धर्मसूत्र (टीका सहित) · अध्याय 3
एके माता श्रेष्ठेति मन्यन्ते ।
इतिकरणात्पितेत्यपरे ।
अन्यथा मातैक इत्येव सिद्धत्वात् ।
केवलात् पितुराचार्यः प्रधानः ।
तथाच मनुः-
कामान्माता पिता चैनं यदुत्पादयतो मिथः ।
सम्भूतिं तस्य तां विद्यात् यद्योनावभिजायते ॥
आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः ।
उत्पादयति सावित्र्या सा सत्या साजरामरा ॥
इति ।
यदि पितैवाचार्यो भवति तदा पिता विशिष्यते ।
माता सर्वेषां श्रेष्ठा ।
तथाच वसिष्ठः-
उपाध्यायद्दशाचार्य आचार्यात्तु शतं पिता ।
सहस्रं तु पितुर्माता गौरवेणातिरिच्यते ॥
इत्यत्र पितृशब्देन पितैवाचार्यो यो भवति स एव गृह्यत इति ॥
इति मस्करीये गौतमभाष्ये द्वितीयो ऽध्यायः ॥
तृतीयो ऽध्यायः
एवं कृतनियमस्य कृतविद्यस्य च-
तस्याश्रमविकल्पमेके ब्रुवते
तस्याखण्डितब्रह्मचर्यस्य ।
तथाच मनुः-
वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥
इति ।
एवं च विप्लुतस्योपपातकप्रायश्चित्तं द्रष्टव्यम् ।
शूद्रपर्युदासार्थं वा तद्ग्रहणं, आश्रमधर्माभिधानं मा भूत्तस्यापीति ।
वीप्सार्थं वा तस्य तस्येति, ब्राह्मणस्य क्षत्रियस्य वैश्यस्य चेति ।
तद्ग्रहणमन्तरेणाप्यधिकारादेवैतत्सिद्धमिति चेन्न, स्मृत्यन्तराभासाशङ्कानिवृत्त्यर्थत्वात् ।
एवं हि स्मृत्यन्तरं प्रतिभाति-"एष वो ऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः"इति, तत्र ब्राह्मणस्यैवायं चतुर्विधो धर्मः इतरयोरेकविध इत्याशङ्का स्यादिति ।
तर्हि तत्कथमिति चेत् तत्र ब्राह्मणग्रहणं प्रदर्शनार्थम् ।
तत्कथं गम्यत इति चेत् त्रयाणामेव वर्णानां चत्वार आश्रमा इति स्मृत्यन्तरदर्शनात् ।
तथा चापस्तम्बः-"सर्वेषामुपनयनप्रभृति समानमाचार्यकुले वासः सर्वेषामनूत्सर्गो विद्याया बुद्ध्वा कर्माणि यत्कामयेत्तदारभेत"इति ।
एके ब्रुवते,- तुल्यफलत्वादाश्रमविकल्पः ।
द्विविधं हि फलमभ्युदयरूपं निःश्रेयसरूपं चेति, तदन्यतमेनव लभ्यत इति ।
तथा च श्रुतिः-"त्रयो धर्मस्कन्धा यज्ञो ऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयस्तृतीयमाचार्यकुले वसनमेतानारुह्य ब्रह्मलोकं गच्छति ब्रह्मसंस्थो ऽमृतत्वमेति"इति ।
अर्थस्तु-त्रयो धर्मस्याश्रया-, यज्ञाध्ययनं दानमिति गृहस्थनिर्देशः, तप एवेति वानप्रस्थपरिव्राजकयोर्धर्मः, आचार्यकुलवसनं ब्रह्मचारिणः ।
एतानारुह्येति ब्रह्मचार्याश्रमं, गृहस्थाश्रमं, वानप्रस्थाश्रमं, परिव्राजकाश्रमं वा सम्यगास्थायेत्यर्थः ।
यस्तेषां ब्रह्मसंस्थो ब्रह्मनिष्ठो
ज्ञानी अमृतत्वं मोक्षमेति गच्छतीति ॥
ततश्च सर्वेषामपि ब्रह्मलोकप्राप्तिप्रतिपादनात्, तुल्यफलतैवोक्ता ।
तथा जाबालश्रुतावपि तुल्यफलतैव श्रूयते-ऽब्रह्मचर्यं समाप्य गृही भवेत् ।
गृही भूत्वा वनी भवेत् ।
वनी भूत्वा प्रव्रजत् ।
यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा ब्रह्मलोकं गच्छतिऽ; इति ।
मनुरप्याह-
सर्वे ऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः ।
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥
इति ।
अत्रापिशब्दादेको ऽपि द्रष्टव्यः ।
आपस्तम्बोप्याह-ऽचत्वार आश्रमा गार्हस्थ्यमाचार्यकुले वसनं मौनं वानप्रश्थ्यामिति ।
तेषु सर्वेषु यथोपदेशमव्यग्रं वर्तमानः क्षेमं गच्छतिऽ; इति ।
तेन तुल्यफलत्वाद्विकल्प इति ॥
ननु तुल्यत्वे सति ब्रह्मचर्येणैवोभयविधफलप्राप्तेरितराश्रमविधानानर्थक्यप्रसङ्गः इति ।
उच्यते- यो यस्यानुष्ठाने समर्थः तस्य तदाश्रमप्रतिपत्त्यर्थं इतराश्रमविधानमिति ।
जन्मान्तरवासनया वा इष्टाश्रमप्रतिपत्त्यर्थम् ।
श्रुतिरुपि-"तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च"इति ।
यावज्जीवश्रुतिरपि गृहस्थस्यार्थिनः शक्तिविषये द्रष्टव्या ।
एवं गृहीते व्युत्थानश्रुतिरप्युपपद्यते-ऽएवं वै तमात्मानं विदित्वा पुत्रेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्तिऽ; इति ।
इतरथा हि भिक्षाचर्यमिति संन्यासोपदेशो नोपपद्यत इति ।
जायमानश्रुत्यापि यज्ञादीनामवश्यकर्तव्यता प्रतिपाद्यते गृहस्थस्य, न तु जायमानस्यैव, ऋणत्रयसम्बन्धस्यात्यन्तासम्भवात् ऽब्रह्मचर्यादेव प्रव्रजेत्ऽ; इति श्रुतिविरुद्धत्वात् ऽसो ऽत एव ब्रह्मचर्यात्प्रव्रजति,ऽ; ऽयमिच्छेत्तमावसेत्ऽ; इत्यादिस्मृतेरविरुद्धत्वाच्च ।
अर्थवादानां च कार्यशेषत्वात् ।
ततश्च पदार्थो ऽप्येवं ग्रहीतव्यः-गृहस्थो जायमानः पूर्ववासनया गार्हस्थ्यं प्रविष्टः ।
ब्रह्मणग्रहणं क्षत्रियवैश्ययोरुपलक्षणम् ।
त्रिभिः ॠणैः सम्बध्यते-यज्ञेन देवेभ्य ॠणी भवत्यतो यज्ञः कर्तव्यः ।
प्रजया पितृभ्यः अतः प्रजोत्पादनं कर्तव्यम् ।
ब्रह्मचर्येण ॠषिभ्यः अतः पर्वादौ ब्रह्मचर्यरक्षणं कर्तव्यमिति ।
एवं गृहीते सर्वत्र श्रुतिस्मृत्यरविरोधो भवति ।
एकेग्रहणान्न तु गौतमः, तस्य तु समुच्चयो मतः ।
कथमवगम्यते ?"ऐकाश्रम्यं त्वाचार्याः"इति बाधपक्षस्यापि परमतत्वेन निर्देशात्,"प्रागुत्तमात्त्रय आश्रमिणः"इति च लिङ्गात्,प्रागुत्तमाश्रमात्त्रयस्याभावात् ।
विकल्पपक्षे गौतमस्तावदेवं मन्यते-
यज्ञेन देवानाप्नोति वैराजं तपसा पुनः ।
संन्यासाद्ब्रह्मणः स्थानं वैराग्यात्प्रकृतौ लयम् ॥
इति भिन्नफलत्वेनोपदेशात् जाबालश्रुतावप्यन्यतममारुह्येत्यनुक्त्वा एतानारुह्येति समुच्चयाभिप्रायेणोक्तत्वात्, ब्रह्मलोकप्राप्तेरपि समुच्चयफलत्वेनोपदिष्टत्वात् जाबालश्रुतावपि प्राधान्येन पूर्वं समुच्चयपक्षस्यैवाभिहितत्वात्, ऽसर्वे ऽपि क्रमशःऽ; इत्यस्मिन् मनुवाक्ये ऽपिशब्दस्य समुच्चयार्थत्वात्, आपस्तम्बवाक्ये ऽपि तेषु सर्वेष्विति बहुवचनात्- नैकस्मिन्नेव वर्तमानः किं तु सर्वेष्वेव वर्तमान इत्यभिप्रायेणोक्तत्वात्, ऋणत्रयश्रुतेरपि यथार्थ एवोपपद्यमानत्वात्,"पूर्वप्रज्ञा च"इति श्रुतेरपि विद्याभिप्रायेणोपपद्यमानत्वात्, यावज्जीवश्रुतेरपि"गृही वनं प्रविशेद्यदि गृहमेव कामयेत तदा यावज्जीवसग्निहोत्रं जुहुयात्"इति जाबालश्रुतिवाक्ये अनित्यत्वदर्शनात्, अस्मिन् पक्षे व्यत्थानश्रुतेरपि सुतरामुपपद्यमानत्वात्,"चतुर्थमायुषो भागं"इत्यनेनापि मनुना समुच्चयपक्षमेवाश्रित्योक्तत्वात्, समुच्चयपक्ष एव श्रेयानिति ।
अत एव विकल्पबाधपक्षौ परमतत्वेनोपन्यस्तौ ।
एवञ्च -"यमिच्छेत्तमावसेत्"इत्यादिवाक्यानि विकल्पाचार्यदर्शनेनोक्तानीति द्रष्टव्यानि ।
असमर्थो यः समुच्चयानुष्ठाने अन्धपङ्गुत्वादिदोषेण निःस्वत्वादिना वा तेन विकल्पपक्षो ऽप्याश्रयणीयः इत्यभिप्रायेण ब्रुवत इत्यर्थसिद्धस्याप्युपन्यासः ।
अथवा-यो ऽध्यात्मज्ञानी तेन विकल्पपक्ष आश्रयणीयः,इतरेण समुच्चयपक्ष इति ।
कुतः ? अनुष्ठानस्य विज्ञानोत्पत्तिः प्रयोजनम् ।
तस्मिन्नुत्पन्ने यत्र क्वाप्याश्रमे स्थितस्य पुरुषार्थः सिध्यतीति ।
आश्रमग्रहणं संव्यवहारार्थं ऽवर्णानाश्रमांश्चऽ; इत्यादौ ॥
के पुनस्त आश्रमा इत्यत आह-
ब्रह्मचारी गृहस्थो भिक्षुर्वैखानसः
ब्रह्मचर्यं चरतीति, ब्रह्मण एव वा विषये निःस्पृहश्चरतीति, ब्रह्मचारी ।
गृहं पत्नी तत्संयोगादगृहस्थः ।
भिक्षाशीलत्वादिभक्षुः ।
विखनसा प्रोक्तं शास्त्रं वैखानसं तद्विधिना वर्तत इति वैखानसः ।
विसमास एषामेव
पृथक्त्वज्ञापनार्थः, यथाऽहोशना-ऽद्वौ ब्रह्मचारिणावुपकुर्वाणो नैष्ठिकश्चेति, द्वौ वैखानसौ सपत्नीको विपत्नीकश्चेति, द्वौ संन्यासिनौ भिक्षुसन्यासी वेदसन्यासी चेति, बहुधा गृहस्थः शालीनयायावरादिभेदेनऽ; इत्यादि ।
ननु च स्मृत्यन्तरे वैखानसमभिधाय भिक्षुरित्युक्तः इह किमर्थं क्रमभेद इति ।
उच्यते ऽप्रागुत्तमास्त्रय आश्रमिणःऽ; इत्यत्र वैखानसवर्जनार्थः क्रमभेदः ।
तस्य ग्रामप्रवेशनप्रतिषेधादेव सिद्धमिति चेत् न, अर्थिनामरण्यगमनस्यापि सम्भवात् तथाच स्मृत्यन्तरम्-
चातुर्वैद्यो विकल्पी च नैरुक्तो धर्मपाठकः ।
ब्रह्मचारी गृही भिक्षुः पर्षदेषा दशावरा ॥
इति ॥
केचित्तु-
प्रजापत्यां निरुप्येष्टिं सर्ववेदसदक्षिणाम् ।
आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेत् गृहात् ॥
इति स्मृत्यन्तरमवलम्ब्य गार्हस्थ्यादेव संन्यासः कर्तव्य इत्येवमर्थः क्रमभेद इति वर्णयन्ति ।
तत्पूर्वसूत्रेणैव प्रतिपादितं उत नेति भूसुरैर्विचारणीयम् ॥
तेषां गृहस्थो योनिरप्रजनत्वादितरेषाम्
चतुर्णामप्याश्रमाणां गृहस्थः कारणं, अप्रजनत्वादितरेषां ब्रह्मचार्यादीनाम् ।
वैखानसार्था हेतूक्तिः, ब्रह्मचारिणो ब्रह्मचर्यरक्षणादेव सिद्धत्वादिभक्षोरप्यूर्ध्वरेतस्त्वविधानात् ।
एवं च वैखानसस्य सपत्नीकत्वपक्षे ऽपि ब्रह्मचर्यरक्षणं कर्तव्यम् ।
अधिकारादेव सिद्धे ऽतेषांऽ; ग्रहणं गृहस्थोत्पन्नानामेव तेषां धर्मे आधिकार इत्येवमर्थम् ।
तथाच शातातपः-
चण्डालाः प्रत्यवसिताः परिव्राजकतापसाः ।
तेषां जातान्यपत्यानि चण्डालैःसह वासयेत् ॥
इति तेषां गृहस्थ एव योनिरित्युक्ते एवकारादेवेतरेषां ब्रह्मचर्यरक्षणे सिद्धे एवमभिधानमेषां पुनर्निवृत्तिर्मा भूदिति ।
यदि ते गार्हस्थ्यं प्रति निवृत्ति भवेयुः तदा ते चण्डाला भवन्ति कुतः ? उदाहृतशातातपवचनात् ।
तत्र- चण्डाला भवन्ति ।
प्रत्यवसिताः प्रतिनिवृत्ताः ये परिव्राजकतापसाः नैष्ठिकवैखानसाः तस्मात्तेषां जातान्यपत्यानि चण्डालैःसहवासयेद्राजा ग्रामो वेत्यर्थः ॥
इदानीमाश्रमधर्मेषु क्रमेण वक्तव्येषु प्राप्तेषु सर्वाश्रमसाम्यादुपकुर्वाणस्य पूर्वमुक्त्वा नैष्ठिकस्य क्रमेण प्राप्तं वक्तुमाह-
तत्रोक्तं ब्रह्मचारिणः
तत्रोपनयनप्रकरेण यदग्नीन्धनाद्युक्तं तदस्यापि भवतीत्यतिदेशः ।
ननु च नैष्टिकस्यैवेदं नोपकुर्वाणस्येति कथं ज्ञायत इति ? उच्यते-उपकुर्वाणस्योक्तत्वात्, गृहस्थभिक्षुवैखानसानां वक्ष्यमाणत्वात्, नैष्टिकस्यैव भवतीति ।
तर्हि ब्रह्मचारिग्रहणं किमर्तमिति चेत् येनोपकुर्वाणव्रतमनुष्ठितं तस्यैव
नैष्ठिकत्वस्याधिकार इत्येवमर्थम् ।
अतिदेशात् उपकुर्वाणव्रतमेव नैष्ठिकस्याप्यनुष्टातव्यमित्युक्त्वा इदानीमस्य विशेषविधिमाह-
आचार्याधीनत्वमान्तम्
आचार्यपारतन्त्र्यं तच्चित्तानुविधायित्वं आ मरणात् कर्तव्यम् ॥
किंच-
गुरोः कर्मशेषेण जपेत्
गुरुशुश्रूषातिरिक्तकाले जपं कुर्यात् ।
एवं च जप एवास्य विशिष्टं धर्मसाधनमिति ॥
आचार्य इति प्रकृते गुरुग्रहणं मातापित्रोरपि शुश्रूषाप्रापणार्थम् ।
तथाच मनुः-
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।
न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत् ॥
इति ॥
गुर्वभावे तदपत्ये वृत्तिः
गुरोरभावे तदपत्ये शुश्रूषा, अध्यापयितुरभावे तदपत्ये शुश्रूषेति नियमार्थम् ।
गुरुग्रहणं समानजातीयापत्यग्रहणार्थम् ।
अपत्यग्रहणं भार्यानिवृत्त्यर्थम् ॥
तदभावे वृद्धे सब्रह्मचारिण्यग्नौ वा
तदभावे गुरुपुत्राभावे विद्यादिभिर्वृद्धे, तदभावे सब्रह्मचारिणिं समानचरणे, तदभावे अग्नौ ।
अग्नेः शुश्रूषा ज्योतीरूपस्याग्नेर्ध्यानम् ॥
किं पुनरस्याश्रमस्य फलमित्यत आह-
एवंवृत्तो ब्रह्मलोकमवाप्नोति जितेन्द्रियः
एवं यथोपदेशं वर्तमानो ब्रह्मलोकं ब्रह्मणः स्थानमवाप्नोति स चेज्जितेन्द्रियो भवति ।
ब्रह्मचर्यरक्षणोपदेशात् उपस्थेन्द्रियस्योक्तत्वात् इदं चक्षुरादिविषयं द्रष्टव्यम् ।
यथाऽह मनुः-
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नर ।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥
इति ।
उत्तरेषामप्येतदेव प्रधानमित्येवमर्थं फलावसाने विधानम् ॥
इदानीमन्येषामपि सामान्यधर्ममाह-
उत्तरेषां चैतदविरोधि
यद्ब्रह्मचारिण उक्तं तदुत्तरेषामपि भवति यदविरुद्धं द्यूतादिवर्जनम् ।
यद्विरुध्यते तद्व्यावर्तते यथाग्निकार्यं प्रव्रजितस्य, गुरुकुलवासो वैखानसस्य, गृहस्थस्य ब्रह्मचर्यरक्षणम् ।
चशब्दः उत्तरस्य यद्वक्ष्यमाणं तदप्यविरुद्धं पूर्वेषामपि भवतीति ज्ञापयति, ऽयथा न म्लेच्छाशुच्यधार्मिकैःसह सम्भाषेतऽ; इत्यादि ॥
अनिचयो भिक्षुः
इदानीं क्रमप्राप्तस्य गृहस्थस्य धर्मा वक्तव्याः, तान्विलङ्घ्य किमर्थं भिक्षोरभिधीयत इति चेत्,अत्रोच्यते- बहुवक्तव्यो गृहस्थः ।
तस्याभिधीयमानाः धर्माः अविरुद्धाः केचित्कथं नाम पूर्वेषां स्युरिति तदर्थं व्युत्क्रमेणाभिधानम् ।
तर्हि वैखानसस्य वक्तव्य इति चेत्, उपन्यासक्रमेणोक्तत्वाददोषः ॥
अतो भिक्षोस्तावदुच्यते ।
अनिचयशब्देनौपचयिकद्रव्यस्य त्याग उच्यते, न नित्यद्रव्यस्य शिखायज्ञोपवीतादेः ॥
ननु च नित्यस्यैव त्यागो युक्तः उपवीतशब्देन न्यासविशेषो ऽभिधीयते-
उद्धृते दक्षिणे पाणावुपवीत्युच्यते बुधैः ॥
इति ॥
यथार्थमुपवीतं यज्ञोपवीतम् ।
अस्य यज्ञाधिकाराभावात् ।
न कुण्ड्यां नोदके सङ्गे न चेले न त्रिपुष्करे ॥
नागारे नासने नान्ने यस्य स्यान्मोक्षवित्तु सः ॥
इति कुण्ड्यादीनां त्यागोपदेशात् ।
जाबालश्रुतावपि-ऽनखानि निकृत्य यज्ञोपवीतं विसृज्यऽ; इति यज्ञोपवीतस्य
त्यागोपदेशाच्चेति ॥
उच्यते-प्रथमं तावद्यदुक्तं यज्ञाधिकाराभावात् इति तत्र यागशब्दो देवपूजनादावपि वर्तते देवपूजनं त्वस्य ध्यानेन परमात्मपूजनामस्त्येव कुतः ?
अरण्यनित्यस्य जितेन्द्रियस्य सर्वात्मकप्रीतनिवर्तकस्य ।
अध्यात्मचिन्तागतमानसस्य ध्रुवा ह्यनावृत्तिरुपेक्षकस्य ॥
इति स्मृत्यन्तरदर्शनात् औत्मयाग एवाधिकारात् ।
तथाच श्रूयते श्रुतौ-ऽधर्माधर्मौ हविर्मनःस्रुवः प्राणो ऽध्वर्युरिन्द्रियाण्युद्गातारः शब्दादयो होता एतै ऋत्विग्भिस्तेन स्रुवेण तद्धविरहरहर्यतिना परमात्मन्यग्नौ होतव्यम्ऽ; इति ।
अतो योगाधिकारसद्भावाददोषः ।
यच्चोक्तम्- ऽन कुण्ड्यां नोदके सङ्गःऽ; इति तत्रापि कुण्डिकादीनां वैचित्र्यवर्जनार्थः सङ्गस्यैव परित्यागः, न कुण्डिकादेः ।
कुतः ? तत्रैव
ऽयज्ञोपवीत्युदककमण्डलुहस्तःऽ; इति वक्ष्यमाणत्वात् ।
तत्र ऽसर्वाश्रयाणां धर्मिष्ठंऽ; इति सर्वाश्रमाधिकारात् सामान्यत्वेन वर्तमानो ऽपि विशेषधर्मेण बाध्यत इति चेत्, न, यदि सर्वाश्रमाधिकारस्तत्रेष्यते तत्र प्रकरणे वाक्यार्थघटनार्थं ऽयज्ञोपवीत्युदककमण्डलुहस्तत्वम्ऽ; इति भावप्रत्ययेनैवावक्ष्यत् ऽपैशुनमत्सराभिमानाहंकारानार्जवात्मस्तवपरगर्हदम्भलोभक्रोधमोहविवर्जनं सर्वाश्रमाणां धर्मिष्ठम्ऽ; इति पूर्वमुक्त्वा ततश्चाभावप्रत्ययेन विशेषोद्देशेन ऽयज्ञोपवीत्युदककमण्डलुहस्तःऽ; इति निर्देशः सर्वाश्रमाधिकारनिवृत्त्यर्थ इति ज्ञातुं शक्यते ।
ततस्तत्र सर्वाश्रमाधिकाराभावात् पूर्वापरविरोधप्रसङ्गो मा भूदिति ऽन कुण्ड्यां नोदके सङ्गःऽ; इति सङ्गमात्रस्यैव त्यागः क्रियत इति ग्रहीतुं शक्यत एवेति ।
तदर्थ एव सङ्गशब्दस्यापि निर्देशः ।
तस्मात्तेनापि न कुण्ड्यादीनां त्यागः यच्चोक्तम्-ऽनखानि निकृत्य यज्ञोपवीतं विसृज्यऽ; इति तत्रापि प्रथमं संन्यासाश्रमप्रवेशकाले पुराणस्य यज्ञोपवीतस्य त्यागमात्रं क्रियते, न तदानीं गृह्यमाणस्य प्रतिषेधः ।
कुतः ? ऽनखानि निकृत्य पुराणं वस्त्रं यज्ञोपवीतं कमण्डलुं त्यक्त्वा नवानि गृहीत्वाऽश्रमं प्रविशेत्ऽ; इति स्मृत्यन्तरश्रवणात् ।
तस्मादौपचयिकतद्द्रव्यस्य त्यागः ॥
किञ्च-नित्यद्रव्यत्यागे भिक्षोराचमनाभावश्च प्राप्नोति, ऽआचमने यज्ञोपवीतिऽ; इत्यारम्भात् तदभावे आचमनस्याप्यभावः प्राप्नोतीति ।
ऽमुण्डशिखी वाऽ; इति मुण्डपक्षे आचमनाङ्गशिखावर्जितस्यापि आचमनं युष्माभिरभ्युपगम्यते, तद्वदस्माभिरपीति चेत्, न, तत्र वचनाददोषः ऽमुण्डःशिखी वाऽ; इति ।
युष्माकं तु यज्ञोपवीतं त्यक्तव्यमिति वचनाभावाद्दोष एवेति ॥
भिक्षुरनिचय इति वक्तव्ये धर्मास्यादावभिधानं नित्यस्याग्निहोत्रदारादेरपि त्यागार्थम् ।
एवं च गार्हस्थ्यादेव यः प्रव्रजेत् तेन श्रौतस्य च स्मार्तस्य चाग्नेः दारपुत्रप्रपञ्चयज्ञादिसहितस्य त्यागः
कर्तव्यः ।
वैसानसादेव यः प्रव्रजेत् तत्रापि सपत्नीकपक्षे प्राप्तस्य दारस्य श्रामणकाग्निसहितस्य पञ्चयज्ञादेरपि त्यागः कर्तव्यः ॥
केचिन्नैष्ठिकस्याप्यनिचयत्वविधानार्थमादाबभिधानमिति वर्णयन्ति ।
तदयुक्तं, ऽगुरोः कर्मशेषेण जपेत्ऽ; इति जपस्यैव प्रधानत्वेनोपदिष्टत्वात् तेनैवाग्निपरिग्रहादेरप्यभावो ज्ञातुं शक्यत एवेति ॥
ऊर्ध्वरेताः
ऽउत्तरेषां चैतदविरोधिऽ; इत्यनेन ब्रह्मचारिणः उक्तेन ब्रह्मचर्यरक्षणेनास्यापि सिद्धेरूर्ध्वरेतोग्रहणं यथा यथा रेतसः क्षयो भवति तथा तथोपायः कर्तव्य इत्येवमर्थम् ।
उपायश्चाल्पान्नाभ्यवहारादि ।
यथा चाह भगवान्वासुदेवः-
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोप्यस्य परं दृष्ट्वा निवर्तते ॥
इति ।
तथाल्पान्नाम्यवहाराभिप्रायेण स्मृत्यन्तरे ऽप्युक्तम् ऽअष्टौ ग्रासा मुनेर्भक्षःऽ; इत्यादि ।
एवंच ब्रह्मचारिणः संपूर्णभोजने न दोषः ।
तथा च स्मृत्यन्तरम्-
अनड्वान्ब्रह्मचारी च आहिताग्निश्च ते त्रयः ।
भुञ्जाना एव सिध्यन्ति नैषां सिद्धिरनश्नताम् ॥
इति ।
ध्रुवशीलो वर्षासु
वर्षास्विति बहुवचनात् ग्रामाद्ग्रामान्तरं चतुर्षु मासेषु न गच्छेदित्यर्थः ।
एकत्रापि वसन्न चङ्क्रमणप्रयासः स्यादिति शीलग्रहणम् ।
अनेनैवास्यानिकेतनत्वं सिध्यति ।
तथाच स्मृत्यन्तरम्- ऽग्रामान्ते देवगृहे शून्यागारे वृक्षमूले वाऽ; इति ।
शीलग्रहणं च कुर्वन्नेतत् ज्ञापयति, नावश्यमेवं भवेत् ।
ततश्च दुर्भिक्षराष्ट्रभ्रंशादौ गच्छेदपीति ॥
भिक्षार्थी ग्राममियात्
भिक्षा भिक्ष्यमाणत्वादन्नं वासः कमण्डल्वादिः, तदर्थं ग्रामं गच्छेत् अर्थाच्छेषं कालमरण्ये देवायतनादौ तिष्ठेदिति सिद्धम् ॥
ब्रह्मचारिभिक्षाकाले प्राप्त आह-
जघन्यमनिवृत्तं चरेत्
जघन्यं भोजनक्रियातः पश्चादित्यर्थः ।
तथाच मनुः-
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ॥
इति ।
अनिवृत्तं यस्मिन् गृहे प्रत्याख्यातं तस्मिन्दिने तद्ग्रहं पुनर्न प्रविशेदित्यर्थः ।
चरेदिति स्मृत्यन्तरोपसङ्ग्रहणार्थम् ।
यथाऽह वसिष्ठः-ऽविधूमे सन्नमुसले एकशाठीपरिहितो ऽजिनेन वाऽ; इति ॥
निवृत्ताशीः
भिक्षादानाभिवादनादावाशिषामप्रयोक्तेत्यर्थः ।
ऽहिंसानुग्रहयोरनारम्भीऽ; इत्यनेनैवेतल्लभ्यमिति चेत्, न , क्रियारूपत्वादनुग्रहस्य, वागात्मकत्वादाशिषः ॥
वाक्चक्षुःकर्मसंयतः
ब्रह्मचारिप्रकरणे ऽवाग्बाहूदरसंयतःऽ; इत्यनेनैव सिद्धे अतिशयार्थं पुनर्वचनम् ।
अतो वाक्संयमो मौनम्, अन्यत्र स्वाध्यायजपपथिप्रश्नधर्मयोगप्रश्नेभ्यः-
धर्मयोगं पथिप्रश्नं स्वाध्यायं च तथैव च ।
भिक्षार्थं देहिवचनं न निन्दति यतेरपि ॥
इति स्मृत्यन्तरवचनात् ।
चक्षुःसंयमः, आत्मनो व्याधेरपीक्षणं न कर्तव्यम् ।
तथा च वसिष्ठः-ऽउपेक्षकःसर्वभूतानाम्ऽ; इति ।
कर्मसंयमः यावद्विहितानुष्ठानमात्रं, काम्ये प्रवृत्तिर्मा भूदिति ॥
इदानीं ऽअनिचयो भिक्षुःऽ; इत्यनेन सर्वस्यैपचयिकद्रव्यस्य परित्यागे सति प्रतिप्रसवः क्रियते-
कौपीनाच्छादनार्थं वासो बिभृयात्
कौपीनामिति नग्नतोच्यते ।
तदावरणमात्रं वासः परिदध्यात् ।
एवं च प्रशस्तद्विजातिभ्यस्तावन्मात्रप्रतिग्रहे न दोष ।
ततश्च-
अभयं सर्वभूतेभ्यो दत्वा यस्तु निवर्तते ॥
हन्ति जातानजातांश्च प्रतिगृह्णाति यःसदा ॥
इति स्मृत्यन्तरे यद्दोषसंकीर्तनं तदस्मादन्यत्रेति द्रष्टव्यम् ॥
प्रहीणमेके निर्णिज्य
एके मन्यन्ते प्रतिग्रहदोषपरिहारार्थं प्रहीणं यद्रथ्यादौ त्यक्तं तत्प्रक्षाल्य परिदध्यात् निर्णिज्येति प्रत्यात्मिकशौचप्रापणार्थम् ॥
नाविप्रयुक्तमोषधिवनस्पतीनामङ्गमुपाददीत
ओषधयः फलपाकान्ताः ।
अपुष्पेण ये फलवन्तस्ते वनस्पतयः ।
उभयग्रहणेन सर्वे स्थावरा अपि गृह्यन्ते ।
तेषामविप्रयुक्तं ततो ऽनपगतं शाखापत्रादि न गृह्णीयात् ऽहिंसानुग्रहयोरनारम्भीऽ; इत्यनेन सिद्धमिति
चेत्, तत्र जङ्गमवध एव हिंसेति केचिद्वदन्ति ।
तदभिप्रायेणोक्तत्वाददोषः ।
उपशब्दात् प्रयोजयितापि न स्यात् ॥
ध्रुवशीलत्वोपदेशाद्वर्षाभ्यो ऽन्यत्र कामचारे प्राप्ते आह-
द्वितीयामपर्तु रात्रिं ग्रामे वसेत्
ऋतुशब्देन वर्षा एवोच्यन्ते ।
अपगते ऋतौ द्वितीयां रात्रिं ग्रामे न वसेत् ।
एकस्मिन्ग्रामे दिनद्वयं न वसेदित्यर्थः ।
ग्रामग्रहणादरण्ये न दोषः ।
अपर्तुग्रहणाद्वर्षासु कदाचित् द्वितीयामपि वसतो न दोषः ।
वर्षाशब्देन हेमन्तग्राष्मावुच्येते ।
ततश्च तस्मिन्वर्षाकाले एकत्रैव वसेदन्यत्र न वसेदित्यर्थसिद्धम् ॥
मुण्डःशिखी वा
जटिलप्रतिषेधार्थ आरम्भः ।
इच्छातो विकल्पः ।
वर्जयेद्बीजवधम्
बीजानां व्रीह्यादीनां वधं अवहननादि न कुर्यात् ॥
समो भूतेषु
सर्वप्राणिषु मध्यस्थः स्यात् आत्मपरपक्षविभागवर्जक इत्यर्थः ॥
हिंसानुग्रहयोरनारम्भी
ब्रह्मचारिप्रकरणे हिंसामित्यनेनैव सिद्धे अतिशयार्थमिदं पुनर्वचनम् ।
ततश्चाज्ञाते ऽपि प्राणिवधे अहरहस्तत्परिहारार्थं प्रायश्चित्तं कर्तव्यम् ।
तथाचाहोशना-ऽअज्ञातवधशुद्ध्यर्थं रात्रावहस्त्रीन्मप्राणायामान्धारयेत्ऽ; इति ।
अनुग्रहशब्देन स्नेह उच्यते ।
तमपि न कुर्यादित्यर्थः ॥
भिक्षोरुक्त्वा इदानीं वैखानसधर्ममाह-
वैखानसो वने मूलफलाशी तपःशीलः
वैखानसशब्दः सृतनिर्वचनः ।
सो ऽरण्ये वसन्मूलाद्यशनशीलः स्यात्, न संस्कृतमन्नमश्नीयादित्यर्थः ।
तपःशीलः शरीरपरिशोषणशीलः ।
एवंच मूलफलाद्यपि स्वल्पमेवाश्नीयात्, स्मृत्यन्तरदर्शनात् षोडशकृत्व एव ऽवानप्रस्थस्य षोडशऽ; इति ॥
श्रामणकेनाग्निमाधाय
श्रामणको नाम वैखानसानां शास्त्रम् ।
तेनाग्निमाधाय गृहीत्वा सायंप्रातर्हेमं कुर्यादिति शेषः ॥
अग्राम्यभोजी
मूलफलमपि ग्राम्यं न भक्षयेत् ॥
देवपितृमनुष्यभूतर्षिपूजकः
ग्राम्यान्नसाधनाः गृहस्थस्य पञ्च महायज्ञाः ।
अस्य चाग्राम्याहारप्रतिषेधात्तन्निवृत्तिर्मा भूदित्यारम्भः ।
तथाच मनुः-
आरण्यैर्विविधैर्मेध्यैः शाकमूलफलेन वा ।
एतानेव महायज्ञान् निर्वपेद्विधिपूर्वकम् ॥
सर्वातिथिः प्रतिषिद्धवर्जम्
यावदस्य आश्रमं गच्छति तत्सर्वमस्यातिथिरेव ।
ऽब्राह्मणस्यानतिथिरब्राह्मणःऽ; इत्यादिवर्णनियमः सङ्ख्यानियमो वा नास्तीत्यर्थः ।
प्रतिषिद्धाः स्तेनादयः प्रतिलोमजाश्च, तद्वर्जम् ॥
वैष्कमप्युपयुञ्जीत
विष्कैर्व्याघ्रादिभिर्हतस्य पशोर्मांसं वैष्कम् ।
तदुपयुञ्जीत ।
अपिशब्दो गर्हायाम् ।
ततश्चापद्येवोपयुञ्जीत ॥
न फालकृष्टमधितिष्ठेत्
अरण्ये ऽपि फालकृष्टप्रदेशं नाक्रामेत, आवासं तत्र न कुर्यादित्यर्थः ।
आक्रामेदिति सिद्धे अधितिष्ठेदिति वचनं प्रमादादाक्रमतो दोषाभावज्ञापनार्थम् ।
कृष्टमिति सिद्धे फालग्रहणं क्षेत्रसमीपे वासप्रतिषेधार्थम् ॥
ग्रामं च न प्रविशेत्
अफालकृष्टेनापि मार्गेण जनवासं न प्रविशेत् ।
चशब्दाद्ग्रामान्तरमपि ॥
जटिलश्चीराजिनवासाः
जटिलः केशी ।
जटिल एव स्यादिति नियमार्थ आरम्भः ।
चीरं दर्भादिनिष्पन्नम् ।
इदमधोवासो द्रष्टव्यम् ।
अजिनं चर्म ।
उत्तरीयमिदम् ।
तथाच स्मृत्यन्तरम्-ऽचीरवासा अजिनोत्तरीयश्चऽ; इति ॥
नातिसंवत्सरं भुञ्जीत
मूलफलमपि गतसंवत्सरं न भुञ्जीत ।
तथाच मनुः-ऽत्यजेदाश्वयुजे मासिऽ; इत्यादि ।
एवंच
संवत्सरमात्रनिचयः सिद्धः ॥
वैखानसस्योक्त्वा इदानीमेकीयमतेनाश्रमबाधपक्षं वक्तुकाम आह-
ऐकाश्रम्यं त्वाचार्यः प्रत्यक्षविधानात् गार्हस्थस्य गार्हस्थस्य
मूल पाठ: Dharmasūtra, 1-3 with Maskari's commentary Gautamasmṛtibhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0