धर्मसूत्र · अध्याय 25
तद् आहुः कतिधावकीर्णी प्रविशतीति ।
मरुतः प्राणेनेन्द्रे बलेन बृहस्पतिंब्रह्मवर्चसेनाग्निम् एवेतरेण सर्वेणेति ।
सो ऽमावास्यायां निश्य् अग्निम् उपसमाधायप्रायश्चित्ताज्याहुतीर् जुहोति ।
कामावकीर्णो ऽस्म्य् अवकीर्णो ऽस्मि कामकामायस्वाहा । कामाभिदुग्धो ऽस्मि अभिदुग्धो ऽस्मि कामकामाय स्वाहेतिसमिधम् आधाय अनुपर्युक्ष्य यज्ञवास्तु कृत्वोपोत्थायसमासिञ्चतु इत्य् एतया त्रिर् उपतिष्ठेत ।
त्रय इमे लोका एषां लोकानाम् अभिजित्या अभिक्रान्त्याइति ।
एतद् एवैकेषाम् कर्माधिकृत्य यो ऽप्रयत इव स्यात् सैत्थं जुहुयाद् इत्थम् अनुमन्त्रयेत वरो दक्षिणेति प्रायश्चित्तमविशेषात् ।
अनार्जवपैशुनप्रतिषिद्धाचारानाद्यप्राशनेषु शूद्रायां च रेतः सिक्त्वा(सिच्) अयोनौ(योनि) च दोषवति च कर्मण्य् अपिसंधिपूर्वे ऽब्लिङ्गाभिर् अप उपस्पृशेद् वारुणीभिर् अन्यैर् वापवित्रैः ।
प्रतिषिद्धवाङ्मनसापचारे व्याहृतयः पञ्चसत्यान्ताः ।
सर्वास्व् अपो वाचामेद् अहश् च मादित्याश् च पुनातुइति प्राता रात्रिश् च मा वरुणश् च पुनात्व् इति सायम् ।
अष्टो वा समिध आदध्याद् देवकृतस्येति हुत्वाएव सर्वस्माद् एनसो मुच्यते ।
मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0