धर्मसूत्र · अध्याय 23
सुरापस्य ब्राह्मणस्योष्णाम् आसिञ्चेयुः सुराम् आस्येमृतः शुध्येत् ।
अमत्या पाने पयो घृतम् उदकं वायुं प्रतित्र्यहंतप्तानि स कृच्छ्रस् ततो ऽस्य संस्कारः ।
मूत्रपुरीषरेतसां च प्राशने ।
श्वापदोष्ट्रखराणां चाङ्गस्य ।
ग्राम्यकुक्कुटसूकरयोश् च ।
गन्धाघ्राणे सुरापस्य प्राणायामा घृतप्राशनं च ।
पूर्वैश् च दष्टस्य ।
तप्ते लोहशयने गुरुतल्पगः शयीत ।
सूर्मीं वा श्लिष्येज्ज्वलन्तीम् ।
लिङ्गं वा सवृषणम् उत्कृत्य अञ्जलाव् आधायदक्षिणाप्रतीचीं व्रजेद् अजिह्मम् आ शरीरनिपातात् ।
मृतः शुध्येत् ।
सखीसयोनिसगोत्राशिष्यभार्यासु सुनुषायां गवि चगुरुतल्पसमः ।
अवकर इत्य् एके ।
श्वभिर् आदयेद् राजा निहीनवर्णगमने स्त्रियंप्रकाशम् ।
पुमांसं घातयेत्(हन्) ।
यथोक्तं वा ।
गर्दभेनावकीर्णी निरृतिं चतुष्पथे यजेत् ।
तस्याजिनम् ऊर्ध्वबालं परिधाय लोहितपत्रः सप्तगृहान् भक्षं चरेत्कर्माचक्षाणः ।
संवत्सरेण शुध्येत् ।
रेतःस्कन्दने भये रोगे स्वप्ने ऽग्नीन्धनभैक्षचरणानि सप्तरात्रम् अकृत्वाज्यहोमः समिधो वारेतस्याभ्याम् ।
सूर्याभ्युदितो ब्रह्मचारी तिष्ठेद्(स्था) अहरभुञ्जानो ऽभ्यस्तमितश् च रात्रिं जपन् सावित्रीम् ।
अशुचिं दृष्ट्वा आदित्यम् ईक्षेत प्राणायामं कृत्वा ।
अभोज्यभोजने ऽमेध्यप्राशने वा निष्पुरीषीभावः ।
त्रिरात्रावरम् अभोजनम् ।
सप्तरात्रं वा स्वयंशीर्णान्य् उपभुञ्जानःफलान्य् अनतिक्रामन् ।
प्राक्पञ्चनखेभ्यश् छर्दनं घृतप्राशनं च ।
आक्रोशानृतहिंसासु त्रिरात्रं परमं तपः ।
सत्यवाक्ये वारुणीमानवीभिर् होमः ।
विवाहमैथुननर्मार्तसंयोगेष्व् अदोषम् एके ऽनृतम् ।
न तु खलु गुर्वर्थेषु ।
सप्त पुरुषानितश् च परतश् च हन्ति मनसापिगुरोर्(गुरु) अनृतं वदन्न् अल्पेष्व् अप्य् अर्थेषु ।
अन्त्यावसायिनीगमने कृच्छ्राब्दः ।
अमत्या द्वादशरात्रः ।
उदक्यागमने त्रिरात्रस् ।
मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0