यते । एतावतापि द्विविधज्ञानवेद्यत्ववचनं चरितार्थम् । तद् उक्तम् अभिधर्मकोशे -- "रूपादिजात्यभिसम्बन्धिवचनाद्" इति । अस्यार्थः -- रूपादिजात्यभिसन्धिना तद् उक्तं भगवता, न तु सर्वरूपादिव्यक्त्यभिप्रायेणेति ।
इह पूर्वैः -- "बाह्यार्थालम्बनम् एवंविधं मनोविज्ञानम् अस्तीति कुतो ऽवसेयं" इत्य् आशङ्क्य "तदभावे तद्बलोत्पन्नानां विकल्पानाम् अभावाद् रूपादौ विषये व्यवहाराभावप्रसङ्गः स्याद्" इत्य् उक्तम् । "चक्षुरादिविज्ञानेनानुभूतत्वान् न विकल्पाभाव" इति चाशङ्क्याभिहितं -- "देवदत्तेनापि
[ध्प्र् प्.63]
एतच् च सिद्धान्तप्रसिद्धं मानसं प्रत्यक्षम् । न त्व् अस्य प्रसाधकम् अस्ति प्रमाणम् । एवंजतीयकं तद् यदि स्यात् न कश्चिद् दोषः स्याद् इति वक्तुं लक्षणम् आख्यातम् अस्य इति ।
दृष्टे यज्ञदत्तस्याषि विकल्पप्रसङ्गः ।" "सन्तानभेदा[न् न] भविष्यते" इति च पुनर् आशङ्क्य "अत्रापि सन्तानभेदाद् एव विकल्पो न प्राप्नोति, यत इहापीन्द्रियाश्रयभेदाद् एव सन्तानभेदो युगपत् प्रवृत्तेश् च । दीर्घशष्कुलीभक्षणादौ हि युगपज् ज्ञानप्रवृत्तिर् दृश्यते । न च सन्तानस्यैक्ये युगपत् प्रवृत्तिर् न्याय्या । तस्माद् रूपादिविकल्पाभावो मा भूद् इत्य् अवश्यम् अविकल्पकं मनोविज्ञानम् अभ्युपेयम् । एतेन निश्चयस्मरणाभावप्रसङ्गो ऽपि ढौकनीयः । निर्विकल्पकं मनोविज्ञानं यदि नास्त्य् एव तदा योगिज्ञानाभावप्रसङ्गः । अस्त्य् एव निर्विकल्पकं मनोविज्ञानं किन् त्व् इन्द्रियज्ञानपृष्टभावि नास्तीति चेत् । सति सम्भवे तस्याप्य् अस्तित्वे को विरोधः । न ह्य् अत्र बाधकं प्रमाणं दृश्यते, येन तन् नास्तीति स्यात् । अस्तिवे चोक्तं प्रमाणम् । तस्माद् अस्तीन्द्रियज्ञानपृष्टभावि मनोज्ञानं निर्विकल्पकम्" इत्य् एवमाद्यभिहितम् । तद् एतत् तदीयं कदलीगर्भनिःसारं मन्यमानः प्राह -- एतच् चे ति । चो ऽवधारणे । सिद्धान्तप्रसिद्धम् इत्य् अतः परो द्रष्व्यः । एतद् एव व्यतिरेकमुखेण द्रढयति न त्व् अस्ये ति । तु र् अवधारयति भिनत्ति वा । प्रवाहानारम्भकस्यास्य ज्ञानात्मतया स्वसंवेदनरूपत्वे ऽप्य् असंविदितकल्पत्वाद् अनुभवगम्यम् इदं यथा चक्षुरादिज्ञानम् इति दर्शयितुम् अशक्यत्वान् नास्य प्रसाधकं निश्चायकं प्रमाणम् अस्ति ।

ननु तैर् दर्शितम् एव विकल्पाभावप्रसङ्गः स्याद् इत्यादिना प्रसङ्गमुखेन प्रमाणं विकल्पोदयाद् इति तत् किम् उच्यते न त्व् अस्य प्रसाधकम् अस्ति प्रमाणम् इति । अयम् अस्याशयः -- सत्यम् उक्तम् अतार्किकीयं तु तत् । तथा हि यत् तावद् उक्तम् इन्द्रियाश्रयभेदाद् युगपत् प्रवृत्तेश् च सन्तानभेदो ऽस्ति । न च सन्तानभेदे ऽन्यानुभूते ऽन्यविकल्पो युक्त इति । तद् अवाच्यम् । यदीन्द्रियाश्रयभेदाद् युगपत् प्रवृत्तेश् च सन्तानभेदस् तद्भेदे च न कार्यकारणभावः, तदा स्वापाद् उत्थितमात्रस्य पुंसश् चक्षुर्विज्ञानं ..................................................................... नोत्पद्येत । तत् खलूपजायमानं मनोज्ञानाद् वा प्राचीनाद् उत्पद्येत, इन्द्र्यज्ञानाद् वा । न तावद् इन्द्र्यज्ञाणात् तस्य पूर्वम् अभावात्, नापि जागरावस्थाभावीन्द्र्यज्ञानात् । तस्य् चिरनिरुद्धत्वात् । न च चिरातीतं कारणम् इश्यते । अथैवं भिन्नसन्तानैर् एव विकल्पितैर् विकल्पोदयो ऽस्त्य् एव न तु निर्विकल्पाद् विकल्पोदय इति चेत् । सन्तानभेदे ऽपि जन्यजनकभावे निर्विकल्पाद् अपि विकल्पोदयस्य को निषेद्धा । न चेन्द्रियाश्रयभेदाद् युगपत् प्रवृत्तेश् च सन्तानभेदो युज्यते । परस्परपरोक्षतादिप्रसङ्गात् । तस्मात् प्रभूतम् अल्पं वा सदृशाद् एव कारणाज् जायते । न तु प्रभूतस्योदयमात्रेण सन्तानभेदो ऽभ्युपेतव्यः । यथाग्निकणिकायाः [28अ] प्रभाप्रतानवती प्रदीपशिखा जायमाना न सन्तानभेदम् आत्मन्य् आवहति । यत् पुनर् योगिज्ञाणस्य तथात्वे ऽपीदानीं मनोज्ञानं निर्विकल्पकं नाभ्युपेयते तद् यादृशाः सामग्र्यास् तद् उद्भवो यदाकारञ् च तत् तत् सामग्र्यभावात् तद् आकारस्य च मनोविज्ञानस्य निर्विकल्पस्यासंवेदनाद् इति किम् अत्रादरेणेति ।
ननु च यद्य् अस्य प्रसाधकं प्रमान्ं नास्ति किमर्थं तर्हि प्रत्यक्षप्रकरण उपन्यास इत्य् आशङ्क्याह -- एवम् इति । एवंजातीयकम् एवम्प्रकारवत् । एवम् प्रकारलक्षणकथनस्यैव किम् प्रयोजनम् इति चेत् । सूत्रकार स्य सिद्धान्तप्रसिद्धमानसाभ्युपगमे प्रसक्तचोद्यनिराकरणम् -- यद्य् अस्ति मानसं प्रत्यक्षम् एवं तस्य लक्षणम् इति ।
[ध्प्र् प्.64]
स्वसंवेदम् आख्यातुम् आह --
सर्वचित्तचैत्तानाम् आत्मसंवेदनम् इ-10
सर्वचित्ते त्यादि । चित्त म् अर्थमात्रग्राहि । चैत्ता विशेसावस्थाग्राहिणः सुखादयः । सर्वे च ते चित्तचैत्ताश् च सर्वचित्तचैत्ताः । सुखादय एव स्फुटानुभवत्वात् स्वसंविदिताः, न अन्या चित्तावस्था इत्य् एतद् आशङ्का निवृत्त्यर्थं सर्व ग्रहणम् कृतम् । न अस्ति सा काचित् चित्तावस्था यस्याम् आत्मनः संवेदनं न प्रत्यक्षं स्यात् ।
येन हि रूपेण आत्मा वेद्यते तद्रूपम् आत्मसम्वेदनं प्रत्यक्षम् ।
वैभाषिक प्रक्रियया यद् आचार्येण चित्तचैत्तौ भेदेनोक्तौ तयोर् अर्थम् आह -- चित्तम् अर्थमात्रग्राहि वस्तुमात्र ग्राहि । "तत्रार्थदृष्टिर् विज्ञानम्" इति वचनात् । चैत्ता विशेषावस्थाग्राहिणो विशेषावस्थास्वीकर्त्तारो विशेषावस्थाकारा इति यावत् । तद्विशेषे तु चैतसा इति वचनात् । क एवं रूपा इत्य् आह -- सुखादय इत्य् । सर्वे चे ति । विगृह्णन् पूर्व चित्तानि च चैत्ताश् चेति समस्य पश्चात् सर्व शब्देन समास इति दर्शयति । सुखे त्यादिना सर्व ग्रहणस्य फलम् आह -- स्फुटो व्यक्तो ऽनुभवः प्रकाशो यस्य तस्यभास् तस्मात् । सर्व ग्रहणे सति कीदृशो ऽर्थो भवति, येनाशङ्का निवर्त्त्यत इत्य् आह -- नास्ती ति । काचिद् इति भ्रान्ता वा ऽभ्रान्ता वेत्य् अर्थः ।
ननु ज्ञानस्य संवेद्यात्मः किम् अन्यद् रूपान्तरं यत् स्वसंवेदनं प्रत्यक्षं स्याद् इत्य् आशङ्क्याह -- येन ही ति । हि र् यस्मादर्थे ।
अथ यद् अनुभूयते तद् अन्येनैव यथा घटादि । तत् कथम् आत्मनैवात्मनः संवेदनम् इति चेत् । न, योग्यतायास् तथाव्यवहारात् । अस्ति ज्ञानस्य सा योग्यता जडव्यावृत्तता ज्योतीरूपता यया स्वप्रकाशे प्रकाशान्तरं नापेक्षते । यथा प्रदीपः प्रकाशस्वाभाव्याद् आत्मानं स्वयम् एव प्रकाशय्ते, न तु प्रदीपान्तरम् अपेक्षत इति ।
ननु किं घडादिदृष्टान्तबलात् प्रकाशान्तरप्रकाश्यता ज्ञानस्यास्ताम्, आहोस्वित् प्रदीपदृष्टान्तसामर्थ्यात् प्रकाशान्तरनिरपेक्षतया स्वप्रकाशता? अत्रोच्यते । ज्ञानस्य स्वप्रकाशरूपत्वाभावे घटादेः स्वरूपप्रकाशनानुपपत्तेः स्वप्रकाशतैवेष्टव्या । अत्र च प्रयोगः -- यद् अव्यक्तव्यक्तिकं न तद् व्यक्तम् यथा किञ्चित् कदाचित् कथञ्चिद् अव्यक्तव्यक्तिकम् । अव्यक्तव्यक्तिकश् चायं घटादिः ज्ञानपरोक्षत्व इति व्यापकानुपलब्धिप्रसङ्गः । ज्ञानस्य ज्ञानान्तरेण व्यक्तौ हेतुर् अयम् असिद्ध इति चेन् न, नीलज्ञानोदयकाले ऽसिद्धत्वाद् हेतोर् नीलस्य परोक्षत्वप्रसञ्जनात् । न च भवताम् अपि मते सर्वं विज्ञानम् एकार्थसमवायिना ज्ञानेन ज्ञायते । बुभुत्साभावे तदभावात्, यथोपेक्षणीयविषया संवित् । तत् उपेक्षणीयम् एव तावद् अव्यक्तव्यक्तिकत्वाद् अव्यक्तं प्रसज्येत । न चेयम्
[ध्प्र् प्.65]
इह च रूपादौ वस्तुनि दृश्यमाने आन्तरः सुखाद्याकारस् तुल्यकालं संवेद्यते । न च गृह्यमाणाकारो नीलादिः सातरूपो वेद्यते इति शक्यं वक्तुम् । यतो नीलादिः सातरूपेण अनुभूयत इति न निश्चीयते ।
यदि हि सातरूपो ऽयम् नीलादिर् अनुभूयत इति निश्चीयेत, स्यात् तदा तस्य सातादिरूपत्वम् । यस्मिन् रूपे प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेन अनुगम्यते तत् प्रत्यक्षम् ।
अनुपलब्धिः सन्दिग्धविपक्षव्यावृत्त्यानैकान्तिकी कीर्त्तनीया ।[28ब्] तथा हि यद्य् अव्यक्तव्यक्तिकम् अपि व्यक्तव्यवहारविषयस् तदा पुरुषान्तरवर्त्तिज्ञानव्यक्तिकम् अपि वस्तु स्वज्ञानोदयकालवत् तथैव व्यक्तं व्यवह्रियेत । अस्वसंवेदनात्मतया स्वपरसन्तानवर्त्तिनोर् ज्ञानयोर् विशेषाभावात् । तत्सन्ताने ज्ञानस्याभावात् कथं वस्तुनस् तथा व्यवःआर इति चेत् । भावे ऽपि तदप्रकाशे कथं तथा व्यवहारः? न हि तेनास्य किञ्चित् क्रियते ।[35]...... तदा तद् अपि पुरुषान्तरस्य किन् न तथा व्यवहारगोचर? तद् अयं व्यक्तव्यवहारो व्यक्तव्यक्तिकत्वेन व्याप्तः । सिद्धे च व्याप्यव्यापकभावे व्यापकानुपलब्धिर् नानैकान्तिकीति ।

__________नोतेस्__________
[35] पङ्क्तिबाह्यं लिखितं सम्यक् न पठ्यते -- सं-
ननु किं तद् रूपान्तरम्, येनोच्यते -- येनात्मा संवेद्यते, तद् आत्मसंवेदनं प्रत्यक्षम् इति? केवलम् अर्थशूयम् एतद् उच्यते इत्य् आशङ्क्याह -- इहे त्यादि । अन्तरे भव आन्तरो ऽध्यात्मपरिस्पन्दी । को ऽसाव् ईदृश इत्य् आह -- सुखे ति ।
ननु गृह्यमाण एव रूपादिः सुखायाको ऽनुभूयते । न तु ततो ऽन्यत् सुखादिरूपं येन तस्य वेदनरूपता व्यवस्थाप्य् एतेत्य् आह -- न चे ति । चो ऽवधारणे, यस्मादर्थे वा । गृह्यमाण आकारो यस्य ग्राह्यस्वभाव इत्य् अर्थः । सातरूपः सुखस्वभावः । सात ग्रहणस्योपलक्षणत्वाद् दुःखरूप इत्य् अपि द्र्ष्टव्यम् । इति ना वचनस्याकारं दर्शयति । कुत एवं वक्तुं न शक्यत इत्य् आह -- यत इति । इति र् निश्चयअस्य स्वरूपम् आह । किं ताद्रुप्येन निशये ऽपि ताद्रूप्यानुभवः सिद्ध्यति, येन तदा(द)भावान् नैवं शक्यते वक्तुम् इत्य् उच्यते इत्य् आह -- यदी ति । हि र् [य]स्माद् इति । इति करणेन निश्चयस्वरूपम् उक्तम् । अनेन यद् एवानुरूपविकल्पेन यथात्वेन निश्चीयते तद् एव तथावव्यवहारगोचरो यथा नीलादिर् इत्य् आकूतम् । ननु च तत्प्रतिभासाद् अनुभवः प्रमाणम् ।
[ध्प्र् प्.66]
न च नीलस्य सातरूपत्वम् अनुगम्यते । तस्माद् सातानीलाद्यर्थाद् अन्यद् एव सातम् अनुभूयते नीलानुभवकाले । तच् च ज्ञानम् एव । ततो ऽस्ति ज्ञानानुभवः ।
तच् च ज्ञानरूपवेदनम् आत्मनः साक्षात्कारि निर्विकलपकम् अभ्रान्तं च । ततः प्रत्यक्षम् ।
निशयो भवतु, मा वा भूत् । तत् किम् एवम् उच्यते इत् आशङ्क्य पूर्वोक्तम् एव स्मारयति -- यस्मिन्न् इति । रूपे स्वभावे । शेषं प्राग् एव कृतव्याख्यानम् । गृहीतं नीलस्य सातरूपत्वं विकल्पेनानुगम्यत एवेत्य् आह -- न चे ति । च ः पूर्ववत् । अनुगम्यते विकल्पेनेति वर्त्तते । तस्माद् इत्यादिनोक्तम् उपसंहरति । यस्माद् गृह्य्माणाकारो नीलादिर् न तथा निश्चीयते, अस्ति च हर्षाद्याकारसंवेदनम्, तस्माद् ।
भवतु साताकारो ऽनुभूतः । केवलम् असाव् अज्ञानात्मा भविष्यति । तथा च कथम् अज्ञानेन ज्ञानात्मसंवेदनम्? कथं चात्मवेदनं प्रत्यक्षम् इत्य् आह -- तच् चेति । चो ऽज्ञात्मन एवं भिनत्ति । ज्ञानम् एवे त्य् अवधारयतः प्रकाशात्मन एव ज्ञानत्वम् अन्यथा प्रकाशायोगाद् इत्य् अभिप्रायः । यत एवं ततो ऽस्ति ज्ञानानुभवः । इत्य् अन्तर्मुखस्य सुखाद्याकारस्य ग्राहकाकाराख्यस्येत्य् अर्थः । न च ग्राह्याकाराद् अन्यद् अनुभूयमानं सातं ग्राहकाकाराद् अप्य् अन्यद् उपपद्यते । गृह्यं वा प्रकाशेत, ग्राहकं वा । न च तद् ग्राह्यम् अतो ग्राहकम् एव । अथ ज्ञानम् अस्तु तथानुभूतम् । तत् पुनर् आत्मसंवेदं प्रत्यक्षं कुत इत्य् आह -- तच् चे ति । चो यस्माद् । वेद्यते ऽनेनेति वेदनम् । ज्ञानरूप स्य वेदनम् इति विग्रः[29अ] । यद् वा ज्ञानरूपं च तद् वेदनञ् चेति तथा । साक्षात्कारि अप्रोक्षताकारि, स्कुटावभासम् इति यावत्, हेतुभावेनास्य विशेषणत्वात् । अत एव च निर्विकल्पकम् । विकल्पानुबद्धस्य स्पष्टार्थप्रतिभासित्वायोगात् । भवतु निर्विकल्पकं द्विचनेद्रादिज्ञानवद् भविष्यतीत्य् आह -- अभ्रान्तं चे ति । च स् तुल्योपायत्वं समुच्चिनोति । न हि तत् स्वात्मनि अतस्मिंस् तद् इति प्रवृत्तम्, येन तत्र भ्रान्तिर् भविष्यतीति भावः । भवतां निर्विकल्पकत्वाभ्रान्तत्वे ततः किं सिद्धम् इत्य् आह -- तत इति । यत एतद् रूपद्वययोगि ततस् तस्मात् । एतावन् मात्रलक्षणत्वात् प्रत्य्क्षस्येति भावः ।
तत्र चेयं व्यवस्था । आत्मात्मयोग्यता प्रमाणम्, आत्मसंवित् फलम् इति द्रष्टव्यम् । स्यान् मतम् -- इत्यम् तस्य वेदनस्य प्रत्यक्षत्वे विकल्पात्मवेदनस्यापि तत्त्वं स्यात् । न च विकल्पात्मा प्रत्यक्षं युज्यते । युज्यते, स्वात्मनि अविकलपनाद् अभ्रान्तत्वाच् च । विकल्पो हि बाह्यं विकल्पयति न त्व् आत्मानम् । भ्राम्यति च ब्राह्ये, नात्मनि । ततः किं न प्रत्यक्षम्? प्रयोगः -- यद् अभ्रान्तत्वे सत्यविकपं तत् प्रत्यक्षं । यथेन्दिर्यज्ञाणस्य बाह्यसंवेदनम् सारूप्याख्यम् । अभ्रान्तत्वे सत्यविकल्पकं चात्मनि विकलपरूपवेदनम् इति स्वभावः । यथा च ज्ञानात्मनि सम्यासम्भवो यथा वा समितः शब्दसंसृष्टो न गृह्यते तथा ऽन्यत्र प्रपञ्चितम् इति नेहोच्यत इति ॥
[ध्प्र् प्.67]
योगिप्रत्यक्षं व्याख्यातुम् आह --
भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं च इति इ-11
भूतः सद्भूतो ऽर्थः । प्रमाणेन दृष्टश् च सद्भूतः ।
यथा चत्वार्यार्यसत्यानि ।
भूतस्य भावना पुनः पुनश् चेतसि विनिवेशनम् । भावनायाः प्रकर्षो भाव्यमानार्थाभासस्य ज्ञानस्य स्फुटाभत्वारम्भः । प्रकर्षस्य पर्यन्तो यदा स्फुटाभत्वम् ईषदसम्पूर्णं भवति । यावद् धि स्फुटाभत्वम् अपरिपूर्णं तावत् तस्य प्रकर्षगमनम् ।
भूत शब्दस्य विवक्षितम् अर्थम् आह -- सद्भूत इति । अर्थ इति ब्रुवाणो भूतश् चासाव् अर्थश् चेति कर्मधारयं दर्शयति । ननु सुखादिमयत्वम् अप्य् अर्थस्य सांख्य परिकल्पितं सद्भूतम् इत्य् आह -- प्रमाणेने ति । दृष्टो निश्चितः । च कारः स्फुटम् एतद् इत्य् अर्थं द्योतयति ।
कः पुनर् ईदृशो अर्थो विविक्षित इत्य् आह -- यथे ति । अनेन भूतार्थ शब्देनात्र सत्यचतुष्टयं विवक्षितम् इति दर्शितम् । यथा चतुरार्यसत्यभावनाबलजं ज्ञानं योगिनः प्रत्यक्षम्, तथा ऽन्यसद्भूतार्थविषयम् अपि द्रष्टव्यम् इति यथा शब्दार्थो ऽप्य् अस्ति । यद् विनिश्चयः "[35*]चतुरायसत्यदर्शनवद्ब् इति"प्विन् इ 74,4 । आरात् पापकेभ्यो धर्मेभ्यो याता इत्य् आर्याः । अत एव तानि सत्यतया मन्यन्त इति तेषां सत्यानि । चतुष्ट्वाच् च तेषां चत्वारीत्य् उक्तम् ।
__________नोतेस्__________
[35*] चे प्विन् इ 74,4
फलभूताः पञ्च सक्लेशस् कन्धा दुःखाख्यं सत्यम् एकम् । त एव हेतुभूतास् तृष्णासहायाः समुदयाख्यं सत्यं द्वितीयम् । चित्तस्य निष्क्लेशाव्स्था निरोधाख्यं सत्यं तृटीयम् । तदवस्थाप्राप्तिहेतुनैरात्म्याद्याकारश् चित्तविशेषो मार्गाख्यं सत्यं चतुर्थम् इति ।
भावना शब्देन विग्रहं तस्य चार्थम् आचष्टे भूतस्ये ति । भूतार्थस्येति द्रष्ट्व्यम् । लक्ष्यते च भूत शब्दसान्निध्याल् लेखकेन प्रथमपुस्तके भूशब्दः प्रक्षिप्तः । तस्ये ति तु वचनं संक्षेपेण विग्रहं दर्शयतो धर्मोत्तर स्य पाठो ऽन्यथा यथाभूतं विग्रहं दर्शयितुकामेन् आर्थ पदोपादाने किम् अक्षरगौरवं दृष्टम्, येन केवल भूत शब्दोपादाने प्रतिपत्तिगौरवं लिखनाकौशलञ् चाविष्कृतम् इति । भावना र्थम् आह -- पुनर् इति । पुनर् इत्य् अप्रथमतः । द्विर् वचनेनाप्रथमप्रचारस्य प्राचुर्यं दशयति । तथानिवेशनञ् च विजा[29ब्]तीयाव्यवधानेन द्रष्टव्यम् । सत्यचतुष्टयविषयो विजातीयाव्यवहितः सदृशचित्तप्रवाहो भावनेति यावत् ।
[ध्प्र् प्.68]

सम्पूर्णं तु यदा तदा न अस्ति प्रकर्षगतिः । ततः सम्पूर्णावस्थायाः प्राक्तन्यवस्था स्फुटाभत्वप्रकर्षपर्यन्त उच्यते । तस्मात् पर्यन्ताद् यज् जातं भाव्यमानस्य अर्थस्य सन्निहितस्य इव स्फुटतराकारग्राहि ज्ञानं योगिनः प्रत्यक्षम् ।
तद् इह स्फुटाभत्वारम्भावस्था भावनाप्रकर्षः । अभ्रकव्यवहितम् इव यदा भाव्यमानं
यादृशो योगिनां भावनाक्रमो विनिश्चये "श्रुतमये"त्यादिनाभिहितो यथा भावनाप्रकर्षविशदाभत्वयोः कार्यकारणभावस् तत्रैव "कामशोके"त्यादिना दर्शितस् तथेहापि द्रष्टव्यः । यादृशश् चाकारस् तेषां सत्यानाम् अनित्यत्वादिके भावनीयो यावत् कालावधिका च भावना ऽनेकजमपरम्परानुयाता, यच् च निबन्धनं भावनायाः करुणा बोधिसत्त्वानाम्, तद् अन्येषां संसारोद्वेगस् तद् अपि सर्वं यथा प्रमाणवार्त्तिके निर्णीतं तथेहाप्य् अनुगन्तव्यम् । इह तु योगिज्ञाण्स्य स्व्रूपमात्रम् उपदर्शयितुम् उपक्रान्तम् इति ।
प्रकर्ष शब्देन सह विग्रहं तस्य चार्यं विवक्षितम् आह -- भावनाया इति । स्फुटाभत्व स्य् आरम्भ उपक्रमः । स च यत्स्फुटत्वतदधिकस्फुटत्वादिना रूपेण तज्ज्ञानस्योदय एव । पर्यन्त शब्देन विग्रहं तस्य चार्थम् आचष्टे प्रकर्षस्ये ति । पर्यन्तो ऽवसानम् । कदा च तस्यावसानम् इत्य् आह -- यदे ति । यस्मिन् काले स्फुटाभत्वं भावनार्थं विषयस्य ज्ञानस्येति प्रकरणात् । इदं लेशतो ऽसम्पूर्णं भवति यद् अ[न]न्तरं योगिप्रत्यक्षेण भवितव्यं तस्मिन् काले प्रकर्षस्य पर्यन्तो ऽवसानं ज्ञातव्यः । तत्कालोपलक्षितं तथाभूतं ज्ञानं पर्यन्त इत्य् अर्थः ।
ननु प्रकर्षस्य पर्यन्तः स युज्यते यस्मिन् सति प्रकर्षो निवर्त्तते । तच् च सम्पूर्व(ण)म् एव स्फुटभत्वम्, तत् कथम् उच्यते कथञ् च पर्यन्तजं योगिज्ञानम्, न तु तद् एव पर्यन्त इत्याशङ्क्याह -- यावद् इति । हिर् यस्मात् ।
सम्पूर्णे तु प्रकर्षगमनं नास्तीति दर्शयति -- सम्पूर्नम् इति । तु र् इमाम् अवस्थां भेदवतीम् आह । प्रकर्ष स्य गतिर् गमनम् । एवं ब्रुवतो ऽयम् आशयः । प्रकर्षः प्रकृष्यमाणता सातिशयं रूपम् उच्यते । पर्यन्तश् च गत्यर्थाद् आमर्द्धातोस् तत्प्रत्ययेन(?) परिसमन्ताद् अन्त इति प्रादिसमासेन निःशेषगमनम् एवोच्यते । ततः स पर्यन्त उच्यते यद् अनन्तरं प्रकर्ष(-कृष्य)माणेन न भवितव्यम् । न तु यदर्थं येषां प्रकर्षवताम् उदय इति । एतद् एवोपसंहरति तत इति । प्राक्तनी व्यवधानशून्या यदननतरं स्फुटतरज्ञानोदयः । सम्पूर्णवस्थायाः स्फुटत्वसम्पूर्णावस्थायाः स्फुटतराकारग्रहणावस्थाया इति यावत् । सन्निहितस्ये ति । यथा ऽन्यस्याभावितस्य निकटस्थस्य घटघ(प)टाद(दे)र् अन्यज्ञानं स्फुटतराकारग्राहि प्रत्यक्षं तद्वद् भाव्यमानार्थस्फुटतराकारग्राहि यज्ज्ञानं तद्योगिनः प्रत्यक्षम् ।
उक्तम् एव भावनाप्रकर्षार्थं तत्पर्यन्तार्थं तज्ज्ञानं चोपसंहारव्याजेन सुखप्रतिपत्त्यर्थं पुनर् दर्शयति तद् इति । तत् तस्मात् । इहे ति योगिप्रत्यक्षलक्षणप्रतीतिकाले अवस्था भावनाज्ञान--
[ध्प्र् प्.69]
वस्तु पश्यति सा प्रकर्षपर्यन्तावस्था । करतलामलकवद् भाव्यमानस्य अर्थस्य यद् दर्शनं तद् योगिनः प्रत्यक्षम् । तद् धि स्फुटाभम् ।
स्फुटाभत्वाद् एव च निर्विकल्पकम् । विकल्पविज्ञानं हि सङ्केतकालदृष्टत्वेन वस्तु गृह्णच् छब्दसंसर्गयोग्यं गृह्णीयात् । सङ्केतकालदृष्टत्वं च सङ्केतकालोत्पन्नज्ञानविषयत्वम् । यथा च पूर्वोत्पन्नं विनष्टं ज्ञानं सम्प्रत्यसत् तद्वत् पूर्वविनष्टज्ञानविषयत्वम् अपि सम्प्रति न अस्ति वस्तुनः । तद् असद्रूपं वस्तुनो गृह्णद् असन्निहितार्थग्राहिवाद् अस्फुटाभम् विकल्पकम् । ततः स्फुटाभत्वाद् निर्विकल्पकम् ।
स्येति प्रकरणात् । अभ्रके नातिस्वच्छतया पाश(र्श्व)तो द्विधाकर्त्तुम् अशक्येनेति प्रस्तावाद् व्यवहितम् आवृतं तदिव । करस्वरूपं करतलं सन्निहितस्येवेत्य् अनेन यत् पूर्वम् उक्तं [30अ] तस्यायम् उपसंहारः ।
अस्तु तथाविधं योगिज्ञानम्, तत् पुनः कथं प्रत्य्क्षम् इत्य् आशङ्काम् अपाकर्त्तुं प्रत्य्क्षलक्षणेन योगम् अस्य दर्शयन्न् आह तद् धी ति । हि र् यस्मात् ।
स्फुटाभं भवति, निर्विकल्पकं तु कथं येन प्रत्यक्षं स्याद् इत्य् आह -- स्फुटाभत्वाद् एवे ति । चो निर्विकल्पकम् इत्य् अतः परः स्फुटाभत्वापेक्षैकविषयत्वं निर्विकल्पकत्वस्य समुच्चिनोति । अयम् अस्याशयः -- शब्दाकारसंसर्गो हि स्फुटाभत्वविरोधीति यद्य् असाव् अभविष्यत् तदा स्फुटाभम् एव नाभविष्यद् इति । अभिलापसंसर्गयोग्यप्रतिभासम् एव स्फुटाबह्ं भवैष्यति को ऽनयोर् विरोध इत्य् आशङ्क्य विकल्पे त्यादिना विरोधम् एव दर्श्यितुम् अपक्रमते । हि र् यस्मात् । वस्त्व् इति दृश्यमानं यथा चैतत् तथा पूर्वम् एव विवेदितं गृणीयाद् ग्रहीतुम् अर्हति । सङ्केतकालदृष्टत्वेन च वस्तुग्राहित्वे ऽसन्निहितविषयं स्याद् इति । चो हेतौ । भवतु सङ्केतकालदृष्टत्वस्य तथात्वम्, किम् अत इत्य् आह -- यथा चे ति । चो वक्तव्यम् एतद् इत्य् अस्यार्थे ।
भवत्व् एवं तथापि वादकाकारसंसर्गिनो ऽपि कथं न स्फुटाभत्वम् इत्य् आह -- तद् इति । यत एवं तत् तस्मात् । विकल्पयतीति विकल्पकं विज्ञानम् । अस्फुटाभं तु कुतस् तद् इत्य् आह -- असन्न्निहितार्थग्राहित्वाद् इति । सन्निहिततया हि भासमानो विशदो भवेत् । पूर्ववृत्तदर्शन विषयतया च भूतपूर्वो भावो गृह्यमानो न सन्निहितरूपो भासते । तेनाविशदाभो विकल्पः । तेन शब्दाकारसंसर्गो विकल्पस्य विशदाभत्वविरोधीत्य् अस्याभिप्रायः । असन्निहितविषयत्वम् एव तस्य कुतो ऽवसीयत इत्य् आह -- असद्रूपम् इति । यत् पूर्वदृष्टत्वं सम्प्रत्य् असद्, असद्रूपं वस्तुनो गृह्यमाणस्य गृह्णद् इति हेतौ शतुर् विधानाद् असद्रूपग्रहणाद् इत्य् अर्थः ।
स्फुटाभत्वाद् एवे ति यद् अवोचत्, तद् एवोपसंहरति तत इति । यतो विकल्पस्य स्पष्टाभत्वं न युज्यते, अनन्तरोक्तेन क्रमेण ततस् तस्मात् स्फुटाभत्वाद् विशदाबत्वान् निर्विकलपकं योगिज्ञानम् इति प्रकरणात् । प्रयोगः -- यत् सङ्केतकालदृष्टतया वस्तुसंस्पर्शि ज्ञानं न तत् स्फुटाभम् । यथा चिर--
[ध्प्र् प्.70]
प्रमाणशुद्धार्थग्राहित्वाच् च संवादकम् । अतः प्रत्यक्षम् । इतरप्रत्यक्षवत् ।

योगः समाधिः । स यस्य अस्ति स योगी । तस्य ज्ञानं प्रत्यक्षम् । इति शब्दः परिसमाप्तिवचनः । इयद् एव प्रत्यक्षम् इति ।
तद् एवं प्रत्यक्षस्य कल्पनापोढत्वाभ्रान्तत्वयुक्तस्ये प्रकारभेदं प्रतिपाद्य विषयविप्रतिपत्तिम् निराकर्तुम् आह --
तस्य विषयः स्वलक्षणम् इ-12
तस्य इत्यादि । तस्य चतुर्विधस्य प्रत्यक्षस्य विषयो बोद्धव्यः स्वलक्षणम् । स्वम् असाधारणं लक्षणम्
तत्त्वं स्वलक्षणम् । वस्तुनो ह्य् आसाधारणं च तत्त्वम् अस्ति सामान्यं च । तत्र यद् असाधारणम् तत् प्रत्यक्षस्य ग्राह्यम् ।
दृष्टनष्टवस्तुविकल्पः । सङ्केतकालदृष्टतया च दृश्यमानवस्तुसंस्पर्शी विकल्पः । स्फूटाभासत्वं नाम सन्निहितरूपभासनम् । असन्निहितरूपभासनेन च वस्तुनः पूर्वदृष्टत्वग्रहणं व्याप्तम् । न हि पूर्वज्ञानविषयत्वं पूर्वम्सिन् निवृत्ते वस्तुनो ऽस्ति । तद् उत्तरकालभाविना ज्ञाज्ञानेन पूर्वज्ञानविषयत्वम् असन्निहितम् एव वस्तुनः स्पृश्यते । पूर्वज्ञानविषयत्वग्रहणम् एव च सङ्केतकालदृष्टशब्दविशिष्टत्वग्रहणं । तद् इदं विरुद्धं(-द्ध)व्याप्तोपलब्धेर् भवतु निर्विकल्पकम् ।
असत्य् अभ्रातत्वे तु कथं प्रत्यक्षम् इत्य् आह -- प्रमाने ति । प्रंआण्धिगतो ऽर्थः प्रमाणशुद्ध उच्यते । सत्यचतुष्टयं चैवम् आत्मकम् । तद् एव शुद्धत्वेन विवक्षितम् । चः [30ब्] संवादकम् इत्य् अतः परो निर्विकल्पत्वेन सह संवादकत्वेन संवादकत्वं सौच्छिनोति, तत्रस्था ए[व] वा पूर्वहेत्वपेक्षया हेतन्तरसमुच्चयार्थः । अतो ऽस्मान् निर्विकल्पकत्वाद् अभ्रान्तत्वाच् च ।
योगिशब्दस्य व्युत्पतिम् आह यग इति । समाधिश् चित्तैकाग्रता । इह धर्मोत्तरेण लोकप्रसिद्धिर् आश्रिता । विनिश्चयटीकायां तु शास्त्रस्थितिस् तेनाविरोधः । यद् वा समाधि ग्रहणस्योपलक्षणत्वात् प्रज्ञा च विवेककरणषशक्तिर् द्रष्टव्या । स यस्यास्ति स नित्यसमाहितो विवेककरणतत्परश् च योगी । इयद् एव चतुःसंख्यावच्छिन्नम् एव ॥
तद् एवम् इत्याद्य् आहेइत्य् एतद् अन्तं सुबोधम् । विषयो बोद्धव्यः । क इत्य् आकाङ्क्षायाम् आह -- स्वलक्षणम् इति । स्व शब्दस्य लक्षण शब्दस्य चार्थम् आचक्षाणो विग्रगम् उपलक्षयति -- स्वम् इत्यादिना । स्वम् आत्मीयम् उच्यते । यस्य यत् स्वं तत् तस्यैव नान्यस्येति लक्षणया स्वशब्देना साधारणम् उक्तम् । लक्षण शब्देन च तत्त्वं स्वरूपं विवक्षितम् । स्व शब्दयोर् अर्थम् अभिधाय तयोः समस्तं पदम् आह -- स्वलक्षणं इति । अनेन स्वम् असाधारणं च तल् लक्षणं स्वरूपं चेत् कर्मधार्यो दर्शितः ।
[ध्प्र् प्.71]
द्विविधो हि विषयः प्रमाणस्य -- ग्राह्यश् च यदाकारम् उत्पद्यते, प्रापणीयश् च यम् अध्यवस्यति । अन्यो हि ग्राह्यो ऽन्यश् चाध्यवसेयः । प्रत्यक्षस्य हि क्षण एको ग्राह्यः । अध्यवसेयस् तु प्रत्यक्षबलोत्पन्नेन निश्चयेन सन्तान एव । सन्तान एव च प्रत्यक्षस्य प्रापणीयः । क्षणस्य प्रापयितुम् अशक्यत्वात् ।
तथा अनुमानम् अपि स्वप्रतिभासे ऽनर्थे ऽर्थाध्यवसायेन प्रवृत्तेर् अनर्थग्राहि ।
ननु सम्भवे व्यभिचारे च विशेषणम् अर्थवत् । अत्र च सर्वस्यैव स्वरूपस्यासाधारणत्वात् सम्भव एव, न व्यभिचार इति किं स्वशब्देन? एवं तु वक्तव्यम् -- वस्तुरूपं तस्य विषय इत्य् आशङ्कयाह -- वस्तुन इति । हि र् यस्मात् । चो वक्ष्यमाणापेक्ष्यः[क्षः] समुच्च्ये । सामान्यं सधारणं रूपं संवृतिज्ञानघटितम् । च ः पूर्वापेक्षः समुच्चये । सति चैवं द्वैरूप्ये किं पूर्वं रूपम्, अथ परं प्रत्यक्षय विषय इति सन्देहे -- यद् असाधारणं तत् प्रत्यक्षस्य ग्राह्यम् उच्यत इति शेषः । ग्राह्यम् इति ब्रुवन् विषय शब्देन् आचार्यस्य ग्राह्यो विषयो ऽभिप्रेत इति दर्शयति ।
स्याद् एतत् -- प्रवृत्तिविषय एव प्रमाणस्य विषयस् ततः प्रवृत्तिविषयस् तस्य विषय इति वक्तव्यम् । तत् किं ग्राह्यम् इत्य् उच्यत इत्य् आह -- द्विविध इति । अनेन भेदः प्रतिज्ञातः । हि र् यस्मात् द्विप्रकारो विषयः प्रमाण्स्ये ति । जातिविवक्षयैकवचनम् । एको ग्राह्यो ऽन्यः प्रापणीयः । भेदम् उपपादयति -- यदाकारं यत्प्रतिभासं ज्ञानम् उत्पद्यते । सो ऽपि द्विविधः -- परमार्थ आरोपितश् च । द्वयोर् अपि स्वज्ञाने प्रकाशनम् अस्त्य् एवेति द्रष्टव्यम् । प्रापणीयो यम् अध्यवस्यति । ततो ज्ञानाद् यत्र प्रवर्त्तत इति यावत् । च कारौ पूर्वापरापेक्षया समुच्चयार्थौ ।
ननु ग्राह्याध्यवसेयशब्दयोर् एव भेदो न त्व् अर्थस्य । यतो यद् एव प्रकाशते तद् एवाध्यवसीयते, तत् किं एवं उयत इत्य् आह -- अन्यो ही ति । हि र् यस्माद् अर्थे । चो ऽवधारणे । कस्य कीदृशो ग्राह्य इतरो वेत्य् आह -- प्रत्यक्षस्ये ति । हि र् अवधारणे एक इत्य् अस्मात् परो द्रष्टव्यः । कस् तर्ह्य् अवसेय अध्यवसेय इति [31अ] । तु र् ग्राह्याद् अध्यवसेयं भिनत्ति । अथ किं प्रत्यक्षम् अवसायात्मकं येन तस्यासाव् अवसेय इत्य् आह -- प्रत्यक्षे ति । प्रत्यक्षपृष्ठभाविनो निशचयस्य प्रत्यक्षगृहीत एव प्रवृत्ततया ऽनतिशयाधानेन यत् तेनाध्यवसितं तत् प्रत्यक्षेणैवावसितम् इति भावः ।
ननु ग्राह्याद् अन्यः प्रापणीयो विषयः प्रत्यक्षस्योक्तः । इदानीं पुनर् अवसेयः । तद् अयं तृतीयो विषयः प्राप्त इत्य् आह -- सन्तान एवेति । चो यस्मादर्थःए । उपादानोपादेयभावेन व्यवस्थितः क्षणप्रबन्ध एकत्वेनाधिमुक्तः सन्तानः । ग्राह्य एव कस्मान् न तेन प्राप्यत इत्य् आह -- लक्षाणास्ये ति (इत्य् आह -- क्षणस्ये ति) । यदाकरं प्रत्यक्षम् उत्पद्यते तस्य क्षणस्येति प्रस्तावात् । एवञ् च विवृण्वतो ऽस्य प्रमाणस्ये त्य् अत्र प्रत्यक्षाभिप्रायेण प्रमाण शब्द इन्द्रियजाप्रत्यक्षविवक्षया द्रष्टव्यः । स्वसंवेदनादिनां विषयद्वैविध्यासम्भवाद् इति ।
अथ भवत्व् एकं प्रत्यक्षं विषयद्वैविध्यवद्, अनुमानं तु कथं तथाविधम्? प्रमाणस्ये ति च
[ध्प्र् प्.72]
स पुनर् आरोपितो ऽर्थो गृह्यमाणः स्वलक्षणत्वेन अवसीयते यतः, ततः स्वलक्षणम् अवसितं प्रवृत्तिविषयो ऽनुमानस्य । अनर्थस् तु ग्राह्यः । तद् अत्र प्रमाणस्य ग्राह्यं विषयं दर्शयता प्रत्यक्षस्य स्वलक्षणं विषय उक्तः ।
ब्रुवता तद् अपि विषयद्वैविध्यवद् अभ्युपगम् एव इत्य् आशङ्क्याह -- तथे ति । येन प्रतिभासाध्यवसायलक्षणेन प्रकारेण प्रत्यक्षम् अन्यग्राह्य् अन्याध्यवसायि तथा तेन प्रकारेणेति तथा शदार्थः । न केवलं प्रत्यक्षम् अन्यद् गृह्णाति, अन्यद् अध्यवस्यति, किन् त्व् अनुमानम् अप्य् अन्यग्राह्य् अन्याध्यवसायीत्य् अपि शब्देनाह । इहैव च्छेदः कर्त्तव्यो ऽन्यथा व्याख्यानम् असमञ्जसं स्यात् । किं गृह्णातीत्य् आह -- अनर्थग्राही ति । अनुमानम् इति प्रकृतत्वात् । कथम् उपपद्यत इत्य् आशङ्क्योपपत्तिम् आह -- स्वप्रतिभास इति । स्वस्य प्रतिभास इव प्रतिभासः । शक्तिद्वययोगात् तथारोप्यभाणं रूपम् । तस्मिन्न् अनर्थे ऽबाह्यरूप्ये(-रूपे) ऽर्थध्यवसायेन बाह्याध्यवसायेन तद्भेदानवभासनात्मकाभ्देदाध्यवसानलक्षाणेन प्रवृत्तेः प्रवर्त्तनात् ।

अथानर्थे स्वप्रतिभासे ऽर्थाध्यवसायेनानुमानविकल्पो ऽन्यो वा प्रवर्त्तक इति किम् उक्तं भवति? स्वप्र्तिभासस्यारोप्यमाणस्य चार्थस्यावसीयमानस्य विवेकं न प्र्तिपद्यत इत्य् उत्कं भवति । न हि तेनैव विवेकप्रतिपत्तिः, तेन स्वप्रतिभासस्य तथात्वेनाविकल्पनात् । अत्र चानुभवः प्रमाणम् । बाह्यवह्न्यादाव् अप्रवृत्त्यादिप्रसङ्गश् च । नापि विकल्पान्तरेण । तस्यापि तथा प्रवृत्तितया पूर्वविकपप्रतिभासासंस्पर्शाद् इत्य् अलम् इह विस्तरेण । यद्य् एवं को ऽस्याध्यवसीयमानः प्रापणीयो विषय इत्य् आह -- स इति । पुनर् इति सर्वतो विशिनष्टि । आरोपित इति स्वरूपानुवादः । अर्थ इति अर्थ इवार्थो गृह्यमाणः प्रतीयमानस् तस्मिन् ज्ञाने प्रकाशमान इति यावत् । अनेन स्वलक्षणम् अध्यवस्यतीदम् इति प्रकाशितम् । तद् अनेनानुमास्य ग्राह्याध्यवसेयौ भेदेन साध्यर्थ्याद् अभिधाय सुखप्रतिपत्त्यर्थं ताव् एव कण्ठोकौ करोति -- तत इति । यतः स्वलक्षणत्वेन तस्यावसायस् ततः [31ब्] स्वलक्षणम् अवसितं प्रवृत्तिविषयो ऽनुमानस्य । स्वलक्षणम् अवसितम् इत्य् एतद् अप्य् अभिमानाद् अभिधीयते । न पुनः स्वलक्षणम् अवसायस्य गोचरः । तद्विषयत्वे तस्य निरंशत्वात् क्षणिकत्वादेर् अप्य् अवसिताव् अनुमानानवतारप्रसङ्गात् । एतच् च किञ्चिद् इहैवोपरिष्टात् स्पष्टयिष्यामः । परार्थानुमाने तु यथा ऽवसरं विष्तरेण निर्णेष्यामः ।
प्रवृत्तिविषयस्यैव प्रापणीयत्वात् प्रापणीय एव प्रवृत्तिविषयशदेनोक्तः । तु ः प्रापणियाद् विषयाद् ग्राह्यं भेदवन्तं दर्शयति । तस्मिन् ज्ञाने प्रकाशमाने प्रकाशनाद् अनर्थो ग्राह्य उक्तः ।
स्याद् एतत् -- यद्य् अवसितं स्वलक्षणं प्रवृत्तिविषयो ऽनुमानस्य तदा कथम् एष धर्मोत्तरो विनिशचयटीकायां अवदीत् "अवसितश् चाकारो विकल्पानां ग्राह्यः" इति । एवं हि स्वलक्षणम् एव ग्राह्यं समर्थितं स्यान् नानर्थ इति । ततो व्यक्तो व्याघातः । परमार्थदृष्ट्या तत्र तथाभिधानान् न दोषः । तथा हि प्ररमार्थतो विकल्पानाम् आरोत्पितम् एव रूपम् अवसेयं ग्राह्यम् तथापि व्यवहर्त्तार आरोपितम् एव रूपम् अवृक्षव्यावृत्तम् अवस्यन्तो बाह्यस्यापि तथात्वाद् बाह्यं वृक्षम् अवस्याम इत्य् अभिमन्यन्ते, तयोर् विवेकाप्रतिपत्तेः ।
[ध्प्र् प्.73]
तद् अनुरोधात् स्वलक्षणम् अवसितम् इत्य् उच्यते । तस्यैव त्व् आरोपितस्य परमार्थो ऽनुमेयस्य प्रतिभासमानं केवलम् आकारम् आश्रित्य ग्राह्यत्वम् उच्यते । ततस् तत्र वास्तवावसितरूपाभिप्रायेण तथाभिधानात् को विरोधः?
तद् अत्रे त्यादिनोपसंहरति । यस्मात् प्रमाणस्य द्विदिधो विषयो ग्राह्याध्यव्ससायभेदेन तत् तस्मात् । अत्र विषयविप्रतिपत्तिनिराकरणाकाले ग्राह्यं विषयं दर्शयते ति ब्रुवन् विषय शब्देन् आचार्यस्य ग्राह्यो विषयो ऽभिप्रेत इति स्फुटति ।
स्याद् एतत् -- न वै ग्राह्यविषयापेक्षं प्रत्यक्षस्य प्रामाण्यम् उपपद्यते । यत एकः क्षणस् तस्य ग्राह्यः । न च तत्प्रापणं सम्भवति । नाप्य् अनुमानस्य ग्राह्यपेक्षं प्रामाण्यम् । अन्यर्थो हि तस्य ग्राह्यः । न च तत्प्राप्तिः । न च येन यस्याप्रापणं तस्य तत्र प्रामाण्यम् अभ्युपेयते, अतिप्रसङ्गापत्तेः । अथैकनीलक्षणाकारतयोत्पत्तिर् एव प्रत्यक्षस्य तत्प्रापणम्, अनुमान्स्यापि वह्न्याद्यध्यवसायितया तथोत्पत्तिर् एव तत्प्रापणम् उच्यते । तर्हि न किञ्चिद् अवशेषितं स्यात् । कस्य नाम ज्ञानस्य सविकल्पस्य निर्विकल्पकस्य वा तत्तदाकारतयोत्पत्तिर् नास्ति येन तस्य प्राणाण्यं न स्यात् । तस्मान् न द्विदिधो विषयः प्रमाणस्याभिधानीयो ऽपि त्व् एक एव प्रवृत्तिविषयाख्यो विषयः ख्यापनीय इति ।
अत्र च समाधीयते । ज्ञानानां तावद् ग्राह्याध्यवसा(से)यभेदेन द्विविधो विषयो ऽवश्यैषितव्यो ऽनुभवसिद्धत्वात् । तत्र प्रमाण्यं प्रवृत्तिविषयापेक्षं व्यवस्थाप्यते । ज्ञानत्वं तूभयापेक्षमेव । अज्ञानस्य च प्रामाण्यासम्भवेन ज्ञानान्तर्भूतं प्रमाणं विषयद्वैविध्यवद् एव भवति । केवलं न ग्राह्यापे[32अ]क्षं प्रामाण्यम् अपि तु प्रवृत्तिविषयापेक्षम् इति प्रतिपाद्यते । ग्राह्यापेक्षया तु प्रमानस्येति वचनं स्वरूपानुवादकम् । यद् वा प्रमाणशब्देन ज्ञानम् एवात्र विवक्षितम् । यथा ऽयं विनिश्चयटीकायां स्वार्थाणुमानव्याख्यानावसरे व्यक्तम् आह -- "द्विविधो ज्ञानानां विषयो ग्राह्यश् चाध्यवसेयश् च" इत्यादि । ततो न किञ्चिद् अवद्यम् ।
अथापि स्यात् । यदि ग्राह्यो विषयो न कदाचिद् अपि प्रत्यक्षस्य प्रापणीयस् तर्हि तेन दर्शितेन किम् प्रयोजनं येनोच्यते तद् अत्र ग्राह्यं विषयं दर्शता प्रत्यक्षस्य स्वलक्षणां विषय उक्त इति । नैष दोषः । एवम् एवास्य प्रवृत्तिविषयप्रदर्शनात् । यदि हि प्रत्यक्षं क्षणम् एक गृह्णाति तत्रानीलव्यावृत्तिनिश्चयोपजने सन्तानं निश्चाययत् प्रवृत्तिविषयं प्रदर्शयेत् तत्सन्तानभाविनाञ् च ज्ञानानाम् अप्रमानाण्यम् आपादयेत्, न तु किञ्चिद् अगृह्णत् । तथा हि सन्तानोल्लेखेन निश्चयाभावे ऽप्य् अनीलव्यावृत्तिस् तावद् अनागतसर्वक्षणसाधारणी प्रत्यक्षेण गृहीतनिश्चिता । तन्निश्चय एव सर्वानीलव्यावृत्तोपादानोपादेयभावस्थितनीलक्षणनिश्चयः तदभिन्नयोगक्षेमत्वाद् उत्तरप्रबन्धस्य । तथानिश्चय एव च सन्ताने निश्चय उच्यते । अत एव च तद् आद्यं ज्ञानं तथा ऽनुष्ठानं तत्सन्तानभावीनि पराञ्चि ज्ञानान्य् अनीलव्यावृत्तं रूपं गृहीतम् एव गृह्णन्त्य् अनीलव्यावृत्तिनिश्चयं च कृतम् एव कुर्वन्त्य् अनतिशयाधायीनि प्रचुराण्य् अपि प्रामाण्यात् प्रच्यावयत् प्रामाण्यम् आत्मसात्करोतीति न्याय्यं ग्राह्यप्रदर्शनम् इति सर्वम् अवदातम् ॥
इह् आचार्य स्य -- स्वम् असाधारणं सन्तानान्तरसाधारणं यन् न भवति, यद् अर्थक्रियाक्षमम् एव सर्वतो व्यावृत्तं तत्त्वं तद् एव स्वलक्षणम्, न चैतद् विपरीतम् अनुमानविषयो ऽपीत्य् अभिप्रेतम् । स्वम् असाधारणं
[ध्प्र् प्.74]
कः पुनर् असौ विषयो ज्ञानस्य यः स्वलक्षणं प्रतिपत्तव्य इत्य् आह --
यस्य अर्थस्य संनिधानासंनिधानाभ्यां ज्ञानप्रतिभासभेदस् तत् स्वलक्षणम् इ-13
यस्य अर्थस्य इत्यादि । अर्थशब्दो विषयपर्यायः । यस्य ज्ञानविषयस्य । संनिधानं निकटदेशावस्थानम् । असंनिधानं दूरदेशावस्थानम् । तस्मात् संनिधानासंनिधानाच् च ज्ञानप्रतिभासस्य ग्राह्याकारस्य भेदः स्फुटत्वास्फुटत्वाभ्याम् । यो हि ज्ञानविषयः संनिहितः सन् स्फुटाभासं ज्ञानस्य करोति, असंनिहितस् तु योग्यदेशस्थ एव अस्फुटं करोति, तत् स्वलक्षणम् । सर्वण्य् एव हि वस्तुनि दूराद् अस्फुटानि दृश्यन्ते, समीपे स्फुटानि । तान्य् एव स्वलक्षणानि ।

लक्षणं तत्त्वं स्वलक्षणम् इति विवृण्वता च धर्मोत्तरेन तद् एव दर्शितम् । केवलं न व्यक्तीकृतम् अतस् तस्य विषयः स्वलक्षणम् इति शब्दमात्रश्राविणो ऽविदित् आचार्या भिप्रायस्याविभावित धर्मोत्तर विवरणार्थस्य यद्य् असाधारणं पररूपेणामिश्रं रूपं स्वलषणं तदा ऽग्नित्वम् अपि गोत्वादिसामान्येनामिश्रं स्वलक्षणं प्रसज्येतेति व्याप्तिं मन्यमानस्यायं कः पुनर् इत्यादिप्रश्नः । क इत्य् अनेन सामान्याकारेण विषयं पृच्छति । पुनर् इत्य् अनेन विशेषाकारेण । स्वलक्षणशब्दस्यासति बहुव्रीहाव् अजहल्लिङ्गत्वात् स्वलक्षणम् इति ।
चोदकेन विषयं सम्पृष्ट आचार्यः कस्माद् अर्थम् उत्तरीकरोतीत्य् आशङ्क्याह -- अर्थेति । ज्ञानस्य प्रत्यासन्नत्वाज् ज्ञानविषयो लब्ध इत्य् अभिप्रेत्य यस्य ज्ञानविषय स्येति विवृणोति । सन्निधानासन्निधान शब्दौ निकटदूरावस्थानार्थौ व्याचक्षाणो यद् अन्यैर् आख्यातं -- "असन्निधानं योग्यदेशे सर्वथा वस्तुनो ऽभावः" इति तद् अपाकरोति । अयञ् चास्याभिप्रायो यत्र वस्तु नास्ति तत्र ज्ञानम् एव न जायते । न तु तत्प्रतिभास्य भेदो नानात्वम् अस्तीति । तस्माद् इत्यादिना स [32ब्] न्निधानासन्निधानाभ्याम् इति पञ्चमी द्विवचनान्तम् एतद् इति दर्शयति । स्फुटत्वाभ्याम् इति अर्थक्रियासामर्थ्यानुगताभ्यां इति द्रष्टव्यम् ।[36]इत्थम्भूतलक्षणा चेयं तृतीया ।
__________नोतेस्__________
[36] पाणिनि 2.3.21.
पदार्थं व्याख्याय समुदायार्थं व्याचष्टे । द्वयी चेयं शैली व्याख्यातृणाम् । क्वचित् समुदायार्थं व्याख्याय पश्चात् पदार्थं विवृण्वते । क्वचित् पदार्थ्ं विवृत्य पश्चात् स्मुदायार्थं व्याचक्षत इति । हि र् अवधारणे । योग्यदेशस्थ एव त्य् अनेन दूरदेशस्थं निरस्यति । दूरस्थो हि ज्ञानम् एव न जनयति किम् अङ्ग पुनर् भिन्द्याद् इत्य् अभिप्रायः ।
स्वलक्षणलक्षणस्याव्यापित्वासम्भवित्वशङ्काम् अपाकुर्वन्न् आह -- सर्वाणी ति । । सर्व शब्दो व्याप्तिप्रदर्शनार्थः । अनेनाव्यापित्वं निराकृतम् । हि र् यस्मादर्थे । दृश्यन्ते प्रतीयन्ते । अनेनासम्भवित्वं निरस्तम् । अतिव्यापित्वम् अपहस्तयन्न् आह -- तान्य् एवे ति । यान्य् अमूनि प्रत्यक्षविषयस् तान्य् एव । नानुमानविषयो ऽपीति प्रकरणात् । दूराद् अस्फुटानि दृश्यन्त इति वदतश् चायम् आशयः -- दूरे हि वस्तु गृह्यमाणं प्रचुररजोनीहारादिसंसृष्टं गृह्यते । ततो ऽस्पष्टं गृह्यते। न तु

[ध्प्र् प्.75]
कस्मात् पुनः प्रत्यक्षविषय एव स्वलक्षणम् । तथा हि विकल्पविषयो ऽपि वह्निर् दृश्यात्मक एव अवसीयत इत्य् आह
तद् एव परमार्थसत् इ-14
तद् एव परमार्थसद् इत्यादि । परमो ऽर्थो ऽकृत्रिमम् अनारोपितं रूपम् । तेन अस्ति इति परमार्थसत् । य एव अर्थः सन्निधानासन्निधानाभ्यां स्फुटम् अस्फुटं च प्रतिभासं करोति परमार्थसन् स एव । स च प्रत्यक्षस्य विषयो यतः, तस्मात् तद् एव स्वलक्षणम् ।
न गृह्यत एव । तथागृहीतस्यापि वृक्षास्य च्छायाद्यर्थक्रियाकारित्वात् । न चाधिकग्रहणं भ्रम इति ।
इदं पुनर् अत्र निरुप्यते । यदि य एवार्थः सन्निधानाद् असन्निधाच् च ज्ञानप्रतिभासं स्फुटत्वास्फुटत्वाभ्यां भिनति स एव स्वलक्षणं तर्हि स्पर्शरसौ स्वलक्षणे न स्याताम् । तौ खलु असन्निहितौ ज्ञानम् एव न जन्यतः । किं पुनर् ज्ञानप्रतिभासं स्फुटत्वास्फुटत्वाभ्यां भेत्स्यतः? किञ् चैतस्मिन् स्वलक्षणे विज्ञाणम् अस्वलक्षणं स्यात् । तस्याऽऽस्तां तावद् असन्निहितस्यास्फुटज्ञानजनकत्वं सन्निहितस्यापि स्फुटज्ञानजनकत्वं नास्ति । न च तस्य दूरान्तिकवर्त्तित्वम् अस्त्य् अदेशत्वात् । तद् ईदृशीं महतीम् अव्यापिताम् अनालोच्येदृशं स्वलक्षणं प्रणयन्न् आचार्यः , धर्मोत्तरो ऽप्य् एवं प्रसभं व्याचक्षाणः कथं न प्रमाद्यतीति? न । अभिप्रायापरिज्ञानात् । यदि हीदं लक्षणं यथाश्रुति व्यवतिष्ठेत, स्याद् एवैतत् । केवलं सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदकत्वेन यद् एकार्थसमवेतम् असाधारण्यं व्यत्यन्तरासनुयायित्वं तद् उपलक्षितम् । यतो हेतुबिन्दुः " तत्र तद् आद्यम् असाधारणविषयम्" [पृ-53] । अत एव -- " असाधारणविषयं स्वलक्षणविषयम्" इति [हेतु-टी-पृ-25] भटटार्चटो व्याचष्टे । अत एवानुमानस्यैतद् विपर्ययेण साधारणं रूप विषयो दर्शयिष्यते । तेन नाव्याप्तिर् न चान्यो लक्षाणदोषः । तस्य विषयः स्वलक्षणम् इत्य् अभिहिते ऽपि स्वलक्षणशब्दस्यान्यथापि निर्वचनसम्भवात्, नायम् अभिमतो ऽर्थो ज्ञायेत प्रतिपत्तृभिर् इति तद् अभिमतार्थ इत्थम् उपलक्षित इति च दृष्टव्यम् ॥
तस्य विषयः स्वलक्षणम् इत्य् अत्र यदि तस्यैव विषयः स्वलषाणम् इत्य् अवधार्यते तदा यत एव कारकरणं ततो ऽन्यत्रावधारणम् इति स्वलक्षणस्य प्रत्यक्षे नियमात् प्रत्यक्षम् अन्यविष्यम् अपि स्यात् । अथ स्वलक्षणम् एवेत्य् अवधार्यते । तदा ऽपि प्रत्यक्षस्य स्वलक्षणे नियतत्वाद् [33अ] अनियतं स्वलक्षणम् अनुमानस्यापि विषयः स्याद् इत्य् उभयावधारणां कार्यम् । तस्यैव विषयः स्वलक्षणम् एवेति । एतद् असहमानः पूर्वपक्षवाद्य् आह -- कस्माद् इति । कस्माद् इति सामान्येन कारणं पृच्छति । पुनर् इति विशेषतः । यद् वा यस्यार्थस्ये त्य् अत्र तत्स्वलक्षणम् इति । तद् एव प्रत्यक्षविषयः स्वलक्षणं नानुमानविषय इत्य् अभिप्रेतं तद् असहमान एवम् आह । कस्मात् प्रत्यक्षविषाय एवे ति ब्रुवतो ऽनुमानस्यापि विषयः किं न स्वलक्षणम् इत्य् अभिप्रायः । स एव किं न तथेत्य् आशङ्क्य पूर्वपक्षवाद्य् एवोपपत्तिम्
[ध्प्र् प्.76]
कस्मात् पुनस् तद् एव परमार्थसद् इत्य् आह --
अर्थक्रियासामर्थ्यलक्षणत्वाद् वस्तुनः इ-15
अर्थ्यत इत्य् अर्थ ः । हेय उपादेयश् च । हेयो हि हातुम् इष्यते उपादेयश् च उपादातुम् । अर्थ स्य प्रयोजनस्य क्रिया निश्पत्तिः । तस्याम् सामर्थ्य ं शक्तिः । तद् एव लक्षण ं रूपं यस्य वस्तुनः
आह -- तथा ही ति । विकल्प शब्दः प्रमाणविषयचिन्तनाद् अनुमानविकल्पो द्रष्टव्यः । दृश्यात्मक एव स्वलक्षणात्मक एव ।
ननु ` यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस् तत् स्वलक्षणम् ऽ इत्य् उक्ते कुतो ऽस्य प्रश्नस्यावकाशः? न हि विकल्पविषयस्य सन्निधानासन्निधानाच् च ज्ञानप्रतिभासभेदो ऽस्ति यतो ऽस्योत्थानं स्यात् । सत्यम् । केवलम् अयम् अस्याशयः -- यद् एतद् भवद्भिर् लक्षणं स्वलक्षणस्य प्रतीतं तद् अस्य लक्षनं एव न भवति किन् तु यद् एव दृश्यतया ऽध्यवसीयते तद् एव स्व[लक्षण]म् इतीदं तस्य लक्षणं । सति चैवम् औमानविकल्पविषयस्यापि तथात्वम् अनिवारितम् एवेति सूत्थानः प्रश्नः । एतत् प्रश्नविषर्जनम् आचार्यीयं दर्शयन्न् आह -- तद् एवे ति ।
अथ स्यात् यदि[37]............. त्य् उच्यमानं शोभेत यावतेदम् एव न सिद्धं तत् कुतो ऽयं प्रश्नविसर्जनप्रकार इति? उच्यते । स्वलक्षणम् इति स्वम् असाधारणं पारमार्थिकः स्वभाव उच्यते । स एव च पारमार्थिकः स्वभाव उच्यते, य एवार्थक्रियाक्षामः । स एव च परमार्थसन्न् इति युक्तम् इदम् उत्तरं तद् एवे ति । परमे ऽर्थ इति दर्शयम् कर्मधायं दर्शयति । अकृत्रिमम् इत्यादि परम शब्दस्य व्याख्यानम् । तेनास्ती ति सद् इत्य् अस्यार्थकथनम् । तेन रूपेण सद् विद्यमानम् इति विग्रहः । शत्रन्तश् चायम् असिः । "कर्त्तृकरणे कृता बहुलम्" [पाणिनि 2.1.32] इति च समासः । परमार्थसद् इत्य् अस्यार्थम् आख्याय तद् एवे त्य् एतद् विवृणोति य एवे ति । प्रतिभासं ज्ञानस्येति प्रकरणात् । अर्थक्रियासमर्थो ऽर्थः । स्वलक्षणं चैवम् आत्मकम् इत्य् अभ्प्रायेण य एवार्थः स एवे त्य् आह । अस्तु तादृशः परमार्थसन् । स तु न तस्य विषयो ऽन्यापि वा विषयो भविष्यति । तथा च विवक्षितार्थासिद्धिर् इत्य् आह स चे ति । चो ऽवधारणे प्रत्यक्षस्ये त्य् अतः परो द्रष्टव्यः । तद् एते ति प्रत्यक्षविषयत्वेन स्थितं वस्त्व् एव न त्व् अनुमानविषयो ऽपीति । अनेन कस्मात् पुनः प्रत्यक्षविषय एव स्वलक्षणम् इत्य् एतत् प्रश्नविसर्जनस्योपसंहारः कृतो वेदितव्यः ॥
__________नोतेस्__________
[37] पङ्क्तिबाह्यं लिखितं न पठ्यते -- सं-
इदानीं स्वलक्षणस्यैव परमार्थसत्त्वम् असहमान आह -- कस्माद् इति । यम् अस्याशः -- स एव खलु परमार्ह्तसन्न् अर्थो य एवार्थ्त्वेनाध्यवसीयते । अनुमानविषयो ऽपि च वह्निस् तथा ऽध्यवसीयत इति सो ऽपि कस्मान् न परमा[33ब्]र्थसन्न् इति ।
अत्र -- अर्थे त्यादि यद् उत्तरं तद् अर्थ्यत इत्यादिना व्याचष्ते । च स् तुल्यबलत्वं समुच्चिनोति । हेयः कथम् अर्थ्यत इत्य् आह -- हेय इति । हि र् यस्मात् । यदि हातुम् अर्थ्यमानो ऽर्थो न तर्ह्य् उपादेयो ऽर्थ इत्य् आह -- उपादेय इति । चो हेया पेक्षय् ओपादेय स्यार्थ्यमानत्वं समुच्चिनोति । अर्थ स्य प्रयोजनस्य दाहादेः । एवं च व्याचक्षाणः साध्यो दाहादिर् एव मुख्यवृत्त्योपादेया हेयो वा ।
[ध्प्र् प्.77]

तद् अर्थक्रियासामर्थ्यलक्षणम् । तस्य भावः तस्मात् । वस्तु शब्दः पर्मार्थपर्यायः । तद् अयम् अर्थः -- यस्माद् अर्थक्रियासमर्थं पर्मार्थसद् उच्यते, सन्निधानासन्निधानाभ्यां च ज्ञानप्रतिभासस्य भेदको ऽर्थो ऽर्थक्रियासमर्थः, तस्मात् स एव परमार्थसन् । तत एव हि प्रत्यक्षविषयाद् अर्थक्रिया प्राप्यते न विकल्पविषयात् । अत एव यद्य् अपि विकल्पविषयो दृश्य इव अवसीयते तथा अपि न स दृश्य एव ततो ऽर्थक्रियाय अभावात्, दृश्याच् च भावात् । अतस् तद् एव स्वलक्षणं न विकल्पविषयः ।
अन्यत् सामान्यलक्षणम् इ-16
अन्यद् इत्यादि । एतस्मात् स्वलक्षणाद् यद् अन्यत् ---- स्वलक्षणं यो न भवति ज्ञानविषयः ---- तत् सामान्यलक्षणम्, विकल्पज्ञानेन अवसीयमानो ह्य् अर्थः सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासं न भिनत्ति । तथा हि आरोप्यमाणो वह्निर् आरोपाद् अस्ति । आरोपाच् च दूरस्थो निकटस्थश् च । तस्य समारोपितस्य सन्निधानासन्निधानाच् च ज्ञानप्रतिभासस्य न भेदः स्फुटत्वेन अस्फुटत्वेन वा । ततः स्वलक्षणाद् अन्य उच्यते । सामान्येन लक्षणं सामान्यलक्षणम् । साधारणं रूपम् इत्य् अर्थः ।
समारोप्यमाणं हि रूपं सकलवह्निसाधारणम् । ततः तत् सामाण्यलक्षणम् ।
तम् एवोपादातुं हातुम् वा तत्साधनस्योपादानं हानं वा ऽन्यथा वा शक्यत इति तत्साधनभूतो वह्न्यादिर् उपादेयादिर् उपपद्यत इति दर्शयति । तस्याम् इत्यादि तस्माद् इत्य् अन्तं सुबोधम् । परमार्थसतस् तत्त्वे प्रतिपाद्ये किम् इति वस्तुनस् ताद्रूप्यम् आचार्येण दर्शितम् इत्य् आशङ्काम् अपाकुर्वन्न् आह -- वस्तु शब्द इति । तद् अयम् अर्थ इत्यादिर् न विकल्पविषय इत्य् अन्तो ग्रन्थस् तूक्तार्थोपसंहारः । स च सुज्ञानः ॥
इह प्रस्तुतस्वलक्षणापेक्षम् अन्यत्वम् आचार्यस्या भिप्रेतम् । स्वलक्षणशब्दस्य चान्यशब्दयोगात् पञ्चम्या भवितव्यम् इत्य् अभिप्रेत्य एतस्माद् इत्य् आह । अन्यत्वम् अभिव्यनक्ति -- स्वलक्षणं यो न भवती ति । शशविषाणादिव्यवच्छेदार्थम् आह -- ज्ञानविषय इति । प्रमाणविषयचिन्तायाः प्रस्तुतत्वाद् विज्ञानविषय इति लब्धम् । असिद्धिम् अस्य ततो ऽन्यत्वम्, अस्यापि स्वलक्षणकार्यकारित्वाद् इत्य् आह -- विकल्पे त्यादि । हि र् यस्माद् अर्थे ।
प्रतिभासाभेदकत्वं तस्य कुतो ऽवसीयते सर्वदा तस्य सन्निहितरूपत्वाद् असन्निहितरूपत्वाद् एव वेत्य् आह -- तथा ही ति । आरोप्य माणस् तथा प्रतीयमानः । आरोपात् तथोत्पादलक्षणाद् अध्यवसायाद् अस्ति वह्निरूपेण । आस्ताम् आरोपात् तथाभूतस् तथापि तस्य सन्निधानासन्निधान(ने) कुत इत्य् आह -- आरोपाद् इति । चो व्यक्तम् एतद् इत्य् अस्यार्थे । द्वितीयश् च कारो दूर्स्थात्वापेक्षया निकटस्थत्वस्यैकविषयत्वं समुच्चिनोति ।
तस्ये त्याद्य् उच्यत इत्य् अन्तं स्पष्टार्थम् ।
[ध्प्र् प्.78]
तच् च अनुमान्यस्य ग्राह्यं दर्शयितुम् आह --
सो अनुमानस्य विषयः इ-17
सो अनुमानस्य विषयः ग्राह्यरूपः । सर्वनाम्नो ऽभिधेयवल् लिङ्गपरिग्रहः ।
सामान्यलक्षणम् अनुमानस्य विषयं व्याख्यातुकामेन अयं स्वलक्षणस्वरूपाख्यानग्रन्थ आवर्तनीयः स्यात् । ततो लाघवार्थं प्रत्यक्षपरिच्छेद एव अनुमानविषय उक्तः ।
सामान्य शब्देन लक्षण शब्दस्य विग्र्हम् आह -- सामान्येने ति । सामान्येन, [ न ] विशेषेण सन्तानातरसाधारणं स्वरूपम्, साधनं कृतेति समासः । तस्य पदस्यार्थं स्पष्टयति । साधारणम् इति ।
विकल्पविषयस्याप्य् असाधारणत्वाद् असिद्धं व्यक्यन्तरसाधारणत्वाद् असिद्धं व्यक्त्यन्तरसाधारणत्वम् इत्य् आह -- सकलश् चासौ तार्णपार्णादिभेदभिन्नो वह्नि श् चेति तथा । तत् साधारणं तथाविधलिङ्गबलेनानग्निव्यावृत्तवस्तुमात्रप्रतिभासनाद् इति भावः ।
ननु च तथाविधंसामान्यं विकल्पगोचरो ऽवस्तु । तद् विषयत्वे ऽनुमानस्य कथं बाह्ये प्रवर्त्तकत्वं तत्प्रापकत्वञ् च, यतः प्रमाण्यम् अस्य स्याद् इति चेद् । उच्यते । विकल्पाः खल्व् एते ऽनाद्यविद्यावशात् स्वप्रतिभासम् अनग्निव्यावृत्त अवस्यन्तो बाह्यो ऽप्य् अनग्निव्यावृत्त इति तद् अध्यसानम् एव बाह्यो वह्निर् अध्यवसित इति मन्यन्ते । अनग्निव्यावृत्ततया बाह्यसदृशवह्न्यध्यवसाय एव बाह्यवग्न्यध्यवसायः । ततोर् विवेकाप्रतिपत्तेः अत एव ते विकल्पा दृश्यविकल्प्याव् अर्थाव् एकीकृत्य बाह्ये लोकं प्रवर्त्तयन्ति । दृश्यविकप्यैकीकरणम् अपि तेषां तथा प्रवृत्तिहेतुतयोत्पत्तेर् एव द्रष्टव्यम् । [34अ] बाह्यसम्बद्धसम्ब्द्धत्वाच् चानुमानविकल्पः संवादकः, अध्यवसेयापेक्षया च प्रमाणम् । तद् आह न्यायवादी -- "भ्रान्तिर् अपि सम्बन्धतः प्रमा" इति । एष चार्थः स्वप्रतिभासे ऽनर्थे ऽर्थाध्यवसायेन प्रवृत्तेर् इत्य् अत्राप्य् अपेक्षणीयः । समासतस् तु तत्रास्माभिः किञ्चिद् अवादीति । यत एवं तत् तस्माद् इत्य् उपसंहारः । तद् इति तदारोप्यमाणम् ॥
तच् चे त्यादिना सो ऽनुमाने त्य् अस्यावतारं दर्शयति । चो ऽवधारणे । ग्राह्यं रूपं स्वभावो ऽस्येति विग्रहः । एवं व्याचक्षाणो विषयशब्देन ग्राह्यो विषयो ऽभिप्रेतो ऽत्र प्रमाणव्यापारविषयो ऽध्यवसेयः स्वलक्षणस्यैव तद् अध्यवसेयत्वेन तथा व्यवस्थापनाद् इति दर्शयति । तस्य तु तत्र स्वरूपेणाप्रतिभासनाद् अग्राह्यत्वम् । प्रकाशमानं च रूपम् आश्रित्य ग्राह्यत्वम् उच्यत इत्य् उक्तप्रायम् ।
अनुमानस्यापि ग्राह्यविषयदर्शने ऽयम् अभिप्रायो यदीदम् अनुमानम् अनर्थम् अनग्निव्यावृत्तिमात्रं सामान्यरूपं गृह्णाति, तत्र तत्सामान्यरूपं किञ्चिद् अवभासेत, तदा तत्स्वलक्षणत्वेनावस्यत् स्वलक्षणं प्रवृत्तिविषयीकुर्यात् । तथाकुर्वच् च वस्तुविषयं प्रामाण्यम् अश्नुवीत नान्यथेति । स
[ध्प्र् प्.79]
विषयविप्रतिपत्तिम् निराकृत्य फलविप्रतिपत्तिं निराकरुम् आह --
तद् एव च प्रत्यक्षं ज्ञानं प्रमाणफलम् इ-18

तद् एव इति । यद् एव अनन्तरम् उक्तं प्रत्यक्षं ज्ञानं तद् एव प्रमानस्य फलं ।
कथं प्रमाणफलम् इत्य् आह --
अर्थप्रतीतिरूपत्वात् इ-19
अर्थस्य प्रतीतिर् अवगमः, सा एव रूपं यस्य प्रत्यक्षज्ञानस्य तद् अर्थप्रतीतिरूप म् । तस्य भावः तस्मात् ।
एतद् उक्तं भवति -- प्रापकं ज्ञानम् प्रमाणम् । प्रापणशक्तिश् च न केवलाद् अर्थाविनाभवित्वाद् भवति । बीजाद्यविनाभाविनो ऽप्य् अङ्कुरादेर् अप्रापकत्वात् । तस्मात् प्राप्याद् अर्थाद् उत्पत्ताव् अप्य् अस्य ज्ञानस्य अस्ति कश्चिद् अवश्यकर्तव्यः प्रापकव्यापारो येन कृतेन अर्थः प्रापितो भवति ।
स एव च प्रमाणफलं यदनुष्ठानात्
प्रापकं भवति ज्ञानम् । उक्तं च पुरस्तात् प्रवृत्तिविषयप्रदर्शनम् एव प्रापकस्य प्रापकव्यापारो नाम ।
तद् एव च प्रत्यक्षम् अर्थप्रतीतिरूपम् अर्थप्रदर्शनरूपम् । अतस् तद् एव प्रमाणफलम् ।
इति पुंल्लिङ्गनिर्देशसमर्थनार्थम् आह -- सर्वे ति । इवार्थे वति । तद्वल्लिङ्गस्य परिग्रह [इति षष्ठ्यन्तेन] विग्रहः । अत्रापि सामान्यलक्षणम् एवानुमानस्य विषय इत्य् अवधारणीयं न त्व् अनुमानस्यैवेति प्रत्यक्षपृष्ठभाविनो ऽपि विकल्पविशेषस्य तद्विषयत्वाद् अन्यथा लिङ्गनिश्चयायोगाद् इति ।
सम्प्रति प्रत्यक्षस्य विषयविप्रतिपत्तिनिराकरणे प्रकृते किम् अप्रकृतम् अनुमानस्य विषयविप्रतिपत्तिनिराकरणम् आचरितम् इत्य् आशङ्काम् अपाकर्त्तुं सामान्ये त्यादिनोपक्रमते । एतच् च् ओक्त इत्य् एतद् अन्तं सुज्ञानम् ॥
विषये त्यादि फलम् इत्य् एद् अन्तं सुबोद्धम् । फलप्रदर्शने चायं वार्त्तिककार स्याशयः -- प्रमाकरणं खलु लोके प्रमाणम् उच्यते । ततः करणसाध्या फलरूपा प्रमितिर् अवश्यदर्शयितव्येति ॥
ननु यस्मिन् विषये क्रियासाधनं व्याप्रियते[38]..... कथम् इति । किम् अन्यत् प्रमाणम् इति पुनर् इहोपेक्षैतम् अनेन । अर्थे तियादिप्रतिवचनं व्याचष्टे अर्थस्ये ति । एतच् च तस्माद् इत्य् अन्तं सुगमम् ।
__________नोतेस्__________
[38] अत्र पङ्क्तिबाह्यं किञ्चिल्लखितम् अस्ति । सूक्ष्मत्वात् न पठ्यते -- सं-
ननु संवादकं ज्ञानं प्रमाणम् । संवादश् च तदुत्पत्तिमात्रात् । तत् किम् अर्थे प्रतीतिस् तत् फलं मृग्यत इत्याशङ्क्याह -- एतद् उक्तं भवती ति ।
[ध्प्र् प्.80]
अथ प्रापकत्वं प्रापणशक्तियोगात् । सा च शक्तिस् तत उत्पत्ते एव । तथा च कथं पूर्वपक्षातिक्रम इत्य् आह -- प्रापणशक्तिश् चे ति । चो यस्मात् । न केवलाद् एकाकिनो ऽर्थप्रदर्शनविनाकृतात् । विवक्षितेन विना भवतीति विनाभावी ग्रहादित्वाण् णिनिः, व्यभिचारीत्य् अर्थः । अर्थेन विना भावीति "तृतीया" [पा-2.1.30] इति योगविभागात् समासः । तस्य भावस् तस्मात् । कथं पुनर् न केवलाद् इत्य् आह -- बीजाद् इति । यत एवं तस्मात् । यद्य् अपि सन्तान एव प्राप्यो न च तस्मात् तस्योत्पत्तिस् तथापि विषये ऽस्यैकत्वम् अध्यवसाय प्राप्याद् अर्थाद् उत्त्पत्ताव् अपी त्य् उक्तम् । प्रापकस्य ज्ञानस्यावश्यकर्त्तव्यः प्रतीतिक्रियारूपः । प्रापितो भवतीति पूर्ववद् योग्यत[34ब्]योच्यते । भवतु तस्य कर्त्तव्यम् अन्यत्, तथापि न तत्फलम् इत्य् आह -- स एवे ति । च स्फुटम् एतद् इत्य् असिम्न्न् अर्थे ।
भवतु अवश्यकर्त्तव्यः प्रापकव्यापारः । स पुनर् अज्ञानात्म्को भविष्यति । तथा च कथं प्रतीतिः फलम् इत्य् आह उक्तम् इति । चो यमादर्थे । पुरस्तात् पूर्वस्मिन् । केनोक्तम् एतद् इति चेत् प्रवर्त्तकत्वम् अपि प्रवृत्तिविषयोपदर्शकत्वम् एवे त्यादिना । आस्ताम् अर्थप्रतीतिर् अवश्यकर्त्तव्या प्रमाणस्य तथापि कथं तद् एव प्रत्यक्षज्ञानं फलं तस्यातद्रूपत्वाद् इत्याशङ्क्य यद् अर्थप्रतीतिरूपत्वं प्रज्ञातं तद् उपपादयन्न् आह -- तदेवे ति । चो यस्माद् अर्थे ।
नन्व् अर्थप्रदर्शनं कर्त्तव्यतया प्रदर्शितम् । तत् कथम् अर्थप्रतीत्याम् एकं तत् प्रदर्श्यत इत्य् आह -- अर्थप्रदर्शनरूपम् इति । अनयोर् अर्थाभेद इत्य् अभिप्रायः । यत एवम् अतो ऽस्मात् तद् एव प्रत्यक्षं ज्ञानम् एव नार्थान्तरम् इत्य् अर्थात् । प्रमाणाद् अन्यज्ञानम् एव फलं यदि स्यात्, किं स्यात्? येन यत्नेन गरीयसा प्रमाणाद् अभेदो ऽस्य साध्यत इति चेत् । उच्यते । "धीप्रमाणता, प्रवृत्तेस् तत्प्रधानत्वात्" [प्रमाणवा-1.4] इत्य् अत्राज्ञाणात्मनस् तावत् प्रामाण्यम् अपहस्तितम् । ज्ञानात्मनश् च प्रमाणस्या(स्य) भिन्ने ऽपि प्रमितिरूपे फले ऽवश्यम् अर्थपरिच्छेदात्मता ऽभ्युपेतव्या । अन्यथा ज्ञानत्वम् एव तस्य न स्यात् । प्रमाजनकत्वेन च ज्ञानत्वे चक्षुरादेर् अपि ज्ञानत्वं स्यात् । बोधरूपत्वं चास्वसंवेदनतया न नियामकम् । स्वसंवेदनरूपत्वे वा ग्राह्याकारसंवेदनम् एवार्थवेदनम् इति कह्तं भिन्नं फलम्? प्रतिकर्मव्यवस्था ऽनुपपत्तेश् च न निराकारत्वं विज्ञानस्याभ्युपेयम् । ज्ञानम् एवार्थस्य प्रकाश इति च सर्वतन्त्रसिद्धो ऽयम् अर्थः । ततो न ज्ञानस्याधिगमरूपतायां विप्रतिपत्तव्यं केनचित् । सत्यां च तदात्मतायां तद् एव फलं युज्यते, तावतैव प्रमाणव्यापारपरिसमाप्तेः ।
अपि च यदि ज्ञानस्य स्वयम् अर्थरूपपरिच्छेदरूपत्वेनार्थपरिच्छेदकत्वं न स्यात्, किन् तु भिन्नपरिच्छित्तिजनकत्वेन; तदा ऽर्थस्य परिच्छित्तेर् अपरोक्षतैव व्यवस्थापयितुं न शक्येत । तथा हि तद् आद्यं ज्ञानम् अर्थं परिच्छिनत्त्य् अर्थम् अपरोक्षयतीति को ऽर्थो ऽर्थविषयां परिच्छित्तिं जनयतीति । सा ऽपि यद्य् अर्थम् अपरोक्षयति तदा ऽपरां प्रतीतिं जनयतीति स्यात् । एवम् उत्तरत्राप्य् एवम् एवेति परिच्छित्तीनाम् आनन्त्यम्, न त्व् अर्थस्यापरोक्षतेत्य् आयातम् आन्ध्यम् अशेषस्य जगतः ।
अथ तासाम् एका स्वयम् अर्थपरिच्छेदरूपा अर्थापरोक्षतारूपोपेयते; तदा न भिन्नपरिच्छित्तिजनकत्वं परिच्छेदकत्वम् । किन् तर्हि? स्वयम् अर्थपरिच्छेदात्मत्वम् इति आद्यस्यापि तथात्वम् अनिवारितम् । तथा च कथं प्रमाणाद् व्यतिरिक्तं फलम् इति?
इह न क्रियैव करणं लोके तयोर् भेदेनावस्थितेः । या चेयं ज्ञानलक्षणा क्रिया सा चेत् फलं
[ध्प्र् प्.81]
यदि तर्हि ज्ञानं प्रमितिरूपत्वात् प्रमानफलम्, किं तर्हि प्रमाणम् इत्य् आह --
अर्थसारूप्यम् अस्य प्रमाणम् इ-20
अर्थेन सह यत् सारूप्यं सादृश्यम् अस्य ज्ञानस्य तत् प्रमाणम् । इह यस्माद् विषयाद् विज्ञानम् उदेति तद्विषयसदृशं तद् भवति । यथा नीलाद् उत्पद्यमानं नीलसदृशम् । तच् च सारूप्यं सादृश्यम् आकार इत्य् आभास इत्य् अपि व्यपदिश्यते ।
ननु च ज्ञानाद् अव्यतिरिक्तं सादृश्यं । तथा च सति तद् एव ज्ञानं प्रमाणं तद् एव च प्रमाणफलम् । न च एकं वस्तु साध्यं साधनं च उपपद्यते । तत् कथं सारूप्यं प्रमाणम् इत्य् आह --
तद्वशाद् अर्थप्रतीतिसिद्धेर् इति इ-21
॥ प्रत्यक्षपरिच्छेदः ॥
किम् अन्यत् प्रमाणं भविष्यति इत्य् आगूर्य पूर्वपक्षावादी यदी त्य् आह । यदी ति सम्भावयति । तर्हि शब्दो ऽक्षमायाम् । तद् एव प्रत्यक्षं ज्ञानम् एवम् इति (एवेति) न क्षम्यत एतद् इत्य् अर्थः । प्रमाण स्य फलं साध्यम् । तर्हि तस्मिन् काले किम् प्रमाणम् इति योज्यम् ।

अत्र् आर्थसारूप्यम् इत्य् उत्तरं व्याचष्टे -- अ [35अ] र्थेने ति । अर्थेन विषयेण । विषयसारूप्यं च ज्ञान्स्य प्रत्यक्षाख्यस्य विषयसमानाकारतयोत्पादः । इहे त्यादिना सारूप्यम् एवोपपादयति । एतच् च नीलसदृशम् इत्य् अन्तम् सुबोधम् । केवलम् एवं वदतो ऽयम् आशयः -- अनेकप्राग्भावेनोदयमानम् अपि विज्ञानम् अर्थस्यैवाकारं बिभर्ति, नान्यस्येत्य् अनुबवसिद्धम् अपर्यनुयोज्यम्, सदृशत्वनिश्चयस्य ताद्रूप्येण सततम् उदयात् । यदि हि तदन्याकारो विषयः स्यात् तदा तदितरस्याकारधारि विज्ञानं कदाचिज् जन्येत् । यथा शुक्तिः कथञ्चिद् रजताकारज्ञानप्रबन्धोदये ऽपि तद्देशोपसृष्टस्य स्वाकारानुकारि ज्ञानं जनयति । न चाभ्रान्तस्य नीलज्ञानस्य कदाचिद् अप्य् अन्याकारत्वम् अस्ति । तस्माद् अर्थो ऽप्य् एवम् आकार इति निश्चीयते । बाह्यार्थे ऽर्थसारूप्यावगमे गतिर् इयम् एवेति ।
ननु चान्यत्र विषयाभासः प्रमाणम् उक्तस् तथाविषयाकारः, इह त्व् अर्थसारूप्यम् । तत् कथं न व्याघात इत्य् आशङ्क्याह -- तच् चेति । चो यस्माद् अवधारणे वा इत्य् अप्य् अनेनापि शब्देन । अर्थसारूप्यम् एव तेन तेन शब्देनाभिहितम् । ततो न व्याघात इत्य् अभिप्रायः ॥
किं तर्हि प्रमाणम् इति पृच्छता यच् चेतसि निहितम् आसीत् तद् इदानीं ननु चे त्यादिना कण्ठोक्तं करोति । एतच् च प्रमाणम् इत्य् एतद् अन्तं सुबोधम् ।
[ध्प्र् प्.82]
तद्वशाद् इति । तद् इति सारूप्यम्, तस्य वशात् सारूप्यसामर्थ्यात् । अर्थस्य प्रतीतिः अवबोधः । तस्याः सिद्धिः । तत्सिद्धेः कारणात् । अर्थस्य प्रतीतिरूपं प्रत्यक्षं विज्ञानं सारूप्यवशात् सिद्ध्यति प्रतीतं भवति इत्य् अर्थः । नीलनिर्भासं हि विज्ञानं यतः, तस्मात् नीलस्य प्रतीतिर् अवसीयते । येभ्यो हि चक्षुरादिभ्यो विज्ञानम् उत्पद्यते न तद्वशात् तज्ज्ञानं नीलस्य संवेदनं शक्यते ऽवस्थापयितुम्[39] । नीलसदृशं तु अनुभूयमानं नीलस्य संवेदनम् अवस्थाप्यते ।
__________नोतेस्__________
[39] साधारणत्वाच् चक्षुरादीनाम् -- ट्-
न च अत्र जन्यजनकभावनिबन्धनः, साध्यसाधनभावः, येन एकस्मिन् वस्तुनि विरोधः स्यात् । अपि तु व्यवस्थाप्यव्यवस्थापनभावेन । तत एकस्य वस्तुनः किञ्चिद् रूपं प्रमाणम् किञ्चित् प्रमाणफलं न विरुध्यते ।
एतस्मिन् पूर्वपक्षे तद्वशाद् इत्याद्य् उत्तरम् आचार्यीयं विवृणोति तद् इति । तच् शब्दार्थं वश शब्दार्थं [च] स्फुटयति सारूप्येति । अर्थस्ये ति नीलपीताद्यात्मना विशिष्टस्येति द्रष्टव्यम् । यतः प्रमितिर् इयं विशिष्टेनैव कर्मणा ऽवच्छिन्ना प्रतीयते । अमुम् एवार्थम् -- अर्थस्ये त्यादिना स्पष्टयति । सिद्धि शब्दस्यार्थम् अभिव्यनक्ति प्रतीतम् इति । प्रतीतं तन्नीलस्येदं ज्ञानं न पीतस्येत्याद्याकारेण निश्चितं भव्तीत्य् अर्थः । उक्तम् अर्थं नीले त्यादिनोपसहरति । हि र् अवधारणे । यत एवं तत् तस्मात् नीलस्य प्रतीतिर् नीलस्यैवेदं ज्ञानम् इत्य् अवसीयते ।
ननु जनकेभ्य एवेयं ज्ञानस्य व्यवस्था भविष्यति । ते हि ज्ञाणं जनयितुं शक्ताः किम् अङ्ग निश्चायितुं न शक्नुयुः? अतश् च न सारूप्याधीनो ऽयं प्रतीतिनियम इत्य् आशङ्क्याह -- येभ्य इति । हि र् यस्मात् । एवं ब्रुवतो ऽयं भावः -- नेन्द्रियालोकौ नियामकौ । तयोः सर्वज्ञानसाधारणत्वात् । अर्थगतो ऽपि विशेषो न नियामकः । ज्ञानाद् एव हि स प्रत्येतव्यः । तदविशेषे स कथं विशेषव्यवस्थाया अङ्गं भवेद् इति । नीलसारूप्ये ऽपि यद्य् अयं न्यायस् तदा कथं तस्यापि नियमकत्वम् इत्य् आह -- नीले ति । तु र् इन्द्रियादिभ्यः सारूप्यं भेदवद् दर्शयति । नीलसदृशम् अनुभूयमानं संवेदनं ज्ञानं नीलस्य नीलस्यैवेति व्यवस्थाप्यते ।

अयम् अत्र प्रकरणार्थः -- यदि ज्ञानम् अर्थसरूपं न स्यात् किन् तु निराकारं बोधैकरूपं तदा ऽनुभवैकरूपतया तद् अविशिष्टं, परिच्छेद्यतया कर्मस्यानप्राप्ते नीलपीतादाव् इति नीलस्यैवेदं संवेदनम्, इदं पीतस्यैवेत्य् अनुभवसिद्धः प्रतिकर्मविभागो हीयेत । [35ब्] अर्थगतश् चाकारो ज्ञानाधीनप्रतिपत्तितया ज्ञानस्य विशिष्टरूपतासन्देहेन सन्दिग्धः । न च तेनैव सन्दिग्धरूपेण तद् एव सन्दिग्धं रूपं निश्चेतुं शक्यम् । ज्ञानगतश् च विशेषो ऽर्थकृतः सारूप्याद् अन्यो नोपपद्यते । सन्न् अपि न तावद् इदं तया ऽसौ निर्देष्टुं शक्यः । न चानिरूपितेन तदात्मकः कर्मनियमनिश्चयः । यद्रूपश् च यश् च कर्मनियमनिशयो ज्ञानस्य तस्मिन्न् निरूपिते कीदृशी तद्रूपताव्यवस्था? यथा
[ध्प्र् प्.83]
व्यवस्थापनहेतुर् हि सारूप्यं तस्य ज्ञानस्य । व्यवस्थाप्यं च नीलसंवेदनरूपम्।
व्यवस्थाप्यव्यवस्थापकभावो ऽपि कथम् एकस्य ज्ञानस्य इति चेत् । उच्यते । नीलसदृशम् अनुभूय तद् विज्ञानं यतो नीलस्य ग्राहकम् अवस्थाप्यते निश्चयप्रत्ययेन, तस्मात् सारूप्यम् अनुभूतं व्यवस्थापनहेतुः । निश्चयप्रत्ययेन च तज् ज्ञानं नीलसंवेदनम् अवस्थाप्यमानं व्यवस्थाप्यम् ।
तस्माद् असारूप्यव्यावृत्त्या सारूप्यं ज्ञानस्य व्यवस्थापनहेतुः । अनीलबोधव्यावृत्त्या च नीलबोधरूपत्वं व्यवस्थाप्यम् ।
नीलादिर् अनिरूपिते क्षणिकत्वे तद्रूपो न निरूप्यत इति । तस्माद् यत इयम् अधिगतिर् अव्यवधानात् तत्त्वं प्रलभते तद् एवान्येनाव्यवधीयमानव्यापारं स्वभेदेन भेदकं प्रमाकरणं प्रमाणम् । न पुनर् अनेनैव व्यवधीयमानव्यापारम् इति । तच् चेदृशं सारूप्यम् एवेति । एष च वादो ऽस्माभिर् 10 विस्तरेण विशेषाख्याने ऽभिहित इति ततो ऽप्य् अपेक्षितव्य इति ।
ननु चैवम् अप्य् एकस्यैव ज्ञानस्य साध्यत्वं साधनत्वञ् च कथम् उपपद्यते? न हि परशुर् एव छिदा भवति । ततः प्रमाणफलयोर् अभेदो नाभ्युपैतव्य इत्य् आशङ्क्याह -- न चे त्यादि । चो यस्मादर्थे । अत्रे ति प्रमाणफलचिन्तायां विरोधो ऽनुपपत्तिः स्यात् । यद्य् एवम् न भवति कथं नामेत्य् आह -- अपि तु किन् तु । व्यवस्थाप्यं विशेषरूपेण नियाम्यम् । व्यवस्थाप्यते विशिष्टेनात्मना नियम्यते ऽनेनेति व्यवस्थानिमित्तम् व्यवस्थापनम् अभिप्रेतम् । व्यवस्थापनभावेने त्य् अयं पाठो वक्ष्यमाणविरोधी । यदा तु व्यवस्थापकभावेने ति पाठो दृश्यते तदा करणे कर्त्तृभावविवक्षया तथा द्रष्टव्यम् । साध्व् असिश् च्छिनत्तीति यथा । तयोर् व्यवस्थाप्यव्यवस्थापनयोर् भावस् तथा ज्ञानाभिधाननिमित्तं रूपं तेन । इत्थंभूतलक्षणा चेयं तृतीया । यत एवं ततस् तस्माद् एकस्य वस्तुनः प्रत्यक्षलक्षणस्य ज्ञानस्य वस्तुनः किञ्चिद् रूपं व्यावृत्तिपरिकल्पितं कृतकत्वादिवत् । तत्रेयं ब्राह्यार्थे प्रमाणादिव्यवस्था । ग्राह्याकारो ऽर्थसारूप्याख्य आत्मनः संविदम् अर्थसंविदम् आदर्शयन्न् अर्थे प्रमाणम् । अत एव बाह्यो ऽर्थः प्रमेयः । वस्तुतः स्वविद् अपीयम् अर्थसम्बन्धिनी व्यवसीयमाना ऽर्थसंवित्तिः फल्म् इति ।
ननु किम् अत्र व्यवस्थापननिमित्तम्, किञ् च व्यवस्थाप्यं येनैतत् स्याद् इत्य् आह -- व्यवस्थापने ति । व्यवस्थापनं व्यवस्थाकारणम् । व्यवस्थायां प्रयोजकव्यापार इति यावत् । तस्य हेतुर् निम्त्तम् । हि र् यस्मात् । तस्य प्रत्यक्षज्ञानस्य । किन् तर्हि व्यवस्थाप्यम् इति? चो व्यवस्थापनहेतोर् व्यवस्थाप्यं भिनत्ति । नीलस्येदं नान्यस्येत्य् अनेनाकारेण यन् नीलसंवेदनं तद् रूपम् ।
एतद् असहमानो व्यवस्थाप्ये त्यादिय् आह । न केवलम् एकस्य जन्यजनकभावो ऽनुपपन्न इत्य् अपि ना दर्शयति । उच्यत इत्यादिना परिहरति । यतो यस्मान् निलसदृशम् अनुभूये ति वास्तवं रूपम् अनूदितम् । न तु नीलसदृशम् अनुभवामीति निश्चयो ऽस्ति । अपि तु नीलम् एवानुभवामीति नीलस्य ग्राकम् अवस्थाप्यते ।
[ध्प्र् प्.84]
व्यवस्थापकश् च विकल्पप्रत्ययः प्रत्यक्षबलोत्पन्नो द्रष्टव्यः । न तु निर्विकल्पत्वात् प्रत्यक्षम् एव नीलबोधरूपत्वेन आत्मनम् अवस्थापयितुम् शक्नोति । निश्चयप्रत्ययेन अव्यवस्थापितं सद् अपि नीलबोधरूपं विज्ञानम् असत्कल्पम् एव । तस्मान् निश्चयेन नीलबोधरूपं व्यवस्थापितं विज्ञानं नीलबोधात्मना सद् भवति ।
तस्माद् अध्यवसायं कुर्वद् एव प्रत्यक्षं प्रमाणं भवति । अकृते त्व् अध्यवसाये नीलबोधरूपत्वेनाव्यवस्थापितं भवति विज्ञानम् । तथा च प्रमाणफलम् अर्थाधिगमरूपम् अनिष्पन्नम् । अतः साधकतमत्वाभावात् प्रमाणम् एव न स्याज् ज्ञानम् ।
ननु न तावता ज्ञानम् आत्मनैवात्मानं[40]तथा [36अ]व्यवस्थापयति, अनिश्चयात्मकत्वात् । न च निश्चयो ऽप्य् आत्मानं तथा ऽवस्थापयितुं पर्यवाप्नोति, स्वात्मन्य् अविकल्पकत्वात् । तत् केन तथा व्यवस्थायत इत्य् आह -- निश्चयप्रत्ययेने ति । निश्चयात्मकज्ञानेनोत्तरकालभाविना । तेनाप्य् अनुरूपेणेति द्रष्टव्यम् । तस्मात् सारूप्यम् अनुभूतं स्वसंवेदनेन प्रतीतं व्यवस्थापनहेतुर् नीलस्येदं संवेदनम्, न पीतस्येति नियमकरणस्य हेतु र् निमित्तम् । इदं च व्यवस्थापनहेतुर् हि सारुप्यं तस्य ज्ञाणस्ये त्य् अस्य समर्थनम् । यदि ज्ञानस्य तस्य सारुप्यम् एवं व्यवस्थापनहेतुस् तर्हि किं कीदृशं च सद् व्यवस्थाप्यम् इत्य् आह -- निश्चये ति । चो ऽ वधारणे । तद् इत्य् अस्मात् परो द्रष्टव्यः । यस्यैव नीलज्ञानस्य सारूप्यं तथोक्तं तद् एव ज्ञानं व्यवस्थाप्यं नीलस्यैवेत्याकारेण नियाम्यम् इत्य् अर्थः ।
__________नोतेस्__________
[40] "इतिकरणेनाभ्युपगमस्य स्वरूपं चेत्य् अन्तेनाभ्युपगमं दर्शयति" । इति पाठो ऽष्टमपंक्तिसम्बद्धत्वेन पंक्तिबाह्यभागे लिखितः प्रतौ दृश्यते किन् तु तस्य कुत्र निवेश इति न ज्ञायते -- सं-
कीदृशं सत् तथा व्यवस्थाप्यम् इत्य् आह -- नीले ति । पीतादिसंवेदनव्यावृत्त्या नीलस्येदं संवेदनं ज्ञानम् इत्य् अवस्थाप्यमानं निश्चीयमानम् । केनावस्थाप्यमानम् इत्य् आकाङ्क्षायां निश्चयप्रत्ययेने ति योजनीयम् । ननु किं ज्ञानात् सारूप्यं व्यतिरिच्यते येन सारूप्यं तथोक्तम्, ज्ञानं त्व् एवम् उच्यत इत्य् आशङ्क्योपसंहारव्याहेनाह -- तस्माद् इति । यस्मात् सारूप्याद् अन्यव्यवस्थापनहेतुर् न घटते, सारूप्यं च ज्ञानाद् अन्यं नोपपद्यते तस्मात् कारणात् । अयं च -- तत एकस्य वस्तुनः किञ्चिद् रूपम् इत्यादेर् उपपत्त्या प्रसाधितस्योपसंहारः ।
अयं प्रकरणार्थः । एकस्यैव ज्ञानस्य व्यावृत्तिकृतं भेदम् आश्रित्याह व्यवस्थाप्यव्यस्थापनभावः । वास्तवं चाभेदम् उपादाय प्रमाणफलयोर् अभेद उच्यते । न च काचित् क्षतिर् इति ।

सम्प्रति निश्चयप्रत्ययेने ति ब्रुवता यादृशो निश्चयो विवक्षितस् तं व्यवस्थापक इत्यादिनोपसंहारव्याजेन स्पष्टयति । व्यवस्थापयतीति व्यवस्थापकः । स च तद्बलोत्पन्नो ऽप्य् अनुरूपो द्रष्टव्यः । अननुरूपविकल्पेन व्यवस्थापितयोर् अपि व्यस्वथाप्यव्यवस्थापनयोर् अनुपपत्तेः । यथा मरीचीर् दृष्ट्वा तद्बलोत्पन्नेन विकल्पेनावस्थाप्यमानयोर् जलसारूप्यज्ञानयोर् न तथाभावः ।
[ध्प्र् प्.85]
जनितेन त्व् अध्यवसायेन सारूप्यवशान् नीलबोधरूपे ज्ञाने व्यवस्थाप्यमाने सारूप्यं व्यवस्थापनहेतुत्वात् प्रमाणं सिद्धं भवति ।
यद्य् एवम् अध्यवसायसहितम् एव प्रत्यक्षं प्रमाणम् स्यात् न केवलम् इति चेत् । न एतत् एवम् । यस्मात् प्रत्यक्षबलोत्पन्नेन अध्यवसायेन दृष्टत्वेन अर्थो ऽवसीयते, न उत्प्रेक्षितत्वेन । दर्शनाञ् च अर्थसाक्षात्करणाख्यं प्रत्यक्षव्यापारः उत्प्रेक्षणं तु विकल्पव्यापारः । तथा हि परोक्षम् अर्थं
येनाभिप्रायेण निश्चयप्रत्ययस्य व्यवस्थापकत्वम् उक्तं तम् अभिव्यनक्ति -- न त्व् इति । तु र् निश्चयात् प्रत्यक्षं भेदवद् दर्शयति । अवस्थापना ऽशक्तौ हेतुम् आह -- निर्विकल्पकत्वाद् इति ।
ननु परमार्थतो यदि तज् ज्ञानं नीलम् एव रूपतया सरूपं तदा तथानिश्चयो भवतु वा मा वा । स्वयम् एवाविकल्पकत्वे ऽपि तेन रूपेण सद्व्यय्वहारगोचरो भविष्यतीत्य् आश्ङ्क्याह -- निश्चयप्रत्ययेने त्यादि । निशयप्रत्ययेनानुरूपेण । अननुरूपेणाक्षणिकविकल्पेनाववस्थापितस्यापि क्षणिकबोधस्य सद्व्यवहारस्य योग्यत्वात् । तेन् आव्यवस्थापितम् असत्कल्पम् असत् तुल्यम् स्वविषये व्यवहारयितुम् अशक्तत्वात्[36ब्] । गच्छत्तृणज्ञानादिवत् ।
तस्माद् इत्यादिना ऽमुमर्थमुपसंहरति । यमान् निश्चयेन तथा ऽव्यवस्थापितम् असता सदृशं अभवति तस्मात् । नीलबोधात्मना नीलस्यायं बोध इत्याकारेण सद् भवति सद्व्यवहारयोग्यं भवति । यमात्स्वसामर्थ्योत्पन्नेनानुरूपेण निश्चयप्रत्ययेन व्यवस्थापितं तथा वहवति नान्यथा तस्मात् कारणाद् अध्यवसायम् अनुरूपं निश्चयं कुर्वत् । एव करेणा ऽकारेणा ऽकरणावस्थायाः प्रमाणव्यवहारं निरस्यति । अमुम् एवार्थं व्यतिरेकमुखेन द्रढ्यन्न् आह -- अकृते त्व् इति । तु ः करणावस्थां भेदवतीम् आह ।
भवतु तथा ऽव्यवस्थापितं किम् अत इत्य् आह -- तथा चे ति । तस्मिंश् च तेनात्मना ऽव्यवस्थापनप्रकारे सति । तद् अनिष्पत्ताव् अपि किं न प्रमाणम् इत्य् आह -- अत इति । अतो ऽधिगतिक्रियायाः फलभूताया अनिष्पत्तेः । साधकतमत्वाभाव इति वाक्यभेदः । तस्मात् साधकतमत्वाभावात् । अर्थाधिगमलक्षणप्रमाणसिद्धौ हि साधकतमं प्रमाणम् उच्यते । सा चेन् न निष्पन्ना तर्हि किम् अपेक्ष्य साधकतमत्वम् आत्मसात्कुर्यात्, येन तज्ज्ञानं प्रमाण्यम् अश्नुवीतेति समुदार्यार्थः ।
ननु अवसायाभावे तावद् इयं गतिस् तद्भावे ऽपि यद्य् एषैव गतिस् तदा न प्रत्यक्षं नाम प्रमाणम् इत्य् आशङ्क्यान्वयमुखेनेदानीम् आह -- जनितेने ति । तु र् अजननावस्थाया जननावस्थां भेदवतीं दर्शयति । तेन तथाव्यवस्थाप्यमाने व्यवस्थापकत्वे च निमित्तम् आह -- सारूप्यवशाद् इति । सिद्धं प्रतीति भवति ।
यदि प्रत्यक्षं केवलम् असहायं प्रवर्त्तयितुम् अनीशनं नियमेन निश्चयम् अपेक्षते तर्हि तत् सहितम् एव प्रमाणं प्रसज्येतेत्य् अभिप्रायवान् प्राह -- यद्य् एव म् इति । एवम् अनन्तरोक्तं यद्य् अभ्युपगम्यते तदैवं स्यात् । चेद् इति पराभ्युपगमं दर्शयति । ने ति प्रतिषेधति । एवं सत्य् एतन् न भवति । हेतुम् आह --
[ध्प्र् प्.86]
विकल्पयन्त उत्प्रेक्षामहे न तु पश्याम इत्य् उत्प्रेक्षात्मकं विकल्पव्यापारम् अनुभवाद् अध्यवस्यन्ति । तस्मात् स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारम् आदर्शयति यत्र अर्थे प्रत्यक्षपूर्वको ऽध्यवसायस् तत्र प्रत्यक्षं केवलम् एव प्रमाणम् इति ।
॥ [41]आचार्यधर्मोत्तरचितायां न्यायबिन्दुटीकायां प्रत्यक्षपरिच्छेदः प्रथमः ॥
__________नोतेस्__________
[41] प्रमाणम् इति न्यायबिन्दुटीकायां प्रथमः परिच्छेदः समाप्तः ॥ मङ्गलम् अस्तु ॥ अ. ॥ प्रमाणम् इति आचार्य धरोत्तर विरचितायां न्यायबिन्दुटीकायां प्रथमः परिच्छेदः समाप्तः ॥ मङ्गलम् अस्तु ॥ च्.
यस्माद् इति । दृश्यत्वेन दर्शनविशिष्टत्वेन । प्रकारान्तरं निरस्यति ने ति । उत्प्रेक्षितत्व ं साक्षात्करणाभिमानशून्यज्ञातृत्वम् ।
ननु विकल्पव्यापारो दर्शनम् । ततः स्वव्यापारविशिष्टार्थाध्यवसाने तस्य का क्षतिर् इत्य् आशङ्क्याह -- दर्शनञ् चे ति । चो यस्मादर्थे । यद्य् एवं कस् तर्हि विकल्पव्यापार इत्य् आह -- उत्प्रेक्षणम् इति ।
एतद् एव तथा ही त्यादिना ऽवस्यन्तीत्य् अनेन (-त्य् अन्तेन) ग्रन्थेन समर्थयति ।
भवत्व् एवं तथापि कथं प्रत्यक्षस्य केवलस्य प्रामाण्यं न तु विकल्पस्यापीत्य् आशङ्क्योपसंहारापदेशेनाह -- तस्माद् इति । एतच् च सुबोधम् ।
एवम् अभिधाने चायम् अस्याशयो बोद्धव्यः । स्यात् खलु विकल्पस्यापि प्राणण्यं यद्य् असौ स्वव्यापारयुक्त एव प्रत्यक्षस्य साहाय्यं भजते । न चायं तथा व्याप्रियते । स्वीकृतप्रत्यक्षव्यापारस्यैव प्रवृत्तिदर्शनात् । स च दर् श् अनलक्षणो व्यापारः प्रत्यक्षेणैव सम्पादित इति कथम् अयम् अपि पिष्टपेषणकारी प्रामाण्यं प्रतिलभेत ।
अथ प्रत्यक्षं तावत् स्वप्रामाण्यव्यवहाराय तम् अपेक्षते । ततः सो ऽपि प्रमाणम् एवेति मतिस् तर्हि पिता पितृव्यवहारायावश्यं पुत्रम् अपेक्षत इति पुत्रो ऽपि पिता प्रसज्यत इति कृतम् अतार्किकवचनविचारणयेति
सर्वम् अवदातम् ॥
॥ पण्डित दुर्वेक विरचित धर्मोत्तर निबन्धस्य धर्मोत्तरप्रदीप संज्ञितस्य प्रथमः परिच्छेदः ॥

मूल पाठ: Dharmottarapradīpa subcommentary on Dharmottara's Nyāyabinduṭīkā on Dharmakīrti's Nyāyabindu · Edition: Dalsukhbai Malvania, Patna: Kashiprasad Jayaswal Research Institute 1971 (Tibetan Sanskrit Works, 2) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc