धर्मसूत्र · अध्याय 24
रहस्यं प्रायश्चित्तम् अविख्यातदोषस्य ।
चतुरृचं तरत्समन्दीत्य् अप्सु जपेद् अप्रतिग्राह्यंप्रतिजिघृक्षन् प्रतिगृह्य वा ।
अभोज्यं बुभुक्षमाणः पृथिवीम् आवपेत् ।
ऋत्वन्तरारमण उदकोपस्पर्शनाच् छुद्धिम् एके ।
स्त्रीषु ।
पयोव्रतो वा दशरात्रं घृतेन द्वितीयम् अद्भिस्तृतीयं दिवादिष्व् एकभक्तिको जलक्लिन्नवासा लोमानि नखानि त्वचम्मांसं शोणितं स्नाय्वस्थि मज्जानम् इति होमा आत्मनो मुखे मृत्योर् आस्येजुहोमीत्य् अन्ततः सर्वेषां प्रायश्चित्तं भ्रूणहत्यायाः ।
अथान्यत् ।
उक्तो नियमः ।
अग्ने त्वं पारयेति (र्व् 1,189.2) महाव्याहृतिभिर्जुहुयात् कूष्माण्डैश् चाज्यम् ।
तद्व्रत एव वा ब्रह्महत्यासुरापानस्तेयगुरुतल्पेषुप्राणायामैस् तान्तो ऽघमर्षणं जपन् समम् अश्वमेधावभृथेनेदंच प्रायश्चित्तम् ।
सावित्रीं वा सहस्रकृत्व आवर्तयन् पुनीतेहैवात्मानम् ।
अन्तर्जले वाघमर्षणं त्रिर् आवर्तयन्सर्वपापेभ्यो विमुच्यते ।
मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0