भाषा

ENहिગુ
ग्रंथ पाठ

धर्मसूत्र (टीका सहित) · अध्याय 2

2.1

आपस्तम्बेन सर्वतःशम्याप्रासान्नाधीयीतेत्युक्तम् ।
तस्मात्तत्समीपे ऽध्ययनं श्मशानाध्ययनम् ।
अभ्युपसर्गो बुद्धिपूर्वसूचनार्थः ।
ततो ऽबुद्धिपूर्वे अन्यत्प्रायश्चित्तं लघुतरं द्रष्टव्यम् ।
तथा चाहोशना- ऽअनभिसन्ध्या श्मशानाभ्यध्ययने ऽधीहि भो इत्युक्त्वाधीयीतऽ; इति ।
चकारादनन्तरोक्तस्य प्रणायामादेः सर्वस्य प्राप्तौ एवंशब्देन अनन्तरोक्तस्योपसदनस्यैव प्राप्तिः क्रियते ।
तर्ह्येवंशब्द एव वक्तव्य इति चेत् न, उभयसकाश एवायमर्थो लभ्यते ।
कथं ? एवंशब्दे चशब्दे वा वक्तव्ये उभयपाठस्य प्रयोजनान्तरं कल्पयितुं न्याय्यं, न ह्येकस्यैवेति ।
अत उपसदनमेव कर्तव्यम् ।
तथाच स्मृत्यन्तरं-ऽश्मशानसमीपे ऽधीत्य प्राणान् धारयेत् प्राणोपस्पर्शनमभिवादनं सावित्र्यनुवाचनंऽ; इत्यादि ।
द्विरुक्तिरध्यायपरिसमाप्त्यर्था ।
उक्तमिदं सर्वं प्रायश्चित्तं शिष्यस्यैव, तदर्थत्वादध्यनप्रभृतेः ।
किञ्च-सर्वत्र सोपसदनमेव प्रायश्चित्तं, उपसदनं त्वभिवादनादि, तदभिवादनमाचार्यस्य
न सम्भवतीति ॥
इति मस्करीये गौतमभाष्ये प्रथमो ऽध्यायः ॥
द्वितीयो ऽध्यायः
द्विजानामुक्तमुपनयनम् ।
तेषामुपनयनात्प्रागपि कैश्चिद्वर्णधर्मैरधिकार इष्यत इति तदर्थमाह-
प्रागुपनयनात्कामचारवादभक्षः

2.2

ननु च प्रागेवोपनयनादेतद्वक्तव्यं, तत्र प्रागुपनयनादित्येतन्न वक्तव्यं भवति ॥
उच्यते-सत्यमेतत् ।
किन्तु उपनयनस्यादावभिधाने प्रयोजनमुक्तम् ।
नानेन विधीयते, अर्थप्राप्तत्वात् ।
न च नियम्यते, अवश्यकर्तव्याभावात्, ऽउपनयनादिर्नियमःऽ; इति वक्ष्यमाणत्वात् पाक्षिकत्वाभावाच्च ।
नापि परिसङ्ख्या, निर्वत्याभावात् ।
न ह्यस्याकामचारित्वादिकं प्राप्तम् ।
अतः इदं सूत्रमनुवादकं प्रायश्चित्तराजदण्डाभावज्ञापनार्थं, तयोः सामान्येनोपदिश्टत्वात् ॥
ननु च राजदण्डप्रायश्चित्तानि च विहिताकरणे निषिद्धसेवने वा विधीयन्ते ।
न चास्य विधिप्रतिषेधाभ्यामधिकारः ।
न चास्य विधिः प्रतिषेधाभ्यामधिकारः ।
न चास्य विधिः प्रतिषेधो वा श्रूयत इति ।
न त्वस्याहुतात्त्वादि विधायिष्यते प्रतिषिध्यते वा, यद्व्यतिक्रमे उभयं भविष्यतीति, पित्रादीनामुपदेशात् ।
अत इदं सूत्रमनर्थकमिति ॥
अत्रोच्यते-यद्विहिताकरणे प्रतिपिद्धसेवने वा प्रायश्चित्तमुक्तं राजदण्डो वा तदुभयमस्यापि प्राप्नोत्येव ।
यद्यप्यस्यैवोद्देशेन विधिः प्रतिषेधो वा न श्रूयते, तथापि यत्तु सामान्येनोक्तं ऽअहिंसा सत्यमस्तेयम्ऽ; इत्यादि, त्दवर्णधर्मत्वादस्यापि प्राप्नोति ।
तद्व्यतिक्रमे राजदण्डप्रायश्चित्ते अपि भवतः ।
अतः तन्निवृत्त्यर्थमनुवादस्वरूपं सूत्रमारब्धम् ॥
ऽउपनयनादिर्नियमःऽ; इत्यनेन सूत्रेण उपनयनादारभ्य यो विधिरुच्यते-तद्व्यतिक्रमे एव प्रायश्चित्तं नान्यव्यतिक्रमे इति वक्ष्यमाणत्वात् ।
तेनैवास्यापि वर्णध्रमातिक्रमे प्रायश्चित्ताभावो ज्ञातुं शक्यते, राजदण्डाभावो ऽपि ।
तथापि नित्योपनयनकालातीतस्य भिन्नबुद्धेः शक्तस्य एकादशवर्षादूर्ध्वं षोडशवर्षात्प्राक् प्रायश्चित्तार्धप्रवेशनार्थं, ततोर्ऽवाक् पञ्चवर्षादूर्ध्वं पित्रादीनां प्रायश्चित्तप्रवेशार्थं, तत अर्वागपराधाभावज्ञापनार्थं च सूत्रमारब्धम् ।
तथाच भार्गवीयं-
आशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः ।
प्रायश्चित्तार्धमर्हन्ति स्त्रियो व्याधित एव च ॥
ऊनैकादशवर्षस्य पञ्चवर्षात्परस्य च ।
चरेत्सुहृद्गुरश्चैव प्रायश्चित्तं विशुद्धये ॥
अतो बालतरस्याथ नापराधो ऽस्ति कुत्र चित् ।
राजदण्डश्च तस्यातः प्रायश्चित्तं च नेष्यते ॥
इति ॥
एवं चोपनयनात्प्राग्यद्यपि सामान्येन कामचारित्वाद्युक्तं, तथापि पञ्चवर्षात्प्रागेवात्यन्तकामचारिता, तत ऊर्ध्वं वर्णधर्मेषु नियोक्तव्यः पित्रादिभिः, तद्व्यतिक्रमे बालस्य सतः पित्रादीनां प्रायश्चित्तस्य श्रवणात् ।
अलमतिप्रसङ्गेन ॥
इदानीं सूत्रं विव्रियते-उपनयनात्प्राक्कामचार इच्छागतिः तस्माच्चण्डालस्पर्शनादौ प्रोक्षणमात्रं वक्ष्यति ऽअवोक्षणेभ्यःऽ; इति तदपि पञ्चवर्षात्प्रागेवेत्युक्तम् ।
अत ऊर्ध्वं चण्डालादिस्पर्शने स्नापयितव्यः ।
एकादशवर्षादूर्ध्वं स्वयमेव स्नायात् ।
एवं सर्वत्र ।
कामवादः अश्लीलाद्यपि वदति ।
कामपक्षः पर्युषिताद्यपि भक्षयति ।
पञ्चवर्षादूर्ध्वं वर्णधर्माविरोधीनि कारयितव्यानि ।
उपनयनात्प्रागित्यापत्कल्पोपनयनस्यापि ग्रहणम् ।
कुतः ? ब्रह्मचारीति लिङ्गात् ।
नित्यकालात्प्राक् ब्रह्मचर्यस्य स्खलनासम्भवादेव सिद्धत्वात् ब्रह्मचर्यरक्षणोपदेशो ऽनर्थकःस्यादिति ।
कामचारस्योदाहरणं स्वयमेव वक्ष्यति ऽयथोपपादमूत्रपुरीषो भवतिऽ; इति ।
अतो ऽत्यन्तबालावस्थायामपि ब्रह्महत्यादेर्यत्नतो निवारयितव्यः ।
कामवादे अभिशंसादौ कामभक्षणे सुरापानादौ चात्यन्तवाल्यावस्थायामपि यत्नतो निवारयितव्य-, कामचार इत्यनेनैव सिद्धे वादभक्षणयोः पुनरुपन्यासात् ।
उपनयनादिति वक्तव्ये प्राग्ग्रहणं नियमार्थं, उपनयनात्प्रागेव कामचारित्वादीति ।
असति नियमे ऽउत्तरेषां चैतदविरोधिऽ; इत्यनेन हुतशिष्टभक्षणवर्जनादि यतीनामपि प्राप्नोतीति ॥
इदानीं कामवादभक्षणस्यापवादमाह-
अहुताद्ब्रह्मचारी

2.3

हुतं हुतशिष्टं चरुपुरोडाशादि, न वैश्वदेवशिष्टं, तस्य सर्वार्थत्वात् ।
तथाऽहापस्तम्बः-ऽसर्वान् वेश्वदेवे भागिनः कुर्वीतऽ; इति ।
अहुतात्कार्य इति शेषः ।
अर्थप्राप्तस्य प्रतिषेधो ऽयं पित्रादीनामुपदेशः, बालस्य विज्ञानाभावात् ।
एकादशवर्षादूर्ध्वं तस्यैवेत्युक्तम् ॥
ब्रह्मचारी

2.4

ब्रह्मचर्यरक्षणं कर्तव्यम् ॥
इदानीं कामचारस्योदाहरणमाह-
यथोपपादमूत्रपुरीषो भवति

2.5

यथापरिवेष्टितशिरसः कृष्टादावपि मूत्रपुरीषावुत्पद्येते तिष्ठतो वा तथा तत्रैव कुर्यादित्यर्थः ॥
किञ्च-
नास्याचमनकल्पो विद्यते

2.6

पञ्चवर्षादूर्ध्वमस्यैकादशवर्षात्प्राक् आचमनकल्पः आचमनविधिर्न विद्यते ।
कल्पप्रतिषेधात् आचमनमात्रमस्तीत्यवगम्यते ।
तत्र ऽशूद्रेण हि समस्तावद्यावद्वेदेन जायतेऽ; इति स्मृत्यन्तरे शूद्रेण तुल्यधर्मश्रवणादाचमनं शूद्रवद्द्रष्टव्यम् ।
ऊनैकादशवर्षस्येति कुतः ? अस्येत्यारम्भात्, पञ्चवर्षत्प्राग्दोषाभावश्रवणात् एकादशवर्षादूर्ध्वं वर्णधर्मे ऽधिकृतत्वाच्च ।
एकादशवर्षादूर्ध्वमाचमनकल्पो ऽपि तस्य विद्यत एवेति गम्यते ॥
इदानीमतिबालस्याह-
अन्यत्रापमार्जनप्रधावनावोक्षणेभ्यः

2.7

अस्य न विद्यत इति वर्तते ।
अस्योनपञ्चवर्षस्यापमार्जनादिभ्यः अन्यत्र किञ्चिदपि शौचप्रकारः न विद्यत इत्यर्थः ।
अपमार्जनं भुक्तोच्छिष्टस्य सोदकेन पाणिना तदुच्छिष्टापनयनम् ।
प्रधाबनं प्रक्षालनं मूत्रोच्चारादौ ।
अवोक्षणं चण्डालादिस्पर्शने प्रोक्षणम् ।
प्राप्त्यभावात् ऽनास्याचमनकल्पो विद्यते ।
अन्यत्रापमार्जनप्रधावनावोक्षणेभ्यःऽ; इति प्रतिषेधद्वयस्यानारम्भः प्राप्नोतीति चेत्, नैष दोषः, ऽनास्याचमनकल्पो द्यिततेऽ; इत्यनेनोनषोडशवर्षस्याचमनकल्पो विधीयते ऊनैकादशवर्षस्य प्रतिषेधद्वारेण ।
ऽअन्यत्रापमार्जनप्रधावनावोक्षणेभ्यःऽ; इत्यनेन पुनः ऊनपञ्चवर्षस्यापमार्जनादि विधीयते अन्यशौचप्रतिषेधद्वारेणेति ॥
किञ्च-
न तदुपस्पर्शनादशौचम्

2.8

तद्ग्रहणेनाकृतशौचो गृह्यते ।
अकृतशौचस्पर्शनात्तेन वा स्पृष्टस्याशुचित्वं न भवति ।
अतिबालविषयमेवैतत् ॥
तर्ह्यस्य शौचविधानमनर्थकं, कुतः ? द्वयमेव प्रयोजनं शौचविधानस्य दृश्यते इतरस्पर्शयोग्यार्थमनुष्ठानार्थं च ।
अस्य तु इतरस्पर्शयोग्यार्थं न भवति, अकृतशौचस्यापि स्पर्शयोग्यत्वात् ।
ऽन तदुपस्पर्शनादशौचम्ऽ; इत्यनेन ।
अनुष्ठानार्थं च न भवति, अस्यानुष्ठानाभावादिति ॥
नानर्थकं, रक्षार्थत्वाच्छौचविधानस्येति ।
तथाच स्मृत्यन्तरं-ऽबालस्यापञ्चमाद्वर्षाद्रक्षार्थं शौचं कुर्यात्ऽ; इति ॥
अकृतशौचस्यास्यैव स्पर्शने दोषाभावज्ञापनार्थः उपशब्दप्रयोगः ।
एवं चान्येषामुच्छिष्टकृत मूत्रपुरीषाणां
स्पर्शने आचमनं कर्तव्यम् ।
तत्स्पर्शने न दोषः शवस्पृष्टिसूत्रे परिगणितत्वात् ।
तथा स्मृत्यन्तरं-
अशुचिं स्पृशते यस्तु एक एव हि दुष्यते ।
तं स्पृष्ट्वान्यो न दुष्येत सर्वद्रव्येष्वयं विधिः ॥
इति ॥
चण्डालस्पर्शने तु शवस्पृष्टिसूत्रे वक्ष्यति ।
ऽतमुपस्पृशेत्ऽ; इति वक्तव्ये ऽन तदुपस्पर्शनादशौचम्ऽ; इति गुरसूत्रकरणं प्रागुपनयनादित्यत्र नियमम्यापि बाधनार्थम् ।
ततश्चोपनयनादूर्ध्वमप्युच्छिष्टकृतमूत्रपुरीषाणां स्पर्शने आचमनं कर्तव्यम् ॥
किञ्च-
न त्वेनैनमग्निहवनबलिग्रहणयोर्नियुञ्ज्यात्

2.9

एनमिति सर्वस्यानुपनीतस्योपसङ्ग्रहार्थम् ।
अग्नौ यत्क्रियते अग्निहोत्रहोमादि तत् अग्निहवनम् ।
वैश्वदेवोत्तरकालं दिग्देवताभ्यो यो बलिर्दीर्यते तद्बलिहरणम् ।
तुशब्दो विशेषवाची, अष्टकादौ ब्राह्मणपादप्रक्षालनादावपि न नियुञ्ज्यात्, विशेषतो ऽग्निहवनबलिहरणयोरिति ।
कामचारित्वाद्यत्रकुत्रचिन्मन्त्रमधीत्याग्निहोत्रादौ यदि स्वयमेव प्रवर्तते तदा तं दृष्ट्वानुमन्तापि न स्यादित्येवमर्थ एवशब्दः ।
उपनीतस्य नियोगार्थमिदं वचनं, अन्यत्र प्राप्त्यभावात्प्रतिनिषेधस्य ।
एवं च ऽविद्वानाग्निहोत्रं जुहुयात्ऽ; इति यद्यपि श्रुत्या बहुश्रुतस्यैवाधिकारः, तथापि तदसम्भवे अल्पविद्यमप्युपनीतं नियुञ्ज्यात् ।
तथाच मनुः-
नैव कन्या न युवतिर्नाल्पविद्यो न बालिशः ।
होता स्यादग्निहोत्रस्य नार्तो नासंस्कृतस्तथा ॥
इति ॥
तत्राल्पविद्यप्रतिषेधादेव प्रतिषेधे सिद्धे नासंस्कृत इति प्रतिषेधो ऽन्यस्य विदुषो ऽभावेल्पविद्यस्यापि संस्कृतस्याभ्यनुज्ञानार्थमिति प्रतिपादितम् ।
प्रागुपनयनादित्यादि यदुक्तं तत्स्त्रीणामपि अविवाहाद्द्रष्टव्यम् ।
कुतः ? ऽवैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतःऽ; इति स्मृत्यन्तरदर्शनात् ।
एवं चाग्निहवनबलिर्हरणयोः कन्याया अपि नियोगप्रतिषेधः सिद्धः ।
अतो विवाहोत्तरकालं नियोगः कर्तव्यः ।
तत्र ऽन स्त्री जुहुयात्ऽ; इति श्रुत्याग्निहोत्रे प्रतिषिद्धत्वात् औपासनादौ द्रष्टव्यम् ।
तथा च स्मृत्यन्तरं-ऽपत्न्यौपासनं जुहुयाद्वैश्वदेवं चऽ; इत्यादि ।
न युवतिरिति प्रतिषेधश्च परदारविषयत्वाददोषः ॥
किञ्च-
न ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनात्

2.10

एवमित्यनुवर्तते ।
ब्रह्मशब्देन वेदा उच्यन्ते ।
तस्मादेनं नाध्यापयेत् ।
उपनीतस्योपाकरणादूर्ध्वं ऽअधीयीत छन्दांसिऽ; इत्यनेन वेदाध्ययनविधानादेवानुपनीतस्य प्रतिषेधे सिद्धे वेदस्य पुनः प्रतिषेधः वेद एव नाध्यापयितव्यः इति नियमार्थः ततश्चाङ्गाध्यापने न दोषः ।
कामचारित्वाद्येनकेनचित्प्रकारेण गृहातं मन्त्रमपि नोच्चारयेत् ।
कुतः ? अध्यापययेदित्यनारभ्याभिव्याहारयेदित्यारम्भात् ।
अन्यत्र स्वधानिनयनात्, स्वधानिनयनं वर्जयित्वा ।
अमुष्मै स्वधेत्युक्त्वा यत्पिण्डोदकादि प्रेतेभ्यो दीयते तत्स्वधानिनयनम् ।
तदपि प्रेतकर्मणः समस्तस्याप्युपलक्षणम् ।
तथाच वसिष्ठः-ऽअन्यत्रोदककर्मस्वधाषितृसंयुक्तेभ्यःऽ; इति ।
एवंच पुत्रे ऽनुपनीते ऽपि
सति सपिण्डादिभिः प्रेतक्रिया न कर्तव्या, शास्त्रचोदनानर्थक्यप्रसङ्गो मा भूदिति ॥
अनुपनीतस्योक्त्वेदानीमुपनीतस्याह-
उपनयनादिर्नियमः

2.11

उपनयनादारभ्य यो विधिरुक्तः स नियमसंज्ञो भवति ।
एवं चास्याकरणे प्रायश्चित्तं न पूर्वस्य ।
अतो वा आरभ्य नियमः व्रतधारणं यो वक्ष्यते ऽग्नीन्धनादिः स नियमः उपनयनादिः कर्तव्यः ॥
किञ्च-
उक्तं ब्रह्मचर्यम्

2.12

उक्तग्रहणं प्रागुपनयनान्नियम एवैतदिति ।
ततश्च तत्स्खलने ऽनुपनीतस्यापि अवकीर्णिप्रायश्चित्तेनैवाधिकारो द्रष्टव्यः ।
तथाच स्मृत्यन्तरं-ऽविप्लुतमवकीर्णिव्रतेन शुद्धमुपनयेदूनसप्तदशवर्षं, अत ऊर्ध्वं ब्रात्यावकीर्णिव्रताभ्याम्ऽ; इति ।
ब्रह्मचारिणस्तु स्त्रीप्रेक्षणादिप्रतिषेधादर्थसिद्धमिति चेत्, न, पश्वादष्वपि सम्भवात् ॥
किञ्च-
अग्नीन्धनभैक्षचरणे

2.13

अग्नीन्धनं समिद्धोमः ।
इतरत्प्रसिद्धम् ।
ते प्रतिदिनं कर्तव्ये ।
सहनिर्देशो ऽनन्तरानुष्ठानार्थः ।
तथाच मनुः-
प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् ।
प्रदक्षिणं परोत्याग्निं चरेद्भैक्षं यथाविधि ॥
इति ।
तत्रापि प्रदक्षिणं परीत्याग्निमित्यनेन समिद्धोम उक्त इत्युक्तम् ।
ऽसायं प्रातस्त्वन्नमभैपूजितमनिन्दन् भुञ्जीतऽ; इति द्विर्भोजनश्रवणात् सायं प्रातः द्विरग्नीन्धनमपि द्रष्टव्यम् ।
तथा च स्मृत्यन्तरम्-
दूरादाहृत्य समिधः सन्निदध्याद्विहायसि ।
सायं प्रातश्च जुहुयात्ताभिरग्निमतन्द्रितः ॥
इति ।
केचित्समिद्धोमं सायमेवेच्छन्ति ॥
किञ्च-
सत्यवचन्

2.14

सर्वत्र कर्तव्यक्रियाध्याहर्तव्या ।
वचनग्रहणमसंदेहार्थं, सत्यमपामुपस्पर्शनमित्येवं संदेहः स्यादिति ।
पृथग्ग्रहणं आतुरस्याप्यनुष्ठानार्थम् ।
ततश्च पूर्वयोस्तन्न ।
तथाचच मनुः-
अकृत्वा भैक्षचरणमसमिध्य च पावकम् ।
अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥
इति ॥
किञ्च-
अपामुपस्पर्शनम्

2.15

अब्ग्रहणं भस्मादीनामुपलक्षणम् ।
तथाच भृगुः-
स्नानानि पञ्च पुण्यानि कीर्तितानि महर्षिभिः ।
आग्नेयं वारुणं व्राह्यं वायव्यं दिव्यमेव च ॥
आग्नेयं भस्मना स्नानमवगाहं तु वारुणम् ।
आपो हिष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम् ॥
यत्तु स्यात्सातपं वर्षं दिव्यं स्नानं तदुच्यते ।
अशक्तो वारुणे स्नाने आग्नेयादि समाचरेत् ॥
इति ॥
स्नानमिति वक्तव्ये एवमभिधानं स्मृत्यन्तरोक्तस्नानविधेरुपसङ्ग्रहणार्थम् ।
एवं च स्मृत्यन्तरोक्तं द्रष्टव्यम् ।
उपशब्दो ऽविज्ञातजलवर्जनार्थः ।
अग्नीन्धनभैक्षचरणयोः पृथग्ग्रहणं भुक्तस्य नित्यस्नानप्रतिषेधार्थं, न नैमित्तिकस्य ।
अतो नैमित्तिकं कर्तव्यम् ।
सत्यवचनस्य पृथग्ग्रहणमातुरस्य नैमित्तिकस्यापि प्रतिषेधार्थम् ।
उपशब्दोर्ऽधरात्रस्नानप्रतिषेधार्थं इति केचिद्वदन्ति ।
यदुक्तमत्र तत्सर्वं मनुननाप्युक्तं-
न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि ।
न वासोभिःसहाजस्रं नाविज्ञाते जलाशये ॥
इति ॥
एके गोदानादि

2.16

गोदानं नाम छन्दोगानां द्वितीयं व्रतं अन्येषामपि षोडशे वर्षे धारयितव्यम् ।
तेषामपि षोडशे गोदानधारणं केचिदिच्छचन्ति ।
तत आरभ्यैके स्नानमिच्छन्ति ।
गोदानात् प्राक् नित्यस्नानं न कुर्यात्, नैमित्तिकमेव कर्तव्यम् ।
तत ऊर्ध्वं नित्यस्नानमपीत्येके आचार्या इच्छन्ति ।
एक इति वचनात् न तु गौतमः ॥
बहिःसन्ध्यत्वं च

2.17

एकेग्रहणानुवर्तनार्थश्चचकारः ।
वहिर्ग्राभात्सन्ध्योपासनमेके इच्छन्ति ।
न तु गौतमः ।
न तु गौतमः ।
एतदुक्तं भवति-ग्रामाद्बहिरेव सन्ध्योपासनं कर्तव्यमित्येकेषां मतं, बहिरभ्यन्तरे वा यत्र कुत्र चिच्छुद्धदेशे कर्तव्यमिति गौतममतम् ॥
इदानीं प्रसङ्गात् तत् सन्ध्योपासनं कदा कथं च कर्तव्यमित्यत आह-
तिष्ठेत्पूर्वामासीतोत्तरां सज्योतिष्या ज्योतिषो दर्शनाद्वाग्यतः

2.18

वाग्यत इति स्थानासनयोः प्रत्येकं सम्बध्यते ।
यस्यामादित्य उदेति सा पूर्वा सन्ध्या ।
पूर्वसूत्रखण्डात् सन्ध्याशब्दो ऽनुवर्तते ।
यस्यामादित्यो ऽस्तमेति सोत्तरा सन्ध्या ।
स्थानासने अत्र गुणभूते ।
उपासनमत्र प्रधानं कर्म ।
अतो यद्यपि तिष्ठेदित्युक्तं, तथापि तिष्ठन्नुपासीत, आसीन उपासीतेति द्रष्टव्यम् ।
तथाच मनुः-
पूर्वां सन्ध्यां जपन् तिष्ठेन्नैशमेनो व्यपोहति ।
पश्चिमां तु समासीनो मलं हन्ति दिवा कृतम् ॥
इति ।
सज्योतिः कालः, पूर्वस्यां नक्षत्रज्योतिः ।
यः कालो नक्षत्रज्योतिषा सह वर्तत स सज्योतिः तस्मिन् सज्योतिषि काले आरम्भः कर्तव्यः ।
इतरस्यां तथा आदित्यज्योतिः ।
तत आ ज्योतिषो दर्शनात्-पूर्वस्यामादित्यदर्शनात् उत्तरस्यां नक्षत्रदर्शनात् ।
आ ज्योतिष इति वक्तव्ये दर्शनग्रहणं सम्पगर्थम् ।
तथाच मनुः-
ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुयुः ।
प्रज्ञां यशश्च कीर्तिं च ब्रह्मवर्चसमेव च ॥
इति ॥
ननु च ऽउत्तरेषां चैतदविरोधिऽ; इत्यनेन स्नातकस्याग्निमत एतन्न प्राप्यते, तस्याग्निहवनेनास्य कालस्यावरुद्धत्वादिति ।
उच्यते-यस्तावत्स्मार्तः सायंप्रातर्हेमः तत्र कालभेदादविरोध एव ।
कथं ? सायंशब्देन रात्रिरुच्यते, प्रातःशब्देन च दिवसः, उदितहोमादिवाक्यवदत्र तथाविधस्याभावात् सन्ध्योपासनानन्तरमेव होमस्यानुप्रवेशः स्यादिति ।
अथापि केषांचित्सन्ध्याकाल एव होम उक्तः,तत्रापि दीर्घसन्ध्यत्वस्याभिष्टत्वाद्धोमानन्तरमपि सन्ध्योपासनस्यावकाशो ऽस्तीति ।
एवं श्रौते उदितहोमादिविषये ऽप्यविरोध एवेति ॥
ऽतिष्ठन्पूर्वां सन्ध्यामासीन उत्तरामुपासीतऽ; इति वक्तव्ये एवमभिधानं स्मृत्यन्तरोक्तस्यापि विधेर्ग्रहणार्थम् ।
तथाऽहोशना-ऽसायं प्रातरुदकं गत्वा पूतो भूत्वा पवित्रेण मार्जयित्वा आपोहिष्ठीयाभिस्तिसृभिरब्लिङ्गाभिः वामदेव्येन च, ततः शुचो देशे दर्भेष्वासीनो दर्भान्धारयमाणः प्रत्यङ्मुखो वाग्यत आत्मानं ध्यात्वा ततः सरेचकषूरककुम्भकादीन् त्रीन् प्राणायामान् धारयित्वा ऋषिच्छब्दोदेवताध्यानपूर्वकं भूर्भुवःस्वरित्यादिकां सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वो वा दशावरामथोत्तिष्ठम्नग्नियमब्रह्मभ्यः प्रत्यग्दक्षिणोदीच्यासु नमस्कृत्वा त्रिः प्रदक्षिणं कृत्वा पुनरपि प्रतीचीं दिशं नमस्कुर्यात् ।
एवमेव प्रातः प्राङ्मुखस्तिष्ठन्मित्रादिभ्यो नमस्कुर्यात्ऽ; ॥
इति ॥
नादित्यमीक्षेत

2.19

यदि सन्ध्याकालयोरेवायं प्रतिषेधः स्यात् तदानीमेकमेव सूत्रं क्रियेत ऽतिष्ठेत्पूर्वामासीतोत्तरां सज्योतिप्या ज्योतिषो दर्शनाद्वाग्यतो नादित्यमीक्षेतऽ; इति ।
यदि सर्वदा स्यात्तदानीं ऽवर्जयेन्मधुमांसऽ; इत्यादावादित्येक्षणमपि
पठेत् ।
उभयथाकरणादन्याभिप्रायेणेदमुक्तमिति ज्ञातुं शक्यते ।
अभिप्रायश्च स्मृत्यन्तरोक्तो द्रष्टव्यः यथा चाहोशना-ऽनेक्षेतादित्यं सन्ध्यागतं मध्यंदिनगतं राहुग्रस्तं वारिस्थम्ऽ; इति ॥
वर्जयेन्मधुमांसगन्धमाल्यदिवास्वप्नाञ्जनाभ्यञ्जनयानोपानच्छत्रकामक्रोधलोभमोहवादवादनस्नानदन्तधावनहर्षनृत्तगीतपरिवादभयानि

2.20

वर्जयेदिति प्रत्येकं सम्बध्यते ।
मधु माक्षिकं, तस्याबुद्धिपूर्वभक्षणे न दोषः, ऽअकामोपनतं मधु वाजसनेयके न दुष्यतिऽ; इति स्मृत्यन्तरदर्शनात् ।
मांसं गृहस्थस्य अप्रतिषिद्धमपि ।
तत्राप्यातुरस्यौषधार्थं गुरोरुच्छिष्टस्य मांसस्य भक्षणे न दोषः, ऽस चेदव्याधीयीत कामं गुरोरुच्छिष्टं भैषज्यार्थे सर्वं प्राश्नीयात्ऽ; इति स्मृत्यन्तरदर्शनात् ।
एवं चानातुरस्य श्राद्धे ऽपि वर्जनीयम् ।
तथाच मनुः-
व्रतवद्देवदैवत्ये प्रित्रयै कर्मण्यथर्षिवत् ।
काममभ्यर्थितो ऽश्नीयाद्व्रतमस्य न लुप्यते ॥
इत्यादि ।
गन्धं चन्दनादि ।
तस्यापि सुखार्थस्य प्रतिषेधः, न देवताशिष्टस्य, ऽदेवताशिष्टमेव गृह्णीयाद्ब्रह्मचारीऽ; इति स्मृत्यन्तरदर्शनात् ।
मालाया अपि तथैव ।
दिवास्वप्नो दिवा निद्रासेवनं, तदप्यातुरस्य न दोषः ।
अञ्जनमक्ष्णोः ।
अत्राप्युपभोगार्थस्य प्रतिषेधः, नौषधार्थस्य ।
अभ्यञ्जनं तैलेन गात्राभ्यङ्गः ।
केचिद्गन्धतैलस्यायं प्रतिषेध इति वदन्ति ।
तस्मिन्पक्षे इतरस्य न दोषः ।
गन्धप्रतिशेधेनैवायं प्रतिषेधः सिद्ध इति चेन्न, विशेषत एव लोकप्रसिद्धेर्न गन्धसामान्यस्य ग्रहणं भवतीति ।
यानं शिबिकादि ।
तदप्यनातुरस्यैव ।
उपानच्छत्रे प्रसिद्धे ।
मयूरपत्रकृतस्यादोषः ।
कामः स्त्रीगतो भोगाभिलाषः ।
क्रोधः परस्यानिष्टचिन्तनम् ।
लोभः अन्यायेन परद्रव्याद्यपहरणम् ।
मोहो ऽज्ञानम् ।
वादो बहुप्रलापः ।
वादनं भेरीताडनादि ।
स्नानं शिरस्नानादि येनोपभोगः, विहितत्वादितरस्य ।
दन्तधावनं प्रसिद्धम् ।
ताम्बूलपत्रेणापि तन्न कर्तव्यं ऽपङ्कदन्तो भवेद्व्रतीऽ; इति स्मृत्यन्तरदर्शनात् ।
हर्षः प्रीतिः एवं च तद्धेतूनां नाटकादीनां प्रेक्षणस्यापि प्रतिषेधः सिद्धः, तद्दर्शने प्रीत्युत्पत्तेः निवारायेतुमशक्यत्वात् ।
नूत्तं गात्रविक्षेपः ।
गीतं गान्धर्वसम्बन्धवाक्यस्याभिधानम् ।
परिवादः परदोषसंकीर्तनम् ।
भयं परस्य भीषणं, इतरस्य परिहर्तुमशक्यत्वात् ॥
किञ्च-
गुरुदर्शने कण्ठप्रावृतावसक्थिकापाश्रयणपादप्रसारणानि

2.21

गुरुराचार्यादि ।
कुतः ? यद्याचार्यस्यैव ग्रहणं तदानीं आचार्यदर्शन इति वक्तव्यम् ।
गुरुग्रहणं सर्वेषां गुरूस्थानीयानामप्युपलक्षणम् ।
तथाच स्मृत्यन्तरं-ऽमन्यानां सर्वेषां सकाशे संकुचितस्तिष्ठेत्ऽ; इति ।
कण्ठप्रावरणं कण्ठे वस्त्रप्रक्षेपः ।
अवसक्थिकां जान्वोरुपरि परिकरबन्धः ।
शेषं प्रसिद्धम् ।
परवशाद्ध्येतानि क्रियन्त इति प्रतिषेधः ॥
किञ्च-
निष्ठीवितहसितविजृम्भितावस्फोटनानि

2.22

गुरुसमीपे ऽन्यसमीपे ऽपि वर्जनार्थं पृथगभिधानम् ।
निष्ठीवनं प्रसिद्धम् ।
हसनं परवशे ऽपि यत्नतो निवारयितव्यम् ।
तथा चापस्तम्बः-ऽन स्मयेत यदि स्मयेतापपृह्य स्मयेतेति ब्राह्मणंऽ; इति ।
विजृम्भणं प्रसिद्धम् ।
अवस्फोठनं सशब्दसन्धिप्रमोकः ॥
किञ्च-
स्त्रीप्रेक्षणलम्भने मैथुनशङ्कायाम्

2.23

वर्जयेदिति वर्तते ।
प्रेक्षणं प्रकर्षेणेक्षणं अवयवनिरूपणं, न रूपमात्रदर्शनं, तस्य निमिषतो वारयितुमशक्यत्वात् ।
आलम्बनं स्पर्शनम् ।
स्पर्शने इति वक्तव्ये एवमभिधानमभिसन्धिस्पर्शनवर्जनार्थम् ।
एवं च प्रमादान्न दोषः ।
अभिसन्ध्या त्वन्धकारादावपि स्पर्शनं न कर्तव्यम् ।
तदुभयं स्त्रियां न कुर्यात् ।
यस्यां मैथुनशङ्कान्येषां भवति तस्यामेव, नान्यस्याम् ॥
द्यूतं हीनसेवामदत्तादानं हिंसाम्

2.24

वर्जयेदित्येव ।
द्यूतमक्षादिना ।
हीनसेवाः मूत्रपुरीषापमार्जनादिना सेवा ।
एवं च गुरोरप्यनुरूपा सेवा न कर्तव्या ।
अदत्तादानं अननुज्ञातस्योत्सृष्टस्यापि ग्रहणम् ।
हिंसा प्राणिवधः प्राणिपीडा वा ।
विसमासान्न कारयेन्नानुमन्येतापि ॥
किञ्च-
आचार्यतत्पुत्रस्त्रीदीक्षितनामानि

2.25

वर्जयेदिति प्रस्तुतम् ।
आचार्यस्य तत्पुत्रस्य च तद्भार्यायाश्च दीक्षितस्य च संज्ञां पित्रादिकृतां नोच्चारयेत् ॥
किञ्च-
शुक्ता वाचः

2.26

शुक्ताः निष्ठुराः परस्योग्वेगकारिण्वः ।
सर्वेषां वर्जयेत् ॥
मद्यं नित्यं ब्राह्मणः

2.27

वर्जयेदिति प्रकृतम् ।
मद्यं गुडमधुपिष्टकृतं अन्यदपि यन्मदकरं यत्सर्वं ब्राह्मणो नित्यं प्रागप्युपनयनाद्वर्जयेत् ।
एवं क्षत्रियवैश्ययोः प्रागुपनयनादूर्ध्वं च ब्रह्मचर्यात् पैष्टीवर्जितायाः सुराया अप्रतिषेधः, स्मृत्यन्तरदर्शनात् ।
यथाऽह मनुः-
गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥
इति ॥
इदानीं कर्तव्यप्रतिपादनार्थमाह-
अधःशय्यासनी पूर्वोत्थायी जघन्यसंवेशी

2.28

गुर्वपेक्षया नीचैःशय्यासने कुर्यात् ।
तस्यैव च पूर्वोत्थायी पश्चात्संवेशी ।
यथाऽह मनुः-
नीचैःशय्यासनं चास्य नित्यं स्याद्गुरुसन्निधौ ।
उत्तिष्ठेत्प्रथमं चास्य चरमं चैव संविशेत् ॥
इति ॥
किञ्च-
वाग्बाहूदरसंयतः

2.29

स्यादिति शेषः ।
वाक्यसंयतः अनिबद्धप्रलापोपरतः ।
बाहुसंयतो लोष्टमर्दनादिवर्जकः ।
उदरसंयतः हितमितभुक् ।
ऽवाग्बाहूदरकर्मसंयतःऽ; इति केचित्पठन्ति ।
तत् बाहुसंयतत्वेनार्थसिद्धत्वात् युक्तमयुक्तं वेति विचारणीयम् ॥
किञ्च-
नामगोत्रे गुरोःसमानतो निर्दिशेत्

2.30

गुरुग्रहणमाचार्यादीनामप्युपलक्षणम् ।
समानतः सम्यगानतः प्रह्वः ।
तं ध्यात्वा नमस्कारं कृत्वेत्यर्थः ।
एवञ्च तत्रापि ऽआचार्यतत्पुत्रऽ; इत्यस्मिन्नाचार्यग्रहणं गुर्वादीनामप्युपलक्षणम्, तेषामपि नामधेयोच्चारणस्य प्रतिषिद्धत्वात् ।
तथाच स्मृत्यन्तरम्-
आचार्यं चैव तत्पुत्रं तद्भार्यां दीक्षितं गुरुम् ।
पितरं च पितृव्यं च मातरं मातुलं तथा ॥
हितैषिणं च विद्वांसं श्वशुरं पतिमेव च ।
न ब्रूयान्नामतो विद्वान् मातुश्च भगिनीं तथा ॥
यदि ब्रूयात्तु तं ध्यात्वा नमस्कृत्वा वदेदथ ॥
इति ॥
अर्चिते श्रेयसि चैवम्

2.31

अर्चितो मान्यो विद्वानित्यर्थः ।
श्रेयान् हितैषी वयसा च वृद्ध इति द्रष्टव्यम् ।
चकारादेवैतस्मिन् सिद्धे एवंशब्दःसमस्तातिदेशार्थः ।
ततश्च गुरुदर्शने यदभिवादनादि तदत्रापि द्रष्टव्यम् ॥
शय्यासनस्थानानि विहाय प्रतिश्रवणम्

2.32

यदा गुरुराज्ञां दद्यात्तदा शयनं खट्वादि ।
आसनं फलकादि ।
स्थानं यत्र स्थितः ।
एतानि विहाय त्यक्त्वा प्रतिश्रवणं प्रतिवचनं दद्यादित्यर्थः ॥
अभिक्रमणं वचनाददृष्टेन

2.33

अदृष्टेन गुरुणा आज्ञायां दीयमानायां अभिक्रमणं तदभिमुखेन गमनं कुर्यादित्यर्थः ॥
अधःस्थानासनतिर्यग्वातसेवायां गुरुदर्शने चोत्तिष्ठेत्

2.34

यदा गुरुः अधो नीचैः तिष्ठेत् आसीत वा, तिर्यग्वातसेवा मूत्रपुरीषोत्सर्गः ।
तत्र गुरुं दृष्ट्वा उत्तिष्ठेत् ।
चकारादन्यमुखो भूत्वा ।
तथाच स्मृत्यन्तरम्-
कूपस्थितं गुरुं दृष्ट्वा तटाकस्थं तथैव च ।
तिष्ठेदन्यमुखो भूत्वा शिष्यो दासस्तथैव च ॥
इति ॥
अथवा-चकारादपगमनमुच्यते ।
एवं सूत्रार्थश्च तदानीं द्रष्टव्यः अधःस्थानासनतिर्यग्वातसेवायामुत्तिष्ठेत् अपयायाच्च क्रमेणेति तत्राधःस्थानासने दृष्ट्वोत्तिष्ठेत् ।
तिर्यग्वातसेवायामपयायादिति क्रमः ॥
गच्छन्तमनुव्रजेत्

2.35

गच्छन्तं दृष्ट्वानुव्रजेत् ।
चकारो ऽनुवर्तते ।
तेन अनुक्तमपि समुच्चीयते आसीनं दृष्ट्वा उत्तिष्ठेत् शयानं दृष्ट्वाऽसीतेति ।
तथाच स्मृत्यन्तरम्-ऽगच्छन्तमनुगच्छेदासीनं चोत्तिष्ठेच्छयानं चासीन
उपासीतऽ
इति ॥
कर्म विज्ञाप्याख्याय

2.36

यदस्य कर्म कर्तव्यं तत्करोमीत्याचार्यस्य विज्ञाप्य तत्कृत्वा कृतमित्याख्याय तिष्ठेत् ।
वाक्यस्यापरिपूर्णत्वात् विज्ञाप्येत्यत्र कृत्वा इत्यध्याहर्तव्यम् ।
आख्यायेत्यत्रापि तिष्ठेदिति क्रिया च, ऽप्रविश पिण्डीम्ऽ; इतिवत् ॥
आहूताध्यायी

2.37

यदैव गुरुणाऽहूतो भवति तदैवाधीयीत ।
न त्वेनं चोदयेदित्यर्थः ॥
युक्तः प्रियहितयोः

2.38

स्यादिति शेषः ।
युक्तस्तत्परः ।
प्रियहितयोःसमुच्चितयोः ।
हितस्य चाप्रियस्याकर्तव्यत्वात् ।
प्रियं प्रीतिकरं, हितं आयतिक्षमम् ।
यत्प्रियमायतिक्षमं च तदेव कुर्यादित्यर्थः ॥
तद्भार्यापुत्रेषु चैवम्

2.39

तस्य यौ सवर्णौ सदृशौ भार्यापुत्रौ तयोरपि प्रियहितयोर्युक्तःस्यात् ।
चकारात् कण्ठप्रावृताद्यपि ।
कुतःसवर्णयोरेव ग्रहणमिति चेत् बहुवचनस्य पूजार्थत्वात् ॥
इदानीं तस्यापवादमाह-
नोच्छिष्टाशनस्नापनप्रसाधनपादप्रक्षालनोन्मर्दनोपसंग्रहणानि

2.40

तद्भार्यापुत्रयोरेतानि न कुर्यात् ।
प्रियहितत्वात्प्राप्तं प्रतिषिद्ध्यते ।
अनयोरेव प्रतिषेधात् गुरोरेतानि कर्तव्यान्येव ।
तथाचापस्तम्बः-ऽप्रोषितो भैक्षादग्नौ कृत्वा भुञ्जीत भैक्षं हविषा संस्तुतं तत्राचार्यो देवतार्थ आहवनीयार्थे च तं भोजयित्वा यदुच्छिष्टं प्राश्नाति हविरुच्छष्टमेव तत्ऽ; इत्यादि ।
तथाच वसिष्ठो ऽपि-ऽउच्छिष्टमगुरोरभोज्यम्ऽ; इत्यादि ।
प्रसाधनं अलंकारः ।
शेषं प्रसिद्धम् ॥
उपसंग्रहणस्येदानीं प्रतिप्रसवमाह-
विप्रोष्योपसंग्रहणं गुरभार्याणाम्

2.41

विप्रोष्य प्रत्यागतेन गुरुभार्याणामुपसंग्रहणं कार्यम् ।
नान्यदा ।
नान्यस्याः ॥
तत्रापि तु-
नैके युवतीनां व्यवहारप्राप्तेन

2.42

व्यवहारसमर्थेन पूर्णषोडशवर्षेणेत्यर्थः ।
युवतीनां तरुणीनां विप्रोष्यापि न कार्यमित्येके मन्यन्ते न तु
गौतमः ।
आशङ्कनीयानाशङ्कनीयापेक्षया द्रष्टव्यः ॥
उक्तं ऽअग्नीन्धनभैक्षचरणेऽ; इति ।
तत्राग्नीन्धनं गृह्येभ्य एव पृथक्पृथगुपलभ्यत इति, भैक्षचरणविधिमाह-
सार्ववर्णिकं भैक्षचरणमभिशस्तपतितवर्जम्

2.43

किमर्थमिदं सूत्रमारभ्यते ? भैक्षचरणं तावदनेन न विधीयते ऽअग्नीन्धनभैक्षचरणेऽ; इत्यनेन विहितत्वात् ।
अभिशस्तपतिवर्जनं च ऽप्रशस्तानां स्वकर्मसुऽ; इत्यनेनोक्तत्वादिति ॥
अत्रैक आहुः-शूद्रप्रापणार्थो ऽयमारम्भः, ऽप्रशस्तानां स्वकर्मसुऽ; इत्यनेनाप्राप्तत्वादिति ।
न चैतद्युक्तं, ऽवृत्तिश्चेन्नान्तरेण शूद्रात् इत्यनेनापदि शूद्राभ्यनुज्ञानसिद्धेः ।
न चानापद्यपि ब्रह्मचारिणः शूद्राभ्यनुज्ञानमनेन कल्पयितुं युक्तं, स्मृत्यन्तरे अत्यन्तप्रतिषिद्धत्वात्,ऽ-
शूद्रान्नरसपुष्टाङ्गो योधीयानोपि नित्यशः ।
जुह्वन्नपि जपन्वापि गतिमूर्ध्वां न विन्दति ॥
इति ॥
तस्मादनापद्येव ब्रह्मचारिणः अप्रशस्तद्विजातिप्रापणार्थोयमारम्भः अप्रशस्तानामविशेषेण प्राप्तौ सत्यां ऽअभिशस्तपतितवर्जंऽ; इति युज्यते च प्रतिषेधः ।
इतरथा शूद्रप्रापणे सति अभिशस्तादीनां प्राप्त्यभावादेव प्रतिषेधो न युज्यत इति न च शक्यते वक्तुं शूद्रविषय एवायमपवाद इति, यत्र हि द्विजातयः प्रशस्ता अधिक्रियन्ते तत्र शूद्रो ऽपि प्रशस्त एवेति इतरस्य प्रसङ्ग एव नास्तीति ॥
तेन प्रथमकल्पस्तावत् ब्रह्मचारिणः प्रशस्तेभ्य एव भैक्षचरणं, तदलाभे अप्रशस्तेभ्यः, तदलाभे आचार्यादिभ्यः, सर्वाभावे आपदि शूद्रादिति स्थितम् ॥
सर्ववर्णानर्हतीति सार्ववर्णिकं, सर्वेषां भवतीत्यर्थः ।
सर्वग्रहणं क्षत्रियवैश्यप्रापणार्थं, अन्यथा ब्राह्मणस्यैव प्रतिग्रहाधिकारात् तस्यैव स्यादिति ।
वर्णग्रहणं शूद्रस्यापि प्रापणार्थं असति वर्णग्रहणे सर्वग्रहणं तयोरेव स्यादिति तदर्थं वर्णग्रहणं कृतम् ।
तेन शूद्रस्याप्राप्तौ तत्प्रापणार्थं वर्णग्रहणम् ।
ततश्च शूद्रस्यापि वृत्तिहीनस्य भिक्षाचरणे न दोषः ।
भिक्षासमूहो भैक्षं, ततश्च बहुभ्यो गृहेभ्य आहर्तव्यम् ।
अभिशस्त उपपातकदोषेणाभिशस्तो गृह्यते, पातकदोषेणाभिशस्तस्य पतितग्रहणेनैव सिद्धत्वात् ।
तथाच वसिष्ठः- ऽब्राह्मणमनृतेनाभिशस्य पतनीयेनोपपतनीयेन वाऽ; इति ॥
केचित्सर्वेषु वर्णेषु भवं सार्ववर्णिकमिति विग्रहं कुर्वन्ति तेषां सर्वशब्दस्य प्रयोजनं न विद्मः ।
अप्रशस्तद्विजातिप्रापणार्थं चेन्न सूत्रारम्भस्यापि तस्यैव प्रयोजनत्वात् ।
शूद्रप्रापणार्थत्वे ऽप्युक्त एव परिहारः तस्मात्तद्भूसुरैर्विचारणीयम् ॥
अदिमध्यान्तेषु भवच्छब्दः प्रयोज्यो वर्णानुपूर्व्येण

2.44

द्विपदस्य भिक्षां देहीति शब्दस्य प्रार्थनायां देहीत्यस्यापि च सार्मथ्यात् प्राप्तस्यादौ ब्राह्मणेन भवच्छब्दः प्रयोक्तव्यः, मध्ये क्षत्रियेण, अन्ते वैश्येन ।
भवच्छब्दस्य प्रातिपदिकत्वात्केवलस्य च प्रयोगाभावात् स्त्रीणां सकाशे तदामन्त्रितविभक्त्यन्तः प्रयोक्तव्यः, भवति भिक्षां देहीति ।
पुरुषसकाशे भवन् भिक्षां देहीति ।
प्रेत्युपसर्गात् स्मृत्यन्तरोक्तमपि द्रष्टव्यम् ।
तदपि क्षकारहिकारौ नोच्चैर्वक्तव्याविति ।
यथाह गृह्यस्मृतिः ऽब्राह्मणो भिक्षेत भवति भिक्षां देहीति, भवन्मध्यया राजन्यो भिक्षां भवति देहीति, भवदन्त्यया वैश्यो भिक्षां देहि भवति, क्षां च हिं च न वर्धयेत्ऽ; इति ।
वर्णग्रहणं शूद्रस्य मन्त्रप्रापणार्थं, ततश्च त्रयाणामेव वर्णानामन्यतमो मन्त्रो द्रष्टव्यः ।
अन्यो वा रचनाविशेषः कर्तव्यः ।
"वैश्यवच्चूद्रवृत्तिः"इति स्मृत्यन्तरदर्शनात् वैश्योक्तो वा द्रष्टव्यः ।
अनियतवृत्तिविज्ञापनार्थं साक्षान्मन्त्रो नोक्तः ।
तथा च वसिष्ठः-"अनियता च वृत्तिरनियतकेशवेषाः"इत्यादि ।
एकस्यैव विकल्पो मा भूदिति अनुपूर्वग्रहणम् ॥
आचार्यज्ञातिगुरुस्वेष्वलाभे ऽन्यत्र

2.45

आचार्य उक्तः ।
ज्ञातिः सपिण्डः, गुरुर्मातुलादिः, स्वमात्मीयम् ।
अन्यत्रालाभे एषु भैक्षं प्रार्थनीयम् ।
क्रमस्तु प्रतिपादितः ॥
अत्रापि-
तेषां पूर्वं पूर्वं परिहरेत्

2.46

तेषां यो यः प्रथमनिर्दिष्टः तत्र तत्र परिहरेत् ।
अन्यत्रालाभे पूर्वं पूर्वं परिहृत्यापि तेषामेव सकाशे
भैक्षं परिचरितव्यम् ।
नोपाध्यायगृहादित्येवं नियमार्थं तेषां ग्रहणम् ।
ततश्च सर्वत्रालाभे उपाध्यायगृहादित्येव द्रष्टव्यम् ।
तथाच स्मृत्यन्तरं"अलाभे ऽन्यत्रोपाध्यायगृहादपि"इति ॥
निवेद्य गुरवे ऽनुज्ञातो भुञ्जीत

2.47

इदं भैक्षमिति गुरवे कथयित्वा ततो भुंक्ष्वेति तेनानुज्ञातो भुञ्जीत ।
एवञ्च निवेदनं भैक्षसंस्कारार्थं, अनुज्ञात इति वचनात् ।
यदि गुरुर्गृह्णीयात् तदान्यदाहर्तव्यम् ॥
असन्निधौ तद्भार्यापुत्रसब्रह्मचारिसद्भ्यः

2.48

आचार्यसन्निधानेन तद्भार्यादीनां निवेदनं यथासम्भवं कर्तव्यम् ।
तद्ग्रहणं भार्यापुत्रयोः समानजातीयत्वज्ञापनार्थम् ।
सब्रह्मचारी समानचरणः, सन् साधु प्रकृष्टगुणः ॥
तत्कथ भुञ्जीतेत्यत आह-
वाग्यतस्तृप्यन्नलोलुप्यमानः सन्निधायोदकम्

2.49

वाग्यतस्तूष्णीं, तृप्यन्संतोषं कुर्वन्, पूर्वमसंतुष्टो ऽप्यन्नदर्शनमात्रादेव हृष्येदित्यर्थः ।
तथाच स्मृत्यन्तरम्-
दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः ॥
इति ।
अलोलुप्यमानो विशेषस्पृहां परिहरन्नतिभोजनं वर्जयेदित्यर्थः ।
तथाच स्मृत्यन्तरम्-
अनायुष्यमनारोग्यर्मस्वग्यं चातिभोजनम् ॥
अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥
इति ।
अथवा भोजनविधिमपरिवर्जयन्नित्यर्थः ।
तथाच स्मृत्यन्तरे भोजनविधिर्द्रष्टव्यः ।
सम्यङि#नधायोदकं प्राश्येत्यर्थः ।
समुपसर्गः स्मृत्यन्तरोक्तमार्गोपसंग्रहार्थः ।
तथाऽहोशना-"सत्यं त्वर्तेनेत्यादिनोदकं परिषिच्यामृतोपस्तरणमित्यादिना प्राशयेत्"इति ।
अथवा-उदकमिति कमण्डलुरुच्यते, तत् सन्निधाय ।
ततश्च ब्रह्मचारिणो ऽपि कमण्डलुधारणं कर्तव्यम् ।
तथैव मनुरपि मेखलादिभिः सह प्रतिपत्तिविधानात् ब्रह्मचारिणः कमण्डलुधारणं ज्ञापयति-
मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥
इति ।
एवंच तत एवाचमनं कर्तव्यं, वचनसार्मथ्यात् ।
उच्छिष्टस्पर्शने न दोषः ।
स्मृत्यन्तरोक्तं वा द्रष्टव्यम् ।
यथाऽह वसिष्ठः-
अप्सु पाणौ च काष्ठे च कल्पितः पावकः शुचिः ।
तस्मादुदकपाणिभ्यां परिमृज्यात्कमण्डलुम् ॥
इति ।
केचित्समुपसर्गादेवैतमर्थं समर्थयन्ति ॥
इदानीं यदि ब्रह्मचारी गुरोः सम्यग्विनयेनावतिष्ठेत तदानीं किं कर्तव्यमित्यत आह-
शिष्यशिष्टिरवधेन

2.50

शिष्याशिष्टिः शिष्यशासनं, अवधेन वधं मुक्त्वा, निर्र्भत्सनादिना कर्तव्यमित्यर्थः ।
अधिकारादेव सिद्धे शिष्यग्रहणमन्यस्यापि शासनीयस्य भार्यापुत्रादेरयमेव धर्म इति ज्ञापनार्थम् ॥
अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम्

2.51

निर्र्भत्सनादिना शासनाशक्तौ रज्ज्वा वेणुविदलेन वा ।
सहनिर्दिष्टयोरपि तुल्यार्थत्वात् विकल्पः ।
तेनापि तनुना शास्यः ॥
अन्येन घ्नत्राज्ञा शास्यः

2.52

अन्येन हस्तपादादिना क्रोधेन घ्नत्राज्ञा दण्ड्यः ।
गौरवार्थं राजग्रहणम् ॥
अथ कियन्तं कालमेवं वर्तेतेत्याह-
द्वादश वर्षाण्येकवेदे ब्रह्मचर्यं चरेत्

2.53

एकवेदमध्येष्यमाणो द्वादशवर्षाण्यभिहितरूपं ब्रह्मचर्यं चरेत् कुर्यात् ।
ब्रह्मचर्यशब्देन यमनियमकलाप
उच्यते, ब्रह्मार्थत्वात् ॥
प्रति द्वादश वा

2.54

प्रतिवेदं वा द्वादशवर्षाणि ब्रह्मचर्यं चरेत् ॥
सर्वेषु ग्रहणान्तं वा

2.55

सर्वेषु वेदेषु यावतैव कालेनाध्ययनमभिनिर्वर्तयेत् तावन्तमेव कालं ब्रह्मचर्यं चरेत् तस्य तदर्थत्वात् ।
सर्वग्रहणं यद्येकमधीयीत यदि वा द्वौ यदि वा सर्वानित्येवमर्थम् ।
तथाच मनुः-
वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ॥
इति ।
सोयमुक्तावधेरूर्द्वमर्वाग्वापवादः ।
नियमेनाधीतं वीर्यवद्भवतीति नियमोक्तिः ॥
विद्यान्ते गुरुरर्थेन निमन्त्र्यः

2.56

विद्यासमाप्तौ, न तु व्रतानाम्, गुरुराचार्यः अर्थेन प्रयोजनेन निमन्त्र्यः प्रष्टव्यः किं गुर्वर्थे करवाणीति ॥
ततः-
कृत्वानुज्ञातस्य वा स्नानम्

2.57

कृत्वा दत्वेत्यर्थः, गुरूपदिष्टमर्थम् ।
तेन वा अलं गुरुदक्षिणयेत्यनुज्ञातस्य स्नानं समावृत्तिः ॥
इदानीं पित्राद्यनेकगुरुसन्निधाने कः प्रथमः पूज्य इत्यत आह-
आचार्यः श्रेष्ठो गुरूणाम्

2.58

आचार्य उक्तलक्षणः, स श्रेष्ठः प्रधानो गुरूणां अन्येषां पित्रादीनाम् ।
ततश्च ऽसंनिपाते परस्यऽ; इत्यत्र परशब्देनायमेवोच्यते ॥
मातेत्येके मातेत्येके

मूल पाठ: Dharmasūtra, 1-3 with Maskari's commentary Gautamasmṛtibhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc